॥ श्रीः ॥
॥ श्रियै नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमद्-वर-वर-मुनये नमः ॥
॥ श्री-शुद्ध-सत्त्व-महा-गुरवे नमः ॥
श्री-शुद्ध-सत्त्व-वरदाचार्य-स्वामिभिः अनुगृहीते, सद्-अनुष्ठान-दर्पणे ‘स-पाद ऊर्ध्व-पुण्ड्र-धारण-विषयो’ नाम
॥ षष्ठ-प्रतिफलनम् ॥
(स-पादोर्ध्व-पुण्ड्र-धारण-विषयः)
वैदिकोपनिषत्सु प्रतिपादित-ऊर्ध्व-पुण्ड्राकारः
प्रपन्नैः स-श्री-चूर्णं स-किञ्चित् फुल्लाम्बुज-मुकुलाकार-पादं हरि-पाद-द्वयाकार-पुण्ड्रम् एव धार्यम्, वचनात् शिष्टाचाराच् च । तथा हि ‘ऊर्ध्व-पुण्ड्र-विजये’ आथर्वण-महोपनिषदि –
हरेः पादाकृतिम् आत्मनो हिताय मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं यो धारयति स परस्य प्रियो भवतीत्य्-आदिकम् ।
वाजसनेयके शत-पथ-ब्राह्मणे
अथ कात्यायनेति होवाच । आदित्यः पुरुषः स आदित्यः कस्मिन् प्रतिष्ठितम्, चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति प्रजया पशुभिः यस्मिन् लोके ऽमृतत्वम् एति पापः पापं हरति सुदर्शनं धार्यम् इत्य् ऊर्ध्व-पुण्ड्रं द्वि-रेखं भवति ब्रह्मणः सायुज्यं सलोकतां जयति य एवं वेदेति ।
वराहोपनिषदि
मृत्-पादाकृतीँश् चोर्ध्व-पुण्ड्रान् नासादय स्मृता
इति । यज्ञोपवीतोपनिषदि
नासादि-केश-पर्यन्तम् ऊर्ध्व-पुण्ड्रं धारयेद्
इति । नारदीयोपनिषदि च
अथ प्रणिपत्य, नारदो ब्रह्माणम् अन्वयुङ्क्त ।
इत्य्-आरभ्य
देव-पितृ-कर्माणि आरभमाणः तथा (श्वेत-मृदा) नित्यम् ऊर्ध्व-पुण्ड्रं बिभृयात् तद्-रहितं कर्म विफलं रक्षांसि गृह्णीयुर्
इत्य् एतद्-अन्-अन्तरं तदेवम् अभ्युक्तं भवति -
[[P129]]
नासादि-केशान्तम् ऊर्ध्व-पुण्ड्र-धारणे प्रमाणम्
नासादि-केशान्तम् ऊर्ध्व-पुण्ड्रम् विष्णोः स्थितस्य चरण-द्वयाकृतिम् एकाङ्गुल-पाद तरोस् तु मूले ।
तद्-उत्पन्ने च द्वे शाखे, तथैव मध्यावकाशः अङ्गुलाद् अन्यूनः स-श्रीः प्रतिष्ठायै श्रीः हरिद्रेत्य्-आदि ।
इत्थं श्रुतिः सच्-चरित्र-परित्राणे व्याख्याता — एकाङ्गुल-पादम् इति द्वितीयैकवचनस्य छान्दसो लुक् । इदं च ऊर्ध्व-पुण्ड्र-विशेषणम् । अत्र बिभृयाद् इत्य् अनुषज्यते । विष्णोः स्थितस्य, चरण-द्वयाकृतिं च तद्-विशेषणम् — इदं च आथर्वणे “हरेः पादाकृतिम्” इति सामान्येनोक्तस्य स्थित्या द्वित्वेन च विशेषणाद् विशेष-समर्पण-परम्, एकाङ्गुलः पादः यस्येति बहु-व्रीहिः । अनेन च अथर्वणानुक्तः पादो विधीयते । अत्र एकाङ्गुल-शब्दम् –
नासादेर् लक्षणम् [[??]]
पाद्म-संहिता क्रिया-पादे द्वादशाध्याये
शालिभिर् वा ऋजु-न्यस्तैः त्रिभिर् मानान्तरं भवेत् ।
वातायन-पथं प्राप्य ये भान्ति रवि-रश्मयः ।
तेषु सूक्ष्मं विस्फुरन्ति रेणवः परमाणवः ।
ते ऽष्टौ केशा ह्य् अधस् ते ऽष्टौ लीक्षा-यूकस् तद्-अष्टकम् ।
तद्-अष्टकं यवास् ते ऽष्टौ अङ्गुलिस् समुदाहृता
इति । पाठादि-प्रमाण-कल्पकतयोक्तस्य ऋजुतया न्यस्त-शालि-त्रय-प्रमाणस्य वा, तिर्यक्-न्यस्त अष्ट-यव-प्रमाणस्य वा, अङ्गुल-संज्ञकस्य वाचकम्, नासादौ द्व्य्-अङ्गुलं पादम् इत्य्-उपबृंहणानुरोधात् । तत्-तद्-वचन-स्थाङ्गुल-शब्दस्य यथा-सम्भवं शिल्प-शास्त्रोक्त-प्रकारेण श्रुत्य्-आद्य्-अनुसारेण, मुष्ट्य्-अङ्गुल-परिमितत्वादिकं कल्पनीयम् । एवं स-पादोर्ध्व-पुण्ड्रे दृष्टान्तम् आह, तरोर् इत्य्-आदिना, तद् इति पृथक् पदं पुण्ड्र-परम् । यथा शब्दो ऽध्याहर्तव्यः ॥ तथैवेत्य् उक्तेः । तरोर् इति पञ्चमी, अयम् अर्थः – मूले तरोर् उत्पन्ने, मूलावच्छेदेन वृक्षाद् उत्पन्ने द्वे शाखे यथा तथा तत्-पाद-सहितं मध्ये छिद्र-सहितं स्थितस्य विष्णोश् चरण-युगाकारम् ऊर्ध्व-पुण्ड्रं भवतीति । एवं स-पादोर्ध्व-पुण्ड्रं श्रुति-विहितम् इति सिध्यति । बृहद्-भारद्वाज-स्मृतौ पञ्चमे ऽध्याये
ललाटे धारयेत् पुण्डं हरि-पाद-द्वयाकृतिम् इति ।
[[P130]]
सान्तरालम् एव ऊर्ध्व-पुण्ड्र-धारणम् [[??]]
वराह-पुराणे
एकान्तिनो महा-भागा मत्–स्व-रूप–विदो ऽमलाः ।
सान्तरालान् प्रकुर्वीरन् पुण्ड्रान् मम पदाकृतीन्
इति ।
कुक्ष्यादि-त्रि-कान्तेषु मध्य-स्थ–पद्माकार-पीठ-सहित-चतुर्-अश्र-पीठ-कल्पने प्रमाणम् [[??]]
ललाटे पद्माकार-पाद-सहितोर्ध्व-पुण्ड्र-धारणे प्रमाणम् — पाद्म-संहितायां क्रिया-पादे दशमाध्याये
मध्ये कर्णिकया युक्तं किञ्चित्-फुल्लाम्बुजाकृति
इति । व्यास-स्मृत्य्-उत्तर-खण्डे चतुर्थाध्याये
अम्भो-ज–मुकुलाकारं पादं द्व्य्-अङ्गुल-सम्मितम् ।
नासिकादि-भ्रुवोर् मध्य-पर्यन्तं परिकल्पयेत् ॥
भ्रू-मध्यात् केश-पर्यन्तम् अन्तरालं प्रकल्पयेत् ।
पार्श्वौ अङ्गुलि-मात्रौ तु अ-वक्रौ सु-मनोहरौ ॥
हरि-पाद-द्वयाकारं पुण्ड्रम् एव तु धारयेत्
इति ।
मरीचि-स्मृतौ
चतुर्-अङ्गुलम् ऊर्धाग्रं द्व्य्-अङ्गुलं विस्तृतं सदा ।
द्वि-जः पुण्ड्रं स-पादं च सान्तरालं च धारयेत् ॥
इति ।
कुक्ष्य्-आदि-त्रिकान्ताङ्गेषु चतुर्-अश्र-पीठ–मध्य-स्थ–पद्माकार-पाद-सहितोर्ध्व-पुण्ड्र-धारणे प्रमाणम् । व्यास-स्मृत्य्-उत्तर-खण्डे चतुर्थाध्याये –
तथा कुक्ष्य्-आदिकाङ्गेषु पादं तु चतुर्-अश्रकम्
इति । अस्यार्थः – तथा अम्भो-ज–मुकुलाकारं, चतुर्-अश्रकं, चतुर्-अश्र-पीठ-युक्तम् । चतुर्-अश्र-पीठ–मध्य-स्थम् इति भावः ॥
कुण्डली-कृत-सर्प-स्थ इत्य् अत्रापि पाद-रहित-पुण्ड्रस्य अन्-अवकाशत्व-निरूपणम्
ननु कुण्डली-कृत–सर्प-स्थ–हरि-पादाकृतिं न्यसेद् इत्य् उक्तत्वेन पाद-विहीन-पुण्ड्रम् एव धार्यम् इति चेन् न, श्रूयताम् अवधानेन । कुण्डली-कृत–सर्प-स्थ–हरि-पादाकृतिम् इत्य् अत्र कुण्डली-कृत–सर्प-स्थेति हरि-पाद-विशेषणम् । श्रुत्य्-आदि-विहित-पाद-दृष्टान्तार्थतया स्व-रसम् । कुण्डली-कृत-सर्पो हि, सर्प-शिरसि स्थित-भगवत्-पादस्य आसन-स्थानीयः तेन हरि-पाद-दृष्टान्तितस्य पुण्ड्रस्य पादे दृष्टान्तो भवति । अतः तत्रापि निष्पाद-पुण्ड्रानवकाशः ॥
तथा प्रमाणानि, बृहद्-भरद्वाज-धर्म-शास्त्रे पञ्चमाध्याये –
भ्रू-मध्याद् अन्तरालं स्यात् द्व्य्-अङ्गुलं, त्र्य्-अङ्गुलं तु वा ।
नासिकादि-भ्रुवोर् मध्य-पर्यन्तं द्व्य्-अङ्गुलं पदम् ॥
[[P131]]
श्री-वैखानसे भृगु-प्रोक्तायां संहितायां पञ्च-विंशे ऽध्याये –
नासिका-मूलम् आरभ्य कूर्चान्तं पादम् आलिखेत् ।
तद् अस्य प्रियम् इत्य् उक्त्वा पादस्योर्ध्वं समालिखेत्
इति ।
“कूर्चम् अ-स्त्री भ्रुवोर् मध्यम्” इत्य् अमरः ॥
पारमेश्वर-संहितायां –
नासादौ द्व्य्-अङ्गुलं पादं मध्ये तु द्व्य्-अङ्गुलं भवेत् ।
पार्श्वम् अङ्गुलि-मात्रं तु सु-स्फुटं धारयेद् द्वि-जः ॥
इति ॥
मुक्ति-योग्याः के पङ्क्ति-योग्याः के, इत्य् अत्र प्रमाणम्
खगेश्वर-संहितायां –
के मुक्ति-योग्यास् तद्-भक्त-पर्याये पङ्क्ति-पावनाः ।
ब्रूहि मे भगवन् येन कुलोद्धारो भविष्यति ॥
नारदः –
शृणुष्व नृपति-श्रेष्ठ त्वम् एव सु-कृती भुवि ।
वक्ष्यामि स-रहस्यं तु श्रवणात् कुल-पावनम् ॥
ये तप्त-शङ्ख-चक्राङ्गा विष्णु-पादैक-संश्रयाः ।
सदा विष्णु-कथोत्साहाः विष्णु-धर्म-परायणाः ॥
स-पीठ-पुण्ड्र-सहिता लक्ष्मी-चिह्न-समन्विताः ।
द्वादशाक्षर-तत्त्व-ज्ञाः सदाष्टाक्षर-सेवकाः ॥
प्रपत्ति-द्वय-संयुक्तास् तद्-अर्थे त्यक्त-जीविताः ।
द्वादशोर्ध्व-स्थले पाद-पुण्ड्राङ्गास् सर्वदैव हि ॥
ते मुक्ति-योग्यास् तुलसी-मणि-मालाक्ष-धारिणः ।
तद्-गोष्ठी-निरता ये तु तद्-भक्ताः पङ्क्ति-पावनाः ॥
गृह-भाण्ड-पदार्थांश् च शङ्ख-चक्रादि-चिह्नितान् ।
स-पाद-पुण्ड्र-सहितान् ये कुर्वन्ति विचक्षणाः ।
परमैकान्तिनस् ते हि नारायण-समा मताः ॥
इति ।
ब्रह्माण्डे सनत्-कुमारः –
स-मूल-पुण्ड्र-सहितास् तप्त-चक्रादि-चिह्निताः ।
सदा पावन-देहास् ते तेषां दत्तम् अनन्तकम् ॥
इति ॥
ऊर्ध्व-पुण्ड्र-धारणे (मन्त्र-विशेषाः तद्-अस्य प्रियम् इत्य्-आदयः) [[??]]
पाद्म-संहितायाम् —
नासिकायास् त्व् अधो भागो नासा-मूलं प्रचक्षते ।
नासिका-मूलम् आरभ्य ललाटान्तं प्रकल्पयेत् ।
इति अत्र शब्द-वैरूप्यं आर्षत्व-छान्दसाभ्याम् इति मन्तव्यम् ॥
[[P132]]
वैखानस-भृगु-प्रोक्त-संहितायां क्रियाधिकारे ऊर्ध्व-पुण्ड्र-विधायके पञ्च-विंशे ऽध्याये –
नासिका-मूलम् आरभ्य कूर्चान्तं पादम् आलिखेत् ।
तद् अस्य प्रियम् इत्य् उक्त्वा पादस्योर्ध्वं समालिखेत्[[??]] ॥
विष्णोर् नुकम् इति स्मृत्वा धारयेत् श्वेत-मृत्तिकाम् ।
रेखाम् अङ्गुलि-विस्तीर्णो[[??]] चतुर्-अङ्गुलम् आयताम् ॥
प्रतद् विष्णुस् तवेत्य् उक्त्वा ललाटे दक्षिणे लिखेत् ।
परो मात्रेति मन्त्रेण ललाटे वामके लिखेत् ॥
नासिका-मूलम् आरभ्य केशान्तं धर्षयेद् बुधः[[??]] ।
विग्रहे गोपुरे चापि मण्टपे मङ्गले तथा ॥
श्री-वैष्णवानां गृहे वाहने भाण्डादिषु च ऊर्ध्व-पुण्ड्रादि-लेखने प्रमाणम् [[??]]
मठे गृहे तथा वाजे रथे याने तथैव च ।
एवम् एव प्रकारेण चिह्नं कृत्वा स-लक्षणम् ॥
पादुके मे तथा चैव चिह्नम् एवं समालिखेत् ।
स्त्रीणां चापि तथा चैव श्री-चूर्णं श्वेत-मृत्तिकाम् ॥
कूर्च-मध्ये तथा लिख्य चन्द्रमोर्धवदालिखेत्[[??]] ।
इति ।
वाजः अन्नं वाजो निस्वन-पक्षयोः ॥
वेगे पुमान् अथ क्लीबे घृत-ज्ञान्न-वारिषु[[??]] ।
इति मेदिनी-निघण्टुः । ‘अन्नं वै वाजः’ इति श्रुतिः ॥
वैखानसे अत्रि-प्रोक्ते खिलाधिकारे चतुश्-शताधिक-द्वादशाध्याये ‘विष्णोर् नुकम्’ इति नासिका-मूलम् आरभ्य कूर्चान्तं पादं कृत्वा ‘तद् अस्य प्रियम्’ इति तिर्यग्-रेखास् त्रिर्-अङ्गुलम् । ‘प्रतद् विष्णुर्’ इति दक्षिण-भागे ललाटे, ‘परो मात्रे’ति मन्त्रेण ललाटे वामके लिखेत् ॥ केशान्तम् अनामिकया मृत्तिकां धारयेत् । इति । मध्ये, अन्ते, इत्य् आह भगवान् वैखानसो ऽत्रिर् इति ॥
उभयोः पार्श्वयोः पृथक् पृथक् मन्त्र-विनियोगात् चरण-द्वयम् एव, इति निर्णयः
अत्र तु पृथक् पृथक् मन्त्र-विनियोग-पूर्वकम् उभयोः पार्श्वयोः पुण्ड्रावयव-विन्यास-विधान-स्वारत्येन[[??]] तस्य पद-द्वय-समाकारत्वम् एव सूचितम् । न चैवं पाद-द्वय-समानाकारत्व-लाभे ऽपि स-पीठ-पाद-द्वय-समानाकारत्वालाभ इति वाच्यम्, उक्त-रीत्या स्थितस्य विष्णोर् इत्य् अत्र स्थित-शब्दस्य पद्म-पीठ-स्थिति-विशिष्टार्थकत्वस्य पाद्म-संहिता-वचन-विशेष-प्रत्यभिज्ञापन-मुखेन लाभ-सम्भवेन,
कुण्डली-कृत–सर्प-स्थ–हरि-पाद-द्वयाकृतिम् ।
ऊर्ध्व-पुण्ड्रं लिखेत् प्राज्ञस् स-पीठं सान्तरालकम् ॥
इत्य् उपबृंहण-सहकारेण, शेषात्मक-पाद-पीठ-स्थिति-विशिष्टार्थकत्वस्य लाभ-सम्भवेन वा तल्-लाभ-सम्भवात् ।
सम्भवति विशेषणतया निवेशे उपलक्षणतया निवेशस्य अन्याय्यत्वात्, उपलक्षणतया निवेशे कुण्डलीं भूत
इत्य्-आदि-विशेषणस्य वैय्यर्थ्यापाताच् च । तस्मात् पाद-पीठ-मूलादि-शब्दैः स-पीठत्व-विधायक-बहु-प्रमाणानुसारेण तस्य विशेषणत्वम् एव अङ्गीकरणीयम् ॥
[[P133]]
बृहन्-नारदीये –
यो गर्भ-वैष्णवो नित्यं चरेत् पुण्ड्रं स-पीठकम् ।
कुल-कोटिं समुत्तीर्य सुरेशो भवति ध्रुवम् ॥
इति ॥
स्कान्दे कुमारं प्रति शिव-वचनम् –
ऊर्ध्व-पुण्ड्रं सदा धार्यम् ऊर्ध्व-लोकं गमिष्यता[[??]] ।
मध्ये छिद्र-समायुक्तं स-पीठं च श्रिया युतम् ॥
वैष्णवस् तु विशेषेण नमो ऽन्तैः[[??]] केशवादिभिः ।
इति ॥
अत्रिः –
स-पादम् ऊर्ध्व-पुण्ड्रं तु द्वि-षट्-स्थानेषु विन्यसेत् ।
पद्माक्ष-तुलसी-दाम धारयित्वा गले सदा ॥
स एव वल्लभो विष्णोस् तस्य लक्ष्मीः प्रसीदति ।
इति ॥
कश्यपः –
यो ऽर्चको[[??]] मे स-पीठं तु द्वि-षट्-पुण्ड्रं सदा शुभम् ।
धृत्वा च तुलसी-दाम सदा मत्-प्राण-वल्लभः ॥
इति ।
वराहोपनिषदि –
केशवादि-द्वादशैर् नामभिर् ऊर्ध्व-पुण्ड्राणि धारयेत्
इति ।
नारदीय-श्वेत-मृत्तिकोपनिषदि –
तया नित्यं ऊर्ध्व-पुण्ड्राणि बिभृयात्[[??]] मन्त्रैः केशवादीनाम् ।
इति ॥
अत्रिः –
कालो ऽपि बिभ्यति परं दृष्ट्वा वै गर्भ-वैष्णवम् ।
स-पीठ-पुण्ड्रिणं श्रेष्ठं तुलसी-मणि-भूषणम् ।
इति । तथा च स-पादोर्ध्व-पुण्ड्रम् एव श्रुति-स्मृतीतिहास-पुराण-पाञ्चरात्र-वैखानस-वचन-सदाचार-सिद्धम् ॥
ननु ईदृश-पुण्ड्रं शूल-समाकारत्वेन निषिद्धम्, पराशरे –
ऊर्ध्व-पुण्ड्रं त्रि-शूलं च वर्तुलं चतुर्-अश्रकम् ।
अर्ध-चन्द्राकृतिं लिङ्गं वेद-निष्ठो न धारयेत् ॥
इति ।
स्कान्दे –
शूल-पुण्ड्रं द्वि-जः कुर्याल् लीलयापि कदाचन ।
तद्-आकारेण शस्त्रेण पीड्यते यम-किङ्करैः ॥
इत्य् उक्तत्वाद् इति चेन् न ॥
[[P134]]
त्रि-शूल-ऊर्ध्व-पुण्ड्र-निरासः [[??]]
शूलस्य त्रि-शिरवत्वेन तत्-समानाकारतया प्रान्त-निशित-त्रि-रेखक-पुण्ड्र-कल्पनस्यैव निषिद्धत्वेन द्वि-रेखस्य मूलाग्र-सम-परिमाणस्य अस्य पुण्ड्रस्य त्रि-शूल-समाकारत्व-गन्धाप्रसङ्गात् । न च शास्त्रैः त्रि-शूलाकारोर्ध्व-पुण्ड्र-मात्रं निषिध्यते –
पाद-रहित ऊर्ध्व-पुण्ड्र-निरासः
अपि तु पाद-रहित-पुण्ड्रस्यापि निषिद्धत्वम् उच्यते । तथा हि –
भरद्वाज-संहितायाम् –
वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ।
अ-शुद्धं रूक्षम् आसक्तं तथानङ्गुलि-कल्पितम् ॥
विगन्धम् अपसव्यं च पुण्ड्रम् आहुर् अन्-अर्थकम् ।
इति ।
अत्र पद-च्युतम् इति निष्पादोर्ध्व-पुण्ड्रस्य आनर्थक्यम् उच्यते ॥
पदं व्यवसित-त्राण-स्थान-लक्ष्म्य्-अङ्घ्रि-युक्तिषु[[??]]
। इत्य् अभिधानात् ।
पद-शब्दस्य पाद-परत्वम् [[??]]
पद-शब्दः पाद-परः । च्युत-शब्दस् त्यक्तार्थकः – च्युतं त्यक्तं पदं यस्य इति विग्रहे बहु-व्रीहौ “वाहिताग्न्यादिष्व्” इति सूत्रेण च्युत-शब्दस्य पर-प्रयोगः । तथा च अ-क्षर-च्युतक–मात्रा-च्युतक–बिन्दु-च्युतकवत् पद-शब्दो व्युत्पाद्यः । त्यक्त-पाद-पुण्ड्रम् अन्-अर्थकं आहुर् इत्य् अर्थः । अयं च “एकाङ्गुल-पाद-तरोस् तु मूलम्” इति श्वेत-मृत्तिकोपनिषदादि-सिद्धस्य त्यागे पुण्ड्रानर्थक्य-विधिः पादस्यावश्यकत्व-बोधनार्थः । न च पदात् स्थानात् च्युतं इत्य् अर्थान्तरं शङ्क्यम् । च्युत-शब्देन पञ्चमी-समास-विधानाभावात् पद-च्युतम् इत्य् अनेन अ-स्थान-कृतत्व-रूपार्थालाभात् । गलिताकर्तकत्वे कृत्स्नस्य[[??]] पुण्ड्रस्य गलितत्वासम्भवेन स्रुत-द्रव्यके[[??]] लक्षणा-प्रसक्तेः । अतः पद-शब्दस्य पादे प्रसिद्ध्य्-अनुरोधात् प्रत्यक्ष-सूत्र-विहित-बहु-व्रीह्य्-अनुरोधात् । अ-क्षर-च्युतकादि-शब्द-सारूप्यानुरोधात् लक्षणा-विरहानुरोधात् श्रुत्यादौ पाद-विधानानुरोधाच् च पद-च्युतम् इति पाद-रहितं पुण्ड्रम् अनूद्य अन्-अर्थकम् इति, तस्य अन्-अर्थकत्वं विधीयत इति युक्तम् ।
[[P135]]
तथैव श्री-पाद्मे पुराणे उत्तर-खण्डे उमा-महेश्वर-संवादे ऊर्ध्व-पुण्ड्र-विधि-कथन-नामके एक-त्रिंशे ऽध्याये
वर्तुलं तिर्यग्-अच्छिद्रं ह्रस्वं दीर्घतरं तनु ।
वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ।
अ-शुभ्रं रूक्षम् आसक्तं तथानङ्गुलि-कल्पितम् ॥
विगन्धम् अपसख्यानं पुण्ड्रम् आहुर् अनर्थकम् ।
इति ॥
स्मृत्य्-अन्तरे –
सङ्कीर्णं पाद-रहितं श्रियाश्लिष्टं निराकृति ।
ये कुर्वन्ति दुरात्मानः ते यान्ति नरकार्णवम् ॥
इति ।
संहितायाम् –
अष्टाक्षरा-जपी चैव ह्य् अ-पवित्रो मद्-अर्चकः ।
पाद-हीनोर्ध्व-पुण्ड्रश् च रौरवं नरकं व्रजेत् ॥
इति ।
काश्यपः –
पाद-हीनोर्ध्व-पुण्ड्राणां धारणाच् च विशेषतः ।
पुण्ड्रान्तराले भस्मादि-धारणात् पतितो भवेत् ॥
इति ।
वैखानसे –
मत्-पादाकृति-पुण्ड्राणि विना पीठाकृतानि चेत् ।
नाहं तस्य प्रसन्नः स्यां,ध्रुवं ज्येष्ठा प्रसीदति ॥
इत्य्-आदि ।
दीप-शिखाकार ऊर्ध्व-पुण्ड्र-निरासः [[??]]
किं च प्रपन्नैः दीप-शिखाकार-सूक्ष्माग्र ऊर्ध्व-पुण्ड्रम् अपि न धार्यम् एव । श्रीमन्-निगमान्त-गुरुभिः सच्-चरित्र-रक्षायां ऊर्ध्व-पुण्ड्र-धारण-विधौ
ननु भगवद्-अर्चावतारेषु दीप-शिखाकारोर्ध्व-पुण्ड्रस्य दर्शनात् ‘यच्-छील-स्वामी’ति न्यायेन भागवतैर् अपि तथैवानुष्ठानम् इति चेन् न । वचन-विरोधे न्यायस्थ अनवतारात् । अन्यथा भगवद्-अनुष्ठित-गोप-कन्योन्मादन–स्व-कुल-विनाशन–बुद्ध-समय-प्रवर्तनादेर् अपि प्रसङ्गात् । अतो न स्वामि-कृतं सर्वं भृत्येनाप्य् आचरणीयम् । लोके चैतद् एव द्रष्टव्यम् । न च दीप-शिखाकारम् एव अर्चावतारेषु ऊर्ध्व-पुण्ड्रं कुर्वीत इति विधिः अस्ति । येन संस्थानान्तराणि परित्यजेरन् । यदा तु वचनं दृष्टं तदापि तन्-मात्र-विषयं इति नास्माभिर् अनुष्ठेयम्
इति दीप-शिखाकारोर्ध्व-पुण्ड्र-धारणस्य निषिद्धत्व-प्रतिपादनात् ।
[[P136]]
प्रपन्नैः द्वादशोर्ध्वपुण्ड्राण्य् एव धार्याणि, न तु त्रयोदशोर्ध्व-पुण्ड्राणि ।
वासिष्ठ-संहितायां प्रथमे ऽध्याये –
मुख्यं द्वादश-पुण्ड्राणां धारणं मुनि-सत्तमाः ।
अष्ट-षट्क-चतुः-पुण्ड्र-धारणं गोणम् एव हि ।
तस्मात् द्वादश-पुण्ड्राणि विप्रैर् धार्याणि नित्यशः ॥
इति ।
सच्-चरित्र-रक्षायां ब्रह्म-रात्रे पुण्ड्र-सङ्ख्या-विचार-प्रकरणे –
मोक्षार्थी च विशेषेण द्वादशाक्षर-विद्यया ।
द्वादशैतानि पुण्ड्राणि कुर्याद् द्वादश-नामभिः ॥
इति ।
श्री-नारदीये चतुस्-सप्ततितमे ऽध्याये –
स्थानानि द्वादशाष्टौ वेत्य् आहुः केचिन् मनीषिणः ।
द्वादशेति च यः पक्षः तस्मिन् शिरसि वर्जयेत्
इति । तत्रैव तथा ऽयन्त्र –
वाम-हस्ते शुचिष्व् अप्सु निघृष्य मृदम् उत्तमाम् ।
प्रदक्षिणं समुत्थाप्य मूल-मन्त्रेण योजयेत् ॥
ऊर्ध्व-पुण्ड्राणि कुर्वीत केशवाद्यैर् यथा क्रमम् ।
ऋजूनि स्थूल-पार्श्वानि स्वान-व्यापीन्य् अ-तन्द्रितः ॥
नासिका-मूलम् आरभ्य ललाटे प्रथमं न्यसेत् ।
द्वितीयम् उदरे नाभेर् ऊर्ध्वं हृदि ततः परम् ॥
वक्षो-ऽन्ते तत्-परं पश्चात् कुक्षौ दक्षिण-पार्श्वके ।
भुजे पृष्ठं ततः स्कन्धे तथा सव्ये त्रयं भवेत् ।
एकादशं द्वादशं च पृष्ठे ऽधस् तत् तथोपरि ॥
इति ।
तत्रैव पारमेष्ठ्य-संहितायाम् –
धृतोर्ध्व-पुण्ड्रो विधिवन् न्यस्य नामानि द्वादश ।
नमो-ऽन्तान्य् अञ्जलिं कृत्वा कुर्यान् नामान्य् उक्त्वा यथाक्रमम् ॥
इति ।
[[P137]]
तत्रैव ब्रह्म-रात्रे –
ललाटे कण्ठ-देशे तु स्कन्धयोश् च त्रिके तथा ।
चतुर्-अङ्गुल-मानानि पञ्च पुण्ड्राणि धारयेत् ॥
हृदये चोदरे चैव पार्श्वयोः पृष्ठ एव च ।
बाह्वोर् मध्ये च सप्त स्युः पुण्ड्राण्य् अष्टाङ्गुलानि वै ॥
व्यूहं तु विद्यात् प्रथमं चतुर्-अङ्गुल-सम्मितम् ।
अष्टाङ्गुलं द्वितीयं तु द्वि-विधं व्यूह-संज्ञितम् ॥
एवं यः कुरुते नित्यं मत्-सायुज्यम् अवाप्नुयात्
इति ।
तस्मिन्न् एवाध्याये –
द्व्य्-अङ्गुलं विस्तृतं रम्यं चतुर्-अङ्गुलम् आयतम् ।
प्रथमं व्यूहम् एव स्यात् पञ्च-पुण्ड्रस्य लक्षणम् ॥
इत्य् ऊर्ध्व-पुण्ड्रं यः कुर्यान् न मृत्योर् वशम् आप्नुयात् ।
केशवादि-नमो ऽन्तं वै जप्त्वा द्वादश-नामभिः ।
ताः स्मृत्वा देव-देवेशम् ऊर्ध्व-पुण्ड्रं समाचरेत् ॥
इत्य्-आदि-वचनैर् ऊर्ध्व-पुण्ड्राणां स्थान-मध्यान्तरालोच्छ्राय-सङ्ख्या-देवता-ध्यानानां प्रदर्शितत्वेन श्रीमन्-निगमान्त-गुरूणाम् अपि द्वादशोर्ध्व-पुण्ड्र-धारण एव मुख्य-तात्पर्यात् । तैः त्याज्यं विप्रैः त्रि-पुण्ड्रादिकम् इति कथितम् इतिवत् विशिष्य द्वादशोर्ध्व-पुण्ड्र-धारण-निषेधानुक्तेः ॥
मोक्षं देहि शिरसि इति क्षालन-तीर्थ-प्रोक्षणम् एव न तु पृथक् पुण्ड्र-धारणम्
ननु वराहोपनिषदि – ‘मोक्षं देहि मे शिरसि’ इत्य् उक्तत्वेन ‘त्रयोदशोर्ध्व-पुण्ड्राण्य् एव धार्याणि’ इति चेन् न । तस्याम् उपनिषदि किं स्थानम् इति प्रश्नः । ‘रेखा-द्वादशके स्थानम्’ इत्य् उत्तरं – केशवादि-द्वादश-नामभिः ऊर्ध्व-पुण्ड्राणि धारयेद् इति द्वादशोर्ध्व-पुण्ड्र-धारणं चोक्तम् ।
तया नित्यम् ऊर्ध्व-पुण्ड्रं विभृयान् मन्त्रैः केशवादीनाम्
इति नारदीय-श्वेत-मृत्तिकोपनिषद्-ऐकार्थ्यं च, किन्तु ‘मोक्षं देहि शिरसि’ इति शिरसि कर-स्थित-श्वेत-मृत्तिका-प्रक्षालन-तोय-प्रोक्षणम् उक्तम् ॥
श्री-पाद-तीर्थ-भगवत्-प्रसादानन्तरं हस्त-क्षालनं आचमनं न कार्यम्
ब्रह्म-रात्रे अन्-अन्त-संहितायां –
श्री-श्वेत-मृन्-निशा-चूर्ण-धारणानन्तरं तथा ।
मत्-तीर्थ-भक्ताङ्घ्रि-तीर्थ-स्वीकारानन्तरं तथा ॥
मम प्रसाद-स्वीकारानन्तरं वैष्णवैर् द्वि-जैः ।
न हस्त-क्षालनं कार्यं तत्र नाचमन-क्रिया
इति, भूमौ श्वेत-मृत्तिका-जल-बिन्दु-पतनस्य दोष-करत्वोक्तेः ॥
[[P138]]
तथैव श्रीमन्-निगमान्त-गुरुभिः सच्-चरित्र-रक्षायां ऊर्ध्व-पुण्ड्र-धारण-विधौ ब्रह्माण्डे –
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । माधवं हृदये चैव गोविन्दं कण्ठ-कूबरे ।
उदरे दक्षिणे पार्श्वे विष्णुं व्याप्तं विचिन्तयेत् ।
तत्-पार्श्वे बाहु-मध्ये तु चिन्तयेन् मधुसूदनम् ॥
त्रि-विक्रमं च तत्-स्कन्धे वाम-पार्श्वे तु वामनम् ।
श्री-धरं बाहुके वामे हृषीकेशं तु स्कन्धके ॥
अपरे पद्म-नाभः स्यात् त्रिके दामोदरं स्मरन् ।
तत्-प्रक्षालन-तोयेन वासुदेवेति मूर्धनि ॥
एवं हि धारयेन् नित्यं मद्-भक्तस् तूर्ध्व-पुण्ड्रकम् ।
धारयित्वा ततो मन्त्रैः केशवाद्यैश् च नामभिः ॥
अङ्गुलीभिः स्पृशेत् पुण्यम् ऊर्ध्व-पुण्ड्र-मनो-हरम्
इति श्रुत्य्-उपबृंहणस्य प्रदर्शितत्वात् त्रयोदश-पुण्ड्रादि-विधायक-वचनं एकान्तित्व-रहित-वैष्णव-मात्र-विषयम् ।
मोक्षार्थी च विशेषेण द्वादशाक्षर-विद्यया ॥
द्वादशैतानि पुण्ड्राणि कुर्यात् द्वादश-नामभिः ।
इति ब्रह्म-रात्रादि-वचनैः प्रपन्नानां द्वादशोर्ध्व-पुण्ड्रस्यैव मुख्यत्व-प्रतिपादनात् एक-पाद-समानाकारोर्ध्व-पुण्ड्रम् एव धार्यम् इति चेन् न सम्भवति, द्वित्व-सङ्ख्या-विशिष्ट-पाद-शब्द-घटितोर्ध्व-पुण्ड्र-वचनानां दर्शने ऽपि ‘एक-पादाकृतिं न्यसेत्’ इति वचनस्य कुत्राप्य् अ-श्रुत-दृष्ट-पूर्वत्वात् ॥
चतुर्-अङ्गुलम् ऊर्ध्वाग्रं द्व्य्-अङ्गुलं विस्तृतं सदा ।
द्वि-जः पुण्ड्रम् ऋजुं सौम्यं सान्तरालं तु कारयेत् ॥
अ-च्छिद्रम् ऊर्ध्व-पुण्ड्रं तु यः करोति विमूढ-धीः ।
स पर्यायेण तान् याति नरकान् एक-विंशतिम् ॥
विमलान्य् ऊर्ध्व-पुण्ड्राणि सान्तरालानि यो नरः ।
करोति विमलं तत्र मन्दिरं मे करोति सः
इति सच्-चरित्र-रक्षोक्त-मरीचि-वचन-प्राप्त-पुण्ड्र-मध्य-छिद्रस्य एक-पादाकारोर्ध्व-पुण्ड्रे ऽपि कार्यत्वेन स्मार्तैक-देशि-धृतैक-पादाकार-चन्दनोर्ध्व-पुण्ड्रवत् कल्पितोर्ध्व-पुण्ड्र-मध्ये श्री-चूर्ण-धारणार्थं भेद-करण-रूप-दोष-प्रसक्तेः ॥
[[P139]]
एक-पादोर्ध्व-पुण्ड्र-निरासः [[??]]
प्रथमं सान्तरालं कल्प्यत इति चेन् मैवं सद्-दर्शन-सुदर्शने –
औचित्य-लिङ्गात् तु हरिं श्रितानां
पादाकृतेर् यन्-नियमं वदन्ति ।
द्वयेन विष्णुं शरणं गतानाम्
औचित्य-भूमाङ्घ्रि-युगाकृतौ स्यात् ॥
अर्थास्वभावाच् छ्ररणादिकानां
द्वित्वं हि पूर्वं समुपस्थितं स्यात् ।
त्वत्-पाद-मूलं शरणं प्रपद्ये
इत्य् अत्र न ह्य् एक-पद-प्रतीतिः ॥
उद्धृत्य सच्-छिद्र-पदं वराहो
यत् सान्तराले इति पदं प्रयुङ्क्ते ।
एकान्तिनां पुण्ड्रम् अतो ऽपि हेतोः
पाद-द्वयाकारम् इति प्रतीतम् ॥
इत्य् उक्त-रीत्या उपपत्य्-अभावात् । श्रुत्य्-आद्य्-उक्त-हरि-पाद-द्वयाकारोर्ध्व-पुण्ड्रस्यैव मध्ये ऽन्तराल-विधानाच् च ॥
कुक्ष्यादि-स्थलेषु मध्य-पद्म-सहित-चतुर्-अश्र-पीठं इति निर्णयः [[??]]
ननु ललाटे स-पद्माकारोर्ध्व-पुण्ड्र-विन्यासवत् कुक्ष्याद्य्-एकादश-स्थानेष्व् अपि स-पद्माकारोर्ध्व-पुण्ड्र-विन्यासः क्रियताम् इति चेत् इष्टापत्तिः । तथैव सर्वत्र शिष्टैः कुक्ष्यादिषु पद्माकार-पाद-सहितोर्ध्व-पुण्ड्राण्य् एव धार्यन्ते । कुक्ष्यादिषु ऊर्ध्व-पुण्ड्राधो-भागे चतुर्-अश्रम् एव परिदृश्यत इति चेत्, श्रूयताम् अवधानेन, कुक्ष्यादिषु श्वेत-मृत्स्नया कर-तलामलकी-कृत-सर्व-वेद-शास्त्रार्थ-याथात्म्यवन्तः महान्तः प्रपन्नाः प्रथमं चतुर्-अश्र-स्थूल-पीठं विलिख्य तन्-मध्ये किञ्चित्-फुल्ल-पद्म-मुकुलाकार-पादं विलिख्य तद्-उपरि पार्श्वयोः हरि-पाद-द्वयाकार-शाखा-द्वयं विलिख्य तद्-अन्तराले
ऊर्ध्व-पुण्ड्रस्य मध्ये तु दीपाकारं सु-शोभनम् ।
श्री-चूर्णं धारयेन् नित्यं तस्य विष्णुः प्रसीदति ॥
इति श्री-धर्मोक्त-रीत्या दीपाकार-श्री-चूर्ण-रेखां धारयन्ति ॥
तथा च कुक्ष्याद्य्-अङ्गोर्ध्व-पुण्ड्रेषु पद्माकार-पाद-साहित्यस्य तुल्यत्वे ऽपि तथा कुक्ष्यादिकाङ्गेषु “पादं तु चतुर्-अश्रकम्” । इति व्यास-स्मृत्य्-उत्तर-खण्ड-चतुर्थाध्याय-वचन-बलात् चतुर्-अश्र-स्थूल-पीठ-मात्रं विशेष इति निर्धायते । तथा
अम्भोज-मुकुलाकारं पादं तु चतुर्-अश्रकम्,
चतुर्-अश्र-पीठ-युक्तं चतुर्-अश्र-पीठ-मध्य-स्थम्
इति यावत् । चतस्रः अश्रयः यस्य इति चतुर्-अश्रम् इति बहु-व्रीहौ सुप्रात-सुश्वेत्य्-आदिना समासान्तो निपातः । चतुर्-अश्रकम् इति स्वार्थे क-प्रत्ययः । प्रकरण-बलात् स्थूल-पीठम् इत्य्-अर्थः । चतुर्-अश्रकं अस्य अस्तीति चतुर्-अश्रकं मत्व्-अर्थीयः अच् प्रत्ययः । अर्श आदिभ्यो ऽजिति सूत्रे अर्श आदेः आकृति-गणत्वात् । स-चतुर्-अश्रकम् इति पाठश् चेत् अर्थः स्व-रसः नात्र चोद्यावकाशः । सर्वत्र चोद्य-प्रसक्तेः सर्वस्याप्य् उच्छेद-प्रसङ्गात् ॥
[[P140]]
स्वर्ण-पवित्रे यथा शिष्टानुष्ठानं तद्वत् [[??]]
काश्यप-स्मृतौ –
यो ऽर्चको मे स-पीठं तु द्वि-षट्-पुण्ड्रं सदा शुभम् ।
धृत्वा च तुलसी-दाम सदा मत्-प्राण-वल्लभः ॥
सौवर्णं दर्भ-जन्यं च पवित्रम् उभयं वरम् ।
धृत्वा चाष्टाक्षरं जप्त्वा कुल-कोटिं समुद्धरेत्
इति स-पादोर्ध्व-पुण्ड्र-धारण-पूर्वकं सौवर्ण-पवित्र–दर्भ-पवित्र–धारण-पूर्वकं अष्टाक्षर-जप-करण-विधानेन सौवर्ण-पवित्रस्यापि दर्भ-पवित्राकार-रीत्या ऊर्ध्व-ग्रत्वादि-करणस्य सम्भवे ऽपि
यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः
इति
येनास्य पितरो याताः येन याताः पितामहाः
इति श्रुति-मनु-स्मृत्य्-आदिभिः प्रामाण्यांशे शिष्टाचारस्यैव मुख्यत्व-प्रतिपादनेन शिष्टाचारानुगुण्यात् सौवर्ण-पवित्र-करणवत् कुक्ष्यादिकाङ्गेषु चतुर्-अश्र-स्थूल- पीठ-मध्य-पद्माकार-सहितोर्ध्व-पुण्ड्र-धारण-विषये ऽप्य् उपपत्तेः ॥
ननु सच्-चरित्र-रक्षायां हरि-पाद-समानाकारत्वस्यैव परमैकान्तिभिर् ऊर्ध्व-पुण्ड्राणां विशेषाकारतयोपादेयत्वस्य समर्थितत्वेन पाद-प्रसङ्गस्यापि अ-कृतत्वेन केवल-युक्ति-मात्रेण नास्मिन्न् अर्थे प्रामाणिकत्व-प्रत्ययो भवेद् इति चेन् न । श्रुति-स्मृति-पुराण-पाञ्चरात्र-वैखानस-वचन-तात्पर्य-पर्यालोचनया ऊर्ध्व-पुण्ड्राणां पारमैकान्त्य-चिह्नत्व-पौष्कल्यायोपपत्तेः । तद् एवं हरि-पाद-संस्थानत्वं सान्तरालत्वं च सोपबृह्मण-श्रुति-सिद्धं भगवद्-अ-साधारण्यातिशय-लिङ्गं चेति तद् एव भागवतैर् अङ्गीकार्यम् । निरन्तरालं तु निषिद्धम् एवेत्य् अन्-आदरणीयम् । संस्थानान्तराणि तु अ-मुख्यानीति विभाग इति तत्रत्य-श्री-सूक्ति-पर्यालोचनया तैः तत्र पाद-विहीन-पुण्ड्रं धार्यम् इति अन्-उक्त्या च निगमान्त-गुरूणाम् अपि किञ्चित्-फुल्ल-पद्म-मुकुलाकार-पाद-सहितोर्ध्व-पुण्ड्र-धारण एव तात्पर्य-सिद्धेः ॥
[[P141]]
तात्पर्यम् अन्तरा केवल-वाक्य-मात्रेण निर्णये तेषां पक्षे श्री-चूर्णस्य अन्-अवकाशः [[??]]
यदि च तात्पर्य-पर्यालोचनां विना केवल-वाक्य-मात्रेण यो निर्णयो ऽभीप्स्यते तर्हि श्री-चूर्ण-धारण-प्रसङ्गस्यापि तैस् तत्राकृतत्वेन तस्यापि त्याज्यतापत्तेः । तेषां पूर्वोक्त-श्रुति-स्मृत्य्-आदि-वचन-सहस्त्र-शिष्टाचार-प्रदर्शन-रूप-दोषापादन-प्रसङ्गाच् च । ननु कुक्ष्याद्य्-अङ्गेषु स्थूल-पीठ-मध्ये पद्माकार-पादं लिखित्वा तद्-उपरि पार्श्वयोः हरि-पाद-द्वयाकार-रेखे तन्-मध्ये श्री-चूर्ण-रेखां च लिखित्वा ऊर्ध्व-पुण्ड्राणि, धारयन्ति ॥
श्री-रङ्गादि-दिव्य-देशेषु विराजमान-स-पादोर्ध्व-पुण्ड्रं कथम् इति चेत् तत्र प्रमाणानि [[??]]
श्री-रङ्गादि दिव्य-देशेषु सर्वत्र पर-काल-यतीन्द्रादि-कारित-प्राकार-गोपुरादिषु स्थूल-पीठोपरि स-पादोर्ध्व-पुण्ड्रं प्रकाशते कथम् उपपत्तिर् इति चेद् उच्यते पाद्म-पुराणे –
पद्मासने च विन्यस्ता हरेः पादाकृतिर् यथा ।
तथैव क्रियतां सर्वैर् ललाटे ऽतिमनो-हरं
इति ।
पाद्म-संहितायां क्रिया-पादे, दशमाध्याये –
मध्ये कर्णिकया युक्तं किञ्चित्-फुल्लाम्बुजाकृति ।
इति
व्यास-स्मृत्य्-उत्तर-खण्डे
अम्भो-ज-मुकुलाकारं पादं द्व्य्-अङ्गुल-सम्मितम् ।
नासिकादि-भ्रुवोर् मध्य-पर्यन्तं परिकल्पयेत्
इति
ललाटोर्ध्व-पुण्ड्रस्य द्व्य्-अङ्गुल-परिमित-पाद-वैशिष्ट्य-प्रतिपादनेन भगवच्-छास्त्रे –
नासादौ द्व्य्-अङ्गुलं पादं मध्ये तु द्व्य्-अङ्गुलं भवेत् ।
पार्श्वम् अङ्गुलि-मात्रं तु सु-स्पष्टं धारयेद् द्वि-जः ॥
इति शाखा-द्वय-मध्यान्तरालस्य द्व्य्-अङ्गुल-परिमितत्वस्य पार्श्व-स्थ-शाखयोः एकाङ्गुल-परिमितत्वस्य च उक्तत्वेन, वासिष्ठ-संहितायां
ललाटे केशवायेति धारयेच् चतुर्-अङ्गुलम्
इति चतुर्-अङ्गुल-परिमितत्व-प्रतिपादनेन च पद्माकार-पादाधः-प्रदेशम् आरभ्य स-श्री-चूर्ण-शाखा-द्वयाग्र-भागान्तं परिमाण-गणनावश्यकत्वेन सच्-चरित्र-रक्षायां श्रीमन्-निगमान्त-गुरुभिः सतां नासिका-मूलम् आरभ्य केशान्तं हरि-पादाकृति-पुण्ड्र-धारणस्य स्थापितत्वेन योग-याज्ञवल्क्य-स्मृतौ पाद्म-संहितायां च भ्रू-मध्याद् अधस्ताच् चक्षुर्-मध्यं तस्माद् अधस्तान् नासिका-मूलम् इति, नासिका-मूल-स्थानस्य विशिष्य प्रतिपादितत्वेन तत्रैव नासिका-मूल-स्थानस्य पाद-मूलाद् ब्रह्म-रन्ध्राच् चाङ्गुल-सङ्ख्याया अपि प्रदर्शितत्वेन,
[[P142]]
सम-दृष्टेः पुरुषस्य कृष्ण-तारका-द्वय-मध्य-व्यापि तिर्यक् सूत्रं नासा-नाले यत्र पतति तद् एव स्थानं चतुर्-मध्यं नाम तस्माद् अधस्तान् नासिका-मूलं नोपरिष्टाद् इति शिल्पिभिर् उच्यमानत्वेन ललाटे शिष्टाः प्रपन्नाः नासा-मूलादि-द्व्य्-अङ्गुल-परिमितं ईषद्-विकसित-पद्माकार-पादं विलिख्य नासा-नाळस्य तनुत्वेन मध्ये द्व्य्-अङ्गुल-परिमितान्तरालं विहाय पद्माकार-पादोर्ध्व-प्रान्तोभय-पार्श्वयोः एकाङ्गुल-परिमितोर्ध्वाग्र-हरि-पाद-समानाकार-शाखा-द्वयं परिकल्प्य तन्-मध्ये श्री-चूर्ण-रेखां परिकल्प्य ऊर्ध्व-पुण्ड्रं धारयन्ति ।
स-पादम् ऊर्ध्व-पुण्ड्रं तु द्वि-षट्-स्थानेषु विन्यसेत्
इति बृहन्-नारदीयादि-वचनैः कुक्ष्यादि-त्रि-कान्तेषु एकादश-स्थानेषु द्व्य्-अङ्गुल-परिमित-पद्माकार-पाद-सहित–स-श्री-चूर्ण-हरि-पाद-समानाकार-शाखा-द्वय-युतोर्ध्व-पुण्ड्र-धारणं प्राप्तम् । तथा कुक्ष्यादिकाङ्गेषु पादं तु चतुर्-अश्रकम् इति व्यासोत्तर-स्मृत्य्-आदि-वचनैः कुक्ष्यादि-त्रि-कान्तेषु एकादश-स्थानेषु चतुर्-अश्र-पीठ-परिकल्पनम् अपि प्राप्तम् । तत्र रामानुजार्य-दिव्य-चरितायाम्
हरेः पादाकृतिं रम्यम् ऊर्ध्व-पुण्ड्रं प्रकल्पयेत् ।
ललाटे केशवायेति चतुर्-अङ्गुलम् आयतम् ।
त्र्य्-अङ्गुलं द्व्य्-अङ्गुलं वापि सान्तरालं प्रकल्पयेत् ।
कुक्षौ नारायणेति धारयेत् तु दशाङ्गुलम् ।
वक्षः-स्थले माधवाय न्यसेद् अष्टाङ्गुलं तथा ।
गोविन्दायेति मन्त्रेण कण्ठे च चतुर्-अङ्गुलम् ।
विष्णुं च दक्षिणे कुक्षौ धारयेत् तु दशाङ्गुलम् ।
न्यसेद् अष्टाङ्गुलं बाहौ दक्षिणे मधुसूदनम् ।
श्री-धरं वाम-बाहौ तु न्यसेद् अष्टाङ्गुलं तथा ।
हृषी-केशं वामगले धारयेच् चतुर्-अङ्गुलम् ।
पृष्ठे च पद्म-नाभं च धारयेच् चतुर्-अङ्गुलम् ।
दामोदरं गले पश्चाद् धारयेच् चतुर्-अङ्गुलम् ।
ऊर्ध्व-पुण्ड्रस्यान्तराले हरिद्रां धारयेत् सदा ।
धारणाद् ऊर्ध्व-पुण्ड्रस्य शरीरं मङ्गलावहम् ॥
इत्य्-आदि-वचनेन ललाट-कण्ठ-स्कन्ध-द्वय-प्रदिष्ट-त्रिक-स्थित-षट्-पुण्ड्राणां चतुर्-अङ्गुल-परिमितत्वम् उक्तम् । हृदय-बाहु-मध्य-द्वय-स्थित-पुण्ड्र-त्रयस्य अष्टाङ्गुल-परिमितत्वम् उक्तम् । कुक्षि-स्थल-त्रय-स्थ-पुण्ड्र-त्रयस्य दशाङ्गुल-परिमितत्वम् उक्तम् । तत्-तत्-स-पादोर्ध्व-पुण्ड्राणां तत्-तत्-परिमाण-
प्रतिपादनवत् कुक्ष्यादि-त्रि-कान्ताङ्गेषु तत्-तत्-पीठ-परिमाण-विशेषः नोक्तः । चतुर्-अश्र-पीठं विलिख्य तद्-उपरि स-पादोर्ध्व-पुण्ड्र-लेखने वचनोक्ताङ्गुल-परिमाणाधिक्य-दोषः प्रसजति, अतः तन्त्रेण कुक्ष्याद्य्-अङ्गेषु द्व्य्-अङ्गुल-परिमितं चतुर्-अश्र-पीठं परिकल्प्य तन्-मध्ये पीठाधो-भागम् आरभ्य पीठाग्र-पर्यन्तं परिशेषात् द्व्य्-अङ्गुल-परिमितम् ईषद्-विकसित-पद्माकार-पादं परिकल्प्य तद्-उपर्य्-उभय-पार्श्वयोः ऊर्ध्वाग्रे हरि-पादाकार-शाखे मध्ये श्री-चूर्ण-रेखां च धारयन्ति । मण्टप–गो-पुर–प्रासादादिषु विस्तृतत्वात् स-पादोर्ध्व-पुण्ड्र-पीठयोः परिमाण-प्रमाण-वचनाभावात्, स-पादोर्ध्व-पुण्ड्रस्य वचन-सिद्धत्वाच् च ॥
[[P143]]
शाण्डिल्य-स्मृतौ –
पशु-पुत्रादिकं सर्वं गृहोपकरणानि च ।
अङ्कयेत् शङ्ख-चक्राभ्यां नाम कुर्यात् तु वैष्णवम् ॥
इत्य्-आदि-वचन-रीत्या स-पादोर्ध्व-पुण्ड्र-पार्श्वयोः स्थितयोः शङ्ख-चक्रयोः अलङ्कारार्थं पूजनार्थं च विशिष्य पीठ-परिकल्पनवत् स्थूल-पीठं परिकल्प्य तद्-उपरि उत्तमाङ्गोपलाल्यमान-स-श्री-चूर्णेषद्-विकसित-पद्माकार-पाद-सहित-हरि-पाद-द्वयाकारोर्ध्वाग्र-शाखा-सहितोर्ध्व-पुण्ड्रं परिकल्पयन्ति ।
ऊर्ध्व-पुण्ड्रं ललाटे तु कुर्वीत चतुर्-अङ्गुलम् ।
उदरे हृदि कण्ठे च दशाष्ट-चतुर्-अङ्गुलान् ।
दक्षिणोदर-बाह्व्-अंसेष्व् एवं त्रीणीतरत्र च ।
आद्यवत्-पृष्ठतो द्वे च मूर्ध्नि चैवं त्रयोदश ।
त्रिधा सर्वत्र विस्तारश् चतुस्-त्रि-द्व्य्-अङ्गुल-क्रमात् ।
उत्तमो मध्यमो हीनः पार्श्वाव् अङ्गुलिकौ स्मृताव्
इति ॥
भरद्वाज-स्मृति-वचन-व्याख्याने व्याख्यातृभिः यत् तु
दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् । सप्त-षट्-पञ्चभिः पुण्ड्रं मध्यमं त्रि-विधं भवेद्
इत्य्-आदि-ब्रह्माण्ड-पुराण-वचनं तद्-अतिविशाल-फालवद्-विषयं वेदितव्यम् इत्य् उक्त-रीत्या, नासादि-केश-पर्यन्तम् इत्य् उक्त्या च स-पादोर्ध्व-पुण्ड्रस्य अङ्गुल-परिमाणादिकं यथा मुखादि-विस्तारं कल्पनीयं, स-पादोर्ध्व-पुण्ड्रं
येनोर्ध्व-पुण्ड्रं सौम्यं स्याद् आर्जवं च कृतं भवेत् ।
तेन कुर्यात् प्रकारेण तादृशं फलदं भवेद्
इति ॥
[[P144]]
दक्षिण-हस्त-तर्जन्यैव ऊर्ध्व-पुण्ड्र-धारणम् [[??]]
नाचरेद् वाम-हस्तेन न नखैर् अपि कारयेत् ।
आत्मनैवात्मनो ऽङ्गेषु नेतरेण तु कारयेद्
इति ।
अयं वाम-हस्त-निषेधः दक्षिण-शक्त-विषयः । “शक्त्य्-अनुसारेण शास्त्र-प्रवृत्तेर्” इति सच्-चरित्र-रक्षाद्य्-उक्त-रीत्या शास्त्रानुगुण्येन च यथा सम्भवं ऋजु-सौम्याकारं स-श्री-चूर्णं प्रपन्नैर् धार्यम् । अतः अर्चादि-दिव्य-मङ्गल-विग्रहादिषु यथा सम्भवं स-श्री-चूर्णं स-पादोर्ध्व-पुण्ड्रं परिकल्पयन्ति । कौतुकार्चा-दिव्य-मङ्गल-विग्रहेषु तिलक-परिकल्पनं अलङ्कारार्थम् । लक्ष्मी-तन्त्रे एकोन-चत्वारिंशाध्याये –
बुध्या विरचितास् तास् ता राज-राजोचिताः क्रियाः ।
अलङ्कारासन-स्थाय एते भोगा हि मन्-मया
इत्य्-उक्तेः
अतः यथा मुख-विस्तारं एकाङ्गुलं नासिकादौ धृत्वा
इति वसिष्ठोक्तः । एकाङ्गुल-पारिमितं “कुण्डली-कृत-सर्प-स्थे"त्य् उक्त्या अन्-अन्तावतार-श्री-रामानुज-रूपं ऊर्ध्व-पुण्ड्र-पादं परिकल्पयन्ति । अतः श्री-काञ्ची-दिव्य-देश-दीप-प्रकाश-सविधौ, तूप्पिल नामावतार-स्थले ब्रह्माण्ड-पुराणे अहीन्द्र-पुर-माहात्म्ये –
अश्वत्थ-मूले घण्टावतारो मुनिस् तपस्यति
इति ॥
अर्चा-विग्रहादिषु यथा सम्भवं स श्री-चूर्ण-स-पाद-ऊर्ध्व-पुण्ड्र-धारणम् [[??]]
श्री-पाद्म-पुराणे उत्तर-खण्डे उमा-महेश्वर-संवादे एक-चत्वारिंशाध्याये –
तस्मिन् कल्लौ युगे देवि रक्षणार्थं जनस्य वै ।
लक्ष्मी-पतिर् जगन्-नाथः कृपया सर्व-जन्तुषु ।
स्वांशेनैव त्रिधा भूत्वा कलि-दोषं निवारयेत् ॥
एको रामानुजो ज्ञेयश् शेषांशस् सर्व-शास्त्र-वित् ।
शठ-कोप इति ख्यातो द्वितीयः कलि-पाप-हृत् ॥
वेङ्कटेशांशको ह्य् एकः तृतीयः कमलानन ।
एवं बहु-विधाचार्याः पाषण्ड-च्छेदिनः स्मृताः ॥
इति ।
विष्णु-रहस्ये भक्त–स्व-रूप-कथन-प्रकरणे –
घण्टात्मानं समुज्जातं निगमान्त-गुरुं बुधम् ।
इत्य्-आदि-प्रमाण-रीत्या घण्टावतार-भूत-श्रीमन्-निगमान्त-गुर्वर्चा-दिव्य-मङ्गल-विग्रहादौ स-श्री-चूर्णं स-पादोर्ध्व-पुण्ड्रं अद्यापि समुज्ज्वलति । विस्तरस् तु ऊर्ध्व-पुण्ड्र-विजय, ऊर्ध्व-पुण्ड्र-निर्णय-ग्रन्थादौ द्रष्टव्यः ॥
श्वेत-मृत्तिकया, ऊर्ध्व-पुण्ड्र-धारणे प्रमाणं सच्-चरित्र-रक्षायां,
[[P145]]
ब्रह्म-रात्रे –
श्यामं शान्ति-करं प्रोक्तं, रक्तं वश्य-करं भवेत् ।
श्री-करं पीतम् इत्य् एव मुक्ति-दं श्वेतम् उच्यते ॥
इति ।
पराशरः –
आदाय वैष्णव-क्षेत्रान् मृत्तिकां विमलां सिताम् ।
मूल-मन्त्रेणाभिमन्त्र्य ऊर्ध्व-पुण्ड्राणि धारयेत् ॥
ललाटादिषु चाङ्गेषु, केशवादीन् यथा क्रमम् ॥
भरद्वाज-संहितायाम् –
अ-सङ्कलितया स्निग्ध-श्वेतया श्लक्ष्णया मृदा ।
ऊर्ध्व-पुण्ड्राणि सौम्यानि, कुर्यात् सुरभि-गन्धया ॥
न पीतया नासितया नातिगौर्या न रक्तया ।
न धूम्र-वर्णया नापि रूक्षया नासुगन्धया ॥
इत्य्-आदि ।
तर्जन्या ऊर्ध्व-पुण्ड्र-धरणे प्रमाणम् ।
सच्चरित्र-रक्षायां नारदीये –
दक्षिणस्य तु हस्तस्य अङ्गुल्यस् सम्प्रकीर्तिताः ।
आयुष्-कामेन मर्त्येन ग्राह्या तत्र कनिष्ठिका ॥
अ-पत्य-कामी यो मर्त्यः सो ऽङ्गुल्या ऽनामिकाख्यया ।
ऊर्ध्व-पुण्ड्रस्य करणे निषिद्धा मध्यमाङ्गुलिः ॥
निष्फलं चोर्ध्व-पुण्ड्रं स्यात् तया केवलया कृतम् ।
मुक्तिस् सिद्धा प्रदेशिन्या कृतेन मुनि-सत्तम ॥
तस्मात् तया कृतं पुण्यं पापं हरति तत् नृणाम् ।
अङ्गुष्ठेनार्थ-कामस् तु नित्यं कुर्याद् अ-तन्द्रितः ॥
इति ।
पारमेष्ठ्य-संहितायाम् –
अनामिका कामदा स्यान् मुक्ति-दा च प्रदेशिनी ।
कनिष्ठा ऽऽयुष्य-दा प्रोक्ता अङ्गुष्ठं पुष्टि-दं भवेत् ॥
निषिद्धा मध्यमा प्रोक्ता चोर्ध्व-पुण्ड्र-विधौ मुने ॥
इत्य्-आदि ।
ऊर्ध्व-पुण्ड्र-धारणे तीर्थ-पात्र-प्रमाणम्
श्री-पाञ्चरात्रे –
न सुवर्णादिभिः कुर्याद् दारुभिर् मृद्भिर् एव वा ।
नारिकेल-फलेनैव चषकं पुण्ड्र-धारणे ॥
इति ।
ब्रह्म-रात्रे –
नालिकेरार्ध-भागेन कमठाकृतिना बुधः ।
द्वि-नेत्रेणैव कुर्वीत पात्रं वै पुण्ड्र-धारणे ॥
इति ।
[[P146]]
स्थलान्तरे –
नालिकेरार्ध-भागेन, तद्-अक्षि-युगलेन च ।
कमठाकृतिना पुण्ड्र-जलं पावन-पावनम्
इत्य्-आदि ॥
ऊर्ध्व-पुण्ड्र-धारणावश्यकत्वे प्रमाणं, सच्-चरित्र-रक्षायां ब्रह्म-रात्रे –
सर्व-वर्णेषु यद् भक्ताः कुर्वीरन्न् ऊर्ध्व-पुण्ड्रकम् ।
ब्रह्म-चारी गृह-स्थो वा, वान-प्रस्थो ऽथवा यतिः ॥
अवश्यं धारयेत् पुण्यं ऊर्ध्व-पुण्ड्रं सु-शोभनम् ।
इति ।
वासिष्ठ-संहितायां प्रथमे ऽध्याये –
यथा चर्मा न दृश्यन्ते तथोर्ध्वं पुण्ड्रम् आचरेत् ।
विष्णु-पाद-स्थिति-ग्राह्यम् ऊर्ध्व-पुण्ड्रं तथा ऽऽचरेत् ॥
इति ।
विष्णु-स्मृतौ –
यद् भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रम् अ-तन्द्रितः ।
ऊर्ध्व-गत्यां तु यस्येच्छा, तस्योर्ध्वं पुण्ड्रम् उच्यते ।
ऊर्ध्वं गत्वा तु देवत्वं प्राप्नुयाद् धि न संशयः ॥
इति ।
श्री-नारदीये सप्ततितमे ऽध्याये –
ऊर्ध्वं नयति यत्-पुण्ड्रं प्राणिनः पाप-कारिणः ।
तस्याख्या ह्य् ऊर्ध्व-पुण्ड्रेति तस्मात् तद् धारयेत् बुधः ॥
इति । ऊर्ध्वं, ऊर्ध्व-लोकं पुण्ड्रयति पाप-कारिणः गमयतीति ऊर्ध्व-पुण्ड्रं “पुण्ड्र-गतौ” इति धातुः ॥
स-पादोर्ध्व-पुण्ड्र-धारणम् आवश्यकम् इति [[??]]
स-पादोर्ध्व-पुण्ड्र-धारणे प्रमाणं ऋग्-वेदे –
ब्रह्म-नाडीं समारभ्य केशावधि मृदा न्यसेत् ।
स-च्छिद्रम् ऊर्ध्व-पुण्ड्रं तु हरिद्रा-सार-संयुतम् ।
पुण्ड्रं तु धारयेद् यस् तु मुक्ति-भागी भवेन् नरः ॥
इति ।
बृहत्-सेन-संहितायां दिलीपि-नारद-संवादे चन्द्र-कान्तोपाख्याने –
ज्योतिष्टोमादि-यज्ञानां कर्तारस् तीर्थ-मज्जकाः ।
सर्व-कर्म-धृतास् ते हि सर्वेषाम् अपि पावनाः ॥
नासाग्र-पाद-संयुक्त-पुण्ड्र-युक्तास् तथैव हि ।
न तेषां स्पर्श-दोषस् स्यात् तेषां धर्मास् ततो न हि ॥
सदा ते योग्य-वर्याश् च मम भक्तास् तथैव हि ।
इति । नासा नासेन्द्रियं अग्रे यस्य तत् नासाग्रं नासा-नालम् इत्य् अर्थः ॥
[[P147]]
सोर्ध्व-पुण्ड्र-मुख-दर्शने चान्द्रायणाद्य् अनुष्ठेयम् इत्य् अस्य अ-च्छिद्रोर्ध्व-पुण्ड्र-विषयम् इति निर्णये प्रमाणम् [[??]]
वैखानसे –
नासाग्र-भागे कृत-पीठ-पुण्ड्रिणं
पवित्र-पाणिं खलु गर्भ-वैष्णवम् ।
नयेत् स्व-लोकं सकृद् अर्चनाद् वा
ख-गेन्द्र-केतुस् सुर-सङ्घ-पूजितः ॥
इति ।
तत्रैव –
हर्य्-अर्चकस् स्यात् स हि गर्भ-वैष्णवो
भृत्वोर्ध्व-पुण्ड्राणि स-पीठकानि ।
मच्-छिष्य-वर्गो हरिमेति नान्यथा
यद् योगिनां दुर्लभम् अव्ययं च ॥
इति ।
पाद्मोत्तरे एक-त्रिंशाध्याये –
आरभ्य नासिका-मूलं ललाटान्तं सु-विन्यसेत् ।
समारभ्य भ्रुवोर् मध्यं सान्तरालं प्रकल्पयेत् ॥
इति ।
भार्गव-पुराणे उत्तर-खण्डे दशमे ऽध्याये भक्ति-सार-महा-योगि-माहात्म्ये नरं प्रति नारायणः –
पद्मासन-समासीनो द्वादशाङ्गेषु चाङ्कितः ।
केशवादि-द्वादशभिर् नामभिः योगि-सत्तमः ।
सम्यग् धृत्वोर्ध्व-पुण्ड्राणि जपन्न् अष्टाक्षरं मनुम् ।
स्थित्वा ऽत्र कति-चिन्-मासान् ततः काञ्चीम् उपागमत् ॥
इति ।
योगि-सत्तमः திகுழினசப்பிரான் नामक-भक्ति-सार-योगीत्य्-अर्थः । अत्र श्री-वेङ्कट-गिराव् इत्य् अर्थः ॥
कारण-संहितायां ब्रह्माणं प्रति भगवद्-वचनम् –
स-पाद-पुण्ड्राङ्कित-फाल-देशास् सु-तप्त-चक्राङ्कित-बाहु-मूलाः ।
अष्टाक्षर-द्वादश-मन्त्र-जप्या मद्-भक्त-वर्याः खलु भूत-देहाः ॥
इत्य्-आदि ।
सोर्ध्व-पुण्ड्र-मुखं दृष्ट्वा व्रतं चान्द्रायणं चरेत् ।
इत्य्-आद्य्-ऊर्ध्व-पुण्ड्र-निषेधक-वचनं अ-च्छिद्रोर्ध्व-पुण्ड्र-निषेध-परम् । न तु सात्त्विक-सच्-छिद्र–स-श्री-चूर्ण–स-पाद–श्वेत-मृद्-ऊर्ध्व-पुण्ड्र-निषेध-परम् ॥
पाद्म-पुराणे एक-त्रिंशाध्याये शङ्करः –
अ-च्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्वि-जाधमाः ।
तेषां ललाटे सततं शुनः पादो न संशयः ॥
इति ।
बृहद्-भारद्वाज-धर्म-शास्त्रे द्वितीये ऽध्याये –
पाद-हीनोर्ध्व-पुण्ड्राणां धारणाच् च विशेषतः ।
पुण्ड्रान्तराले भस्मादि-धारणात् पतितो भवेत् ॥
इति ।
[[P148]]
स्कान्दे शिव-स्कन्द-संवादे –
आग्नेयं मृत्स्नया पुण्ड्रं चन्दनेनार्षम् उच्यते ।
भसितेनासुरं पुण्ड्रं मानवं कुङ्कुमादिभिः ॥
आमरं सात्त्विकं पुण्ड्रम् आर्षम् राजसम् इष्यते ।
आसुरं तामसं तुर्यं तथा राजस-तामसम् ॥
इति ।
पराशर-माधवीये –
श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं भवेत् ।
श्री-करं पीतम् इत्य् आहुर् वैष्णवं श्वेतम् उच्यते ॥
इति ।
वाराहे ज्ञान-काण्डे –
ऊर्ध्व-पुण्ड्रम् आलिखेत् तस्मात् द्वि-रेखं भवतीति हि ।
वाजिनां श्रुतिर् अभ्यासात् साटोपं स्फुटम् आह हि ॥
धृतोर्ध्व-पुण्ड्र इत्य्-आद्यास् तथा ऽन्याः श्रुतयो विदुः ।
इति ।
पुण्ड्रान्तराले भस्मादि-धारणात् पतितत्वे प्रमाणम् [[??]]
नारदीय-पुराणे – “भूत्यै न प्रमदितव्यम्” इति, भस्मादि-धारणं निषिद्धम् ।
तत् श्वेत-मृदा हि ऊर्ध्व-पुण्ड्रं विधीयते । सान्तरालं द्वि-रेखं तु मध्ये हारिद्र-शोभितम् ॥
केशवाद्यैर् ललाटादौ धार्यं विप्रादिभिस् सदा ।
इति ।
ऊर्ध्व-पुण्ड्र-मृत्तिकायाः वर्ण-भेदाद् गुण-भेदः [[??]]
बृहन्-नारदीये अत्रिः –
स-पादम् ऊर्ध्व-पुण्ड्रं तु द्वि-षट्-स्थानेषु विन्यसेत् ।
पद्माक्ष-तुलसी-धाम धारयित्वा गले सदा ।
स एव वल्लभो विष्णोस् तस्य लक्ष्मीः प्रसीदति
इत्य्-आद्य्-उक्तेः ॥
कालाग्नि-रुद्रोपनिषद् उक्तम् अपि भस्म-धारणं न धार्यम्, तस्य शैव-शाक्त-विषयत्वात् [[??]]
कालाग्नि-रुद्रोपनिषदाद्य्-उक्तम् अपि भस्म-धारणं तामसं शैव-शाक्तादि-विषयं श्येन-विधि-तुल्यत्वाद् अन्-आदरणीयम् ॥
परम-वैदिक-सिद्धान्त-तत्त्व-रत्नाकरे गारुडे –
तामसेषु पुराणेषु मोहनार्थं सुर-द्विषाम् ।
त्रि-पुण्ड्र-धारणं प्रोक्तं तामसैर् मुनि-सत्तमैः ।
तामसानि पुराणानि दृष्ट्वा मोहाच् च यो द्वि-जः ।
त्रि-पुण्ड्र-धारणं कृत्वा तमस्य् अन्धे निमज्जति ॥
इति ।
[[P149]]
शिवाधिक्य-रत्नावली निरसन-ग्रन्थे तैत्तिरीय-श्रुतौ –
त्रि-पुण्ड्र-धारिणो ब्राह्मणाश् शुद्ध-धर्माणो भवेयुर् इति
इति ।
कालाग्नि-रुद्रोपनिषदि –
अग्निर् इति भस्म, वायुर् इति भस्म, जलम् इति भस्म,
इत्य्-आदिना अभिमन्त्र्य त्र्यम्बकं-मन्त्रेण तिस्रो रेखाः प्रकुर्वीत । व्रतम् एतच्-छाम्भवम् इति ॥
नारदीय-पुराणे –
भस्मना धारणं सर्वैश् शैवानां परिगीयते ।
न केवलानां विप्राणां, वैष्णवानां तु दूरतः ।
भस्मोद्धूलनम् एवापि, तिर्यक् पुण्ड्रस्य धारणम् ॥
शैव-दीक्षा-पराणां स्यान् नान्येषाम् इति निर्णयः ।
इत्य्-आद्य्-उक्तेः ॥
श्री-चूर्ण-धारणे प्रमाणम्
श्री-चूर्ण-धारणे प्रमाणम् । नारदीय-श्वेत-मृत्तिकोपनिषदि –
तथैव मध्यावकाशो ऽङ्गुलाद् अ-न्यूनः । स-श्रीः प्रतिष्ठायै श्रीर् हरिद्रा यतो हरिद्रावति तत् श्री-चूर्णम् । श्रियावधृतं विष्णुना वा आदित्य-वर्ण इति । श्री-फले धारयेत् । तज्-जले श्री-बीजेन संस्पृश्य संसृज्य तत्-सूक्ष्म-रेखां धारयेत् श्रीमान् भवति
इति ॥
अभिषिक्त-श्री-चूर्णम् एव धार्यम्
वृद्ध-शौनकः –
अभिषिक्तं हि देवस्य विष्णोर् लोक-गुरोर् द्वि-जः ।
श्री-चूर्णं धारयेन् नित्यं पुण्ड्र-मध्ये यथा-विधि ॥
निशा-चूर्णं विना यस् तु ऊर्ध्व-पुण्ड्रं दधाति चेत् ।
तत्-पुण्ड्रम् अ-शुभं प्राहुर् मुनयो ब्रह्म-वादिनः ॥
इति ।
शौनकः –
तद् एव धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रस्य मध्यतः ।
अभिषिक्तं हरेश् चूर्णं प्रत्यहं धारयेत् द्वि-जः ।
स सर्व-पाप-निर्मुक्तः परमं पदम् अश्नुते ॥
श्री-चूर्णं धारयेन् मोहान् नाभिषिच्य श्रियः पतेः ।
स सर्व-यातना-भोगी न प्राप्नोति परां गतिम्
इति ॥
पाञ्चरात्रे –
सान्तरालोर्ध्व-पुण्ड्रस्य मध्ये श्री-शेष-धामनि ।
हरिद्रा-सार-सम्भूत-रजसा धारयेत् श्रियम् ॥
इति ।
पराशरः –
ऊर्ध्व-पुण्ड्रस्य मध्ये तु हरिद्रा-चूर्णम् उत्तमम् ।
लक्ष्मी-निवास-सिद्ध्य्-अर्थं ललाटादिषु धारयेत् ॥
इति ।
[[P150]]
श्री-चूर्ण-धारणे मन्त्रः घर्षण-मन्त्रः इत्य्-आदि-निरूपणम् [[??]]
श्री-पाञ्चरात्रे ख-गेश्वर-संहितायां श्री-चूर्ण-विधि-नामके चत्वारिंशो ऽध्याये भगवद्-वचनम् –
चण्डालो वा खगेशान सर्व-पाप-समन्वितः ।
सर्व-पाप-विशुद्धात्मा श्री-चूर्णं बिभृयाद् यदि ।
ब्राह्मणो वा ख-गाधीश राजन्यो[[??]] वणिजो ऽपि वा ॥
शूद्रो वा बिभृयाच् चूर्णं प्रतिलोमानुलोम-जाः ।
ब्रह्म-चारी गृह-स्थो वा वान-प्रस्थो ऽथ भिक्षुकः ॥
श्री-चूर्ण-धारी न भवेत् तन्-मुखं नावलोकयेत् ।
इति ।
संहितायां –
ब्रह्म-चारी गृह-स्थश् च वान-प्रस्थो ऽथ भिक्षुकः ।
श्री-चूर्णम् एतत् सततं धार्यं श्रीशस्य तुष्टये ॥
इति ।
श्री-पाञ्चरात्रे –
ऊर्ध्व-पुण्ड्रस्य मध्ये तु अन्यत् द्रव्यं न धारयेत् ।
विष्णु-बिम्बेन संस्पृष्टां हरिद्रां धारयेत् द्वि-जः ॥
सनत्-कुमार-संहितायां –
ऊर्ध्व-पुण्ड्रं मृदा धार्यं सच्-छिद्रं सौम्यम् एव च ।
तद् अलङ्करणायैव हरिद्रां तत्र धारयेत् ॥
इति ।
संहितान्तरे –
एवं द्वादश-पुण्ड्राणि ब्राह्मणः सततं धरेत् ॥
अन्तराले तु सर्वेषु हरिद्रां धारयेत् श्रियम् ।
इति ॥
काश्यपः –
ऊर्ध्व-पुण्ड्रस्य मध्ये तु हरिद्रा-चूर्णम् उत्तमम् ।
सर्वैर् आश्रमिभिर् धार्यं सर्व-वर्णैश् च सर्वदा ॥
इति ।
वैखानसे अत्रि-प्रोक्ते ऽखिलाधिकारे चतुश्-शताधिक-द्वादशाध्याये –
“या सा पद्मा” इति लक्ष्मीं प्रार्थ्य निशा-चूर्णम् आदाय “श्रियै जात” इति घर्षयित्वा चिन्तामणि-बीजं लिखित्वा गायत्र्या ललाट-मध्ये वेणु-पत्राकृतिं धारयेत् तेन द्वादशोर्ध्व-पुण्ड्र-मध्ये च धारयेत् ॥
इति ।
अत्रि-स्मृतौ –
ततो दिव्यं च हरिद्रं सामोद-तुलसी-दलम् ।
मन्त्रेण धारयेच् चूर्णं पुण्ड्रेषु द्वादशस्व् अपि ॥
इति ।
सङ्ग्रहे –
विलोक्य दर्पणं विद्वान् ऊर्ध्व-पुण्ड्रं मनो-हरम् ।
कुर्यान् मङ्गलं आक्षाङ्क्षान् हरिद्रा-चूर्ण-संयुतम् ॥
एवं धृत्वा विधानेन श्री-चूर्णं द्वि-ज-सत्तमः ।
प्रत्यहं धारयेद् ऊर्ध्व-पुण्ड्र-मध्ये यथा-विधि ॥
भुवोर्र् मध्यात् समारभ्य श्री-चूर्णं विधि-निर्मितम् ।
इत्य्-आदि ॥
[[P151]]
स श्री-चूर्ण-स-पादोर्ध्व-पुण्ड्र-धारण-काले मूर्ति-आयुध-श्री-देवीत्य्-आदि-ध्यान-विषये प्रमाणानि [[??]]
स-श्री-चूर्ण-स-पादोर्ध्व-पुण्ड्र-धारण-काले तत्-तन्-मूर्ति-रूप-नामादि-ध्यान-कर्तव्यत्वे प्रमाणम् ॥
पाद्म-पुराणे उत्तर-खण्डे ऊर्ध्व-पुण्ड्र-विधि-नामके एक-त्रिंशाध्याये –
एवं द्वादश-पुण्ड्राणि ब्राह्मणः सततं धरेत् ।
तत्-तन्-मन्त्रेषु तन्-मूर्तिं ध्यात्वा मन्त्रेण धारयेत् ।
अन्तरालेषु सर्वेषु हरिद्रां धारयेत् श्रियम् ॥
इति ।
पारमेष्ठ्य-संहितायां –
धृतोर्ध्व-पुण्ड्रो विधिवन् न्यस्यमानानि द्वादश ।
नभो-ऽन्तान्य् अञ्जलि कुर्यान् नामान्य् उक्त्वा यथा-क्रमम् ॥
इति ।
पराशरः –
श्री-देवीत्य्-आदि-मन्त्राणाम् अर्थं ध्यायेच् च नामतः ।
श्री-चूर्णं धारयेन् नित्यं पुण्ड्र-मध्ये द्वि-जोत्तम ॥
भगवच्-छास्त्रे –
एवं यः कुरुते पुण्ड्रे देवता-ध्यानम् अन्वहम् ।
तस्य देहे हरिस् तिष्ठत्य् अ-निशं रमया सह ॥
इति । तत्-तन्-मूर्त्यादि-ध्यान-श्लोकाः ॥
चतुश्-चक्रं नमस्यामि केशवं कनक-प्रभम् ।
ललाटे सततं देव्या श्रिया सह विराजितम् ॥ १ ॥
अमृतोद्भवया देव्या समाश्लिष्टम् अथोदरे ।
नारायणं घन-श्यामं चतुश्-शङ्खं नमाम्य् अहम् ॥ २ ॥
नित्यं कमलयाश्लिष्टं हृदये ऽहं दयाम्बुधिम् ।
माधवं मणि-भङ्गाभं चिन्तयामि चतुर्-गदम् ॥ ३ ॥
[[P152]]
देव्या च चन्द्र-शोभिन्या देवं कण्ठे विराजितम् ।
चन्द्र-हासं चतुश्-शार्ङ्गं गोविन्दम् अभिसंश्रये ॥ ४ ॥
विष्णु-पत्न्याख्यया देव्या कुक्षौ दक्षिण-पार्श्वके ।
विष्णुं चतुर्-हलं वन्दे पद्म-किञ्जल्क-सन्निभम् ॥ ५ ॥
वैष्णवी-संज्ञया देव्या कलितं दक्षिणे भुजे ।
चतुर्-मुसलम् अब्-जाभं संश्रये मधुसूदनम् ॥ ६ ॥
दक्षिणांसे दयावार्धिं वरारोहाधिपं प्रभुम् ।
अग्नि-वर्णं चतुः-खड्गं भावयामि त्रि-विक्रमम् ॥ ७ ॥
हरि-प्रिया-पतिं कुक्षौ वाम-पार्श्वे दया-निधिम् ।
वामनं बाल-सूर्याभं चतुर्-वज्रं विभावये ॥ ८ ॥
वाम-बाहौ, महा-बाहुं शार्ङ्गिणी-पतिम् अ-व्ययम् ।
श्री-धरं पुण्डरीकाभं चतुः-पट्ट-समाश्रये ॥ ९ ॥
देव-देव्याख्यया देव्या श्रितं वामांस-संश्रितम् ।
चतुर्-मुद्गरम् अभ्येमि हृषी-केशं तटित्-प्रभम् ॥ १० ॥
पृष्ठे संहृष्टया देव्या महा-लक्ष्म्या विराजितम् ।
पञ्चायुधं पद्म-नाभं नमस्याम्य् अर्क-रोचिषम् ॥ ११ ॥
सदा ककुद्-गतं लोक-सुन्दरी-पतिम् अव्-ययम् ।
दामोदरं चतुः-पाशम् इन्द्र-कोप-निभं भजे ॥ १२ ॥
इति साञ्जलि-बन्धो वदन् ललाटादि–त्रि-कान्त–स्थानेषु ध्यायेत् ।
सर्वाभीष्ट-प्रदाधीशं मूर्ध्नि सर्वायुधं विभुम् ।
वासुदेवम् उपासे ऽहं पूर्णेन्दु-युत-सन्निभम् ।
इति श्वेत-मृत्तिका–प्रक्षालन-तोयेन शिरसि मार्जयेत् । न तु पुण्ड्रं धारयेत् । मूर्ध्नि पुण्ड्र-धारण-निषेधस्य पूर्वम् एवोक्तत्वात् ॥
[[P153]]
हरिद्रा-चूर्णस्य बिल्व-करण्डकम् एव मुख्यम्
श्री-चूर्णस्य बिल्व-करण्ड-निक्षेपे प्रमाणं संहितायां –
कृत्वा करण्डं बिल्वस्य फलं पक्वं मनो-हरम् ।
हारिद्रं पूरयेच् चूर्णं लक्ष्मी-रूपम् अन्-उत्तमम् ।
फलम् अन्यत्र बिल्वस्य यश् चूर्णं पूरयेन् नरः ।
अ-वैष्णवस् स विज्ञेय श्रीस् तम् एव व्यपोहति,
इति ॥
महा-रत्न-कोशे, ब्रह्म-नारद-संवादे –
आराध्य च ततश् चूर्णैर् अभिषिच्य यथा-विधि ।
तच्-चूर्णं बिल्व-कारण्डे निक्षिपेत् धारणाय च ।
नालिकेर-करण्डे तु यश् चूर्णं निक्षिपेद् द्वि-जः ।
तच्-चूर्णं कृमिभिस् तुल्यं धृत्वा पापम् अवाप्नुयात् ।
श्री-फलस्य करण्डे च श्री-चूर्णं निक्षिपेत् सदा ।
श्री-चूर्णे निक्षिपेल् लक्ष्मीं तस्मात् तद् धारयेद् द्वि-जः ॥
नारायण-संहितायां –
नालिकेर-करण्डे तु कपित्थस्य फले ऽपि वा ।
तुम्बी-फले वाप्य् अन्यत्र श्री-चूर्णं तु न निक्षिपेत् ।
निक्षेपेद् यदि मूढात्मा सद्यश् चण्डालतां व्रजेत् ।
तस्मात् सर्व-प्रयत्नेन, फले बिल्वे विनिक्षिपेत् ॥
इत्य्-आदि ।
[[??]] श्रीमत्-पवित्र-पद्माक्ष-तुलसी-मणि-माला-धारणे प्रमाणम् । महोपनिषत्-श्रुतौ –
शङ्ख-चक्र-धरो विद्वान् मालां तुलसि-जां दधत् ॥
स जीवन् मुक्तो भवति
इति ॥
श्रीमत्-पवित्र-पद्माक्ष-तुलसी-मणि-माला-धारणे प्रमाणम् [[??]]
आग्नेये –
एवं धृत्वा चोर्ध्व-पुण्ड्रं श्री-चूर्ण-सहितं द्वि-जः ।
पद्माक्ष-तुलसी-मालां धारयेद् भक्ति-संयुतः ॥
श्रीमत्-पवित्रं सततं धारयेत् तु यथा-क्रमम् ।
इति ॥
विष्णोः प्रीत्य्-अर्थं पद्माक्षादि-मालां धृत्वा नित्य-नैमित्तिकादिकं कार्यम् [[??]]
वासिष्ठ-संहितायां –
ततः पद्माक्ष-तुलसी-मालिकां धारयेद् गले ।
श्रीमत्-पवित्रम् अ-तुलं देव-देवेन धारितम् ॥
तयोर् उपरि सन्धार्यं सर्व-पाप-प्रणाशनम् ।
अ-प्रतिष्ठित-मालां[[??]] यो बिभर्ति, यदि मोहितः ।
व्यर्थं भवति तत् सर्वं नित्य-नैमित्तिकादिकम् ॥
चतुस्-सप्तति-पद्माक्षम् अष्टोत्तर-शतं स्मृतम् ।
तुलसी-मालिकायास् तां सततं धारयेत् द्वि-जः ॥
यथा पतिव्रता साध्वी सर्वाभरण-भूषिता ।
पति-शुश्रूषणं कुर्यात् सावधानेन चेतसा ॥
तद्वच्-चक्रादि-चिन्हैस् तु चिह्नितो द्वि-ज–सत्तमः ।
पद्माक्ष-तुलसी-मालां श्री-पवित्रं यथा-क्रमम् ।
सन्धार्य नित्य-कर्माणि विष्णोः प्रीत्य्-अर्थम् आचरेत् ॥
इति ।
[[P154]]
ब्राह्मे –
पद्माक्ष-तुलसी-मालां वैष्णवो धारयेत् द्वि-जः ॥
इति ।
पराशरः –
धृत्वा कण्ठे स्व-शिरसि, पवित्रं विष्णु-धारितम् ।
श्री-कृष्ण-तुलसी-काष्ठ-मणि-मालां गले तथा ॥
इति ।
व्यासः –
पद्माक्ष-मालया सार्धं तुलसी-मालिकां शुभाम् ।
कण्ठे त्रिकं समारभ्य नित्यं मन्त्रेण संयुताम् ॥
धारयेन् नाभि-पर्यन्तं त्याज्यं न्यूनं ततो ऽधिकम् ।
पद्माक्षं विष्णु-दैवत्यं तुलसी श्रीः प्रकीर्तिता ॥
तस्माद् वयं सदा धार्यम् ऊर्ध्व-पुण्ड्र-पर–द्वि-जैः ।
जप-होमार्चनाद् येषु विशेषेण तु धारयेत् ॥
उपवीतं, शिखा-बन्धम् ऊर्ध्व-पुण्ड्रं तथैव च ।
पद्माक्ष-मालां कौशेयं सततं धारयेद् द्वि-जः ॥
इति ।
पुराणे –
शान्तये पुष्टये मुक्त्यै तुलसी काष्ठ-जो मणिः ।
सर्व-सिद्धि-प्रदः प्राप्तो मणिर् धार्यः श्रियै बुधैः ॥
तुलसी-काष्ठ-मालां वै, पद्माक्ष-मणि-मालिकाम् ॥
कण्ठादि-नाभि-पर्यन्तं धारयेद् वैष्णवोत्तमः ।
अष्टोत्तर-शतं मालाम् अनेन स्कन्ध-लम्बिताम् ।
तुलसी-पद्म-मणिभिर् धारयेद् उपवीतवत् ॥
वामन-पुराणे –
भोजने शयने स्नाने मल-मूत्र-विसर्जने ।
तुलसी-काष्ठ-मालाया धारणात् पतितो भवेत् ॥
विधिवद्-ग्रथिता सूत्रे माला तु तुलसी शुभा । [[??]]
चन्दन-प्रतिबिम्बिताभय-हस्तादि-सेवने प्रमाणम्
चन्दनाभय-हस्त-सेवने प्रमाणम् । वासुदेव-संहितायां –
अन्-अन्य-साधनैस् सर्वैर् मद्-भक्तैर् मत्-प्रियैश् शुभैः ।
प्रपन्नैः प्रत्यहं सेव्या चन्दन-प्रतिबिम्बिता ॥
मदीया ऽभय-मुद्रा या सा सर्व-फलदा नृणाम् ।
नेत्रयोर् अंसयोर् नित्यं हृदि मूर्ध्नि क्रमेण तु ॥
इत्य्-आदि ।
[[P155]]
चन्दन-प्रतिबिम्बित–श्री-पाद-युगल-चन्दन-प्रतिबिम्बित-लक्ष्मी-सेवने प्रमाणम् । वासुदेव-संहितायां –
एवं सच्-चरण-द्वन्द्वं चन्दन-प्रतिबिम्बितम् ।
सेव्यं प्रपन्नैर् मद्-भक्तैस् तथा लक्ष्मीर् मन[[??]] प्रिया ॥
मद्-भक्ता मत्-प्रिया नित्यं मद्-वक्षः-स्थल-वासिनी ।
जननी प्राणि-जातस्य चन्दन-प्रतिबिम्बिता ।
सर्वैः प्रपन्नैः संसेव्या मद्-भक्तैर् नियतैस् सदा ॥
इत्य्-आदि ।
श्री-पादुका-ग्रहणे श्री-पादाङ्कित-पट्ट-वस्त्र-ग्रहण-विषये च प्रमाणम्
श्री-पादुका-ग्रहण-विषये, पादाङ्कित-पट्ट-वस्त्र-ग्रहण-विषये प्रमाणम् श्री-पाञ्चरात्रे पाद्म-संहितायां –
ब्रह्म-विद्-विष्णवो यस् तु याति वैकुण्ठम् उत्तमम् ।
तस्य पादा-प्रतिकृतिर् मुमुक्षोर् उपजीविका ॥
तत्रैव वैनतेय-वचनम् –
ब्रह्म-विद्-विष्णवो यो वै वैकुण्ठाय स गच्छति ।
तच्-छिष्याणां च सु-धियां पूज्यौ तच्-चरणौ भृशम् ॥
तयोः सेवने सुवर्ण-रजत-कौशेय-दार्वादिषु यथा-शक्ति कार्यम् [[??]]
विष्णुः –
केवलं वैष्णवो यत्र याति ब्रह्म-पुरीं द्वि-जः ।
तत्-पदाङ्कित-भू-रेणुः[[??]] पूज्यते सर्व-देहिभिः ॥
इति ।
तत्रैव,
रजतेन सुवर्णेन कौशेयेन मृदा ऽथवा ।
दारुणा ब्रह्म-वित्-पादौ ग्राह्यौ वैष्णव-सत्तमैः ॥
इत्य्-आदि ॥
तुलसी-मृत्तिका-तीर्थ-प्राशनम्, श्री-पाद-तीर्थ-प्राशनं च [[??]]
तीर्थ-वाटिका-तीर्थ-ग्रहणे प्रमाणम् । हारीतः –
वैष्णवोत्तम-पादाब्-ज-तीर्थं देही बुधो यदि ॥
शुश्रूया वा मुदा गृह्य पिबेद् याति परां गतिम् ।
तुलसी-मृत्तिका-मिश्रं वैष्णवोत्तम-पाद-जम् ।
तीर्थं पिबेच् च यो विप्रस् स याति हरि-मन्दिरम् ॥
इति ॥
पाञ्चरात्रे भगवद्-वचनम् –
मद्-अङ्घ्रि-तीर्थ-पृषदा[[??]] स्पृष्टा शुद्धा हि मृत्तिका ।
मत्-पादाब्-जानु-बन्धेन संहरत्य् एव संसृतिम् ॥
इत्य्-आदि ।
सङ्कट-विषये नालिकेर-करणे ऽपि श्री-चूर्ण-निक्षेपः
संकट-विषये, नालिकेर-करण्डे श्री-चूर्ण-निक्षेपस्य प्रमाणम् । पाञ्चरात्रे –
न सुवर्णादिभिः कुर्यान् न दार्वा[[??]] बिल्वकेन वा ।
नारिकेल-फलस्यैव श्री-चूर्णं पात्रम् उच्यते ॥
इत्य्-आदि ।
[[P156]]
सङ्कट-विषये नीरोर्ध्व-पुण्ड्र-धारणम्
संकट-विषये, नीरोर्ध्व-पुण्ड्र-धारणे ललाट, त्रिकोर्ध्व-पुण्ड्र-धारणे च प्रमाणम् ।
मृद्-अलाभे, त्वरायां वा, कार्यं नीरोर्ध्व-पुण्ड्रकम् ॥
ललाट-पुण्ड्रम् अपि वा सर्वथा धारयेद् द्वि-जः ।
दामोदरं केशवं च पुण्ड्रेषु न परित्यजेत् ॥
इति ।
आद्य्-अन्त-पुण्ड्र-धारणे प्रमाणम् [[??]]
स्थलान्तरे, वासिष्ठ-संहितायां –
अ-शक्तौ सर्व-पुण्ड्राणां धारयेद् द्वि-ज-सत्तमः ।
दामोदरं केशवं च कदापि न परित्यजेत् ॥
इत्य्-आदि ।
श्री-मृत्तिका-पेटिका – तीर्थ-पात्रोद्धरणी–कांस्य-दर्पण–स-श्री-चूर्ण–स-पादोर्ध्व-पुण्ड्र-धारणादीनां प्रमाणम् । पराशर-संहितायां, तृतीयाध्याये –
विष्णु-पाद-क्षलितान्तर्गङ्गादि-विरजा-जलम् ।
सरिद्-वरा च कावेरी चन्द्र-पुष्करिणी-जलम् ॥
गुरु-पादोदकं तद्वद्-गुरु-साम्यादिकं तथा ।
स्मृत्वा स्नानं प्रकुर्वीत इन्द्र-द्युम्नाख्य-तीर्थकम् ॥
नदी-तीरं समागम्य मौनेन द्वयम् उच्चरन् ।
कौपीनं योक्त्रम् उत्तर्यं सुश्वेतं धारयेत् ततः ।
कार्पासं, पट्ट-वस्त्रं च धारयेद् अथ कर्पटम् ।
प्रक्षाल्य पादाव् आचम्य शुद्ध-पात्रे जलं हरेत् ॥
ऊर्ध्व-पुण्ड्र-धारणे स्थान-दिग्-आदि-निर्णयः [[??]]
शुद्ध-स्थाने शुचौ देशे स्थित्वा शुद्धासने ततः ।
धारयेत् प्राङ्-मुखो भूत्वा श्री-मृत्-स्नाद्यादि-पेटिकाम् ।
हस्तौ प्रक्षाल्य शुद्धात्मा गृहीत्वा दक्षिणे करे ।
सौवर्णेन च रौप्येण नालिकिरेण मुख्यतः ॥
कृत्वा चोद्धरणी-पात्रं वेत्र-दार्वादि-पीठके ।
जलं सम्पूर्य तत्-पात्रे उद्धरिण्या च तद् धरेत् ॥
किञ्चिज्-जलं वाम-हस्ते धृत्वा मूलम् अनुस्मरन् ।
प्रपत्ति-फल-सिद्ध्य्-अर्थं विष्णु-सायुज्य-हेतवे ॥
पङ्की-कृत्य द्वयेनैव शुद्धां स्निग्धां तु मृत्तिकाम् ।
तर्जन्या तद्-गृहीत्वाथ ललाटे धारयेद् द्वि-जः ॥
दृष्ट्वा सु-दर्पणं कांस्यं गणना मूलम् आदितः ।
ऊर्ध्व-पुण्ड्रम् ऋजुं सौम्यं हरि-पादाकृतिं शुचि ।
नासादौ द्व्य्-अङ्गुलं पादं मध्ये सार्धाङ्गुलं भवेत् ।
पार्श्वम् ऽङ्गुल-मात्रं तु सु-स्पष्टं धारयेद् द्वि-जः ॥
विष्ण्व्-अर्पितं रक्त-वर्णं (रौक्मं) हरिद्रा-चूर्णम् उत्तमम् ।
लक्ष्मी-निवास-सिद्ध्य्-अर्थं दीपाकारं तु सूक्ष्मकम् ।
ऊर्ध्व-पुण्ड्रस्य मध्ये तु ललाटे धारयेद् द्वि-जः ॥
ओं नमः केशवादीनाम् अर्थं ध्यायन् चतुर्-मुख ।
धृत्वा दामोदरान्तं वै शेषं तु शिरसि न्यसेत् ॥
[[P157]]
तुलसी-मूल-मृत्तिका-वाटक-निर्माणे प्रमाणम् [[??]]
धृत्वा कण्ठे स्व-शिरसि पवित्रं विष्णु-धारितम् ।
श्री-कृष्ण-तुलसी-काष्ठ-मणि-मालां गले तथा ॥
सह पद्माक्ष-मालां च (मुक्ता-हारादिकं) मुक्त्वा मोहादिकं शुचिः ।
शिखायां विष्णु-निर्माल्यं चन्दनाद्य्-अनुलेपनम् ।
अहर्-निशं धारयतो न पुनर्-जननं भवेत् ॥
ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला
ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्राः ।
ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्राः
ते वैष्णवा भुवनम् आशु पवित्रयन्ति ।
श्मश्रु-हीन-शिखा-धारी सच्-छिद्र-श्वेत-पुण्ड्र-धृक् ।
स वै प्रपन्न इत्य् उक्तस् स वै भागवतोत्तमः ।
एकान्ती शुचि-देशे वै तस्माद् आचारम् आचरेत् ॥
पुनः प्रक्षाल्य हस्तौ तु नालिकेराख्य-पात्रके ।
जलं किञ्चित् गृहीत्वा च जले किञ्चिद् विमिश्रितम् ।
पाद-तीर्थं च गुरूणां गुरूणां च हरेस् तथा ॥
प्रपन्नः परमैकान्ती विज्ञानात्मा विशुद्धये ।
गङ्गा-गतं च मृत्-तोयं पाद-तीर्थं च मृत्स्नया ॥
गुरु-साम्यादि-तीर्थं च पिबेत् ज्ञानात्म-शुद्धये ।
प्रक्षाल्य पाद-हस्तादीन् सम्यक् संशोध्य वारिणा ।
विष्णोस् तत्-पाद-तीर्थस्य वाटिका लक्षणे शृणु ॥
बिल्व-मूल-गतां वापि तुलसी-मूल-मृत्तिकाम् ।
संशोध्य चूर्णयित्वाथ मूल-मन्त्रेण मन्त्र-वित् ॥
विष्णु-पादोदकेनैव पङ्की-कृत्य हरिं स्मरन् ।
सम्यग् आमलकाकारं वटकं कारयेच् छुचिः ॥
छाया-शुष्कं शुचौ कृत्वा गुरु-पादोदकं तथा ।
प्रत्येकं बन्धयेद् धीमान् वटीं वस्त्रादिना सदा ॥
मृत्तिकादि-समायुक्तं पेटिकायां विनिक्षिपेत् ।
नित्यं तद्-वटकं सम्यक् पूर्वोक्त-विधिना पिबेत् ॥
[[P158]]
पूर्वोक्तं तत् सदा विष्णोर् निशा-चूर्णं द्वि-जादिमः ।
सम्यक् बिल्व-करण्डे वै निक्षिप्य द्वि-ज-सत्तमः ॥
ब्राह्मं तत्-पेटिकायां तु तत्-करण्डं विनिक्षिपेत् ।
नालिकेराख्य-पात्रादि-पेटिकायां च निक्षिपेत् ॥
तत्-पेटिकायां निक्षिप्य दर्पणं कांस्यम् उत्तमम् ।
पुनस्-तत्-पेटिकां बध्वा जपेत् गुरु-परम्पराम् ॥
मूल-मन्त्रं मन्त्र-रत्नं चरम-श्लोक-पञ्चकम् ।
श्रीमद्-वराह-चरमं श्री-कृष्ण-चरमं तथा ॥
श्री-राम-चरमं तद्वत् श्री-रङ्ग-चरमं तथा ।
सुदर्शनाख्य-चरमं सकृत् ध्यायं तथोच्चरेत् ॥
कुर्यात् सूर्योदयात्[[??]] पूर्वं सन्ध्या-वन्दन-कर्म च ॥
इत्य्-आदि ।
पुण्ड्र-धारणानन्तरं गुरु-परम्पराद्य्-अनुसन्धान-क्रमः
अत्र गुरु-परम्परा-पूर्वकं मूल-मन्त्रं मन्त्र-रत्नं श्री-कृष्ण-चरम-श्लोक–श्री-राम-चरम-श्लोक–श्री-वराह-चरम-श्लोक-द्वयानुसन्धानम् एव शिष्टाचार-सिद्धम् इति बोध्यम् ॥
कात्यायनः –
नासिका-देश-मूले तु पीठं कृत्वा स-वर्तुलम् ।
तस्योपरि न्यसेत् पुण्ड्रं केशान्तं धारयेत् सुधीः ॥
इति ।
काश्यपः –
स-पाद-पुण्ड्राणि करोति भक्त्या यः
पूजयेत् तार्क्ष्य-पताक-धारिणम् ।
तद्-वंश-भूतो हरिर् एव सन्ततं
तत्-कार्य-सिद्धिं विदधाति नान्यथा ॥
इति ।
कारण-संहितायां, ब्रह्माणं प्रति भगवद्-वचनम् –
स-पाद-पुण्ड्राङ्कित-फाल-देशाः सु-तप्त-चक्राङ्कित-बाहु-मूलाः ।
इति ॥
तथा अन्यत्र अपि, पाञ्चरात्रे –
नासादौ द्व्य्-अङ्गुलं पीठं तत्-पार्श्वे तूर्ध्व-पुण्ड्रकम् ।
द्व्य्-अङ्गुलं त्र्य्-अङ्गुलं वापि सान्तरालं प्रकल्पयेत् ॥
इति ।
पुण्ड्र-मध्ये श्रिया सह रमेशः समासीनः इत्य् अत्र प्रमाणम् [[??]]
पाद्म-पुराणे –
ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले पाद-संयुते ।
लक्ष्म्या सार्धं समासीनो रमे ऽहं तत्र निश्चितः ॥
स-पादम् ऊर्ध्व-पुण्ड्रं तु धारयन्ति च ये नराः ।
तेषां ललाटे सततं सर्व-तीर्थं च तिष्ठति ॥
इति ।
[[P159]]
वामन-पुराणे –
ऊर्ध्व-पुण्ड्रं पाद-युक्तं ललाटे यस्य दृश्यते ।
चण्डालो ऽपि विशुद्धात्मा पूज्य एव न संशयः ॥
इति ।
वेद-तपो-यज्ञाद्य्-अपेक्षया ऊर्ध्व-पुण्ड्र-धारणस्य प्रभावातिशयः इति
श्री-कूर्म-माहात्म्ये सप्त-दशे ऽध्याये, शङ्खं प्रति भगवद्-वचनम् –
किं वेदैः किं तपोभिश् च किं यज्ञैस् तीर्थ-सेवनैः ।
स-पाद-पुण्ड्र-मात्रेण ममाभेदा द्वि-जाश् च ते ॥
इत्य्-आदि ।
अतः प्रपन्नैः स-श्री-चूर्णं किञ्चित्-फुल्ल-पद्म-कुड्मलाकार-पाद-सहितं हरि-पाद-द्वयाकारम् ऊर्ध्व-पुण्ड्रम् एव धार्यम् ॥
इति सद्-अनुष्ठान-दर्पणे स-पादोर्ध्व-पुण्ड्र-धारण-विषयो नाम षष्ठ-प्रतिफलनम् ॥