विश्वास-प्रस्तुतिः
यो नित्यम् अच्युत-पदाम्बु-ज–युग्म-रुक्म-
व्यामोहतस् तद्-इतराणि तृणाय मेने ।
अस्मद्-गुरोर् भगवतोऽस्य दयैक-सिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
यदुगिरि-ग्रन्थ-टिप्पनी
शरणागतिगद्यम् - शरणार्थं संसारात् संरक्षणार्थं ‘आ - समन्तात् सर्वप्रकारेण’, प्रार्थनापूर्वकं ‘गतिः’गमनम्-अवलम्बनम्-आत्मसमर्पणम्-शरणागतिः । शरणागतिः - (प्रपत्तिः) - मोक्षसाधनोपायः; तदधिकृत्य कृतं गद्यम् शरणागतिगद्यम् ॥
तृणाय - ‘मन्यकर्मण्यनादरे विभाषाऽप्राणिषु’ (पा.सू.२-३-१७) इति सूत्रेणानादरे द्योत्ये कर्मणि चतुर्थी वा स्यात् । (इति चतुर्थी)
FX Clooney
That one who considered every thing as a mere straw opposite the invaluable treasure viz., the lotus feet of acyuta, I surrender to that holy Guru, SrI RamanujAcArya, the veritable Ocean of compassion.
मूलम्
यो नित्यमच्युत पदाम्बुजयुग्मरुक्म व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥
विश्वास-प्रस्तुतिः
वन्दे वेदान्त-कर्पूर-
चामीकर+++(=सुवर्ण)+++-करण्डकम् ।
रामानुजार्यम् आर्याणां
चूडामणिम् अहर्निशम् ॥
मूलम्
वन्दे वेदान्त-कर्पूर-
चामीकर-करण्डकम् ।
रामानुजार्यम् आर्याणां
चूडामणिम् अहर्निशम् ॥