विश्वास-प्रस्तुतिः
तस्मात् प्रणम्य प्रणिधाय कायम्
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियाय +अर्हसि देव सोढुम् ॥ १० ॥ (भ.गी.११-४४)
सुदर्शन-भट्टः
प्रपत्तिं विवृणोति तस्मात् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then, Prapatti (meaning conveyed by Prapadye) is expounded.
ईशम् ईड्यम् -
‘न तस्येशे कश्चन, तस्य नाम महद्-यशः’ (महाना.उ.१-१-२) इतिवत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Isam Idyam” conveys the idea that there is no “Isa” (Lord) above Him and He alone is to be worshipped. Compare the Santi passage “None to Lord over Him, the Highest is His glory.”
पित्रादयस् तत्-तत्-सम्बन्धाद्+धि क्षमन्ते ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Parents, etc., forgive and bear with us because of their respective relationship.
अतः सर्व-विध-सम्बन्धात् त्वया क्षन्तव्यम् इत्यर्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
But Iswara does it because of His eternal connection with us in all manner of ways (not merely relationship by birth); He is bound to forgive us.
प्रार्थना-पर्यन्त-महाविश्वासः प्रपत्तिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
What is Prapatti? Prapatti is the Supreme Faith in the Lord which culminates in solicitation to Him of our desires
महा-विश्वास-पूर्विका प्रार्थना वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
or it may mean the Prayer preceded by the supreme Faith.
वेङ्कट-नाथः
तस्मात् तवैव1 सर्व-विध-बन्धुत्वात्,
प्रभावतः कारुण्यादि-गुणैश् च सर्वाधिकत्वात्,
त्वद्-विषयापराधस्य पित्रादि-सर्व-विषयापराध-रूपत्वात्
सर्व-विषयापराधानां त्वद्-आज्ञातिलङ्घन-रूपत्वेन
त्वद्-अपराधत्वाच् चेति भावः ।
प्रणम्य इत्य्-आदिकं
प्रपद्ये इत्यस्य विवरणम् ।
प्रकृष्टः प्रह्वीभावश् चात्र प्रकरणात् प्रपत्तिरूपः ।
स च पूर्वकृत एव फल-विशेष-प्रार्थनार्थम् इहानूद्यते ।
काय-प्रणिधानम् - अत्र
स्वर-क्षणार्थ-स्व-व्यापारान्तर-निवृत्ति-व्यञ्जक-मात्रम् ।
प्रणम्य प्रसादये - प्रपदनरूपं प्रसादनम् अनुतिष्ठामि ।
भक्तिवत् प्रपत्तिर् अपि प्रसादन-विशेषः । मदिष्टविघातानिष्टप्राप्तिहेतुभूतमत्कृतापराधजनिताप्रीतिरूपकालुष्यरहितं करोमीत्यर्थः । त्वाम् - स्वतः सर्वभूतानां सुहृदं मदपराधात् कलुषितबुद्धिम् । अहम् - अकिञ्चनोऽनन्यगतिः त्वत्पत्न्या दत्तवरः त्यक्तत्वदितरसाध्यसाधनश्च । ईशम् - सापराधनिग्रहादिसमर्थम् । ईड्यम् - क्षमादिभिः स्तुत्यम् । ‘न तस्येशे कश्चन तस्य नाम महद्यशः’ (महाना.उ.१-१-२) इति श्रुत्युक्तमनेन पदद्वयेन दर्शितम् । क्षुद्रोऽपि जन्तुः सम्बन्धविशेषात् अपराधं सहते, किं पुनस्त्वमित्यभिप्रायेण पित्रादिदृष्टान्तः ।
प्रियः प्रियाय - मत्प्रीतिविषयस्त्वं त्वत्प्रीतिविषयाय मह्यम् । ‘प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः’ (भ.गी. ७-१७) इति हि स्वयमेवात्थ ।
अर्हसि देव सोढुम् इति वक्ष्यमाणसङ्ग्रहः ।
संसार-मोचनम् अपि ते लीलैवेति देव-शब्दाभि 2प्रायः2 ।
एतावद्-अन्तं +++(द्वयमन्त्रस्य)+++ पूर्व-खण्ड-विवरणमिति केचित् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(d) Therefore prostrating before Thee, with my body bent in adoration, I pray unto Thee, the adorable Master. Thou art like a Father unto a son, like a Friend unto a Friend, affectionate as to a Dear Person. Thou alone canst save me.
मूलम्
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥
विषयः - यदुगिरिग्रन्थोक्तः
भगवत्-प्रपदन-प्रसाधन-विरोधि-विविधापचार-क्षमायाचना
विश्वास-प्रस्तुतिः
मनो-वाक्-कायैर्
अनादि-काल-प्रवृत्त+
अनन्त+अकृत्य-करण–कृत्य-अकरण–
भगवद्-अपचार–भागवत+अपचार+असह्य+अपचार-रूप
-नाना-विध+अनन्त+अपचारान्
आरब्ध-कार्यान् अनारब्ध-कार्यान्
कृतान् क्रियमाणान् करिष्यमाणांश् च
सर्वान् अशेषतः क्षमस्व ॥ ११ ॥
सुदर्शन-भट्टः
अथोत्तरखण्डं विवृण्वन्
इष्ट-प्राप्तेर्
अनिष्ट-निवृत्ति-पूर्वकत्व-रूपार्थ-क्रमात्
प्रथमं नमश्-शब्दार्थम् आह
मन इत्य्-आदिना ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sri Ramanuja then starts to expound the later portion of “Dvaya”. In doing so, he first deals with the meaning of the word “Nama: “I salute”. The word Nama: is taken first and even before the passage “Srimate Naraayanaya” (though it is earlier in sequence), because Good follows only after driving out the Evil. “Srimate Naraayanaya” indicates the attainment of Good, and “Nama,” Destruction of Evil.
अनादि-काल-प्रवृत्तत्त्वम् आनन्त्यहेतुः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then Ramanuja prays for purification from his sins. Anaadikaala Pravrtta (collected over a long period of endless Time) is the reason for its being “Ananta.”
प्रथमम् अनन्त-शब्दः सामान्यापराध-विशेषणम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The earlier word Ananta is an adjective qualifying all kinds of Apachaara (offences-the doing of prohibited acts and omitting to do acts prescribed,) in general.
सामान्यापराधम् उक्त्वा विशेषापराधमाह - भगवत् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The second Ananta qualifies Apachaara. After referring to offences generally in the first instance, Sri Ramanuja goes on to specific offences, in the passage beginning with “Bhagavat.”
भगवद्-अपचारः - शिशुपालादिकृतः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Bhagavat Apachaara is an offence like, one committed by Sisupala.
भागवतापचारः तु भागवत-विषये अर्थादि-निमित्तान्तरेण कृतः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Bhaagavat Apachaaras are offences towards His devotees (may be in the matter of money and other causes)
भागवतापचारः - भगवद्-अपचारः,
भगवदपचारो - भागवतापचार इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
or it may be taken to mean that offences towards His Devotees are offences against Him also. That is denoted by Bhaagavat Apachaara. Offences against the Bhaktas or Bhaghavatas are Bhaagavata-Apachaara. [In the commentary the words Bhaaghavata Apachaara is repeated twice. But it makes the sense obscure and illogical. Hence one of them is to be omitted. Otherwise offence against Bhagvan will be taken an offence against Bhaagavatas also.]
भागवत-भक्त-विषयापचारः - असह्यापचारः,
आचार्य-विषयापराधो वा ,
भागवते अभागवतत्व-निमित्तापराधो3 वा,
अर्चावतार-विग्रहस्य अवैलक्षण्य-प्रतिपत्तिर् वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Asahya Apachaara means offences against Acharya or it may mean offences committed against Bhaagavatas, believing that they are not His Devotees or it may mean the belief that the idols in the temples are not any different from ordinary play-dolls.
ऐकैककोट्य्-अवान्तर-भिदा-परो नानाविध-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
By the word “Naanaa Vidha’ is denoted that there are many sub-divisions in each of these various offences.
सर्व-शब्दः अपराधव्यक्तिकार्त्स्न्यपरः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word “Sarva” is used to include all and every offences in its fold.
कर्मणां वैदिककर्मानर्हतापादनशक्तिः,
प्रत्यवायकरत्व-शक्तिः वासना-जनकत्व-शक्तिश् चास्ति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Karmas have the capacity to make a man unfit for Vaidic ceremonies, to make him suffer the consequence of his sinful acts and to create in him a tendency to commit similar sinful acts.
तत्र अन्यतम-शक्ति-मात्रं क्षमा-विषयो मा भूद् इति अशेषत इत्युक्तम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
With a view not to exclude any of these categories, the word “Aseshatha :” is used.
वेङ्कट-नाथः
अथोत्तरखण्डस्थस्यापि सविशेषण-नारायण-शब्दस्य
पूर्वम् एव व्याख्यातत्वात्,
अवशिष्टयोश् च चतुर्थी-नमसोः
पाठक्रमाद् अर्थक्रमस्य बलीयस्त्वात्
प्रथमं मनो-वाक्-कायैर् इत्य्-आदिभिस् त्रिभिर् वाक्यैर्
इष्टप्राप्तेः पूर्वभाविनीं
ममकार-निवृत्ति-वाचि-नमः-शब्दविवक्षितां सर्वानिष्ट-निवृत्तिं प्रार्थयते ।
तत्र सर्वस्य चानिष्टस्येष्टविघातस्य च कर्ममूलत्वात्
तन्निवृत्तिः पूर्वमभ्यर्थ्यते । मानसादि भेदेन त्रिविधः पापराशिः, तद्विपाकश्च मन्वादिभिर्विभक्त इति ज्ञापनाय करणत्रयोपादानम् । अकृत्यकरणादेः अहेतुकत्वमन्योन्याश्रयादिकं च परिहर्तुमाह - अनादि-कालप्रवृत्त इति । हितप्रवृत्तियोग्यैः करणैरेतावन्तं कालमहिते प्रवृत्तोऽस्मीति निर्वेदश्चात्र व्यञ्जितः ।‘यद्ब्रह्मकल्प’ (वै. स्त.६२) इत्य्-आदि-प्रक्रियया अनादिकालप्रवृत्तम् अत एव अनन्तम् । प्रथमोऽनन्त-शब्दः अकृत्यकरण-कृत्याकरणरूपसामान्यापचारयोः अन्वेतव्यः । द्वितीयस्तु भगवदपचारादौ। । अकृत्यकरणादिपञ्चकमुत्तरोत्तरं क्रूरतरम् । यद्यपि केषाञ्चित् कृत्यानामकरणम् अकृत्यकरणात्मकम्, तथाऽपि शरणागतरक्षणादि कृत्याकरणं महत्तरपातककोटौ स्मर्यत इति ज्ञापयितुमकृत्यकरणादुत्तरं4 कृत्याकरणोक्तिः । अकृत्यकरण +अन्तर्गतस्यापि5 भगवदपचारादेः ‘ब्राह्मणपरिव्राजक’-न्यायेन प्रकृष्टत्वज्ञापनाय पृथगभिधानम् ।
यद्यपि अकृत्य-करणादेः अपि आज्ञातिलङ्घनरूपतया भगवदपचारत्वम्, तच्चात्र अपचारान् इति विशेष्यनिर्देशेन व्यज्यते, तथाऽपि शिशुपाला दीनामिव अव्यवधानेन भगवत्परिवादादिकमिह भगवदपचार-शब्दोक्तम् । अकृत्यकरण-शब्देन तु स्वस्ववर्णाश्रमादिनिषिद्धानुष्ठानमात्रम् । कृत्याकरण-शब्देन स्ववर्णादिनियतधर्मस्य प्राप्तकाले शक्तेन अननुष्ठानम् । भगवदपचाराश्च द्वात्रिंशदपचारादिप्रकरणेषु द्रष्टव्याः । भगवन्दीयेषु वस्तुषु स्वीयत्वबुद्धिः, अर्चावतारपर्यन्तेष्ववतारेषु प्राकृतत्वबुद्धिः इत्यादयोऽपि भगवदपचाराः । त्वदपचारेति वक्तव्येऽप्यत्र भगवदपचार-शब्दस्तत्तत्प्रमाणोपात्तप्रकारसूचनार्थः ।
अयथाशास्त्रमर्थाद्युपाधिभिर् भागवतविरुद्ध आचरणम् इह भागवतापचारः । इमौ विपर्यासेन केचित् वर्णयन्ति ।
एतयोर् एवापचारवर्गयोः
‘न क्षमामि’ (वरा.पु.) इत्य्-आदिभिर्
विशेषिताः केचित् पूर्वोक्तन्यायात्
असह्यापचारा इति विभज्यन्ते ।
ते च ‘विद्याचोरो गुरुद्रोही’, ‘एकाक्षरप्रदातारम्’, (अत्रि स्मृ. १-१०) ‘यः शूद्रं भगवद्भक्तम्’, (इ.स.२६-२६) ‘मयि द्वेषानुबन्धोऽभूत् संस्तुतावुद्यते तव (वि.पु. १-२०, २१) इत्य्-आदिषु द्रष्टव्याः ।
एवं निर्निबन्धन भगवद्-भागवत-द्वेषावज्ञा-परिहासादयश् च
यथालोकम् असह्यापचारा इत्य् अनुशिष्यन्ते ।
एते पञ्चापि प्रत्येकम् अवान्तरोपाधिभिः नानाविधाः
तत्-तद्-विधास्व् अपि
अवान्तर-व्यक्तिभेदैर् अनन्ताः ।
आरब्धकार्यान् - जात्यायुर्भोगरूपविपाकसञ्ज्ञफलप्रदाने प्रवृत्तान् । यद्यपि, ‘अनारब्धकार्य एव तु पूर्वे तदवधेः’ (ब्र.सू.४-१-१५) इति उपासने सूत्रितम्, तथाऽपि ‘साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी’ (सा.तं.) इति प्रपत्तौ विशेषवचनात् अत्रारब्धकार्योपादानम् । अर्थितार्थप्रदस्य शरण्यस्य प्रपत्तॄणामार्तितारतम्यानुसारेण यथाप्रार्थितफलप्रदानात् तदिष्ट देहा6ध्यनुवृत्तौ न प्रत्यक्षादिविरोधः । अनारब्धकार्यान् - प्रारब्धकार्य कर्मनिरुद्धावसरतया अनुपक्रान्तफलान् । द्विविधानपि कृतान् इत्यवच्छिनत्ति । क्रियमाणान् - आनुकूल्यसङ्कल्पादिमत्त्वेऽपि देशकालादिवैगुण्यात् पूर्वनियुक्तदूरस्थदुर्निवारभृत्त्यादिमुखेन वा उपक्रान्तान् अपरिसमाप्तान् ।
करिष्यमाणान् - तद्वदनुबन्धादिमुखेनागत्या प्रमादाद्वा सम्पतिष्यतः । बुद्धि पूर्वोत्तराघानां पश्चादेव प्रायश्चित्त विधानात् । तेषामपि अत्र सङ्ग्रहे तु यथार्हं प्रायश्चित्तप्रेरणं क्षमाफलं ग्राह्यम् ।
सर्वान् अशेषत इति व्यक्तिशक्तिकार्त्स्न्यपरम् ।
सन्ति हि पापानां बह्वयः शक्तयः तत्त्वतिरोधायकत्वम्, प्रत्यवायजनकत्वम्, कर्मान्तरानर्हतापादकत्वम्, सजातीयपापारम्भरुचिजनकत्वं चेति । एतास्वन्तिमा वासनेत्युच्यते । सा च प्रत्युत्तरे व्यक्तमनुवदिष्यते । पापशक्तिश्च निग्रहसञ्ज्ञः परमपुरुष बुद्धिविशेष एवेति क्षमस्व इत्यनेन व्यज्यते । निग्रहनिवृत्तिरूपो हि प्रसाद विशेष इह क्षमा ।
अत्र भागवतापचारेषु तद्-विदितेषु
तत्-प्रसादन-मुखेन भगवतः प्रसादनम्,
‘मया त्वं परुषाण्य् उक्तस्
तच् च त्वं क्षन्तुमर्हसि’ (रा. कि. ३६ - २०) '
इति7 न्यायात् ।
तद् अविदितेषु तु अव्यवधानेन, रहस्यप्रायश्चित्त-न्यायात् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(13) Pray grant me forgiveness without reserve of All my sins without exception, sins of various kinds, committed, being committed or to be committed - endless and beginningless, i.e. commission of acts forbidden, omission of acts enjoined to be performed, all committed by mind, or tongue or body towards Thee or Thine Devotees - sins unforgivable (so many in number) whether connected with acts started or not so started. Forgive me, Oh, Lord, my (poor) knowledge or action, however, perverse.
मूलम्
मनोवाक्कायैरनादिकालप्रवृत्त अनन्त अकृत्यकरण कृत्याकरण भगवदपचार भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान् आरब्धकार्यान्, अनारब्धकार्यान् कृतान् क्रियमाणान्, करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व॥(21)
विषयः - यदुगिरिग्रन्थोक्तः
भगवत्प्रपदनविरोधि विपरीतज्ञान-विपरीतवर्तनयोः क्षमाप्रार्थना
विश्वास-प्रस्तुतिः
अनादि-काल-प्रवृत्तं विपरीत-ज्ञानम्
आत्म-विषयं कृत्स्न-जगद्-विषयं च
विपरीत-वृत्तं च +अशेष-विषयम्
अद्य+अपि वर्तमानम् वर्तिष्यमाणम् च
सर्वम् क्षमस्व ॥ १२ ॥
सुदर्शन-भट्टः
अथ मोक्षविरोधि पुण्यपापरूपम्8 क्षामयति अनादि इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Next, Ramanuja prays to the Lord that He should forgive acts in form meritorious, but really sinful that may be committed by him.
आत्मनो जगतश्च स्वातन्त्र्यधीः, देवतान्तरशेषत्वधीः भगवच्छेषवस्तुनि, स्वशेषत्वधीश्च विपरीतज्ञानम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vipareetha Gnaana relating to Atman: this would consist of the knowledge that the Aatman and the world are entities that are not subject to control but independent entities by themselves, or that they are subject to the control of Gods other than Naraayana, or the idea that the things (which are really under the control of Bhagvaan) are under one’s own service or control.
पुण्यञ्च स्वतन्त्रात्मधीमूलत्वात् भ्रान्तिमूलम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Even a meritorious act, if it arises out of the feeling that one’s soul is an independent entity is one of perversity.
भगवद्भागवतदेवतान्तरभजनरूपं स्वार्थं स्वपुत्राद्यर्थञ्च यत्पुण्यं तत् - अशेषविषयम् विपरीत वृत्तम्9 इत्युच्यते10 ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
When a man performs an act solely out of a desire for gain to himself or to his family, even that meritorious act as being the worship of Bhagvaan, Bhaagavatas, or other Gods, it is said to be Vipareetha Vrtta contained in the word ‘Asesha.’
आचार्यसेवादिना शास्त्रजन्यज्ञाने सम्पन्नेऽपि वासनावशात् अनुवर्तमानम् इत्यभिप्रायेणोक्तम् अद्यापि वर्तमानम् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Adyapi Vartamaanam."-Even though clearly instructed by Acharya and though the knowledge gained is comprehensive, because of the inherited tendencies, which cannot be shaken off (Vipareetha Gnaana) and Vipareetha Vritta do result. Hence “Adyaapi.”
वेङ्कट-नाथः
एवं निषिद्धक्षमा प्रार्थिता । अथ सहेतुककाम्यक्षमा प्रार्थ्यते - अनादि काल इति । क्षुद्रपुरुषार्थकामनाया विपरीतज्ञानसापेक्षतया अपचाराणामिव शास्त्रार्थज्ञानपूर्वककाम्यानामपि मात्रया भ्रान्ति हेतुत्वं11 व्यञ्जयितुमिह विशेषतो विपरीतज्ञानस्य सहोक्तिः । यथावस्थितविषयविरुद्धाकारावगाहि ज्ञानमिह विपरीतज्ञानम् । तच्चात्र ‘योऽन्यथासन्तमात्मानम् अन्यथा प्रतिपद्यते’ (म.भा.उद्यो.४२-३५) इत्य्-आदिभिरुक्तः स्वात्मनो जगतश्च स्वनिष्ठत्व-स्वतन्त्रत्व-शेषत्व-भगवदन्यनिष्ठत्वादिभ्रम इत्यभिप्रायेणाहआत्मविषयं कृत्स्नजगद्विषयं चेति । वृत्त-शब्दस्य शास्त्रीये प्रसिद्धिप्रकर्षमुपजीव्य विपरीतवृत्तम् इति बन्धकं काम्यकर्मोच्यते, अन्यथा पूर्वोक्तेन पुनरुक्तिप्रसङ्गात् । काम्यस्य च विपरीतवृत्तत्वं सात्त्विकत्यागसमदर्शित्वादिविशिष्टहिततमधर्मविपरीतत्वात् । विपरीतवृत्तेऽपि स्वविषयतया पुत्रादिविषयतया च वैविध्यं12 दर्शयतिअशेषविषयम् इति । अद्यापि वर्तमानं वर्तिष्यमाणं च । सद्गुरूपदेशादिभिः परोक्षसम्यक्ज्ञाने निष्पन्नेऽपि बाधितानुवृत्त्यादिनयाद्वासनारागादिभिः अनुवर्तमानमित्यर्थः । अत्र चकारेण पूर्वकृतविपरीतवृत्तसमुच्चयः । अद्यापि इत्यनेन च अनादिविपरीतवृत्तसन्ततिः सूच्यते । अत्रापि सर्व-शब्दः पूर्ववत् कार्त्स्न्यपरः । अशेषत इति चानुसन्धेयम् ।
इह यथाधिकारं यथाचोदितमनुतिष्ठितानमपि संसारहेतुधर्माणामभिचाराणामिव अनर्थपर्यवसायितया मुमुक्ष्वपेक्षया पापत्वोक्तेः, स्वर्गादिहेतु भूतस्वतन्त्रसङ्कल्पेऽपि निग्रहहेतुत्वबुद्ध्या काम्यक्षमाप्रार्थनं युक्तम् । यद्यप्येवं पूर्वकृतेषु काम्येषु गतिः, तथाऽपि वर्तमानवर्तिष्यमाणकाम्य क्षमार्थिनां स्वयं तदारम्भ एव न सम्भवतीति कथं तत्क्षमाप्रार्थनम्? इत्थम् ।
अज्ञातयादृच्छिकसुकृतन्यायात् सुहृज्जनबुद्ध्या वा सम्भवत्सु नेदं चोद्यम् । स्वबुद्धिपूर्वमपि वर्तमानेषु काम्येषु मध्ये निर्विण्णानामपि प्रक्रान्तसमापन मन्तरा लब्धवृष्टेः कारीरीशेषसमापनन्यायेन स्यात् । तत्र पश्चिमांशस्य आज्ञासिद्धत्वान्न काम्यत्वदोषः । पूर्वांशस्य तु क्षुद्रफलकामनामूलस्य तत्फलजनकत्वाभावेऽपि तादृशवासनाजनकत्वसम्भवात् कर्मयोगस्यैव ‘नेहाभिक्रमनाशोऽस्ति’ (भ.गी. २-४०) इति न्यायेन केषाञ्चित् कर्मणाम् असमाप्तानां कृतांशस्य विलम्बकारिसाधनान्तरपर्यवसितफलजनकत्वात् तत्क्षान्तिः प्रार्थनीया ।अत्र पूर्वापरांशयोरधिकारभेदेऽप्यासमाप्तेरैककर्म्यात् वर्तमानव्यपदेशोऽपि युक्तः । उत्तरकालेऽपि केनचिद्धेतुना निर्वेदविच्छेदात् नित्यत्वभ्रमात् स्वप्नदोषाद्वा काम्यं सम्भाव्यते । तस्यानुत्पन्नस्यापि क्षमावेक्षणं शीघ्रं स्वोचितप्रायश्चितप्रेरणार्थम्, सौभर्यादिन्यायेन क्रमेण वैराग्यजननार्थं वा । उक्तं हि प्रपन्नमधिकृत्यैव ‘अथोपायप्रसक्तोऽपि भुक्त्वा भोगान् अनामयान् । अन्ते विरक्तिमासाद्य विशते वैष्णवं पदम्’ ॥ (ल.तं.१७-१०३) इति ।
मूलम्
अनादिकालप्रवृत्त विपरीतज्ञानं, आत्मविषयं कृत्स्नजगद्विषयं च, विपरीतवृत्तं च अशेषविषयं, अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ।