विषयः - यदुगिरिग्रन्थोक्तः
शरण्यत्वोपपादकानि भगवत्सम्बोधनानि
भगवच्छरणागतिश् च
विश्वास-प्रस्तुतिः
अखिल-हेय-प्रत्यनीक, कल्याण+एक-तान,
स्वेतर-समस्त-वस्तु-विलक्षण,
अनन्त-ज्ञान+आनन्द+एक-स्वरूप !
सुदर्शन-भट्टः
अथ द्वयस्थं नारायण-शब्दं विवृणोति अखिल इत्य्-आदि-ना । तत्र प्रथमपदेन नार-शब्दवाच्यानां धर्म्युच्यते ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then follows the exposition of the meaning of the word Naraayana found in Dvaya, the word indicating the person described, as the Visesha of Naraya in Dvaya.
अखिल-शब्दः चिदचिद्गतक्लेशादिभावविकारादिहेयपरः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
"Akhila, etc" - Free from the pains and penalties or the changes which the sentient and non-sentient things are liable to in this World.<dg 23/>
प्रत्यनीक इति न केवलं विरहमात्रमित्यर्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Pratyaneeka” denotes not merely the absence of the evil qualities but that He destroys evil in others.
आनन्दकल्याण-शब्दौ स्वपरापेक्षया अनुकूलत्वपरौ ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The words Aananda means being good to oneself, and anukuoola means good to others.
आनन्दविवरणं वा कल्याण-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
It may also be taken to explain the word Kalyaana.
कल्याणानां गुणानां1 एकास्पदमिति वा कल्याणैकतान-शब्दार्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kalyaana Aikataana mean the sole abode of, and completely full of, all kinds of, Virtues.
यद्वा स्वसम्बन्धिनामपि मङ्गलावहता कल्याण-शब्दार्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Besides, Kalyaana means also good not only to one’s self but also to others.
एक-शब्देन प्रदेशभेदेन जडत्वप्रतिकूलत्वव्युदासः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Eka” excludes the possibility of being jada or inauspicious in any portion.
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(3) [Then follows invocations to the Lord with a description of all His qualities, His divine Form, and His weapons, etc.]
*[With no person to surrender myself to, I take shelter unto Thine lotus feet, Oh Sriman Naraayana!, the refuge of all the Helpless] the Enemy of all Evil and the Abode of all beneficient qualities, perfect embodiment (distinct from the forms of all other things) of immeasurable knowledge and of Bliss,
FX Clooney
Your proper form is opposite to all that is to be avoided and focused solely on the auspicious,
different from all beings other than Yourself,
solely intelligence and bliss without limit!
मूलम्
अखिलहेयप्रत्यनीक कल्याणैकतान! स्वेतर+++(/स्वानितर)+++-समस्तवस्तुविलक्षण ! अनन्तज्ञानानन्दैकस्वरूप!
विश्वास-प्रस्तुतिः
स्व+अभिमत+अनुरूप-+एक-रूप,
अचिन्त्य-दिव्य+अद्भुत-
नित्य-निरवद्य-निरतिशय+
औज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवन+आद्य्–
अनन्त-गुण-निधि-दिव्य-रूप !
सुदर्शन-भट्टः
अथ रूपम् । अभिमतानुरूप-शब्दौ पूर्ववत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then, Ramanuja goes on to describe the Divya Vigraha, i.e., Divine personality of the Lord. Abhimata Anuroopa are to be understood as before.
एकरूपत्वम् - उभयलिङ्गत्वप्राप्यत्वोपास्यत्वैः । तर्कागोचरत्वम् अचिन्त्यत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Ekaroopa denotes that He is distinbefore. distinguished by His two qualities, (I) freedom from evils and fullness of good qualities hence to be worshipped (II) being the object of attainment (Upeya). Achintya, that is beyond the reach of imagination or thought.
दिव्य-शब्दद्वयम् द्रव्य-संस्थान-वैलक्षण्य-परम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Divya denotes that the Form is diferent in substance from common ordinary forms. The second Divya means that He is also different in structure.
अद्भुतत्वं प्रतिक्षणम् अपूर्वत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Adbhuta; presenting new forms of beauty every other minute;
नित्यसंस्थानत्वं नित्यत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Ever lasting” is Nitya;
दौर्लभ्यावद्यराहित्यम् निरवद्यत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niravadya means Rare flawlessness, the fault of being not easily meditatable; unlike in the case svaroopa of God,
सौन्दर्यम् - अवयवशोभा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
His Vigraha is more easy to contemplate-Soundaraya:- loveliness-
लावण्यम् - अवयविशोभा ।+++(4)+++
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Laavanya:- Charm of the whole structure-
<dg 27/>
आदि--शब्दार्थः - पीनवृत्तायतभुजत्वादि । अथ दिव्यात्मगुणाः । स्वाभाविक इत्य्-आदि स्फुटम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Adi may denote other beauties, like, roundness of limbs length of arms.
वेङ्कट-नाथः
एवं श्रीमच्-छब्दाभिप्रेतम् अर्थम् उपयोगविशेषपर्यन्तम् उदाहृत्य
प्राप्यत्व-प्रापकत्व उपयुक्तसर्वाकारसङ्ग्राहक-नारायण-शब्दं व्याचिख्यासुः, तत्र तत्पुरुष व्युत्पत्तौ2 अयन-शब्दार्थं, बहुव्रीहावन्यपदार्थञ्च दिव्यात्मस्वरूपं तावदाह - अखिल इति । अत्र सम्बुध्यन्तप्रयोगात् व्याख्येयेऽपि तथात्वेन त्वच्छब्दाध्याहार इति केचित् । श्रीमन्नारायण ! स्वामिन् ! (द्व.मं.) इत्यादौ मन्त्रान्तरे च तद्द्रष्टव्यम्3 । अन्ये तु, ‘प्रार्थनानुगुणतात्पर्यानुसारेण सम्बुद्धिरिह प्रयुज्यत’ इत्याहुः । अखिलहेयप्रत्यनीकत्वम् - अखिलहेयात्यन्ताभाववत्त्वम् । तेन कतिपयहेयरहितेभ्यो व्यवच्छेदः । कल्याणैकतानत्वम् - कल्याणानां सर्वेषां गुणानाम् असाधारणाश्रयभूतविस्तारत्वम्, नित्यादीनामपि न सर्वमङ्गल गुणवत्वम् । ‘समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्’, (वि.पु.१-२२-५३) ‘तेजोबलैश्वर्यमहावबोधसुवीर्यशक्तयादिगुणैकराशिः’. (वि.पु.६-५-८५) ‘स च सर्वगुणोपेतः’ (रा.बाल.१-१७) इत्य्-आदि प्रसिद्धोभयलिङ्गाधिकरणार्थः उपयोगातिशयात्प्रथममिहोक्तः । ‘नराज्जातानि तत्त्वानि’ (म.भा.आनु.१७८-७) इत्याद्युक्तकारणत्वादि शङ्कितमचिद्गतं चिद्गतञ्च विकारापुरुषार्थादिकं प्रणतोपेक्षादिपर्यन्तमवद्यं न किञ्चिदप्यस्यास्ति । न च कल्याणगुणेष्वस्याविद्यमानः कश्चिदित्यर्थः । पश्चात्तु ज्ञानबलादिगुणोक्तिः -एतद्विवरणम् । स्वरूपनिरूपकं ज्ञानत्वादिकमप्यत्र कल्याण-शब्देन सामान्यतस्सङ्गृहीतम् । एवं सगुणनिर्गुण श्रुत्योर्विषयभेदेन अविरोधात् कुदृष्टिपक्षश्च निरस्तः । यद्वा, कल्याणैकतानम् प्रदेशभेदेन कालभेदेनापि अकल्याणत्वरहितमित्यर्थः । ‘ज्ञानानन्दैकस्वरूप’ इति तु तद्विशदीकरणम् । ज्ञानतया आनन्दतया च कार्त्स्न्येन कल्याणत्वमुक्तं4 भवति । जडाद्भोग्यात् प्रतिकूलोदासीनरूपज्ञानाभ्याञ्च व्यवच्छेदाय ज्ञानानन्दयोरुभयोरप्युक्तिः ।
<dg 24/>
आनन्दकल्याण-शब्दौ स्वपरापेक्षया अनुकूलत्वं वा ब्रूतः । एवम्, ‘आनन्दादयः प्रधानस्य (ब्र.सू.३ ३.११) ‘अक्षरधियान्त्ववरोधः’ (ब्र.सू.३-३-३३) इत्यधिकरणद्वयोक्तं स्वरूपनिरूपकवर्गद्वयं व्यञ्जितं भवति । अथवा, हेयप्रत्यनीकत्वं - आश्रितानां यथोपायं स्वेच्छया हेयनिवर्तकत्वम् । तथा सति लोके स्वसङ्कल्पायत्तहेयसद्भावस्य न विरोधः । न च विरुद्ध घटनशक्तिकल्पना, स्वरूपमात्रेण हेयनिवर्तकत्वस्यानङ्गीकारात् । अन्यथा अतिप्रसङ्गात् । कल्याणैकतानत्वम् आश्रितानाम् अभिमतेषु कल्याणेष्वैकाग्र्यम्, अनिष्टनिवर्तनमिष्टप्रापणञ्चेत्यर्थः5 , स्वस्य निर्दोषमङ्गलगुणाकरत्वमप्यत्र अर्थसिद्धम्6 । ‘फलमत उपपत्तेः’ (ब्र.सू.३-५-३७) इत्यधिकरणार्थश्च दर्शितः ।
त्रिविधानां चेतनानाम् अचेतनानाञ् च पराधीनत्वादि-साम्याद्
एवम्-भूतं वस्त्व्-अन्तरं नास्तीत्य् अभिप्रायेणाह -
स्वेतर-समस्त-वस्तु-विलक्षण इति ।
एतेन ज्ञान-भोग-साम्येऽपि
सर्व-प्रकार-साम्य-निषेधस् सिद्धः ।
नित्यं विभुं सर्वगतं सुसूक्ष्मम्, (मुं.उ.१-१-६)
‘विश्वम् एवेदं पुरुषः’ (महाना.उ.११-२५)
इत्य्-आदि-प्रसिद्धं त्रि-विध-परिच्छेद-राहित्यं
प्राधान्यतः पृथग् आह -
अनन्त इति सर्व-व्यापित्वात् देश-परिच्छेद-राहित्यम् ।
सर्व-काल-वर्तित्वात् कालराह्-इपरिच्छेदाभावः ।
साक्षात् परम्परया वा सर्व-प्रकारित्वेन
सर्व-वस्तु-सामानाधिकरण्यार्हत्वात्
वस्तु-परिच्छेद-विरहः ।
येन केनापि प्राशस्त्येन
स्वस्माद् उत्कृष्टैः कैश्चिद् वस्तुभिः अधरीकृतत्वाभावाद् वा ।
तद्-विग्रहादीनान्तु सन्तोऽपि केचिद् अतिशयास् तद्-विभूति-गता एवेति
तैर् अपि तस्यैवोत्कर्षः ।
वितस्त्य्-आदिभिः प्रस्थतुलादिभिश्च परिच्छेदो देशपरिच्छेदान्तर्गत एवेति7
तन्निषेधेन सोऽपि निषिद्धः ।
‘वस्त्वन्तरशून्यत्वाद्वा, सर्ववस्तुस्वरूपैक्याद्वा वस्तुपरिच्छेदाभावः’ इति पक्षौ तु सर्वप्रमाणविरुद्धौ अनन्तपदपूर्वापर श्रुतिविरुद्धौ च ।
<dg 25/>
यद्यपि दिव्यात्मस्वरूपापेक्षया सर्वेषाम् आधेयत्वं समानम् ,
यद्यपि च विग्रहस्य गुणनियाम्यतया गुणानामन्तरङ्गत्वम् ,
तथाऽपि स्वरूपवद् भूषणास्त्र-स्वरूप-निखिल-जगद्-आधारत्वेन तद्-अनुरूपत्वात्
तादृश-स्वरूपस्य व्यञ्जकत्वात्, सालम्बन-योग-विषयत्वेन मुमुक्षूणां शुभाश्रयत्वाच् च
प्राधान्यं दर्शयितुं गुणेभ्योऽपि पूर्वं विग्रहम् आह- स्वाभिमतानुरूप इति । निरवधिकानन्दरूपस्य स्वस्याप्यभिमतमनुरूपञ्च, दिव्यरूपम्8 । स्वरूपस्य नित्यनिरवधिकानुकूलत्वमन्याभिमतिं न बाधते । सर्वस्य सर्वदा विशिष्टैकानुभव9 गोचरत्वेन प्रमाणसिद्धत्वात् । सा चाऽभिरूपस्याभरणाभिमतिवन्न स्वरूपानुकूल्यबाधिका । एवं भूषणादावप्यभिमतत्वाविरोधः । अनिष्टावहशरीरादिव्यावर्तकैः अप्राकृतत्वध्येयत्वप्राप्यत्वादिभिरपि विग्रहादेरानुरूप्यम्, सर्वदोक्तप्रकार विशिष्टत्वमेकरूपत्वम् नानारूपेष्वपि10 व्यूहविभवार्चावतारेषु अप्राकृतत्वशुभाश्रयत्वादिकम् ‘समस्ताश्शक्तयश्चैताः, (वि.पु.६-७-७०) ‘समस्तशक्तिरूपाणि), (वि.पु.६-७-७१) ‘बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । । अर्चाऽपि लौकिकी या सा भगवद्भावितात्मनाम्’ ॥ ‘मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहा’ । (सा.सं. ६ - २२, २३) इत्य्-आदिभिरुच्यते । परव्यूहादिविग्रहवत्तत्तद्विग्रहानुप्रवेशादर्चाऽपि षाड्गुण्य प्रकाशकशुद्धसत्वद्रव्यमयीत्यर्थः । देवतिर्यङ्मनुष्यादिविचित्रावतारदशायामपि ‘आदि-त्यवर्णं तमसः परस्तात्’ (तै.आर.३-४०-१३) इत्य्-आदि-प्रसिद्धस्य परमपदनिलयविग्रहस्य सन्निवेशैकरूप्यं वा विवक्षितम् । चिन्त्यत्वेन चोदित स्यापि अचिन्त्यत्वोक्तिः इतरसजातीयतया चिन्तयितुमशक्यतामाह। तेनानित्यत्वादिसाधकसावयवत्वाद्यनुमानानां धर्मिग्राहकमानबाधोऽभिप्रेतः
दिव्य-शब्दौ11 द्रव्यतस्सन्निवेशादिभिश्च वैलक्षण्यपरौ, अप्राकृत स्थानवर्तित्वाप्राकृतत्वपरौ वा । ‘रूपं विशिष्टं दिवि संस्थितञ्च’, (म.भा.मौ. ५-३४) ‘न भूतसङ्घसँस्थानो देहोऽस्य परमात्मनः) (म.भा.शां.२०६-६०) ‘न तस्य प्राकृता मूर्तिः मांसमेदोऽस्थिसम्भवा’ (वरा.पु.७५-४४) इत्य्-आदिभिस्तथोक्तेः । अद्भुतत्वम् ‘तस्य ह वा एतस्य पुरुषस्य रूपं यथा महारजनं वासः’ (बृ. उ. ४-३-६) । ‘सर्वाश्चर्यमयं देवम्’, ‘तेनाश्चर्यवरेणाहम्’, ‘अपूर्वरूपसंस्थानम्’ इत्य्-आदि-प्रसिद्धनिरतिशयवैचित्र्यवत्त्वम् । नित्यत्वम् अपि ‘नित्याऽलिङ्गा स्वभावसंसिद्धिः’ (र.आ.), ‘नित्यं नित्याकृतिचरम्’ इत्य्-आदिभिरुक्तम् । तेन शुभाश्रयपरविग्रहस्य 12 कल्पितत्वकृतकत्वादि पक्षाः प्रतिक्षिप्ताः । अवतारविग्रहाणामपि सत्यानामेव तत्रैव विभागाविभागावुपदिष्टौ, तेषां प्रत्येकमपि नित्येच्छाधीनतां13 केचिदाहुः । निरवद्यत्वं क्षेत्रज्ञशरीरवत् कर्ममूलत्वदुःखावहत्वादेरभावात् । दिव्यात्मस्वरूपे प्रक्रान्तयोगपुरुषापेक्षयोक्तमनालम्बनत्वरूपमप्यवद्यं दिव्यविग्रहे नास्ति, तस्य यथाश्रुतं यथादर्शनं च सुखानुसन्धेयत्वात् । इह खल्वीश्वरापेक्षया न किञ्चिदपि प्रतिकूलम्, सर्वस्य तदनुकूलतयैव प्रमाणसिद्धत्वात् । तस्य तु परप्रतिकूल सर्वाश्रयस्यापि14 स्वप्रतिकूललेशरहिततया समस्तहेयरहितत्वोक्तिः । एवं मुक्तनित्यापेक्षयापि न कस्यचित्प्रातिकूल्यम्, तेषामीश्वरेण समानभोगत्वात् । अचेतनापेक्षया तु प्रतिकूलानुकूले कदाचिदपि न स्तः । अत एव तस्य हेयमुपादेयं च नास्ति । तस्य सावद्यत्वोक्तिस्तु चेतनविशेषप्रतिकूलस्वभावयोगितया तदपेक्षा । क्षेत्रज्ञानान्तु स्वप्रतिकूलदुःखतत्कारणसम्बन्धात् सावद्यत्वम् । ईश्वरबुद्धिविशेषरूपस्य क्षेत्रज्ञकर्मसाध्यनिग्रहस्यापि कर्मवश्यगोचरतया तद्दोषत्वमेव । ईश्वरस्य तु असौ प्रशासन रूपतया गुण एव । एवं स्थिते दिव्यविग्रहस्य निरवद्यत्वोक्तिः ईश्वरापेक्षया तदाश्रितापेक्षया च शरीरत्वादिशङ्कितप्रतिकूलस्वभावराहित्यपरा ।
निरतिशयत्वमौज्वल्यादिषु सर्वेष्वप्यन्वीयते । तञ्च तदपेक्षयोत्कृष्टाभावात् अनुत्तमत्ववत् । औज्वल्यम्’आदि-त्यवर्णं, (ते. आर. ३-४०-१३) ‘दिवि सूर्यसहस्रस्य’ (भ.गी. ११-१२) इत्य्-आदि-षूक्तं भास्वरतमत्वम् । सौन्दर्यम् अवयवशोभा, येन ‘साक्षान्मन्मथमन्मथः’ (भाग. १०-३२-२) इत्युच्यते । ‘सर्वगन्धः’ (छां.उ.३-४-२१) इति श्रुतिः अनुकूलगन्धविषया, स्रक्चन्दनादि च अत्र कृतकरमित्यभिप्रायेण सौगन्ध्य-शब्दः । सौकुमार्यम् - महाबलत्वेऽपि ‘पुष्पहासः’ (श्रीरं स्त. १-८८) इति नाम दुहानं मार्दवम् । यथोक्तम् - ‘सुकुमारौ महाबलौ’ (रा. अर.१९-१४) इति । लावण्यम् - समुदायशोभा । ‘भूयिष्ठं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते’ ॥ (अहि.सं.५२) इत्याहुः ।
<dg 26/>
यौवनम् इह न कालकृतावस्था, किन्तु तादृशो विग्रहस्वभावः । तद्यौवनस्य नित्यत्वात् । अन्येषामपि हि यौवने कौमारानन्तरभावित्वमुपलक्षणमात्रमेव। युवतयैव केषाञ्चिदुत्पत्तिश्रवणात्, आदि--शब्देन शुभाश्रयादिप्रकरणोक्त सर्वगुणसङ्ग्रहः, तत एवाऽनन्त्यम् । निधि-शब्द इह आश्रयपरो निरतिशय भोग्यत्वव्यञ्जकश्च । एवमुपकारकतमत्वाद्यभिप्रायेण गुणेभ्यः पूर्वं विग्रह उक्तः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
bearing a form agreeable to Thee, Worthy of Thee, unchanging, beyond the reach of thought, Divine in essence wonderful to behold; Ever existing pure and Unsullied; pre-eminently Excellent, of Brilliant Loveliness; Sweet smelling, Charming with the prime of Youthfulness-indeed a Form full of such and a whole treasure of excellences.
FX Clooney
Your divine form is a single form appropriate and pleasing to Yourself,
a treasury of unimaginable, divine, wonderful, permanent, flawless, unsurpassed qualities—
beginning with splendor, beauty, fragrance, tenderness, handsome demeanor, and youth!
मूलम्
स्वाभिमतानुरूप एकरूपाचिन्त्य-दिव्याद्भुत15 नित्यनिरवद्य निरतिशय औज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्य लावण्य यौवनादि अनन्तगुणनिधि16दिव्यरूप !
विश्वास-प्रस्तुतिः
(वत्सल, स्वामिन्, सुशील, सुलभ, सर्वज्ञ, सर्व-शक्ते,
परम-कारुणिक, कृतज्ञ, स्थिर, परिपूर्ण, परमोदार,
एवं-भूत-मार्दवार्जवाद्य्-अनन्त-कल्याण-गुण-परिपूर्ण,)
+++(गोपालदेशिकाह्निके ऽधिकः पाठः)+++
मूलम्
(वत्सल, स्वामिन्, सुशील, सुलभ, सर्वज्ञ, सर्व-शक्ते,
परम-कारुणिक, कृतज्ञ, स्थिर, परिपूर्ण, परमोदार,
एवं-भूत-मार्दवार्जवाद्य्-अनन्त-कल्याण-गुण-परिपूर्ण,)
+++(गोपालदेशिकाह्निके ऽधिकः पाठः)+++
विश्वास-प्रस्तुतिः
स्वाभाविक+अनवधिक+अतिशय–
ज्ञान-बल+ऐश्वर्य-वीर्य-शक्ति-तेजस्-
सौशील्य-वात्सल्य-मार्दव+आर्जव-सौहार्द-
साम्य-कारुण्य-माधुर्य-गाम्भीर्य+औदार्य-
चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम–
सत्य-काम–सत्य-सङ्कल्प–
कृतित्व-कृतज्ञता+आद्य्–
असङ्ख्येय-कल्याण-गुण-गण+ओघ-महार्णव!
विश्वास-टिप्पनी
गोपालदेशिकाह्निके लुप्तोऽयम् भागः।
सुदर्शन-भट्टः
+++(ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-)+++षाड्गुण्यम् -साधारणम् ।
सौशील्यादि-द्वादशम् भक्त-रक्षणासाधारणम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then follow the natural qualities of Paramaatman. Svaabhaavika-etc. The meaning is clear. The first six characteristics are common, then the next twelve are peculiar as being useful for thegrant of salvation to the Devotees.
सौशील्य इत्य्-आदि-शीलं हि नाम - महतो मन्दैस्सहनीरन्ध्रेण संश्लेषस्वभावत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Seela is where a superior has as his natural quality the quality of moving freely with the inferiors;
तस्य च प्रयोजनान्तरौपयिकत्वाभावात्, सौशील्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
when that is exercised for no selfish or other purpose, it is Sau-Seelya.
यद्वा ईश्वरत्वबुद्ध्या यथा आश्रितानां साध्वसं न स्यात्, यथा च स्वयमपि न स्वस्य परत्वबुद्ध्या विलक्षणस्स्यात्, तथा शीलत्वम् - सौशील्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That is to say, Iswara does not cause fear in the heart of the Devotees by his Iswaratva nor does he generate any feeling in them of undue hesitation to approch Him. by His superiority.
वात्सल्यम् - दोषेऽपि गुणत्वबुद्धिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vaatsalya is the quality to find good even in Evil:
यथा सद्यः प्रसूतायाः धेनोर्वत्से,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Just as a cow fondles its new born dirty calf.
इदञ्च क्षमाकाष्ठारूपम्17 ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
This quality is one of the features of extreme patience.
अत एव हि पृथगनुक्तिः क्षमायाः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Hence Patience is not mentioned separatelty.
<dg 29/>
आश्रितविरहासहत्वं - मार्दवम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Maardava is the feeling of loss at any separation from the devotees,
तेष्वस्थानभयशङ्कित्वं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
a feeling of apprehension when they are not present at any place.
मनोवाक्कायैकरूप्यम् - आर्जवम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Aarjava denotes perfect correlation of mind, speech and body in action.
यथा ‘ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे’ इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
So it is said “Rajubudhyat sarvam akhayatum upachakarme” “because of His artlessness He (Rama) began to narrate to Surpanaka all about Himself”
सौहार्दम् - तेषामभिमतश्रेयोभिध्यायित्वम्, स्वसत्तानपेक्षतद्रक्षापरत्वं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sauhaarda:- Ever wishing well of His Devotees:- Intent in doing good to them without caring for any return.
साम्यम् - जन्मवृत्तगुणवैषम्यमनपेक्ष्यं सर्वेषां समाश्रयणीयत्वे स्वीकृतानां तेषां सम्भावनाविशेषेषु मनसा - तद्विषयादरे च समत्वम्, तारतम्यधीरहितत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Saamya is the quality which does not make differentiation on account of birth, conduct or character; making Himself easily available to them all and also rewarding. them, not minding any difference in the gifts offered by them or their nature or value, in short no feeling of any difference.
कारुण्यम् - स्वार्थाऽनपेक्षा18 परदुःखाऽसहिष्णुता ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kaarunya:-Removing the calamities and grievances without expecting any return.
माधुर्यम् - हन्तुं प्रवृत्तावपि रसापहत्वम् यथा ‘एह्येहि फुल्लाम्बुजपत्रनेत्र!’ (म.भा.भी. ५९-९८) इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Maadhurya: kindness shown even in inflicting punishment, such as, death. (ehi ehi phullaambuja patra netra) when Krishna goes to hit him with chakra, Bhishma cried to “Come, Come, Oh the lotus-eyed”.
गाम्भीर्यम् - आश्रितविषये ‘एवमनेन चिकीर्षितम्’ इति परिच्छेत्तुमशक्यत्वम्, दीयमानगौरवसम्प्रदानलाघवाऽनपेक्षत्वं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Gaambheerya - of immesasurable depth (worth) as the greatness and value of the favours granted by Him to His devotees bear no proportion to the insignificance of the deserts of the favoured.
औदार्यम्’अन्यस्मै ददामि’ इत्यभिमानविरहेण ‘पुत्रवत्प्राप्तं भुङ्क्ते’ इति बुद्ध्या दातृत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Audaarya:- with no feeling that any devotee has been over favoured or not satisfied with the favours granted.
इदमियद्दत्तं मयेत्यस्मरणशीलत्वं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
or with no feeling that favours are granted to a stranger, but is only as if to son who is entitled to the patrimony.
यद्वा सर्वं दत्वापि ‘ऋणं प्रवृद्धमिव मे’ इत्यतृप्तत्वम् औदार्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Krishna felt indebted and remembered the debt when Drowpadi cried for help when being dishonoured.चातुर्यम्आश्रितार्थेष्वजडक्रियत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Chaaturya - affording instant relief to his Devotees
यथा साऽनुबन्धरावणवधेन विभीषणाऽभिषेकः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Rama performed the Abhisheka to Vibhishana on the battlefield itself.
यद्वा आश्रितदोषगोपनं वा - चातुर्यम्, यथा पित्रादेरिव ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
overlooking their faults just like a father.
स्थैर्यम् ‘न त्यजेयं कथञ्चन’ (रा. अयो. १०-३) इत्यभिसन्धिमत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sthairya :-Firm determination not to abandon His Devotees.
भक्तरक्षोपयोगिगुणाः द्वादश ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
These twelve (qualities) are useful to Him for saving His Devotees.
अथ तत्रैव रक्षणे विरोधिनिरसनौपाधिकं त्रिकम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then follow three qualities which go to help Him in punishing those who stand in the way of His protecting His Devotees.
धैर्यम् -स्वस्मिन् प्रतिपक्षागमे सत्यविकृतत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Dhairya” - Unshaken stand against foes who stand in the way of granting such protection;
यथा - ‘जटाचूड19 ग्रन्थिं दृढयति’ इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“jatajoota granthim drudhayathi” “making fast the knot of the hair.”
स्वगृह इव परबले प्रवेशसामर्थ्यम्शौर्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Saurya”: Prowess to enter the enemy’s camp as easily as if entering His own house.
प्रवेशे सति तन्निरासकौशलं - पराक्रमः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Paraakrama - power to vanquish foes after entering their camp
यथा ‘छिन्नं, भिन्नम्’ इत्य्-आदि ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Chinnam Bhinnam” (at the time Rama’s destroying Ravana’s moola balam.
अथ भोग्यगुणयुगम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then are mentioned two qualities relating to enjoyment.
सत्यकाम इति नित्यविभूतिमत्त्वम् ‘काम्यस्स्पृहा स्मरः कामः’ इत्यनेकार्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Satyakaama denotes Iswara possessing of Nitya Vibhuti. [The word Kama has many meanings.]
<dg 31/>
सत्यसङ्कल्प इति लीलाविभूतिमत्त्वम्,स्वसङ्कल्पाऽनुवृत्युभयविभूतिमत्त्वं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Satya Sankalpa denotes Iswara possessing the worlds for his Leela i.e., sport or recreation. Thus possessing the two worlds for his Dominion.
अथ भक्तरक्षाविषयम् उक्तद्वादशकादि विलक्षणं20 गुणद्वयमाहकृति इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The next two qualities refer to the protective activities of the Lord apart from the 12 qualities already mentioned.
आश्रितकार्यपूरणेन कृतार्थत्वम् -कृतित्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Krititva is the state of satisfaction in having acceded to the prayers of the Devotees,
यद्वा कृतम् - क्रिया, तद्वत्त्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
therefore the word may mean One who is active,
आश्रितकर्तव्यस्य स्वयं कर्तृत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
that is to say, He Himself does what the Devotees should have done
यथा ‘अहं स्मरामि’ इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Aham smarami”. “I think of him at the death of the devotee though he may not remember me.”
कृतमेव जानाति, न तु करिष्यमाणांशमकृतमिति कृतज्ञः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kritaganata denotes ‘I remember’ i.e., remembering what has been done, but not what has to be done but left undone, or.
यद्वा, स्वल्पमप्याश्रितैर्यत्साधुकृतम्, तदेव जानाति, आश्रितकृतं दोषं स्वकृतं श्रेयश्च न स्मरतीति कृतज्ञः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kritagna is one who remembers only the good act done, however small but not the faults, nor the return He is making to them.
‘एकैक गुणेष्व21नेकान्तर्भावाऽभिप्रायः गण-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word gana is used to denote that in the each of the qualities there are many (subvarieties) qualities contained in them.
स एव ओघः-प्रवाहः,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Such Gana’s flood is “Ogha”.
तस्य महार्णवः,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Mahaarnava is the Ocean.
न गुणायत्तं महत्वम् , गुणास्तु स्वावस्थाऽवस्थानाय भगवत्स्वरूपगताः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Virtues and qualities have no permanent value unless they seek abode in Bhagavan;
अन्यथा न स्थातुं शक्नुवन्तीति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
indeed, without such refuge, they have no value.
वेङ्कट-नाथः
अथ ईदृश विग्रहाभिव्यङ्गयप्रकृष्टगुणभूयिष्ठतामाह स्वाभाविक इति । अत्र सर्वगुण कन्दभूतैराश्रितानाश्रितगोचरव्यापारभेदसाधारणैर्ज्ञानादिभिः परत्वम्, आश्रितरक्षणैकान्तैः सौशील्यादिभिस्सौलभ्यञ्च व्यज्यते । स्वाभाविक शब्देन नित्यत्वमनन्याधीनत्वं च अत्र विवक्षितम् । ताभ्यां मुक्तनित्य22 ज्ञानादिभ्यो व्यवच्छेदः । तद्वलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशय त्वादपि । अनवधिकातिशय-शब्दः -पूर्ववत् । ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.उ.६-८) इत्याम्नातं स्वाभाविकत्वं परत्वञ्च सर्वेषुगुणेषु23 योज्यमिति भावः ।
<dg 28/>
सङ्कर्षणादिव्यूहत्रयाभिव्यक्तिक्रमेण ज्ञानादिगुणद्वन्द्वत्रिकोक्तिः । प्रत्येकं च गुणद्वन्द्वेषु पौर्वापर्यहेतुर्भगवच्छास्त्रोक्तः । यथा ‘बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् । श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्’ ॥ इति ।
[[गुणक्रमोक्तेस्तात्पर्यम्]]
ज्ञानम् इह सर्वसाक्षात्काररूपम्, ‘यः सर्वज्ञः सर्ववित्’ (मुं. उ.१-१-९) ‘सर्वदर्शी स्वाधीनोऽनादिः सर्वेश्वरस्सर्वदृक्’ (रहस्याम्नायम्) इत्य्-आदिभ्यः । उक्तञ्च नाथमुनिभिः - ‘यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः’ (न्या.त.) इति । बलं नाम श्रमप्रसङ्गरहितं सर्वधारणसामर्थ्यम्, ‘एष सेतुर्विधरणः) (बृ. उ. ४-४-४२) ‘यत्र विश्वं भवत्येकनीलम्’,(महाना.उ.१-३)‘तत्सवितुर्वरेण्यम्’ ‘ध्रुवमचलममृतं विष्णुसञ्ज्ञं सर्वाधारं धाम,(मै.उ.६-३४) ‘यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’, (भ.गी.१५-१७) ‘परमात्मा च सर्वेषामाधारः परमेश्वरः’ ( वि.पु. ६-४-४०) इत्य्-आदि-सिद्धम्। ऐश्वर्यम् - ‘एष सर्वेश्वरः’, (बृ. उ.४-४-४२) ‘सर्वेश्वरेश्वरः कृष्णः’ (वि.ध. ७४-४४) इत्य्-आदि-षूक्तमव्याहतेच्छं सर्वनियन्तृत्वम् । ‘अजस्सर्वेश्वरः’ (म.भा. आनु. सहस्रनामाध्यायः) इति च तन्नामपाठः। वीर्यम् - सर्वोपादानत्वे, सर्वधारणे, सर्वनियमनेऽपि विकाररहितत्वम् । यथोक्तम् - ‘विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा’ (ल.तं. २-३०) इत्य्-आदि । शक्तिः स्वेतरसर्वनिर्वाहिका, ‘जगत्प्रकृतिभावो मे यस्सा शक्तिरितीर्यते’ (ल.तं.२-२८) इत्य्-आदिषु उक्ता सर्वोपादानत्वात्मिका । यद्वा, यदन्यैरशक्यत्वादघटितमिव भाति, तद्घटनसामर्थ्यरूपा । तेजः - अस्वाधीनसहकार्यनपेक्षत्वम् । तदुक्तम्’तेजस्त्वन्याऽनपेक्षता, इति । ‘सहकार्यनपेक्षा में सर्वकार्यविधौ हि या । तेजष्षष्ठगुणं प्राहुस्तमिमं तत्ववेदिनः’ ॥ (ल.तं.२-३३) इति च । ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः (मुं.उ.२-२-१०) ‘ज्योतीष्यदित्यवद्राजन् कुरून् प्रच्छादयन् श्रिया’ (म.भा. उद्यो.९२-३२) इत्य्-आदि-निदर्शितं ‘पराऽभिभवनसामर्थ्यं तेजः केचित्प्रचक्षते’। लोके कश्चित् स्वापाद्यवस्थायां स्वविभूतिं न जानाति, जानन्नपि न धारयति, ज्ञात्वा धारयन्नपि न सर्वदा नियन्तुं शक्नोति, शक्तोऽपि धारणनियमनाभ्यां ग्लानो भवतिः अग्लानोऽपि न तत्सत्तास्थितिहेतुस्स्यात् , तद्धेतुश्च पराधीनसहकारिसापेक्षस्स्यात्, नैवमसाविति गुणक्रमोक्तितात्पर्यम् । अथ ‘तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत्कुक्षावन्येप्यन्तर्निवेशिताः’ ॥ ( षाड्गुण्यविवेकः) ‘प्रकृष्टं विज्ञानम्’ (व. स्त. १५) इत्याद्युक्तषाड्गुण्यविततिरूपा आश्रित सङ्ग्रहणरक्षणयोर्विशेषत उपयुक्ता गुणा उच्यन्ते । तत्र सौशील्यम् - शोभन शीलत्वम्, तव्च अत्र अतिमहीयसोऽप्यतिहीनेषु गुहगोपालादिष्वपि साध्वसप्रशमनाऽनन्यप्रयोजननीरन्ध्रसंश्लेषस्वभावत्वम् । यथोक्तं - ‘गुहेन सहितो रामः, (रा. बा. १-३०) ‘अहं वो बान्धवो जातः’ (वि.पु. ५-१३-१२) इत्य्-आदि । ‘वात्सल्यम्’24 ‘शरणागतवत्सलः’ (रा.सुं.२१-२०) इत्याद्यभिप्रेता स्वरक्षरणीयतयाऽभिमतेषु दोषतिरस्कारिणी प्रीतिः । ‘दोषाणां25 गुणत्वेन दर्शनम्’ इति तु अतिवादः । क्षमाकाष्ठाभूतवात्सल्यकथनेन क्षमाऽप्युक्ता भवति ।
‘अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः’ ॥ (भ.गी.९-३०) ‘अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन! । मुच्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा’ ॥ (म.भा. आश्व.९६-४६) इति च आह । मार्दवम् - ‘तं विना कैकयीपुत्रम्’ (रा. यु. १२४-६) इत्य्-आदि-वादिन आश्रितविरहाक्षमतया सुप्रवेशत्वम्, ‘सापराधेषु शासनोन्मुखस्यापि सामप्रधानत्वं वा,’ यदाह - ‘सामोपहितया वाचा रूक्षाणि परिवर्जयन्’ (रा. कि. ३१-८) इति ।
आर्जवम् - ‘ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे’ (रा. अ र.१७-१५) इत्य्-आदिषु उक्तं मनोवाक्कायव्यापाराणां मिथस्संवादित्वम् । तेन संश्रितेषु विप्रलिप्सानुदयः । सौहार्दम् - ‘सुहृदं सर्वभूतानाम्’, (भ.गी. ५-२९) ‘उरसा प्रतिजग्राह पार्थं सञ्छाद्य माधवः’ (म.भा.द्रो. २८-१७) इत्य्-आदि-प्रसिद्धं सामान्यतो विशेषतश्च हितैषित्वम् । तच्च विषयभेदात् क्वचित् ‘एष एवासाधु कर्म कारयति तम्’ (कौषी. उ.३-९) इत्याद्युक्ताधोनिनीषया न विरुद्ध्यते । साम्यम् - जातिगुणवृत्तान्दिनिम्नोन्नतत्वानादरेण सर्वैराश्रयणीयत्वम् । यथा ‘शबर्या पूजितस्सम्यक् (रा.बा.१-५८) ‘धन्योऽहमर्चयिष्यामि इत्याह माल्योपजीवनः ’ (वि.पु. १९-२१) इत्य्-आदि । अत एव ‘समोऽहं सर्वभूतेषु’ (भ.गी. ९-२९) इत्याह ।
एतेन स्वतोऽपक्षपातित्वम्, आश्रितेषु यथार्हमादरसम्भावनाक्रमवैषम्यरहितत्वं च सिद्ध्यति । यथा कर्मफलदायिन ईश्वरस्याश्रयणौपाधिकपक्षपातोऽपि समत्वाविरोधी ।
कारुण्यम् - अनुद्दिष्टस्वप्रयोजनान्तरा परदुःखनिराकरणेच्छा । परदुःख दुःखित्वादिकं तु न लक्षणम्, अव्याप्तेरतिव्याप्तेश्च । सर्वप्रशासितुस्सापराधनिग्रहस्यापि शास्त्रसिद्धत्वात्तदविरोधेन कारुण्यं नियन्तव्यम्, लोकेऽपि तथैव व्युत्पत्तेः । माधुर्यम् - क्षीरवदुपायभावेऽपि स्वादुत्वम् । तच्च ‘माधुर्यं परम्’ इत्य्-आदि-षूक्तम् । द्वेषवतां जिघांसितानामपि दृष्टिचित्तापहारित्वेन रसावहत्वं वा । येन शिशुपालस्य तादृशी चरमदशा । अनन्यमनसाम्’मच्चित्ता मद्गतप्राणाः’ (भ.गी. १०-९) इत्याद्युक्तावस्था च । वधोद्योगप्रदर्शनेऽपि हि सौम्यत्वम् ‘एह्येहि फुल्लाम्बुजपत्रनेत्र !’ (म.भा.भी.५९-९८) इत्य्-आदिषु प्रसिद्धम् । गाम्भीर्यम् - भक्तानुग्रहवदान्यत्वादेः आमूलतो दुरवगाहत्वम् । आश्रितापराधेषु प्रतिग्रहीतृनिकर्षादिषु च सतोऽपि स्वज्ञानस्य गोपनेन दुर्ज्ञानत्वं26 वा । तदभिप्रायेण हि सर्वज्ञस्याप्यविज्ञातृत्वोक्तिः । औदार्यम् - पात्रलाघवं देयगौरवं च अनादृत्य दायविभागन्यायेन प्रत्युपकारादिनिरपेक्षं वितरणरसिकत्वम्, प्रभूतं दत्वाप्यतृप्तत्वं च । अत एव हि अर्थिनस्सर्वान् स्वयमुदारानाह । चातुर्यम् - रक्षणीयेषु ‘जनयन् प्रत्ययं तदा’ (रा. बा.१-६५) इत्य्-आदि-प्रसिद्धमतिशङ्काशमनदोषगोपनादिरूपमजडक्रियत्वम् । येन विभीषणसुमुखादिषु विरुद्धानप्यनुकूलयति, शुभाश्रयस्वाकारप्रदर्शनाद्ययत्नोपायैः विषय वैराग्यादिकं च जनयति ।
स्थैर्यम् - शरणागतसङ्ग्रहे दोषप्रदर्शकैः अन्तरङ्गैरपि अकम्पनीयत्वम्। तथा च आह’मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन’ (रा.यु.१८-३) इत्य्-आदि-। धैर्यम् - ‘अप्यहं जीवितं जह्यां त्वां वा सीते ! सलक्ष्मणाम्’ (रा. अर.१०-१९) इत्य्-आदि-षूक्तमत्यन्ताभिमतवियोगप्रसङ्गेऽपि अभिन्नप्रतिज्ञत्वम् । भीष्माद्याश्रितप्रतिज्ञारक्षणाय स्वप्रतिज्ञा भङ्गेऽप्येतादृश27 प्रतिज्ञासिद्धिः । अत एव ‘द्यौः पतेत्पृथिवी शीर्येत् हिमवान् शकलीभवेत् । शुष्येत्तोयनिधिः कृष्णे! न मे मोघं वचो भवेत्’ (म.भा.उ.८१-४८) इत्य्-आदिभिः अविरोधः । व्यत्ययेन वा स्थैर्यधैर्ये व्याख्यातव्ये । अतर्कितोपनतेऽपि बलवति28 प्रतिपक्षे सावज्ञदृढचित्तत्वं वा धैर्यम् । यथाऽहुः - ‘कपोले जानक्याः’ (ह.ना.१-१९) इत्य्-आदि । जीवत्यपि महाबले रावणे सागरे प्यलङ्घिते विभीषणमभिषिञ्चता दर्शितोऽयं गुणः । शौर्यम् - असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थ्यम् । यथा जनस्थानयुद्धमूलबल निबर्हणा29 दिषु । पराक्रमः - प्रविष्टस्य परसैन्ये ‘छिन्नं भिन्नं शरैर्दग्धम्’ (रा.यु.९३ २२) इत्याद्युक्तो व्यापारः । ‘अभियाता प्रहर्ता च ‘( रा. बा. १३०) इत्याधुक्ताविमौ द्वौ गुणावाश्रितविरोधिभङ्गार्थी, धैर्यादयस्त्रयो वा । अथेष्टप्रापणार्थौ गुणावाह - सत्यकामसत्यसङ्कल्प इति । इह एतौ शब्दौ30 भावप्रधानौ कर्मधारयवृत्तौ वा ।
काम्यन्त इति कामाः 31स्वेन स्वाश्रितैश्च भोग्या विभूतयः, ते च सत्याः - नित्या इत्यर्थः । अमिथ्याभूतकामत्वमप्रतिहतेच्छत्वं, च नैरर्थक्यपुनरुक्तिभ्यां नात्र विवक्षितम् । सत्यसङ्कल्पत्वम् -स्वावताराद्यपूर्वभोग्यान्तरसृष्टौ जगद्व्यापारमोक्षप्रदानादिषु चाऽमोघसङ्कल्पत्वम् । तेन तत्सङ्कल्पादभिमतलाभे निस्संशयत्वं स्यात् । उक्तगुणवर्गादधिकोपकारकं गुणद्वयमाह कृतित्व-कृतज्ञता इति । कृतमिहोपकारः32 कृतज्ञादि-शब्दे तथा दृष्टेः । तद्वत्त्वं कृतित्वम्, उपकर्तृत्वमित्यर्थः । यद्वा - ‘अभिषिच्य च लङ्कायाम्’ (रा.बा.१-८५) इत्याद्युक्तम् आश्रितकार्यपूरणेन कृतकृत्यत्वम् - कर्तव्यशेषरहितेषु कृति-शब्दप्रयोगात् । ‘न मे पार्थास्ति कर्तव्यम्’ (भ.गी. ३-२२) इत्युक्तं33 विहितानुष्ठाननैरपेक्ष्यं धर्मप्रवर्तनार्थानुष्ठानत्वं वा विवक्षितम् तेनापि परोपकारार्थमेव प्रवृत्तत्वमुक्तं भवति । श्रूयते च ‘न कर्मणा वर्धते नो कनीयान्’ (तै.ब्रा.३-१२-५५) इति । तथा च श्रुत्यन्तरम् ‘स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान्’ (बृ. उ.६-४-२२) इति अथवा ‘आदिकर्मणिक्तः’ (पा.सू.३-४-७१) कृतं कर्तव्यत्वेनोपक्रान्तमाश्रितानां यद्धितं, तत्सर्वं पूर्वमेवाऽनेन प्रयोजककर्त्रा प्रारब्धमित्यर्थः । स्वेन कृतं परोपकारं प्रत्यपि स्वस्यैव शेषित्वं वा कृतित्वम् ।
<dg 32/>
कृतज्ञता - परैः कृतस्यानुकूल्यलवस्य पश्चात्तैरनन्तापकारकरणेऽपि स्वयं च अनन्तप्रत्युपकारकरणेऽपि अकृतप्रत्युपकारवत्तदनुबन्धिपर्यन्त संरक्षणाय तस्यैवानुदर्शनम् । यथोक्तं ‘न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथञ्चिदुपकारेण कृतेनैकेन तुष्यति’ ॥ (रा.अयो.११-१) इति । ‘गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् ) (म.भा.उ.४७-२२) ‘त्वदङ्घ्रिमुद्दिश्य’ (स्तो.र.२८) इत्य्-आदि च । एतेन संश्रितानां पश्चाद्दोषसम्भवेऽपि हितैषिणश्शिक्षणमात्रप्रवृत्तत्वं सिद्ध्यति । अथवा, अर्थिषु नियमान्तरानुसारेण स्वकृतं तादात्विकप्रत्याख्यानमकृत्यवत् जानातीति कृतज्ञः । यदूचे - ‘शिरसा याचतस्तस्य वचनं न कृतं मया’ (रा.यु.२४-२१) इति । इदञ्च प्राप्तावसरे भरतस्येवापेक्षापूरणाय स्यात् । आदि--शब्देन ‘आनृशंस्यमनुक्रोशः’ (रा.सुं. ३८-४१) इत्य्-आदि प्रसिद्धसर्वगुणसङ्ग्रहः । असङ्ख्येय शब्दः ‘यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक ! । तथा गुणा ह्यनन्तस्याप्यसङ्ख्येया महात्मनः34 ॥ (वाम. पु. ४-४०) इत्य्-आदि-वचनस्मारकः । आश्रितविरोधिनिरसनार्थतया क्रोधादेरपि कल्याण[^3_pg33] शब्देन सङ्ग्रहः । ‘चतुर्मुखायुर्यदि कोटिवक्त्रः,’ (वरा.पु. ७३७५) ‘वर्षायुतैर्यस्य गुणा न शक्याः ’ (म.भा.कर्ण.९१-१७) इत्य्-आदि प्रसिद्धा परिच्छेद्यगुणानन्त्यं तापत्रयप्रशमनत्वं दुरवगाहत्वं च व्यनक्ति गुणगणौघमहार्णव इति । एकैकगुणस्यावान्तरानेकगुणगर्भत्वं गण-शब्देन व्यज्यते । गुणगणा एव ओघाः - जलप्रवाहाः, तेषां महार्णव इवायमेकाश्रयभूत इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(4) Thou art the Ocean unto which flow rivers of limitless excellent Virtues, all natural to Thee, and useful for the protection of the Devotees, such as, All knowledge, Mighty rulership of the worlds, Untiring virility; Power to act without any outside help; Kind disposition, like that of a cow to its calf. Affectionate tenderness; Gentleness; Truthfulness in Mind and speech and body, Friendliness, Feeling of Equality, Mercifulnesss, Sweetness, Nobility, Generosity, Quickness to respond to the miseries of the Devotees, Firmness in Thy resolve to protect Devotees, Undaunted courage to bring succour to them, Courage to fight for the Devotees: Ability to fight the enemies within their own one camp; Having Thine will ever fuifilled, Having Thy commands irresistable, Thy Deeds fully executed - Always remembering with gratitude (even a little worship) done to Thee.
FX Clooney
You are a great ocean of the host of innumerable auspicious qualities,
all by nature Yours,
flawless and superabundant—beginning with intelligence, strength, lordship, valor, power, radiance, easy accessibility, tenderness, gentleness, straightforward ness, goodheartedness, sameness, compassion, sweetness, profoundness, generosity, adroitness, firmness, fortitude, heroic valor, boldness,
all desires fulfilled, all intentions realized, the capability to carry out all resolves, helpfulness and gratitude!
मूलम्
स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्यशक्ति तेजस्सौशील्य वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य35 स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्सङ्कल्प कृतित्व कृतज्ञताद्यसंख्येय कल्याणगुणगणौघमहार्णव!
विश्वास-प्रस्तुतिः
स्वोचित-विविध-विचित्र+अनन्त+आश्चर्य–
नित्य-निरवद्य-
निरतिशय-सुगन्ध–
निरतिशय-सुख-स्पर्श–
निरतिशय+औज्वल्य-किरीट-मकुट-चूडा+अवतंस–मकर-कुण्डल–
ग्रैवेयक-हार-
केयूर-कटक-
श्रीवत्स-कौस्तुभ–
मुक्ता-दाम+उदर-बन्धन–
पीताम्बर–काञ्ची-गुण–
नूपुर+
आद्य्-अपरिमित-दिव्य-भूषण !
सुदर्शन-भट्टः
अथ भूषणानि॥
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then Ramanuja goes on to describe the adornments and ornaments, on the Divya Vigraha of Iswara.
कटक-मकुटादि जातिभेदो वैविध्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vividha means different kinds of ornaments such as Kataka, Makuta;
एकैकाऽवान्तरभेदपरः विचित्र-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vichitra denotes varieties in each kind of ornaments.
अनन्ताश्चर्यम् निरतिशयाश्चर्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Anantaascharya - Excellent beyond any limit.
उत्तरोत्तरं निरवद्यत्वमनुसन्धेयम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niravada is used to denote, “flawlessness for the purpose of contemplation”.
विग्रहचिन्तायामपि पूर्वभाविनी हि दिव्याभरणचिन्ता ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
When starting contemplating on the Divine Form, naturally the vision of His ornaments comes on prominently before our mental eyes.
निरतिशयसुगन्धत्वादिकम् इतरभूषणवैलक्षण्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The quality of “Niratisaya Sugandhatvam” distinguishes these ornaments from the ordinary or common variety.
‘सर्वगन्धस्सर्वरसः’ (छां.उ.३-४-२१) इत्य्-आदि-वत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
For the Sruti says “He is all sweet smelling and all Rasa”
मकुटङ्किरीटाग्रावयवो नायकाधारः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Makuta means the central piece in the head coronet in which the most precious stone is imbedded.
यद्वा, मकुटम् शिरोभूषणमात्रम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
or it may mean the Crown, itself.
यथा - ‘ना कुण्डली ना मकुटी’ (रा. बा.६ -१०) इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Compare “NaAkundali-Na-Amakuti " “No one in Ayodhya without Kundala and Makuta”
किरीटरूपं मकुटम् किरीट-मकुटम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kireeta Rupa is Makuta, i.e., the head ornament.
दिव्य-शब्दः सर्वत्राऽप्राकृतपरः।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Divya means divine, not the ordinary kind the word is to be taken to quality all the above.
वेङ्कट-नाथः
अथ स्वरूपस्य विग्रहवद्गुणवञ्च विग्रहस्य शोभातिशयहेतुभूतानि भूषणान्युच्यन्ते - स्वोचित इति । उक्त स्वरूपरूपगुणवतस्स्वस्यानुरूपत्वं स्वोचितत्वम्, किरीटत्वादिभेदस्य तत्तत्स्वरूपोपादानसिद्धत्वात्, आश्चर्यत्वस्य पृथगुक्तेश्चात्र विविधविचित्र-शब्दौ हेमरत्नमुक्तादिमयत्वेन तत्तदवान्तरशिल्प विशेषैश्च21 प्रत्येकं वैषम्यं ब्रूतः । अनन्त-शब्दश्चाश्चर्य विशेषकः । असङ्ख्येयत्व विवक्षायामपरिमित-शब्दः पृथुतरत्वपरः । नित्यनिरवद्यत्वाभ्यां प्राकृतभूषणव्यावृत्तिः । ‘स्रग्वस्त्राभरणैर्युक्तम्’ (पौ. सं.) इति हि नित्यं रूपं प्रतिपाद्यते । सर्वदा निरवद्यत्वेन वा कादाचित्कावद्य शङ्काव्युदासः । सर्वगन्धस्यापि दिव्यरूपस्यामोदातिशयहेतुतया निरतिशय सुगन्धत्वम् । अनभिमतकाठिन्याद्यभावात् निरतिशयसुखस्पर्शत्वम् । सूर्यादि तेजोऽभिभावुकदिव्यविग्रहतेजसापि अनभिभूतत्वात् निरतिशयौज्वल्यत्वम् । कर्णिकामकुटव्यावृत्त्या सर्वाधिपत्यसूचनार्थं किरीट-शब्देन मकुटविशेषणम् । धारकपुरुषभेदेन हि मकुटद्वैविध्यं शिल्पशास्त्रादिप्रसिद्धम् । यद्वा34 ‘ना कुण्डली ना मकुटी’ (रा.बा. ६-१०) इति प्रयोगात् शिरोभूषणमात्रे मकुट-शब्दः । अथवा किरीटस्योर्ध्वभागो मकुट-शब्देन उच्यते ।
मकरसन्निवेशं कुण्डलं मकरकुण्डलम्, अविभक्तलक्षणरूपस्यापि श्रीवत्सस्य भूषणसमानतया भूषणत्वोक्तिः । तादृशपृथक्संस्थानयोगाञ्च, भूषण देवताध्याने36 तदभिव्यक्तिः । मुक्तादामानि एकावलीत्रिसरादीनि । पीताम्बरस्य भूषणतया उक्तिः शोभातिशयहेतुत्वमहार्घत्वाद्यभिप्राया ।
यथा
‘अतसीपुष्पसङ्काशः पीतवासा जनार्दनः । व्यभ्राजत सभामध्ये हेम्नीवोपचितो मणिः’ ॥ (म.भा. उद्यो.९४-६५) इति । आदि--शब्देन च हस्तबन्धाङ्गुलीयकादिसङ्ग्रहः । उक्तगुणोत्कर्षहेतुभूतद्रव्यवैलक्षण्यज्ञापनाय भूषणायुधयोः दिव्य-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(5) Oh! Narayna! Thou art decorated with all sorts and kinds of ornaments, Worthy of Thee, Most wonderful to behold, Ever lasting, Faultless, Sweet smelling, Soft to touch, Wonderfully splendourous, such as, the Crown bearing the central diadam of lustrous stone, other head ornaments, ear ornaments, necklaces and neck ornaments, garlands, shoulder-bracelets and bracelets in the hands, Sri Vatsa and Kaustubha, pearl garlands, waistlets, lace cloths, gold waist band and leg ornaments and others precious and innumerable.
FX Clooney
Yours are innumerable divine ornaments,
appropriate to Your own self, of various kinds and types, and endless, wonderful, eternal, flawless and unsurpassed,
unsurpassed in fragrance, unsurpassed in softness of touch, unsurpassed in dazzling brilliance—
beginning with an imperial crown, a crest jewel, ear-rings shaped like the shark+++(sic)+++,
a necklace, pearl garlands,
armlets, bracelets,
the śrīvatsa mark, the kaustubha gem,
a waistband made of a string of pearls,
a raiment of yellow silk, girdle and anklets,
मूलम्
स्वोचितविविधविचित्र अनन्ताश्चर्य नित्यनिरवद्य निरतिशयसुगन्ध निरतिशयसुखस्पर्श निरतशयौज्ज्वल्य किरीट मकुट चूडावतंस मकरकुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादाम उदरबन्धन पीताम्बर काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण!
विश्वास-प्रस्तुतिः
स्व+अनुरूप+अचिन्त्य-शक्ति–
शङ्ख-चक्र-गदा+असि-शार्ङ्ग+आद्य्–
असंख्येय-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्य+आयुध !
सुदर्शन-भट्टः
<dg 33/>
अथ दिव्यायुधानि ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then are mentioned His Divine weapons.
एकैकायुधस्य सर्वायुधकार्यशक्तिमत्त्वम् अचिन्त्य शक्तित्वम्37 ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Achintya Sakti” Each weapon has the power to do the work of all the weapons.
यथा सहायकृत्यङ्किन्तस्य38 येन सप्तमहाद्रुमाः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
as stated in Ramayana about the arrow of Rama.
शैलश्च वसुधा चैव बाणेनैकेन दारिताः’ ॥ (रा. कि. ३६-८) इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
this refers to the splintering the seven saalaa (Aachcha) trees, the Hill and the Paataala Loka by one arrow of Rama let off by him to prove His Prowess to Sugreeva.
परशुटङ्कखनित्रादिकार्यम्, एकेन सालगिरिरसातलभेदिना शरेण हि कृतम्।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“The chisel, and spade were performed by one arrow of Rama” - works generally done with the help of a crowbar.
निरवद्यत्वम् - पूर्ववत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niravadya has been explained already.
निरतिशयकल्याणत्वम् - शोभनावहत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niratisaya Kalyaana denotes the par-excellent splendour of the whole vision.
तान्याभरणकोटावपि हि निविशन्ते ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
including weapons and ornaments.
अथ दिव्यमहिषीविशेषणानां पूर्ववदर्थः39 ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then comes a passage which describes the splendid attributes of Sri and ends by saying that Iswara is the Lord of such a Sri. (The meaning of the passage has been already given).
वेङ्कट-नाथः
एवम् आश्रितानाम् अनुभवार्थानि भूषणान्य् उक्त्वा
तद्-अनुभव-तद्-रक्षणयोः उपयुक्तानि दिव्यायुधान्याह - स्वानुरूप इति । पूर्वोक्तविग्रहादिविशिष्टापेक्षया स्व-शब्दः । तत्तदानुरूप्यं यथोचितं ग्राह्यम् । सर्वेषाम् आयुधानां सर्वायुध कार्य करत्वात्40 अचिन्त्यशक्तित्वोक्तिः । कुठारटङ्ककुद्दालादिकार्यं सालशैलवसुधातलभेदनमेकेन हि शरेण कृतमुच्यते, ‘बिभेद च पुनस्सालान्, (रा. बा.१-६७) ‘सहायकृत्यं किन्तस्य’ (रा. कि. ३६-८) इत्य्-आदिभिः ।
<dg 34/>
यद्वा, नित्यसूरिसमाविष्टतया तदिच्छानुगुणविचित्रकार्यसामर्थ्यमिह विवक्षितम् । उक्तं च उत्तर श्रीरामायणे ‘शरा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः’ ॥ ( उ.रा. १०९-७) इति । चक्रस्य हेतिराजत्वेऽपि शङ्खस्य पूर्वोक्तिः, सर्वशक्तेर्भगवतो मोक्षप्रदान शक्तिसूचकतया अभ्यर्हितत्वाभिप्राया । यथोक्तं परमसंहितायाम्’सृष्टिबीजं तथा पद्मं चक्रं स्थितिनिबन्धनम् । गदा संहारबीजन्तु शङ्खं मुक्तिनिबन्धनम्’ ॥ (परम.सं) इति । एवमन्यत्रापि । अत्र पञ्चानां कण्ठोक्तिः प्राधान्यात् । पञ्चायुधानि पञ्चभूतशक्तिरूपाणीति भागवते41 प्रोक्तम्, अस्त्रभूषणाध्यायादिषु महदादितत्त्वरूपाणीति, तदुभयं तात्पर्यभेदादविरोधेन नेयम् । आदि--शब्देन हल-मुसलादि सङ्ग्रहः । सहस्रभुजविश्वरूपादिविग्रहेषु आयुधानाम् असङ्ख्येयत्वम् । ‘अनेक दिव्याभरणं दिव्यानेकोद्यतायुधम्’ । (भ.गी. ११-१०) इत्य्-आदिभिः सुव्यक्तम्, नित्यनिरवद्यत्वं पूर्ववत् ।
शुभलक्षणपौष्कल्याद् आभरणकोटाव् अपि निविश्य शोभातिशय-हेतुत्वात् अनुकूलतम-स्वभावत्वात्,
मुमुक्षुध्येयविग्रह विशेषण तया मोक्षोपयोगित्वाञ्च निरतिशयकल्याणत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(6) Oh! Narayana, Thou bearest also various weapons of par-excellent powers, and worthy of Thee i.e. the Conch, the Discus, the Mace, the Sword and the Bow and such like other innumerable auspicious divine weapons of exceeding all others in power and Force.
FX Clooney
Yours are abundant divine weapons,
innumerable, eternal, flawless and unsurpassed in auspiciousness,
suited to Yourself, and of unimaginable potency—
beginning with the conch, discus, club, sword, and bow!
मूलम्
स्वानुरूप अचिन्त्यशक्ति शङ्खचक्र गदासि शार्ङ्गाद्यसंख्येय नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध !
विश्वास-प्रस्तुतिः
स्व+अभिमत-नित्य-निरवद्य-+अनुरूप-स्वरूप–
रूप-गुण-विभव+ऐश्वर्य-शील+आद्य्–
अनवधिक+अतिशय+असङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभ !
एवंभूत-भूमि-नीला-नायक !
सुदर्शन-भट्टः
<dg 35/>
अथातिदेशः - एवम् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
He is also the Lord of Bhoo Devi and Neelaa Devi who are also possessed of the splendid qualities similar to these mentioned in connection with Sri. This is indicated by the word “Evambhoota.”
लक्ष्म्य्-अपेक्षया भूम्यादीनामपि शेषत्वाभिप्रायेण पृथगुक्तिः,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The two Devis are mentioned separately as they occupy not the same status as Sri, but are her “Seshabhootas.”
यथा, ‘याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिःप्रियं श्लाघसे’ इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Accordingly, it is said in Sri Guna Ratnakosa that Laxshmi pleases Her Lord by means of Bhoo and Neela whom she considers as her organs breast, hands, feet and look.
वेङ्कट-नाथः
अथ एवंविध भूषणायुधादिविशिष्टस्य निरुपाधिकभोग्यस्य भर्तुः
प्रधान भोक्तृत्वेन +अवस्थिता देवीः प्रतिपादयन्
प्रथमं व्याख्येये प्राप्यप्रापकदशयोर्नित्यान्वितत्वेन निर्दिष्टां श्रियम्
आदरातिशयादुक्तप्रकारविशिष्टत्वे प्रमाणदार्ढ्यद्योतनाय पूर्ववत्पुनराहस्वाभिमत इति । श्रियो वल्लभ इति विग्रहे । ‘नित्यानुकूलं स्वतः’ (च.श्लो.२) इत्य्-आदि प्रसिद्धस्वभावायाः श्रियोऽप्यसौ नित्यनिरतिशय भोग्य इति दर्शितं स्यात्, श्रीर्वल्लभा यस्येति विग्रहे तु, प्रियतमया तया निवेदितं न प्रत्याख्यातीति फलति । ईदृशं च अभिमतत्वम् ‘न जीवेयं क्षणमपि विना तामसितेक्षणाम् , (रा.सु.६६-१०) ‘न त्वहं तां विना सीतां जीवेयं हि कथञ्चन’ (रा.अर.६२-१७) ‘कञ्चिन्न तद्धेमसमानवर्णम्’, (रा.सु. ३६-२८) (कुशली यदि काकुत्स्थः, (रा.सुं.३६-१३) ‘मत्कृते काकमात्रे तु , (रा. सुं. ३८-३९) ‘यदि रामस्समुद्रां ताम्’,(रा. सुं. १६-१३) ‘दुष्करं कृतवान् रामः’ (रा. सुं. १५-५३) इत्य्-आदिभिः तात्पर्यवृत्त्या व्यज्यते । नित्यनियतप्राधान्यतारतम्यक्रमेण श्रिया सह एकासनस्थे देव्यौ तच्छाया सङ्काशतया दर्शयति - एवम्भूत इति । तदाहुः - ‘देवि ! त्वामनु नीलया सह मही देव्यस्सहस्रं तथा’ (श्रीगु.र.को.२६) इति । उपदिश्यमानधर्माधारादति दिश्यमानधर्माधारस्य स्वतः प्राप्तवैषम्याविरोधेन साम्यं व्यवस्थाप्यम् । पररूपेऽपि देवीत्रयसम्बन्धः प्रमाणसम्मतः । यथोक्तं बलपौष्करे ‘देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तु चाखिलैः ॥ शङ्खचक्रधरो नित्यं जानुन्यस्तैकहस्तवान् । अभयप्रदहस्तश्च नीलजीमूतसन्निभः ॥ ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलप्रदः’ ॥ ( ब पौ.) इति । नित्यग्रन्थोक्त ध्याने तु ‘नागभोगे विन्यस्तवामभुजम् , (नि. ग्रं.) इत्येतत्संहितान्तरमूलम् । एतेन वर्णभुजादिविप्रतिपत्तिरपि निरस्ता ।
अचिन्त्यशक्तेर् ईश्वरस्य स्वच्छन्द-वृत्तेः परसञ्ज्ञितरूपेऽपि तत्तत्प्रतिपत्त्यर्थं तत्तत्संहितोक्ता विशेषा नान्योन्यं बाधमर्हन्ति, यथा नरसिंहरूपे सप्तसप्ततिभेदाः, यथा च ‘कृष्णरूपाण्यनन्तानि’ (पाञ्चरात्रम्) इत्युच्यते, एवं परव्यूहादिष्वपि यथोपदेशं सर्वस्य सत्यत्वम् । गीयते च - ‘पश्य मे पार्थ! रूपाणि शतशोऽथ सहस्रशः’ (भ.गी. ११-५) इति ।
क्वचिद्वल्लभतया क्वचिन्नायकतया निर्देशस्य तत्तद्देव्यनुगुणं तात्पर्यं ग्राह्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(7) Thou art also the Consort of Sri with a form harmonising, with Thine and of highly beneficeient qualities, such as Glory, Rulership with unenumerable excellent qualities; Thou art also the consort of Bhoo Devi, and Neelaa Devi, possessed of similar qualities.
FX Clooney
Beloved consort of Śrī, who as a host of innumerable auspicious qualities,
flawless and superabundant, pleasing to Herself, eternal, flawless and appropriate—
beginning with proper form, forms, qualities, powers, sovereign rule, and generosity!
You are the consort of Bhūmī and Nīlā who are like Śrī!
मूलम्
स्वाभिमत नित्यनिरवद्यानुरूप स्वरूप रूप गुण विभव ऐश्वर्य शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणश्रीवल्लभ ! एवंभूतभूमिनीलानायक!
विश्वास-प्रस्तुतिः
स्वच्छन्द+अनुवर्ति-
स्वरूप-स्थिति-प्रवृत्ति-भेद+अशेष-शेषता+एक-रति-रूप-
नित्य-निरवद्य-निरतिशय-
ज्ञान-क्रिया+ऐश्वर्य+आद्य्-
अनन्त-गुण-गण-
शेष–+++(भुक्त-)+++शेष+अशन+++(=विष्वक्सेन)+++–गरुड-प्रमुख-
नाना-विध+अनन्त-परिजन-परिचारिका-
परिचरित-चरण-युगल !
सुदर्शन-भट्टः
अथ परिजनः, - सजातीय विजातीयव्यावर्तकाकारविशिष्टंस्वरूपम् , तस्य प्रतिनियतकालसम्बन्धः - स्थितिः, ईश्वरेच्छां ज्ञात्वानुवर्तते नित्यसिद्धाः, संसारिणस्तु तदनभिज्ञाः, तत्सङ्कल्पात्प्रवर्तन्त इति भिदा अभिप्रेता ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Next, come " Parijanas”: His Attendants. Swaroopa denotes a form distinguished from forms similar to, and different from forms of other kinds. “Sthiti” explains that things exist only so long as they are fixed in their places. It is here intended to point out the difference between Nitya Siddhas and the Samsaarins - While the former understand and know the wishes of the Lord by their own perceptive powers, the Samsaarins do not know of His wishes and desires but act only as the Lord wills.
भेदः - स्वरूपस्थितिप्रवृत्तिविशेषः, यद्वा संसारिभ्यो नित्यानां व्यावर्तकधर्माः, स्वच्छन्दानुवृत्तिस्वरूपस्थितिप्रवृत्तय इत्यर्थः
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word “Bheda” qualifies the words Swaroopa, Sthiti, and Pravritti and shows the difference between them; it may also show that these activities etc., of Samsaarins are different from those of Nityas. Again, the word may be taken together as Swachachanda Anuvrtti - Swaroopa - Sthiti - Pravrttaya: (That is to say, the Nityas are distinct and are to be distinguished from Samsaarins, for, they act understanding intuitively the wishes of the Lord.)
नित्यनिरवद्य इति मुक्तव्यावृत्तिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Nitya-Niravadya distinguishes Nityas from the Muktas.
क्रिया - कैङ्कर्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Kriya” here means Service to the Lord.
ऐश्वर्यम् - देहेन्द्रियादि नियमनम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Aiswarya means the control and direction of the activities of the body, organs, etc.-
शेषाशनः - सेनापतिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sesha-asana is Vishvaksena, (for he is the eater of the remains of the food of the Lord) Cf. Aalvandaar’s Stotra Ratna, “the Eater of the food left over after thy eating.”
छत्रचामरपादुकापतद्ग्रहधारणादिभेदेन नानाविधाः , तत्र एकैककोटिनिविष्टाश्च अनन्ताः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Naanaavidha:of different kinds - Holding the Umbrella, whisking the Chaamara, serving as sandals or as a seat or the holding the betel spittoon are the varieties of such services. In each of the services the devotees employed are so many and innumerable.
विमलाद्यभिप्रायेणोक्तम् परिचारिका इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Parichaarikaa is used keeping in mind females like Vimala (one of the lady attendants who whisk chaamaras.)
उक्तस्स्वरूपरूपगुणविभूषणादीनां परत्वसौलभ्यसाधारणत्त्वात् , दिव्यलोकविशेषात्पूर्वन्तदुभयमाह - परम इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then follows a description of Vaikuntha and describes Naraayana as the Lord of Vaikuntha.
परमस्वरूपम् - नियन्तृस्वरूपम् , परमस्वभावः - सौलभ्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
In the former case, ParamaSwarupa means His natural and supreme attribute of Rulership. Saulabhya is easy accessibility.
निरूपकादन्यो निरुपाधिकधर्मः - स्वभावः।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Parama Swabhaava denotes some quality, other than swaroopa.
परमयोगि इत्य्-आदिकं देशविशेषणं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
In the next passage, “Parama Yogi Vangmanasa Aparicchedya Swarupa Swabhaava” may be taken by itself as in the vocative case qualifying Paramatman’; or as qualifying Vaikuntha.
तथा श्रीवैकुण्ठगद्योक्तेः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
as described in Vaikuntha Gadya.
तदा, स्वरूपं - सन्निवेशविशेषविशिष्टद्रव्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
In the latter, the word Swarupa will signify a structure.
तस्य भोग्यताप्रकारः स्वभावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Enjoyability is its natural attribute.
यदुगिरिग्रन्थ-टीप्पनी
शेषाशनः - ‘त्वदीय भुक्तोज्झित-शेषभोजिना’ इति हि प्रसिद्धिः स्तोत्ररत्ने ।
वेङ्कट-नाथः
एवं देवीपर्यन्तैः आम्रेडितातिशयस्य परमभोग्यस्य अरण्य-चन्द्रिकात्व-व्युदासाय
नित्यभोक्तृवर्गमाह स्वच्छन्द इति । सूरयो हि42 स्वाम्यभि मतं स्वयं साक्षात्कृत्या आत्मात्मीयं सर्वं तदर्थं विनियुज्य तमनुवर्तन्त इति ज्ञापनाय स्वच्छन्दानुवृत्ति इत्युक्तम् । स्व-शब्दः पूर्वोक्तवदीश्वरविषयः । स्थितिः इह स्वरूपस्य सर्वकालानुवृत्तिः । प्रवृत्तिः एषां कैङ्कर्यरूपो व्यापारः । स्वरूपादीनां भेदः तत्तत्प्रतियोग्यपेक्षया विलक्षणव्यवहारहेतुभूताकारः । अशेष इत्य्-आदिकं व्याख्यातम् । स्वरूपनित्यत्वे सर्वात्मसाधारणेऽपि सूरिषु विशेषत उक्तेन सदा43 सर्वज्ञत्वलक्षणेन नित्यत्वेन मुक्तव्यावृत्तिः, नित्य निरवद्यतया वा । निरवद्यत्वं हि दुःखादिदोषगन्धरहितत्वम् । यथोक्तम् ‘हताखिलक्लेशमलैस्स्वभावतः’ (स्तो.र.४१) इति । ज्ञानादि विशेषणं वा नित्यनिरवद्यत्वम्, तेन कैङ्कर्ये स्वाधीनस्वार्थ कर्तृत्वभोक्तृत्व 44-भ्रमराहित्यसिद्धिः । ज्ञानस्य निरतिशयत्वम् ईश्वरज्ञानवत्सर्वविषयत्वम् । क्रियाया ऐश्वर्यस्य च निरतिशयत्वं कैडूर्यमात्रे स्थाप्यम् । सर्वविषयत्वे तु परवत्सर्वशरीरत्वादिप्रसङ्गः । अत एव45 शक्तानामपि जगद्व्यापारेषु उदासीनत्वमित्यापाता-स्तिकपक्षोऽपि निरस्तः । प्रवृत्ति-शब्देन क्रियायाः पृथङ्निर्दिष्टत्वात् अत्र क्रियाविषयम् ऐश्वर्यम् इति वा योज्यम् । तदप्येषां परार्थं पराधीनञ्च । आदि--शब्देन कैङ्कर्यानुगुणबलवीर्यादिसङ्ग्रहः ।
<dg 36/>
तत्तत्सेवाविशेषनियतासङ्ख्यातावान्तरेच्छादिवैचित्र्याभिप्रायेण अनन्तगुणगण-शब्दः । शेषादीनां विशेषाः ‘तया सहासीनम्’ (स्तो. र. ३९) इत्य्-आदि श्लोकेषु द्रष्टव्याः । आसन-वाहन-सेनेश-द्वारपालादिभेदेन नानाविधत्वम्। अनन्तत्वम् इहासङ्ख्यातत्वम् । इह परिजनाः - छत्रधारकादयः । परिचारिकाः अनुग्रहविमलाद्याः । तथा कान्तिवारुणीसूत्रवतीरुद्रासुकीर्ति प्रभृतयः शेषादिपत्न्यः । ता अपि हि तेषां यथार्हं सान्तःपुरस्वामि सेवाविशेषार्था एव46 | एवं ‘गुणैर्दास्यमुपागतः’ (रा. कि. ४-१२) इति न्यायेन स्वामिविग्रहगुणैरपि कैङ्कर्ये प्रेरितत्वमभिप्रेत्याह परिचरितचरणयुगल इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(8) Thou possessest also innumerable followers and servants, male and female, to minister to Thy wants and comforts, waiting at Thine Feet, whose form, existence and actions are due to Thine will; they are, Aadisesha, Vishvaksena, Garuda, who are endowed with host of beneficient virtues, Unperishing, Pure, Of limitless wisdom and energy for action, Endowed with power to direct and maintain.
FX Clooney
Your feet are eternally waited upon by varied and unlimited male and female attendants—
first of all Śeṣa, Viṣvaksena, and Garuḍa—whose differences in proper form, continuation, and activity are in accord with Your will, who are of such a nature as find their sole pleasure in being unconditionally dependent, who have a host of endless auspicious qualities—beginning with eternal, flawless and unsur passed knowledge, activity, and lordship!
मूलम्
स्वच्छन्दानुवर्ति स्वरूपस्थिति प्रवृत्तिभेद अशेषशेषतैक रतिरूप नित्यनिरवद्यनिरतिशय ज्ञान क्रियैश्वर्याद्यनन्त कल्याणगुणगण शेष शेषाशन गरुडप्रमुख नानाविध अनन्तपरिजन परिचारिका परिचरित चरणयुगल!
विश्वास-प्रस्तुतिः
परम-योगि-वाङ्-मनसा+अपरिच्छेद्य-स्वरूप-स्वभाव,
स्व+अभिमत-विविध-विचित्र+अनन्त-भोग्य–
भोग+उपकरण–भोग-स्थान–समृद्ध
+अनन्त+आश्चर्य
+अनन्त-महा-+++(भोग्य-)+++विभव
+अनन्त-परिमाण-
नित्य-निरवद्य-निरतिशय-(श्री)वैकुण्ठ-नाथ !
सुदर्शन-भट्टः
विविधत्वं जातिभेदः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vividha denotes different varieties of the same thing.
एकैकस्य47 व्यक्त्यानन्त्यम् अनन्त शब्दार्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The innumerability of each of the variety of the things is described by Ananta.
आश्चर्यतारूपेण आनन्त्यं वा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Wonders are so many and numerous.
विभवः -आयतनाद् बहिः भोग्य समृद्धिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vibhava denotes the abundance of enjoyable things-outside such as,
स्रक्चन्दनादिव्यतिरिक्त रथादि48-समृद्धिर्वा।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
merely, chariots, etc., (not garlands, and sandals, etc.)
नित्यं नित्यसंस्थानम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Nitya means Eternal Existence.
निरवद्य इति अवद्यादयो49 न तत्रत्यानामित्यर्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niravadya is used to show that there is no blemish or fault in any of the things found in Vaikuntha.
निरतिशय इति अनुत्तमवत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Niratisaya the word nothing higher than this, meaning something like Anuttama.
वेङ्कट-नाथः
एवन्नित्यविग्रहादियुक्तस्य नित्यसूरिसेव्यस्य मुक्तगम्यनिवासस्थानमाह - परम इति ।
परमयोगिवाङ्मनसापरिच्छेद्यस्वरूपस्वभाव इति सम्बुध्यन्तं केचिद्व्याचक्षते, तदा पूर्वोक्तानां सर्वेषां परत्वसौलभ्योपयोगित्वज्ञापनाय तदुभयं स्वरूप-स्वभाव-शब्दाभ्यां विवक्षितम्, स्वरूपनिरूपकं निरूपित स्वरूपविशेषकञ्चेति धर्मवर्गद्वयं वा । एवं सति पूर्वोक्तमेव मुखान्तरेण अनवसरे निगमितं स्यात् । इतो वरमनुक्तपरमव्योमप्रकर्षकथनम् ।
तथा च तद्विशेषणतयैव सप्तम्यन्तत्वेन श्रीवैकुण्ठगद्येऽपि एतत्पठितम् ।
<dg 37/>
परमयोगिनः साक्षात्परब्रह्मस्वरूपाः श्वेतद्वीपवासिनः । ‘ये तु मुक्ता भवन्तीह नरा भरतसत्तम! । तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥ (म.भा.शां.३३५-१४) इति हि स्मर्यते । परमव्योम्नस्स्वरूपं शुद्धसत्वमयम् । तमसः परस्यापि परमव्योमस्वरूपस्यापरिच्छेद्यत्वमूर्ध्वादिभागेन व्यवस्थाप्यम् । तत्स्वभावो भोग्यतमत्त्वादिरूपः । विविध-शब्दो भोग्यप्रभृतिषु त्रिष्वप्यन्वेतव्यः । भोग्यम् अप्राकृतं स्वाश्रयं शब्दादि। तदुपस्थापकतया स्वीकृतानि भोगोपकरणानि। भोगस्थानानि क्रीडापर्वतादीनि । स्वरूपगुणसंस्थानादि वैचित्र्यातिशयेन नित्यमपूर्ववदनुभाव्यतया अनन्ताश्चर्यत्वम् । प्रत्येकं महद्भिरसङ्ख्यातैश्च रत्नभूषणभद्रासनादिभिर्योगात् अनन्तमहाविभवत्त्वम् । पर्यङ्कविद्यादिषु हि विचित्रनदीह्रदसभादिविशिष्टं मुक्तगम्यं स्थानमुपदिश्यते । ‘सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते’ (जै. ब्रा. ४-३८४) इति च तलवकाराः अधीयते । पूर्वोक्तापरिच्छेद्यत्वे हेतुरनन्तपरिमाणत्वम् । अनित्यसावद्यस्थानान्तरव्यवच्छेदार्थमिह नित्य निरवद्यत्वोक्तिः । अत्र पञ्चोपनिषत्प्रतिपाद्यानां भूतानां तत्सङ्घातरूपाणाञ्च केषाञ्चिद्भगवन्नित्येष्टत्वेन नित्यत्वमविरुद्धम् । त्रिगुणवत्कर्मिणां भगवत्स्वरूपतिरोधानादिहेतुत्वाभावान्निरवद्यत्वम् ।
निरतिशयत्वं स्थानगुणैस्सर्वैः सर्वस्थानातिशायित्वम् । यथोक्तं महाभारते - ‘रम्याणि कामचाराणि विमानानि सभास्तथा’ (म.भा.शां.१९६-४) । इत्युपक्रम्य ‘एते वै निरयास्तात! स्थानस्य परमात्मनः’ (म.भा.शां. १९६-६) इति । ‘आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति । ईदृशं परमं स्थानं निरयास्ते च तादृशाः’ ॥ (म.भा.शां.९६-११) इति च । ‘कुठि -गतिप्रतिघाते’ (धा.पा.६५) इति धातुः, गतिरवगतिः, ज्ञानप्रतिघातककर्मप्रसङ्गरहिता नित्यसूरयो विकुण्ठाः, तैस्सम्बन्धादत्र वैकुण्ठ-शब्दः अप्राकृतस्थानपरः । ‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ ॥ (कठ. उ. १-३-९) इत्य्-आदिभिस्तत्सिद्धिः । अत्र हि व्यतिरेकविभक्तिस्वारस्यात् ‘परमे व्योमन्’ (तै. आर.२-८,९-६) इत्य्-आदिभिः ऐकार्थ्याच्च परमपद-शब्दो न परमात्मस्वरूपपरः । ‘नाकस्य पृष्ठमारुह्य गच्छेत् ब्रह्म सलोकताम्’, (महाना.उ. ५ - २०) ‘दिव्यं स्थानम् अजरञ्चाप्रमेयम्, (म.भा.मौस.५-२७) ‘एकान्तिनः’ इत्यारभ्य ‘तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः’ (वि.पु.१-६-३९) इत्य्-आदिभिः स्थानविशेषस्य स्पष्टोक्तेः, न चैतेषाम् अण्डान्तर्वर्तिभगवल्लोक विषयत्वम्, तदन्तर्वर्तिनां सर्वेषाम् उत्पत्तिविनाशश्रवणात्, एतस्य च नित्यत्वाक्षरत्वाजरत्वोक्तेः, ‘अण्डम्भित्वा तथोद्गता’ (ल.तं.) इत्य्-आदिभिरण्डबहिर्भूतत्वसूचनाञ्च । तथाऽपि त्रिगुणान्तर्भावो अस्त्विति चेन्न, तमस्तत्वादर्वाचां सुबालोपनिषदि प्रलयप्रतिपादनात्, मुक्तगतौ शीर्षकपालप्रभृति तमःपर्यन्तं तत्त्वभेदेन गन्तव्यदेशाभिधानात् । ‘आदि-त्यवर्णं तमसः परस्तात्’, (तै.आर.३-४०-१३) ‘तमसः परमो धाता शङ्खचक्रगदाधरः’(रा.यु.११८-१५) इत्यादेश्च । नाथः - ईश्वरः । ‘नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु’ इति नाथतेरैश्वर्यार्थत्ववचनात् तस्मिन् दिव्यदेशे भगवत ऐश्वर्यं स्वेनाप्यपन्होतुमशक्यमिति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(9) Thou art also the Lord of Vaikuntha, the Eternal, Faultless, Unmeasurable World, beyond the speech or the minds of even the holy Yogins - a Country dear to Thee, containing in itself all kinds and varieties of enjoyments and the things helpful for such enjoyments as also places convenient for such enjoyments, full of all kinds of Vibhavas - Such is the Vaikunta of Thine, Oh! Lord.
FX Clooney
Your proper form and proper nature are beyond the limits of the words and minds of the highest yogis!
You are the Lord of Vaikuṇṭha, eternal, flawless and unsurpassed,
of endless measure, of endless great glory, endless in amazement,
with objects of enjoyment and instruments of enjoyment endless in kind and variety, all pleasing to You.
मूलम्
परमयोगिवाङ्मनसापरिच्छेद्य स्वरूपस्वभाव ! स्वाभिमत विविध विचित्रानन्त भोग्य भोगोपकरण भोगस्थानसमृद्ध अनन्ताश्चर्य अनन्त महाविभव अनन्तपरिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ !
विश्वास-प्रस्तुतिः
स्व-सङ्कल्प+अनुविधायि-
स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषता+एक-स्वभाव–
प्रकृति-पुरुष-काल+आत्मक–
विविध-विचित्र+अनन्त-भोग्य–
भोक्तृ-वर्ग–भोग+उपकरण–भोग-स्थान-रूप–
निखिल-जगद्+उदय–विभव+++(=स्थिति)+++-लय-लील ! +++(5)+++
विश्वास-टिप्पनी
गोपालदेशिकाह्निके ऽन्तिमैव पङ्क्तिर् विद्यते।
सुदर्शन-भट्टः
अथ लीलाविभूतिः - 50नियमनञ्च धारणसिद्धम्50 स्वसङ्कल्प इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then follows a description of Leelaa Vibhooti, the Universe and all things in it. By the word, “Svasankalpa” it is meant to convey the meaning that not only that He controls and directs but also that He sustains and protects.
शेषत्वमाहस्व इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then about Seshaatvam. This means that the whole Universe is under service to Him.
कालस्य प्रकृत्यनन्तरानुक्तिः प्रकृतिपुरुषयोस्संयोग वियोगहेतुत्वात् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kaala generally comes after Prakrti as both are Achetana. Here, the reason why “Kaala” is not mentioned next after Prakrti but before is because it acts as the Kaarana" the cause of the Purusha and Prakrti bringing together and also separating one from the other.
‘तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरम्’ इति ह्युच्यते ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Vishnu Purana says: “Distinct from Vishnu, there are two things called Pradhana and Purusha. As the active principle to bring them together also to separate them is Kaala. That also is His body.”
शब्दस्पर्शादिरूपेण वैविध्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Vividha” variegated in the matter of sound, touch, etc.
तदवान्तर भिदया51। विचित्रत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Vichitra” implies distinction.
निखिल-शब्देन ब्रह्मादिव्यावृत्तिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word Nikhila is used to differentiate Iswara from Brahma (The Four-faced) and others.
वेङ्कट-नाथः
एवं नित्यविभूतियोग उक्त, अथ तत्प्रतिद्वन्द्विलीलाविभूतियोगं वदन् ‘कारणं तु ध्येयः’ (अथर्व.२) ‘यो ब्रह्माणं विदधाति पूर्वम्’ (श्वे.उ.६-१८) इत्य्-आदि-प्रसिद्धस्य मुमुक्षुसमाश्रयणीयस्य ‘यतो वा इमानि भूतानि जायन्ते’, (तै.उ.भृ.१) ‘जन्माद्यस्य यतः’ (ब्र.सू. १-१-२) इत्याद्युक्तं लक्षणमप्याह - स्वसङ्कल्प इति । बद्धानाम् ईश्वराभिमतापरिज्ञानेन प्रायशः प्रवृत्तिः इति ज्ञापयितुम् अचित्समभिव्याहारेण सर्वचिदचित्सा धारणं52 सङ्कल्पानुविधायित्वम् उक्तम् । प्रकृत्यादीनां स्वरूपस्थित्योरीश्वरनित्येच्छावशेन नित्यसिद्धत्वमिहाभिप्रेतम् । प्रवृत्तिषु तु सङ्कल्पजन्यत्वम् । प्रकृतेस्स्वरूपं त्र्यैगुण्येन निरूप्यम् । संसारिपुरुषस्य तु सङ्कुचितज्ञानत्वेन । कालस्य तु कलामुहूर्तादिमयत्वेन । त्रयाणां स्थितिः पूर्ववत् । प्रवृत्तिः व्यापारः । अत्र प्रकृतिग्रहणं प्राकृतानामप्युपलक्षणम् । तेन नारायण-शब्देन ‘नराज्जातानि तत्त्वानि’ (म.भा.आनु.१८६-७) इत्याद्युक्तनिरुक्तिस्सूच्यते । प्रकृत्यात्मक जगदुक्त्या वा कार्यतत्वसङ्ग्रहः ।लीलाविभूतेरशेषत्वान्यशेषत्वभ्रमसम्भवस्थानत्वात्त दपनोदनायाऽत्र स्वशेषतैकस्वभावत्वमुक्तम् । शेषत्वस्य शरीरलक्षणत्वसिद्धयै यावत्सत्ताकत्वमिह विवक्षितम् । तथा निरुपाधिकान्यशेषत्वराहित्यं च । अत्र शरीरस्वभावेष्वाधेयत्वादिषु सङ्कल्पानुविधायित्वोक्त्या नियाम्यत्वं शाब्दम् ।आधेयत्वमप्यभिप्रेतम् । प्रकृत्यात्मकत्वं भोग्यभोगोपकरणदौ । समष्टिव्यष्टिपुरुषविभागरूपतया पुरुषात्मकत्वं भोक्तृवर्गे । अत्र भोक्तृत्वं कर्मोपाधिकम् । परमपदे तु निरुपाधिकभोक्तॄणां सतामप्यनुक्तिः तत्रत्यानां स्वाधीनस्वार्थभोक्तृत्वभ्रमराहित्याभिप्रायेण ।
<dg 40/>
क्षणलवादिषु कालावच्छेदेषु कालात्मकत्वम् । तेषां जगच्छब्देन ग्रहणम् अभूदस्तिभविष्यतीत्यादिरूपेण जगद्विशेषणत्वप्रतीत्यनुसारात् । व्याप्तस्यापि कालस्य लीलाविभूतिमात्रे पठनम् । ‘कालं स पचते तत्र न कालस्तत्र वै प्रभुः’ (म.भा.मोक्ष.१९६-९) ‘कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः’ (वि.पु.४-१-८४) इति नित्यविभूतेरकालकाल्यत्वज्ञापनार्थम् । तत्र तत्तदनित्यसद्भावेऽपि लीलाविभूतिवत्कालनियमो नास्तीति विशेषः । भोग्यप्रभृति सर्वं प्रत्येकं विविधम् । तत्तदवान्तरविशेष विवक्षया विचित्रत्वोक्तिः, आश्चर्यतया वा, ‘जगदेतन्महाश्चर्यं रूपं तस्य महात्मनः’ (वि.पु. ५-११-७) इति ह्युच्यते । एकैकवर्गव्यक्तीनाम् असङ्ख्यातत्वादनन्तत्वम् । भोग्यभोगोपकरणादीनि पूर्ववत् । प्राकृतत्वादिरिह विशेषः । भोगश्चात्र सुखदुःखानुभवात्मकः । महदादीन्यनन्तब्रह्माण्डादीनि च सङ्गृह्णता निखिल-शब्देन कतिपय जगत्कारणविरञ्चादिव्यावृत्तिः । निखिलजगदुदयादेः एकैकस्यैव ब्रह्मलक्षणत्वे सम्भवत्यपि व्यष्टिसृष्ट्यादिनीत्या सम्भवन्तीं भिन्नकर्तृकत्वशङ्कां निरसितुम् इह त्रितयोक्तिः । जगन्-निष्ठानाम् उदय-विभव-लयानां परमपुरुषलीलात्वोक्तिः सर्वशरीरतया तत्तद्विशिष्टरूपेण तत्तदवस्थो भवतीत्युपादान त्वसूचनार्था । परिपूर्णतया प्रयोजननिरपेक्षस्य कथं जगद्व्यापार इति शङ्कानिरसनाय लीला-शब्दः । ‘क्रीडतो बालकस्येव (वि. पु. १-२-१८) ‘क्रीडाहरेरिदं सर्वम्’, (म.भा. शां. २०६-५९) ‘हरे ! विहरसि क्रीडाकन्दुकै रिव जन्तुभिः’(म.भा.सभा.९०-३१) ‘लोकवत्तु लीलाकैवल्यम्’ (ब्र.सू.२ -१३३) इत्य्-आदिभिस्तत्सिद्धिः । लीलारूपप्रयोजनवतोऽपि अवाप्तसमस्तकामत्वं सर्वत्राविहतेच्छत्त्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(10) Thy sport is the Creation, Maintenance and the Dissolution of the worlds which contain in themselves many different kinds of enjoyments, the instruments of enjoyment and suitable places for such enjoyment, such as, Prakrti, Purusha and Kaala which are by their nature ever under service to Thee, Oh! Lord, in the matter of their Form, their existence, and their activities; they always follow only Thy wishes and the dictates of Thine.
FX Clooney
Your play consists in the arising, enduring, and dissolution of the whole world
which in form is comprised of objects of enjoyment, kinds of enjoyers, instruments of enjoyment, and places of enjoyment,
all endless in kind and variety, made of primal matter, person, and time,
whose sole proper nature is to be dependent in proper form, continuation, and activity, in accord with Your intentions.
मूलम्
स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति स्वशेषतैकस्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप निखिलजगदुदय विभव +++(व/)+++लयलील !
विश्वास-प्रस्तुतिः
सत्य-काम ! सत्य-सङ्कल्प !
पर-ब्रह्म-भूत ! पुरुषोत्तम !
महा-विभूते ! श्रीमन् !
नारायण ! (श्री-)वैकुण्ठ-नाथ !
विश्वास-टिप्पनी
गोपालदेशिकाह्निके ऽयम् भागो लुप्तः।
सुदर्शन-भट्टः
अथ उक्ताकारेषु समाख्याष्टकं प्रमाणयति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The following eight Namas (names) are used as proofs to show that He is possessed of all the qualities mentioned before as natural to Him.
सत्यकाम इति - नित्यविभूतिमत्त्व-सिद्धिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
By Satyakaama, the Lord is denoted as possessing Nitya Vibhooti.
सत्यसङ्कल्प इति लीलाविभूतिमत्त्वसिद्धिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Satya Sankalpa denotes the possession of Leelaa Vibhooti
निमित्तमात्रत्वं सत्यसङ्कल्पतया सिद्धमिति उपादानतामप्यभिप्रयन्नाह परब्रह्मभूत इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
and also that He is the nimitta Kaarana (creative cause). To show that He is also the Upaadaana Kaarana, the name parabrahmabhoota is used.
उपादानत्वेऽपि चिदचिद्गतदोषास्पृष्टत्वमाह पुरुषोत्तम इति।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To show that though He is the Upaadaana Kaarana, He is not affected by any infirmities of material things, the next Nama, Purushothama is used.
उपादनभूतस्य कथं जगद्वैलक्षण्यम् इति शङ्कायां घटकमर्थमाह महाविभूते इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To dispel any doubt that may be created as to how, being the Upadaana Kaarana, He can be said to be separate and distinct from Prakarti, the next Name Mahaa Vibhooti is used reminding us of the harmonising sruti.
शरीरकतया विभूतिमत्त्वमभिप्रेतम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That is to say, He has the Vibhootis as His Body.
विभूतिं प्रति शेषत्वं द्विनिष्ठम् इत्यभिप्रायेणाह श्रीमन् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To denote that they both Iswara and Sri. are jointly Masters, the word ‘Sriman’ follows.
महविभूते इति शरीरकतया विभूतिमत्त्वसाधारणोक्तमर्थं विविच्य दर्शयिष्यन् दोषास्पृष्टत्वसिद्धये लीलाविभूति शरीरकत्वमाह - नारायण इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The next name Naaraayana “is used to convey the same sense in some detail (i.e., Iswara and Sri). That He is not affected by the infirmities attaching to the Vibhooti, has been already expressed in some what general terms by the word “Mahaa Vibhooti.
‘नराज्जातानि तत्त्वानि नाराणीति ततो विदुः’ इति निर्वचनमिहाभिप्रेतम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The Nirukti of the word (Naaraayana) Naraat Jaataani. Tatvaani Naraani Iti Tato Vidu:”
नित्यविभूतियोगे समाख्यां स्पष्टयतिवैकुण्ठनाथ इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Again, to show explicitly and authoritatively the existance of NityaVibhooti, the name Vikunta Naatha is used.
‘कुठि-गतिप्रतिघाते’ (धा.पा.३४३) इति धातुः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The root meaning of Vaikuntha is as follows: The root Kuthi = gati-Pratighaata means “to obstruct know ledge”
ज्ञानप्रतिघातिकर्मादिरहितास्सूरयो विकुण्ठाः, तत्सम्बन्धिदेशो वैकुण्ठाख्यः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The obstructions are caused by Karma. Vi = without; Vikuntha = without karma or obstruction to knowledge. Souls whose knowledge is not obstructed by karma and such like impediments are called Vikuntha. The place where they reside is called Vai-kunta.
वेङ्कट-नाथः
एवं नारायण-शब्दोक्तं शरण्यत्वं यथानिरुक्ति सम्बोधितम् । अथ ‘सत्यकाम इत्यादेः पूर्वापरपुनरुक्तिपरिहाराय’ ‘प्रागुक्तेष्वेवार्थेषु इदं समाख्याष्टकं प्रमाणीक्रियते’ इति केचित् व्याचख्युः । तत्र चतुर्णां समाख्यात्वं व्यक्तम् । सत्यकामादि-शब्दानां कथञ्चित्समाख्यात्वं कल्प्यम् । परब्रह्मभूत इत्यत्र तु ब्रह्म53-शब्दमात्रं समाख्या । अन्यथाऽपि नामत्वकल्पने गौरवं स्यात् । अत्र पर-शब्देन विशेषणन्त्वौपचारिक प्रयोगव्यवच्छेदार्थम् । सत्यकाम-सत्यसङ्कल्प-शब्दौ पूर्वं विशेषणमात्रपरतयोक्तौ । इह तु तत्प्रमाणतया यथाश्रुतितत्तद्विशिष्टविषयतयेति विशेषः । लीलापदसूचितं जगन्निमित्तत्वमपि सत्यसङ्कल्पत्वेन स्थापितम् । जगुदुदयादिलीलात्वद्योतितमुपादानत्वन्तु परब्रह्मभूत इत्यनेनाभिप्रेतम्। ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ (छां.उ.३-१४-१) इत्याद्यनुसारात् । एवमभेदश्रुतिबलादुपादानत्वेन अभिमतस्य ब्रह्मणस्स्वरूपपरिणामपक्षेण चिदचिद्गतसर्वदोषान्वयश्शङ्क्येत इति तत्परिहाराय स्वयमेव गीतं श्रुत्यर्थमाह पुरुषोत्तम इति । अत्र पञ्चम्यादि विभक्तित्रयेऽपि54 समासो द्रष्टव्यः ।
नन्वेवं भेदाभेदश्रुत्योः विरोधादन्यतरबाधस्स्यादित्यत्र घटकश्रुतिसिद्धमाहमहाविभूते इति । विभूति-शब्दोऽत्र नियन्तव्यपरः । ‘यदण्डम्’ (स्तो. र. १७) इति श्लोकार्थो इहानुसन्धेयः । शरीरतया विभूतित्वादत्र स्वरूपभेदेऽपि सामानाधिकरण्यं मुख्यमिति भावः । एवं सर्वविलक्षणस्य सर्वनियन्तुर्जगद्व्यापार लीलायां55 ’ स्ववल्लभासामरस्यमभिप्रेत्याह श्रीमन् इति । ‘विभूतिं प्रति शेषित्वं द्विनिष्ठम्’ इत्यभि प्रयन्नाह56 - श्रीमन् इति, इति व्यासार्याः । विभूतीनामाधेयत्त्वादिनियमैः शरीरत्त्वं व्यञ्जयितुमाह - नारायण इति ।
नित्यविभूतियोगं शुद्धसृष्ट्युपादानत्त्वञ्च प्रभूतोपकारकत्त्वज्ञापनाय विशेषतस्सूचयति वैकुण्ठनाथ इति । इदं सम्बुद्धिद्वयं वा, तदा तु तत्त्वादि साक्षात्कारप्रतिघातकरहितदेशादिसम्बन्धी वैकुण्ठः । अपेक्षितसिद्ध्यर्थं सर्वैरपि याचनीयस्तत्प्रदानादौ ईश्वरश्च नाथः । एतत् ‘सत्यकाम’ इति पदाष्टकं प्राप्याकारनिष्कर्षार्थमिति पक्षमपि प्रगुणी कुर्मः । ‘सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता’ (तै. उ. आन. १) इति काम-शब्दोदितानां ब्रह्मगुणानामपि प्राप्यतोक्तिमभिप्रेत्याह सत्यकाम इति । प्राप्यानुप्रविष्टनित्यविग्रहविभूतिद्वययोगेऽपि केचित् सत्यकाम-शब्दं प्रमाणयन्ति । यद्वा, मुमुक्षूणां भोक्तव्यसृष्टेः भोगस्य चोपकरणतया मता नित्याः पदार्था अस्य सन्तीति भावः । प्राप्तिदशायां विभूतिद्वयेऽप्यपूर्वानन्त भोग्यस्रष्टृत्वमाह - सत्यसङ्कल्प इति । प्रकृष्टभोग्यतयाऽपि निरतिशय बृहत्त्वमाह - परब्रह्म इति । ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुं.उ.३-२-९) इत्य्-आदिभिरभेदापत्तिशङ्कां परिहरन् बद्धमुक्तविलक्षणतया कैङ्कर्योद्देश्यत्व सम्भवमाह -पुरुषोत्तम इति । कैङ्कर्यस्थानोपकरणादिसमृद्धिमत्वमाह57 महाविभूते इति । सपत्नीकस्य कैङ्कर्योद्देश्यत्वं सूचयति - श्रीमन् इति । सम्बन्धगुणविभूतिव्यापारैः सर्वैरपि भोग्यत्वातिशयं प्रकाशयितुमाह नारायण इति । सूरिसेव्य विग्रहविभूतिविशिष्टस्य58 देवयानपथिक विश्रमस्थानत्वमभिसन्धायाह वैकुण्ठनाथ इति । अत्र तृतीयमपि पक्षं ब्रूमः - प्रकृतस्य शरण्यस्य स्वीकृतसर्वभरनिर्वहणक्रमः सत्यकामादिभिरष्टभिः पदैरेव बोध्यते । सत्यकाम! - काम इह प्रपन्नेभ्यो निरतिशयानन्दप्रदानेच्छा । तस्याः सामर्थ्याविनाभावात् सत्यत्त्वं, तच्चामोघत्त्वम् । सत्यसङ्कल्पोऽत्र प्रतिबन्धनिवर्तनविषयः । ‘सर्वपापेभ्यो मोक्षयिष्यामि’ (भ.गी.१८-६६) इति हि त्वमेवात्थेति भावः । परब्रह्मभूत ! - निरतिशयबृहत्त्वविशिष्टस्त्वं स्वाश्रितानपि ज्ञानतो भोगतश्च परमसाम्यपर्यन्तं बृंहयिताऽसि । पुरुषोत्तम ! - ‘यो मामेवमसम्मूढः’ (भ.गी.१५-१९) इत्य्-आदि-ना त्वद्विदाम्59 कृतकृत्यत्वोक्तया त्वन्निर्वाह्यसर्वभरत्वं त्वयैव सूचितम् । ‘यद्वा षणुदाने’ (धा.पा.१४६५) पुरु सनोतीति पुरुषः । बहुप्रदेभ्य स्सर्वेभ्य उत्तमत्त्वात् पुरुषोत्तमः ।
महाविभूते! विभूतिरिह विभवनम्, प्रभवनं, नियमनमित्यर्थः । तस्य महत्वम् अपरिच्छिन्नत्वम्, संश्रितान् संसारकारागृहान्निर्गमय्य तदर्थतया सर्वं नियच्छसीति भावः ।
‘अनन्तो देशकालादिपरिच्छेदविवर्जितः । महाविभूतिरित्युक्तो व्याप्तिस्सा महती यतः’ ॥ (पाञ्चरात्रम्) इत्यत्रापि नियन्तृत्वेन व्याप्तिर्विवक्षिता । श्रीमन् ! श्रिया नित्यसंयुक्तस्त्वं त्वदभिमतमाश्रितकृत्यं निर्वहसि । नारायणसम्बन्धमनुसन्धाय दायविभागन्यायेन स्वामितया स्वार्थं स्वयं स्वात्मानं प्रापयितासीति भावः । वैकुण्ठनाथ ! दिव्यपर्यङ्कसुखासिकायां निजपादमूलसेवां दातुमवस्थितोऽसीति त्रिष्वपि पक्षेषु मुखभेदैः पुनरुक्तिपरिहारः सिद्धः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(11) Thy will fulfilled, Thy commands carried out, by all, Thou art the Para Brahma, the biggest of persons of great might and wealth; Thou art the Consort of Sri! Oh! Naaraayana, Lord of Vaikuntha
FX Clooney
You have all desires fulfilled!
Your intentions are ever realized!
The supreme Brahman!
The highest Person!
Possessed of great glory! With Śrī! Nārāyaṇa! Lord of Vaikuṇṭha!
मूलम्
सत्यकाम! सत्यसङ्कल्प! परब्रह्मभूत! पुरुषोत्तम! महाविभूते! श्रीमन्! नारायण! वैकुण्ठनाथ !
विश्वास-प्रस्तुतिः
अपार-कारुण्य-सौशील्य-वात्सल्य+औदार्य+ऐश्वर्य-सौन्दर्य-महा+उदधे !
विश्वास-टिप्पनी
गोपालदेशिकाह्निके ऽयम् भागो लुप्तः।
सुदर्शन-भट्टः
एवम् उपायोपेयत्त्वसाधारणाकारा उक्ताः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thus far, the nature of the Brahman and Its attributes and qualities, appertaining to both of the aspects of being the Upaaya (the means to an end) and Upeya the goal to reach, have been adumbrated.अथ उपायत्वैकान्तगुणा उच्यन्ते अपार इत्य्-आदि-ना ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Next follow His qualities, specially relating to the Upaaya aspect only. The enumeration starts with Apaara.
कारुण्याद्यगोचरे मय्यपि कार्यकरं कारुण्यादिकमिति अपार-शब्दस्य भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
This word is used to show the extent of His Mercy; it includes and operates on, even in respect of, a person who does not deserve to come within its range.
कारुण्यादिकं पूर्ववत् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Kaarunya has been already explained.
‘संसारिणां स्वरक्षण विघातकत्वे 60ऽपि तान् स्वातन्त्र्येण नियम्य रक्षितुं शक्तः’ इत्यभिप्रेत्य ऐश्वर्यम् इत्युक्तम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Aiswaraya is meant to express the sense that though a Samsaarin acts in a such bad way as to cause obstruction to his being saved, he is still protected by the Lord. He is Infinite Mercy, and by His own unrestricted independent powers, directs the protection of such persons also.
ऐश्वर्यं - नियन्तृत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Aiswaraya means also His Lordship or Directorship.
संसारिचित्तवशीकरणोपायतया सौन्दर्यम् उक्तम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That He attracts and makes Samsaarins come under His protection is conveyed by the word “Soundarya.”
यथा ‘पुंसां दृष्टिचित्तापहारिणम्’ (रा. अयो. ३-२९) इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That is why it is said “Pumsaam Drishti Chitta Apahaarinam” (He who steals the sight and the hearts of men).
‘जितन्ते’ (जि. स्तो. १) इति च ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
and “Jitam Te” “Victory to you.”
वेङ्कट-नाथः
अथ शरणस्य समर्पितसर्वभरस्वीकरणानुगुणाः स्वस्य चाधिकारोपाय निष्पादका उक्ताश्चानुक्ताश्चाकारा अष्टादशभिः पदैः निष्कृष्यानुसन्धीयन्ते, तत्र स्वापराध-स्वनिकर्ष-स्वहेयसम्बन्ध-स्वरक्षण-विसंवादादिदोषपरिहारो पयुक्तानां गुणविशेषाणां प्रकर्षः प्रथममुच्यतेअपार इति । कारुण्यस्या पारत्वम् अवश्यदण्डनीयेष्वस्मादृशेष्वपि प्रवृत्तेः । यथा ‘वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्’ (रा.सु.३८-३४) इति । स्वेनाप्युक्तं ‘मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि’ (रा.यु. ४१-६९) इति, ‘गच्छानुजानामि रणार्दितस्त्वम्’ (रा.यु.५९-१४४) इत्य्-आदि च । न्यूनाधिकत्वदर्शनजनितावज्ञासाध्वसपरिहारार्थमिह सौशील्योक्तिः । तस्याऽपारत्वं विशेषज्ञेषु विरिञ्चादिषु विष्ण्वाद्यवतारैः, अनभिज्ञेषु च मत्स्यकूर्मादिषु तत्तत्स्वरूपैरवतारैः निर्विशेषनीरन्ध्रसंश्लेषात् । वात्सल्यस्यापारत्वं ‘रिपूणामपि वत्सलः’ (रा.यु.५०-५६) इत्युक्तम् । औदार्यस्यापारत्वम् अर्थिषु उदारत्ववचनहेतुभूतमर्थितप्रदाने स्वप्रयोजनाभि सन्धिमत्त्वम्, संश्रितेभ्यः सविभूतिकं स्वात्मानं दत्वा तदनुबन्धिषु पशुमनुष्यपक्ष्यादिष्वप्यविश्रान्तत्वं वा ।
श्रूयते हि ‘नास्यावरपुरुषाः क्षीयन्ते’ (छां. उ. ४-१२-२) इति ‘नास्याब्रह्मवित्कुले भवति’ (मुं.उ.३-२-९) इति च । ऐश्वर्यस्य कथनमिह अनादिकालं स्वरक्षणविपरीतवृत्तान् केनचिद्व्याजेन स्वयमेव नियम्याभिमुखीकरोतीति ज्ञापयितुम् । तस्य अपारत्वम् ‘संसारन्यूनताभीतास्त्रिदशाः परिपन्थिनः’ (वि.ध. २-२५) इति न्यायेन ब्रह्मादिषु देवेषु, सुग्रीवादिषु सुहृत्सु वा विरुन्धानेषु61 तानपि शरणागतानुगुणीकर्तुं समर्थत्वम् । सौन्दर्यस्यापारत्वं विरुद्धप्रकृतीनां शूर्पनखादीनां, सत्त्वस्थानामृषीणामाप्यविशेषेण दृष्टिचित्तापहारितया तुष्टूषाजनकत्वम्, असद्वासनादिशामकत्वञ्च । यथोक्तं श्रीपौष्करे, अर्चावतारप्रकरणे
‘सन्दर्शनादकस्माच्च पुंसां सम्मूढचेतसाम् । कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः’ ॥ ‘कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेत्’ ॥ (पौ.सं. १-३१, ३२) इति ।
अतिसुन्दरनित्यविग्रहेण भगवतः परत्वानुसन्धानं तत्सान्निध्यकारणमिति च तत्रोक्तम्
‘नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर ! । यस्यास्ति सत्ता62 हृदये तस्यासौ सन्निधिं व्रजेत्’ ॥ (पौ.सं.३८-३८) इति । तत्सूचनार्थम् ऐश्वर्यसौन्दर्ययोः इहाव्यवहितपठनम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou art the ocean filled with beneficient qualities, such as, unlimited mercy, easy accessibility, affectionate kindness, generosity, rulership, extreme comeliness.
FX Clooney
Great ocean of measureless compassion, good disposition, affection, generosity, lordship and beauty!
मूलम्
अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे !
विश्वास-प्रस्तुतिः
अनालोचित-विशेष+अशेष-लोक-शरण्य !
सुदर्शन-भट्टः
<dg 45/> उक्तविशेषणफलमाह - अनालोचित इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Having thus far described the very many virtues and qualities of Iswara, now Bagavad Ramanuja goes on to show that the phala of possession of these qualities, That is to invite surrender (Saranagati.) He starts with “Anaolochita-Visesha
विशेषःजन्मवृत्तगुणतारतम्यम्, ‘लोकस्तु भुवने जने’ (अ.को. ३)
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
which denotes that there is no distinction on account of caste, conduct or character. Loka includes all worlds and the living beings therein.
एवं गुणवत्तां निश्चित्याह प्रणतार्तिहर इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
He is Pranataarti Hara, i.e. capable of removing all calamities of His Devotees, because of the possession by Him of all the virtuous powers and qualities.
स्वस्यैवंविधबुद्धियोगप्रदं वरदमभिप्रेत्यैवमुक्तम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
This is the name of Varadaraja of Kanchi. Its special mention here by Sri Ramanuja may be in remembrance of the special grace shown to him by Kanchi Varada and his consort who appeared as hunter and huntress to help him when he was deserted by the Yadava Prakaasa in a forest. The mention may also be due to the special grace shown to him by Varada of Kanchi genarally.
तस्मिन् विशेषतः आविर्भूतं स्वस्मिन् विशेषतः कार्यकरञ्च गुणमाह आश्रित इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The attribute Aasritavaatsalya is useful to Him in his activities (of protecting his Devotees).
उपायत्वौपयिकगुणेषु वात्सल्यगुणो हि स्वस्मिन् विशेषतः कार्यकरोऽभिमतः, तथापि त्वय्यपि किञ्चित्कारोऽवश्यमपेक्षित इति भगवदाशयं बुध्वाऽऽह - अनवरत इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The quality of “vaatsalya” (affection as that of cow to its calf) is specially mentioned as Ramanuja believes that it is a quality most noticeably radiant in Him. The next following Nama “Anavarata” etc., is mentioned by Sri Ramanuja as he believed that it is the opinion of Iswara that some action on Jeeva’s own part is necessary (for invoking the Grace of God).
‘तव सार्वज्ञं न कतिपयविषयम्, नापि कादाचित्कञ्च, कथं ममाशक्तत्वमविदितम्’ इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Your omniscience is not limited to certain matters, or to a particular time. How then will my helplessness not be known to thee” is the idea expressed.
आनुकूल्याभावेऽपि प्रातिकूल्यनिवृत्तिरपेक्षितेति भगवदाशयं बुद्द्वाऽऽह - अशेष इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The next passage begining with Asesha is used to express the idea that it is His pleasure that though the Jeeva may not be co-operative, the Jeeva must at least be not obstructive.
तन्निवृत्तिरपि त्वदायत्तेति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The ultimate meaning is that even “Nivrtti” (“inaction “) is also His doing or His will.
ननु ‘किं’ भवद्रक्षणमावश्यकृत्यम् इति शङ्कायामाह - अशेषचिदचित् इति।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To remove any doubt that may arise as to why Iswara should save the soul of Jeeva, the words “Asesha Chit-Achit " are used.
रक्ष्यापेक्षापि63 त्वदधीनेत्याह निखिल इति ‘कस्यापेक्षया चिदचिद्वस्तुजातं धृतम्’ इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Even the prayer to Thee by the Jeeva that he should be saved is also due to Thy Will; “Why then shouldst thou sustain and allow them to grow?”
वेङ्कट-नाथः
‘सर्वस्य शरणं सुहृत्’ ( श्वे. उ. ३-१७) ‘सुहृदं सर्वभूतानाम्’ (भ.गी. ५ - २९ ) ‘सर्वलोकशरण्याय’ (रा.यु.१७-५५) ‘सर्वयोग्यमनायासम्’ (वि.ध) इत्य्-आदि प्रसिद्धस्वभावस्य वायस-वानर-राक्षसादिविशेषानादरेणाङ्गीकुर्वतस्ते मादृशजनेऽपि गुणवृत्तादिनिकर्षो न त्यागकारणमित्याह - अनालोचितविशेष इति । अत्र विशेष-शब्दविवक्षितम् अनालोचितगुणगण! इति श्रीवैकुण्ठगद्ये व्यञ्जितम् । प्रपत्तेस्सर्वाधिकारत्वमपि अनेनैव प्रकाशितम् । ‘दुर्गसंसारकान्तारमपारमभिधावताम् । एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः’ ॥ (वि.ध.१-१८) ‘प्रणम्य कृष्णं सहसा’ (वि.ध. ४-३५) ‘एकोऽपि कृष्णे सुकृतप्रणामः’ (म.भा. आ.४६-१२३) इत्य्-आदि-षूक्तम् अल्पयत्नसाद्यत्वमाह - प्रणतार्तिहर! इति । अनेन स्वस्यैवं विधावस्थाहेतुरवतारविशेषोऽप्यनुसंहितः । उक्तं हि स्वयमेव, ‘निरस्तेतरभोगाशो वरदं शरणं गतः’ (हस्तिगिरिमाहात्म्यम्) इति।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou art again the refuge of the whole world without any distinction (as to race, colour or caste).
FX Clooney
The refuge of the whole world without remainder, with no consideration of distinctions!
मूलम्
अनालोचित विशेषाशेषलोक शरण्य !
विश्वास-प्रस्तुतिः
प्रणत+आर्ति-हर ! आश्रित-वात्सल्य+एक-जलधे !
विश्वास-टिप्पनी
गोपालदेशिकाह्निके “प्रणत+आर्ति-हर !” इति भागो लुप्तः।
वेङ्कट-नाथः
अत्र प्रणत-शब्दः प्रकृतानुगुण्यात्, ‘प्रपन्नार्तिहरं विष्णुं’ (वि.पु.१-९-३७) इत्याद्यनुसाराच्च प्रकृष्टप्रह्वीभावयुक्तप्रपन्नविषयो वा । प्रस्तुतावतारे व्यक्ततमं स्वस्मिन्नुपकारकतमञ्च वात्सल्यगुणं पूर्वं द्विरुक्तमपि ‘मित्रभावेन सम्प्राप्तम्’ (रा.यु.१७-८३) ‘दोषो यद्यपि तस्य स्यात्’ (रा.यु.१७-८३) इत्य्-आदि-स्मरणाय पुनराह - आश्रित इति । वात्सल्य-गुणोदधौ निग्रहादिकं निमग्नं भवतीत्य् अभिप्रायेणैक-शब्दः, अत एव हि सर्वज्ञत्वादौ स्थितेऽप्यविज्ञातृत्वाद्युक्तिः ।
उपायान्तरं स्वीक्रियतामित्यत्र ‘अस्मान्वेत्थ परान्वेत्थ’ (म.भा.उद्यो.७२-१०१) इति प्रकारेण मादृशानामकिञ्चनानाम् अधिकर्तव्यम्।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou removest the distress of those that resort to Thee. Thou art the Ocean of motherly affection towards your Devotees.
FX Clooney
You dispel the distress of those offering obeisance to You!
You are a unique ocean of tenderness for those taking refuge!
मूलम्
प्रणतार्तिहर ! आश्रितवात्सल्यैकजलधे !
विश्वास-प्रस्तुतिः
अनवरत-विदित-निखिल-भूत-जात-याथात्म्य !
वेङ्कट-नाथः
हिततमं त्वम् एव जानासि,
त्वद्-आयत्तानुकूल्यस्य
सर्वज्ञस्य ते,
त्वयाऽपि लब्धं भगवन्न् इदानीं, (स्तो. र. ३४)
‘यदि मे न दयिष्यसे’ (स्तो. र. ५०)
इत्य्-आदिकं न विज्ञापनीयम् इत्य् अभिप्रायेणाह - अनवरत इति ।
अनवरतनिखिल-शब्दाभ्यां ज्ञानस्य कालतो विषयतश्च सङ्कोचो व्युदस्तः । ‘त्वमेवैवं कुरुष्व माम्’, ‘कुरुष्व मामनुचरम्’ (रा. अयो. ३१-२४) इत्य्-आदि न्यायेन त्वदधीनव्यापारस्य मे त्वयैव प्रातिकूल्यनिवर्तनादिकमपि कार्यमित्याह - अशेषचराचर इति ।
निखिल-शब्दः स्वरूपस्थित्यादिनियन्त व्यकार्त्स्न्यपरो सार्वकालिकनियमनकार्त्स्न्यपरो वा । आगमैःआचार्यादिभिः अन्तरात्मतया च बहुप्रकारं हि नियमनम् । न ह्यविधेयं ते किञ्चित्, येन मे अभिमतं प्रतिबन्धाद्विलम्बेत, अलभ्यं वा स्यादिति भावः । परिपूर्णस्य मे त्वदङ्गीकारेण किञ्चित् प्रयोजनमित्यत्राह - अशेषचिदचित् इति । न हि मदेकवर्जं तव सर्वशेषित्वम्, अतो ममाप्यतिशये ‘तव चार्थः प्रकल्पते’ (रा. अयो. ३१ २४) इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou art All Knowing, knowing all the time the true nature, etc. of all the groups of Beings.
FX Clooney
You are the reality of all beings ever known to You!
मूलम्
अनवरत-विदित-निखिल-भूत-जात-याथात्म्य !
विश्वास-प्रस्तुतिः
अशेष-चर+अचर-भूत-निखिल-नियमन-निरत !
विश्वास-टिप्पनी
गोपालदेशिकाह्निके ऽयम् भागो लुप्तः।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou dost skilfully control all the movable and immovable Things of the Worlds.
FX Clooney
You are intent upon ordering all moving and unmoving beings without exception!
मूलम्
अशेषचराचरभूत निखिलनियमननिरत !
विश्वास-प्रस्तुतिः
अशेष65-चिद्-अचिद्-वस्तु-शेषि-भूत !
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou art their Lord,
FX Clooney
You are the one to whom belong without remainder all conscious and non-conscious beings!
मूलम्
अशेष चिदचिद्वस्तु शेषिभूत !
विश्वास-प्रस्तुतिः
निखिल-जगद्+आधार !
अखिल-जगत्-स्वामिन् !
अस्मत्-स्वामिन् !
विश्वास-टिप्पनी
गोपालदेशिकाह्निके ऽयम् भागो लुप्तः।
सुदर्शन-भट्टः
नैसर्गिकशेषत्वे सत्यपि जगतः स्वगुणैर्भूयः शेषत्वमापादितम् इत्याशयेनाह अखिल इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Akhila Jagat Swaamin connotes that the world is under His Lordship (Dominion) not only physically but also in respect of (its) qualities.
यथा ‘गुणैर्दास्यमुपागतः’ (रा. कि. ४१२) इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Gunai: Daasyam Upaagata :”, are the words used by Lakshmana in respect of Raama.
न केवलं सामान्येन शेषत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Asmat Swaamin denotes not only the mere “being” in service
किन्तु जन्मविशेष रुचिविशेष66 प्रदानादिभिर्मम एवमवस्थत्त्वं त्वयैवोपपादितमित्यभिप्रायेणाह - अस्मत्-स्वामिन् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
but also the favour shown by Him in granting the Jeeva this birthright to serve and endowing him with the qualities he possess. That is, whatever happens or not, all these are His doings.
वेङ्कट-नाथः
तथाऽपि यथावस्थितरक्षापेक्षा तव नास्ति, अतः कथं त्वं रक्षणीयः ? इति शङ्कायाम् आह - निखिलजगदाधार! इति । गुणादिवत् त्वदपृथक्सिद्ध विशेषणस्य ममापेक्षामन्तरेणैव मत्सत्तादिकं त्वयैव रक्ष्यते, तत्साफल्यार्थं रक्षापेक्षादिकमपि त्वयैव कारयितव्योऽहम्, न हि त्वदधीनसत्ताकस्य मे त्वन्निरपेक्षप्रवृत्तिः सम्भवतीत्यभिप्रायः ।
एवमेव हि शेषभूतानां स्वतन्त्रस्वामिना त्वयैव यथेष्टं स्वमुद्दिश्य विनियोगः क्रियते इत्याह - अखिलजगत्स्वामिन् इति । इष्टानिष्टप्रदान साधारणेऽस्मिन् मद्विनियोगे किं तवायातमित्यत्राह - अस्मत्स्वामिन् इति ।
मद्-आचार्य-सन्तति-साम्मुख्येन
मम एवं-विध-त्वत्-सम्बन्ध-ज्ञानाद्य्–अवस्था-प्रदान-रूपोपकारे प्रवृत्ते
न त्वया शेष-पूरणं कार्यम् इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
the sustainer of all the worlds, their Master, My Master;
FX Clooney
The Lord of the whole world! Our Lord!
मूलम्
निखिल जगदाधार ! अखिल जगत्स्वामिन् ! अस्मत्स्वामिन् !
विश्वास-प्रस्तुतिः
सत्य-काम ! सत्य-सङ्कल्प ! सकल+इतर-विलक्षण !
सुदर्शन-भट्टः
सत्यकाम अकिञ्चनरक्षणं हि परिपूर्णकृत्यमिति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Satyakaama conveys the idea that the protection of the weak and helpless is the duty (work) of a Paripoorna (Perfect Being).
तच्च अनायाससाध्यमित्याह - सत्यसङ्कल्प इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Satyasankalpa:- The above act of protection is performed without any effort.
सकलेतरविलक्षण एवम्भूतस्स्त्वं न रक्षसि चेत् कस्तवान्येभ्योऽनीदृग्भ्यो विशेष इत्याशयः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sakaletara Vilakshana:- If Thou does not undertake this task, how art Thou then different from the others?
वेङ्कट-नाथः
परिपूर्णतया पूर्वोपकार-प्रत्युपकार-निरपेक्षस्य तव
अकिञ्चन-नित्य-सापेक्ष-संश्रित-रक्षणम्
आत्मीय-नित्य-गुण-परित्राणम् इति67 सूचयति -
सत्यकाम! इति ।
सर्वशक्तेस्तव नित्यसूरिवर्गे मन्निवेशनमीषत्करम्, ‘न हि त्वद्गतं केनापि हन्तुं68 शक्यं’ इत्याह - सत्यसङ्कल्प! इति । तथाऽपि अपेक्षिता र्थमन्यः कश्चिदाश्रियतामित्यत्राह सकलेतरविलक्षण! इति ।
‘विष्णुपोतं विना नान्यत्
किञ्चिदस्ति परायणम्’ (वि.ध.१-५९)
‘भवतां कथ्यते सत्यं
विष्णुरेकः परायणम्’ (वि.ध.१-५९)
इत्य्-आदिभिर् अन्येभ्यस् तव मोक्ष-प्रदत्वादि-रूपं विशेषं पश्यन्न्
अहं मुमुक्षुः कम् अन्यम् आश्रयेयम् ।
न हि परतन्त्रः कश्चित् स्वतन्त्र-कृत्यं प्रार्थनीयः,
न च त्वं परतन्त्र इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thy desires ever fulfilled, Thy commands scrupulously executed. Distinct from all the others,
FX Clooney
You have all desires fulfilled! Your intentions are ever realized! Different from all other beings!
मूलम्
सत्यकाम ! सत्यसङ्कल्प ! सकलेतरविलक्षण !
विश्वास-प्रस्तुतिः
अर्थि-कल्पक ! आपत्-सख !
सुदर्शन-भट्टः
<dg 47/>
अर्थिकल्पक- कर्मधारयसमासः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Arthikalpaka must be taken to mean conjunctively One to whom prayers are made and one who grants all prayers like Kalpaka Tree.
यथा ‘समेत्य प्रतिनन्द्य च’ (रा. अयो.१६-२७) इति,
‘उदारास् सर्व एवैते’ (भ.गी. ७-१८) इति च ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Cf. Sametya pratinandya cha “or Udaaraa: Sarva Eva ete” - they are generous who consent to take favours from Me.”
अन्यथा तवेयं प्रथापि69 विहन्येतेति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
If this is not so, His reputation will be gone is the idea sought to be expressed.
गजेन्द्रादीनामिव आपन्नत्वमेव रक्ष्यत्वे हेतुमाह - आपत्सख इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Aapatsakhaa conveys the meaning that the dire state of a Being like that of Gajendra is the cause of bringing on the protection by Thee.
वेङ्कट-नाथः
यद्य् अर्थिनं मां नाद्रियसे,
कथं तवौदार्यप्रथा जीवेदित्यभिप्रायेणाह अर्थिकल्पक इति ।
अर्थी च कल्पकश् चेति विग्रहः ।
अर्थिनां कल्पद्रुम इति वा ।
उक्तं हि,
‘स सर्वानथिनो दृष्ट्वा समेत्य प्रतिनन्द्य70 च’ (रा. अयो. १६-२७) इति ।
‘अर्थिनः कल्पद्रुमा यस्य सः अर्थिकल्पक’ इति वा विवक्षितम्, यद्गीयते ‘उदारास्सर्व एवैते’ (भ.गी. ७-१८) इति । अभिमतपुरुषार्थदानार्थमर्थिनामुत्पादकः, शास्त्रादिमुखेन अर्थित्वापादकश्चेति वा । एवं पूर्वोक्तस्या प्यौदार्यस्य अतिशयप्रदर्शने तात्पर्यादपुनरुक्तिः । ‘ज्ञातं मया वसिष्ठेन’ (म.भा.स.९०-४२) इत्य्-आदिकमनुसन्दधानः पाञ्चालीगजेन्द्रादिवदापन्नस्य अनन्यगतिकस्य ममैतामापदम् अवेक्ष्य71 रक्षितुमर्हसीत्याह आपत्सख! इति । आपदि सखिवत्संरक्षकेत्यर्थः । विश्वसनीयत्वस्नेहविषयत्वादिसूचनाय सखि-शब्दः । शत्रुमपि हि ‘तस्मात्परिश्रान्त इति व्यवस्य न त्वा शरैर्मृत्युवशं नयामि’ (रा. यु.५९-१४३) इत्यवोचत् । एवं द्वाभ्याम् इष्टप्रापकत्वमनिष्टनिवर्तकत्वञ्च दर्शितम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Thou art the wish fulfilling Tree (the giver of all prayers), Friend in Distress,
FX Clooney
The wishing tree for those in want! Friend of those in distress!
मूलम्
अर्थिकल्पक ! आपत्सख !72
विश्वास-प्रस्तुतिः
श्रीमन् ! नारायण !
सुदर्शन-भट्टः
उक्तहेत्व्-अभावेऽपि
मातरम् अपेक्ष्य रक्षितव्यम्
इत्याह श्रीमन् इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sriman:- Even if I am not qualified for redemption at least for the sake of Sri. protection may given.
तया उपेक्षितोऽपि त्वामपेक्ष्य रक्षणीय इत्याहनारायण इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Naaraayana :- Even though neglected by Her, protect me at least for your own sake.
सम्बन्धाभावेऽपि रक्षकान्तराभावात् रक्षणीयोऽहम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Asaranya - Saranya: Even though I am not connected with Thee, I am to be protected, I am without any other protecting person,
वेङ्कट-नाथः
अथ तत्र समानाभिप्रायतया नित्य73 मुक्तामखिलजगन्मातरं पुरस्कुर्वतो मे महान्तोऽप्यपराधाः क्षन्तव्या इत्याह - श्रीमन्! इति । सम्बन्धगुणविभूति74प्रयोजनव्यापारास्ते74 मदुपेक्षया मन्दफला मा भूवन्, अतः आत्मानं नातिवर्तेथाः इत्याह - नारायण ! इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Sriman, Naarayaana.
FX Clooney
You are with Śrī! Nārāyaṇa!
मूलम्
श्रीमन् ! नारायण !
-
गुणानां वा -इ । ↩︎
-
वृत्तौ - अ । ↩︎
-
तद्दृष्टम् अ । ↩︎
-
कल्याणत्वमित्युक्तम् आ । ↩︎
-
अनिष्टनिवर्तकत्वमिष्टप्रापकत्वञ्चेत्यर्थः - अ । ↩︎
-
अर्थात्सिद्धम् - आ । ↩︎
-
इति - आ । ↩︎
-
दिव्यविग्रहस्वरूपम् - अ । ↩︎
-
विशिष्टैकानुकूलानुभव - आ । ↩︎
-
नानारूपेष्वपि हि -अ । ↩︎
-
दिव्याद्भुत-शब्दौअ । ↩︎
-
शुभाश्रयाद्भुतपरविग्रहस्य - अ । ↩︎
-
नित्येच्छासिद्धतां - आ । ↩︎
-
सर्वाश्रयस्य - आ । ↩︎
-
दिव्यदिव्या इ । ↩︎
-
कल्याणगुणनिधि - इ । ↩︎
-
क्षमाकाष्ठानुरूपम् - इ । ↩︎
-
स्वार्थानपेक्षया इ । ↩︎
-
जूट - इ । ↩︎
-
लक्षणम् - इ । ↩︎
-
नित्यमुक्त - आ । ↩︎
-
सर्वगुणेषु - अ । ↩︎
-
वात्सल्यम् - ‘वत्सांसाभ्यां कामबले’ (पा.सू.५-२-९८) इत्यनेन कामवति बलवति च लच् प्रत्ययो भवति । ‘कामबल-शब्दौ’ सूत्रे अर्शआद्यजन्ताविति भावः । वत्सलः स्नेहवानित्यर्थः (त.बो.) । एतदभिप्रेत्य दोषतिरस्कारिणी प्रीतिरिति व्याख्यातम् । ‘अन्तरधिकरणश्रुतप्रकाशिकायाम्’ - वात्सल्यं - दोषानादर हेतुः स्नेहः । यथा - मातुः पुत्रे इत्युक्तम् । ‘जिज्ञासाधिकरण श्रुत प्रकाशिकायान्तु ( कृत्यु द्देश्यत्वविचारावसरे) एवमुक्तम् । सम्बन्धविशेषान्वितेषु प्रीतिः स्नेहः, यस्य विपाकाः अस्थान भयशङ्कित्वम्, दोषानवभासः, ‘दोषेऽपि गुणबुद्धिः, इत्यादयः’ इत्युक्तम् । अनेन स्नेहस्य विपाकदशा प्रादर्शिअत्रोक्तान्तिमदशा स्वीकृता प्रथम व्याख्यातृभिरिति ज्ञायते । अनेन व्याख्यानभेदेन ‘बलविषये स्नेहविशेषः परमात्मनो वर्तते’ इत्येव पर्यवसन्नम् । ↩︎
-
दोषाणामपि - अ । ↩︎
-
दुर्ग्रहत्वं - अ । ↩︎
-
भङ्गेपि तादृश - अ । ↩︎
-
बलवते आ । ↩︎
-
निरसना - अ । ↩︎
-
इहैतौ आ । ↩︎
-
कामाः-अत्र कर्मणि प्रत्ययः । भोग्यविभूतिः विवक्षिता । भावार्थत्वे सङ्कल्पवाचित्वेन पुनरुक्तिः स्यादिति भावः । ↩︎
-
कृतमिहोपकारः अत्र ‘तयोरेव कृत्यक्तखलर्थाः’ इत्यनेन भावार्थे क्तप्रत्ययः । ↩︎
-
इत्याद्युक्तं - अ । ↩︎
-
‘चातुर्य’ इति पदं नास्ति - इ । ↩︎
-
देवताध्यानेन अ । ↩︎
-
शक्तिमत्वम् - इ । ↩︎
-
साहाय्यार्थकृतं तेन - इ । ↩︎
-
प्राग्वदर्थः - इ । ↩︎
-
शक्तत्वात् अ । ↩︎
-
भारतेअ ↩︎
-
सूरयोऽपि आ । ↩︎
-
सर्वदा - अ । ↩︎
-
कर्तृत्व - आ । ↩︎
-
एव हि - अ । अनन्तकल्याण ↩︎
-
सेवार्थाः - आ ↩︎
-
एकत्र -इ । ↩︎
-
धनादिइ । ↩︎
-
अविद्यादयो - इ । ↩︎
-
भिदा - इ । ↩︎
-
धारणं परिज्ञानेन आ । ↩︎
-
ब्रह्म - अनेन ब्रह्म-शब्दो यौगिक इति स्पष्टम् । ‘बृहत्वात् बृंहणत्वाञ्च तद्ब्रह्मेत्यभिधीयते’ । इत्युपबृंहणानुसारात् ‘बृंहेर्नोच्च’ इत्युणादि सूत्रेण वृद्ध्यर्थक ‘बृहि’ धातोः इदित्वान्नुमागमे तस्याकारादेशः, मन् प्रत्ययश्च । ततः यणादेशे ‘ब्रह्म’ शब्दः निष्पन्नः । इदञ्च सूत्रमुपलक्षार्थं बृहधातोरपि, अगागम मन् प्रत्यययोः । अत्र श्रीभाष्यम् - ‘बृहत्त्वञ्च स्वरूपेण, गुणैश्च यत्र अनवधिकातिशयं, सोऽस्य मुख्योऽर्थः । स च सर्वेश्वर एव । अतो ब्रह्म-शब्दः तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः’ (जिज्ञासाधिकरणे) इति योगरूढपक्षः निरस्तः । तदुक्तं श्रुतप्रकाशिकायाम् -
ब्रह्म-शब्दप्रयोगविषयपञ्चष(जीव-जाति-कमलासन-मूलप्रकृति-प्रभृति) व्यक्तिषु, अनुवृत्त अन्यव्यावृत्ताकारादर्शनात् अनेकशक्तिकल्पने प्राप्ते, अनन्यथासिद्धस्य प्रयोगस्य शक्ति कल्पकत्वात् ब्रह्म-शब्दप्रयोगविषयेष्वन्येषु च बृहत्वगुणलेशयोगेन प्रयोग स्यान्यथासिद्धत्वाच्च न अनेकशक्तिकल्पनं युक्तम् । तस्मात् पुरुषोत्तम एव प्रवृत्तिनिमित्तपोष्कल्यवति मुख्यत्वम् । अन्यत्र औपचारिकत्वञ्च इति । ननु स्वरूपतो बृहत्वमेव निमित्तमस्तु, किं गौरवेण इति चेत् - न , ब्रह्मगुणादेरपि (धर्मभूतज्ञानस्य) स्वरूपेण बृहत्त्वात् ब्रह्म-शब्दवाच्यत्वप्रसङ्गात् । तर्हि गुणतो बृहत्त्वमेव अस्तु, निमित्तमिति चेत्र, शब्दशक्तेरसङ्कोचस्य स्वतः प्राप्तत्वात् । स्वरूपे च बृहत्त्वसद्भावात् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति हि श्रुतिः । गुणतो बृहत्वं नाम सद्वारकं बृहत्त्वम् । गुणद्वारा हि वत्+++(=??)+++ ।
अन्तरत्वाधिकरणे स्पष्टमेव भाषितम् । (३-३-३५) ‘यत्साक्षादपरोक्षात् ब्रह्म य आत्मासर्वान्तरः’ इति श्रुतिव्याख्याने ब्रह्म-शब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि क्वचित् उपचरितप्रयोगदर्शनात् तद्व्यावृत्त्या परमात्मप्रतिपत्तये ‘यत् साक्षाद्ब्रह्म’ इति विशेषणं क्रियते इति । पङ्कज-शब्दे पङ्कजनिकर्तृत्वरूपप्रवृत्तिनिमित्तस्य अन्यत्र सद्भावात् रूढिनिमित्तं पद्मत्वञ्च आश्रीयत इति स शब्दः योगरूढः । प्रकृते स्वरूपतो गुणतश्च बृहत्वं मूलप्रकृति जीवचतुर्मुखादिषु नास्त्येव । प्रवृत्तिनिमित्तैकदेशबृहत्त्वमात्रमादाय प्रयोगोपपत्तेः नात्यन्तमुख्यता । नापि लक्षणा ‘गङ्गायां घोषः’ इत्यादाविव सर्वथा प्रवृत्तिनिमित्तस्यात्यागात् । किन्तु, प्रवृत्तिनिमित्तैकदेशमादायैव पञ्चसु व्यक्तिषु प्रयोगः । अतोऽत्र ब्रह्म-शब्दस्य नात्यन्तमुख्यतेति सिद्धान्तिनाम् आशयः । ↩︎
-
विभक्तिषु त्रिष्वपि-आ। ↩︎
-
लीलायाः - आ । ↩︎
-
प्रायेणाह - अ । ↩︎
-
महत्त्वआ। ↩︎
-
विग्रहविशिष्टस्यआ ↩︎
-
तत्त्वविदां -आ । ↩︎
-
विभूतिकत्वेइ । ↩︎
-
निरुन्धानेषु-अ ↩︎
-
सक्तिः - अ । ↩︎
-
रक्षापेक्षादिकम् - इ । ↩︎
-
अखिल - इ । ↩︎
-
‘रुचिविशेष’ इति अत्र नास्ति - इ । ↩︎
-
गुणत्रयपरित्राण - आ । ↩︎
-
विनिहन्तुम् - आ । ↩︎
-
प्रथा -इ । ↩︎
-
प्रतिवन्द्यआ । ↩︎
-
अपेक्ष्य-आ। ↩︎
-
आपत्सख ! काकुत्स्थ ! - इ ↩︎
-
त्वया नित्य - आ । ↩︎