[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
ओम् भगवन्नारायणाभिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य नवधिकातिशय-असङ्ख्येयकल्याणगुणगणाम्, पद्मवनालयाम्, भगवतीम्, श्रियम्, देवीम्, नित्यानपायिनीम्, निरवद्याम्, देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्-अस्मन्मातरम्-अशरण्यशरण्याम्, अनन्यशरणः - शरणमहं प्रपद्ये ॥ १ ॥ पारमार्थिक-भगवच्चरणारविन्दयुगलैकान्तिकात्यन्तिक-परभक्ति-परज्ञान- परमभक्तिकृत-परिपूर्णानवरत-नित्य-विशदतम-अनन्यप्रयोजनानवधि कातिशय-प्रिय-भगवदनुभवजनित-अनवधिकातिशयप्रीतिकारित-अशेषा वस्थोचित -अशेषशेषतैकरतिरुप-नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवच्चरणारविन्द-शरणागतिः यथावस्थिता-अविरताऽस्तु मे ॥ २ ॥ अस्तु ते ॥ ३॥ तयैव सर्वं सम्पत्स्यते ॥ ४ ॥ अखिलहेयप्रत्यनीक-कल्याणैकतान स्वेतर-समस्तवस्तु-विलक्षणानन्त- ज्ञानानन्दैक-स्वरूप! स्वाभिमतानुरूपैकरूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य निरतिशयौज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्यनन्तगुण-निधि-दिव्यरूप ! स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-सौशील्य- वात्सल्य-मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य- चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-सत्यकाम-सत्यसङ्कल्प-कृतित्व-कृतज्ञताद्यसङ्ख्येय-कल्याण-गुणगणौघ-महार्णव ! स्वोचित-विविध-विचित्रानन्ताश्चर्य-नित्य-निरवद्य-निरतिशयसुगन्ध- निरतिशयसुखस्पर्श-निरतिशयौज्ज्वल्य-किरीट-मकुट-चूडाऽवतंस- मकरकुण्डल-ग्रैवेयक-हार-केयूर-कटक-श्रीवत्स-कौस्तुभ-मुक्तादामोदर बन्धन-पीताम्बर-काञ्ची-गुण-नूपुराद्यपरिमित-दिव्य-भूषण ! स्वानुरूपाचिन्त्यशक्ति-शङ्ख-चक्र-गदाऽसिशार्ङ्गाद्यसङ्ख्येय - नित्य-निरवद्य-निरतिशयकल्याण-दिव्यायुध ! स्वाभिमत-नित्य-निरवद्यानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य नवधिकातिशयासङ्ख्येय-कल्याणगुणगण-श्रीवल्लभ ! एवम्भूत-भूमि-नीळा-नायक ! स्वच्छन्दानुवृत्ति-स्वरूप-स्थिति-प्रवृत्तिभेदाशेष-शेषतैकरतिरूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्यादि-अनन्तकल्याणगुणगण-शेष-शेषा शन-गरुड-प्रमुख-नानाविधानन्त-परिजन-परिचारिका-परिचरित-चरणयुगल ! परमयोगिवाङ्मनसापरिच्छेद्य-स्वरूप-स्वभाव-स्वाभिमत-विविध-विचित्रानन्त-भोग्य-भोगोपकरण-भोगस्थान-समृद्धानन्ताश्चर्य-अनन्तमहा विभव-अनन्तपरिमाण-नित्य-निरवद्य-निरतिशय-श्रीवैकुण्ठनाथ ! स्वसङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-स्वशेषतैकस्वभाव-प्रकृति- पुरुष-कालात्मक-विविध-विचित्रानन्त-भोग्य-भोक्तृवर्ग-भोगोपकरण- भोगस्थानरूप-निखिल-जगदुदयविभवलयलील! सत्यकाम! सत्यसङ्कल्प! परब्रह्मभूत! पुरुषोत्तम! महाविभूते! श्रीमन् ! नारायण! वैकुण्ठनाथ! अपार-कारुण्य-सौशील्य-वात्सल्य-औदार्य-ऐश्वर्य-सौन्दर्य-महोदधे! अनालोचितविशेषाशेष-लोकशरण्य! प्रणतार्तिहर! आश्रितवात्सल्यैक जलधे !अनवरतविदित-निखिल-भूतजात-याथात्म्य! अशेष-चराचरभूत-निखिल-नियमन - निरत! अशेष-चिदचिद्वस्तु-शेषिभूत! निखिल-जगदाधार! अखिल जगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम! सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्! नारायण! अशरण्यशरण्य! अनन्य शरणः, त्वत्पादारविन्दयुगलंशरणमहं प्रपद्ये ॥ ५ ॥ अत्र द्वयम् ॥ ६ ॥ पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥ ७ ॥ सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ! ॥ ८ ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ९ ॥ पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव! ॥ १० ॥ तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाऽर्हसि देव! सोढुम् ॥ ११ ॥ मनोवाक्कायैः अनादिकालप्रवृत्तानन्त-अकृत्यकरण-कृत्याकरण- भगवदपचार - भागवतापचार-असह्यापचाररूप-नानाविधानन्तापचारान्; आरब्धकार्यान्-अनारब्धकार्यान्; कृतान्-क्रियमाणान्-करिष्यमाणांश्च- सर्वान् अशेषतः क्षमस्व ॥ १२ ॥ अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्-कृत्स्त्रजगद्विषयं च; विपरीतवृत्तं च अशेषविषयम्, अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १३ ॥ मदीयानादिकर्मप्रवाहप्रवृत्ताम्, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञान जननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन-भोग्यत्वेन-सूक्ष्म रूपेण चावस्थितां, दैवीं, गुणमयीं, मायाम् ; दासभूतः, ‘शरणागतोऽस्मि; तवाऽस्मि दास’ इति वक्तारम्मां तारय ॥ १४ ॥ ‘तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ ॥ ‘उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्’ ॥ ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः’ ॥ इति श्लोकत्रयोदित-ज्ञानिनं मां कुरुष्व! ॥ १५ ॥ ‘पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया’ । ‘भक्त्या त्वनन्यया शक्यः’, ‘मद्भक्तिं लभते पराम्’ इति स्थानत्रयोदित- परभक्तियुक्तं मां कुरुष्व! ॥ १६ ॥ परभक्ति-परज्ञान-परभक्त्येकस्वभावं मां कुरुष्व! ॥ १७ ॥ परभक्ति-परज्ञान-परमभक्तिकृत-परिपूर्णानवरत-नित्य-विशदतम- अनन्यप्रयोजनानवधिकातिशयप्रिय-भगवदनुभवोऽहम्, तथाविध-भगवदनुभव-जनितानवधिकातिशय-प्रीतिकारित-अशेषावस्थोचित- अशेष-शेषतैकरतिरूप-नित्यकिङ्करो भवानि ॥ १८ ॥ एवम्भूत-मत्कैङ्कर्य-प्राप्त्युपायतया-अवक्लृप्त- समस्त-वस्तु-विहीनोऽपि, अनन्त-तद्विरोधि-पापाक्रान्तोऽपि, अनन्त-मदपचार-युक्तोऽपि, अनन्त-मदीयापचार-युक्तोऽपि, अनन्तासह्यापचार-युक्तोऽपि, एतत्कार्य-कारण भूतानादि-विपरीताहङ्कार-विमूढात्मस्वभावोऽपि, एतदुभय-कार्यकारण भूतानादि-विपरीत-वासना-सम्बद्धोऽपि, एतदनुगुण-प्रकृतिविशेष सम्बद्धोऽपि, एतन्मूल आध्यात्मिक-आधिभौतिक-आधिदैविक-सुख-दुःख-तद्धेतु-तदितरोपेक्षणीय-विषयानुभव-ज्ञानसङ्कोचरूप-मञ्चरणा रविन्दयुगलैकन्तिकात्यन्तिक-परभक्ति-परज्ञान-परमभक्ति-विघ्न प्रतिहतोऽपि; येनकेनाऽपि प्रकारेण द्वयवक्ता त्वम् ; केवलं मदीययैव दयया; निश्शेष-विनष्ट-सहेतुक-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-परज्ञान-परमभक्तिविघ्नः; मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलै कान्तिकात्यन्तिक-परभक्ति-परज्ञान-परमभक्तिः; मत्प्रसादादेव साक्षात्कृत-यथाऽवस्थित-मत्स्वरूप-रूप-गुणविभूति-लीलोपकरण विस्तारः; अपरोक्षसिद्ध-मनियाम्यता- मद्दास्यैकस्वभावात्मस्वरूपः ; मदेकानुभवः; मद्दास्यैकप्रियः; परिपूर्णानव रत-नित्य-विशदतमानन्यप्रयोजन-अनवधिकातिशयप्रिय-मदनुभव स्त्वम्; तथाविधमदनु-भव-जनितानवधिकातिशय-प्रीतिकारित-अशेषावस्थोचित-अशेषशेषतैकरतिरूप-नित्यकिङ्करो भव! ॥ १९ ॥ एवम्भूतोऽसि ॥ २० ॥ आध्यात्मिक-आधिभौतिक-आधिदैविक-दुःख-विघ्र-गन्ध-रहितस्त्वम्, द्वयमर्थानुसन्धानेन सह सदैवं वक्ता; यावच्छरीरपातम् अत्रैव श्रीरङ्गे सुखमास्स्व ॥ २१ ॥ शरीरपातसमये तु, केवलं मदीययैव दयया अतिप्रबुद्धः,मामेवाऽवलोकयन्, अप्रच्युतपूर्वसंस्कारमनोरथः, जीर्णमिव वस्त्रं सुखेन, इमां प्रकृतिं स्थूल सूक्ष्मरूपां विसृज्य, तदानीमेव मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्ति कात्यन्तिक-परभक्ति-परज्ञान-परमभक्तिकृत-परिपूर्णानवरत-नित्य- विशदतम-अनन्यप्रयोजनानवधिकातिशय-प्रियमदनुभवजनित- अनवधिकातिशय-प्रीतिकारित-अशेषावस्थोचिताशेष-शेषतैकरतिरूप नित्यकिङ्करो भविष्यसि! मा ते भूदत्र संशयः ॥ २२ ॥ ‘अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन’ । रामो द्विर्नाभिभाषते- ‘सकृदेव प्रपन्नाय तवाऽस्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम’ ॥ ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः’ ॥ इति मयैव ह्युक्तम् ॥ २३ ॥ अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः, सुखमास्स्व! ॥ २४ ॥ [तृणीकृतविरिञ्चादि निरङ्कुशविभूतयः । रामानुजपदाम्भोजसमाश्रयणशालिनः ] ॥ २५ ॥ अन्त्यकाले स्मृतिर्या तु तव कैङ्कर्यकारिता । तामेनां भगवन्! अद्य क्रियमाणां कुरुष्व मे ॥ २६ ॥
॥ इति श्रीभगवद्रामानुजविरचितं शरणागतिगद्यं समाप्तम् ॥