विश्वास-प्रस्तुतिः
यति-पति-दिन-चर्यां यश् चकारातिभोग्यां
वर-वर-मुनि-पौत्रस् सौम्य-जामातृ-नामा।
गुरुर् अमल-गुणानां वैष्णवानां मुदे तं
गुरु-जन-वरम् ईडे गोमठाख्यान्ववायम्॥
मूलम्
यतिपतिदिनचर्यां यश्चकारातिभोग्यां
वरवरमुनिपौत्रस्सौम्यजामातृनामा।
गुरुरमलगुणानां वैष्णवानां मुदे तं
गुरुजनवर मीडे गोमठाख्यान्ववायम्॥
विश्वास-प्रस्तुतिः
१. श्रीमद्रङ्गे दिव्यधाम्नि श्रीश्रीकान्तमनोहरे।
वसन्तं गुरुमार्याणां वन्दे रामानुजं मुनिम्॥

२. ब्राह्मे मुहूर्तेचोत्थाय ध्यात्वा गुरुपरंपराम्।
रहस्यत्रितयं रम्यं परव्यूहादिकांस्तथा॥

३. पञ्चप्रकारांश्च हरे रर्चिरादिगतेः क्रमम्।
ध्यायन्तं कूरनाधाद्यै स्सेव्यमानं गरूत्तमैः॥

४. चतुःश्लोकीं स्तोत्ररत्नं स्तोत्रं यामुनवक्तृकम्।
भक्ताङ्घ्रिरेणु श्रीसूक्तीः प्रबोधनपराश्शुभाः॥

५. प्राबोधिकीश्च गोदाया स्सूक्ती र्भागवतैस्सह।
अनुसंदधतं सम्यगाश्रये यतिशेखरम्॥

६. ततः प्रत्यूषसमये भक्तैश्शिष्यैर्यतीश्वरैः।
श्रीरङ्गधाम नत्वा त-दुदद्भागाश्रितां नदीम्॥

७. कावेरीं श्रीमतीं गत्वा श्रीशध्यानपुरस्सरम्।
श्रीपतेराज्ञया सिद्धाः कृत्वा पौर्वाह्णिकीः क्रियाः॥

८. समुपेत्य निजंधाम नत्वा स्वाराध्य मच्युतम्।
स्वमतस्थायिन स्सर्वा न्वेदपारायणेतरान्॥

९. वेदान्त तर्क मीमांसा व्याख्यातॄ न्वैषणवानपि।
इतिहास पुराणादि पारायणपरानपि॥

१०. कर्मयोगादिनिरतान् परव्यूहादिषु स्थितान्।
श्रीमच्छठारिमुख्यानां मुनीनां सूक्तितत्परान्॥

११. सर्वानुपेत्य सस्नेहं नन्दयन्तं नमामि तम्।
ततः श्रीरङ्गराज्यस्य सेवार्थं स्वाश्रितैस्सह॥

१२. प्रयान्तं मन्त्र रत्नानुसन्धानासक्त चेतसम्।
दक्षिणेन धृतश्रीम त्त्रिदण्डम्पाणिनाऽऽदरात्॥

१३. अन्य पाणितल स्पृष्ट कूरनाथ कराम्बुजम्।
प्रदक्षिणीकृत्य शनैः श्रीरङ्गं धाम तन्महत्॥

१४. चतुरानननामानं समेत्यानम्य गोपुरम्।
गोदां शठारिं योगीन्द्रं बलिपीठं तथैवच॥
मूलम्
१४. चतुरानननामानं समेत्यानम्य गोपुरम्।
गोदां शठारिं योगीन्द्रं बलिपीठं तथैवच॥
विश्वास-प्रस्तुतिः
१५. प्रदक्षिणक्रमेणैव पाकशालालयां श्रियम्।
श्रीमद्रङ्गावरवरं विमानं रङ्गसंज्ञकम्॥

१६. सेनापतिं च निचुलां नायिकां रङ्गिणः पदे।
वासुदेवं द्वारपालौ वैनतेयं प्रणम्य च॥

१७. मङ्गलाशासनं कृत्वा तत्रतत्र यथोचितम्।
ऊरीकृत्य च तीर्थाद्यमुल्लसन्तं मुनिं भजे॥

१८. छत्रोपलक्षित द्वारं तत श्श्रीमदुपेत्य च।
आद्यमर्चावताराणा माविर्भूतं यदृच्छया॥

१९. इक्ष्वाकूणां कुलधन मिष्टदैवं श्रियः पतिम्।
कावेरीपुलिने रम्ये शेषपर्यङ्क शायिनम्॥

२०. नाधयामुनपूर्वाणां गुरूणां कुलदैवतम्।
श्रीरङ्गराजं देवेशं दृष्ट्वाचार्य पुरस्सरम्॥

२१. साष्टाङ्गं सम्यगानम्य सहशिष्यैश्च भक्तितः।
अन्तः प्रविश्य सामोद-मामोदस्तम्भ मेवच॥

२२. श्रीभट्टनाथश्रीसूक्तै र्मङ्गलाशासनात्मकैः।
जितन्तास्तोत्र रत्नाभ्यां भीतिप्रीति पुरस्सरम्॥

२३. मङ्गलाशासनं शौरेः कुर्वन्तं गुरुमाश्रये।
ततो विमाने प्रणवाकारे व्यक्ते स्वयंभुवि॥

२४. दिव्यसिंहासने रम्ये स्थितं पद्मासनेऽग्रतः।
कस्तूरीतिलका द्रम्या त्कान्तफालतलं हरिम्॥

२५. कञ्जाक्षं कान्तवदनं कमनीयाङ्गसुन्दरम्।
पाणिपद्मचतुष्केण स्वाश्रिताभीष्टदायिनम्॥

२६. शङ्खचक्रेण दधतं गदामभयमुद्रिकाम्।
आसन्नाभ्यां रमाभूभ्यां पार्श्वयोः पर्युपासितम्॥

२७. सर्वावयवसौन्दर्या दभिराम वराभिधाम्।
सम्प्राप्तं भट्टनाधोक्त्या तदा गोदासमर्पणे॥

२८. संसेव्यानन्दभरितं संश्रये यतिशेखरम्।
तत श्श्रीरङ्गराज्यस्य श्रीमत श्शेषशायिनः॥

२९. पादारविन्दे परमे भक्त्याभीष्टप्रदे शुभे।
सौवर्णकाहलाकारे जङ्घे दिव्ये च जानुनी॥

३०. कदलीकाण्डकान्तोरु युगलं चातिसुन्दरम्।
काञ्चनाम्बरखण्डाभ्यां कमनीयकटीतटम्॥

३१. दिव्यं सनाभिमध्यञ्च त्रिवल्या शोभितोदरम्।
लक्ष्मीकेलिगृहं रम्यं ललितं कौस्तुभश्रिया॥

३२. वक्षस्थलं मनोहारि वैजयन्त्या विभूषितम्।
ग्रैवेयभूषारुचिरं कण्ठं कम्बुसमाकृतिम्॥

३३. उपधानीकृतं बाहु मुत्तमाङ्गसमीपतः।
दक्षिणं च तथा जानुविश्रान्तं दक्षिणं भुजम्॥

३४. पद्माभिरामवदनं पद्मपत्रेक्षणद्वयम्।
सुभ्रूयुगं सुनासं च सुकपोलतल द्वयम्॥
मूलम्
३४. पद्माभिरामवदनं पद्मपत्रेक्षणद्वयम्।
सुभ्रूयुगं सुनासं च सुकपोलतल द्वयम्॥
विश्वास-प्रस्तुतिः
३५. सुन्दरं चुबुकं चापि सुस्मिताधरपल्लवम्।
कान्तकुण्डलसंशोभि कर्णपाशयुगं तथा॥

३६. सुललाटं च तत्रोर्ध्वपुण्ड्रं चापि ललाटिकाम्।
सर्वाधिराज्यपिशुनं सर्वदेवनमस्कृतम्॥

३७. दिव्यरत्नकिरीटं च दर्शंदर्शं पुनःपुनः।
मुनिवाहनयोगीन्द्र सूक्त्युच्चारणपूर्वकम्॥

३८. आपादचूडं संसेव्य सर्वावयवभोग्यताम्।
श्रीरङ्गराजं शरणं प्रार्थयन्तं भजामि तम्॥

३९. ततः श्रीरङ्गराजस्य श्रीमतीं धृतशाटिकाम्।
पाद्यतीर्थं प्रसादं च पादुकां मालिकां शुभाम्॥

४०. अङ्गीकृत्य कृपामूल मनुज्ञाप्याश्रितैस्सह।
विमानं प्रणवाकारं विधायान्तः प्रदक्षिणम्॥

४१. छत्रोपलक्षित द्वारात्प्राग्देशे श्रीशभक्तितः।
स्थित्वा कालं क्षणं देवमनुभूय पुनःपुनः॥

४२. द्वारात्तस्मा द्बहिश्चैत्य नत्वा क्षामणपूर्वकम्।
बलिपीठं ततः प्राप्य प्रणमन्तं भजामि तम्॥

४३. ततो महामण्टपं तदेत्य श्रीरङ्गशायिनः।
कैंकर्यवर्धकान् भक्तान् किङ्करांश्चानुमान्य च॥

४४. श्रीरङ्गशयमुद्वेलं परामृश्यो त्तरोत्तरम्।
कलिजन्निर्मितं सम्यग्धान्यागारञ्च योगिनः॥

४५. श्रीगोपुरवरासीन मानम्य नृहरिं ततः।
श्रीरङ्गराजमहिषीं सेव्यां सर्वात्मभिस्सदा॥

४६. श्रीशाश्रये च जीवानां प्राप्तां पुरुषकारताम्।
जननीं सर्वलोकानां श्रियं देवीमुपेत्य च॥

४७. संसेव्य शिष्यै र्भक्तैश्च मङ्गलाशास्तिपूर्वकम्।
तीर्थादिकं च स्वीकृत्य परिक्रम्य प्रदक्षिणम्॥

४८. सहस्रस्तम्भसंयुक्तं नमस्कृत्वा च मण्टपम्।
स्वीयं मठं समासाद्य सच्छिष्यैः प्रेमपूर्वकम्॥

४९. व्याख्यानकूटे विमले विद्वज्जन निषेविते।
पद्मासनस्थं पद्माक्षपादाब्ज न्यस्तमासनम्॥

५०. प्रसन्नवदनाम्भोजं प्रफुल्लाम्बुज लोचनम्।
ऊर्ध्वपुण्ड्रै र्विराजन्त मुल्लसद्भि र्मनोहरैः॥

५१. ब्रह्मसूत्रेण शुभ्रेण शोभितं ब्रह्मतेजसा।
पद्माक्षतुलसीमाला परिष्कृतभुजान्तरम्॥

५२. त्रिदण्डमण्डितोरस्कं दिव्यज्ञानामृतोदधिम्।
काषायवस्त्रसंशोभि कटीतटमनोहरम्॥

५३. श्रीमद्वैष्णवसिद्धान्त प्रतिष्ठापन देशिकम्।
वेदान्तविद्यां विमलां व्याकुर्वन्तं मृदूक्तिभिः॥

५४. शिष्येभ्यो हितकामेभ्यः श्रीशशेषत्वबोधिनीम्।
भक्तै र्भागवतैश्चापि सेव्यमानं यतीश्वरम्॥

५५. श्रीभाष्यकारं सेवेऽहं श्रीकान्तानन्दवर्धनम्।
ततः श्रीपादतीर्थै स्स्वैश्शिष्याणां च महात्मनाम्॥

५६. सतां सफलयन्तं तं संश्रये यतिशेखरम्।
ततो माध्याह्निकं कृत्य मनुष्ठाय यथाविधि॥

५७. स्वीयं कुलधनं श्रीश माराध्य करुणाकरम्।
श्रीमद्रङ्गाधिराजस्य पूजां माध्याह्निकीं शुभाम्॥

५८. संजातां भक्तितः कृत्वा भक्तैर्यतिवरैस्सह।
हार्दपूरुषभोग्य ञ्चेत्यनुयागं विधाय च॥

५९. प्रसादपात्रं कुर्वाणं भक्तवर्गं यथोचितम्।
प्रपद्ये भक्तवर्गाणां पारिजातं यतीश्वरम्॥

६०. ततश्चैकान्त माश्रित्य सन्निविष्टं कृताञ्जलिम्।
श्रीभूपतेश्च चरणौ चिन्तयन्तं भजामि तम्॥

६१. तत श्शठारियोगीन्द्र सूक्त्यर्थानुभवै र्मुहुः।
भक्तानां भगवद्भक्तिं वर्धयन्तं नमामि तम्॥

६२. तत स्सायन्तनं कर्म कृत्वा श्रीरङ्गशायिनम्।
ध्यात्वा प्रपद्ये देवेश माराध्य स्वीयमच्युतम्॥

६३. वेदार्थवाक्यतत्त्वार्थे र्विमलज्ञानसम्पदः।
बोधयन्तं निजान् भक्तान् पुण्यश्लोकं नमामि तम्॥

६४. ततः श्रीशेषपर्यङ्के शयानं रङ्गशायिनः।
सर्वोपचारसहितं योगनिद्रात्मकं हरेः॥

६५. श्रुत्वा श्रीमति पर्यङ्के सौम्ये कृष्णाजिनात्मिके।
संवाह्यमानचरणं सच्छिष्यैश्च गरूत्तमैः॥

६६. पत्युः श्रियः प्रसादेन भगवद्योगमास्थितम्।
भगवत्प्राप्तिघटकं स्वाश्रितानां महात्मनाम्॥

६७. श्रीभाष्यकारं यमिनं यतिराजं दयाम्बुधिम्।
प्रपन्नजसकूटस्थं प्रपद्ये भक्तवत्सलम्॥

६८. शेषां शेनावतीर्णाय श्रीरामानुजयोगिने।
गुरूणां गुरवे भूया न्नित्यश्री र्नित्यमङ्गलम्॥

६९. श्रीमतीं यतिराजस्य दिनचर्यामिमां पठन्।
प्राप्नुया त्परमां भक्तिं भाष्यकारपदाब्जयोः॥

७०. श्रीमद्रङ्गे महति नगरे नित्यवासी महात्मा
त्रय्यन्तार्थस्थिति मुपदिश न्भूतले पुण्यकीर्तिः।
श्रीमान्रङ्गेश्वर चरणयो र्मङ्गलानि प्रयुञ्जन्
शेषांशेन प्रथितविभवो भाति रामानुजार्यः॥

इति यतिपतिदिनचर्या
विश्वास-प्रस्तुतिः
१. श्रीरङ्गराजकरुणा परिणामरूपः
श्रीमच्छठारिमुनिराज दयानिधानम्।
जीया दशेषहरिभक्त जनाभिवृद्ध्यै
श्रीरङ्गदिव्यनगरे यतिसार्वभौमः॥
मूलम्
१. श्रीरङ्गराजकरुणा परिणामरूपः
श्रीमच्छठारिमुनिराज दयानिधानम्।
जीया दशेषहरिभक्त जनाभिवृद्ध्यै
श्रीरङ्गदिव्यनगरे यतिसार्वभौमः॥
विश्वास-प्रस्तुतिः
२. श्रीरङ्ग शेषगिरिवारण शैलमुख्य-
स्थानेषु सर्वेषु च वैष्णवानाम्।
वासं विधाय कृपया मदनुग्रहार्थं
भाति श्रियः पतिरिव प्रभया यतीन्द्रः॥
मूलम्
२. श्रीरङ्ग शेषगिरिवारण शैलमुख्य-
स्थानेषु सर्वेषु च वैष्णवानाम्।
वासं विधाय कृपया मदनुग्रहार्थं
भाति श्रियः पतिरिव प्रभया यतीन्द्रः॥