७ जपारम्भात् पूर्वं भागवत-वन्दन-विषयः

सद्-अनुष्ठान-दर्पणे सन्ध्यायां जपारम्भात् पूर्वं भागवत-प्रणाम-विषयो नाम

॥ सप्तमं प्रतिफलनम् ॥

(जपारम्भात् पूर्वं भागवत-वन्दन-विषयः)

प्रपन्नानां जपारम्भात् पूर्वं भागवत-वन्दनं युक्तं, बहु-स्मृति-मूलकत्वात्

सन्ध्यादौ प्रपन्नानां जपारम्भात् पूर्वं भागवत-वन्दनम् उपपन्नं, वचनात्, शिष्टाचाराच् च । तथाहि सन्ध्यादौ मार्जनादि-तर्पणान्तात् सन्ध्या-वन्दन-कर्मणो ऽनन्तरं जपारम्भात् पूर्वं भागवतैः ।

वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेत् भुवि ।
तयोर् मध्य-गतो विष्णुः शङ्ख-चक्र-गदा-धरः ॥
शेषत्वं प्रणवे ज्ञात्वा पारतन्त्र्यं नमः पदे ।
भजन्त्य् अन्योन्य-दासत्वं स्व-तन्त्र–स्वामि-शासनात् ॥

श्री-वत्साङ्क-मिश्र-श्री-सूक्तौ –

कैङ्कर्य-नित्य-निरतैर् भवदेक-भोगैर्
नित्यैर् अनुक्षण-नवीन-रसार्द्र-भावैः ।
नित्याभिवाञ्छित-परस्पर-नीच-भावैर्
मद्-दैवतैः परिजनैस् तव सङ्गसीय ॥

इत्य्-आद्य्-अनुसारेण मिथो वन्दनं क्रियते । यतः वैद्यनाथीये –

जप-काले न भाषेत व्रत-होमादिकेषु च ।
एतेष्व् एवावसक्तस् तु यद्य् आगच्छेत् द्वि-जोत्तमः ॥
अभिवाद्य ततो विप्रं योग-क्षेमादि कीर्तयेत् ।

इति श्री-पाञ्चरात्र-रक्षायां, बोधायनीये –

जप-मध्ये गुरुर् वा ऽपि, वैष्णवो यस् समागतः ।
सम्भाषणादि-पूजान्तं तस्य कृत्वा ऽनुमान्य च ॥
अनुश्राव्य ततः कुर्याज् जप-शेषं समाहितः ।
सर्वस्य प्रभवो यस्माद् विष्णु-पादाश्रया नराः ॥
तन्-मूलतः क्रियास् सर्वास् सफलास् तु भवन्ति हि ।

इति ॥

शाण्डिल्य-स्मृतौ –

इज्या-मध्ये तथा होमे यागे च जप-कर्मणि ।
आगतं पञ्च-काल-ज्ञं सम्पूज्यैवाचरेत् परम् ॥

इति ।

[[P160]]

उपस्थानानन्तरं पित्रोर् वन्दनम् इत्य् एतत् अ-सन्निहित-पितृ-विषयकम्, त्रि-वर्ष-पूर्वाणां वन्दनम् इत्य् एतत् वैष्णवेतर-विषयम् [[??]]

अत्र याग इत्य् अनेन जप-मध्ये ऽपि प्रणामो ऽभिहितः । ततः पूर्वं प्रणामो ऽनुक्ति-सिद्धः । जपस्याविघ्नेन परिसमाप्त्यर्थतया मङ्गलाचार-रूपश् च भागवत-प्रणामः । तथा च मनुना स्मर्यते ।

मङ्गलाचार-युक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥

इति ।

अत्र कुल्लूक-भट्टीय-व्याख्या ।

अभिप्रेतार्थ-सिद्धिर् मङ्गलम् । तद्-धेतुत्वेन गो-रोचनादि-धारणम् अपि मङ्गलम् । गुरु-सेवादि-कम् आचारः । मङ्गलाचारभ्यां युक्तानां नित्यं शुचीनां जप-होम-रतानां दैव-मानुषोपद्रवो न जायते

इति तथोक्तम्, सच्-चरित्र-परित्राणे – अत्र हि मङ्गलाचरण-योगेन जपादिषु विघ्नाभावो ऽभिहितः । अत एव जाबालि-याज्ञवल्क्यौ ।

सन्ध्ययोर् उभयोः काले ध्यात्वा विष्णुं सनातनम् ।
निर्मलात्मार्क-सन्दर्शे गायत्रीम् आरभेद् बुधः ॥

इति ।

जपारम्भे विष्णु-ध्यानम् आहतुः । भागवत-सन्दर्शने तु । तत्-प्रणाम-विष्णु-ध्यानयोस् समुच्चयः । तद्-अलाभे वा, विष्णु-ध्यानम् । यत् तु वचनम् –

एवं सन्ध्याम् उपास्याथ पितराव् अग्रजान् गुरून् ।
त्रि-वर्ष-पूर्वान् शिष्टांश् च पार्श्व-स्थान् अभिवादयेत् ॥

इति ।

तत् तत्र सन्ध्यायां सन्निहित-माता-पितृ-प्रभृतीनां स्वयम् उपागम्य अभिवादनस्य उपस्थानानन्तर्य-परम् । पार्श्व-स्थान् इति माता-पित्रादीनां पार्श्व-स्थित-शिष्ट-परम् – त्रि-वर्ष-पूर्वान् इत्य् एतत् वैष्णवेतर-विषयम् । वैष्णव-विषये तु –

न परीक्ष्य वयो वन्द्या नारायण-परायणाः ।
किं तु श्री-विष्णु-भक्ता इत्य् आनम्या, राज-पुत्रवत् ॥

इति ।

[[P161]]

अ-ज्ञो, बालः, पिता, मन्त्र-दः, अतः वयो-नियमो नास्ति [[??]]

ब्राह्मस्य जन्मनः कर्ता स्व-धर्मस्य च शासिता ।
बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥
अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥
अ-ज्ञो भवति वै बालः पिता भवति मन्त्र-दः ।
अ-ज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्र-दम् ॥

इति । भरद्वाज-मनु-वचनादिभिः त्रि-वर्ष-पूर्वत्वस्यानपेक्षत्व-विधानात् ॥

ज्यायान् अपि कनीयांसं सन्ध्यायां प्रणमेत् बुधः ।

इति ॥

सन्ध्यायां कनीयांसम् अपि वन्देतेत्य्-आदि-वचनात् त्रि-वर्ष-पूर्वान् इत्य् उपयुक्त्य्-अनुवादे वा ॥

वैष्णवस्य दूरे दर्शनानन्तरम् एव उपचारः कार्यः [[??]]

सङ्ग्रहे –

यो दूरे वैष्णवं दृष्ट्वा प्रत्युत्थानादिना चरेत् ।
संपद्-आयुः पुण्य-यशो नाशश् च नरके व्रजेत् ॥

इति ।

वैष्णवो रामानुजार्य-दिव्य-चरितायाम् –

विष्णु-चक्राङ्कितं दृष्ट्वा यो ऽभ्युत्थाय कृताञ्जलिः ।
स स्व-कुलं समुद्धृत्य विष्णु-लोके महीयते ॥
चक्राङ्कित-भुजं विप्रं यो भूम्याम् अभिवादयेत् ।
ललाटे पांसु-सङ्ख्येयानि विष्णु-लोके महीयते ॥

भविष्यत्-पुराणे –

चक्राङ्कित-भुजं दृष्ट्वा यस् तु तं नाभिवादयेत् ।
तिर्यग्-योनि-शतं प्राप्य विष्ठायां जायते कृमिः ॥

भागवते –

चक्राङ्कितस्य सामीप्ये तपः कुर्यात् प्रयत्नतः ।
स्नानं दानं जपो होमस् तत् सर्वं चाक्षयं भवेत् ॥

इति ।

सङ्ग्रहे –

जप-मध्ये गुरुर् वा ऽपि वैष्णवो यस् समागतः ।
अन्योन्य-वन्दनं कुर्युश् शौरि-सम्बन्ध-वैभवात् ।
महत्-सन्दर्शने प्राप्ते समस्त-नियमैर् अलम् ।
ताल-वृन्तेन किं कार्यं लब्धे मलय-मारुते ॥

इति ।

वैष्णवो विषयतया गुरवे नाभिवाद्यम् । जपन्तं नाभिवादयेद् इत्य्-आदिकं वैष्णवेतर-विषयम् । सन्ध्यापगमन-कालाभिप्रायं वा । तथाहि –

अ-वैष्णवेन ज्यायसा कनीयसो प्रणन्तव्यत्वाद्

इति । वैष्णवं दृष्वेत्य्-आदिभिः प्रणाम-विषये देश-काल-निरीक्षणान् आवश्यकत्व-प्रतिपादनात् ॥

भरद्वाजेनापि –

आचार्यवद्-दैवतवन्-मातृवत्-पितृवत् स्वयम् ।
सुहृद्वत् स्वामिवत् सन्तो द्रष्टव्या राजावत् तथा ॥

इति ।

तेषाम् आचार्यवद्-द्रष्टव्यत्वम् अभिधाय

श्रुत्वैव सहसोत्थानं, प्रत्युत्थानं सुदूरातः ।
दर्शनानुभव-प्रीतिः प्रणिपातो निवेदनम् ॥

इति ।

भागवतानुवर्तन-प्रकार-सकृत्-प्रणामादिः प्रदर्शितः ॥

[[P162]]

कनीयान् अपि वैष्णवः वन्द्यः इत्य् अत्र ऐतिह्य-दर्शनम् [[??]]

निर्णय-सिन्धौ –

ज्यायान् अपि कनीयांसं सन्ध्यायाम् अभिवादयेत् ।
विना शिष्यं तु पुत्रं च दौहित्रं दुहितुः पतिम् ॥

इत्य्-आदिकम् अपि साधारणाधिकारि-विषयम् ॥

यामुनाचार्य-सूनु-कृष्ण-सूरिभिः ।

பொற்றாமரைக்கயம் நீராடப்போனாளிகி, நீராடப்போதுவீர் போதுமினோ

इत्य्-आदि-श्री-सूक्ति-रीत्या शिष्य-भूताः पुत्र-भूता अपि भगवत्-सम्बन्धे सति गौरव्या इत्य् अनुगृहीतम् । न च गौरव्य-शब्देन प्रणाम-योग्यत्वं न प्रतीतिम् इति वाच्यम् । तथा वचनाच् छिष्टाचारच् च ॥

लैङ्गे –

यः पश्यति शुभाचारं वैष्णवं वीत-कल्मषम् ।
यस्मिन् कस्मिन् कुले जातं प्रणमेद् दण्डवद् भुवि ॥

इति ।

वैदिक-सार्वभौमाः श्री-भगवद्-भाष्य-काराः स्व-शिष्य-भूत-महानुभाव-स्वामि-श्री-पाद-तीर्थम् अड्गीचक्रुर् इति । श्री-वत्स-चिह्न-भार्या गोदाभिघाना ज्ञानाधिका स्व-पुत्र-भूत–श्री-भट्टारक-गुरुवर्य–श्री-पाद-तीर्थम् अगृह्णाद् इति च एतिह्यस्य सु-प्रसिद्धत्वेन ज्ञानाधिक-शिष्य-पुत्रादीनां प्रणाम-योग्यत्वस्य कैमुतिक-न्याय-सिद्धत्वात् । भगवद्-उत्सव–भक्तोत्सवादौ तद्-उचित-कैङ्कर्य-करणानन्तरम्, सन्ध्या-वन्दनाद्-आज्ञा-कैङ्कर्यम् अनुष्ठेयम् । प्रत्यवायो न विद्यते ॥

वाराहे –

रथ्यां गते च देवेशे आस्थाने वास्थिते सति ।
मध्ये सन्ध्याम् अनुप्राप्तां दृष्ट्वा वेदान्त-मोहिताः ।
सन्ध्योपास्तिं प्रकुर्वन्ति विप्रा विष्णु-पराङ्-मुखाः ।
श्वान-योनि-शतं प्राप्य चाण्डालीं योनिम् आप्नुयुः ॥

इति ।

तत्रैव –

यस्मिन् काले विशालाक्षि यस्य यत् कर्म चोच्यते । तत्-काले कर्म तत् त्यक्त्वा माम् उपास्ते नरो यदि ।
न दोषस् तत्र देवेशि भवत्य् एव न संशयः ॥

इति ।

[[P163]]

यात्रार्थं देवे बहिर् गते - सन्ध्या-प्राप्तौ मण्डप-गमनानन्तरं अ-काले ऽपि सन्ध्या-वन्दनं कार्यं मध्ये न कार्यं इत्य् अत्र प्रमाण-दर्शनम् [[??]]

भगवच्-छास्त्रे –

यात्रार्थं प्रस्थिते विष्णौ मण्डपं चाप्य् अनाश्रिते ।
सन्ध्यादिकं न कुर्वीत कुर्वन् नरकम् अश्नुते ।
मत्-कर्म कुर्वतां पुंसां कर्म-लोपो भवेद् यदि ॥
तत्-कर्म ते प्रकुर्वन्ति तिस्रः कोट्यो महर्षयः ॥

इति ।

वैखानसे मरीचि-प्रोक्तायां आनन्द-संहितायां विखनसं प्रति भगवान् –

कृत-मल्-लाञ्छनानां च गर्भ-वैष्णव-जन्मनाम् ।
मत्-कर्म-करणात् तेषां कर्म-लोपो भवेद् यदि ॥
तिस्रः कोट्यो मुनि-श्रेष्ठाः कर्म कुर्वन्तु तत् सदा ।

इत्य्-आदि-वचनैः भगवद्-उत्सवादौ पराशरे –

भक्तोत्सवं तथा रात्रौ कुर्वीत सु-शुभाह्वयम् ।
अन्ते चावभृथं कृत्वा दक्षिणाभिः प्रपूजयेत् ॥

इति

तथा शब्देन भगवद्-उत्सव-धर्मातिदेशस्य कृतत्वेन भक्तोत्सवे च सन्ध्या-वन्दनादि-करण-निषेधेन –

महत्-सन्दर्शने प्राप्ते समस्त-नियमैर् अलम् ।
ताल-वृन्तेन किं कार्यं लब्धे मलय-मारुते ॥

इत्य्-आदिना च उत्सवाद्य्-अन्तरिक्त-कर्मणाम् अ-कर्तव्यत्व-बोधने ऽपि –

यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अ-तन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥

इति गीताचार्योक्त-रीत्या लोक-क्षोभ-परिहारार्थं अन्तरित-सन्ध्या-वन्दनादि-रूप-कैङ्कर्यस्य अ-काले ऽपि प्रामाणिकैः प्रपन्नैर् अनुष्ठीयमानत्वात् ॥

अतः प्रपन्नानां सन्ध्यादौ जपारम्भात् पूर्वं भागवत-प्रणामानुष्ठानम् उपपन्नम् ॥

इति श्री-सद्-अनुष्ठान-दर्पणे सन्ध्यादौ जपारम्भात् पूर्वं प्रणाम-विषयो नाम सप्तम-प्रतिफलनम् ॥

इति प्रथमो भागः समाप्तः ॥