०५ द्वयादि

विश्वास-प्रस्तुतिः

अशरण्य-शरण्य !
अनन्य-शरणः त्वत्-पाद+अरविन्द-युगलं शरणम् अहम् प्रपद्ये ! ॥ ५ ॥

सुदर्शन-भट्टः

त्वं हि अगतीनां गतिरित्याह अशरण्य इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and Thou art the protector of the Helpless.

ततः किं भवत इत्याह अनन्यशरण इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Calling himself as a Ananya Sarana (helpless person).

त्वत्-शब्देन प्रागुक्ताकारविशिष्टतया योग्यत्वमभिप्रेतम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

“Twat Paadaaravindya yugalam” points out that He is possessed of all various virtues and qualities mentioned before and hence the person to be approached.

अवश्यकर्तव्यत्वाय पादग्रहणम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Ramanuja makes the surrender.

अरविन्द-शब्दश्च इह भोग्यत्वाय ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Aravinda because such a prayer at His feet is a pleasant performance.

युगल-शब्देन1 द्विवचनाख्यानम्।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Yugala can be said to be explanatory of the dual (Charanow) mentioned in Dvaya Mantra.

‘अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः’ (अहि.सं.३७-३०) इत्य्-आदिकमभिप्रेत्याह अहम् इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Aham. I who am a great sinner who has committed an Ocean of sins."

प्रपद्ये इत्यन्तेन पूर्वखण्डो व्याख्यातः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Prapadye I surrender. Upto this the first portion of Dvaya Mantra has been expounded.

वेङ्कट-नाथः

उत्तरखण्डस्थापेक्षया पूर्वं श्रीमन् ! इत्याद्युक्तम्, इह तु पूर्वखण्डस्थापेक्षया उक्तैस्स्वभावैः फलितमाह - अशरण्यशरण्य इति । स्मर्यते हि ‘अगतीनां गतिर्भवान्’ (वि.ध. ४-४९) इति । अत एव अनालोचितेत्यादिना न पुनरुक्तिः । तत्र हि तारतम्यानादरे तात्पर्यम् । एतत्सर्वं व्याख्येयविवक्षित प्राप्यप्रापकाकारप्रपञ्चनम् ।

अस्म्यहमेवम् । एतावताऽपि किं त्वया लब्धम् ? सर्वत्र हि शास्त्रार्थे अधिकारोऽपेक्षित इत्यत्राहअनन्यशरण इति । तत्त्वविदोऽनन्यप्रयोजनस्य मम सिद्धोपायान्तरं नास्ति, ‘अहमस्म्यपराधानाम्’, (अहि.सं.३७-३०) ‘न धर्मनिष्ठोऽस्मि’ (स्तो. र. २२) इत्याद्युक्तावस्थाविशेषविदश्च मे साध्योपायान्तरमपि नास्तीति प्रतिबुद्धोऽस्मि, अयमेव हि ममात्राधिकार इति भावः । इदन्तु व्याख्येयस्थोत्तमपुरुषाभिप्रेतमिति ज्ञापनाय, ‘अहमपि न मम2 शरणम्’ इति व्यञ्जनाय3अधिकोऽहं-शब्दः । अथवा अनन्यशरण इत्युपायान्तरशून्यत्वम्, अहम् इति उपायभीरुत्वम्, अतिशङ्का राहित्यम्4 प्रयोजनान्तरतदुपायपरित्यागित्त्वम्, मोक्षार्थप्रपत्त्युन्मुखत्वञ्च व्यज्यते । एतत्सूचितः कार्पण्यविस्तरः प्रतिवचनवाक्येषु गद्यान्तरयोश्च द्रष्टव्यः । त्वत् इत्य्-आदि-ना पूर्वखण्डपदक्रमानुसरणम् । त्वच्छब्दः शरण्यत्वोपयुक्तसर्वाकारवैशिष्ट्यपरः । पादेत्यादिकं प्रागुक्तार्थम् । 5अत्र द्वयम् 5इत्यस्य व्याख्यातप्रायमिति शेषः । तात्पर्यन्तु पूर्वमेवोक्तम् । यद्वा, द्वयम् अर्थानुसन्धानेन सह एवमुक्तमिति वा, वक्तव्यमिति वा विवक्षितम् । वाक्यान्तरैः ‘पुनः पुनः प्रपद्यते’ इति तु नाशङ्कनीयम् । एकसाध्यसिद्ध्यर्थं प्रपत्त्यावृत्तेः प्रतिषेधात्, इह साध्यान्तरायोगाच्च ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

the refuge of the Helpless, the one and the only Refuge (with no others to go for Help)

(12) I seek Thy protection and surrender Myself unto Thine Lotus Feet. (Saranaagati)

FX Clooney

Refuge of those without refuge!
And I, who have no other refuge, surrender at Your lotus feet. (5)

मूलम्

अशरण्यशरण्य ! अनन्यशरणः त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये !

विषयः - यदुगिरिग्रन्थोक्तः

द्वयमन्त्रेण भगवच्छरणागतिः भगवत्प्राप्तिविरोधिदूरीकरणम्, भगवत्प्रसादनं च

विश्वास-प्रस्तुतिः

[अत्र द्वयम् ॥]

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Athra Dvayam :- (So far, Dvaya Mantra has been expounded).

The explanation of this sentence with Mantra.

FX Clooney

Here the dvayam,

(That is, here one recites the dvaya-mantra, the quintessential mantra of surrender or taking refuge.)

मूलम्

[अत्र द्वयम् ॥]

विश्वास-प्रस्तुतिः

पितरं मातरं दारान्
पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धन-धान्यानि
क्षेत्राणि च गृहाणि च +++(भगवद्-आराधनेतर-दृष्ट्या)+++ …॥ ६ ॥

सुदर्शन-भट्टः

अथ अनन्यशरणः शरणमहं प्रपद्ये इति
शब्दानाम् अर्थं विवृणोति
पौराणिक वचनमुखेन6
पितरम् इत्य्-आदिना ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then Sri Ramanuja goes on to give the full meaning of Ananya Sarana: Saranam Aham Prapadye by referring to quotations and passages from the Puranaas.

गुरु-पर्यन्तानां साधनत्वम् उत्कटम् +++(लोके)+++।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In the sloka quoted, all the things mentioned up to and including “Guroon” (i.e., the first portion). denote Upaayas (means to attain the goal.)

दाराश् च दृष्ट-साधनम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

In this case Daara (wife) is included in the first portion as In this she is the Means as well as Bhogya.

रत्नादीनाम् उपेयत्वम् उत्कटम् +++(लोके)+++।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The second half of the Sloka mentions other things such as Ratna, etc., as they are things considered to be valuable in this world.

वेङ्कट-नाथः

पितरम् इत्य्-आदिकन्तु
स्ववाक्यवन् निबन्धन-संवाद-मुखेन
अनन्य-शरणत्वादिकं विशदी-कृत्य
वक्ष्यमाण-फल-प्रार्थना-प्रस्तावनात्मकम् इति
द्वयार्थस्य समुदितोक्तिः ।

तथा ह्य् अत्र सोपाधिक-भोग्य–तद्-उपाय-त्यागं
निरुपाधिक-भोग्य-तद्-उपाय-विशेष-परिग्रहं च स्पष्टयित्वा
‘प्रसादय’ इत्य्-आदिना ‘सोढुम्’ इत्यन्तेन उत्तर-खण्डस्य7
दोष-निवृत्ति-प्रार्थना सङ्गृह्यते ।

पित्रादीनां त्यागोक्त्या
भृत्यादि-चेतनान्तर-त्यागः कैमुत्य-सिद्धः ।
बन्धु-शब्दः इह सम्बन्ध्यादि-परः ।
रत्नानि इत्य्-आदिकम् उत्कट-भोग्यत्व-भोग-साधनत्वानाम्
अचेतनान्तराणाम् उपलक्षणम् ।
-कारेण वा अनुक्त-समुच्चयः ।

प्रियेषु हितेषु च मोक्ष-तद्-उपाय+अनुपयुक्तेषु
कुत्रचित् सङ्गोऽपि न युक्त

इति ज्ञापनाय
पितरम् इत्य्-आदि-विविधोक्तिः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(a) (I do prostrate before Thee) - Renouncing my father, mother, wife, children, relatives, friends, even my Teacher, precious stones, wealth and goods, my field, my house, etc. all desires,

मूलम्

“पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ।

विश्वास-प्रस्तुतिः

सर्व-धर्मान् च सन्त्यज्य
सर्व-कामान् च साक्षरान्+++(=सात्ममात्रानुभवान्)+++ ।
लोक-विक्रान्त-चरणौ
शरणं ते ऽव्रजं विभो ॥ ७ ॥ (विह.सं. - जि.स्तो.)

सुदर्शन-भट्टः

आमुष्मिकं साधनं साध्यञ्चाह सर्व इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then, in the next sloka beginning with “Sarva” is set out the Upaayas to be used in the Paraloka (in the next world) and the gains to be obtained through them.

अक्षर-शब्देन केवलात्मनि पर्यवसानम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The word “Akshara” denotes Kaivalyam (enjoyment by the soul of itself only).

लोकविक्रान्तविभु-शब्दौ सौलभ्यपरत्वपरौ ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

By the words Loka Vikraanta and Vibho are denoted His qualities of easy accessibility and All Mightiness.

शरण-शब्दं विवृणोति त्वमेव इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Then the word “Saranam” is expounded in the next Sloka.

वेङ्कट-नाथः

एवं लोक-सिद्ध-प्रिय-हितान्य् उदाहृत्य
सर्वधर्मान् इत्य्-आदिना शास्त्र-वेद्यानि साधनानि साध्यानि च आह ।
तत्र सर्व-धर्म-शब्दः सिद्ध-साध्य-रूप–स-परिकर-धर्मकार्त्स्न्य-परः ।
सर्व-कामान् इति हिरण्य-गर्भादि-पद-पर्यन्त-काम्य-विषयः ।
अक्षर-शब्द इह आत्म-मात्रानुभव-गोचरः ।

धर्माणां कामानां च उपयोगित्वेन वा पित्राद्य्-उदाहरणम् ।
तच्च यथा-सम्भवं द्रष्टव्यम् ।
पित्रादीनां त्यागश् चात्र
काम्य-धर्मोपयोगितया, अर्थ-कामोपयोगितया च अनुपादानम् ।+++(5)+++
अत एव

‘मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव’, (तै. उ. शि. ११)

‘वृद्धौ च मातापितरौ’ (रा. अयो. ६३-३२)

इत्य्-आद्य्-उक्त-भगवद्-आज्ञानुपालनं न विरुध्यते।

सर्वधर्म-शब्देन
मोक्ष-साधन-भूतोपासन-वर्ग-सङ्ग्रहेऽपि तन्-निवृत्तौ
‘विहितत्त्वाच् चाश्रम-कर्मापि’ (ब्र.सू.३-४-३२) इति न्यायेन
वर्णाश्रम-धर्माणाम् अनिवृत्तिः । +++(5)+++

तद् इह त्रैवर्गिक-धर्मेषु प्रयोजनान्तरेषु
मोक्षोपायान्तरेषु च
साधारणं नैराश्यं त्यागः

तत्र पुरुषार्थान्तरेष्व् अल्पास्थिरत्वादि-दोष-दर्शनान् नैराश्यम्,
तत एव तद्-उपायेष्व् अपि।
मुक्ति-साधनेष्व् अन्येषु
स्वावस्था-दर्शनेन दुष्करत्वादिना नैराश्यम् इति विशेषः ।

सन्त्यज्य सम्यक् त्यक्त्वा,
सवासनं परित्यज्य इत्यर्थः ।+++(5)+++

यद् वा पञ्चाङ्ग-संयुक्तायाः प्रपत्तेर्
अङ्गत्वेनाङ्गित्वेन वा +अनुपादानम्
इह धर्माणां त्यागः
सोऽयं प्रपत्त्य्-उपकारकत्व-बुद्धि-विरहः
सम्प्रतिपन्नेषु पुरुषार्थान्तर-तद्-उपायेषु
मुक्त्य्-उपायान्तरेषु,
नित्य-नैमित्तिकेषु च समान इति सहोक्तिः

लोक-विक्रान्त-चरणौ इति
चरणे लोक-विक्रान्तत्व-वचनम्
अनाश्रितानाम् अप्य् आत्म-प्रकाशनेन सौलभ्यादि-व्यञ्जकम् ।

लोक-विक्रान्त इति व्यस्तं वा,
तदा तु लोकेषु विक्रान्तः अधिष्ठातेत्यर्थः ।

ते स्वतन्त्र-स्वामिनः8,
परम-प्राप्यस्य च ।

विभु-शब्देन फलप्रदानौपयिक-पौष्कल्यं व्यज्यते ।
यद्वा विभु-शब्देन परत्वम्,
ते इत्यनेन सौलभ्यञ्च सङ्गृह्यते9

अव्रजं - व्रजामीत्यर्थः ।
अनद्यतनत्वम् अत्राविवक्षितम् ।
भूतत्वेन निर्देशस् तु कर्तव्य-शेष-नैरपेक्ष्य-व्यञ्जन-परः ।+++(5)+++

त्याज्यानां त्यागस्य पूर्वम् अस्पष्टत्वाद् इह तत्-प्रपञ्चने तात्पर्यम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

and actions relating to them, as well as Kaivalya I prostrate at Thine feet which bestrode the Three worlds.

मूलम्

सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥

विश्वास-प्रस्तुतिः

त्वम्+एव माता च पिता त्वम्+एव
त्वम्+एव बन्धुश् च गुरुस् त्वम्+एव ।
त्वम्+एव विद्या द्रविणम् त्वम् एव
त्वम् एव सर्वम् मम देव-देव ॥ ८ ॥

सुदर्शन-भट्टः

पित्रादि-कार्य-रक्षणस्य
अस्मिन्न् एव पुष्कलत्वाद्
अयम् एव बन्धुः,
न तु पित्रादय इत्यभिप्रायेण त्वमेव इत्यावृत्तिः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Bhagavaan is the real father and relation in the matter of protection, etc., and to show that he does the function fully and better than the natural, father and others; The words “Twam Eva” is repeated at intervals.

वेङ्कट-नाथः

उपायत्त्वम् उपेयत्वञ्च
‘माता पिता भ्राता’ (सु.उ.६) इत्य्-आदि-श्रुति-सिद्ध–सर्व-विध-बान्धवस्य
नारायणस्यैवेत्य् अभिप्रायेण
“त्यक्तं सर्वं,
त्वम् एवे"त्य् आह - त्वम् एव इति ।
त्वत्-पाद इत्य्-अत्र त्वच्-छब्दाभिप्रेतं
च +अनेन विशदीकृतम् ।
सर्वेषां जन्तूनां
सर्वेषु जन्मसु
सर्वविधोपकारकत्वं
त्वयि समुचितम् इत्य् अभिप्रायेण
प्रत्येकं त्वमेव इति साधारणावृत्तिः ।

मातापित्रादयो हि तत्-प्रयुक्तास् तत्-सहकृताश् च
तद्-अभिमत-यत्-किञ्चित्-करणेनोपकुर्युः,
अयं च अनन्य-प्रयोज्यो निरपेक्षश् च
स्वेच्छयैव सर्व-प्रकारेणोपकरोति ।+++(5)+++

माता - प्रलयदशायाम् उदरे स्थापयित्वा प्रसवनात् ।
प्रिय-प्रवर्तकत्वादिभिश् च पिता,
‘अहं बीज-प्रदः पिता’ (भ.गी. १४-४)
इति ह्याह ।

हित-प्रवर्तकञ् च बन्धुः -
सम्बन्धान्तरेणाप्य् अहित-निवर्तनार्हः ।

गुरुः - ‘गु-शब्दः’ इत्य्-आद्य्-उक्तान्ध-कार-निरोधित्वात्,
तत्र च असौ गुरु-शरीरकः, आदि-गुरुश् च ।+++(4)+++

विद्या - उपाय-भूत-विद्या-प्रवर्तकत्वात्,
तत्-फल-प्रदत्वाच् च,
अकिञ्चनानाम् उपासन-रूप-विद्यायाः स्थाने निवेशाद् वा ।

द्रविणम् -

‘अमृतं साधनं साध्यं
यं पश्यन्ति मनीषिणः’
(पाञ्चरात्रम्)

इत्युक्तात् साधनत्वात्, साध्यत्वाच् च।

त्वम् एव सर्वम् इति +उक्तानुक्त-सर्व-कार्त्स्न्य-परम् ।

मम - तत्त्व-विदो ऽकिञ्चनस्य
त्यक्तान्य-साध्य-साधनस्य
त्वयि न्यस्तभरस्य च ।

देवदेव इति सर्वप्रकारोत्कर्षपरम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(b) Oh Lord! I surrender Myself unto Thee. Thou alone art My Mother, My Father, Thou art My relations; even My Teacher Thou alone art. So also my learning, my wealth. Indeed Thou art My All.

मूलम्

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥

विश्वास-प्रस्तुतिः

पिता+असि लोकस्य चर+अचरस्य
त्वम्+अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्-समो ऽस्तय् अभ्यधिकः कुतो ऽन्यो
लोक-त्रये ऽपय् अप्रतिम-प्रभाव ॥ ९ ॥ (भ.गी. १९-४८)

सुदर्शन-भट्टः

न परं मम सर्वलोकस्य चेत्याह -
पितासि इति
रक्षकत्वे समाभ्यधिक-राहित्यम् उक्तम्,
सौलभ्ये वा ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The idea that “Not only is He my father but He is also the father of the whole world” is sought to be conveyed by the Sloka beginning with “Pita Asi.” In the matter of protection of Jivas, there is none to equal Him or to excel Him. It is so even in the matter of easy accessibility.

अप्रतिमप्रभाव इति - परत्वस्योक्तिः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Apramatima Prabhaava pictures His All Mightiness.

वेङ्कट-नाथः

एवं स्वविषये ऽनुसंहितस्य सर्व-विध-बन्धुत्वस्य
सर्व-विषयत्वेन निरुपाधिकत्वं सूचयति -
पिताऽसि इति ।

लोकस्य - हिरण्य-गर्भादि-जन्तु-जातस्य ।
पूज्यश्च - पितृत्व-गुरुत्वादिभिः सर्व-कर्माराध्यत्व-श्रुतेश् च समाराध्यः ।
‘गरीयान् ब्रह्मदः पिता’, इत्य्-उक्तम् आह गरीयान् इति ।
‘गरीयान् पूज्यतमः’ इति तु भाष्योक्तम् (भ.गी.भा.११-४३)।

लोकत्रये - बद्ध-मुक्त-नित्य-रूप-चेतन-वर्ग-त्रये ।
यद्वा, लोकत्रय-शब्देन सर्व-लोक-वर्तिनां लक्षणा ।
प्रभावतो ऽप्रतिमत्वस्य कण्ठोक्तत्वात्
न त्वत्समोऽस्ति इत्य्-आदिकम् इह कारुण्यादिषु योजितम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(c) Oh! God of Gods, Thou art the Father of the Worlds moving and unmoving, worshipped by the World. Thou art greater than the greatest. There is no one bigger than Thee in all these Three Worlds. Oh! Thou of Matchless Glory.

मूलम्

पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥


  1. युगल-शब्दः - इ । ↩︎

  2. मे -आ । ↩︎

  3. ज्ञापनाय -आ । ↩︎

  4. रहितत्वम् - आ । ↩︎

  5. अत्र द्वयम् - अत्र ‘द्वयमन्त्रं’ अनुसन्धेयमिति भावः । ↩︎ ↩︎

  6. वचनेन - इ । ↩︎

  7. खण्डस्थ - अ । ↩︎

  8. स्वामिनः - आ । ↩︎

  9. गृह्यते - आ । ↩︎