॥ पञ्चम-प्रतिफलनम् ॥ (प्रातः-स्नानादि-कर्तव्यम्)
भगवद्-भागवताचार्यादि-कैङ्कर्यां प्रातः स्नानादि-कर्तव्यत्वे प्रमाणम् [[??]]
प्रातः-स्नानादि-कर्तव्यत्व-विषये प्रमाणम् –
प्रपन्नैर् भगवद्-भागवताचार्य-कैङ्कर्योपयोगार्थं प्रातः-स्नानादिकं कार्यं, वचनात्, शिष्टाचारच् च । तथा हि दक्ष-स्मृतौ –
उषः-काले तु सम्प्राप्ते शौचं कृत्वा यथार्हवत् ।
ततः स्नानं प्रकुर्वीत दन्त-धावन-पूर्वकम् ॥
अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः ।
स्रवत्य् एव दिवा-रात्रं प्रातः-स्नानं विशोधनम् ॥
क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि क्षरन्ति च ।
अङ्गानि समतां गच्छन्ति उत्तमान्य् अधमैस् सह ॥
उषः काल-स्नानेन दश-गुणाः भवन्ति शरीर-मनश्-शुद्ध्य्-आदयः [[??]]
गुणा दश स्नान-परस्य साधो रूपं च तेजश् च बलं च शौचम् ।
आयुष्यम् आरोग्यम् अ-लोलुपत्वं दुःस्वप्न-नाशं च मतिश् च मेधा ॥
सन्ध्या-स्नानं प्रभाते च मध्याह्ने च ततः पुनः ।
इत्य्-आदि । सिद्धोपाय-निष्ठैः प्रपन्नैः देवतान्तर उपायान्तर-सम्बन्ध-भीत्या ब्रह्मास्त्र-शण-वल्कल-न्यायेन सिद्धोपाय-प्रच्युति-भीत्या च ॥
[[P121]]
प्रपन्नानां फलार्थं गङ्गा-स्नानादि-निषेधः [[??]]
मनुः –
यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः ।
तेन चेद् अ-विवादास् ते मा गङ्गां मा कुरून् गमः ॥
तेन सर्वाधिराजेन विवस्वद्-बिम्ब-वर्तिना ॥
अ-विवादस् तु तस्यैव पादयोर् आत्मनो ऽर्पणम् ॥
इत्य्-आदि-शास्त्रोक्त-रीत्या च फलार्थं गङ्गा-समुद्र-स्नानादिः परित्याज्यः ॥
पाप-प्रशमनार्थं प्रायश्चित्तार्थम् अपि तन् न कर्तव्यम्
ननु पाप-शमनार्थं वा प्रायश्चित्तार्थं गङ्गा-स्नानादिकं कर्तव्यम् इति चेन् न श्री-विष्णु-धर्मे अष्ट-सप्ततितमे –
मेरु-मन्दर-मात्रो ऽपि राशिः पापस्य कर्मणः ।
केशवं वैद्यम् आसाद्य दुर्व्याधिर् इव नश्यति ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि ।
यथेषीका-तूलम् अग्नौ प्रोतं प्रदूयेत ।
एवं हास्य सर्वे पाप्मानः प्रदूयन्ते ।
तस्य उदिति नाम उदेति ह वै सर्वेभ्यः पाप्मभ्यः य एवं वेद । तम् एवं विदित्वातिमृत्युम् एति ।
इत्य्-आद्य्-उक्त-रीत्या प्रपत्ति-विद्या-वेद्यस्य भगवतः माहात्म्येनैव प्रपन्नानां तेषां अन्-आदि-पाप-सञ्चयस्य अन्-अन्तस्यापि –
प्रपन्नैः भगवतो माहात्म्येनैव पापापनोदनम् [[??]]
दुराचारो ऽपि सर्वाशीः कृत-घ्नो नास्तिकः पुरा ।
समाश्रयेद् आदि-देवं श्रद्धया शरणं यदि ।
निर्दोषं विद्धि तं जन्तुं प्रभावात् परमात्मनः ॥
इत्य् उक्त-रीत्या निश्शेष-विनाश-सम्भवात् । प्रपत्त्य्-अन्-अन्तर-पापानाम् अपि, प्रायश् चित्तिर् इयं सात्र यत् पुनः शरणं व्रजेत् । शरणं व्रजेद् इति – यत् पुनः यत् तु इत्य् अर्थः । किञ्चित् पदोत्तरं श्रूयमाणस्य पुनः-शब्दस्य आवृत्त्य्-अर्थकत्वाभावात् । अतः प्रथम-दशायां सम्भाविता, या प्रपत्तिः, सैवात्रानन्तर-काल-प्रसक्त-पाप-विषये ऽपि प्रायश्चित्तिस् स्याद् इत्य् अर्थः ।
[[P122]]
सामान्य-शास्त्रोक्त-प्रायश्चित्तानुष्ठाने महा-पातक-तुल्यत्वं इत्य् अत्र प्रमाणम् [[??]]
प्रायश्चित्तान्य् अ-शेषाणि तपः कर्मात्मकानि वै ।
यानि तेषाम् अ-शेषाणां कृष्णानुस्मरणं परम् ॥
इत्य्-आद्य्-उक्त-रीत्या पूर्व-कृत-प्रपत्ति-विद्या-वेद्य-सनातन-धर्मात्मक-कृष्णानुस्मरणेनैव निवृत्ति-सम्भवात् । नरस्य बुद्धि-दौर्बल्याद् उपायान्तरम् इष्यते इति उपायान्तर-गवेषणस्य बुद्धि-दौर्बल्य-कार्यत्वेन गर्हितत्वात् ।
तृतीयो द्वि-विधो राशिः उत्पन्नार्थ-नाशनः ।
तम् अंशं नैव कुर्वीत मनीषी पूर्व-राशिवद्
इति प्रायश्चित्तात्मक-कर्मणां महा-पातक-तुल्यतया प्रपन्नं प्रति विशेषतः निषिद्धत्वाच् च । तेषां पाप-प्रसङ्गाभावेन तेषां सर्व-पापवत्ता-कथनस्य बाधितत्त्वाच् च । सर्वत्र तत्-तद्-अधिकारि-भेदेन तत्-तत्-कर्तव्य-व्यवस्था वक्तव्येति सर्व-शिष्ट-सम्मतम् । तथोक्तं सच्चरित्र-परित्राणे परमैकान्ति–स्व-रूपम् आह भरद्वाजः –
न्यस्ताशेष-भरः श्रीशे यस् तु दास्यैक-जीवितः । स एव परमैकान्ति
इति ।
अन्यत्रापि – देवतान्तर-शब्दादि-भक्ति-कृष्णाख्य-हेतुषु । साम्य-कृत-परमैकान्तित्य् आचार्य-निष्ठो ऽपि परमैकान्तीत्य् उच्यते ।
गुरुणा यो ऽभिमन्येत गुरुं वा यो ऽभिमन्यते ।
ताव् उभौ परमां सिद्धिं नियमाद् उपगच्छतः ॥
इत्य् आचार्य-निष्ठौ भरद्वाजेन विभक्तौ ।
एतेषां अभिगमनादि-पाञ्चकालिकं यथार्हं आवश्यकम् [[??]]
एतेषाम् अभिगमनादि-पाञ्चकालिकं यथार्हं भगवत्-प्रीत्य्-अर्थम् आवश्यकम् । तद् आह शाण्डिल्यः –
यथौषधीनाम् अमृतं मणीनां कौस्तुभो यथा ।
सर्वेषाम् अपि धर्माणां श्रेष्ठो भागवतो विधिः ॥
सर्व-धर्मान् समुत्सृज्य पाञ्चकाल्यम् अनुव्रताः ।
व्यामिश्र-योग-निर्मुक्ता गच्छन्ति पुरुषोत्तमम् ॥
इति ।
भरद्वाजश् च –
कृत्वाभिगमनं पूर्वम् उपादाय च सम्पदः ।
इष्ट्वा ऽधीत्य च युञ्जानो भागैः कालं नयेद् इति । इह श्रुत्य्-आदि-नियता वृत्तिर् एव स्वयं फलम् ।
परत्र तु परेशस्य कामात् काम-प्रवृत्तयः ॥
इति च ।
मन्यन्ते च स्वकीयान् नः स्व-प्रीत्यै स्वोचितां स्वयम् ।
नाथः स्वकीय-सेवां तां वृत्तिं कारयतीति वै ॥
इति च ।
वासिष्ठ-संहितायां –
यस् तूपायतया नित्यं नित्य-नैमित्तिकादिकम् ।
सत्कृत्यं कुरुते विष्णोर् वैष्णवस् स उदीरितः ॥
विष्णोर् आज्ञया तया यस् तु सत्कृत्यं कुरुते बुधः ।
स एकान्तीति मुनिभिः प्रोच्यते वैष्णवोत्तमः ॥
इति ।
[[P123]]
वैष्णव-एकान्ति-परमैकान्तिनां भेदः उपायतया ऽनुष्ठानम्, कैङ्कर्यतया ऽनुष्ठानं भोगतया ऽनुष्ठानं इति [[??]]
यस् तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा ।
स एव परमैकान्ती महा-भागवतोत्तमः ॥
अत्र सत्कृत्य-शब्देन अभिगमनादि-पाञ्चकालिकम् उच्यते । निषिद्ध-वर्जन-विषये तु –
वर्जनीयम् अ-कृत्यं तु सर्वेषां करणैस् त्रिभिः ।
अत्र सर्वेषाम् इति वैष्णवैकान्ति-परमैकान्तिनो विवक्षिताः । अत्र मन्दाधिकारि-विषये अ-कामतस् तु यत्-प्राप्तं प्रायश्चित्ताद् विनश्यतीति । उत्तमाधिकारिणां तत्र रुच्य्-अ-भावेन अ-कृत्यानवकाशः । तद् अप्य् उक्तं वासिष्ठ-संहितायां –
अ-कृत्यं वैष्णवः पाप-बुद्ध्या शास्त्र-विरोधतः ।
एकान्ती परमैकान्ती रुच्य्-अ-भावाच् च सन्त्यजेत् ॥
इति ।
विहित-करणं तु काम्य-गन्धास्पृष्ट-नित्य-नैमित्तिकानुष्ठान-रूपम् इति नित्य-नित्यं[[??]] प्रपन्नस्येत्य्-आदिषूक्तम् । परमैकान्तिनां नित्यं कर्म-भेद-न्यायेन अ-प्रपन्न-कर्मणः कर्मान्तरं भगवत्-प्रीत्य्-एक-प्रयोजनकम् । यद् वा संयोग-पृथक्त्वेन भगवत्-प्रीति-फलकं प्रयोगान्तरम् इति पक्ष-द्वयम् । कारुणिकानां तु आनृशंस्य-मूलकं तद्-अनुष्ठानम् इत्य् अपि पक्षो ऽस्ति । एतत्-पक्ष-त्रयं विस्तर-रहस्यादिषु स्थितम् ॥ अभिगमनादि–स्व-रूपं शाण्डिल्येन विस्तरेणोक्तं तत्रैव द्रष्टव्यम् ॥
प्रतिदिनं सायं अग्नि-कार्यं कर्तव्यं इत्य्-अत्र प्रमाणम् [[??]]
अग्नींश् च जुहुयात् प्रातः मेध्यैर् एव समिद्-गणैः ।
हुत्वा जप्त्वा तथा स्तुत्वेति सायं प्रातः शाण्डिल्येन होमो ऽभिहितः ।
भरद्वाजेन तु –
यद् वा परम-संस्काराः प्राप्या गुरु-समानतः ।
सर्वत्र हरिर् एवार्च्यो नाग्नि-कर्मेति केचनेत्य् उक्तम् ।
अतो ऽग्नि-कर्म कार्यं न वेति यथोचितं ग्राह्यम् ॥
पाञ्च-कालिक-कर्मानुष्ठाने अभिगमनाद्य्-अन्यतमेन सार्वकालिकानुष्ठाने प्रमाणम् [[??]]
पाञ्चकालिक-कर्म-विषये ऽपि अभिगमनादीनां पञ्चानाम् अनुष्ठानम् उक्तम् । तद्-अभावे त्व् इज्यैव पाञ्चकालिक-स्थानापन्ना । तद् आह भरद्वाजः —
प्राप्त्याभिगमनं दृष्ट्योपादानं मनसार्चनम् ।
स्वाध्यायः कीर्तनाद्योग-स्वार्पणाद् अपि केवलम् ।
एवं विद्वान् एकदा ऽपि कुर्वन् स्यात् पाञ्चकालिकः ॥
इति ।
इदं तु भगवद्-इज्या-प्रधानाधिकारि-विषयम् । स्वाध्याय-प्रधानस्यापि तेन पाञ्चकालिकत्वं सिध्यति ।
[[P124]]
आचार्य-निष्ठस्य तु तद्-आराधनम् एव तत्-स्थानापन्नम् [[??]]
तद् अप्य् उक्तं भरद्वाजेन –
कृतं भवति वा सर्वम् इज्ययैव हि केवलम् ।
स्वाध्यायेनापि विदुषः सर्वं योगेन वा कृतम् इति ॥
स्व-रूप–याथात्म्यानुसंधान-रूप-योग-प्रधानाधिकारि-विषये सर्वं योगेन वा कृतम् इति । सर्वं अभिगमनादीनि पञ्चेत्य्-अर्थः । आचार्य-निष्ठस्य तु तद्-आराधनम् एव पाञ्चकालिक-स्थानाभिषिक्तम् । तद् आह — “पूजनेन गुरोर् वापी"ति ।
तदीयार्चन-निष्ठस्य तद् एव तत्-स्थानापन्नम्
इत्य् अपि तेनैवोक्तं — “सतां वा परिवेषणाद्” इति । तत्-तत्-प्रधानाधिकारिणाम् इतराणि चत्वारि सङ्ग्रहेणानुष्ठेयानीति भावः ॥
स्वाध्याय–स्व-रूपम्
स्वाध्याय–स्व-रूपं च शाण्डिल्येनोक्तं –
सच्-छास्त्र-पाठ-पठनैः शास्त्रार्थस्यापि शिक्षया ।
शास्त्रार्थ-ज्ञापनैर् वा ऽपि शिक्षयेच् छास्त्रम् आदरात् ।
व्याख्यानैर् लेखनैर् वा ऽपि ग्रन्थ-निर्माण-कर्मणा ।
शिष्याणां शिक्षया वा ऽपि स्वाध्यायार्थो ऽयम् उच्यते ॥
इत्य्-आदि । भरद्वाजश् च –
साङ्गान् वेदान् अधीयीत न्यायैश् चार्थं विचिन्तयेत् ।
इत्य् आरभ्य सद्भिः प्रणिहितांश् चान्यान् प्रबन्धान् परिशीलयेद् इत्य् अन्तं विस्तरेणाह ।
स्व-रूप–रूप-विभव-गुण-कर्मादि-शार्ङ्गिणः ।
व्याचक्षीत निबध्नीयात् शृणुयाद् विलिखेत् पठेत् ॥
इति । योग–स्व-रूपं शाण्डिल्येनोक्तम् । ईदृशः परमात्मायं प्रत्यग्-आत्मा तथेदृशः । तत्-सम्बन्धानुसन्धानम् इति योगः प्रकीर्तितः । इत्य्-आदिना ।
सर्वाधिकारिणाम् अपि निषिद्ध-वर्जनं आवश्यकम्, प्रायश्चित्तं तु प्रपत्तिर् एव [[??]]
एवं पाञ्चकालिकानुष्ठानं साक्षात्-कैङ्कर्य-रूपं यद् वा कारुणिकानाम् आनृशंस्येन प्राप्तं नित्य-नैमित्तिकं कैङ्कर्य-कोटि-घटितम् इति पक्ष-द्वयं पूर्वाचार्य-ग्रन्थेषु स्थितम् । सर्वाधिकारिणाम् अपि निषिद्ध-वर्जनम् आवश्यकं, प्रायश्चित्तं तु प्रपत्तिर् एव ।
पूर्वेषाम् उत्तरेषां च न्यासो नाशाय पाप्मनाम् ।
सर्वेषाम् अपचाराणाम् अयं हि क्षामणं भवेद्
इति भरद्वाज-परिशिष्टाद्य्-उक्तेः ।
प्रतिपदोक्तं तु लोक-सङ्ग्रहार्थम् इतीति । तत्रैव — परमैकान्तिनां भगवद्-आराधन-योगितयैव स्नानम् अनुष्ठेयं तद् आह शाण्डिल्यः —
विशुद्ध-दन्त-वपनो निर्मली-कृत-विग्रहः ।
शुद्धो दक्षः प्रसन्नात्मा यथा लब्धैः समर्चयेत् ।
सतीनां योषितां देहो यथोपकरणं भवेत् ।
भर्तृणां भगवद्-भक्त-देहस् तद्वज् जगद्-गुरोः ॥
इति । पूर्वोक्त-शौचादिकम् अपि तद्-उपयोगितयैव कार्यम् इति स्फुटम् ॥
[[P125]]
षड्-विधेषु स्नानेषु नित्य-नैमित्तिकाव् एव प्रपन्नानां अनुष्ठेयौ [[??]]
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मल-कर्षणम् ।
क्रिया-स्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम्
इति उक्तेषु षट्सु स्नानेषु नित्यं भगवद्-आराधनार्थं परमैकान्तिभिर् अनुष्ठेयम् ।
चण्डाल-शव-धूमादि स्पृष्ट्वा स्नातां रजस्वलाम् ।
स्नानार्हस् तु यदा स्नाति स्नानं नैमित्तिकं हि तद्
इति उक्तं नैमित्तिकं स्नानम् अपि परमैकान्तिभिर् अनुष्ठेयम् । अन्यन् नानुष्ठेयम् । समुद्र-स्नानं काम्यत्वान् न परमैकान्तिभिर् अनुष्ठेयम् । स्मृति-रत्नाकरे – अथ काम्यम् इत्य् उपक्रम्य शातातपः –
यो नरः स्नान-तीर्थेषु समुद्रे सेतु-बन्धने ।
सप्त-जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति ॥
इति काम्यत्वोक्तेः । माघ-स्नानस्य काम्यत्व-संवलनान् नानुष्ठेयम् । प्रातः-स्नानेनैव प्रसङ्गाद् अनुष्ठितत्त्वम् इति न पृथग् अनुष्ठानम् । गङ्गादि-महा-नदी-स्नानं तु न नित्यम् । अ-करणे प्रत्यवायाश्रवणात् । किन्तु सति सम्भवे प्रातः-स्नानादिकं तत्र कार्यं परमैकान्तिभिः इतीति ॥
सिद्धोपाय-निष्ठानां पूर्व-प्रपदन-स्मरणम् एव प्रायश्चित्तं न तु पुनः प्रपत्तिः इत्य् अत्र प्रमाणम् [[??]]
अत्र प्रतिपदोक्तं लोक-सङ्ग्रहार्थम् इत्य् उक्तत्वेन शक्तौ प्रतिपदोक्तं स्यात् अ-शक्तौ शरणागतिर् इत्य् अत्र शक्तौ उपायान्तरानुष्ठान-शक्तौ अ-शक्तौ स्व-रूप–विरुद्धत्व-प्रयुक्त उपायान्तरानुष्ठानाशक्तौ इत्य् अर्थस् सूच्यते । अधिकार्य्-अन्तराणां प्रतिपदोक्तं प्रायश्चित्तम् । सिद्धोपाय-निष्ठानां पूर्व-प्रपदन-स्मरणं प्रायश्चित्तम्, अन्यथा —
पूर्वेषाम् अपरेषां च न्यासो नाशाय पाप्मनाम् ।
सर्वेषाम् अपचाराणाम् अयं हि क्षामणं भवेत् ॥
इति, तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः इति, नरस्य बुद्धि-दौर्बल्याद् उपायान्तरम् इष्यते । इति, नार्हन्ति शरण-स्थस्य कलां कोटितमीम् अपि इति, प्रायश्चित्तिर् इयं सात्र यत् पुनश्-शरणं व्रजेत् इति भरद्वाज-परिशिष्टादीनां जडत्वापत्तेः । अतः प्रपन्नैः कैङ्कर्योपक्तत्वेन प्रातः-स्नानादिकं करणीयम् एवेति सिद्धम् ॥
इति श्री-सद्-अनुष्ठान-दर्पणे प्रातः-स्नानादि-कर्तव्यत्व-विषयो नाम पञ्चमं प्रतिफलनम् ॥
[[P126]]
सद्-अनुष्ठान-दर्पणे षष्ठ-प्रतिफलने प्रतिपाद्यमान–स-पाद ऊर्ध्व-पुण्ड्र-धारण-विषये उदाहृतानां प्रमाणानां आकरः, ग्रन्थ-नामानि च ॥
- आथर्वण-महोपनिषत्
- शत-पथ-ब्राह्मणं (वाजसनेयकम्)
- वराहोपनिषत्
- यज्ञोपवीतोपनिषत्
- नारदीयोपनिषत्
- सच्-चरित्र-परित्राणम्
- पाद्म-संहिता
- बृहद्-भरद्वाज-स्मृतिः
- वराह-पुराणम्
- व्यास-स्मृत्य्-उत्तर-खण्डः (१४ अध्यायः)
- मरीचि-स्मृतिः
- बृहद्-भरद्वाज-धर्म-शास्त्रम्
- वैखानस-भृगु-संहिता
- पारमेश्वर-संहिता
- ख-गेश्वर-संहिता
- ब्रह्माण्ड-पुराणम्
- वैखानसे अत्रि-प्रोक्तम्
- बृहन्-नारदीये [खिलाधिकारे]
- स्कान्दे
- अत्रिः काश्यपः
- नारदीय-श्वेत-मृत्तिकोपनिषत्
- श्री-पाद्म-पुराणम्
- वासिष्ठ-संहिता
- सच्-चरित्र-रक्षा
- श्री-नारदीय-पुराणे (७४ अध्याये)
- पारमेष्ठ्य-संहिता
- अन्-अन्त-संहिता
- सद्-दर्शन-सुदर्शने
- लक्ष्मी-तन्त्रे
- विष्णु-रहस्ये
- ऊर्ध्व-पुण्ड्र-विजयः
- ऊर्ध्व-पुण्ड्र-निर्णये
- ऋग्-वेदे
- बृहत्-सेन-संहिता
- पाद्मोत्तरम्
- भार्गव-पुराणम्
- कारण-संहिता
- पराशर-माधवीये
[[P127]]
- बृहन्-नारदीये
- कालाग्नि-रुद्रोपनिषत्
- गारुडे
- तैत्तिरीय-श्रुतिः
- शौनकः
- सनत्-कुमार-संहिता
- अत्रि-स्मृतिः
- भगवच्-छास्त्रे
- महा-रत्न-कोशे
- नारायण-संहिता
- महोपनिषत्
- आग्नेयम्
- ब्राह्मे
- वामन-पुराणे
- श्री-कूर्मे
- शाण्डिल्य-स्मृतिः
- भविष्यत्-पुराणे
- भागवतम्
- निर्णय-सिन्धुः
- आनन्द-संहिता
[[P128]]