०२ प्रपत्तिः श्रियाम्

<dg 4/>

विषयः - यदुगिरिग्रन्थोक्तः

श्रीशरणागतिः

विश्वास-प्रस्तुतिः

ओम्1

मूलम्

ओम्1

विश्वास-प्रस्तुतिः

भगवन्-नारायण+अभिमत+अनुरूप–
स्वरूप-रूप-गुण–विभव+++(=नित्य-लीला-विभूती)++++ऐश्वर्य-शील+आदि-+
अनवधिक+अतिशय+असंख्येय-कल्याण-गुण-गणाम्
पद्म-वन+आलयाम् भगवतीम्, श्रियम्, देवीम्,
नित्य+अनपायिनीम्, निरवद्याम्,
देव-देव-दिव्य-महिषीम्, अखिल-जगन्-मातरम्,
अस्मन्-मातरम्, अशरण्य-शरण्याम्,

अनन्य-शरणः शरणम् अहं प्रपद्ये ॥ १ ॥

सुदर्शन-भट्टः

तत्र प्रतापोष्म-ल–पितृत्व–दुर्-आसद–भगवत्–संश्रयण-सिद्धये,
पुरुष-कार–भूत– वात्सल्य-निर्भर-लक्ष्मी-समाश्रयणं
श्रीमच्-छब्द-विवरण-मुखेना ऽभिधीयते ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

I. This Gadya is a commentary on the principle of the Dvaya Mantra, which declares the Upaaya and Upeya nature of Brahman.
In this context, it will be noticed that the Mantra (Dvaya) starts with the mention of Sri who is full of (maternal) love and who is the ( Purushakaara) interceder for approaching the Lord, the Almighty Father, who like all fathers is sometimes harsh and [[2]] not easily approachable.
She is first to be propitiated. Hence, the Gadya starts with the exposition of the words “Sri” or “Srimat”.

यद्वा
“श्रियं प्रपद्य”
तत्-सन्निधौ मूल-मन्त्रेण +++(साक्षात्)+++ स्वरूपानुरूप-पुरुषार्थ-प्रार्थनं
तद्-उपाय-प्रार्थना-पर्यन्तं कृत्वा,

“तद्-अनुज्ञया द्वयम् अनुसन्धीयत”
इति पूर्वाचार्यानुसन्धानम् अनुस्मरन्

प्रथमं श्रियं प्रपद्यते +++(वक्ष्यमाण-पुरुषकारार्थं)+++ “भगवद्” इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

It may also be that “Sri” is first taken up for comment,
considering the fact that our ancient Aachaaryas have said that

Sri must first be approached and her affectionate permission taken from her by praying to her for Purushaartha and also for being made fit for performing the (Upaaya) (i.e. Saranagati for achieving the Purshaartha) by the utterance of the Moola Mantra.

विश्वास-टिप्पनी

कथं स्वरूपानुरूप-पुरुषार्थ-प्रार्थनम् अत्र?
एकफलाय द्वे प्रपत्ती स्याताम् -
“सकृदेव..” इति शास्त्रस्य विरोधेन ।

नैवम् -
श्र्याः, नारायणस्य च - द्वयोर् अपि प्रपदने कृते हि “सकृद् एवे"ति वचनस्य पूर्तिर् भवति।
तच् च तन्त्रेणापि शक्यम्, व्यस्ततया ऽपि।

“तद्-अनुज्ञया” इति यद् उक्तम्,
तद् एव कैश्चित्
“शरणागति-प्रयोगे लक्ष्म्याः प्रतिवचनम् अपेक्ष्यतय्” इत्य् उच्यते नव्यमङ्गल-वरदार्य-निभैः??

भगवन्-नारायण-शब्दौ गुण-विभूति-पौष्कल्य-परौ,
द्विषट्काष्टार्णयोर् अपि2 तत्-साहित्य-ज्ञान-परौ च ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The words “Bhagvat” and “Naraayana indicate the fullness of Guna and Vibhooti and remind us that in both “Om Namo Bhagavate Vasudevaaya” (Dwaadasa Akshara) and “Om Namo Naraayanaaya” (Ashta Akshara), Lakshmi is closely associated.

अनुरूपेऽनभिमतिर्
अननुरूपे चाभिमतिश्च दृश्यत इति
तद्-व्युदासाय अभिमतानुरूपशब्दौ

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The words Anuroopa and Abhimata are used in conjunction for, in some cases, there may be Abhimata (but not Anuroopa) and again, in some cases, Anuroopa but not Abhimata.
The object is to dispel such an idea, that is to say, that both do co-exist here.

रूपानन्तर-गुण-शब्दः सौन्दर्यादि-परः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The word Guna following Roopa denotes the qualities of the Vigraha, such as, beauty, etc.

परत्व-सौलभ्य-कोटि-निविष्ट-गुण-जात-प्रदर्शनार्थौ ऐश्वर्य-शील-शब्दौ

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The words, Aiswarya and Seela are used to denote the collection of qualities implied by Rulership and accessibility.

अनवधिक इत्य्-आदि स्पष्टार्थः3

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Anavadhika is easily understood as greatness with no limit or boundary, i.e. " with nothing above.”

परत्व-सौलभ्ययोस् समाख्याः प्रमाणयति पद्म इत्य्-आदिभिश् चतुर्भिः पदैः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

The next following 4 names exemplify the Paratva and Saulbhya of Lakshmi:

सदाऽपराधानभिज्ञतायै नित्यानपायिनीम् इति पदम् ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

‘Nityaanupaayini’ is used to show that Lakshmi is [[3]] ever present with, and not separated from, the Lord, so that She may ever be ready to see that the faults of erring souls may be veiled from His notice.

दौर्लभ्यरूपाऽवद्यरहिता निरवद्या

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Niravadya means that She is not unapproachable (like in the case of Paramaatman) nor affected with any faults.

कृताऽभिषेका महिषी । अतः अप्रतिहत-चिकीर्षिता ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Mahishee means the anointed Queen; hence She is one whose wishes cannot be transgressed (or easily ignored by the Lord).

अखिल-शब्दः स्वान्तर्भावपरः न ह्यस्मद्वर्जितमिति4 भावः ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Akhila in Akhila Jaganmaataram denotes that Ramanuja includes himself among those to whom She is a mother.

शरण्यं भगवन्तमलब्धवन्तः - अशरण्याः,
अहमपि तेष्वेक इत्याह-अनन्य इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

Asaranya means persons with no other resource go to for refuge. To show that the speaker includes himself in the class, the word Ananya is used. Thus far, prayers to Sri.

वेङ्कट-नाथः

ननु ‘विष्णुपत्नी’, (तै.सं. ४-४-१२) ‘विष्णुवल्लभा’ इत्य्-आदिषु
भास्करेण प्रभेव पत्याऽसौ निरूप्यताम् ।
यथोक्तं ताभ्याम् एव;
‘अनन्या हि मया सीता ‘, (रा.यु.११८-१९)
‘अनन्या राघवेणाऽहम्’ (रा. सुं. २१-१५)
इति।

इह तु तया तन्-निरूपणे व्याख्येयस्थे
किम् इति भगवताऽसौ +++(सह)+++ निरूप्यते ?
प्रस्तुतोपयोगार्थम् इति ब्रूमः ।
भगवद् अभिमतानुरूपत्वे हि तस्यास्,
तेनेच्छा-विघाताभावात्,
तद्+++(=लक्ष्मी)+++-विरुद्धेच्छा-विरहाच् च
ततोऽस्मद्-इष्टं सिद्ध्येत् ।

प्रभया प्रभावत इव व्याख्येय-गतं
तया तस्य निरूपणम् अपि श्री-वल्लभादि-व्यपदेशेन दर्शयिष्यति ।

इदञ् च परस्-पर-निरूप्यत्वम् अन्यत्राप्य् उक्तम्

‘तद् एतत्-सूक्ष्म-मिथुनं
परस्-पर-विचिह्नितम् ।
आदाव् अन्योन्य-मिश्रत्वात्
अन्योऽन्य-प्रतिपादकम्’ ॥

इति ।
आदाव् अन्योऽन्य-मिश्रत्वात्
‘शान्तानन्त’ (च. श्लो. ४) इत्य्-आदि-5 प्रकारेण
नित्यम् अन्योऽन्य-सम्बद्धत्वाद् इत्य् अर्थः ।
न च परस्-पर-निरूप्यत्वे ऽन्योन्याश्रयदोषः,
प्रभा-प्रभावतोर् इव
प्रमाणतः प्रकारान्तरेणापि तयोर् निरूपणात् ।

अत्र द्वि-षट्काष्टाक्षर+++(=१२आक्षर-८आक्षर-मन्त्र)+++-गताभ्यां भगवन्-नारायण-शब्दाभ्यां
‘शुद्धे महा-विभूत्य्-आख्ये’, (वि.पु.६-५-७२)
‘नर-सम्बन्धिनो नाराः’ (अहि.सं.५२-५०)
इत्य्-आदिभिर् निरुक्ताभ्याम्
उभय+++(मन्त्र)+++-लिङ्गत्वम् उभय+++(मन्त्रोक्तदेव)+++-विभूतित्वञ् च6 ख्याप्यते।

(

तत्र पूज्य-पदार्थोक्ति-
परिभाषा-समन्वितः।
शब्दोऽयं नोपचारेण +++(नारायणे)+++,
त्व् अन्यत्र ह्य् उपचारतः॥ ७७॥

उत्पत्तिं प्रलयं चैव
भूतानाम् आगतिं गतिम्।
वेत्ति विद्याम् अविद्यां च
स वाच्यो भगवान् इति॥

)

भगवच्-छब्दस्य
‘उत्पत्तिं प्रलयञ्चैव’ (वि.पु.६-५-७८)
इत्य्-आदि-प्रदर्शित-क्रमेण
‘अन्यत्र ह्य् उपचारतः’ (वि.पु.६-५-७८)
इत्य् औपचारिक-प्रयोग-प्राचुर्यम् अस्ति ।

नारायण शब्दस्य तु तन् नास्ति ।
कारण-वाक्येषु चानन्यथा-सिद्ध-निःसन्देह-विशेष-निर्धारणोपयुक्तश् चायम् ।

‘एको ह वै नारायण आसीन्,
न ब्रह्मा, नेशानः’ (महोपनिषत् - ७)

इत्य्-आदि-7 श्रुतेः ।

‘सहस्रशीर्षम्’ (महाना.उ.११-२५) इत्यनुवाके च
तेनैव सर्व-पर-विद्या-वेद्य-निर्धारणम् ।
अतस् तेनात्र विशेष्यस्य निर्देशः ।

ततश् च तद्-विशेषणतया भगवच्-छब्दो
नात्र8 रूढः -
उभय+++(मन्त्र)+++-लिङ्गत्व-व्यक्त्य्-अर्थम् एव ।

उक्त-प्रकारं भगवतः +++(लमी-नारायणात्मकं)+++ स्वरूपं
निरतिशयानन्दतया मुक्तानां नित्यानाम् इव च
स्वस्याप्य् अभिमतम्,
ततोऽपि स्व-वल्लभायाः स्व-रूपादिकम्
इत्य् अभिप्रायेण अभिमतेत्य् उक्तम् ।

श्रूयते हि -
‘श्रियं लोके देव-जुष्टामुदाराम्’ (श्रीसू. ५) इति ।

निरवधिक क्रीडादिमता9 निरुपाधिक-देवेन10 भगवता
प्रीति-विषयीकृताम् इत्य् अर्थः।

सापेक्ष-निरपेक्षयोः निरपेक्ष-सम्प्रतिपत्तेः,
बाधकस्य चाभावाद्,
औचित्यातिशयात्
तथैव वेद-विद्-व्याख्यातत्वाच् च,
देव-शब्दोऽत्र वासुदेवपरः ।

‘देवैर् जुष्टाम्’ इति तु मन्दम् ।

स्मर्यते च ‘प्राणेभ्योऽपि गरीयसीम्’ इति ।

‘अस्या देव्या मनस् तस्मिन्
तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा
मुहूर्तम् अपि जीवति’ ॥
(रा. सुं. १५-५२)

इति च ।
अभिमतत्वे ऽपि अननुरूपत्वम्
अनुरूपत्वे ऽपि अनभिमतत्वञ् च
लोके दृष्टम् इति
तद्-व्यवच्छेदार्थम् उभयोक्तिः -

यथा

‘चकर्थ यस्या भवनं भुजान्तरम्’
(स्तो.र. ३७)

(

गुणेन रूपेण विलासचेष्टितैस्
सदा तवैवोचितया तव श्रिया ॥ ३८ ॥

)

इत्य्-आदि-श्लोकयोः।

लोके केनचिद् आकारेणाभिमताऽनुरूपत्वम्
आकारान्तरेण तद्-अभावश् च क्वचिद् दृश्यते,
तद्-व्युदासाय स्वरूप-रूपादि-सर्वोक्तिः ।

लक्ष्मी-स्वरूपादेः भगवत्-स्वरूपाद्यानुरूप्य-स्थापनम्

अत्र तु11 स्वरूपस्य गुणत्वायोगात्,
स्वरूपं, रूपं गुणः विभवैश्वर्य-शीलाद्य्-अनवधिकातिशय-असङ्ख्येय-कल्याण-गुण-गणश् च इति द्वन्द्वः ।

<dg 6/>

अनुरूपत्वम् इह
सम्बन्धे सति प्रकृष्टं सादृश्यम् ।
यथा ‘परस्परस्य सदृशौ प्रमाणेङ्गित-चेष्टितैः’ (रा. बा. ४८-५) इति,

रत्न-काञ्चन-मुक्ता-प्रवालादेर् इव
स्वसम्बन्धेन शोभातिशय-हेतुत्व-रूपम् औचित्यं वा;
यथा

‘अतीव रामः शुशुभे ऽतिकामया
विभुः श्रिया विष्णुर् इवामरेश्वरः’ ॥
(रा.बा.७७-२९)

इति, यथा च

‘तुल्य-शील-वयो-वृत्तां
तुल्याभिजन-लक्षणाम् ।
राघवोऽर्हति वैदेहीं
तञ्चेऽयम् असितेक्षणा’ ॥
(रा. सुं. १६-५)

इति च ।
अत्र वयो-लक्षणयोस् तुल्य-शब्दः औचित्य-परः;
दम्पत्योर् न्यूनाधिक-वयस्कत्वात्+++(4)+++,
स्त्री-पुंस-लक्षणानाञ् च भिन्न-प्रकारत्वात्।
तत्-सहोक्तया शीलादिष्व् अप्य् औचित्य-पर एव -
तुल्य-शब्दोक्तार्थस्य ‘अर्हति’ इति समुदाय-निर्देशाच् च ।

यद् वा, अर्हत्त्वस्य साधकतया तुल्य-शब्देन सदृशत्वम् उच्यते ।
वयसस् सदृशत्वं

‘धन-कनक-द्युती युव-दशाम् अपि मुग्ध-दशाम्’ (श्रीगु.र.को. ३५)

इत्युक्तम् आसन्नतरत्वम् ।

लक्षणस्य सदृशत्वं
पति-लक्षणवत् सर्वोत्कर्ष-व्यञ्जकत्वम्;
येन स पुरुषोत्तमः;
सा च

‘सर्वलक्षणसम्पन्ना
नारीणामुत्तमोत्तमा’,
(रा.बा. १-२७)

इत्युच्यते ।

सदा तवैवोचितया तव श्रिया (स्तो. र. ३८)

‘आहुस् स्वैर् अनुरूप-रूप-विभवैः’
(च.श्लो.४)

इत्य्-आदिकम् अत्रानुसन्धेयम् ।
भगवत्-स्वरूपादेः एतत्-स्वरूपादीनां
स्यथा-क्रमम् आनुरूप्यम् ऊह्यम् ।

तत्र स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि,
तस्यानुरूप्यम्,
‘नानयोर् विद्यते परम्’ (वि.पु.१-८-३५) इत्य्-आदिषु ग्राह्यम् ।

रूपं हि, ‘हिरण्यवर्णाम्’ (श्रीसू. १) इत्य्-आद्य् आम्नातम् ।
तस्यानुरूपत्वं हि अति-रमणीयत्व-नित्यत्वाऽप्राकृतत्वादि विशिष्टम् अद्भुततमत्वम्,
‘नित्यैवैषा’ (वि.पु. १-८-१७) इत्य् उपक्रम्य

‘विष्णोर् देहानुरूपां वै
करोत्य् एषाऽऽत्मनस् तनूम्’
(वि.पु.१-९-१४५)

इति च निगमितम् ।

अत्र रूपाद् अनन्तरो12 गुण-शब्दस् सौन्दर्यादि दिव्य-विग्रह-गुण परः ।

‘गुणाद् रूप-गुणाच् चापि
प्रीतिर् भूयो व्यवर्धत13 (रा.बा.७७-२९)

इतिवत् विग्रह-गुणानां स्वरूप-गुणानाञ् च पृथङ् निर्देशः
प्रीत्य्-अतिशय-द्योतनार्थः ।

<dg 7/>

विभवः -

‘फणि-पतिश् शय्यासनं वाहनम्’ (च. श्लो. २)

इत्य्-आदिभिर् उक्तं +++(नित्य-लीला-विभूतीति)+++ विभूति-द्वयम् ।
यथोक्तम् -

‘अस्या मम च शेषं हि
विभूतिर् उभयात्मिका’
(वि.सं.)

इति ।
उक्तञ् च श्रीराममिश्रैः -

‘उभयाधिष्ठानञ् चैकं शेषित्वम्’
(षड्-अर्थ-सङ्क्षेपः)

इति ।
एवं द्वयोर् विभवस्यैकत्वेऽपि
तद्-आनुरूप्य-वचनम् अन्यूनानतिरिक्त-विभूतिमत्व-परम् ।

यद्वा, ‘अर्थो विष्णुर् इयं वाणी’ (वि.पु.१-८-१८) इत्य्-आदिभिः
लौकिक-दम्पती-न्यायेन विभज्य निर्दिष्टो विभूत्य्-अंशः ।
स्वासाधारण-विभूषणादिकञ् च विभवः

निधिः पद्मो14 निधिश् शङ्खश्
चतुर्दन्ती गजस्तथा ।
कल्याण-सर्पः पञ्चास्यः15
शिक्षितो गृहरक्षकः ॥

इत्य्-आदि च पुराण-प्रसिद्धम् आनुरूप्यम्
इह यथार्हं ग्राह्यम् ।

<dg 5/>

यदुगिरि-ग्रन्थ-टिप्पनी

भगवच्-छब्दस्य हेयगुण-रहितस् सन् समस्त-कल्याण-गुणाकरः इत्यर्थः ।

ऐश्वर्ये शीले चान्वितेन आदि-शब्देन
परत्व-सौलभ्यौपयिक-गुण-वर्ग-द्वय-सङ्ग्रहः,

‘सर्वैश्वर्य-गुणोपेतां
नित्यं तद्-धर्म-धर्मिणीम्’
(ब्रा.पु.)

इत्य्-आदिभिर् एतत्-सिद्धिः ।

अत्र परस्परेच्छा-विघाताभावाद् ऐश्वर्यम् अनुरूपम् ।
शीलञ् च गुहादिषु रामस्येव,
त्रिजटादिषु तस्याः प्रसिद्धम्।
एवं पति-पारार्थ्य-युक्त–तद्-इतर-सर्व-शेषित्वान्वितानाम् अन्येषाम् अपि गुणानाम्
आनुरूप्यं सुगमम् ।

‘ब्रह्मेशादि-सुर-व्रजस् सदयितस् त्वद्-दास-दासीगणः ’ (च. श्लो. १)

इत्युक्तेभ्यस् सातिशय-असङ्ख्यात-गुणेभ्यो व्यावृत्त्य्-अर्थम् आह
अनवधिकातिशयासङ्ख्येय” इति ।
अनवधिकत्वम्16 इह
स्वापेक्षया उत्कृष्टावधि-राहित्यम् ।

ननु भगवत एव +ऐश्वर्यम् अनवधिकातिशयम्,
‘तमीश्वराणां परमं महेश्वरम्’ (श्वे.उ.६-७),
‘सर्वेश्वरेश्वरः कृष्णः’, (वि.ध.७४-४४)
‘न त्वत्-समश् चाभ्यधिकश् च दृश्यते’ ( श्वे.उ.६-८)
‘न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतोऽन्यः’ (भ.गी.११-४३)
इत्य्-आदिभिस् तथोक्तेः ?
‘पुम्-प्रधानेश्वरेश्वरी’ (ल.स. १) इति नाम तु स्त्रीप्रत्ययानुपपत्तेः,
श्रुत्यादिविरोधाच् च +अन्यथा नेयम् ।
‘पुम्प्रधानयोः’ गो-बलीवर्द-न्यायेन
विशेषत उक्तानां ब्रह्मादीश्वराणाञ् च भगवान् ईश्वरः, तत्पत्नी +इयम् इति,
‘पुंयोगाद् आख्यायाम्’ (पा.सू. ४-१-४८) इति स्त्रीप्रत्ययोपपत्तिः ।
पुम्प्रधाने स्व-शक्त्यैव नियच्छति ।
ईश्वरञ्च+++(=??)+++ वाल्लभ्येनेति निर्वाहो
विरूपः क्लिष्टश्च -
‘ईश्वरीं सर्वभूतानां’ (श्रीसू. ९) इत्येतद् अप्य् एतेन गतार्थम् इति ।

अत्रोच्यते-

यद्यपि नाम्नि तथा निर्वाह,
तथाऽपि श्रुतौ न तथा स्यात्,
‘सर्वभूतानाम्’ इति षष्ठ्य्-अन्वय-वैघट्य-प्रसङ्गात् ।
स्त्री-प्रत्ययस् तु बाहुलकेन नेयः ।

<dg 8/>

‘अस्येशाना जगतो विष्णुपत्नी’ (तै. सं. ४-४-१२) इति च मन्त्रान्तरेण उक्तम् ।
तद् अपि हि तद्विभूतिभूतभूमिविषयत्वात् तत्पर्यवसाय्येव । श्रीवैकुण्ठगद्ये च शेषादीनामपि तदाज्ञानुविधायित्वमुक्तम्, ‘शेषशेषाशनादि सर्व परिजनं भगवतस्तत्तदवस्थोचित-परिचर्यायामाज्ञापयन्त्या’ (वै.ग.) इति । आहुश्च भगवद्यामुनाचार्याः - ‘यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः, नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः’ (च.श्लो. २) इति । वेदार्थसङ्ग्रहे च उक्तं, स्वाभिमत17 स्वानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकमहिममहिषी’ इति । उक्तञ्च श्रीवत्साङ्कमिश्रैः - ‘देवि! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते’ (श्रीस्त. ८) इति । तदात्मजैश्च ‘प्रशकनबल’ - इत्यारभ्य, - ‘तव भगवतश्चैते साधारणा गुणराशयः’ (श्रीगु.र.को. ३२) इति । न चैतावता भगवतो निस्समाभ्यधिकत्वविरोधः, प्रत्युत तत्प्रतिष्ठापनमेव, ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ (तै. आर. ३-१३-४१) इति श्रुतेः । न ह्येवंविधपत्नी विशिष्टत्वं कस्यचित् अन्यस्य18 अस्ति, येन तत्साम्यादिशङ्का स्यात् । उपबृंहितञ्च ‘अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा’ (रा.अर.३७-१८) इति । एवमस्याश्शीलादीनामनवधिकातिशयत्वेऽप्यविरोधः ‘यथा प्रभागुणोत्कर्षे भास्करो निस्समाधिकः । श्रीमानपि तथैव स्यात्पतिः पत्नीगुणोन्नतौ ॥ ज्ञानभोगसमानत्वे नित्यमुक्तेश्वरेषु च । यथा वैषम्यनियतिस्तथैवाऽत्रेत्यनाविलम्’ ॥ शास्त्रेषु बहुधा भगवद्गुणत्वादिरूपेण निर्दिष्टायास्तस्याः कैश्चिन्निर्गुण त्वादिकं शङ्क्यते19 इति तद्व्युदासाय20 कल्याणगुणोक्तिः । गुणत्वादिनिर्देशास्तु अस्या द्रव्यत्वाद्यविरोधेन अन्यपरा इति तत्र तत्र द्रष्टव्यम्। ‘ततोऽवलोकिता देवाः’ (वि.पु.१-९-१०६) ‘त्वयाऽवलोकितस्सद्यः’ (वि.पु. १-९-१३०) ‘स श्लाघ्यस्स गुणी धन्यः’ (वि.पु.१-९-१३१) इत्य्-आदिभिरेतदवलोकनात् क्षुद्राणामपि गुणसिद्धौ, सर्वकल्याणगुणशालित्वमस्याः कैमुत्यसिद्धम् । कल्याणत्वं मोक्षपर्यवसायितत्त्वज्ञानादिमङ्गलावहत्वं स्वयं नित्यानुकूलत्वञ्च । ‘न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधसः’ (वि.पु.१-९-१३३) इत्याद्यभिप्रेतसर्वापरिच्छेद्यगुणानन्त्यातिशयसूचनाय गण-शब्दः, ऐश्वर्यादेरनेकावान्तरगुणसमुदायात्मकत्वाद्वा, ‘प्रकृष्टं विज्ञानम्’ (व. स्त. १५) इत्य्-आदि-न्यायात् ।

अथ विभूतितोऽपि मङ्गलनिर्वाहकत्वं प्रदर्शयति-पद्मवनालयाम् इति । एतेन ‘पद्मे स्थितां पद्मवर्णाम्’, (श्रीसू. ४) ‘गन्धद्वाराम्’ (श्रीसू. ९) इत्याद्याम्नातसौवर्ण्यसौगन्ध्यातिशयोऽपि सूचितः । तच्छरणवरणमन्त्रे चोक्तम् - ‘तां पद्मनेमीं शरणमहं प्रपद्ये’ (श्रीसू.५) इति नाभिस्थानीयकर्णिकावस्थानात्प-द्ममस्याः नेमिवद्भवति । ‘पद्ममेव नेमिः - नयनसाधनं यस्यास्सा पद्मनेमी’ इति केचित्, ‘मातरं पद्ममालिनीम्’, (श्रीसू. ११) ‘आर्दां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं,’ (श्रीसू.१३) ‘श्रीनिलयमालाधारिणी’, (श्रीमन्त्रम्) ‘प्रियाणि तस्याः पुष्पाणि कमलानि विदुर्बुधाः,’ (धनदीये) ‘विकासिकमलस्थिता’ (वि.पु.१-९-१००) इत्य्-आदि-ष्वप्यस्याः विशेषतः पद्माङ्गीकारश्रुतेः । श्रीविष्णुस्मृत्यादिषु विस्तरेणोक्तानां मङ्गल्यविभूतिभेदानाम् इयं विशेषतो देवतेति ज्ञापयितुमिह सुप्रसिद्धमुख्यमङ्गलभूतपद्मवनोदाहरणम् । ‘यत्र पद्मवनानि21 च’ इति भगवतो विशेषसन्निधिस्थाने पद्मवने तद्विग्रह इव ’ असौ विशेषेण22 सन्निधत्ते । एतेन’साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी’ ॥ (म.भा. शां. २२१-२०) इति श्रीवासवसंवादोक्तं सर्वभूतोज्जीवनार्थावतारसौलभ्यमपि प्रदर्शितं भवति । एवं मङ्गलगुणविभूतियोगेन निर्दोषत्वमपि सङ्कलय्याह - भगवतीम् इति । ‘ज्ञानशक्तिबल’ (वि.पु.६-५-७४) इत्यारभ्य ‘विना हेयैर्गुणादिभिः’ (वि. पु. ६-५-७५) इति हि स्मर्यते ।

श्री-शब्दनिर्वचनम्

अथोक्तवक्ष्यमाणसर्वातिशयस्थापिकया सुप्रसिद्धस्वासाधारणसमाख्यया सर्वसमाश्रयणीयत्वादिकमाहश्रियम् इति । एवं हि श्री-शब्दो निरुच्यते

शृणाति निखिलान्दोषान् श्रीणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यं श्रूयते च परम्पदम् ॥ (अहि.सं.५१-६५) इति । ‘श्रयन्तीं श्रीयमाणाञ्च शृणन्तीं शृण्वतीमपि’ । ( अहि. सं. २१-८) इति च ।अस्य च नाम्नस्सर्वप्रकारोत्कर्षज्ञापकत्वम् आहुः - ‘श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम्’ (च.श्लो.१) इति । ‘श्रीरसि यतः’ (श्रीगु.र.को.२९) इति च । भगवन्नारायण-पदोक्तस्यानुरूप्यञ्च भगवतीम्, श्रियम् इति, पदाभ्यां दर्शितम् । श्रीपदनिरुक्तिभिस्संश्रित-दोषनिराकरणम्, प्राप्यरुचिप्रापकाध्य वसायादिप्रदानमुपायस्वरूपनिर्वर्तकत्वम् । ‘पितेव त्वत्प्रेयान्’ (श्रीगु.र.को.५२) इत्युक्तं23 प्रतिप्रसादजनकत्वञ्च सिद्धम् । एवमाश्रितार्थव्यापारास्तदनुगुणावतारादयश्च न कर्मकृत इत्याह-देवीम् इति। भर्तुर्लीलायामैकरस्यात्तदनुगुणव्यापारोपपत्तिरिति भावः। भगवतीमित्यादिपदत्रयेण द्विषट्कार्णस्थ24 भगवद्वासुदेवपदार्थानुरूप्यञ्च ज्ञाप्यते । श्रियं देवीम् इति समभिव्याहारेण, ‘श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्’ । (श्रीसू. ३) ‘श्रीर्देवी पयसस्तस्मादुत्थिता धृतपङ्कजा’ ॥ (वि.पु.१-९-१००) इत्यादयश्श्रुतिस्मृतयः सूच्यन्ते । ‘श्रियः श्रीश्च भवेदग्र्या’ (रा.अयो.४४-१५) इत्याद्युक्तं पतिसम्बन्धेन द्योतमानत्वादिकमपि देवीमित्यनेन गम्यते । एवं ‘क्रीडार्थमवतीर्णस्य तस्य’ इत्याद्युक्तलोकानुकम्पाहेतुकावतारायाः अपि तस्याः ‘पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः, (वि.पु.१-९-१०५) ‘मया विना शुष्यति शोकदीनम्’ (रा. सुं.३६-२८) इत्य्-आदिभिरागन्तुकसंश्लेष विश्लेषादिव्यपदेशात् कथमपराधभीतानां तत्तदवस्थासु तत्पुरस्कारेण भगवदाश्रयणं स्यादित्यत्राह - नित्यानपायिनीम् इति । ‘श्रीवत्सवक्षा नित्यश्रीः’ (रा.यु.११४-१५) ‘नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी, (वि.पु.१-८-१७) ‘अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी’, (वि.पु.१-९-१४४) ‘भगवद्वासुदेवस्य नित्यैवैषाऽनपायिनी,’

<dg 11/>

‘महाविभूतेस्सम्पूर्णषाड्गुण्यवपुषः प्रभोः । मम सर्वात्मभूतस्य नित्यैवैषानपायिनी’ ॥ (ब्रा.पु.) इत्य्-आदिभिरनयोर्न कदाचिदपि विश्लेषः । अवतारेष्वपि कदाचिद्विश्लेषशोकादेरभिनयमात्रमेव । इदञ्च श्रीमद्रामायणान्ते सूचितम्’रामस्य सव्यपार्श्वे तु पद्मा श्रीस्समवस्थिता । दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः’ (रा.उत्त.१०९-६) इति। एवं देवीमित्यन्तेन व्याख्येयस्थश्री-शब्दार्थो दर्शितः। तन्मुखेन नित्यं भगवतस्सुखप्रसादनीयत्वं व्यञ्जयितुं25 नित्यानपायिनीम् इत्यन्तेन तत्रत्यमतुबर्थश्चोक्तो भवति। ननु भगवतीमित्यादिभिस्स्वतो निर्दोषत्वादौ नित्यसम्बन्धे च सिद्धेऽपि स्त्रीत्वोपाधिवशात्कदाचित्पतिपारार्थ्यवैमुख्यम्, पतिप्रतिकूलाभिप्रायत्वम्, अविमृश्यकारित्वम्,नृशंसत्वम्, निग्रहरुचित्वञ्च ‘शतह्रदानां लोलत्वं मत्स्यानां प्रतिकूलताम्26 । गरुडानिलयोश्शैघ्र्यम् अनुगच्छन्ति योषितः’ ॥ (रा.अर.१३-६) ‘विद्यते स्त्रीषु चापल्यं’ (रा.युद्ध. १६-९) ‘किं न कुर्वन्ति योषितः। इत्य्-आदिभिः प्रसिद्धं यदि स्यात्तदा कथं नित्यमशरण्यशरण्यत्वं स्यादित्यत्राहनिरवद्याम् इति । सामान्यतस्स्त्रीत्वनिबन्धनदोषवचनं क्षेत्रज्ञेष्वेव कर्मोपाधिविशेषनियतं प्रायिकञ्चेति नास्याः तत्प्रसङ्गः । उक्तञ्च तथैव, ‘अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी’ (ल.तं.१७-३१) इति । श्रीरामायणे च ‘इयन्तु भवतो भार्या दोषैरेतैर्विवर्जिता’ (रा. अर. १३-७) इति। किञ्च, ‘आनृशस्यं परो धर्मस्त्वत्त एव मया श्रुतः’ (रा. सुं. ३८-४१) इति स्मारयन्त्या नृशंसत्वप्रसङ्ग एव नास्ति । निग्रहरुचिञ्च समर्थाया एवास्या अत्यन्तापकारिष्वपि न सम्भवतीति स्ववाक्यसिद्धम्, ‘असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव! भस्म भस्मार्ह ! तेजसा’ ॥ (रा.सुं.२७-२०) इति एतद्विभूतिभूत देवतादिषु 27 स्वकर्म[^4_pg12] वशादीदृशदोषसम्भवेऽपि नास्याः तन्मूलभूतसङ्कल्पः ! देवदेवदिव्यमहिषीम्

‘त्वया देवि ! परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम्’ ॥ (वि.पु.१-९-१२३) ‘सन्त्यक्ता ये त्वयाऽमले!’ (वि.पु.१-९-१२९) इत्य्-आदि-षूक्तसन्त्यागोऽप्युपेक्षामात्रम् । तच्च प्रीतिकोपविरहेणावस्थानम् । नन्वेवं भगवदभिमतत्वादिकं शरण्य25 त्वौपयिकं सर्वं तत्पत्न्यन्तरेऽपि स्यात् ‘विष्टम्भो दिवो धरुणः पृथिव्याः’ (तै.सं.४-४-१२) इत्य्-आदिभिस्तन्माहात्म्यप्रसिद्धेः, तारतम्यन्तु दुरूहम् । अतः कथम् अशरण्यशरण्यामनन्यशरण इत्युच्यते ? तत्राह - देवदेवदिव्यमहिषीम् इति । यथा मनुष्यादिभ्योऽ धिकानां ब्रह्मादिदेवानां मनुष्यस्थानीयानां सर्वप्रकारसमधिकतया भगवान् देवः, तथा ब्रह्मदिदेवपत्नीभ्यस्समधिकानां भगवत्पत्नीनामप्यसौ प्रधानतमेत्यभिप्रायेणात्र दिव्य-शब्दः । इयं ह्युभयाधिष्ठानैकशेषित्वसाम्राज्येन सर्वमङ्गलप्रदायित्वादिभिश्च प्रकृष्यत इति भगवच्छास्त्रे उक्तम् । तथा ब्राह्मो26 पुराणेऽपि’अनन्त नामधेया च शक्तिचक्रस्य नायिका’ (ब्र.पु) इति । पत्न्यादिषु शक्ति-शब्दस्तद्विहारादिकार्योपयुक्तविशेषणत्वाभिप्रायः । तदिदं प्राधान्यं ‘कृताभिषेका महिषी’ (अमरः.२-६-५) इति विशेषणात् महिषी-शब्देनैव वा विवक्षितम् । तदा दिव्य-शब्दः तद्विग्रहस्य भगवद्विग्रहस्येवाप्राकृतत्वादिकं व्यनक्ति । एवं चिकीर्षितभङ्गपरिहाराय प्रत्याख्यानानर्हत्वाय च पतिवाल्लभ्यातिशय उक्तः । अथ तथाविधोत्कर्षस्वनिकर्ष-स्वापराधदर्शनजनितसाध्वसपरिहाराय प्रजावात्सल्यातिशयमाह अखिलजगन्मातरम् इति । जगच्छब्द इह चेतनपरः । ‘नमामि सर्वलोकानां जननीमब्धिसम्भवाम्’, (वि.पु.१-९-११७) ‘त्वं माता सर्वलोकानाम्’ (वि.पु.१-९-१२६) इत्य्-आदिभिरस्याश्चतुर्मुखादीन् सर्वाञ्जन्तून्प्रति27 मातृत्वात् लोकमातेति नाम पठ्यते । एवमुपबृंहणबलात् ‘निचदेवीं

‘मातरम्’ (श्रीसू. १२) इत्य्-आदि-षूक्तमस्या मातृत्वं भगवतः पितृत्वेन समानविषयम्, न हि तत् मदेकवर्जम् इदमस्या मातृत्वमित्यभिप्रायेण अखिल-शब्दः । तदिदं विश्वमातृत्वप्रदर्शितं निरुपाधिकवात्सल्यं ‘रिपूणामपि वत्सलस्य’ (रा.यु. ५०-५६) पत्युरनुरूपतमम् । तच्च हितचिन्तारहितेष्वहितचिन्तकेष्वपि कयाचिन्नयत्या कदाचित्फलति । किं पुनरिदानीं हितचिन्तोन्मुखे मयीति भावः । दुस्सहनिरन्तरापराधे दोषैकनिधौ रावणेऽपि हि सोन्मादे पुत्र इव जननीत्वेनैव जातवात्सल्या ‘मित्रमौपयिकं कर्तुम्’, (रा.सुं.२१-१९) ‘विदितस्स हि धर्मज्ञः,’ (रा. सुं. २१-२०) ‘प्रसादयस्व त्वं चैनम्’ (रा. सुं. २१ - २०) इत्य्-आदिभिस्सर्वाधिकं रहस्यमुपदिश्य, तद्भ्रमप्रशमने प्रयतते स्म । एवमखिलजगन्मातरमित्यन्तैः पदैश्चिकीर्षितायाः तत्प्रपत्तेरतिशयितामोघ धर्मत्वं सूचितम् । यथोक्तं काश्यपीये ‘नारायणात्मिकां देवीं श्रियं त्रैलोक्यमातरम् । भजमानो महाभाग ! परमो धर्म उच्यते’ ॥ (का.सं) इति । अयञ्च तदात्मकत्वव्यपदेशतत्पत्नीत्वाभिप्रायेण । अत्र ‘अस्मत्स्वामिन् !’ (श.ग.) इति वदस्मन्मातरमित्यपि श्रीविष्णुचित्तादयः पठन्ति, व्याचक्षते च, ‘यामुनमुनि वंशजननेन’ पुनश्च विशेषेण अस्मन्मातरम् इति । उक्तैस्स्वभावैस्सिद्धमपेक्षितानुगुणमाकारमाह अशरण्यशरण्याम् इति । येषां मोक्षोपायनिष्पत्तिकामानां सर्वलोकशरण्योऽपि न भवेच्छरण्यः, तेषामप्यसौ शरण्या, यथोक्तं त्रिजटया ‘भर्त्सितामपि याचध्वं राक्षस्यः ! किं विवक्षया ? । राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्’ ॥ (रा.सुं.२७-४५) ‘प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा । अलमेषा परित्रातुं राक्षस्यो महतो भयात्’ ॥ इति । (रा.सुं. २७-४४)

वानरपरिषदि च एतदनुवदन् वायुसूनुराह28‘अलमेषा परित्रातुं राघवाद्राक्षसीगणम्’ ॥ (रा. सुं. ५८-८८) ‘ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥ अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः’ ॥ (रा. सुं. ५८-९१) इति । ‘पापानां वा शुभानां वा’ (रा.यु. ११६-४५) इत्यादीनि च प्रभञ्जनसुतं प्रति तद्वाक्यानि । कुपितनरसिंहसमीपागतिभीताश्च प्रजापतिप्रभृतयः तामेव विश्वमातरमाश्रित्य तत्पुरस्कारेण तमुपसेदुरिति पुराणप्रसिद्धम् । आहुश्च ‘मातर्मैथिलि ! राक्षसीस्त्वयि तथैवार्द्राऽपराधास्त्वया रक्षन्त्या’ (श्रीगु.र.को.५०) इत्य्-आदि । भवत्वेवमशरण्यशरण्यत्वं तस्याः भवतस्तेन किमायातमित्यत्र तदेकप्रपत्तियोग्यां स्वावस्थां दर्शयतिअनन्यशरण इति । ‘अन्यच्चरणं यस्य नास्ति सोऽनन्यशरणः’, शरणम् - उपायः । ‘उपाये गृहरक्षित्रोः शब्दश्शरणमित्ययम् । वर्तते साम्प्रतन्त्वेष उपायार्थैकवाचकः’ ॥ (अहि.सं.३७-३१) इति व्यवस्थापनात् । एवमुत्तरत्रापि द्रष्टव्यम् । उत्तमपुरुषेणैव स्वान्वये सिद्धे अहम् इत्यधिकोक्त्या स्वस्य च दुष्करोपायान्तराशक्तिस्सूच्यते ।

प्रपद्ये इत्यत्र यद्यपि गत्यर्थेन धातुना बुद्ध्यर्थेन सता अध्यवसायमात्रमुपस्थाप्यते, तथाऽपि प्रमाणानुसारात् शरण-शब्द तात्पर्याच्च29 प्रार्थनाद्यन्वितभरन्यासं करोमीत्युक्तं भवति । प्रार्थ्यते चानन्तरं फलविशेषः । यस्तु परस्परोपकारेण दक्षिणादानेन प्रशासनेन वा भरन्यासः, नासौ प्रपत्तिः ।

नन्विदं मुमुक्षोरेव, भगवद्व्यवच्छेदेन तदन्य प्रपदने30 तदैकान्त्यं विहन्यात्, मैवम्, यथा कर्मयोगादिकमनन्योपासनार्थतया उपादीयते, तथा अनन्यप्रपदनार्थतया उपादीयमानमिदं

<dg 14/>

तद्वद् ऐकान्त्यमेव स्थापयति ।
यथा स्वाधिकारोचितपरिकरार्चने अनन्यत्वाविरोधः, तथेहापि ‘आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः । नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः’ ॥ (पौ.सं.) इति चोक्तम् । एवं घटकतया वरणेऽपि न विरोधः । अन्यथा गुरुभजनतत्पुरस्कारादिकमपि विरुध्येत । अथ, ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्), (मुं.उ.१-२-१२) ‘आचार्यमुपासीत’ (आप.ध.१६-१३) इत्य्-आदिभिः तादर्थ्यात् तत्सङ्गृह्यते, इदमपि[^1_pg15] पूर्वोक्तैस्तथैवाविशेषात् । किञ्च श्रियः प्रपत्तिम्, ‘चन्द्रां प्रभासाम्’ (श्रीसू. ५) इति मन्त्रेणालक्ष्मीनाशनार्थम् आमनन्ति । तथा ’ ॠचस्सामानि यजूंषि सा हि श्रीरमृता सताम्’ (तै ब्रा. ३-७) इति । या मुमुक्षूणां मोक्षहेतुर्विद्यैव लक्ष्मीः तदभावनाशोऽनया क्रियत इति तदर्थं शरण्याभिप्रायसंवादिनी तन्महिषीप्रपत्तिः युक्तैवेति सिद्धम् । एवं सेयं[^2_pg15] साक्षात्परम्परया वा सर्वफलसाधिका । ‘उदाराम्’ (श्रीसू. ५) इति श्रौतं पदं ह्यनवच्छिन्नविषयम् । तच्च ‘सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् । क्षिप्रप्रसादिनीं लक्ष्मीं [^3_pg15] शरण्यामनुचिन्तयेत्’ ॥ इत्य्-आदिभिः स्वायम्भुवादिवचनैरुपबृंहितम् ।

व्याचख्युश्च ‘ऐश्वर्यमक्षरगतिं परमं पदं वा’ इत्यारभ्य ‘कथय कोऽयमुदारभावः’ (श्रीगु.र.को.५८) इति । व्यतिरेकमुखेन चैतत् स्थिरीकृतं चतुःश्लोक्याम्

‘श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादादृते । संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित्’ ॥ (च.श्लो.३) इति ।

भाष्य उत्तमूर्-वीरराघव-शिष्यः (en)

(1) With no other help to resort to, I seek Thee, Sri Devi, full of all beneficient qualities, seated in a forest of lotus flowers. (Thou art) the refuge of all the helpless; (Thou art) my Mother, indeed the Mother of the whole world, The Crowned Divine Queen of the Lord of the Devas, the pure and Unsullied, never separated from the Lord; Thyself Thine from, its qualities, and the most wonderful, limitless innumerable collection of auspicious qualities of Thine, such as, Greatness, Rulership and high Virtues, all to His liking and worthy of the natural form and qualities of Bhagavaan Naarayana.

FX Clooney

With no other help to resort to, I seek Thee, SrI Devi, full of all benovolent qualities, seated in a forest of lotus flowers: (Thou art) the refuge for all the helpless; (Thou art) my Mother, indeed the Mother of the whole world. The crowned Divine Queen of the Lord of the devAs, the pure and the unsullied, never separated from the Lord; Thyself, Thine form, its qualities, and the most wonderful, limitless innumerable collections of auspicious qualities of Thine such as, greatness, Rulership and high virtues, all to His liking and worthy of the natural form and qualities of BhagavAn nArAyaNa.

मूलम्

भगवन्नारायणाभिमतानुरूप स्वरूपरूप गुणविभव ऐश्वर्य शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीम् अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः शरणमहं प्रपद्ये ।


  1. ‘ओम्’ इति पारायणे अनुष्ठीयते । ↩︎ ↩︎

  2. द्विषट्क - द्वादशाक्षरमन्त्रः । ‘ओं नमो भगवते वासुदेवाय’ इति । ↩︎

  3. स्फुटार्थः - आ। ↩︎

  4. ह्यस्मद्वर्जमितिइ ↩︎

  5. इति - अ । ↩︎

  6. विभूतिमत्वञ्च - अ । ↩︎

  7. इति -आ। ↩︎

  8. अनादृतरूढिः-अ। ↩︎

  9. क्रीडोपयुक्ततया - आ । ↩︎

  10. देवेन - आ । ↩︎

  11. तत्र - अ । ↩︎

  12. रूपानन्तरोआ । ↩︎

  13. अभ्यवर्धत-आ । ↩︎

  14. पद्मो गदोअ। ↩︎

  15. चिक्लीतोअ । ↩︎

  16. अनवधिकातिशयत्वम् - स्वापेक्षया उत्कृष्टावधिराहित्यम् । ↩︎

  17. स्वाभिमर्तानित्यनिरवद्यअ । ↩︎

  18. तदन्यस्य अ । ↩︎

  19. शङ्क्येत - अ । ↩︎

  20. तन्निरासाय आ । ↩︎

  21. पद्मवनानि’तुलसी काननं यत्र फुल्लपद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः’ ॥ इति वचनमिहाभिप्रेतम् । ↩︎

  22. विशेषणासौआ । ↩︎

  23. इत्याद्युक्तं - अ । ↩︎

  24. द्विषट्कार्णस्थः - द्वादशाक्षरमन्त्रस्थः इत्यर्थः । अक्षरवाची, अर्ण-शब्दोऽपि प्रामाणिकः । अत एव सहस्रनामभाष्यनिरुक्तौ, ‘वस्वर्णो मनुरुज्वलः’, ‘सप्तार्णो मृत्युनाशकः’ इत्य्-आदि प्रयोगाः दरीदृश्यन्ते । ↩︎

  25. तच्चरण्य आ। ↩︎ ↩︎

  26. ब्रह्माण्ड आ। ↩︎ ↩︎

  27. सर्वजन्तून्प्रति आ । ↩︎ ↩︎

  28. वायुसूनुरेवमाह - आ । ↩︎

  29. तात्पर्यानुसाराच्च - अ । ↩︎

  30. प्रपदनम् आ । ↩︎