४ सङ्कल्पानावश्यकत्व-विचारः

॥ तुरीय-प्रतिफलनम् ॥

सर्व-कर्मस्व् अपि सङ्कल्पानवश्यकत्व-विषये प्रमाणम् –

पराशर-विश्वामित्र-गर्गादि-स्मृत्य्-अनुसारेण प्रातः-स्नाने सङ्कल्पो ऽनावश्यकः [[??]]

प्रपन्नानां सर्व-कर्मस्व् अपि सङ्कल्पः अन्-आवश्यकः केषाञ्चित्-स्नानादि-कर्मणां सङ्कल्पः अन्-आवश्यकः । केषाञ्चित्-कर्मणाम् आवश्यकः, वचनात्, शिष्टाचाराच् च । तथाहि पाराशरे –

प्रातर् उत्थाय सततं शौचं कृत्वा यथा-विधि ।
प्रक्षाल्य पादौ हस्तौ च पश्चाद् आचमनं चरेत् ॥
ततः स्नानं प्रकुर्वीत दन्त-धावन-पूर्वकम् ॥

इति ।

विश्वामित्र-स्मृतौ –

उषः-काले समुत्थाय शौचं कृत्वा विधानतः ।
दन्त-काष्ठम् अथाचम्य पर्व-वर्जम् अ-तन्द्रितः ।
कृत-स्नानो जपेत् तावद् यावद् आदित्य-दर्शनम् ॥

इति ।

श्रीमद्-वर-वर-मुनि-प्रणीत-संस्कृताराराधन-क्रम-ग्रन्थे –

प्रातः स्नात्वा नित्य-कर्म कृत्वा पाद-द्वयं करौ । प्रक्षाल्याचम्य पुरतो विष्णोर् गुरु-परम्पराम् ॥

इति । इत्य्-आदौ स्नानात्-पूर्वं सङ्कल्पो नोक्तः ॥

अधिकारि-भेदेन सङ्कल्पावश्यकत्वादिः प्रदर्शितः सच्-चरित्र-परित्राणे गर्गः –

श्रुति-स्मृतिषु यत्-कर्म चोदितं विधि-शासनात् ।
प्राणान् आयम्य सङ्कल्प्य कुर्यात् तत्-कर्म आदरात् ॥

इति ।

मनुः –

प्रक्षाल्य पादौ हस्तौ च आचान्तो वाग्यतः शुचिः ।
तिथि-वारादिकं स्मृत्वा सु-सङ्कल्प्य यथा-विधि ॥

इति ।

भरद्वाजः –

स-दर्भ-हस्तौ जानूर्ध्वे दक्षिणं दक्षिणोत्तरे ।
कृत्वा निधाय कर्तव्यम् एतत्-कर्म करोति यत् ॥
स्व-मानसेन स्मरणं तत्-सङ्कल्प इति स्मृतः ।
एवं सङ्कल्प्य विधिना ततः स्नानं समाचरेत् ॥

इति ।

भरद्वाज-संहितायां तु –

मन्यन्ते च स्वकीयान् न स्व-प्रीत्यै स्वोचितां स्वयम् ।
नाथः स्वकीय-सेवान्ताम् वृत्तिं कारयतीति वै ॥

इति ।

[[P119]]

विवाहोपननादिषु मन्वाद्य्-उक्त-सनियम-सङ्कल्पः अभिगमनादिषु पञ्चसु कृतं च करिष्यामीति सङ्कल्पः, सन्ध्या-वन्दनादिषु आज्ञा-कैङ्कर्यम् इति सङ्कल्पः [[??]]

अत्र च मन्वाद्-उक्त-तिथि-वारादि-स्मरण-दक्षिण-जानूर्ध्व-हस्त-द्वय-निधानादि-पूर्वक-सङ्कल्पस्य भरद्वाज-संहितोक्तस्य

नाथः स्वकीयं मां स्व-प्रीत्यै स्वयम् एव स्वकीय-सेवां स्वोचितां कारयति

इति मननात्मकस्य च सङ्कल्पस्य प्रपन्न-विषये विकल्पः । स च व्यवस्थितः । तत्र विवाहोपनयनादिषु पैतृकादिषु च तिथि-वारादि-कीर्तन-पूर्वकस् सङ्कल्पः । अभिगमनादिषु पञ्चसु, तिथि-वार-कीर्तनादि-विरहितः कृतं च करिष्यामि इत्य्-आदिक-सङ्कल्पः । देव-र्षि-पितृ-तर्पण–सन्ध्या-वन्दन–ब्रह्म-यज्ञादिषु तिथि-वार-कीर्तनादिकं विना “कैङ्कर्यम् अखिला वृत्तिः” इति भरद्वाजोक्त-रीत्या

श्री-भगवद्-आज्ञा-कैङ्कर्यं देव-र्षि-पितृ-तर्पणं करिष्ये

इत्य्-आदि-सङ्कल्पः ॥

यद्य् अपि आनुकूल्यस्य सङ्कल्पः यावज्-जीवं विहित-कर्मानुष्ठान-सङ्कल्प-रूपः प्राग् एवानुष्ठितः ॥ तत एव प्रपन्नस्य नित्य-कर्मसु सङ्कल्पः पृथक् पृथक् नापेक्षितः । अत एव च नित्य-स्नानादिषु शिष्टाः सङ्कल्पं नानुतिष्ठन्ति । तथापि शिष्टाचारानुरोधात् वैकल्पिकं सङ्कल्पानुष्ठानं कर्मसु उपपन्नम् । मन्वादिभिः सङ्कल्प-विशेषस्य नैयत्य-वचनं प्रपन्नेतर-विषयम् । प्रपन्न-विषये तु सङ्कल्पस् तत्-प्रकार-भेदश् च वैकल्पिकः । न च “सकलाङ्गोपसंहारे काम्यं कर्म प्रसिध्यती"ति अङ्गोपसंहार-न्यायश् शङ्क्यः । कर्तव्य-कर्म-स्मरण-रूप-सङ्कल्पस्य नाथ-स्वकीय-सेवाम् इत्य्-आदि-रूप-सङ्कल्पस्य च स्व-रूप–भेदेन तन्-न्यायानवतारात् । निबन्धन-कारैश् च स्नानादि-सङ्कल्पेषु भगवानेवेत्य्-आदेर् अभिगमनादि-सङ्कल्पेषु तिथि-वार-स्मरणादेश् चालेखनात् । अतो यथा-शिष्टाचारं क्वचित् सङ्कल्पः, क्वचित् तद्-अभावश् चोपपन्नः ॥

तत्र येषु कर्मसु सङ्कल्पो नानुष्ठीयते शिष्टैः, तेषु प्रपत्त्य्-अनुष्ठान-काले पूर्वम् एवानुष्ठिता यावज्-जीवं विहित-कर्मानुष्ठान-सङ्कल्पः इदानीं प्रसङ्गात् उपकरोति येषु कर्मस्व् अद्य यादृशो ऽनुष्ठीयते सो ऽपि तेषु अभ्युच्चयतया उपकरोती इति ॥

[[P120]]

श्री-भाष्य-कारोक्त-नित्याराधने सङ्कल्पः, श्री-वर-वर-मुनीन्द्र-प्रणीत आराधने सङ्कल्प-विरहः

अत्रेदम् अवधेयं आनुकूल्यस्य सङ्कल्पादीनां व्रीह्य्-अवघात-स्वेद-न्यायेन सम्भावित-स्वभावत्वम् । श्री-भाष्य-कार-प्रणीत-नित्याराधनानुष्ठाने प्रपन्नं प्रत्युक्त-सङ्कल्प-विशेषः श्रीमद्-वर-वर-मुनि-प्रणीताराधना-क्रमानुष्ठाने तद्-ग्रन्थानुक्तत्वेन सङ्कल्प-विरहश् चेति विवेकः । इदानीं श्रीमद्-वर-वर-मुनि-प्रणीताराधन-क्रमोपदेशः सार्वत्रिकः इति । अतः प्रपन्नानां सङ्कल्पः अन्-आवश्यक एव ॥

इति श्री-सद्-अनुष्ठान-दर्पणे सर्व-कर्मसु सङ्कल्पानावश्यकत्व-विषयो नाम तुरीयं प्रतिफलनम् ॥