विषयः - यदुगिरिग्रन्थोक्तः
स्वस्य भगवच्छरणागतिनैरन्तर्यप्रार्थना
विश्वास-प्रस्तुतिः
+++(श्रियै भक्तः - )+++
पारमार्थिक-भगवच्-चरण+अरविन्द-युगल+
+एकान्तिक+आत्यन्तिक–
पर-भक्ति+++(=उत्तरोत्तर-साक्षात्-काराभिनिवेश)+++–
पर-ज्ञान+++(=साक्षात्कार)+++–
परम-भक्ति-कृत+++(=उत्तरोत्तरानुभवाभिनिवेशः)+++–
परिपूर्ण+अनवरत–नित्य-विशदतम-+अनन्य-प्रयोजन+-
अनवधिक+अतिशय-प्रिय–
भगवद्-अनुभव–जनित–
+अनवधिक+अतिशय-प्रीति-कारित–
+अशेष+अवस्था–+उचित–+अशेष-शेषता-+एकरति-रूप–
नित्य-कैङ्कर्य–प्राप्त्य्-अपेक्षया
पारमार्थिकी भगवच्-चरण+अरविन्द-शरणागतिर्
यथा+अवस्थिता +++(आफल-सिद्धेर्)+++ ऽविरता +++(तथा)+++
अस्तु मे ॥ २ ॥
सुदर्शन-भट्टः
<dg 15/>
किमपेक्षितमित्यत्राह पारमार्थिक इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Then the object for which Lakshmi Saranaagathi is performed as a preparatory step, is stated.
अनुभव-विशेषणम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word Paaramaarthika goes to qualify the word Anubhava lower down.
परम-पुरुषार्थान्तर्-भूतत्वात्,
स्वयं परम-पुरुषार्थत्वात्,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
This word denotes either that Bhagavat Anubhava i.e. enjoyment of Vision of God is included in Parama Purushaartha or that God Himself is the Parama Purushaartha.
अकृत्रिमत्वाद् वा पारमार्थिकत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
It may also mean ’natural’ and not artificial, i.e. caused by some external phenomenon.
अकृत्रिमत्वम् निरुपाधिकत्वम्,
भक्तिविशेषणं वा पारमार्थिक-शब्दः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word may be taken even as an adjective to the word Bhakti.
चरणारविन्द इति मातुस् स्तन्यं1 पुत्रस्येव
शेषभूतस्य प्राप्यम्2 इति भावः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Charanaaravinda implies that He is easily accessible to a Sesha or devotee, as easy as the breast-milk of a mother is available to her child.
ऐकान्तिकत्वं फलान्तरार्थत्वाभावात् भगवद्-एकविषयत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
meant by Aikaantika is that the Saranaagati is performed with the sole object of pleasing the Lord and of no other,
आत्यन्तिकत्वम् अत एव सदानुवृत्तिः, नित्ययुक्त इति यावत्।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
while Atyantika means that as a conséquence of the above, the Bhakti or Anubhava is a continuous experience (Nityayukta).
उत्तरोत्तर-साक्षात्-काराभिनिवेशः परभक्तिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Parabhakti may be defined as that longing of the devotee to have a direct vision of God for ever and ever.
साक्षात्कारः परज्ञानम्।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The achievement of that vision of God is Para Gnaana.
उत्तरोत्तरानुभवाभिनिवेशः परमभक्तिः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The desire to have experience of that vision continued or perpetuated for ever and ever is Parama Bhakti.
परिपूर्णत्वादिपदषट्कम् अनुभवविशेषणम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The next six words beginning with Paripoorna go to qualify “Anubhava”;
परव्यूहादि सर्वावस्थ भगवद्विषयत्वं परिपूर्णत्वम्, सकृत्वव्यावृत्त्यर्थम् अनवरतत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Paripoorana Anubhava means Perfect knowledge of the Lord! in all stages and all conditions; that is, in Para, Vyooha, Vibhava, Haardaa and Archaa stages which are His Divine manifestations.
अविरतेच्छा-वधिमत्वव्युदासाय नित्यत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Anavarata (continuous) is the opposite of “once” or “sometimes”.
विरतनित्यत्वव्युदासाय अनवरतत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The word ‘Nitya’ is used to repel any idea of limitation, i.e. to denote endlessness.
स्नानाग्निहोत्रादिकं हि विरतनित्यम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Why these two words? They are necessary to denote continuity without interruption, not like bathing or performing Agnihotra which are Nitya but are performed only at intervals or on occa sions.
परोक्षत्वव्युदासाय विशदतमत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Visadatama dispels any doubt about the Anubhava not being direct.
प्रयोजनान्तरार्थत्वव्युदासाय अनन्यप्रयोजनत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Ananya Proyojana is used to denote the opposite of there being some other object in view.
तत्र हेतुः अनवधिकातिशयप्रियत्वम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Why? The answer is Anavadhika Atisaya Priya (limitless, intense affection).
प्रयोजनान्तरत्वाभावेऽपि सावधिकातिशयप्रियत्वव्युदासार्थम्, अनवधिकातिशयप्रियत्वमुक्तम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
For though there may be no other object in view, there may be limit to the Preeti (affection).
ईदृशानुभवेन जनिताऽनवधिकातिशयप्रीतिः - ‘अहो मया ईदृशानुभवो लब्धः’ इति पूर्वानुभवलब्धविषयनिरवधिकातिशयानुकूलप्रीतिसन्तानरूपा ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To denote that it is not so, these words are used here. That is to say, the devotion caused by such experience is unlimited in its extensiveness. Athisaya is pre-eminence.
तया अनुकारितम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“This experience of His by the Devoteee is explained to be with an ecsatcy of feeling caused by the experience already obtained by him.
अशेषावस्थाः - आस्थानान्तःपुरस्थित्य्-आदयः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
By Asesha Avastha: is meant such things as being seated in mantapa or resting in the Anta:pura: The word means service,
अशेष-शब्दः छत्र-चामर-कळाची+++(=हस्त-जङ्घ)+++–पादुका-ग्रहण–ताम्बूल-दानादि-परः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
like holding umbrella, waving ‘Seshatva” chaamara, sounding kalanji (Thiruchinnam) serving as sandals, handing over betel leaves, etc.
अनन्त-वैनतेयादीनां सर्वविध-कैङ्कर्य-प्राप्ताव् अपि
कैङ्कर्यं प्रतिनियतं दृश्यते,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
But we know that Ananta (Sesha) and Garuda have their allotted tasks of service to the Lord.
“तत् कथम्?” इति शङ्कायाम् आह
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
How then can all the services be open to a Devotee?
रतिरूप इति ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
To explain away any such doubt, Ramanuja uses the words Rati-Roopa.
स्वेन कृतत्वेऽपि पर+++(-वैकुण्ठ-वासि)+++-प्रीतिर् एव फलम् -
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Service by whomsoever done is to the pleasure of the Lord.
‘प्रहर्षयिष्यामि’ इति ह्युच्यते।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
So Aalavandaar uses the words “Praharshaishyami” only to gladden thee, not for my own pleasure.’
तस्माद्-अन्यकृतत्वेऽपि कैङ्कर्यस्य तज्-जनित-पर-प्रीतिं दृष्ट्वा
स्वकृतत्वे सतीव प्रीतिस्
सर्वेषां जायत इति
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Therefore, the service, even if rendered by another, there is satisfaction as if done by oneself, and that is due to the feeling caused by witnessing the pleasure of the Lord by such service rendered by the other or others;
तादृश-प्रीतिरूपं कैङ्कर्यम् इत्य् अर्थः, इति मन्त्रचतुर्थ्यर्थोक्तिः ।+++(5)+++
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
such satisfaction itself is the service. The implication of the fourth (Dative) case (Naraayanaaya) is set out here.
पारमार्थिकी इति तमःकार्य-व्युदासाय ।
आनुकूल्यादि-शरीरवती,
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Paarmaarthikee means that the Saranaagati is not the result of Tamo Guna but due to the desire to do what will be pleasing to the Lord.
तद्धि तस्या उपायान्तरेभ्यः व्यावृत्तं स्वरूपम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That is the natural distinctive attribute of Saranaagati, distinctive from other Upayaas (ways of attaining Him)
यथावस्थिता इति रजःकार्य व्युदासाय ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Yatha avasthita " denotes that Saranaagati is not due to any RajoGuna.
प्रपत्तव्यविषयसम्बन्धरूपः प्रकारः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
This is to be taken along with true manner in which Saranaagati is to be performed.
तत्साहित्यमभिप्रेतम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
It denotes its quality.
शरणवरणानर्हे शरण्यत्वधीर्हि अयथावस्थिता स्यात् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
It cannot be true Saranaagati, if it is rendered unto a person not fit for such surrender.
अविरता आफल-सिद्धेर् अ-विश्रान्ता ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Avirata-uninterrupted still goal is reached.
अव्यवहित-साधनम् इत्य् अर्थः ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
That is, it is the direct means to attain the fruit desired and not indirect,
व्यवहितसाधनं हि मध्ये साधनान्तर-प्राचुर्ये स्वयं विरतं स्यात् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
for, such indirect means do not last till the end but ‘cease at some time on the way.
वेङ्कट-नाथः
तत्किमत्रापेक्षितमित्यत्राह -पारमार्थिक इति । पारमार्थिक-शब्दस्य चरणारविन्दविशेषणत्वे अर्थ-शब्द प्रयोजनवाची । पारमार्थिकम्3 - परमार्थ इत्यर्थः ।
यद्वा, परमप्रयोजनभूताऽनुभवग्राह्यं परमभोग्यमित्यर्थः । एतेन परभक्त्यादिजननार्हत्वं व्यज्यते । निर्दोषगुणवत्स्वामिचरणयोस्सेवकस्य भक्तयतिशयः स्यादित्यभिप्रायेण भगवञ्चरण-शब्दः । अरविन्दत्वरूपणञ्च उपायदशायामपि स्वादुत्वसूचकम् ‘स भ्रातुश्चरणौ गाढम्’ (रा. अयो. ३१-२) ‘यावन्न चरणौ भ्रातुः’ (रा. अयो.९८-८) । ‘तस्य ताम्रतलौ तात! चरणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ ॥ प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ’ ॥ (म.भा.आर.१८६-११९,१२०) इत्य्-आदि-ष्विव अन्योन्ययोगादपि शोभमानत्वद्योतनाय युगल-शब्दः । पारमार्थिक-शब्दस्य परभक्त्यादिविशेषणत्वे अनुभवविशेषणत्वेऽपि परमप्रयोजनत्वं, भ्रमकैतवराहित्यं वा विवक्षितम् । ऐकान्तिकत्वं प्रयोजनान्तरानन्वयेन तदेकनियतत्वम्, तत एव नित्यानुवृत्तत्वम् आत्यन्तिकत्वम् । अन्यार्थत्वे हि तत्सिद्धौ निवर्तेत । निरतिशयत्वम् आत्यन्तिकत्वम् इति चाहुः ।
<dg 16/>
अत्र परभक्तिः उत्तरोत्तरसाक्षात्कारेच्छात्मिका धीः, सा च ‘या प्रीतिः ’ (वि.पु.१-१९-२०) इत्य्-आदि-ष्विव विषयस्वभावजा, न त्विष्टसाधनत्वबुद्धिजा । परज्ञानम् - उत्तरोत्तरसाक्षात्कारः । साक्षात्कृते निरन्तरानुबुभूषा परमभक्तिः । अनुभवस्त्विह अनुकूलतमत्वेन साक्षात्कार एव । नित्यानां मुक्तानाञ्च नित्यानुवृत्तैक रूपानुभवः4 क्षणभेदेन परभक्तित्वाद्याकारभेदैश्च विकल्प्यते । पूर्वपूर्वक्षणेषु उत्तरोत्तरक्षणावच्छिन्नस्वरूपस्य इष्टतमत्वमभिप्रेत्य कृतत्वव्यपदेशः । तस्य मुख्यत्वन्तु योगविशेषजन्यानुभवे । ननु इहोपायभूतपरभक्त्यादिभिः मुक्त5 दशानुभवस्य कृतत्वं मुख्यमेवास्तु, तथासति उपरि श्लोकत्रयोदितज्ञानस्य स्थानत्रयोदितपरभक्तेश्च प्रार्थनमुपपद्येत । तदर्थञ्च यथाभाष्यं सम्प्रतिपन्नाङ्गप्रपत्तिरिह प्रार्थिता स्यात् ? मैवम्, ‘प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य तदानीमेव मत्प्रसादलब्धमच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञान’ इत्य्-आदि-वक्ष्यमाण सरूपतया तदनुगुणमिह व्याख्यातुमुचितत्वात् ।
भगवत्प्रपत्तेः स्वतन्त्रतया मोक्षसाधनत्वस्थापनम्॥
न च भगवत्प्रपत्तेस्स्वतन्त्रतया मोक्षसाधनत्वं नास्तीति वाच्यम्, श्रुतिस्मृतिभगवच्छास्त्रेषु तत्स्वातन्त्र्यदृष्टेः । ‘यो ब्रह्माणम्’ (श्वे.उ.६-१८) इत्य्-आदिके हि श्वेताश्वतरमन्त्रे हिरण्यगर्भादिकारणभूतपरमपुरुषशरणागतिः मुमुक्षुणा अनुष्ठेयेति प्रतीयते । न च क्वचिदङ्गत्वदर्शनात् गुरुलघुविकल्पानुपपत्तेश्च व्यवहितसाधनत्वं कल्प्यम्, अधिकारिभेदेन व्यवस्थापनात् । तथा च उपबृंहितं ब्राह्मे पुराणे ‘शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्’ ॥ इति । (ब्रा पु. ५३) अहिर्बुध्न्ये च स्पष्टमुक्तम्6
‘यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्साङ्ख्येन योगेन न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेन तेनाप्यते तत्तन्न्यासेनैव महामुने! ॥ परमात्मा च तेनैव प्राप्यते पुरुषोत्तमः’ ॥ (अहि.सं.३७-२५,२६,२७) इति ।
प्रपपत्तियोगश्च अविलम्बित-फलप्रद एवं उदाहृतः
<dg 17/>
‘अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥ शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । तस्यानुबन्धाः पाप्मानस्सर्वे नश्यन्ति तत्क्षणात्’ ॥ (अहि.सं.३७-३०,३१) इति । अत्रापि ‘त्वमेवोपायभूतो मे भव’ इत्य्-आदिभिः, न्यासात्मकत्वं सूच्यते । ‘तेषान्तु तपसां न्यासमतिरिक्तं तपश्श्रुतम्’ (अहि. सं. ३७-३६) । इति चाह, न्यास-शब्दस्य चात्र शरणागतिविषयत्वं दर्शितम् ‘निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । सन्यासस्त्याग इत्युक्तश्शरणागतिरित्यपि ॥ इति । (ल.तं. १७-७४) ‘न्यास इत्याहुर्मनीषिणो ब्रह्माणम्’ (महाना.उ.६३-७९) इत्यत्र न्यास-शब्दसामानाधिकरण्यन्त्वन्यपरम् । एवं स्वतन्त्रप्रपत्तिसिद्धौ ‘भक्तया परमया वाऽपि प्रपत्त्या वा महामते ! । प्राप्योऽहं नान्यथा प्राप्यो मम कैङ्कर्यलिप्सुभिः’ ॥ इति विकल्पोऽपि व्यवस्थितविषय उपपद्यते ।
श्लोक-त्रयोदित-ज्ञानादिकम् अप्य्
अत्र स्वयम्-प्रयोजनतया प्रार्थ्यत
इति न विरोधः ।
न च प्रपत्तिस्वातन्त्र्ये भाष्यविरोधः ।
तथा हि
‘चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन’! (भ.गी. ७ - १६)
इत्य्-आदिनोपासनस्येव, प्रपदनस्यापि
‘तावदार्तिस् तथा वाञ्छा
तावन् मोहस् तथाऽसुखम् ।
यावन्न याति शरणं
त्वाम् अशेषाघ-नाशनम्’ ॥
(वि.पु.१-९-७३)
‘प्रपत्तेः क्वचिद् अप्य् एवं
परापेक्षा न विद्यते,
सा हि सर्वत्र सर्वेषां
सर्व-काम-फल-प्रदा ॥ (सन. सं.)
इत्य्-आदिभिस् सर्वाभिमत-साधनत्वावगतेः,
सर्व-फल-साधारणम् अपि चरम-श्लोक-विधेयं
तत्र प्रकृतोपाय-विरोधि-पाप-निवर्तन-रूपोदाहरण-विशेषे प्रदर्शयाम् आस।
इह तु साध्यान्तर-साधनान्तर-रहित–
मन्त्र-विवरण-प्रवृत्तत्वात्,
प्राप्ति-विरोधि-निरसनार्थतया उदाहरति ।
तस्मान्
‘नोपाय-भक्त्य्-आदिकम् इहोच्यत7’
इति सिद्धम् ।
पर-भक्त्य्-आदिभिस् साध्यम् अनुभवादिकं
तद्–अ-भावेऽपि
मे प्रपत्ति-मात्रेण भवत्व्
इति विवक्षायां
प्रस्तुत-विरोधाभावेऽपि,
वक्ष्यमाणानुसारेण विवक्षान्तरं दर्शितम् ।
“+++(स्वीय-)+++आर्तोपच्छन्दनं गद्यं
भाष्यन् तु +++(केवलं)+++ पर-रञ्जनम्” ।
इत्य् आविल-धियो ऽप्य् एवं
प्रसीदेयुः प्रमाणतः ॥
विश्वास-टिप्पनी
श्लोकः प्रक्षिप्तोऽत्र??
First half indicates the thought that the bhashya is only for entertaining outsiders.
The second half seems to address those disturbed by as per the first half.
It seems something appended by a reader (weird place).
The following sources all contain it -
Source: melukoTe
प्रतिवादिभयङ्करार्यप्रकाशितेऽप्य् अस्ति।
Source: 1902 mysore
पुनश्च मुक्तानुभवं परिपूर्णेत्यादिभिः षड्भिः विशिनष्टि । अत्र हि मुमुक्षूणां भगवदनुभवविशेषेषु यथासम्भवं सुकृततारतम्येन परिमिताकारगोचरत्वम्, खद्योतस्फुरणवत् सान्तरत्वम्, कञ्चित्कालम्8 निरन्तरत्वेऽपि सारस्वतस्रोतोन्यायेन विच्छिन्नप्रवाहत्वम्, सामान्यतस्सर्वविषयत्वेऽपि परोक्षरूपत्वम्, स्वयम्प्रियत्वेऽपि मधुरभेषजनयेन मुक्तिरूपस्वप्रयोजन साधनत्वबुध्या उपादेयत्वम्, अत एव सावधिकरसत्वञ्च स्यात् , निश्शेषनिवृत्तप्रतिबन्धस्य तु न तथेति भावः ।
<dg 18/>
अत्र प्रीतिहेतुत्वाभिधानेऽपि तदर्थबुध्या उपादेयत्वाभावादनन्यप्रयोजनत्वमविरुद्धम् । तत्र हेतुः अनवधिकातिशयप्रियत्वम् । भगवदनुभव इत्यनेन मुक्तौ पाषाणकल्पत्वपक्षः । स्वात्ममात्रानुभवनिर्गुणप्राप्त्यादिवादश्च व्युदस्यते । सर्वविशिष्टब्रह्मानुभवे प्रधानानुभाव्यञ्च व्यञ्जितम् । अत्र अनुभवजनितप्रीतिर्नाम ‘निरतिशयानुकूलोऽयं विषयो मया अनुभूयते’ इति । स्वयमपि निरतिशयानुकूल्यवती कृतार्थता बुद्धिः । ‘कृतार्थोऽस्मी त्यमन्यत’ इतिवत् । सा च सामग्र्यनुवृत्त्या प्रतिक्षणभाविनी प्रवाहविच्छेदरहिता चेत्येके । अन्ये तु प्रीतेस्स्वरूपतोऽनुवृत्तत्वेऽपि पूर्ववदनुभवस्यैव प्रयोज्यप्रयोजकाकारविभागेन जन्यजनकवाचोयुक्तिः इति । अस्याश्च प्रीतेः अनवधिकातिशयत्वं प्रीत्यन्तरापेक्षया निकृष्टत्वविरहात् । ईश्वरस्य नित्यानामपि हि न मुक्तेभ्योऽतिशयिता प्रीतिः । ‘श्रोत्रियस्य चाकामहतस्य (तै. उ. आन. ८) ‘भोगमात्रसाम्यलिङ्गाञ्च’ (ब्र.सू.४-४-२१) इति समानभोगव्यवस्थापनात्, ईश्वरनित्यमुक्तभोगानाम् उपचयापचयतारतम्यवादयोः अपन्यायमूलत्वाञ्च । कैङ्कर्यस्य भगवदिच्छाकारितत्वेऽपि ‘प्रहर्षयिष्यामि’ (स्तो.र.४६) इति, तत्प्रीत्युद्देशेन प्रवृत्तत्वेऽपि प्रीतिकारिता इत्य्-आदि-ना ‘यथार्हं केशवे वृत्तिम्’ (म.भा.उ.३९-३८) इति न्यायात् प्रीतेः प्रेरकत्वातिशयेन स्वरसप्रवृत्तिर्नियोगनैरपेक्ष्यञ्च द्योत्यते । एवं प्रीत्या प्रवृत्तस्यापि कैङ्कर्यविशेषेषु स्वाम्यभिमतिविशेषास्त्वनुरोधनीयाः। तादृशमेव च कैङ्कर्यम्, ‘एतत्सामगायन्नास्ते’, (तै.उ. भृ.१०) ‘जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा , (छां. उ. ८-१२-३) अशेषावस्थोचित-अशेषशेषतैकरतिरुप
‘स यदि पितृलोककामो भवति’ (छां. उ.८-२-१) इत्य्-आदि-ष्वप्युक्तम् । अशेषावस्था-शब्देन परव्यूहादयः स्थानासनशयनादयः जगत्सृष्ट्यादयश्च भगवतोऽवस्थाः, स्वस्य च सशरीरत्वाशरीरत्वानेकशरीरत्वरूपा गृह्यन्ते, कैङ्कर्यस्य तत्तदवस्थोचितत्वं, यथालोकं यथागमं च चामरग्रहणादिना भोक्तृतया भोग्यतया च सन्निधाय कृतत्वात् । अशेषशेषता आत्मनः आत्मीयस्य च सर्वस्य परशेषभावः । यद्वा, सर्वप्रकारशेषवृत्तिः । अनन्तगरुडादिप्रतिनियताधिकारकृत्येषु मुक्तस्येच्छाविरहात्, इष्यमाणेष्वपि सर्वेषु ‘स एकधा भवति’9 (छां.उ.७-२६-२) ‘तावन्ति चक्रे रूपाणि भगवान् देवकीसुतः’, इति प्रकारेण शेषशेषिणोः यथाभिमतरूपपरिग्रहेण मुक्तस्य स्वाभिमतसर्वशेषवृत्तिस्स्यादेव । तस्याम् एक-शब्देन स्वप्रयोजनप्राधान्यव्युदासः । अथवा, नित्यानां मुक्तानाञ्च भगवत्प्रीतिफलासु सर्वासु शेषवृत्तिषु परकृतासु स्वकृतासु च प्रीत्यविशेषो विवक्षितः । ‘नित्याभिवाञ्छितपरस्परनीचभावैः) (वै स्त.७७) ‘याभिस्त्वं स्तनबाहुदृष्टिभिरिव’ (श्रीगु.र.को.२६) इत्य्-आदि-न्यायाच्च । एकरूपा वा रतिः एकरतिः, कालभेदेन सङ्कोचाद्यभावात् । रतिरिह प्रीतिरिच्छा वा, तया हेतुभूतया कैङ्कर्यं निरूप्यत इत्यभिप्रायेण रूप-शब्दः । शेषतैकरतिः इत्येतत् श्रीवैकुण्ठगद्ये ‘परिचर्यैकमनोरथः’ इत्यनेन विवृतम् । अत्रानुभवरतिकैङ्कर्य-शब्देषु ज्ञानचिकीर्षाप्रयत्नक्रमश्च प्रकाशितः । यद्वा, शेषतैकरतिरेव कैङ्कर्यप्रधानं स्वरूपम्, तत्परिवाहतया10 तु व्यापारान्तराणि भवन्तीत्यभिप्रायः । प्राकृतप्रलयादिष्वपि अविच्छिन्नप्रवाह तया अत्रत्यकैङ्कर्याव्ध्यावृत्यर्थं
<dg 19/>
नित्यत्वोक्तिः ‘प्रलये न व्यथन्ति च’ (भ.गी. १४२) इति हि गीतम् । स्वामिसमादेशापेक्षी तच्चोदितकारी किङ्करः, तस्य वृत्तिः कैङ्कर्यम् । तस्य अन्यैर्दुष्प्रापत्वेन अलभ्यलाभत्वसूचनार्थम्, इतःपूर्वं प्राप्तेरभावादप्राप्त प्राप्तिपक्षव्युदासेन अपेक्षार्हत्वज्ञापनार्थञ्च अधिकः प्राप्ति-शब्दः । ‘सम्पद्याविर्भावः’ (ब्र.सू. ४-४-१) इत्य्-आदिकं हि नित्यसिद्धेष्वेवाकारेषु मुख्यम्, न तु साध्ये निरङ्कुशविकासे तत्पूर्वक व्यापारे च । तत्र तु निवृत्त प्रतिबन्धस्वरूपोपाधि11 कत्वसूचनार्थम् । ‘आविस्स्युर्मम सहजकैङ्कर्यविधयः’ (अ.श्लो.३) इत्यभियुक्तैरुक्तम् ।
‘आत्माभिमानानुगुणपुरुषार्थव्यवस्थया ।
भगवत्पारतन्त्र्यादि प्रबुद्धस्य सुखायते ॥
परेच्छायत्तभूम्नोऽपि स्वेच्छाया अविघाततः ।
‘सर्वं परवशं दुःखम्’ (म.स्मृ.४-१६०) इत्याद्यं नात्र बाधकम्’ ॥
‘स्वतश्शेषत्वकैङ्कर्ये न कुत्राप्यसुखावहे ।
कर्मजत्वात्तथात्वस्य लोके च व्यभिचारतः ॥
महानन्दमहिम्ना च प्राग्दुःखावेक्षणादपि ।
मोहदुःखे तदा स्यातामिति मूढस्य जल्पितम् ॥
सुखस्य मोहनत्वञ्च तामसत्वाद्युपाधिभिः ।
सुखाय च भवेत्क्वापि पूर्वदुःखावमर्शनम् ॥
<dg 20/>
एवमिह अपेक्षया इत्यन्तं व्याख्येये सोपबृंहणचतुर्थ्यभिप्रेतस्य प्रपञ्चनम् । भगवत एव शरणत्वे वक्तव्येऽपि, दिव्यविग्रहस्य शरण्य गुणादिव्यञ्जकत्वम् । चरणग्रहणस्य कृपोत्तम्भकत्वातिशयेन अनतिक्रमण हेतुत्वञ्चाभिप्रेत्य चरण-शब्दः । अरविन्द-शब्दः उपायदशायामपि भोग्यत्वं सूचयति । अत्र भगवच्छब्दः निरपेक्षरक्षणौपयिकाकारपौष्कल्यप्रदर्शकः ।
कृत्स्न-विद् अपि भाष्यकारः
प्रश्रय-प्रकाशनाय पारमार्थिकी, यथावस्थिता इति सामान्यतो निर्दिशति ।
‘त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’, (कौषी.उ.१) ‘यद्धितं मम देवेश ! तदाज्ञापय माधव !’ (जि. स्तो. १-१८) इतिवत् । एतेन भगवत्प्रपत्तिर्मोक्षसाधनत्वम्12 इत्येतावन्मया निर्णीतम् । सा यत्स्वरूपा यत्प्रकारे ति च न जाने, अतस्त्वयैव वत्सलतया मोक्षार्थ भगवत्प्रपत्तेस्स्वरूपादिकं यथाप्रमाणं ज्ञापयित्वा अनुष्ठापनीयोऽहम् इति विशेषनिष्कर्षरहितानामपि विज्ञापनप्रकारश्शिक्षितो भवति । एवं सामान्यत उक्तेऽपि सर्वज्ञा सर्वहितैषिणी देवी स्वयमेव सर्वं विधास्यतीति तात्पर्यम् । ‘देवानां गुह्यम्’ (महाना.उ.१० २२) इत्याद्युक्तं गोपनीयतमत्वम्, तत एव तत्र तत्र तदनुगुणनिर्देशः प्रपत्तिस्वरूपादेर्दुरवगाहत्वञ्च सामान्यनिर्देशेन द्योत्यते । ननु सर्वलोकसर्वागमप्रसिद्धायाः प्रपत्तेः कथं दुरवगाहत्वम् ? इत्थम्, - केचित् भक्तिप्रपत्त्योर्व्यतिकरितप्रयोगादैक्यमिच्छन्ति । लक्षणभेदाद्भेदमिच्छन्तोऽपि केचित् स्वातन्त्र्येण मुक्तिसाधनत्वं नानुमन्यन्ते ।
<dg 21/>
अन्ये तु, स्वातन्त्र्याभ्युपगमेऽपि ‘षड्विधा शरणागतिः’ (अहि.सं.३७-२९) इति वचनानुरोधादाग्रेयादिषट्कवत् सम्भूय साधकत्वमाहुः । तत्रैव षण्णां प्रत्येकं साधनत्वमपरे । तेष्वेव यथेष्टं केचित्कतिपयो पेक्षया कतिपयपरिग्राहिणः । नियतैकसङ्ग्रहेऽपि स्वरूपन्यासमात्रत्वम् । प्रार्थनाभरन्यासयोरन्यतरमात्रत्वम् । तयोरेव यथेष्टमङ्गाङ्गित्वम्, विकल्पं वा केचिदाहुः । इतरे च प्रपत्तेरविधेयज्ञानरूपत्वम्, अनिवारणादिरूपत्वम्, दक्षिणाज्ञादिहेतुकभरन्यासाविशिष्टत्वम्, अनङ्गत्वं, द्वित्राद्यङ्गत्वम्, सर्वधर्मस्वरूपत्यागाद्यङ्गकत्वम्, भक्तियोगवत् आप्रयाणादनुवर्तनीयत्वम्, भक्तियोगाद्यङ्गकत्वम्, आरब्धकार्यपुण्यपापनिवर्तनाक्षमत्वम्, किं बहुना? गृहागमनाऽञ्जलिप्रणामादिमात्रताञ्च प्रतिपादयन्ति । एवं विप्रतिपत्तियोग्यतया दुष्करः प्रपत्तेर्निष्कर्षः । स तर्हि कथं स्यात् ? उच्यतेतत्र तावत् भक्त्यैक्यादिपक्षान्निक्षेपरक्षादिषु निराकार्ष्म ! षाड्विध्योक्तिरपि ‘न्यासः पञ्चाङ्गसंयुतः’ (ल.तं.१७-७४) इतिवचनबलादष्टाङ्गयोगोक्तिवदाङ्गाङ्गिसमुञ्चयेन स्थापिता । अत एव हि ‘षडङ्गं तमुपायञ्च’ (ल.तं. १७-५९) इत्य्-आदिकमपि सङ्गच्छते, स्वरूपन्यासस्य अत्रापेक्षितत्वेऽपि ‘आत्मात्मीयभरन्यासः, (ल.तं.१७-७९) ‘त्वयि निहितभरोऽस्मि सोऽहं यतः’, (व.स्त.९१) ‘तव भरोहमकारिषि धार्मिकैः’ (श्रीरं. स्त. २-१०२) इत्य्-आदि-प्रमाणसम्प्रदायैः भरन्यासप्राधान्यं सिद्धम् । यद्यप्युक्तं भरतमुनिना ‘अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः’ ॥ (भरतमुनिवाक्यम्) इति । यदपि च अहिर्बुध्न्येन ‘प्रार्थनामतिश्शरणागतिः’ (अहि.सं. ३७-३१) इति । तत्रापि पूर्वोक्तप्रमाणानुसारात्, अनन्यसाध्यत्वतदेकोपायत्वोक्तितात्पर्याच्च, प्रार्थनापूर्वकभरन्यासात्मकत्वसिद्धिरित्येषा दिक् । अतो दुरवगाहत्वद्योतनाय पारमार्थिकी इत्य्-आदि-सामान्यनिर्देश उपपन्न इति । एवमीदृशभरन्यासात्मकतया शरण्यत्वोपयुक्ताकारविशिष्टपरतत्वविषयतया च निरूप्यायामस्यां प्रपत्तौ, स्वरूपतो विषयतश्च तमः कार्यवैपरीत्य विरहः पारमार्थिकत्वम् ।
प्रकारतोऽङ्गतश्च
रजःकार्य-प्रकारान्यथा-भाव-राहित्यम्,
यथा-प्रमाणं फल-सङ्ग-कर्तृत्वादि-त्यागश् च
अत्र यथावस्थितत्वम् ।
राजस-तामस-बुद्धि-प्रकारश्च
‘यया धर्ममधर्मञ् च’ (भ.गी.१८-३१)
‘अधर्मं धर्मम् इति या’ (भ.गी. १८-३२)
इति श्लोकाभ्यां गीतः ।
एतेन अनाप्तागम-सिद्धत्वम्,
नित्यागम-सिद्धत्वेऽपि पुरुषबुध्यन्यथा13 कल्पितत्वञ्च
निरस्तं भवति ।
एवन्तु व्याख्यातं व्यासार्यैः -
‘पारमार्थिकी इति तमःकार्यव्युदासः14 । आनुकूल्यादि शरीरवती च सा । तद्धि तस्या उपायान्तरेभ्यो व्यावृत्तं स्वरूपम् । यथावस्थित इति रजःकार्यव्युदासः15। प्रपत्तव्यविषय सम्बन्धरूपः प्रकारः, तत्साहित्यमभिप्रेतम् । शरणवरणानर्हे शरण्यत्वधीर्हि अयथावस्थिता स्यात्’
इति । अविरता - आमोक्षदानादविश्रान्तव्यापारेत्यर्थः । व्यापारश्चात्र शरण्यप्रसाद विशेष एव । ‘सकृदेव हि शास्त्रार्थः’, (ल.तं.१७-९०) ‘सकृदेव प्रपन्नाय’ (रा.यु.१८-३३) ‘ननु प्रपन्नस्सकृदेव नाथ!’ (स्तो.र.६४) इत्य्-आदि-बलादङ्गत स्स्वरूपतो वा अनुवृत्तिरिह न विवक्षिता । व्याख्येये ‘प्रपद्ये’ इति वर्तमान निर्देशस्तु अनुष्ठानकालाभिप्रायः । व्यापारानुवृत्तिकथनात्तु भाष्योदाहृत भक्त्यङ्गप्रपत्तिव्यवच्छेदः । सा हि मध्ये साधनरूपं साध्यान्तरमुत्पाद्य विरतव्यापारा भवति, तदेव तु मुक्तिं साधयति । अस्त्वित्याशासनेन भगवत्प्रपत्तेस्स्वरूपतोऽपि स्वादुतमत्वं सूच्यते । मे अकिञ्चनतमस्य अनन्यशरणस्य ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
(2) Pray Thee, bless my sincere and real Saranaagati at the Lotus Feet of Bhagavan so that it may become well and truly performed with all its angas (formalities) and be continued and without interruption till the goal of Purushaartha is reached. This with the object of securing for myself the privilege of the occupation of ever-service to the Lord. i.e. the satisfaction derived in all forms and kinds of service always suited to the conditions and circumstances of the moments and which is the result of boundless intense devotion born out of the experience of enjoyment of the Lord that is, the unbounded limitless, unselfish love for no other end but that of service direct Him,- A love perfect, enjoyed fully in all His manifestations, not now but continuously with no interruption - This again promoted by the sincere one-pointed and ever intense Para Bhakti, (i.e. the desire for His Vision) Para Jnaana (direct perception of God) Parama Bhakti (the longing to have that perception continued for ever) - Bhakti at the Lotus Feet of the Lord. [This prayer Sri is acceded to by Her.]
FX Clooney
Pray Thee, bless my sincere and real SaraNAgati at the lotus feet of BhagavAn so that it may become well and truly performed with all its angAs (formalities) and be continued, without interruption till the goal of PurushArtha is reached.
This is with the object of securing for myself
the privilege of the occupation of ever-service to the Lord (i.e.).,
the satisfaction derived in all forms and kinds of service always suited to the conditions and circumstances for the moments
and which is the result of boundless intense devotion born out of the experience of enjoyment of the Lord that is, the unbounded limitless,
unselfish love for no other end but that of service direct to Him,
– A love perfect, enjoyed fully in all His manifestations, not only now but continuously without any interruption–
this again promoted by the sincere one-pointed and ever intense para bhakti (i.e, the desire for His Vision), para jn~Ana (direct perception of God), parama bhakti (the longing to have that perception continued for ever) –
Bhakti at the lotus feet of the Lord.
(This prayer to SrI is acceded by Her).
मूलम्
पारमार्थिक भगवच्चरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द शरणागतिः यथावस्थिता अविरता अस्तु मे ।
विषयः - यदुगिरिग्रन्थोक्तः
प्रार्थनायाः भगवता सफलीकरणम्
विश्वास-प्रस्तुतिः
+++(श्रियाः प्रतिवचनम्-)+++
अस्तु ते ॥ ३ ॥
तया +एव सर्वं सम्पत्स्यते ॥ ४ ॥
विश्वास-टिप्पनी
केचन - “तत्-सम्बन्ध-सम्बन्धिनिस्तरणम् अपि सर्वशब्दाभिप्रेतम्” इति सुदर्शनभट्टवचनेन
रामानुजस्य सानुग-प्रपत्तेः परम्, तत्-सम्बन्धतस् तत्-प्रशिष्यादीनाम् अपि प्रपत्तिर् जातैव
इत्य् आचक्षते।
“भगवच्-चरण+अरविन्द-शरणागतिर् … अस्तु मय्”
इति प्रार्थिते
“तया +एव सर्वं सम्पत्स्यते”
इति श्री-वचनेन
सुदर्शन-भट्टेन
“स्व-सम्बन्धि-सम्बन्धि-निस्तरणम्”
इति वदता
“भगवच्-चरण-शरणागती रामानुज-सम्बन्धि-सम्बन्धीनाम् अप्य् अनुगृहीतम्” इत्य् अभिप्रायः,
न तु “तैः शर्णागतिर् अनपेक्षितम्” इति विवक्षितं भाति ।
सुदर्शन-भट्टः
साक्षाद् अस्तु मे । अस्तु ते - इति
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
“Astu Te” these are the words of blessing by Lakshmi. Some say that these words were spoken by Sri Her-self;
‘तेन मैत्री भवतु ते ’ (रा. सुं. २१-२०) इत्य्-आदि-मानगत्या निश्चित्येति केचित् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
some say that the words are what Ramanuja himself says as having been spoken by Her as he felt sure that she would certainly say so; this is because she as Seeta has already declared in Ramayana “Tena Maitri Bhavatu” (word used by Seeta to Ravana).
स्व-सम्बन्धि-सम्बन्धि-निस्तरणम्16 अपि सर्व-शब्दाभिप्रेतम् ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
The words “Sarva” in Sarvam Sampatsyate is used to denote that not only the supplicant but also all those connected with him will be saved.
वेङ्कट-नाथः
<dg 22/> एवं विज्ञापिताया विष्णुपत्न्याः प्रतिवचनं निबध्नाति - अस्तु ते इति । रावणेऽपि ‘तेन मैत्री भवतु ते’ (रा. सुं. २१-२०) इति
वादिन्याश्शरणागतविषये कैमुत्यसिद्धमिदं वरप्रदानवाक्यमित्युत्प्रेक्ष्य प्रोक्तम्17 । ते मयि न्यस्तभरस्य मया स्वीकृतभरस्य च । ‘उपायदानमेतस्यास्तदिदं प्रतिसम्मतम् । यथा तस्याः प्रसीदन्त्या हारदानं हनूमते’ ॥ इति । भगवत्प्रपत्तेः पूर्वोक्त-नित्यकैङ्कर्य-प्राप्ति-पर्यन्त-फलाविनाभावम् आहतयैव सर्वं सम्पत्स्यते इति । एवकारेण अत्र उपायान्तरव्यवधाननैरपेक्ष्यं द्योत्यते । यद्वा अस्तु ते इत्येतावतैव पर्याप्ते तयैव इत्य्-आदिकं विभीषणसहागतराक्षसन्यायेन यथाभिमतानुबन्धिरक्षणाभिप्रायम् । अथवा, श्लोकत्रयोदित ज्ञानित्वादिकमत्र परत्र च यत्प्रार्थयिष्यते, तत्सर्वमिह सर्व-शब्दार्थः ।
उक्तेन सह वक्ष्यमाणम् अनुक्तञ्च
अनुबन्धि-रक्षणम् अभिमतत्वाविशेषात् सङ्कलय्य प्रोच्यते ।
सम्पत्स्यते इति भविष्यन्-निर्देशः -
प्रपत्त्यनन्तर-क्षण-प्रभृति-तत्-तद्-उचित-कालाभिप्रायः ।
वदान्यत्व-व्यञ्जकञ् चेदं वाक्यद्वयम्,
‘प्रियवाग्दानशीलो हि वदान्यः’ (हला को. २-२११) ।
भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)
Says Sri:-“So shall it be, Thus done, All is attained,”
FX Clooney
(So shall it be Thus done, All is attained).
मूलम्
अस्तु ते । तयैव सर्वं संपत्स्यते ।
-
स्स्तनम् - इ । ↩︎
-
प्राप्त इ । ↩︎
-
पारमार्थिकः - आ । ↩︎
-
रूपानुभवे - अ । ↩︎
-
मुक्ति - आ । ↩︎
-
सुस्पष्टमुक्तम् - अ । ↩︎
-
भूतपरभक्त्यादिकअ । ↩︎
-
किञ्चित्कालम् आ । ↩︎
-
स एकधाभवति, द्विधाभवति,अनेकधाभवतिअ। ↩︎
-
तत्परीवाहतया आ । ↩︎
-
प्रतिबन्धोपाधि - आ । ↩︎
-
भगवत्प्रपत्तेर्मोक्षसाधनम् -अ । ↩︎
-
पुरुषबुध्या अन्यथा - अ । ↩︎
-
तमःकार्यव्युदासाय - अ । ↩︎
-
रजःकार्यव्युदासाय - अ । ↩︎
-
स्वसम्बन्धिनिस्तरण - इ । ↩︎
-
वा उक्तम् - आ । ↩︎