०७ तारण-प्रार्थना

विषयः - यदुगिरिग्रन्थोक्तः

तत्त्व-तिरोधायक-स्वभाव-माया-तारण-प्रार्थना

विश्वास-प्रस्तुतिः

मदीयानादिकर्म-प्रवाह-प्रवृत्तां,
भगवत्-स्वरूप-तिरोधान-करीं
विपरीत-ज्ञान-जननीं
स्व-विषयायाश् च भोग्य-बुद्धेर् जननीं,
देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्म-रूपेण च +अवस्थितां,
दैवीं गुणमयीं मायां,
“दास-भूतः शरणागतोऽस्मि, तवास्मि दास” इति वक्तारं मां तारय

सुदर्शन-भट्टः

अथ प्रकृतिः, मदीय इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then, Sri Ramanuja goes on to describe the Moolaprakrti in the passage beginning with the word “Madeeya.”

बीजाङ्कुरन्यायात् अनादिता ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Karma is called “Anaadi” on account of the Nyaaya “Tree from the seed (Beejaankura Nyaaya)

‘गुणमाया समावृतः’ (जि. स्तो. १-३) इत्यस्य अर्थमाह - भगवत्स्व रूप इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Tirodhaana Kareem” reminds us of the passage in Geeta-“Gunamaya Samaavrta.”

विपरीतज्ञानं - देहे अहं धीः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Vipareeta Gnana is that knowledge which comprehends Deha (Body) as Aatman (Soul).

भोग्यभोगोपकरण रूपत्वम्1 आह देह इत्य्-आदिना ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The passage “Dehendriya” connotes that the Prakrti manifests itself as Bhogya (Enjoyable thing) and Bhogopakarana (means for enjoyment).

दैवीं - त्वल्लीलार्थम्2

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The word “Daiveem” denotes that all these are for His recreative purposes.

दासभूतं - माम् इति सम्बन्धः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Daasabhootam is adjective qualifying “maam”. (The other reading is Daasabhuta: This is adopted by Sri Desika and he renders an interesting meaning to the words. Dasabhuta: denotes OM; Saranagatosmi denotes Nama :- Tavasmi Dasa: denotes Naaraayanaya).

शरणागतोऽस्मि3 तवास्मि इति
पूर्वोत्तरखण्डार्थः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The first half of Dvayamantra is contained in its essence in Saranaagatosmi and the second half is in Tavaasmi Dasa:

वक्तारम् - ‘भवशरणमितीरयन्ति’ (वि.पु. ३-७-३३) इति हि उच्यते ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Vaktaaram: Even an utterance of the words “Bhava saranam” gets one to salvation. Cf. “Bhava Saranam itieerayanti.”

वेङ्कट-नाथः

एवं कर्मनिवृत्तिः प्रार्थिता, अथ कर्महेतुप्रकृतिसम्बन्धनिवृत्तिः कर्मनिवृत्त्यैव भवन्त्यपि सर्वेश्वरबुद्धिविशेषाधीनेति ज्ञापयितुमभ्यर्थ्यते - मदीय इति । ईश्वरस्य वैषम्यनैर्घृण्यपरिहारार्थं मदीय इत्युक्तम् । अन्योन्याश्रय4 निवारणाय बीजाङ्कुरादिन्यायमभिप्रेत्याहअनादिकर्मप्रवाहप्रवृत्ताम् इति । प्रकृतिस्वरूपस्य पुरुषवत् अनादित्वात् तत्प्रवृत्तिमात्रे कर्महेतुकत्वमुक्तम् ।

तत्र च, ‘गुणमायासमावृतः’ (जि. स्तो. १-३) इत्य्-आदि-प्रसिद्धम्प्रतिकूल प्रवृत्तित्रयं भगवत्स्वरूप इत्य्-आदिभिराह । भगवत्स्वरूपतिरोधानं नाम क्षेत्रज्ञानां भगवत्स्वरूपविषयज्ञानप्रसरनिरोधः । तथा च अत्यन्ततिरोधानाद सत्वबुद्धिम्, सामान्यतो विदितेऽपि भगवति5 सर्वाश्रयत्वादिधर्मतिरोधानादरत्वादिबुद्धिम्, तदन्येषु स्वनिष्ठत्वादिबुद्धिं च करोतीत्याह विपरीतज्ञानजननीम् इति । इदं च जीवस्वरूपतिरोधानतन्मूलदेहात्मभ्रमादेः उपलक्षणम् । एवं तत्त्वत्रयतिरोधानफलभूतं विपरीतज्ञानान्तरमाहस्वविषयाया इति । प्रकाशमानेषु वस्तुषु तिरोधानं नाम तत्तद्भेदकधर्मग्रहण निवारणम् । इदमेव हि सर्वत्र भ्रान्तेर्निदानम् । उक्तस्या प्याकार6 त्रयस्य हेतुभूतमवस्थाचतुष्टयं देह इत्य्-आदिभिरुच्यते । देहेन्द्रियत्वेन भोगायतनतया भोगोपकरणतया च । भोग्यत्वेन - शब्दादिगुणविशिष्टभूत पञ्चकरूपत्वेन । सूक्ष्मरूपेण - देहादिपरिणामरहितांशेन । सेयं प्रकृति रिदानीं चतुर्भिरपि अंशैरपकरोति । प्रलयदशायां तु सूक्ष्मरूपेणैव तिरोधानमात्रं करोतीति व्यवस्था ‘देहयोगाद्वा सोऽपि ’ (ब्र. सू. ३-२-५) इति सूत्रभाष्ये’ द्रष्टव्या । ईदृश्याः प्रकृतेः दुरत्ययत्वं स्वतन्त्रलीलाप्रवृत्ततयेति ‘दैवी ह्येषा गुणमयी’ (भ.गी. ७-१४) इत्य्-आदिना त्वयैव गीतमिति सूचयति दैवीम् इति । तिरोधानादिहेतुभूतैरवस्थाचतुष्टयानुवृत्तेः बन्धहेतुभिः सत्त्वादिगुणैः प्रचुरतामाह - गुणमयीम् इति । ‘सत्वादिगुणसमुदाय एव प्रकृतिः,’ इति साङ्ख्यपक्षस्तु, ‘गुणाः प्रकृतिसम्भवाः (भ.गी. १४-५) ‘प्रकृतेर्गुणसम्मूढाः’ (भ.गी.३-२९) इत्य्-आदि-व्यधिकरणप्रयोगबलात् निरस्तः ।

क्वचित्तु सत्वरजस्तमः शब्दानां द्रव्यपर्यन्तः प्रयोगः ‘तद्गुणसारत्वात्तु तद्व्यपदेशः ‘(ब्र.सू. २-३-३९) इति न्यायेन नेतव्यः। एवमनन्तैर्विभागैर्व्यापारैः परिणामैः गुणैश्च प्रख्यातमाश्चर्यत्वं समाख्यविशेषेण आह - मायाम् इति । मायां मां तारय इति द्विकर्मकतयाऽन्वयः ।

दासभूत इत्य्-आदिभिर्मूलमन्त्रपदत्रयार्थः सूच्यते । ‘दासभूताः स्वतः सर्वे,
(मं.रा.स्तो.१२) ‘आत्मदास्यं हरेः स्वाम्यम्’ (वि.त.) इत्य्-आदि-प्रसिद्धं स्वभावतो दासत्वं च्विप्रत्ययाभावेन व्यज्यते । द्वयेऽपि नार-शब्दवाच्यानां जीवानां तात्पर्यवृत्त्या दासत्वं ग्राह्यम् । दूरं पलायितेऽपि मयि त्वत्सम्बन्धस्तावत् दुस्त्यजः । दास्यप्रतिबोधश्च मे सम्प्रति जात इति भावः । शरणागतोऽस्मि तवास्मि दासः इति पूर्वोत्तरखण्डार्थनिष्ठत्वं समुच्चित्योक्तम्।
‘स्वरूपभरलाभेषु तवैव न ममेति यत् ।
प्रपन्नस्यानुसन्धानं सारं तदिह दर्शितम्’ ॥
अस्मि इति प्रार्थनाभिप्रायम् । दासोऽस्मि - दासवृत्तिपरः स्यामित्यर्थः ।

अन्यथा तु दासभूत इत्युक्तस्यैव पुनर्वचनमात्रं स्यात् । शरणागतोऽस्मि तवास्मि दासः इति निर्देशौ प्रार्थनात्मनिक्षेपपरौ, इति केचित् । आर्तो वा दृप्तो वा द्वयवक्ताऽहं तव दयनीय इत्यभिप्रायेणाह - इति वक्तारम् इति । यद्यप्यत्र फलप्रार्थनार्थं प्रपत्तिकर्तृत्वानुवाद एव युक्तः, तथाऽपि तद्वचन कर्तृत्वानुवादः ‘भव शरणमितीरयन्ति’ (वि.पु. ३-७-३३) इत्याद्यभिप्रेत-वचनप्राशस्त्यादिव्यञ्जनार्थः ।

माम् - ‘स्वयं मृत्पिण्डभूतस्य’ (म.भा. शां. २९४-१९) इत्य्-आदि-प्रसिद्धं स्वरक्षणासमर्थम् । त्रिगुणद्रव्यस्य नित्यतया नाशाभावात् तारय इत्युक्तम् । एतेन, ‘दुरत्यया’ (भ.गी.७-११) इत्युक्तं स्वयत्नेन दुस्तरत्वम्, ‘मामेव ये प्रपद्यन्ते’ (भ.गी.७-११) इत्य्-आदिनाऽभिप्रेतं पराधीनतरणं च गम्यते ।

एवं नमः शब्दे निवर्तनीयतयाऽभिप्रेतस्य पापस्य भ्रमस्य प्रकृतिसम्बन्धस्य च मिथःकार्यत्वं कारणत्वं च यथायोगं द्रष्टव्यम् ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(14) “I am Thy servant. I have surrendered myself unto Thee. Help me, Thy servant, Oh Lord! to cross over Thy Moolaprakruti, of Three Gunas which flow like a current of the beginningless and endless Karma which hides from my vision, Thy natural, Form and produces in me a perverted knowledge about Thee and a sense of (false) satisfaction in me in the enjoyment of material matters existing (in the world) in all manner of forms, subtle and gross - in body, senses and objects of enjoyment.

मूलम्

मदीयानादिकर्मप्रवाहप्रवृत्तां, भगवत्स्वरूप तिरोधानकरीं विपरीत ज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां, दैवीं गुणमयीं मायाम्, “दासभूतः शरणागतोऽस्मि तवास्मि दासः” इति वक्तारं मां तारय ।

विषयः - यदुगिरिग्रन्थोक्तः

स्वस्य गीतोक्त-परज्ञानप्रार्थना

विश्वास-प्रस्तुतिः

“तेषां ज्ञानी नित्य-युक्त
एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो ऽत्यर्थम्
अहं, स च मम प्रियः ॥“ (भ.गी. ७-१७)

सुदर्शन-भट्टः

अथ चतुर्थ्यर्थम् इष्टप्राप्तिं प्रार्थयते तेषाम् इत्य्-आदिना ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Next, Sri Ramanuja prays for the securing of the desired gains which are implied with the dative (fourth) case from Srimate Naarayanaaya contained in the Dvaya.

सुदर्शन-भट्टः

परभक्ति-स्थाने प्रपदनम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Because it is the accepted doctrine that by Prapatti alone Moksha is secured to the surrenderer. Prapatti stands in the place of Parabhakti.

पर-ज्ञान–परम-भक्ती देह-सम्बन्ध-वेलायाम्
उपासकस्य उपाय-कोटि-निविष्टे ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Even in the case of a person engaged in Bhaktiyoga, these two are obtained by him during the time his connection with the body continues. They are, however, Upaaya (means) for salvation in his case.

प्रपन्नस्य तु +उभय-कोटि-घटिते।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

But in the case of a Prapanna they are not Upaayas but really gains (Upeyas) obtainable just before Moksha.

अतः परज्ञानं प्रार्थितं तेषाम् इत्य्-आदिना ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Of these two, Paragnana is prayed for in the first instance by the passage Teshaam, etc.

वेङ्कट-नाथः

अथ निर्वेदमान्द्यात् ईषद्विलम्बक्षमाणामत्रत्यविशदज्ञानभक्तयोरपि कैङ्कर्योपयोगितया चतुर्थ्यभिप्रेतफलकोटिघटितत्वात् स्वयम्प्रयोजनं तदुभयं तेषाम् इत्य्-आदिना प्रार्थ्यते ।

‘तत्-पाद-भक्ति-ज्ञानाभ्यां
फलम् अन्यत् कदाचन ।
न याचेत् पुरुषो7 विष्णुं
याचनान्नश्यति ध्रुवम्’ ॥
( पाञ्चरात्रम्)

इति तावन्मात्रप्रार्थना ह्यनुज्ञाता ।

अत्र परभक्ति-वचनं तदनन्तरभावि-पर-ज्ञान–परम-भक्त्योर् अप्य् उपलक्षणम् ।
तच्च प्रतिवचनभागे व्यञ्जयिष्यते ।
ज्ञानी ‘प्रकृतिं विद्धि मे पराम्’ (भ.गी.७-५) इत्य्-आदि-प्रतिपादित-भगवच्-छेषतैक-रसात्म-स्वरूप-वित्
भगवन्तम् एव परम-प्राप्यं मन्वानः ।
नित्य-युक्तः - ऐश्वर्याद्यर्थिनां स्वाभिलषितप्राप्तौ सिद्धायां भगवता योगो निवर्तते, ज्ञानिनस्तु च तथेति भावः ।
एकभक्तिः - न तु प्रयोजनान्तरविभक्तभक्तिरित्यर्थः ।
एतदुभयं ज्ञानी विशिष्यत इत्यस्य हेतुः ।
अत्यर्थम् - अत्यभिधेयम्, सर्वज्ञेन सर्वशक्तिना मयाऽपि दुर्वचमिति भावः ।
स च मम प्रियः इत्यत्रापि अत्यर्थम् इत्येतदनुषज्यते ।
यद्वा, स्वप्रीत्यपेक्षया स्वभक्तप्रीतेः प्रकर्षोक्त्या स्तुतिः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Slokas:

(a) Of them (the four classes of Devotees), the one who is steadfast and concentrates his devotion on me only is above the others - for to him I am excessively dear: So also is he dear to Me.

मूलम्

“तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥“

विश्वास-प्रस्तुतिः

“उदाराः सर्व एवैते
ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितस् स हि युक्तात्मा
माम् एकाम् उत्तमां गतिम् ॥“ (भ.गी. ७-१८)

वेङ्कट-नाथः

आत्मैव - सर्वान्तरात्मनो ममाप्यन्तरात्मैव ।
नन्विदं प्रमाण-विरुद्धम् इत्यत्राह - मे मतम् इति ।
प्रकृष्ट-प्रीति-विषयत्वेनातिवादान् न विरोधः ।
तथाऽत्यादरे हेतुमाह - आस्थित इति ।
युक्तात्मा - मद्-विरहस्यातिदुःसहतया
मयि नित्य-योग-प्रवृत्तमनाः ।
अनुत्तमां गतिम् - परमप्राप्यम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(b) Indeed, I consider: All these (the four classes) are generous; but of them the Gnani the wise is My Inner Self. He, being steadfast in his mind, rests on Me, as the Supreme Goal.

मूलम्

“उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥“

विश्वास-प्रस्तुतिः

“बहूनां जन्मनाम् अन्ते
ज्ञानवान् मां प्रपद्यते
‘वासुदेवस् सर्वम्’ इति
स महात्मा सुदुर्लभः ॥“ (भ.गी. ७-१९)

वेङ्कट-नाथः

जन्मनाम् - पुण्यजन्मनाम् ।
ज्ञानवान् - पूर्वोक्तज्ञानवान् । ‘वासुदेवः सर्वमिति प्रपद्यते’ इत्यन्वयः । सर्वम् - प्राप्यप्रापकादि । ‘रामस्य व्यवसायज्ञः’ (रा. सुं.१६-४) इत्य्-आदि-निदर्शितज्ञानविशेषवत्वात् महात्मत्वोक्तिः । ‘महामनाः’ (भ.गी.भा.७-१९) इति भाष्यम् ।

सुदुर्लभः - मत्तः प्रयोजनान्तरार्थिन आर्तादयोऽपि दुर्लभाः ।

अयं तु कर्म-वश्य-मध्ये
भक्त-लाभार्थिना मया
देशिकार्थिभिश् चान्यैः
सुदुर्लभः, लब्धश् चेद् अयम् अलभ्य-लाभ इति भावः ।+++(5)+++

उक्तं हि श्रीपौष्करे -

‘दुर्लभा भगवद्-योग-
भाविनो भुवि मानवाः ।
तद्-दर्शनात् तदालापात्
सुलभं शाश्वतं पदम्’ ॥
(पौ.सं.) इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(c) At the end of many births, a man having realised that Vasudeva is the All, comes to Me, He is Mahatma, rare indeed to find.

मूलम्

“बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥“

विश्वास-प्रस्तुतिः

इति श्लोक-त्रयोदित-ज्ञानिनं मां कुरुष्व ॥ १४ ॥

वेङ्कट-नाथः

माम् - ‘अज्ञो जन्तुर् अनीशो ऽयम्’ (म.भा. शां. १२-३६) इत्युक्तेषु मूर्धाभिषिक्तम् । श्लोकत्रयोदितज्ञानिनं कुरुष्व - क्रियाफलं त्वद्गामीत्यात्म नेपदेन व्यज्यते ।

अव्यवहितत्वाद् इह श्लोक-त्रय इत्युक्तम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(15) Please, Oh! Lord, favour me and make me a Gnaani like the one described in the above three Slokas:

मूलम्

इति श्लोकत्रयोदित ज्ञानिनं मां कुरुष्व ॥ १४ ॥

विषयः - यदुगिरिग्रन्थोक्तः

स्वस्य गीतोक्त भक्तिज्ञानसम्पन्नत्वापादनप्रार्थना

विश्वास-प्रस्तुतिः

पुरुषस्य परः पार्थ,
भक्त्या लभ्यस् त्व् अनन्यया ।“ (भ.गी. ८ - २२ )

भक्त्या त्व् अनन्यया शक्यः” (भ.गी. ११-५४)

मद्-भक्तिं लभते पराम्” (भ.गी. १८-५४)

इति स्थान-त्रयोदित-पर-भक्ति-युतं मां कुरुष्व ॥ १५ ॥

सुदर्शन-भट्टः

अथ परम-भक्ति-प्रार्थनम् -
पुरुषः स पर इत्य्-आदिना ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

And by the next passage beginning with “Purusha: Sa Para:, Parama Bhakti is prayed for and not Para Bhakti.

व्यवहितत्वात् स्थान-त्रय इत्युक्तं, न तु श्लोक-त्रय इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The words “Sthaana Traya” are used to denote that the passages are found disconnected and in three different places in Geeta.

वेङ्कट-नाथः

परभक्ति-श्लोकानां भिन्न-प्रकरण-स्थतया स्थान-त्रय इत्युक्तम् ।

माम् ‘या प्रीतिरविवेकानाम्’ (वि.पु. १-१९-२०) इत्युक्तेषु बाह्यविषयसक्तेष्वग्रगण्यम् ॥

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Also make me endowed with Parabhakti described in the following three passages in Bhaghavad Geeta :-

(i) Oh Arjuna! That Supreme Person is attainable only by Bhakti undistracted.

(ii) He is to be attained only by Bhakti which seeks no other benefit than that of attaining Him.

(iii) He obtains that supreme devotion to Me.”

मूलम्

“पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया”, “भक्त्या त्वनन्यया शक्यः” “मद्भक्तिं लभते पराम्”
इति स्थानत्रयोदित परभक्तियुक्तं मां कुरुष्व ।

विश्वास-प्रस्तुतिः

पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++
+एक-स्वभावं
मां कुरुष्व ॥ १६ ॥

सुदर्शन-भट्टः

अथ बन्ध-निवृत्तेर् अनन्तर-भाविनीः
पर-भक्ति–पर-ज्ञान–परम-भक्तीः
प्रार्थयते -परभक्ति इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In the next sentence, he again refers to Parabhakti, Paragnana, Paramabhakti, but they are qualities attained by a Released soul only in the stage of Moksha.

अत एव हि एक-स्वभावम् इत्युक्तम् । पूर्ववद् अर्थः।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

That is why, the qualification pointed natural qualification-a stage not attainable in Samsaara.

वेङ्कट-नाथः

अथ शरीरपात-समय-भाविनो बुद्ध्य्-आकारान् अभ्यर्थयते - परभक्ति इति ।
अथवा, मुक्ति-दशा-भाविनां पर-भक्त्य्-आदीनाम् इदम् अपेक्षणम् ।
एकस्वभावत्वोक्तिर् हि अत्रत्य परभक्त्यादिव्यवच्छेदार्था ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Make me also endowed with constant Para Bhakti, Para Gnaana and Parama Bhakati.

मूलम्

परभक्तिपरज्ञानपरमभक्त्यैकस्वभावं मां कुरुष्व ॥ १६ ॥

विषयः - यदुगिरिग्रन्थोक्तः

भगवति स्वस्य भक्ति-ज्ञानादि-सहकृत-नित्य-किङ्करत्व-सम्पत्ति-प्रार्थना

विश्वास-प्रस्तुतिः

पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++
–कृत
–परिपूर्ण-+अनवरत-नित्य-विशदतम-+अनन्य-प्रयोजन
-+अनवधिक+अतिशय–प्रिय-भगवद्-अनुभवो ऽहं
तथा-विध–भगवद्-अनुभव-जनित-
+अनवधिक+अतिशय-प्रीति-कारिताशेष-शेषता-+एक-रति-रूप-
-नित्य-किङ्करो भवानि ॥ १७ ॥

सुदर्शन-भट्टः

अथ भगवज्-जनित8-प्रीति–तत्-कारित-कैङ्कर्याणि प्रार्थयते पर इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Next, Sri Ramanuja prays for that feeling of satisfaction arising out of the conscious experience of the Lord and also for its consequence i.e., various services to the Lord.

पूर्ववद् अर्थः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(The next passage has been already explained).

शेषतैक-रति-रूप-शब्दः बहुव्रीहिः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Seshataika Rati Roopa” is a Bahuvrihi compound.

वेङ्कट-नाथः

उक्तानाम् एव तत्रत्य-पर-भक्त्य्-आदीनां सादरानुवादेन
कैङ्कर्य-पर्यन्ततां याचते - पर इति ।
अत्र त्वद् इति वक्तव्ये भगवत्-शब्दः अनुभाव्य-पौष्कल्य-स्फुटी-करणार्थः ।
किङ्कर-विशेषणे शेषतैक-रति-रूप-शब्दे
शेषतैक-रतिर् एव रूपं निरूपकं यस्येति भाव्यम् ।
भवानि इति प्रार्थना ।
त्वत्-किङ्कर-भावात् पूर्वम्
असत्-कल्पो ऽहम् इति च9 सूच्यते ।
एवं द्वयार्थो व्याख्यातः ॥

सर्व-ज्ञेऽपि स्वतो देवे
याच्ञा-विज्ञापनादिभिः ।
तत्-तद्-इष्ट-प्रदित्सात्मा
+++(याच्ञया)+++ प्रीतिर् एव प्रसाध्यते
तद् एव चोदनोपज्ञम्
अ-पूर्वं तत्त्व-वेदिनाम्
आराध्येन्द्राद्य्-अपायेऽपि
फल-दानाय तिष्ठति

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

I pray that I may become Thy servant in ever constant service to Thee - I having acquired the experience of the Lord, i.e., full and clear and constant, highly desired, having no other object in view and produced by Para Bhakti, Para Gnana and Parama Bhakti, a service which is the result of great urge to perform services of all forms suited to the conditions and circumstances of the moment, which are produced by the unlimited love and devotion to Thee arising out of the experience as stated above.

मूलम्

परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं, तथाविध भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ॥ १७ ॥


  1. रूप -इ । ↩︎

  2. त्वल्लीलार्थाम् - इ । ↩︎

  3. दासभूतोऽस्मि - इ । ↩︎

  4. अन्योन्याश्रयादिअ ↩︎

  5. भगवतः - अ । ↩︎

  6. पकार - आ । ↩︎

  7. प्रणतोअ । ↩︎

  8. भगवदनुभवजनित - इ । ↩︎

  9. इति - अ । ↩︎