३ पवित्रधारणानावश्यकत्वविषयः

॥ तृतीय-प्रतिफलम् ॥

स-हेतुकं सदा दर्भ-पवित्र-धारणानावश्यकत्वं कर्णे तुलसी-धारणं च

सदा पवित्र-धारणानवश्यकत्व-विषये प्रमाणम्

प्रपन्नानां सदा दर्भ-पवित्र-धारणम् अनावश्यकं वचनात्, शिष्टाचारच् च । तथाहि

वासिष्ठ-संहितायाम्

पवित्रेण हस्तेन षट् कर्माणि समाचरेत् । पवित्र-रहितान्यानि विफलानि भवन्ति हि

इति ।

चन्द्रिकायां “दर्भ-पाणिस् सदा तिष्ठेद्” इति । अ-पवित्र-कृतं कर्म विप्रस्य विफलं भवेद् इति च पवित्र-धरणस्य फल-वैशिष्ट्य-प्रतिपादनेन लक्ष्मी-तन्त्रादौ तम् अंशं नैव कुर्वीतेत्य्-आदिभिः फलाभिषङ्ग-युक्तस्य प्रपन्नानावश्यकत्व-प्रतिपादनात् सर्वदा तद्-धारणम् अन्-आवश्यकम् । तथोक्तं

पूर्विक-संग्रहे

अङ्गुष्ठानामिकाभ्यां तु छिन्नं पैतामहं शिरः ।
रुद्रेण जाति-स्मरणात् ततः कालात् करो ऽशुचिः ॥

तस्मात् पवित्र-हस्तार्थं कुश-काञ्चन-धारणम्

इति व्यास-स्मरणात् । ब्रह्म-शिरश्-छेदन-प्रयुक्ताशुचि-निवर्तन-द्वारैव पवित्रस्य कर्मोपयोगित्वं स्पष्टम् । ततश् च सर्वात्मना प्रपन्नस्य ब्रह्म-रुद्रादि-सम्बन्धाभावस्य “देव-र्षि-भूतात्म-नृणाम्” इति वचन-सिद्धतया रुद्र-कृत-शिरश्-छेद-मूलकाशुद्ध्य्-अ-प्रसक्तेः ॥

शृतास इद्वहन्तः तेन पूतस् तरति

इत्य्-आदि-श्रवणात्,

[[P31]]

पञ्च-संस्कारेणैव पूतत्त्वाच् च, दर्भ-पवित्र-धारण-निष्फलम् एव । प्रत्युत ब्रह्मास्त्र-शण-वल्कल-न्यायेन दर्भ-पवित्र-धारणेन चरणं पवित्रम् इत्य् उक्त-पवित्र-धारणम् अवमानितं भवेद् इति

सच्-चरित्र-परित्राणे रत्नावल्याम्

तस्मात् पवित्रं सततं द्विजैर् वेद-परायणैः ।
कर्मानुष्ठान-निरतैर् धार्यं नेतर-जातिभिः ॥

इति ।

विश्वामित्रः

पवित्रं धारयेन् नित्यं कौशेयं दक्षिणे करे ।
भोजनादौ विशेषेण ह्य् अन्न-दोषैर् न लिप्यते ॥

इति ।

अन्यत्रापि अशुचिर् अ-पवित्र-करः प्रलपन् न जपेद्

इति, दर्भ-पवित्र-धारणस्य नियतत्वम् उक्तम् । तथापि

हारीतेन

जप-कर्म-हरा एते ह्य् असुरा व्यक्त-रूपिणः ।
पवित्र-कृत-हस्तस्य विद्रवन्ति दिशो दश

इति पवित्र-धारणस्य असुर-विद्रवणं फलम् इत्य् उक्तम् ।

स-पवित्रेण यो भुङ्क्ते सर्व-यज्ञ-फलं लभेद्

इति च काम्यत्वं तेनैव उक्तम् ।

विश्वामित्रेण च –

भोजनादौ विशेषेण ह्य् अन्न-दोषैर् न लिप्यते

इति पवित्र-धारणस्य, “अन्न-दोष-स्पर्शाभावः फलम्” इत्य् उक्तम् । तस्मात् “पवित्रं सततम्” इति वचनम् इतर-जातीनां पवित्रं निषेध-परम् ॥

तच्-छेषतया तु तस्मात् “पवित्रं सततम्” इत्य्-आदिकम् इति, न तत्र द्वि-जानां धारण-नियमे तात्पर्यम् । तथा च एतत् सर्वं वैष्णव-व्यतिरिक्तनां अत्यावश्यकं वैष्णवानां तु नावश्यकम् ।

भूत-प्रेत-पिशाचाश् च डाकिन्यश् च वसुन्धरे ।
सर्वं तत् प्रशमं याति यत्र चक्राङ्कितो वसेत् ॥
राक्षसाश् च पिशाचाश् च गन्धर्वा दैत्य-दानवाः ॥
कृष्णायुधाङ्कितं दृष्ट्वा नश्यन्ति दूरतः ।

इत्य्-आदि-वराह-ब्रह्माण्ड-वचनैः असुराद्य्-अन्-अवकाशागमात् । सर्वेषणा-विनिर्मुक्तानां यज्ञ-फल-कामना-विराहात् न तद्-अर्थं भोजने पवित्र-धारणम् आवश्यकम् । भगवद्-याग-शिष्टाशिनां अन्न-दोषानवकाशेन तद्-अस्पर्शार्थम् अपि पवित्र-धारणम् अन्-आवश्यकम् । पवित्र-धारणेन विना कृतस्य कर्मणः क्वचिद् आसुरत्व-कथनं हरि-वचनानुसारेण असुर-ग्राह्यत्व-परम्, न तु प्रत्यवाय-परम् ।

कर्ण-मूले तु तुलसीं यस् तु धारयते नरः ।
अहो-रात्र-कृतं पापं तस्य नश्यति तत्-क्षणात् ॥

इत्य् उक्त-तुलसी-धारणवत्-फलार्थत्वात् अ-नित्यम् एवेदं दर्भ-पवित्र-धारणम् । एवं सत्य् अपि वैष्णवैः केषुचित् कर्मसु दर्भ-पवित्र-धारणम् अभ्युच्चयः ॥

[[P32]]

राजत-पवित्र-धारण-निषेधः - स्वर्ण-पवित्र-धारणं, कर्मसु विश्वामित्रम् एव शोभनम् - न कुश-काशौ

कैश्चिद् वैष्णवैस् सर्व-कर्मसु तद्-धारणम् अपि अभ्युच्चय-मात्रम् । इति । करणे अभ्युदय-जनकं कर्म अन्-आवश्यकम् ।

दार्भं पवित्रं सौवर्णं सर्व-कर्मसु शोभनम् ।
पवित्रं राजतं त्याज्यं वैष्णवैस् तु विशेषतः ॥
पवित्रं राजतं धार्यं शिव-भक्तैर् विशेषतः ।
रुद्र-नेत्रोद्भवं यस्माद् दैवे कर्मणि वर्जयेत् । विश्वामित्रं वैष्णवेन सर्व-कर्मणि शोभनम् ॥ धार्यम् इत्य् आह भगवान् मनुः स्वायम्भुवो मुनिः ॥

इति वासिष्ठ-संहितोक्त-रीत्या

स्मृतौ

कुशं ब्रह्ममयं प्राक्तं विश्वामित्रं तु वैष्णवम् ।
काशं रुद्रमयं प्रोक्तं तस्मात् तत् परिवर्जयेत् ॥

इति ।

सौवर्णं दर्भ-जन्यं च पवित्रम् उभयं वरम् ।

इति काश्यप-स्मृत्य्-उक्त-रीत्या,

कुशया वा सुवर्णेन पवित्रं धारयेच् छुचिः

इति पराशर-संहितोक्त-रीत्या च,

अन्यानि च पवित्राणि कुशा-दूर्वात्मकानि च । हेमात्मक-पवित्रस्य ह्य् एकां नार्हन्ति वै कलाम् ।

इत्य् उक्त-रीत्या च सदा शिष्टैः सौवर्ण-पवित्र-धारणम् अनृशस्यार्थम् इति ज्ञेयम् । अतः प्रपन्नानां सर्वदा दर्भ-पवित्र-धारणम् अन्-आवश्यकम् । यथोक्त-प्रकारानावश्यकत्वे करिष्य इति संकल्प-पूर्वकं कर्मणाम् अनुष्ठान-प्रसङ्ग इति नाशङ्कनीयम् ॥

योग-वासिष्ठे

सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् ॥

इति ।

योग-शास्त्रे

जातस्य द्वि-विधौ ज्ञेयौ पन्थानौ वेद-चोदितौ ।
अनुष्ठितौ तु विद्वद्भिः प्रवर्तक-निवर्तकौ ।
वर्णाश्रमोक्तं यत्-कर्म काम-संकल्प-पूर्वकम् ॥
प्रवर्तकं भवेद् एतत् पुनर्-आवृत्ति-हेतुकम् ।
कर्तव्यम् इति विध्य्-उक्त-कर्म-काम-विवर्जितम् ॥
येन तत् क्रियते सम्यक् प्रज्ञा-युक्तं निवर्तकम् ।
निवर्तकं तु पुरुषं निवर्तयति जन्मतः ॥
प्रवर्तकं तु सर्वत्र पुनर्-आवृत्ति-हेतुकम् ।

इति ॥

[[P33]]

वैष्णवानां इतराणां च सङ्कल्प-भेद एव कर्म-भेद-कारणम्

भरद्वाज-स्मृतौ

बह्यस् सदा सतां नास्ति भेदः प्रायेण कर्मसु ।
संकल्पाद् एव भिन्नानि स हेतुर् बन्ध-मोक्षयोः ॥
जगद्-धातुर् महेहस्य दिव्याज्ञा-धारिणो वयम् ।
इतीति याः क्रियाः कुर्युः स्निग्धा ये वैष्णवास् तु ते ।

इति ।

पुराण-सङ्ग्रहे

ब्रह्मण्य् आधाय कर्माणि निस्सङ्गः काम-वर्जितः ।
प्रसन्नेनैव मनसा कुर्वाणो याति तत्-पदम् ॥

इति प्रपन्नानुष्ठेयांशस्य लोक-रीत्या कर्तव्यत्व-प्रतिपादनात् ।

प्रपन्नाधिकारिणां अज्ञ-ज्ञानाधिक-भक्ति-पारवश्यत्वेन त्रैविध्यम्

अत्रेदम् अवधेयं

प्रपन्नाधिकारिणः त्रि-विधाः, अज्ञाः, ज्ञानाधिकाः, भक्ति-परवशाश् च

इति ।

अज्ञ-प्रपन्नाः प्रथमं भगवल्-लाभार्थ-साधनानुष्ठानोचित–ज्ञान-शक्ति-रहिताः अस्मद्-आदयः ।

ज्ञानाधिक-प्रपन्नाः ज्ञान-शक्ति-सद्भावे ऽपि भगवद्-अत्यन्त–पर-तन्त्र–स्व-रूप–याथात्म्य-दर्शन-प्रयुक्त–स्व-रूप–विरुद्धोपायान्तर-परित्यागोचित-ज्ञान-पूर्ति-युक्ताः श्रीमन्-नाथ-यामुन-यति-वर-लोकाचार्य-वर-वर-मुन्य्-आदयः ।

भक्ति-परवश-प्रपन्नाः भगवन्-निर्हेतुक-प्रसाद-लब्ध-भक्त्य्-अतिशयायत्त-करण-शैथिल्यात् एकैक-साधनानुष्ठानाक्ष-मतया अन्-अनन्य-गतयः अर्चावतारे प्रपत्तिं कुर्वाणाः श्रीमच्-छठारि-सूरि-प्रभृतयः ॥

अत्र प्रमाणानि लक्ष्मी-तन्त्रे

इदं शरणम् अ-ज्ञानम् इदम् एव विजानताम् ।
इदं तितीर्षतां पारम् इदम् आनन्त्यम् इच्छताम् ॥

इति ।

शौनक-वचने

अज्ञ–सर्व-ज्ञ–भक्तानां गतिर् गम्यो भवेद् धरिः ।

इति ।

श्री-भट्टार्य-सूक्तौ

अ-विद्यातो देवे परिवृढतया वा विदितया
स्व-भक्तेर् भूम्ना वा जगति गतिम् अन्याम् अ-विदुषाम् ।
गतिर् गम्यश् चासौ हरिर् इति जितन्ताह्वदय-मनो-
रहस्यं व्याजहे स खलु भगवन् शौनक-मुनिः ॥

इति ।

श्री-वचन-भूषण-दिव्य-शास्त्रे

अज्ञ ரும், ज्ञानाधि கரும், भक्ति-विवश ரும் इत्य्-आदि-कर्म ज्ञान-भक्ति प्रपत्ति आचार्याभिमानाः मुक्तिं प्रति पृथक् पृथक् व्याज-भूताः ।

जनकादयः कर्म-योग-निष्ठाः, भारतादयः ज्ञान-योग-निष्ठाः प्रह्लादादयो भक्ति-योग-निष्ठाः

तथैवानुगृहीतम् अर्थ-पञ्चक-रहस्ये

உபாயந்தான், कर्म-ज्ञानं भक्तिः प्रपत्ति आचार्याभिमान மென்றைந்து

इति । कर्मादीनां साधन-कोटि-निविष्टत्वे त्याज्यत्वम् । जनकादयः कर्म-योग-निष्ठाः, ज्ञान-भक्त्य्-अन्वितं कर्म जनकादिषु दृश्यते, “कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः” । इति गीतत्वात् ॥

[[P34]]

भरतादयः ज्ञान-योग-निष्ठाः “कर्म-भक्त्य्-अन्वितं ज्ञानं प्रायेण भरतादिष्व्” इत्य् उक्तेः । प्रह्लादादयो भक्ति-योग-निष्ठाः – “कर्म-ज्ञान-अन्विता भक्तिः प्रह्लाद-प्रमुखाश्रय” इति ।

दह्यमानो महोरगैः न विवेदात्मनो गात्रं तत्-स्मृत्याह्लाद-संस्थितः

इत्य्-आद्य्-उक्तेः ।

पराङ्कुश-दिव्य-सूरि-भक्तेः त्रैविध्यं श्रुत-प्रकाशिकोक्त-भक्ति–स्व-रूपम्

पराङ्कुश-दिव्य-सूरि-भक्तेः परिणाम-त्रेये “சூழ் விசும்பணி முகிலி” त्यतः पूर्वत्र पर-भक्तिः “சூழ் விசும்பணி முகிலி” इत्य् अत्र पर-ज्ञानं “முனியே நான்முகனே” इत्य् अत्र परम-भक्तिः । तथैव षट्-त्रिंशत्-सहस्रिका व्याख्यायां “முனியே நான்முகனே” इति गाथा-व्याख्यायां प्रतिपादितत्वात् । साक्षात्काराभिनिवेशः पर-भक्तिः, साक्षात्कारः पर-ज्ञानम् । अनुभवाभिनिवेशः परम-भक्तिः । इत्थं दृष्ट-विधया स्व-जातीय-साधनान्तराव्यवहित-साधनम् । श्रुत-प्रकाशिकायाम् – शुद्ध-भावं गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम् । भक्त्यस् त्व् अनन्यया – ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं चोत्य्-उक्त-प्रकारेण ज्ञान-दर्शन–प्राप्ति-साधन–भूता भक्तिर् इति भक्ति–स्व-रूपम् अनुगृहीतम् । स्थलान्तरे

दर्शनं पर-भक्तिस् स्यात् परज्ञाने तु सङ्गमः ।
पुनर्-विश्लेष-भीरुत्वं परमा भक्तिर् उच्यते ॥

इत्य् उक्तम् । पूर्वाचार्य-निर्वाहः

भक्तिस् त्रिविधा भक्ति–पर-भक्ति–परम-भक्ति-भेदात् । तत्र भक्तिर् नाम भगवद्-गत-स्वामित्व–स्व-गत–दास्यानुसन्धान-जनित-स्नेह-पूर्वक-वृत्तिः । पर-भक्तिश् च भगवत्-संश्लेष-विश्लेषैक-सुख-दुःखिता । परमभक्तिस् तु भगवद्-विश्लेषे सत्ताहानि-जनक-निरवधिक-प्रीत्यात्मक-अवस्था-विशेषः

इति ॥

भक्तिः द्वि-विधाः साधन-भक्तिः सध्य-भक्तिश् च इति

भक्तिः द्विविधा । “साधन-भक्तिः, साध्य-भक्तिश् च” इति । कर्म-ज्ञानासाध्या, अ-दृष्ट-द्वारा भगवत्-प्राप्ति–साधन-भूता भक्तिः साधन-भक्तिः । इयं स्वार्थ-परस्य उपासकस्य पूर्व-जन्म-सुकृत-विशेषेण जायते ॥

जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः ।
नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते ॥

इत्य् उक्तेः ।

[[P35]]

इयं विवेक-विमोकादि-साधन-सप्तक-वर्धिता ध्रुवानुस्मृति-रूपा प्रत्यक्ष-समानाकारा, निरतिशय-प्रीति-रूपापन्ना उभय-परिक्रर्मित-स्वान्तस्येत्य् उक्त-रीत्या कर्म-ज्ञान-संस्कृतान्तः-करणस्य चेतनस्य जायमानतया चेतन-साध्या । भगवत्-प्रसादनोपायतया तत्-प्राप्ति-साधन-भूता वेदनोपासनादि-शब्द-वाच्या भक्तिर् इति शास्त्र-सिद्धा । तथा स्वार्थानुभव-सिद्धिः । स्वयं प्रयोजन-भूता दृष्ट-विधया भगवत्-प्राप्ति-साधन-भूता भक्तिः साध्य-भक्तिः । इयं भक्तिः परार्थ-परस्य चेतनस्य निर्हेतुक-भगवत्-कटाक्षेण जायते । श्वेताश्वरोपनिषदि शेषोपनिषदि च सत्त्वस्यैष प्रवर्तकम् इति ।

महाभारते मोक्ष-धर्मे

पश्यत्य् एनं जायमानं ब्रह्मा रुद्रो ऽथ वा पुनः ।
रजसा तमसा चास्य मानसं समभिलुप्तम् ॥

इति ।

जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्विकस् स तु विज्ञेयः स वै मोक्षार्थ-चिन्तकः ।

इत्य्-आद्य्-उक्तेः । इयं विवेक-विमोकादि-साधन-सप्तक-वर्धिता ध्रुवानुस्मृति-रूपा प्रत्यक्ष-समानाकारा अत्यन्तं निरतिशय-प्रीति-रूपापन्ना, भगवत्-प्राप्ति-व्याज-साधन-भूता वेदनोपासनादि-शब्द-वाच्या, भक्तिर् इति वेदान्त-शास्त्र-सिद्धा । तथा परार्थानुभव-सिद्धिर् भवति । अत्र प्रमाणं भगवच्-छास्त्रे

साधनं भगवत्-प्राप्तौ स एवेति स्थिरा मतिः ।
साध्य-भक्तिस् स्मृता सैव प्रपत्तिर् इति गीयते ॥
उपायो भक्तिर् एवेति तत् प्राप्तौ या तु सा मतिः ।
उपाय-भक्तिर् एतस्याः पूर्वोक्तैव गरीयसी ॥
उपाय-भक्तिः प्रारब्ध-व्यति-रिक्त-घनाशनी ।
साध्य-भक्तिस् तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥

इति ॥

अनेक-प्रमाण-प्रदर्शन-पूर्वकं उपाय-भक्ति-साध्य-भक्त्योः स्व-रूप–भेद-निरूपणम्

सिद्धान्तार्थ-टिप्पणी ग्रन्थे

एवं भूतायाः भक्तेः साधनतया विधेयत्वं कथम् इत्य् आकाङ्क्षायां विवेक-विमोकादि-विशिष्ट-वेषेणोपपद्यते ।

इत्य् अभिप्रायेणाह – एवं रूपयाः ध्रुवानुस्मृतेः साधनानि यज्ञादीनि कर्माणीत्य्-आदिना । अयं भावः – राग-प्राप्ताया एव भक्तेर् यो माम् अव्यभिचारेण भक्तियोगेन सेवते ।

भज इत्य् एष धातुर् वै सेवायां परिकीर्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्ति-शब्देन भूयसी ॥

[[36]]

इत्य्-आदिभिः कैङ्कर्य-रूपत्वं च सिद्धम् । कैङ्कर्यस्य च स्वयं तु रुचिरे देशे क्रियताम् इति मा वद । इत्य् उक्त-रीत्या विधेयत्वम् आवश्यकम् । तथा च, केन रूपेण भक्तेः भगवद्-आराधन-रूपतया कर्तव्यता विधिर् इत्याकाङ्क्षायां यज्ञादि-विशिष्ट-वेषेणैवेत्य् उच्यत इति । एवं भक्ति-रूप-भगवद्-आराधनान्तर्-भावेन तद्-अङ्गतया अनुष्ठीयमानानां यज्ञादीनां भक्ति-वर्धकन्वोक्तिस् तु संभावित–स्व-भावाभिप्राया, यज्ञादि-रूप-भगवद्-आराधन-विशेषाणां स्वयं प्रयोजन-भगवन्-मुखोल्लास-जनकतया तादृश-मुखोल्लासस्य च निग्रहोपेक्षयादि-प्रत्यनीकता-स्वाभाव्यात् प्रसङ्गात् प्रतिबन्धकाभाव-सम्पादन-द्वारा भक्ति-वर्धकत्व-सम्भवात् । यथा मङ्गलार्थम् आरोपितस्यापि दीपस्य तिमिर-प्रत्यनीकता स्वभावतया यद्-दर्शन-करणत्वं प्रसङ्गात् भवति । एवम् एव स्वयं प्रयोजन-भगवन्-मुखोल्लास-जनक-कैङ्कर्यस्यापि प्रसङ्गात् भक्ति-साधनत्वम् इति नानुपपत्तिः इति । तत्रैव – एतेन भक्त्याः फलेच्छा-रूपत्वेन अधिकारि-विशेषणत्वं साधनत्वाभावश् चादर्शि । न ह्य् एवं विधायाः फलेच्छा-रूपायाः केवल-विषय-वैलक्षण्य-ज्ञानाधीनायाः कृषाय-पानवत्-साधनतया विधेयत्वम् उपपद्यते ॥

प्रपत्तिः द्वि-विधः - स्वगत-स्वीकार, परगत-स्वीकार-भेदेन श्री-वचन-भूषण-मीमांसा-भाष्य-रीत्या विवरणम्

तथा च –

जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्विकस् तु विज्ञेयस्य वै मोक्षार्थ-चिन्तकः ॥

इति भगवत्-कटाक्षाधीना या मुमुक्षा प्रतिपादिता । सैव भगवत्-कृषि-परम्पराभिः क्रमशः प्रतिबन्धकी-भूत-विषयान्तर-प्रावण्याद्य् अपगमात् उत्तरोत्तरं वर्धमाना सती

एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति

इत्य् उक्त-भगवत्-प्रयोज्याधिकारि-विशेषणी-भूताति-मात्रानुकूल्य-व्यवसायात्मकतां -

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥
मायां न सेवे भद्रं ते न वृथा धर्मम् आचरे ।
शुद्ध-भावं यतो भक्त्या शास्त्राद् वेद्मि जनार्दनम् ॥

इति ।

[[37]]

उक्त-ब्रह्म-विद्या-सहकार्यान्तर्गत-पाण्डित्याद्य्-उपकारक्त्वम्, “यम् एवैष वृणुते” इति भगवद्-वरणीयाधिकारि-विशेषणत्वम् अ-ज्ञ–सर्व-ज्ञ–भक्तानां स्व-भक्तेर् भूम्ना वेत्य् उक्त-शरणा-गत्य्-अधिकारि-विशेषणत्वम् ॥

साधनं भगवत्-प्राप्तौ स एवेति स्थिरा मतिः ।
साध्य-भक्तिस् तथा सैव प्रपत्तिर् इति गीयते ॥

इत्य्-उक्त-साध्य-भक्ति-रूपतां,

भगवन् भक्तिम् अपि प्रयच्छ मे । स्थान-त्रयोदित-पर-भक्ति-युक्तं मां कुरुष्व । ताम् एनां भगवन्न् अद्य क्रियमाणां कुरुष्व मे ।

इत्य्-आदि-प्रार्थ्यमान-मोक्ष-दशा-भावि-भगवद्-अनुभव-कैङ्कर्योपकरण-भूत-फल-भक्तिताम् ।

ततो मां तत्ततो ज्ञात्वा विशते तद्-अन्-अन्तरम् ।

इत्य्-आद्य्-उक्त-भोजनार्थ-क्षुधावत् अत्यन्ताभिनिवेश-रूपतया, भगवत्-प्राप्त्य्-अव्यवहित-हेतूनां च प्राप्नोतीति । परम-भक्ति-पर्यन्तानां भक्ति-विशेषाणां सर्वेषां मुमुक्षापरिणाम-रूपत्वात् भक्तेर् अधिकारि-विशेषणत्वम् एवेति भगवद्-अभिप्रायो दर्शितः इति स्वीकृत-सिद्ध-साधनैः प्रपन्नैः इयं साध्य-भक्तिः भगवन् भक्तिम् अपि प्रयच्छ मे । इत्य्-आद्य्-उक्त-रीत्या भोजने क्षुधावत् उपेय-भूत-कैङ्कर्योपकरणत्वेन प्रार्थ्यमाना सती इमां प्रकृतिं स्थूल-सूक्ष्म-रूपां विसृज्य तदानीम् इति गद्याद्य्-उक्त-रीत्या शरीर-वियोगानन्तरं भगवत्-प्राप्तेः पूर्वं सिध्यति । अत्र प्रमाणतया जन्मान्तर-सहस्र …

நல் தவங்களாலே க்யாத குலங்கலே பிறந்து

इत्य् आरभ्य இத்னத साध्य

இரக்கப் பிராப்திக்கு முன்னே ஸித்திக்கும்

इत्य् अन्ताचार्य-हृदय-सूक्तिर् अनुसन्धेया ॥

साधन-भक्तिः पराशरादौ, साध्य-भक्तिः प्रपन्न-जन-कूट-स्थानां भक्ति-पारवश्य-प्रपन्नानां पराङ्कुश-मुनीनां देह-यात्रा-शेषा । षट्-त्रिंशत्-सहस्रिका-व्याख्यायां प्रथम-गाथा–व्याख्याने …

இவருனடய தேஹயாத்ரா சேஷமாயிருக்கும்

इत्य् अनुगृहीतम् । इयं भक्तिः साधयित्वा लब्ध-साधन-भक्त्य्-अपेक्षया प्रार्थयित्वा लब्ध-साध्य-भूत-कैङ्कर्य-भक्त्य्-अपेक्षया च विलक्षणं अत्र இது उभय முமன்றிக்கே इत्य् आरभ्य सत्ता-भोग-ब्रत्युप[[??]] ணமாவதொன்றி त्यन्त-आचार्य-हृदय-सूक्तिर् अनुसन्धेया ॥

[[P38]]

कैङ्कर्य-रूप-भक्तिः – ज्ञानाधिक्ये प्रपन्नेषु श्रीमन्-नाथ-मुनि–यामुनाचार्य-यति-वर–वर-वर-मुन्य्-आदिषु प्रपत्तिश् च द्वि-विधा “साधन-प्रपत्तिः”, “साध्य-प्रपत्तिश् च” इति । तत्र साधन-प्रपत्तिः स्व-गत–स्वीकार-रूपा । सैव अदृष्ट-विधया साधनं स्वार्थ-कैङ्कर्य-रूपं फलम् । साध्य-प्रपत्तिः पर-गत-स्वीकार-रूपा सैव दृष्ट-विधया साधनम् अधिकारि-विशेषेण भवति पारार्थ-कैङ्कर्य-रूपं फलम् ॥

श्री-वचन-भूषण-मीमांसा-भाष्ये

தன்னால் வரும் நன்மை பால் போல், அவனால் வரும் நன்மை முக்திப் பால் போல,

इत्य्-आदि-व्याख्यानावसरे – तथा च स्व-गत–स्वीकार-पर्यन्त-साधनान्तरानुष्ठान-विषये भगवतः कर्मानुगुण-फल-प्रदत्वेनाप्रधान-कारणतया साधनानुष्ठातुश् चेतनस्यैव प्रधान-कारणत्वात्, स्व-गत–स्वीकार-पर्यन्त-साधनानुष्ठान-तत्-फल-स्वार्थानुभवादि-रुपास् सर्वे ऽपि धर्माः स्वेनैवागत-सत्वान्तर्गतत्वात् क्रीत-क्षीरवद्-दोष-दुष्टतया त्याज्या एव - पर-गत-स्वीकार-फली-भूत–स्व-गत–स्वीकार-तत्-कार्य–परार्थानुभवादि-स्थले चेतनस्य प्रयोज्यत्वेनाप्रधानतया भगवत एव प्रधान-कारणत्वात् । पर-गत-स्वीकार-फल–स्व-गत–स्वीकारदयस् सर्वे ऽपि तेनैवागत-सत्वान्तर्गतत्वात् स्तनन्धयस्य मातृ-स्तन्यवत् गुणोत्तरत्वात् सर्वेषाम् उपादेया एवेति स्व-रसत एव सिध्यति इति स्व-गत-स्वीकार-पर-गत-स्वीकार-निरूपणं कृतम् ।

[[P39]]

भगवत्-प्राप्ति-कामश् च त्रि-विधः - उपासकः साधन-प्रपत्ति-निष्ठः सिद्ध-साधन-निष्ठश् चेति एषां स्व-रूपम्

अत्र पूर्वाचार्य-निर्वाहः

भगवत्-प्राप्तिकामश् च त्रि-विधः – उपासकः, साधन-प्रपत्ति-निष्ठः, सिद्ध-साधन-निष्ठश् च

इति । तत्र उपासकः, स्व-रूपे निवृत्त-मम-कारः उपाय-पुरुषार्थयोः मम-कार-विशिष्टः । साधन-प्रपत्ति-निष्ठः स्व-रूपोपाययोः निवृत्त-मम-कारः पुरुषार्थे मम-कार-विशिष्टः । सिद्ध-साधन-निष्ठः स्व-रूपोपाय-पुरुषार्थेषु निवृत्त-मम-कार इति । अत्र चरमोपाय-निष्ठः सिद्धोपाय-निष्ठाधिकारी सर्वोत्तमः इति मन्तव्यः –

विष्णूपायो यो ऽन्य-फलस् सो ऽधमः परिकीर्तितः ।
अन्योपायो विष्णु-फलो मध्यमः परिकीर्तितः ॥
माधवाङ्घ्रि-द्वयोपायो माधवाङ्घ्रि-प्रयोजनः ।
स उत्तमो ऽधिकारी स्यात् कृत-कृत्यो ऽद्य जन्मानि ॥

इति । विहगेश्वर-संहितायां योग-पादे उत्तर-खण्डे सप्त-सप्ततितमे ऽध्याये

मत्-स्वीकार-स्व-रूपायाः प्रपत्तेर् अप्य् उपायताम् ।
इच्छन्ति केचित् दुर्दान्ताः सन्तो माम् एव मन्यन्ते ॥

अत्र तनि-चरम-रहस्ये – द्वितीय-श्लोकोत्तरार्ध-पाठोत्तरं

यस्य एवोद्यमः प्रोक्तो माधवेनैव तेन वै ॥

इति । सत्-कर्म-निरताश् शुद्धाः साङ्ख्य-योग-विदस् तथा ॥
नार्हन्ति शरण-स्थस्य कलां कोटितमीम् अपि ॥

इति भगवच्-छास्त्रे प्रतिपादनाद् इति ।

प्रपत्तेः लक्षणं व्याजत्व-लक्षणम्

स्थलान्तरे प्रपत्त्य्-आदि-लक्षणम् उक्तम्

मुमुक्षुत्वे सति भगवत्-प्रपत्ति-विरोधि-स्व-प्रवृत्ति-प्राग्-अभावासमानाधिकरण-भगवत्-प्रवृत्ति-विरोधि-स्व-प्रवृत्ति-निवृत्तिः प्रपत्तिः मुक्ति-व्याज-भूता । ननु सिद्धान्ते प्रपत्तेः व्याजत्वम् उच्यते । किम् इदं व्याजत्वम्? फल-विसदृशत्वम् इति चेत् । ज्योतिष्टोमादीनाम् अपि फल-विसदृशत्वेन व्याजत्व-प्रसङ्गः । तर्हि गौणत्वम् इति चेत् मन्त्र-स्नानादीनां गौणतयाभिमतनां व्याजत्व-प्रसङ्गः । अत इदं दुर्वाचम् इति चेन् न – अ-हेतुत्वे सति अतिप्रसङ्ग-वारकत्वम् इति निरुक्तेस् सूपपादत्वात् । अधिकारि-विशेषणत्वम् अपि इदम् एवेति च गीयते ।

इति । उपासकाः अनुग्रह-विषयी-भूताः । तेषां केवलानुभवः । पर-गत-स्वीकार-निष्ठाः कृपा-विषय-भूताः । तेषां कैङ्कर्य-पर्यन्तानुभवः क्षोभ-निर्वात्त्य्-आत्मकः प्रसादः ॥

[[P40]]

स्वार्थ-कैङ्कर्य-विषये परार्थ-कैङ्कर्य-पर-विषये च विद्या-फल–स्व-रूपम्

स्वार्थ-कैङ्कर्य-पर-विषये

पिता च रक्षकश् शेषी भर्ता ज्ञेयो रमा-पतिः ।
स्वाम्य्-आधारो ममात्मा च भोक्ता चाद्य मनोदितः ॥
अकारेण प्रकृत्या तु पिता पुत्रत्वम् उच्यते ।
धातुना रक्ष्य रक्षत्वं प्रत्ययाच् छेष-शेषिता ॥
उकारे भर्तृ-भार्यात्वं ज्ञातृ-ज्ञेयं मकारतः ।
नमसा स्वामि-भृत्यत्वं श्रीश-चेतनयोस् सदा ॥
नारायण-पदे षष्ठ्या त्व् आधाराधेयतोच्यते ।
तस्मिन् स्थित-बहु-व्रीह्या देहि-देहत्वम् ईर्यते ।
तस्मिन् स्थित-चतुर्थ्या तु भोक्तृ-भोग्यत्वम् उच्यते ॥
एवं सम्बन्ध-नवकं मन्त्र-ज्ञेयं मुमुक्षुभिः ।

इत्याद्य्-उक्त-समबन्ध-विशेष-जन्य-स्नेहात्मिका प्रीतिः । परार्थ-कैङ्कर्य-पर-विषये – निरुपाधिका-सङ्कुचित-सर्व-स्वामित्वं यथेष्ट-विनियोग-हेतु-भूत-सम्बन्ध-विशेषात्मक-शक्ति-विशेष-रूपं । शेषित्वं नाम स्वामित्व-प्रतिनियत-निरूपाधिका-सङ्कुचित-चेतनाचेतन-विनियोक्तृत्वम् । उपासक-विषये विद्यायाः प्रतिबन्ध-निरासः फलं, ब्रह्म-प्राप्तिः स्वतस् सिद्धा, समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रुतेः । अस्याः श्रुतेर् अर्थः — समुत्थाय अर्चिरादि-गत्या गत्वा, परं ज्योतिर् उपसम्पद्य आत्यन्तिक-लय-रूप-ब्रह्म-सम्पत्तिं प्राप्य विरजा-स्नाना-मानव-कर-स्पर्शानन्तरं, स्वेन रूपेणाभिनिष्पद्यते, आविर्भूत-गुणाष्टको भवति, निरतिशय-प्रीति-कारित-कैङ्कर्य-युक्तो भवतीति यावद् इति । विद्यारम्भे “भगवान् क्षमिष्याम्” इति सङ्कल्पं करोति । विद्या-निर्वृतौ “भगवान् क्षान्तम्” इति सङ्कल्पं करोति । अतः विद्यया भगवत्-प्रसादः । तस्मात् प्रतिबन्धक-निवृत्तिः फलम् इति मन्तव्यम् ॥


परार्थ-कैङ्कर्य-पर-प्रपन्न-विषये – जायमान-काल-कटाक्षम् आरभ्य कैङ्कर्य-पर्यन्तं फल-कोटि-निविष्टम् । स्वार्थ-स्वानुबन्धि-मोक्षः स्व-रूप–विरुद्धः, परार्थत्वानुबन्धि-मोक्षः शेषत्व-पारतन्त्र्य–स्व-रूपानुरूपः । मिश्र-सत्त्व-गुणेन कलेवरादि-विशिष्ट-वेषेण उपासन-न्यासादि-साधन-प्रवृत्तिः निष्कृष्ट-सत्त्व-गुणेन द्वय-श्रवणादि-प्रवृत्तिः । दया जायमान-काल-कटाक्षायत्ता ॥ चेतन-विषयी-कारे – जायमान-काल-कटाक्षस्य प्रयोजकानि कृपा प्राप्तिः पुरुष-कारः रक्षणोनुख-स्वातन्त्र्यम् इति चत्वारि । चेतन-विषये – पाप-कर्म-प्रवृत्ति-निवर्तने शक्तस्य भगवतः तद्-अनिवारणे प्रयोजकं विरोधि-स्वातन्त्र्यम् । तच् च भगवति लीलार्थ-स्वातन्त्र्यं स्वातन्त्र्यायत्त-विषयी-कार-निरूपणे प्रमाणम् ।

[[41]]

नाहं पुरुषकारेण न चाप्य् अन्येन हेतुना ।
केवलं स्वेच्छयैवाहं प्रेक्षे कश्चित् कदाचन ॥

इति वचनम् । कृपा-यत्त-विषयी-कारस्य प्रयोजिका प्रातिकूल्य-व्यवसाय-निवृत्तिः । तन्-निवृत्ति-दशा …… निरीक्षण-निरूपणे प्रमाणम् ॥

मुक्षौ फल-भेदः अस्ति वा इति विचारः

अहिर्बुध्न्य-संहितायां चतुर्दशे ऽध्याये नारदं प्रति रुद्रः

यथा हि मोषकाः पान्थे परिबर्हम् उपेयुषि ।
निवृत्तमोषणोद्योगाः तदा सन्त उदास्वते ॥
अनुग्रहात्मिकायास् तु शक्तेः पात-क्षणे तथा ।
उदासते समीभूय कर्मणी ते शुभाशुभे ॥
तत्-पातानन्तरं जन्तुः युक्तो मोक्ष-समीक्षया ।
प्रवर्तमान-वैराग्ये विशेषाभिनिवेशवान् ॥
आगमान् अनु सञ्चिन्त्य गुरून् अप्य् उपसर्प्य च ।
लब्ध-सत्त्वः प्रकारैस् तैः प्रबुद्धो बोध-पालतः ॥

इत्य्-आदि-वचनं भोगार्थ-स्वातन्त्र्यं प्राप्तेः अनुकूलम् । प्राप्तिः भगवति स्वातन्त्र्य-निवृत्तौ सत्याम् । प्राप्त्या विषयी-कारस्य कार्य-करत्वम् । पुरुष-कारायत्त-विषयी-कारे प्रयोजकं तत्-सन्निध्यागमनादि-तद्-विषये प्रमाणम् ॥

पाद्मोत्तरे अष्टचत्वारिंशे ऽध्याये –

प्राण-संशयम् आपन्नं दृष्ट्वा सीता च वायसम् ।
त्राहि त्राहीति भर्तारम् उवाच दयया विभुम् ॥

इत्य्-आदि । मोक्षं प्रति चेतने अ-निषेधस्य प्रयोजकत्वाङ्गीकारे सुपुप्त्य्-आदौ अ-निषेधात् मोक्ष-प्रसक्तिर् इति चोद्ये कृते प्रतिबन्धक-रहित-प्राप्तेर् अभावात् न युक्ति-प्रसङ्गः । तत्र भगवतः लीलार्थ-स्वातन्त्र्यं - विरोधि-भरत-प्रपत्तौ भगवत्-स्वातन्त्र्याद् वैफल्यवत् द्रामिड-साम-वेद-सहस्र-शाखा-व्याख्यायां षट्-सहस्रिकायाम् –

ஈச்வரனுரையாமலிருந்தால் ப்ரபத்தி உபாயமன்றென்றும் भक्ति உபாயமானுல் ஈச்வரன் உபாயமன்னு

इत्य् अनुगृहीतम् । ननु मुक्त्य्-अनन्तरं स्वार्थ-कैङ्कर्य-परार्थ-कैङ्कर्यादि-फल-भेद-कल्पनं न युज्यते । तदा माध्व-मत-प्रसङ्ग इति मा शङ्किष्ठाः । तैः मुक्तौ आनन्द-तारतम्यादिकम् अङ्गीकृतम् । तद्वन् नास्माभिर् उच्यते । फल-तार-तम्यम् अपि न कल्प्यते

[[42]]

आत्मेति तूपगच्छन्तीति सूत्र-भाष्ये-यथावस्थितं च ब्रह्मोपास्यम् – अयथोपासने हि ब्रह्म-प्राप्तिर् अप्य् अयथाभूता स्यात् ।

यथाक्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवतीति

न्यायाद् इति । स्थलान्तरे - ब्राह्मणत्व-जात्य्-आदि-विशिष्ट-वेषेणेत्य्-आदि, कर्त्रधिकरणे प्राप्ताप्राप्त-विवेकेनेत्य्-आदि–श्री-भाष्य–श्री-सूक्तिभिः उपासनानुगुण-फलावश्यकत्वस्य प्रतिपादनात् । न च मुक्तौ फल-तारतम्यं नास्ति, “विकल्पो विशिष्ट-फलत्वाद्” इति सूत्रे विद्यायाः विकल्पः फले विशेष-सामान्य-रहितत्वाद् इति प्रतिपादनाद् इति वाच्यम् ॥

विकल्पो ऽविशिष्ट-फलत्वात् अधिकरण-तात्पर्यम्

तदा अत्र तत्-तद्-व्यक्ति-भेद-काल-कृतादि-भेदस्य सत्त्वात् । तत्-क्रतु-न्यायेन यथोपासन-फलस्य वक्तव्यत्वेन परस्परं विरुद्ध-स्वार्थानुभव-स्वार्थ-कैङ्कर्य-परार्थानुभव-परार्थ-कैङ्कर्यादि-भेद-सत्त्वात् हेत्व् अ-सिद्धिः । “विकल्पो विशिष्ट-फलत्वाद्” इति सूत्रे फल-भूयस्त्वेन विद्यायाः साम्यं नास्तीति मत्वा पूर्व-पक्षं कृत्वा विद्यायाः फले भूयस्त्वेन साम्यम् अस्तीति मत्वा सिद्धान्तः कृतः । स्वर्ग-रूपैक-फलानां भिन्न-शास्त्रार्थानां समुच्चित्य अनुष्ठानं पुरुषस्य सम्भवति । तद्वत् ब्रह्म-विद्यायां न, तत्र फलस्य स्वल्पत्वात् । दर्श-पूर्णमासाद्य्-अनुष्ठाने फल-भूयस्त्वस्य सम्पादितत्वात् तत्र समुच्चयो युक्तः । अत्र एकस्या ब्रह्म-विद्यायाः अन्-अन्त-स्थिर-ब्रह्म-फलकत्वात् एक-ब्रह्म-विद्यैवालम् । अविशिष्ट-फलत्वात् अपरिच्छिन्न-फलत्वाद् इत्य् अर्थः । उत्तरत्र काम्येति सूत्र-भाष्ये पूर्व-हेत्व्-अभावात् अ-परिमित-फलत्वाद् इति व्याख्यातत्वात् मुक्ति-नित्यानुभव-विषये यथा काल-कृत-परिच्छेदः अ-किञ्चित् करः । तद्वत् विद्यानां बहुत्वेन भूयस्त्वेन अतिशय-सम्भवेपि चतुष्टयादि-संख्ययाः अ-किञ्चित् करत्वं एक-विद्या-निष्टस्यैव पुरुषस्य अन्-अन्त-गुणक-ब्रह्मानुभवात् तं यथा यथोपासते । तथैव भवतीति श्रुतिः । तत्र श्रुतौ यथोपासनं फलम् इति प्रतिपादितम् । तत्-क्रतु-न्यायः अन्य-योग-व्यवच्छेदार्थक एव ।

[[43]]

अप्रतीकालम्बनेति सूत्र-श्री-भाष्य-श्रुत-प्रकाशिका एकात्मनः इत्य् अधिकरणार्थाधिकरण-दीपादौ तत्र तत्र तत्-क्रतु-न्यायम् आालम्ब्य अन्य-योग-व्यवच्छेदस्यैव कृतत्वात् यथाक्रतु-न्याय-विचार-ग्रन्थे च अन्य-योग-व्यवच्छेदार्थकत्वस्यैव प्रतिपादितत्वात् तत्-क्रतु-न्यायः न त्व् अ-योग-व्यवच्छेदार्थकः । श्री-वचन-भूषण-मीमांसा-भाष्ये फल-नियमाधिकारे – ननु उक्त–स्व-रूप–याथात्म्य-निष्पत्तेर् अ-कामना-विषयत्वे ऽपि प्राप्ति-दशायां सर्वेषाम् अपि स्व-रूप–याथात्म्याविर्भावो न विरुध्यते । न च तत्-क्रतु-न्यायात् तद्-अ-सिद्धिः । तस्य अ-योग-व्यवच्छेदकत्वात् । तद् उक्तं वेदान्ताचार्यैः –

उपासित-गुणादेर् या प्राप्ताव् अप्य् अ-बहिष्-क्रिया ।
सा तत्-क्रतु-नय-ग्रह्या नाकारान्तर-वर्जनम्

इति । ततश् च भक्ति-प्रपत्ति-रूप-तत्-तद्-वर्त्म-जन्यापूर्व-स्थानीय-नित्य-सङ्कल्प-सत्वे ऽपि न तस्य फल-दशायाम् आकारान्तर-प्राप्ति-प्रतिबन्धकत्वम् इति चेत् सत्यम् । तत्-क्रतु-न्यायो हि उपासित-गुणाविरुद्धाकारान्तरानुप्रवेशो ऽभिमतः ॥

तत्-क्रतु-न्याय-विचारः

न तु उपासित-गुण-विरुद्धाकारान्तरानुमतिः । तथात्वे अ-योग-व्यवच्छेदस्यैव अ-सिद्धि-प्रसङ्गात् । अत्र च परार्थ-कैङ्कर्य-प्राप्ति-लक्षण–स्व-रूप–याथात्म्याविर्भावस्य स्वार्थानुभव-कैङ्कर्य आविर्भाव-विरोधितया उपाय-दशायाम् उपासितस्य स्वार्थानुभव-कैङ्कर्य-प्रदत्वस्य फल-दशायां बहिष्-क्रियैव स्यात् । ततश् च यथाक्रतु-श्रुत्य्-अर्थ-रूपस्य उपासन-षड्-अङ्ग-जन्यस्य सङ्कल्पस्य परार्थानुभव-कैङ्कर्याभिलाषाप्रतिबन्धकत्वान् न सर्वेषां तत्-प्राप्तिः । न चास्य निग्रह-रूपत्व अनुग्रह-रूपत्व-विकल्प-कृत-दोष-सन्भवः । न्यास्य् उपासकापेक्षयानुग्रहत्वाच् छरण-गतापेक्षया निग्रहत्वात् । यागादि-जन्य-स्वर्गादि-प्रदान-सङ्कल्पो हि – स्वर्गार्थ्य्-अपेक्षयानुग्रह-रूपो मुमुक्ष्व्-अपेक्षया निग्रह-रूपश् च दृश्यते तद्वत् । तस्मात् प्रणवावगत–स्व-रूप–याथात्म्यानुगुण-परार्थ-कैङ्कर्य-प्रदत्वस्योत्तर-चतुर्थ्यावगतस्य उत्तर-वाक्ये उपास्य-गुणत्वेनानुसन्धानात् । तत्-क्रतु-न्यायेन फल-दशायाम् अपि तत्-सिद्धेः । “अहम् अन्नम्” इत्य्-आदि-श्रुतेश् च परार्थ-कैङ्कर्यं सिद्धम् इतीति ।

[[44]]

कैवल्य-नित्यत्व-खण्डन-शत-दूषणी-ग्रन्थे तृतीय-भङ्गे – तं यथा यथोपासते तथैव भवतीति श्रुतौ – तथैवेत्य् एवकारेणानुपासिताकार-प्राप्तेर् व्यवच्छेदात् । अ-प्रतीकालम्बनानित्यादि-सूत्र-भाष्ये – तथोपासीनस् तथैव प्राप्नोतीत्य् अर्थः इति भाष्यकारैर् अपि तथैव भाषितत्वाच् च तद्-उभयानुरोधेन तत्-क्रतु-न्यायस्य अन्य-योग-व्यवच्छेदकत्व-सिद्धिर् दुरपह्नवा । न च विशेषण-सङ्गतैवकारस्य अन्य-योग-व्यवच्छेदकत्वाभावश् शङ्क्यः । अयं विद्वान् एवेत्य् अनेनाविद्वत्त्व-व्यवच्छेद-प्रतीतेर् आनुभाविकत्वात् । सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्र इदं शब्द-विशेषणी-भूत-सच्-छब्द-सङ्गतेनैव कारेण असत्त्व-व्यावर्तनस्य भाष्यकारादिभिर् अनुगृहीतत्वाच् च । व्यक्तं चेदं महा-सिद्धान्त-श्रुत-प्रकाशिकायाम् इति । दूषण-द्वय-गर्भा प्रथमा कक्षेति ।

महा-सिद्धान्त-श्रुत-प्रकाशिका [[??]]

तत्रैव – तद् य इत्थं विदुर् इत्य् अत्र कार्याधिकरण-दीप-भाष्य-श्रुत-प्रकाशिकादिषु फल-बलाद् उपास्याकार-विशेषस्य साधिततया तद्-बलेनापि तत्-सिद्धेश् च । तत्र हि पञ्चाग्नि-विद्या ब्रह्म-विषया ब्रह्म-गमन-फलकत्वात् इत्य् अनुमाने ब्रह्म-गमन-फलकत्वम् अस्तु ब्रह्म-विषयत्वं मास्तु इत्य् अ-प्रयोजक-शङ्कायां – तत्-क्रतु-न्याय एव ह्य् अनुकूल-तर्कतया विवक्षितः । यदि तत्-क्रतु-न्यायः अ-योग-व्यवच्छेद-मात्र-परः स्यात् तर्हि केवल-जीवोपासकस्यापि ब्रह्म-गमन-सम्भवात् तन्-न्यायस्य तद्-अ-प्रयोजक-शङ्कावारकत्वायोगेन तद्-अनुमानम् अन्-उपपन्नम् एव स्याद् इति तद्-बलेन तस्य अन्य-योग-व्यवच्छेदकतायाः आवश्यकत्वात् । एवम् एक आत्मनः शरीरे भावाद् इत्य् अधिकरण-सिद्धान्ताद् अपि तत्-सिद्धिः द्रष्टव्येति दूषण-द्वय-गर्भा तृतीया कक्ष्या इत्य्-आद्य्-उक्तत्वात् तत्-क्रतु-न्यायस्य अ-योग-व्यवच्छेदार्थकत्वाङ्गीकारे अ-प्रतीकालम्बनेति सूत्र-भाष्य-श्रुत-प्रकाशिका-दीपादि-विरोधो दुरुद्धरः । अतः यत्र यत्र फलात्मक-ज्ञान-विषयत्वं तत्र तत्र उपासनात्मक-ज्ञान-विषयत्वम् इति व्याप्तिः तत्-क्रतु-न्याय-सिद्धा ॥

[[45]]

पञ्चाग्नि-विद्या-विचारः

अत एव तद् य इत्थं विदुर् इति पञ्चाग्नि-विद्या-निष्ठ-विषये ब्रह्मणः विशेषणतया वेदन-सत्त्वे ऽपि[[??]] विशेष्यतया श्रद्धा-पूर्वक-ब्रह्मोपासानाभावात् आत्मानुभव-कामस्य तस्य ब्रह्म-प्राप्तिः न घटते । तद् य इत्थं विदुर् इत्य् अस्यार्थः – ये पञ्चाग्नि-विद्या-निष्ठाः तत् आत्म–स्व-रूपं इत्थं प्रकृति-विनिर्मुक्तं विदुः जानन्तीति । ये चेमे ऽरण्ये[[??]] श्रद्धा तप इत्य् उपासत इत्य् उक्तत्वात् श्रद्धा-पूर्वकम् उपासीनस्य ब्रह्म-विद्या-निष्ठस्य ब्रह्म-प्राप्तिः घटते । ये चेमे इति श्रुत्य्-अर्थः – इमे ये च ब्रह्म-विद्या-निष्ठाः श्रद्धा श्रद्धा-पूर्वकं तपः ब्रह्म श्रद्धा-पूर्वम् उपासत इत्य् अर्थः । श्रद्धा नाम ब्रह्मैवावगन्तव्यं नान्यद् इति विश्वासः इति आत्मानुभवकामस्य तस्य अयथोपासन-प्राप्तेः तत्-क्रतु-न्यायेन तत्-फलम् अप्य् अयथाभूतम् । अतः सूत्र-भाष्य-श्रुत-प्रकाशिकाद्य्-अनुपारात्[[??] आत्म-प्राप्ति-कामानां ब्रह्म-प्रातिः नास्तीति सिद्धान्तितं सङ्गच्छते । तथोक्तं रहस्य-मञ्जर्यां –

कैवल्य-विषये कैश्चिद् युक्त्याभासैर् यद् ईरितम् ।
तन्-मूल-ज्ञान-तिमिरं सम्प्रदाय-दिवाकरात् ॥
नाशयामि यथा-न्यायं भाष्यादीनां यथा श्रुतम् ।
यः प्रकृत्या विनिर्मुक्त–स्व-रूपो नित्य-निर्मलः ॥
तद्-अवाप्तिर् हि कैवल्यं न सा प्रकृति-मण्डले ।
यतो विधूपनं[[??]] सूक्ष्म-प्रकृतेर् हि स-वासनम् ॥
विरजा-सरसि स्नानात् ततः कैवल्यम् अश्नुते ।
विरजा परम-व्योम्नोर् इति पाद्म-पुराणतः ॥
कैवल्य-स्थान-कॢप्तिश् च यथा स्पष्टं समीरिता ।

सहस्र-नाम-भाष्ये च मुक्तानां परमा गतिः इत्य् एतद्-भाष्य-समये मुक्तानां प्राप्य-निर्णेये श्री-पराशर-भट्टार्यः प्राह प्राचां महार्थवित् ॥ संसारस्यापि पर-पदस्य च यद्-अन्तरं तद्-देशं केवलैः प्राप्यं प्राप्यन्तर-विरामतः ।

कैवल्यस्यापि मुक्तित्वं जरा-मरण-मोक्षतः ॥
उपपन्नम् अ-मुख्योक्तिः न स्यात् स्वारस्य भङ्गतः ।
यं प्राप्य न निवर्तन्ते तद् धामेति स्मृतेः पुनः ।
तच् चाप्य् अपुनरावृत्ति-लक्षणं त्व् इति च स्मृतेः ।
संसार-हेतु-सकल-कर्मणां तत्-क्षण-क्षयात् ।
ब्रह्म-प्राप्तिं प्रति सदा प्रतिबन्धक-भावतः । न ब्रह्म-प्राप्ति-संसारौ जिज्ञासोस् तर्हि सेत्स्यतः ।
सर्वे च्यवन-धर्माण इति स्मृत्या यद् ईरितम् ॥
कैल्यस्याप्य् अ-नित्यत्वं कैश्चिद् आपात-वेदिभिः ।
अत्यन्त-परिहास्यं तत् श्लोक-तात्पर्य-वेदिभिः ॥
तेषाम् अन्-अन्य-भोगत्व-धर्म-च्यवनम् एव हि ।
च्यवनार्थस् ततो नित्यं कैवल्यं मुक्तिर् एव तत् ॥

[[46]]

रहस्य-मञ्जरी-ग्रन्थ-श्लोकः [[??]]

अन्यथा फल-नाशश् चेत् च्यवनार्थः स्मृतस् तदा ।
स्वार्थ-कैंकर्य-भगवद्-अनुभूत्योश् च्युतिस् समा ॥
फल-कामत्व-रूपस्य हेतोः सर्वत्र तुल्यतः ।
नित्यानुभव-कैङ्कर्य-नित्ये यदि तदात्र च ॥
नित्य-स्वात्मानुभूतिश् च नित्यानित्य-श्रुतेस् तथा ।
ईश्वरानुभव-स्वार्थ-कैङ्कर्य-कामिनाम् ॥
जिज्ञासोर् अपि साम्येन वक्तव्यं च्यवनं तदा ।
स्वोद्देश्य-फल-नाशस्य सर्वस्यानुपपत्तितः ॥
युक्तस् त्वानन्य-भोगत्वं च्यवनं सर्व-सम्मतम् ।
यतस् सर्वात्मनाम् ईश-पारतन्त्र्यं निरूपकम् ॥
स्वार्थ-कैङ्कर्य-सद्भावे प्रमाणं न च दृश्यते ।
इति केचित् वदन्त्य् अत्र ते न भाष्यार्थ-वेदिनः ॥
तत्-क्रतुश् चेति सम्यग् आह हि भाष्यकृत् ।
अस्मिन् लोके यथोपायो भवति प्रथमं नरः ॥
अस्माल् लोकात् तथा प्रेत्य प्राप्नुते सदृशं फलम् । यथा यथोपासते तम् इति श्रुत्या च तत्-क्रतोः ॥
न्यायस् सर्वत्र सर्वेषां सम्मतो हि यतस् ततः ।
तथा स्वाभिमतं प्राप्य स्वीकारः स्व-गतो यदि ॥
परेच्छा-विषयं प्राप्यं स्वीकारश् चेत् परां गतिम् ।
तद्-उपायारतानां च तत्-कैङ्कर्यं फलं मतम् ॥
तदीयोपाय-निष्ठानां तदीयावृत्तिर् ईरिता ।
प्राप्य-प्रापकयोस् साम्यं तत्-क्रतु-न्याय-निश्चितम् ॥
पञ्चाग्नि-विद्या-निष्ठानां भाष्यादाव् अर्चिरादिका ।
गतिः प्रकृति-निर्मुक्त-ब्रह्मात्मक-निजाकृतेः ॥
प्राप्तिश् च भाष्य-कारेण स्याद् इति प्रतिपादनात् ।
मध्ये ऽर्चिरादेः पूर्वं वा स्वात्म-प्राप्तिर् न विद्यते ॥
तस्मात् स्वानुभवान्ते च ब्रह्म-प्राप्तिर् न सेत्स्यति ॥
अतः पञ्चाग्नि-विदुषः पर-प्राप्तिर् न विद्यते ॥
मधु-विद्या-नयात् पर्व-क्रमेण ब्रह्म चाश्नुते ।
य इत्थम् अवदंस् तैर् न मधु-विद्या निरूपिता ॥
मधु-विद्या च सा नित्या नित्योपासात्मिका ततः ।
तत्र पर्व-क्रमो युक्तस् त्व् अ-नित्य-प्राप्ति-पूर्वकम् ॥

[[P47]]

नित्य-प्राप्तेर् अयं न्यायो ज्ञान-योगेन विद्यते ।
नित्योपासन-रूपत्वात् तत्-पर्व-क्रम-दैर्घटी ॥
आत्म–स्व-रूपावाप्तीच्छुः प्रकृत्या रहितं यथा ।
जिज्ञासुर् इति भाष्ये ऽस्मद्-भाष्य-कारो ऽप्य् उवाच ह ॥ अत एव हि जिज्ञासोर् न पर-प्राप्ति-कामना ।
नाना नृ-कामना लोके तत्-तत्-सुकृत-भेदतः ॥
राज्याद् ऐश्वर्यम् अल्पं स्याद् अन्-अल्पं स्वर्गम् अ-स्थिरम् ।
नित्यं सावधि-कैवल्यं त्याज्या राज्यादयस्त्व् अतः ॥
ब्रह्म-प्राप्तिर् अन्-अनल्पा च स्थिरा चावधि-वर्जिता ।
कैवल्यं सावधित्त्वेन त्याज्यम् आहुर् मनीषिणः ॥
निर्गताव् अधिकत्वेन ब्रह्म-प्राप्तिर् अपेक्षिता ।
कैवल्यस्याप्य् अ-नित्यत्वं कथयन्तीह केचन ॥ न तत्र भाष्य-कारादि-सम्प्रदायो ऽथ युक्तयः ।
प्रमाणं वापि पश्यामस् तद्-अ-नित्यत्व-साधकम् ॥
सम्प्रदाय-विरुद्धत्वात् प्रमाणाभावतो ऽपि च ।
युक्त्य्-अभावाद् अ-नित्यत्वं कैवल्यस्य न सेत्स्यति ॥
सर्व-कर्म-विनिर्मोक्षः केवल-ज्ञानिनोस् समः ।
अतो ऽर्चिरादि-गमनं मुक्तत्वाद् उभयोः श्रुतम् ॥
इति कैवल्य-नित्यत्वं यद् उक्तं तन् न युक्तिमत् ।
सर्व-कर्म-क्षयस् स्याच् चेत् पर-प्राप्तिर् अन्-अन्तरम् ॥
स्याद् एव न स्वानुभवः केवलो ऽल्प-रसस् त्व् अपि ।
सर्व-कर्म-क्षयो न स्याद् बद्ध एव हि केवलः ॥
नित्यत्वं त्यज्यतां तस्य कैवल्यस्याथ वा पुनः ।
कैवल्यस्य पर-प्राप्तिः कक्षी-कार्याप्य् अन्-इच्छुभिः ॥

अत्यन्तापरिहार्या स्यात् पाशा-रज्जुर् इतस् ततः ।
ननु कर्म-क्षयाभावे कथम् अस्यार्चिरादिका ॥
इति चेद् उच्यते तत् तु यथा स्याद् अर्चिरादिका ।
प्रविक्षोर् नगरं मध्ये ऽध्वगस्त्य् एव तरोर् अधः ॥
स्वापवत्-स्वानुभूतिश् च गति-मध्ये ऽथवा भवेत् ।
दक्षिणायन-गन्तॄणां चन्द्र-सायुज्यवत् पुनः ॥
पर्यवस्यन् स्वानुभवे पर-व्योमाधिरोहति ।
ब्रह्म-कार्योपासनान्ते पर-व्योमाधिरोहवत् ॥
अतो ऽर्चिरादि-गमनं केवलस्योपपद्यते ।
अतस् स्वानुभव-स्थानं युक्तं प्रकृति-मण्डले ॥
युक्तं स्वानुभवान्ते च पर-व्योमाधिरोहणम् ।
तस्माद् अ-नित्यं कैवल्यं पर-प्राप्ति-विरोधि च ॥

[[P48]]

तदीश-प्राप्ति-पर्यन्त-तात्पर्यत् तस्य नित्यता ।
यं प्राप्य न निवर्तन्ते तद्-धामेत्य् अत्र नित्यता ॥
स्मृता च चातुर्मास्यादेर् अक्षयत्वोक्तितस् समा ।
स्वात्मानुभूतिर् इति या किल मुक्तिर् इति स्तुता ॥
स्वानुभूतेर् हि नित्यत्वं न हि मुख्यं विरोधतः ।
विगतेच्छा-भय-क्रोधो यथा मुक्त इतीर्यते ॥
तद्वद् एवास्य मुक्तित्वं मुख्यत्वे दोष-सम्भवात् ।
तस्माद् एव हि कैवल्यम् अ-नित्यम् इति युज्यते ॥
इति चेद् उच्यते तस्य मुक्तित्वं नित्यतादि च ।
तद् एव पापम् इत्य् आहुः स्वोद्देश्यस्य विरोधि यत् ॥
स्वोद्देशस्य विरोधित्वाद् ब्रह्माचित्-प्राप्ति-साधनम् ।
पापम् एव हि जिज्ञासोस् तद्-अभावान् न तत्-फले ॥
ब्रह्मानुभव-संसारौ भवतस् तद्-अन्-इच्छया ।
न मुक्तस्यापि जिज्ञासोः ब्रह्म-ज्ञानं प्रकाशते ।
स्व-विशेष्य-धियं ब्रह्म सङ्कोचयति तस्य हि ॥
उपासनानुगुणतो ददाति फलम् उत्तमम् ।
इति श्री-पति-सङ्कल्पः सङ्कोचो ऽत्र न हीतरः ।
तत्-क्रतु-न्याय-सिद्धो ऽयम् अर्थो भाष्यादि-निश्चितः ॥

ईश एव पर-व्योम्नि स्व-प्राप्तिं प्रापयिष्यति ।
जिज्ञासोर् इति चेत् तर्हि स्वार्थ-कैङ्कर्य-कामिनाम् ।
गुणानुभवितॄणां च स्वार्थां च निवर्तयेत् ॥
स्वानुभूतेर् विरोधित्वात् तन्-निवर्तयतीति चेत् ।
तद्-गुणानुभवे स्वार्थ-कैङ्कर्ये ऽपि समं विदुः ॥
न तद्-विभूति-साभाव्यात् अहङ्कारो निवर्तते ।
ज्ञानिनस् तर्हि जिज्ञासोस् तन्-न्यायेन निवर्तताम् ॥
दक्षिणायन-गन्तॄणां सायुज्यं श्रुतम् इन्दुना ।
कामानानुगुण-प्राप्तिः ब्रह्म-काय-निषेविणाम् ।
मध्ये स्वानुभवे तद्वन् न श्रुतिः स्मृतिर् अस्ति हि ।
अतो नगर-गन्तॄणां मध्ये स्वाप-निदर्शनम् ।
स्त्री-प्रायोक्ति-समं यस्मात् तद् धि कैवल-यौक्तिकम् ॥
कैवल्यस्य हि नित्यत्वं चातुर्मास्याक्षय्योक्तिवत् ।
निर्वाह्यम् इति यत् तूक्तं तद् यं प्राप्य विरोधि च ॥
नाशो न युक्त इत्य्-आदि-शठजिद्-गुरु-सूक्तितः ।
न सङ्कोचो न दीर्घत्वं विनाशो वा न युज्यते ॥
तस्य कल्प-शतेनापि न क्षयोपचयाव् अपि ॥

[[49]]

आद्य-गीत-सहस्रे च सद्यः कैवल्य-नित्यताम् ॥
पराङ्कुश-मुनिः प्राह साक्षात्-कृत-परापरः ।
योगिनाम् अमृतं स्थानम् इति स्मृत्या च योगिनाम्
अमृतं नित्यम् इत्य् एव तत्-स्थानं प्रतिपद्यते ।
तथा तु केवल-पदम् अ-नित्यम् इति यत् पुनः ॥
उक्तं तद्-अपहास्यं तद्-ग्रन्थ-ज्ञैर् इति साहसम् ।
विगतेच्छा-भय-क्रोधो यथा मुक्त इतीयते ॥
एवं केवलम् उक्तत्वम् उचितं त्व् इति ये ऽवदन् ।
अबाधात् तद्वद् अत्रापि गौणत्वम् अतिसाहसम् ॥
जिज्ञासुर् लभते भक्तिम् इति स्मृत्या यद् ईरितम् ।
क्रमाद् भवति[[??]] जिज्ञासुः भक्त इत्य् अविचारितम् ॥
रमणीयं भवत्य् एव पूर्वापर-विरोधतः ।
आर्त-शब्दो यथा तत्र त्वारोग्येच्छोर् हि वाचकः ॥
तथा तत्रत्य-जिज्ञासु-पदं केवल-वाचि न ।
किन्तु देहातिरिक्तात्म–स्व-रूपेच्छा-परं यतः ॥
अतस् तत्रत्य-जिज्ञासोर् भक्तत्व-प्राप्ति-तुल्यतः ।
श्री-गीता-सूक्त-जिज्ञासुर् अपि भक्तो भवेद् इति ॥
तद्-दृष्टान्त-बलेनाहुः ये ते पण्डित-मानिनः ।
तत्-तत्-प्रकरणोक्तार्थ-तात्पर्य-ज्ञान-दूर-गाः ॥
अर्थ-प्रकरणाद्यैर् हि त्व् अर्थ-भेदस् तु साध्यते ।
अज्ञातत्वाः प्रकरणं तद्-व्याख्यानं प्रकुर्वताम् ॥
प्रयासो व्यर्थताम् एति पुष्पवच् चावकेशिनः ।
अहङ्कार-गृहीतानाम् अर्थ-ज्ञानं न जायते ॥
मध्य-स्थ–दृष्ट्या ज्ञातव्यं तत्त्वं तत्त्व-बुभुत्सुभिः ।
सम्प्रदायैक-लभ्यो ऽर्थो युक्तिं नापेक्षते क्वचित् ॥
युक्ति-संसाधितो ऽप्य् अर्थः सम्प्रदायम् अपेक्षते ।
सम्मता सैव या युक्तिः सम्प्रदायानुसारिणी ॥
युक्तिं प्रमाणी-कुरुते लोके केवल-यौक्तिकः ॥

प्रमाण-परतन्त्रास् ते ये प्रमाणैक-चक्षुषः ॥
ये सांप्रदायैक-दृशः गुर्वधिना हि ते मताः ।
सम्प्रदायानुविधया प्रमाणानां प्रमाणता ॥
प्रमाण-सिद्धम् अप्य् अर्थम् अन्-अनुष्ठान-दूषितम् ।
न कुर्मो ऽपायम् इत्य् आह गोदापि स्व-स्व-सूक्तिषु ॥

इति ।

[[P50]]

विस्तरस् तु पूर्वोदाहृत-ग्रन्थ-कैवल्य-दीपिका–कैवल्य-कारिका–गुरु-भाव-प्रकाशिका–विपुल-द्राविडाष्टश्लोकी–व्याख्यानादौ द्रष्टव्यः ॥ सिद्धान्ते - यथावस्थित-ब्रह्म-विद्यायाम् ईश्वरेच्छा नियामिका परार्थ-कैङ्कर्य-पर-विषये भक्तः – गुणानुभव-निष्ठः – भगवतः वृत्ति-निष्ठः अयथावस्थित-ब्रह्म-विद्यायां स्वातन्त्र्यं नियामकं, तच् च स्वार्थानुभव–स्वार्थ-कैङ्कर्य-पर-विषये, यथावस्थित-ब्रह्मानुभवं प्रति यथावस्थित-ब्रह्म-विद्या-कारणं, विजातीय-ब्रह्मानुभवं प्रति विजातीय-ब्रह्म-विद्या-कारणम्, इक्षु-क्षीर-गुडादीनां माधुर्यं महद्-अन्तरम् । तथापि भेदं निर्वक्तुं ब्रह्मणापि न शक्यते ॥ इति न्यायात् एतन् निर्वचनस्य दुर्निरूपणीयत्वे ऽपि स्वासाधारणाकार-विशेषो ऽस्त्य् एव ॥

गुरु-भाव-प्रकाशिका-विवरणम् [[??]]

ननु मुक्त्य्-अनन्तरं स्वार्थ-कैङ्कर्य-परार्थ-कैङ्कर्यादि-फल-भेद-प्रतिपादनम् अत्यन्तम् अ-सङ्गतम् । तत्-प्रतिपादक-प्रमाणस्य यत्र कुत्रचित् अ-श्रुत-दृष्ट-पूर्वत्वाद् इति चेन् न सूत्र श्री-भाष्य-श्रुत-प्रकाशिका तद्-व्याख्यान-गुरु-भाव-प्रकाशिका श्री-वचन-भूषणादि-प्रमाण-जाते तादृश-अर्थ-प्रतिपादनस्य दृष्टत्वात् – तथा हि –

फलोपासनयोः प्रकारैक्ये प्रमाणं जिज्ञासाधिकरण-भाष्ये फलोपासनयोः प्रकारैक्यं यथाक्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवतीति श्रुत्यैव सिद्धम् इति । तत्र श्रुत-प्रकाशिका-फल-दशायां गुण-प्राधान्य-श्रवणात् उपासने गुण-प्राधान्यं कथं सिध्यति इत्यत्र आह – “फलोपासनयोर्” इति । फलोपासनयोर् उभयोर् अपि स-गुणत्वं गुण-प्राधान्यं च तुल्य-प्रकारम् इत्य् अर्थः । श्रुत्यैवेत्य् एवकारेण उक्त-न्यायस्य पुरुष-बुद्ध्य्-उत्प्रेक्षा-निरपेक्षं श्रुत्या कण्ठोक्तत्वम् अभिप्रेतम् इति । फलोपासनयोर् अन्य-विषयत्वे प्रमाणम्, “ईक्षति-कर्म-व्यपदेशात् सः” इति सूत्र-भाष्ये – तत्र ध्यायतीक्षति-शब्दाव् एक-विषयौ ध्यान-फलत्वाद् ईदृक्षस्य “यथाक्रतुर् अस्मिन् लोके पुरुषः” इति न्यायेन ध्यान-विषयस्यैव प्राप्यत्वाद् इति । तत्र श्रुत-प्रकाशिका – अत्र ध्यायतीति यथोपासन-फल-प्राप्ति-न्यायात् ध्यायति-कर्मैव ईक्षति-कर्मेति । स्वार्थ-कैङ्कर्य-परार्थ-कैङ्कर्यादि-प्रतिपादने प्रमाणम् । समम् इति कैवल्य-व्यावृत्तिर् इति श्रुत-प्रकाशिका-व्याख्यान–गुरु-भाव-प्रकाशिकायम् ।

[[P51]]

सम् इति कैवल्य-व्यावृत्तिर् इति वाक्य-व्याख्यानानवसरे । भगवत्-प्रीति-मात्र-प्रधानोद्देश्यकानुभव-कैङ्कर्य एव स्व-रूपानुरूपे । स्वस्यापि नार्हं तत इत्य् अनुगृहीत-रीत्या स्व-प्रीति भगवत्-प्रीत्य्-उभय-प्रधानोद्देश्यकानुभव-कैङ्कर्ययोः नमः-शब्द-निषिद्धत्वाद् इति तत्रैव स्वार्थ-भगवद्-अनुभव-तत्-कैङ्कर्ये अपि अहङ्कार-ममकार-गर्भत्वात् । किङ्करस्य स्वतः प्राप्ते न भवतः इति रहस्य-विवेक-व्याख्यानावसरे स्वार्थेति –

अहं करोमि फलार्थ-भगवत्-प्रसाद-साधनम् ।

“अहं करोमि” इत्य् अध्यवसायो ऽहङ्कारः ।

तादृश-साधनानुष्ठान-प्रधानोद्देश्य-फल-भोगवान् अहम्

इत्य् अध्यवसायो “ममकारः” इति विवेकः ॥

तद्-गर्भत्वं तद्-घटित-स्व-सामग्रीकत्वं किङ्करस्य भगवत्-प्रीति-मात्रोद्देश्य-शेषवृत्तार्हस्येत्य् अर्थः ॥ स्वतः इति – “पूर्ववत्-स्व-रूपानुरूप-साधनतः” इत्य् अर्थः न भवतः इति – तथा च – पूर्वोक्त-भगवत्-सङ्कल्प-विशेषात् – मूल-मन्त्र-मन्त्र-रत्नादि-प्रतिपन्न–स्व-रूप–यथात्म्यानुगुण-परार्थ-भगवद्-अनुभव-कैङ्कर्य-लक्षण-फलोत्पत्ति-प्रतिबन्धः उपायान्तर-निष्ठ–स्व-प्रयोजन-परयोः सम्भवतीति भावः इति । श्री-मन्त्रार्थ-विस्तर-कठिन-पद-दीपिकायां दीपारोपणादि-कैङ्कर्य- ங்சளும் सार-कल्प-भेद- த்தாலே द्वि-विध- மாய் இருக்கும்.

सार-कल्प-भेदेन कैङ्कर्य-द्वैविध्यम्

साक्षाल् लक्ष्मीपताव् एव कृतं कैङ्कर्यम् अञ्जसा ।
सार-कल्क-विभागेन द्विधा सद्भिर् उदीर्यते ॥
कृत-कृत्यस्य कैङ्कर्यं यद् अनन्य-प्रयोजनम् ।
गुर्वादि-रक्षणार्थं वा तत्-सारं परिचक्षते ॥
याः क्रियास् सम्प्रयुक्तास् स्युर् एकान्त-गत-बुद्धिभिः ।
ताः क्रियाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥
ड्म्भार्थं पर-पीडार्थं तन्-निरोधार्थम् एव च ।
प्रयोजनान्तरार्थं वा कैङ्कर्यं कल्प्यम् इष्यते ॥
तत् सर्वं देव-देवस्य चरणाव् उपतिष्ठते ।

इति ॥

[[P52]]

अनुकूल-प्रतिकूलाद्य्-अधिकारिणां स्व-रूप–दर्शनम् [[??]]

श्री-कृष्ण-पाद-तनूज-रत्न-काञ्ची-पुरीश–श्री-वरद-राजापरावतार-भूत–श्री-लोकाचार्य-प्रणीते भगवन्-नियमनत् प्रवृत्ते संस्कृत-द्राविड-वेद-सूत्र-भाष्य-श्रुत-प्रकाशिकादि-सारार्थ-तत्त्व-प्रकाशिके श्री-वचन-भूषणादि-शास्त्रे

அநு கூராநிறகும். ज्ञान-भक्ति-वैराग्य- ங்களிட்டு மாறினப்போலே வடிவிலே; தொடை கொள்ளலம்படி இருக்கும் பரார்த்தர் प्रतिकूल- ராகிருர் देहात्माभि- மானிகளும் स्व-तन्त्र- ரும், अन्य-शेष-भूत- ரும், उपायान्तर-निष्ठ- ரும், स्व-प्रयोजन- பரரும், उपायान्तर-निष्ठ- ருக்கு உததேச்யன் देवतान्त- ர்யாமி யான் சர்வேச்வான் उपायं कर्म-ज्ञान-भक्ति- கள் उपेयं भगवद्-अनुभवம் । स्व-प्रयोजन- பரருக்கு उद्देश्यन् நெஞ்சினால் நினைப்பான் எவனென்கிறவன் उपायं स्वकीय-स्वीकारं उपेयं स्वार्थ-कैङ्कर्यम् । முதல் சொன்ன மூவரும், திக்ரஹத்துக்கிலக்கு; மற்னற யிருவரும் அனுக்ரஹத்துக்கிலக்கு

इति ॥

प्रयोजयितृत्वं द्वि-विधं आज्ञा-शास्त्रम् अनुज्ञा-शास्त्रम्

प्रयोजयितृत्वं नाम नियन्तृत्वम् - तच् च द्वि-विधम् - शासन-लक्षणं, तन्त्रण-लक्षणं चेति - तन्त्रण-लक्षणं नाम स्वयम् एव जीव-करण-कलेवरादिष्व् आविश्य कार्य-करणम् । तच् चार्थयितृत्वं - तत्-प्रकृष्ट-दया-विषय-भूत-भक्ति-पारवश्य-प्रपन्न-विषये - शासन-लक्षण-प्रयोजयितृत्वं शास्त्र-वश्य-विषये । तच् च शास्त्रं द्वि-विधम् आज्ञा-शास्त्रम् अनुज्ञा-शास्त्रं चेति । “यावज् जीवम् अग्नि-होत्रं जुहोती"त्य्-आद्य्-आज्ञा-शास्त्रं परतन्त्र-शक्ताधिकारि-विषयं ज्ञानाधिक्य-प्रपन्नाधिकारि-विषयम् इति यावत् ॥

ईश्वरः शास्त्र-मुखेन प्रयोजकः । “स्वर्ग-कामो यजेत”, “मुमुक्षुर् ब्रह्मोपासीते"त्य्-आदि-शास्त्रम् अनुज्ञा-शास्त्रं स्वतन्त्राधिकारि-विषयं सः कर्ता-फलभोक्ता च ईश्वरः तद्-विषये अनुमन्ता शास्त्र-फलं प्रयोक्तरि इत्य् उक्तत्वात् फलं अनुमन्तृ-गतं, न कर्ता शास्त्रार्थवत्वात् इति सूत्रेण सामान्यतः कर्तृत्वं सिद्धान्तितं शास्त्रार्थवत्त्वात्, अर्थवच्-छास्त्र-नियोज्यत्वाद् इत्य् अर्थः ॥

[[P54]]

“परात् तु तच्-छ्रुतेर्” इति सूत्रेण नियोज्य-कर्तृत्वं निर्णीतम् । कृत-प्रयत्नापेक्षस् त्व् इत्य् अनेन शास्त्रदि-सार्थक्य-सिद्ध्य् अर्थं तत्-सङ्कोचं कृत्वा अधिकारि-विषय-व्यवस्था कृता । नियोज्य-कर्तृत्वं सिद्धोपाय-निष्ठ–स्व-रूपानुरूपं, कैवल्याधिकारी-स्वार्थानुभव-कैङ्कर्य-कामी च यथा-क्रतु-न्यायात् अयथोपासनात् स्वार्थ-फलं भुङ्क्ते श्री-भाष्य-कर्त्र्-अधिकरणे यच् च प्रकृतेः क्रियमाणानीत्य्-आदिना गुणानाम् एव कर्तृत्वं स्मर्यत इति । तत् सांसारिक-प्रवृत्तिष्व् अस्य कर्तृता[[??] सत्त्व-रजस्-तमो-गुण-संसर्ग-कृता न स्व-रूप–प्रयुक्तेति प्राप्ताप्राप्त-विवेकेन गुणानाम् एव कर्तृतेत्य् उच्यत इति वाक्य-व्याख्याने संसार-दशायां प्रवृत्तिः सांसारिके प्रवृत्तिर् इति श्रुत-प्रकाशिकायाम् उक्तत्वात् संसारिणः स्व-तन्त्र-कर्तृत्वं दृष्टं - तत् तुच्छम् इति नियोज्य-कर्तृत्वं युक्तम् इति मत्वा தனக்கே யாக வெனக் கொள்ரளுமீதே क्रियताम् इति मां वद इति शठारि-गुरु-लक्ष्मण-प्रभृतयः अवोचन् ॥

नियोज्य-कर्तृत्वम् [[??]]

कर्ता शास्त्रार्थवत्त्वाद् इति सूत्रम् ।

आत्मनः कर्तृत्वानङ्गीकारेण भोक्तृत्व-मात्रं वदतः साङ्ख्यस्य मत-निरासे प्रवृत्त-शास्त्राणां प्रमिति-जनन-द्वारा प्रवर्तन-लक्षण-फलकत्वात्, यजेत स्वर्ग-कामः मुमुक्षुर् ब्रह्मोपासीतेत्य् एवम् आदि-शास्त्राणि तत्-तत्-फल-भोक्तारं कर्तृत्वे नियुञ्जते । अतः स्वर्ग-कामना विद्यते चेत्, यागं कुर्यात् । मुमुक्षा विद्यते चेत् ब्रह्मोपासनं कुर्यात् इति वदन्ति । ब्रह्मानुभव-रूप-फल-विषये स्वार्थत्वेन प्रवृत्तिः क्रियते चेत् तदा उपासन-कर्ता, फल-भोक्ता च अयम् एव । तदानीम् ईश्वरस्य एतद्-विषये अनुमन्तृत्व-रूप-नियन्तृत्वम् एव न तु तन्त्रण-रूप-नियन्तृत्वम् ॥

पूर्व-मीमांसायां “शास्त्र-फलं प्रयोक्तरी"ति प्रयोक्तुर् एव शास्त्र-फल-गामित्वम् उक्तम् – अतः इदं सूत्रं सर्व-कर्तृत्व-स्थापकम् इत्य् उच्यते चेत् कर्ता भोक्तृत्वाद् इति वक्तव्यं तन् न उत्तर-सूत्रे आत्मनः स्वाभाविक-नियोज्य-कर्तृत्वं स्थिरीकृतम् । सिद्धान्त-योजनायां तु, “कर्ता शास्त्रार्थवत्वात्” “शास्त्र-फलं प्रयोक्तरी"ति सूत्र-द्वये जीवस्यैव साधनानुष्ठातृत्वं फल-भोक्तृत्वं च साधितम् इति न वक्तुं शक्यते ॥

[[P54]]

तत्र शरण-वरणाधिकारिणं प्रति भगवदीय-साधनानुष्ठान-फली-भूत-कृतिमत् त्व् अस्य भगवद्-भोगोद्देशेनैव प्रवृत्तेः अवधात-स्वेदवत् आनुषङ्गिक-भोक्तृत्वस्य च विवक्षितत्वात् । प्रकृति-संसर्ग-कृत-परमात्माधीन-कर्तृता-ज्ञानस्य प्रमिति-रूपत्वे ऽपि अदृष्ट-द्वारक-यत्-किञ्चित्-फलोद्देश्यक-साधनानुष्ठानार्हत्व-लक्षण-कर्तृत्व-ज्ञानस्य स्व-प्रवृत्त्य्-उद्देश्य-भोगाश्रयत्वार्हत्व-लक्षण-भोक्तृत्व-ज्ञानस्य च भ्रम-रूपत्वस्य नमश्-शब्दादि-सिद्धत्वात् अस्य च भ्रम-द्वयस्य अन्-आद्य्-अ-चित्-सम्बन्ध-निबन्धनाहङ्कार-मम-कार-मूलत्वात् ॥

शेषत्व-लक्षणम्, पारतन्त्र्य-लक्षणम्

ईश्वरः निरङ्कुश-स्वातन्त्र्यात् - द्विधा पुण्य-पापौ निर्माय त्याज्योपादेय-विभाग-प्रतिपादक-शास्त्रं ददत् सन् - यः निन्दितं करोति - तं शिक्षयति । यः विहितं करोति तं परिपालयति । तद्वत् अन्-अन्तरं निष्कृष्टाधिकारिणः विषये शेषत्व-पारतन्त्र्यादि–स्व-रूप–शोधक-मूल-मन्त्रादि-प्रवचनम्अ-कृत-शेषत्वं नाम । पर-गतातिशयाधायकत्वे सति स्वातिशयानाधायकत्वम् । अत्र पर-पदं शेषत्वेनाभिमत-वस्तु-व्यतिरिक्त-शेषि-परम् - शेषिणि कृपादि-युक्ते राज्ञि अतिव्याप्ति-वारणाय स्वातिशयानाधायकत्व-दलम् - भृत्यातिशयस्यापि स्वातिशयान्तर्गतत्वेन, स्वातिशयानाधायकत्वं नास्ति । अतः अवधारण-घटितम् एव शेषत्व-लक्षणम् आवश्यकम्

पर-गतातिशयाधानेच्छया उपादेयत्वम् एव यस्य स्व-रूपं सः शेषः परः शेषी”

इति हि वेदार्थ-सङ्ग्रहे ऽनुगृहीतम् ॥

पार-तन्त्र्यं नाम भोग-मोक्ष-साधन-गोचर-कृत्य्-अन्-अर्हत्वम् । मूल-मन्त्रः पद-त्रयेण क्रमेण — अन्-अन्यार्ह-शेषत्व–अन्-अन्य-शरणत्व–अन्-अन्य-भोग्यत्व-रूप–स्व-स्व-रूप–याथात्म्य-त्रयं, अन्-अन्य-निरपेक्षम् ऐदम्पर्येण प्रतिपादयति - अन्-अन्यार्ह-शेषत्वं नाम भगवन्-मुखोल्लास-मात्रोद्देश्यक-प्रवृत्त्य्-अर्हत्वम् अन्-अन्य-शरणत्वं नाम भगवत्-प्रसाद-द्वारक-फल-साधन-गोचर-प्रवृत्त्य् अनर्हत्वम् ॥ अन्-अन्य-भोग्यत्वं नाम – स्व-प्रवृत्त्य्-उद्देश्य-भोगवत्वानर्हत्वम् । स्व-प्रवृत्त्य्-उद्देश्य-भोगवत्वानर्हत्वं नाम स्व-प्रवृत्त्य्-उद्देश्य-भोगानर्हत्वम् ॥

[[P55]]

प्रवृत्त्य्-अभावे ऽपि भोगस्योद्देश्यत्वं स्यान् नामेति चेत्, भगवद्-भोगस्य स्व-प्रयोजनत्वेन उद्देश्यत्वं नास्ति इति च प्रवृत्तिश् च पारतन्त्र्य–स्व-रूप–विरुद्धा इति च सूचयितुं स्व-प्रवृत्त्य्-उद्देश्य-भोगवत्वानर्हत्वम् इत्य् उक्तम् – अतः भगवन्-मुखोल्लास-मात्रोद्देश्यक-प्रवृत्त्य्-अर्हम् इत्य् अ-पुनर् उक्तिः । द्वयं सिद्धोपाय-याथात्म्यम् अन्य-निरपेक्षम् ऐदम्पर्येण प्रतिपादयति ॥

सिद्धोपाय-याथात्म्यम्, पुरुषार्थ-याथात्म्यम्

सिद्धोपाय-याथात्म्यं नाम – निरपेक्ष-पुरुष-कार-भाव-विशिष्ट-लक्ष्मी-विशिष्टस्य
गुण-विग्रह-विशेष-विशिष्टस्य भगवतः चेतन-प्रवृत्ति-सामान्य-निरपेक्ष–स्व-प्रसाद–द्वारक-कैङ्कर्य-पर्यन्त-मोक्ष-करणत्व-रूपम् । कैङ्कर्यं नाम शेषत्वोपधायक-भोग्य-प्रार्थनीय-पर-प्रयोजन-प्रवृत्ति-रूपत्वं चरम-श्लोकः – महा-फल-विशेष-भूताप्रतिषेधादिक-परम-पुरुषार्थ-लक्षण-कैङ्कर्य-पर्यन्त-मोक्षात्मक–[[??]] तत्-प्रतिबन्धक-विमोचनान्त-मध्य-गत-फल-परम्परां केवल-भगवद्-अभिमततया भगवत्-प्रयोजनम् इति प्रदर्श्य पुरुषार्थ-याथात्म्यं प्रतिपादयति ॥

पुरुषार्थ-याथात्म्यं नाम स्वयं प्रयोजन-भगवन्-मुखोल्लास-मात्रोद्देश्यक-शेषवृत्तित्वम् । विस्तरस् तु – श्री-मन्त्रार्थ-कठिन-पद-दीपिका-चरम-श्लोक-सङ्गति-ग्रन्थादौ द्रष्टव्यः – मूल-मन्त्र-मन्त्र-रत्न-चरम-श्लोक-शोधितः स्व-रूपः चेतनः निर्ममतया परार्थानुभव-परार्थ-कैङ्कर्य-प्रवृत्तश् चेत् तस्य ईश्वरः परम-फलं स्वं ददाति यथोपासनत्वात् । श्री-भाष्ये – प्राप्ताप्राप्त-विवेकेनेति कर्ता स्व-रूप–प्रयुक्तेत्य् उक्तत्वात् । स्व-रूपानुरूप-कर्तृत्वं नियोज्य-कर्तृत्वम् इति फलितम् ॥

[[P56]]

प्रपत्तौ मोक्ष-साधनत्व-ज्ञानेन प्रवृत्तश् चेत्, स्वतन्त्र-कर्तृत्वम् आयातं - मुमुक्षु ब्रह्मोपासीतेति मोक्ष-कामना-प्रदर्शनात् “शास्त्र-फलं प्रयोक्तरी"ति न्यायेन कर्तृत्व-फल-भोक्तृत्वे चेतन-गते चेत्, तदा ईश्वरः अनुमन्ता, मूल-मन्त्रादि-शिक्षित–स्व-रूपः चेतनः नियोज्य एव, अहं भगवद्-उक्तं कुर्वे इति प्रवृत्तश् चेत् ईश्वरः स्वयम् एव फलं भूत्वा निरतिशय-प्रीतो भवति ईश्वरेण प्राप्ताप्राप्त-विवेकार्थं हि मूल-मन्त्रादि-वचनं कृतम् – अतः स्वतन्त्र-कर्तृकोपासनादिषु चक्षुर् अप्रदाय सिद्धोपाय-निष्ठस् सन् तन्-नियमितं करोति चेत्, तद्-विषये ईश्वर एव कर्ता भोक्ता प्रयोजकश् च, अनुमन्ता न ॥

ईष्वर एव कर्ता, भोक्ता, अनुमन्ता [[??]]

अत्र परायत्ताधिकरण-श्रुत-प्रकाशिका श्री-वचन-भूषण-मीमांसायां प्राप्ताவும் प्राप्य-தனுயு प्राप्ति-க்குகப்பாறுமவனே इति च प्रमाणम् । परायत्ताधिकरण-श्रुत-प्रकाशिकायां प्रथम-प्रवृत्तस्य अनुमन्तृत्ववत् अत्यन्तानुकूल-प्रतिकूलयोः प्रयोजयितृत्वम् अपि फल-दान-कल्पं इत्य् अत्र द्वेधा योजना – अनुकूल-प्रतिकूल-शब्दौ केवलं पुण्य-पाप-कृत्-परौ चेत्, तद्-उभय-विषये अ-प्रवृत्त-प्रवर्तन-रूप-प्रयोजक-कर्तृत्ववान् ईश्वरः । योजनान्तरे पुण्यस्य सुकृत-दुष्कृते धूनुते पुण्य-पापे विधूय उद्देश्य-विरोधि-पापं इत्य्-आद्य्-उक्त-रीत्या प्रतिकूल-शब्द-वाच्यत्वे तत्-कर्तृ-विषये ईश्वरस्य प्रातिकूल्य-व्यवसायित्वात् । तादृश-प्रयोजकत्वं प्रातिकूल्य-व्यवसाय-फल-दान-कल्पं भवति । अत्यन्त-परतन्त्रस्य अनुकूल-शब्द-वाच्यत्वे ईश्वरस्य प्रथमत एव चेतने तादृश-पारतन्त्र्य-ज्ञानोत्पादने प्रवृत्तत्वात् ईश्वरस्य इष्टतमत्वात् ईश्वरः तद्-विषये प्रयोजकः । तादृश-प्रयोजकत्वं च अत्यन्त-पारतन्त्र्य-व्यवसाय-फल-दान-कल्पं न मुख्यत्वात् अतः कल्प-शब्दः ईषन्-न्यूनार्थे कल्प-प्रत्ययः । फल-दान-तुल्यम् इत्य् अन्-उक्त्वा फल-दान-कल्पम् इति प्रयोगात् तत्-तद्-अधिकारानुगुण्येन योजना-द्वयं अभिमितम् इति सूचितम् ॥

[[P57]]

परायताधिकाण-श्रुत-प्रकाशिका [[??]]

वर-वर-मुनि-गुरुवर्यैः तत्रोपेक्ष्य “ततो ऽनुमत्ये"ति श्लोके अन्वय-प्रदर्शन-पूर्वकं उदासीन-னாப்போல் इति प्रत्यपादि तादृशाधिकारिणः तत्-पूर्वम् एव कृपा-विषयत्वात् एतत्-कृताज्ञा-शास्त्रानुष्ठानस्य कैङ्कर्य-रूपत्वम् । न त्व् अनुज्ञा शास्त्रानुष्ठानस्य परार्थ-प्रपन्नैः प्राप्यं जीवः, प्राप्ता ईश्वरः । स्वीकारम् अप्य् अन्-अपेक्ष्य भगवान् उपायः । फलं परार्थानुभवादि-शब्दादि-भोग-प्रभृति–स्व-प्रयोजन-पर्यन्तं विरोधि इति अर्थ-पञ्चक-याथात्म्यम् अनुसन्धेयम् तत्त्व-त्रय-व्याख्याने ॥

अचिद्वत् पार-तन्त्र्यम् [[??]]

परात् तु तच्-छ्रुतेर् इत्य् अत्र प्रयोज्य-कर्तृत्वं सिद्धान्तितम् । ननु कर्तृत्व-सामान्य-निषेधः सिद्धान्तः । अत्र प्रधान-कर्तृत्वं नास्तीत्य् उच्यते । रहस्य-पूर्व-पक्षे स्वातन्त्र्ये सति अमात्य-पारतन्त्र्यवत् पराधीन-कर्तृत्वम् अङ्गीकृतम् । तत्-पराधीन-कर्तृत्वं स्वातन्त्र्य-सहत्वात् अचिद्वत्-पारतन्त्र्य–स्व-रूप–विरुद्धम् । अचिद्वत्-पारतन्त्र्यं नाम अचिद्वत्–स्व-रूपोपाय-पुरुषार्थेषु निवृत्त-मम-कारत्वं प्रयोज्य-कर्तृत्वं स्वाभाविकं अचिद्वत्-पारतन्त्र्य–स्व-रूपानुरूपं साधन-भूत-कर्म-ज्ञान-भक्ति-प्रपत्ति-देश-वास-नाम-सङ्कीर्तनादिः प्रधान-कर्तृत्वायत्ता जिज्ञासाधिकरण-भाष्ये ज्ञान-प्रसरे तु कर्तृत्वम् अस्त्य् एव । तच् च न स्वाभाविकं अपि तु कर्मकृतम् इत्य् अ-विक्रिय–स्व-रूप एवात्मेत्य् अनुगृहीतत्वात् ॥

श्री-वचन-भूषण-दिव्य-शास्त्रे द्वितीय-प्रकरणे

वेदान्तங்
களுமாய மாகவிதிக்கிறபடி யென்னென்னில் ஔஷத ஸேவை பண்ணுதவர்களுக்கு அபிமதவஸ்துக்களிலே அத்தைக் கலசியிடுவாரைப்போலே, ஈசவரனைக் கலந்து விதிக்கிற தித்தனை

इत्य्-आद्य्-अनुगृहीतत्वात् उपायान्तरस्य अभिमत-वस्तु-स्थानीयत्वं निरुपाधिक-सिद्धोपायस्य रोग-निवर्तकौषध-स्थानीयत्वं च प्रतीयते । अतः कर्मादीनाम् उपायत्वम् एव नास्ति । आपात-प्रतीत्या उपायत्वम् । अभिमत-वस्तुनः औषध-सम्मिश्रत्वेन रोग-निवर्तनोपायत्व-ज्ञानवत् । औषधस्यैव रोग-निवर्तकत्वात् तन् न वास्तवम् ॥

[[P58]]

श्येनेनाभिचरन् यजेत, स्वर्ग-कामो यजेत कर्मणैव हि संसिद्धिं ज्ञान-भक्ति-समन्वितम् कर्म

इत्य्-आदिना कर्मादीनाम् उपायत्वेन वेद-विधिस् तु तत्-तद्-रुचि-जनकत्वम् अपेक्ष्य प्रवृत्ता । अतः साधन-भक्ति-निष्ठ-साधन-प्रपत्ति-निष्ठान् प्रति स्वार्थानुभव-स्वार्थ-कैङ्कर्य-रूप-फल-प्रदानांशे भगवतः अयथावस्थित-स्वार्थत्वांश-वैषम्यस्य

ஈச்வரன் உபாயமானால் ப்ரபத்தி உபாயமன்று भक्ति- உபாயமானால் ஈச்வரன் உபாயமன்று

इति षट्-सहस्रिका-व्याख्योक्त-रीत्या सिद्धतया कर्मादीनाम् अपि भ्रान्त्या उपायत्वेन ग्रहणात् । तादृशोपाधिना भगवतः उपायत्वम् औपाधिकः कर्मादीनाम् उपायत्वं चेतन-बुध्यारोपितम् । न तु वास्तवम् इत्य् अनुगृहीतम् ॥

मुक्तौ फल-भेदोपपत्तिः

रहस्य-त्रय-मीमांसा-भाष्ये – प्रथमाध्याय-प्रथम-पाद-चतुर्-दशाधिकरणे, न चैवम् अपि प्रपन्नत्वे फल-भेदो न स्याद् इति वाच्यम् । प्रथमम् एव मूल-मन्त्रेण स्व-रूप–याथात्म्य-ज्ञान-पूर्वकं मन्त्र-रत्न-चरम-श्लोकार्थानुसन्धानेन साधनान्तर-परित्याग-पूर्वकं उत्तर-वाक्य-प्रतिपन्न-कैङ्कर्याभिरुच्या पुरुष-कार-वरण-पूर्वकं सिद्धोपाय-स्वीकाराभावेन तत्त्व-ज्ञान-दशायां भगवद्-एकोपायत्वाध्यवसाये सत्य् अपि कर्म-ங்னகங்கர்யத்திலே புகுயி त्य्-आद्य्-अनुगृहीत-रीत्या प्रारब्ध-कर्म-योगाद्य्-अनुवृत्ति-सद्भावेन च साधनान्तर-निष्ठानं कर्म-योगादेर् एव मुक्ति-व्याजतया फल-भेदोपपत्तेः ॥

இவைத்த தர்மமென்கிறது. பிரமித்த அர்ஜுனன் கருத்தாலே, வேத கருத்தாலே, வேதபுருஷன் உபாயாந்தராங்கமாக விதித்தது. ஒரு பலஸ்துக்கரிய வழியும் எளிய வழியும் மித்யாஸ்தி.

निष्कर्षक-रहस्य-त्रय-मीमांसा-सूक्तिषु

வேதாத்தங்களி உபாயமாக விதிக்கிறபடி யென்னென்னித் யாதி

निष्कर्षक-श्री-वचन-भूषण-मीमांसा-सूक्तिषु च साधनान्तरम् एव नास्तीति सिद्धान्तितत्वेन

உபாயாந்தரா நிஷ்டர்க்கு உத் தேச்யனி-

त्य्-आदि-सूक्तौ स्व-प्रयोजन- பார்க்குத்தேச்யனி-त्य्-आदि-सूक्तौ च नैयायिकस्य वायुर् अ-प्रत्यक्षः यस्यामतं तस्य मतम् इत्य्-आदाव् इव मतत्व-द्वारक-सम्बन्धष् षष्ठ्य्-अर्थः इति वक्तव्यत्वेन तत्-सूक्ति-विरोधाभावाच् च ।

[[P59]]

एतेन प्रापकान्तरं அக்ஞர்க்கு உபாயம் ज्ञानि- ளுக்கபாயम् इत्य्-आदि-सूक्तिर् व्याख्याता ।

प्रपत्ति-व्याज-व्यतिरिक्त-व्याज-रूपं कर्म-योगादिकं अज्ञैर् अ-दृष्ट-द्वारक-मोक्ष-कारण-रूपोपायत्वेन ज्ञायते । ज्ञानिभिस् तु तादृशोपायत्वेन अ-ज्ञायमानं तद्-रक्षण-प्रवृत्ति-विरोधित्वेन निषिद्ध-रूपोपायत्वेन ज्ञायते इत्य् अर्थः ।

इति ।

श्री-लोकाचार्य-मुनि-प्रणीतं திருமந்தி ரார்த்த கடினபத தீபிகாபாம் - सृष्ट्य्-आदि-முகத்தாலே பண்ணின கிருஷிபலமென்கிற வாகாரங்களானவை.உபாயாந்தரங்களான, भक्त्य्-आदि-களுக்கு மொக்குமே யாகிலும் உபாயாந்தர நிஷ்டனுக்கு ஸ்ருஷ்ட்யாதிகளில் यौग-पद्य- மனுக்ரஹகார்யமென்கிற ப்ரதிபத்தியன்னிக்கே. ஸுக்ருதமூலமென்கிற ப்ரதிபத்தியே நடக்குகையாலே, भक्त्या - திகளுக்குமிவ் வாகாரம் ஒக்குமென்ன வொண்ணா தென்று தாத்பர்யம்

इति

திருமந் திரார்த்த कठिन-पद-दीपिकायां चरम-श्लोक-प्रकरणे

ஸாதனமாக வென்னது साधनत्वेन என்பது புடி. இவன் ஸாதனமென்று நினையிடாதபோது, அமையுமங்ஙனங் களயே யிருப்பன். ஆகையாலே, ஸாதனமாக வென்னெண்ணிச் செய்கிறது. இத்தால் இவைத்தக்கு அங்ஙனந்வமே நிற்கின்ற வ்யாபாரம். साधनत्वं चेतन-बुध्या வந்தென்றிற்று. ஆனால் வேதபுருஷன் விதிப்பானென்னென்னில் சாஸ்த்ர விச்வாஸத்துக்காக श्येन-याग-ச்யேநயாகத்தை விதித்தாப்போலே, स्व-रूप–विश्वास-த்துக்காக स्व-यत्न-க்ருதத்தாலே பல சித்தி யென்றகுத்ருக்குமிசேதனன் புக்தி யாலே பக்தியை ஸாதனமாக விதித்தான்

इति ॥

[[P60]]

ब्राह्मण्य-विशिष्ट-शरीर-विषयक-ज्ञानं कर्मण्य् अधिकारः । शरीरात्म-भ्रमस्य विरोधित्वं नास्तीति रहस्य-पूर्व-पक्षे देहात्म-भ्रमः कर्मणि अधिकारः इति सिद्धान्ते । श्रुत-प्रकाशिकायां “देवो ऽहं मनुष्यो ऽहम्” इति ज्ञानं करिष्य इत्य् अत्र भसत इत्य् उक्तम् । देव-पिण्डत्व-प्रकारकाहं-शब्दार्थ-विशेष्यक-ज्ञानम् आत्मनीति देहात्म-भ्रमोपपत्तिः । प्रधान-कर्तृत्वे साधने प्रवृत्तिः देहात्म-भ्रम-मूलका । तथैवानुगृहीतम् श्री-रहस्य-त्रय-मीमांसा-भाष्य-सिद्धाञ्जने । अत्रापि प्रपन्न-जन–कूट-स्थानां पराङ्कुशादीनाम् अ-परोक्ष-विवेक-शालित्वात् अ-परोक्ष-भ्रमाधिकारकं भक्त्य्-आदिकं तेषां स्व-रूप–विरुद्धम् एवेत्य् अभिप्रायो द्रष्टव्यः । एतत् सर्वम् अभिसन्धायानुगृहीतम् श्री-वचन-भूषण-मीमांसा-भाष्ये तत्रैवाधिकारे वरद-देशिकैः साधनाननुष्ठान-मात्रं देहात्म-भ्रम-कार्यम् । तच् च श्री-विष्णु-पुराणे ऽभिहितम् —

अधिकार-बोध-युक्तेषु विद्यते भाव-भावना ।
अ-क्षीणेषु समस्तेषु विशेष-ज्ञान-कर्मसु ॥

इति ॥

श्री-विष्णु-पुराण, तद्-व्याख्यान-विवरणम् [[??]]

अत्र श्री-विष्णु-चित्तार्याः संसारिष्व् एव हिरण्य-गर्भादिषु भावना-त्रयान्वयः इत्य् आह - “अधिकार-बोध-युक्तेष्व्” इति श्लोकेन मत्-फल-साधनत्वान् मद्-अर्थम् इदं कर्मेत्य् अधिकारि-बोध–स्व-रूपम् । अधिकार-बोधस्यापि अधिकारम् आह “अ-क्षीणेष्व्” इति । विशेष-ज्ञानं देवादि-भेद-भिन्नापरोक्षात्मक-भ्रमः यावद्-भ्रमानुवृत्तिः तावद्-अधिकार-बोधः तेषु शास्त्र-वश्यत्वम् इति । कर्मानुष्ठानम् उभयानुष्ठानं च प्रवर्तते । देव-मनुष्याद्य्-आत्मानुसन्धान-रूपं मानस-वाचिकादि-प्रवर्तत इत्य् अर्थः इति । तस्माद्-उपासनानुष्ठानस्य साधन-प्रपत्य्-अनुष्ठानस्य च देहात्म-भ्रम-मूलकत्वात् स्व-रूप-विरुद्धत्वं न च वर्णाश्रम-धर्माणाम् अपि अन् अनुष्ठानं प्रसज्यते । तेषां कैङ्कर्यत्वेनानुष्ठेयतया भ्रम-मूलकत्वासम्भवाद् इति ॥

अत्र तावत् साधनाननुष्ठान-मात्रम् इत्य् अत्र साधन-शब्दो भोग-मोक्ष-साधन-परः । मात्र-पदं कार्त्स्न्य-परं देहात्म-भ्रम-शब्देनापरोक्ष-भ्रमो विवक्षितः । उदाहृत-श्लोके विवक्षितार्थस्यास्फुटत्वात् तद्-व्याख्यानं दर्शयति – अत्रेति श्लोके विशेष्यं स्फुटयति संसारिष्व् एवेति । श्लोके छान्दसो वर्णातिरेकः फल-कामना-फल-साधनानुष्ठान-फल-भोगाधिकारः इति हि प्रसिद्धिः । अतस् तद्-अनुसन्धानम् अधिकारि-बोध इत्य् आह यद् इति । यद् इदम् आर्त्विज्यं तद् अपि मद्-अर्थं मत्-फल-साधनत्वात् अतो मत्-कर्तृकम्]] इत्य् अर्थः ॥

[[P61]]

अत्र स्व-प्रवृत्त्य्-उद्देश्य-फलाश्रयत्व-लक्षण-भोक्तृत्वानुन्धानं भोग-मोक्ष-साधनानुष्ठातृत्व-लक्षण-स्वतन्त्र-कर्तृत्वानुसन्धानं च स्पष्टम् । विशेष-ज्ञान-कर्म-स्व-क्षीणेषु सत्सु ये अधिकार-बोध-युक्ताः तेषु भाव-भावना विद्यते इत्य् अन्वयम् अभिप्रेत्य उत्तरार्ध-प्रयोजनम् आह – “अधिकार-बोधस्यापी"ति । “जानीहि विज्ञान-विजृम्भितानि” इत्य् अत्र देवादि-रूपेणात्मानुसन्धानं विज्ञान-शब्दार्थः । विभेद-जनके ज्ञाने इत्य् अत्र देवादि-विभेदो विभेद-शब्दार्थः । देवादि-भेदे ऽपध्वस्त इत्य् अत्र देवादि-रूपो भेदः इत्य्-आदि-भाष्योक्तम् अभिसन्धायाह – “विशेष-ज्ञानम्” इति देवादि-भेद-प्रकारकं ज्ञानम् इत्य् अर्थः । तादात्म्यारोपे आरोप्यस्य प्रकारत्वाद् इति भावः । देवादीति देवादभिः भेदैः प्रकारैर् भिन्नः अ-परोक्ष आत्म-भ्रम इत्य् अर्थः । “अर्थेनैवेति न्यायाद्” इति भावः । अ-परोक्ष-पदेन यौक्तिक-भ्रम-व्यावृत्तिः । विशेष-ज्ञानेषु तद्-धेतु-भूत-कर्मसु च अक्षीणेष्व् इत्य् अर्थ इति भावः ॥

अधिकार-बोधस्य भावना-हेतुत्व-वचनानुग्राहक-न्यायम् आह — तेष्व् इति “स्वर्ग-कामो यजेत” “मुमुक्षुर् ब्रह्मोपासीत” इत्य्-आदौ कर्तृत्व-भोक्तृत्वयोः प्रतीत्या अधिकार-बोधाभावे शास्त्र-वश्यत्वं न स्यात् । ततश् च विध्य्-अधीनम् अनुष्ठानं नोपपद्यत इति भावः । देहात्म-भ्रमस्याधिकार-बोध-हेतुत्वे वचनानुग्राहकान्वय-व्यतिरेकानुरूप-न्यायः पूर्वोक्तो ऽत्राभिप्रेतः । कर्मानुष्ठानं उपासनानुष्ठानम् इत्य् अनेन भाव-भावानेत्य् अत्र यजेत उपासीत इत्य्-आदि-धात्वर्थो भावः । तस्यानुष्ठानं भावनेत्य् अर्थः उक्तो भवति प्रवर्तते भवतीत्य् अर्थः । भावना-त्रयान्वय-व्यवस्थायाम् अपि विशेष-ज्ञानम् एव हेतुर् इत्य् आह — देव-मनुष्यादीति तस्माद् इति साधनाननुष्ठान-मात्रं देहात्म-भ्रम-कार्यम् इति श्री-विष्णु-पुराणे अभिहितत्वाद् इत्य् अर्थः ॥

[[P62]]

भक्तेः उपायत्व-परिशोधनम् [[??]]

न्याय-तौल्याद् आह — साधन-प्रपत्तीति । स्व-रूप–विरुद्धम् इति स्व-रूप–पदं अ-परोक्ष-देहात्मक-विवेक-शालि–स्व-रूप–परं तस्य परोक्ष-देहात्म-विवेक-शालिषु वर्ण-भेद-भिन्नेषु दिव्य-सूरिषु वर्णाश्रम-धर्मानुष्ठान-नियम-दर्शनं नोपपद्यत इत्य् आशङ्क्य परिहरति – न चेति । कैङ्कर्य-विधायक-शास्त्राणां केवल-परार्थत्वेनैव तद्-विधायकत्वाद् अधिकार-बोधाभावे ऽपि तत्र विध्य्-अधीनानुष्ठानम् उपपद्यत इत्य् अभिप्रायेणाह – तेषाम् इति । अधिकार-बोध-पूर्वकम् अनुष्ठेयत्वे कैङ्कर्यत्वम् एव भज्येतेत्य् अभिप्रायेण भ्रम-मूलकत्वासम्भवाद् इत्य् उक्तम् इति दिग् इति । तत्रैव पर-गतातिशयाधानेच्छा-जन्योपादेयत्व-रूप-शेषत्वं[[??]] पराधीन-कर्तृत्व-रूप-पारतन्त्र्यं च साधन-भक्त्यादाव् अधिकार इति श्री-वचन-भूषण-मीमांसा-भाष्ये – भक्तेः उपायत्वे दश-विध-विरोधादि-सम्भवाधिकारे ॥

यद् अप्य् उक्तं – पराशराद्य्-अनुष्ठितत्वाद् उपासनस्याशिष्ट-परिग्रहो नास्तीति तन् न, ततो ऽप्य् अतिशयित-ज्ञानादिभिर् नाथ-यामुन–यति-वरादिभिर् अननुष्ठितत्वेन शिष्टाचार-विरोधो ऽस्त्य् एव । श्री-पराशरादेः शास्त्राचार्यत्वे ऽपि साराचार्यत्वाभावात् । तन्-नमस्कारस् तूपकारकत्व-कृतः ॥

यद् अप्य् उक्तं – “कलौ कृत-युगं तस्ये"ति न्यायात् कलाव् अपि स्वयं प्रयोजनत्वेन तन्-निष्ठानां पूर्वाचार्याणां सत्त्वान् न् काल-विरोधः इति, तन् न, कलि-युगे साध्य-भक्तेः सर्वाधिकारायाः पराङ्कुशादि-सम्प्रदाय-प्राप्तायाः सत्त्वे ऽपि साधन-भक्तेः साधन-प्रपत्तेश् च सम्प्रदायस्य विच्छिन्नतया अस्मिन् काले तद्-अनुष्ठानायोगात् । न हि लक्ष्मी-नाथम् आरभ्य साध्य-प्रपत्ति-साध्य-भक्त्योर् इव चतुर्-मुखम् आरभ्य साधन-प्रपत्ति-साधन-भक्त्योर् गुरु-परम्परा-प्राप्तत्वम् अवगम्यत इति तत्रैव भक्तेर् गौण-मोक्ष-साधनत्व-निषेधाधिकारे सङ्ग्रह-श्लोकः ॥

[[P63]]

भक्ति-योगाद्य्-उपायः स्यात् ज्ञानिनां तु विरोधतः ।
तत्-तत्-सुकृत-मूलत्वाद् देहाद्य्-उपाधि-सम्भवात् ॥
सांसारिक-प्रवृत्तित्वाद् देहात्म-भ्रम-मूलतः ।
देवतान्तर-संसर्गाद् अ-प्राप्तत्वाद्-अ-सम्भवात् ।
तथा प्राप्ति-विरुद्धत्वाद् आचार्यैर् अ-परिग्रहात् ॥
काल-धर्मत्व-राहित्यान् निषिद्धत्वाद् अपायवत् ।
तत्त्व-दृग्-दिव्य-सूक्तेश् च भय-शोक-निदानतः ।
अभियुक्तस्य वचनाद् अपायः साधनानन्तरम् ॥
भक्तिस् तु व्याज-मात्रं स्याद् अज्ञे ऽप्य् अ-फल-साम्यतः ।
नायं नास्त्य् अ-कृतो नेति श्रुत्योपाय-निषेधतः ॥
न वा व्याजत्वम् अप्य् अस्य एष एवेति च श्रुतेः ।
ईश्वरेणैव दत्तत्वात् फलत्वाच् चैव निन्दनात् ॥
पितुर् गो-दान-तुल्यत्वाद् उपायत्वे ऽपि वा भवेत् ।
अभिचारेण तुल्यत्वाद् उपायत्वे ऽपि वा भवेत् ।
अभिचारेण तुल्यत्वान् निषेधाच् च विधानतः ॥
तत्त्वं स्व-रूपम् अस्यास् तु प्रपत्ताव् अधिकारता ।
दुष्करत्वेन शोकः स्याद् गजेन्द्रस्येव सर्वतः ॥

इतीति ॥

श्रियः पुरुष-कारत्वम् [[??]]

साध्य-भक्ति-निष्ठ-साध्य-प्रपत्ति-निष्ठान् प्रति परार्थानुभव-परार्थ-कैङ्कर्य-विषये उपायत्वेन ग्रहणात् श्रीर् इति धर्मि-ग्राहक-प्रमाण-सिद्ध-निरुपाधिक-पुरुष-कारत्व-विशिष्ट-श्रियः श्रियः भगवत एवोपायत्वं उपायोपेयत्वे तद् इह तत्त्वं न तु गुणाव् इति श्री-भट्टारक-गुरु-श्री-सूक्ति-रीत्या स्वाभाविकम् । अत्र द्वये शरण-शब्दार्थस्य उपायत्वस्य उत्पत्ति-शिष्ट-गुणावरोध-न्यायेन चरण-शब्दार्थे अन्वयात् विशेषण-भूतायां श्रियि अन्-अन्वयो द्रष्टव्यः ॥

उत्पत्ति-शिष्ट-गुणावरोध-न्यायस् तु — तप्ते पयसि दध्य् आनयति, सा वैश्वदेव्य् आमिक्षा-वाजिभ्यो वाजिनम् इत्य् अत्र सा वैश्वदेवीति वाक्येन विश्वेदेव-देवतामिक्षा-द्रव्य-सम्बन्धानुमितो यागो विधीयते । वाजिभ्यो वाजिनम् इत्य् अत्रापि वाजि-दैवत्य-वाजिन-द्रव्यक-कर्मान्तरं विधीयते न तु पूर्व-विहिते वैश्वदेव-यागे वाजिन-द्रव्य-रूपो गुणो विधीयते । पूर्वं यागस्य आमिक्षा-गुणावरुद्धत्वेन तत्र वाजिनस्य निवेशायोगात् इति । उत्पत्तौ वैश्वदेव-यागोत्पत्ति-वाक्ये, शिष्टः विहितः गुणः आमिक्षा-रूपः गुणः, तद्-अवरोधः, तत्र इत्य् अर्थः ॥

[[P64]]

श्रियः पत्नीत्व-शेषत्वाणुत्वादिकं स्वतस् सिद्धं अ-साधारणोपायत्वासाधारणोपेयत्व-विभुत्वेश्वरत्वादिकं नास्तीति मन्तव्यम् । श्रियः तादृशोपायत्वोपेयत्वाभावः श्री-भाष्यस्य साध्य-भक्ति-प्रतिपादकत्व-समर्थन-प्रकाशे वक्ष्यते ॥

श्रियः अणुत्व, पत्नीत्व-समर्थनम्

ननु श्रियः भगवद्वत् ईश्वरत्व-विभुत्वादिकम् अङ्गीकार्यं श्री-तत्त्व-सिद्धाञ्जन-श्री-विभुत्व-समर्थनादौ ईश्वरत्व-विभुत्वादीनां स्थापितत्वाद् इति मैवं शङ्किष्ठाः । तद्-ग्रन्थादौ पत्नीत्वानुगुणेश्वरत्वं धर्म-भूत-ज्ञान-काल-सदृश-विभुत्वं च अन्ततो गत्वाङ्गी-कृतम् इत्य् अवेहि । तथाहि - श्री-तत्त्व-सिद्धाञ्जने - सृष्टि-स्थितीत्य् आरम्य नातिव्याप्ति-दोषश् चेत्य् अन्तेन, तत्र जगज्-जनकत्वेत्य् आरभ्य अन्-अर्हत्वादित्य् अन्तेन, प्राप्यत्वम् अत्रेत्य् आरभ्य नोक्त-शङ्कावकाशः इत्य् अन्तेन, स्त्रीत्व, पत्नीत्व-पति-पारार्थ्यादिभिर् आरभ्य युज्यते इत्य् अन्तेन वाक्येन च क्रमेण ब्रह्म-लक्षण–जगत्-कारणत्व-प्रयुक्त-कृत्स्न-व्यापार-कर्तृत्व–परम-प्राप्यत्व–निग्रह-कर्तुत्व–तत्-तत्-फलोपधानाद्य्-अन्-अङ्गीकारस्य, पुरुष-कारत्व-शेषत्वादेर् अङ्गीकारस्य च स्फुटतरं प्रतिपादनात् ॥

श्री-विभुत्व-समर्थन-ग्रन्थे - न चैवम् अन्-अन्योपायत्व-हानिः । तस्याः उपेयत्वे अन्-अन्योपेयत्वानुपपत्त्य्-आपत्या विशेषणत्वेन परिहारस्य तुल्यत्वाद् इत्य् अनेन लक्ष्म्याः अ-प्रधानोपायत्वाप्रधानोपेयत्व-प्रतिपादनात् । तत्र तत्र पर्यवसाने ऽन्य-परत्वाच् च । श्रियः ईश्वरत्व-विभुत्वाद्य्-अ-भावः श्री-तत्त्व-सुधा-न्याय-मन्दरादौ प्रपञ्चितः । तथा हि - श्री-तत्त्व-सुधा-न्याय-मन्दरे “ईश्वरस् सर्व-भूतानाम्”, “ईश्वरीं सर्व-भूतानां” इत्य् अत्रत्ययोः सर्व-शब्दयोर् अन्यतर-सङ्कोचेनोपपत्तौ उभय-सङ्कोचस्यानुचितत्वात् । पत्नीत्व-श्रवणस्य भगवद्-विषय-सर्व-भूतेश्वर-वाक्य-भूयस्त्वस्य विनिगमत्वात् । अ-निश्चितार्थ-श्रुतेः निश्चितार्थ-श्रुत्य्-अधीनार्थ-निर्णायकत्वौचित्यात् । श्री-विषय-वाक्यस्य सर्व-शब्दस्य भगवद्-व्यतिरिक्त-परतया सङ्कोचात् । भगवद्-विषय-वाक्यस्य सर्व-शब्देन श्रियो ऽपि सङ्ग्रहात् श्रियो भगवन्-नियाम्यत्वम् ॥

[[P65]]

किं च सत्यप्य् उभय-सङ्कोचे श्री-श्रीशयोर् नान्योन्य-नियन्तृत्व-विरहेण जगन्-नियन्तृत्व-सिद्धिः, वाक्य-भेदापत्तेस् तयोस् तत्रासामर्थ्याच् च । न वा अर्थाद् वा कल्पनैक-देशत्वाद् इति न्यायेन जगन्-नियन्तृत्वान्यथानुपपत्या भगवन्-नियाम्यत्वाभाव-सिद्धिः, अन्य-नियन्तृत्वस्य तद्-अन्य-नियाम्यत्वेन सह विरोधाभावाद् इत्य्-आदिकं ग्रन्थान्तरे विस्तरेणोक्तम् ॥

अत्र तु श्रीः न भगवन्-नियाम्या जगन्-नियन्तृत्वात् भगवद्वत्, इत्य् अनुमानेन श्रियो भगवन्-नियाम्यत्वाभावः कैश्चित् परिष्कृतः । तद्-दोषः स्फुटम् उपन्यस्यते -

नियन्तृत्वं नियाम्यत्व-विरह-व्याप्यम् ईरितम् ।
यत् तन् न धरणी-देव्याम् अनैकान्तिकता यतः ॥

जगन्-नियन्तृत्व-भगवद्-अ-नियाम्यत्वयोर् न व्याप्तिः भू-देव्यां व्यभिचारात् । “ईश्वरीं सर्व-भूतानाम्” इति भू-सूक्ते श्रवणाद् इति भावः । भू-देव्यां हेत्व्-अभावोपपादनेन-व्यभिचारोद्धारं शङ्कते - भूमौ श्रुतं नियन्तृत्वं तद्-विभूतित्वतः श्रियि पर्यवस्यति चेद् एतत् तद्-विभूतौ हरौ भवेत् । लक्ष्म्याः समस्तं स्त्री-नाम्नी लक्ष्मीर् इत्य्-आदिषु भुवः श्री-विभूतित्वावगमाद् इति शङ्काशयः । परिहरति एतद् इत्य्-आदिना - एतत् लक्ष्म्यां श्रुतं नियन्तृत्व–तद्-विभूतौ हरौ श्री-विभूतिके भवति कीर्तिः श्रीर् वाक् च नारीणां नित्यानपायिनीत्य्-आदिषु श्रियो भगवद्-विभूतित्वावगमाल् लक्ष्म्यां हेतोः स्व-रूपासिद्धिर् इति भावः । न च विभूतित्वम् ऐच्छिकम् इदानीम् ऐच्छिकत्वासिद्धेर् इति हृदयम् । कालात्ययापदेशम् आह -

नियन्तृत्वं न प्रविणम् अ-शेषत्वस्य साधने ।
कालात्ययापदिष्टत्वं पत्नीत्व-श्रवणाद् यतः ।

अ-शेषत्वस्य भगवन्-नियाम्यत्वाभावस्य पत्नीत्व-श्रुत्या नियन्तृत्व-हेतोः कालात्ययापदिष्टत्वं साधित-साध्यकत्वम् । तथा च प्रत्यक्षेण अन्-उष्णत्वानुमानम् इव पत्नीत्व-विधायक-श्रुत्या बाध इति भावः ।

[[P66]]

ग्रन्थाभिसन्धि-बाधोद्धारं शङ्कते -

अ-सिद्धं यदि पत्नीत्वम् अ-सिद्धा स्थान् नियन्तृता ।
औपाधिकं चेत् पत्नीत्वं नियन्तृत्वं च तादृशं ॥

अ-सिद्धा स्याद् इति गूढाभिसन्धेः परिहारः । औपाधिकं चेद् इति शङ्कितुर् अभिसन्ध्य्-उद्घाटनम् । नियन्तृत्वं चेद् इति परिहर्तुर् अभिसन्ध्य्-उद्घाटनम् इति विवेकः । औपाधिकं चेत् भगवतो दश-रथादि-शेषत्ववद् ऐच्छिकं चेत् तादृशं औपाधिकं सेनान्यादेर् इव भगवद्-इच्छायत्तं स्याद् इत्य् अर्थः । न नियन्तृत्व-मात्रम् अ-नियाम्यत्व-साधकं पूर्वोक्त-व्यभिचारात् । नाप्य् अन्-अन्यायत्तं नियन्तृत्व-तत्-साधकं स्व-रूपासिद्धेर् इति हृदयम् । यद् वा अ-सिद्धं यदि पत्नीत्वम् इत्य्-आदि असिद्ध-पदेन बहिर्-अङ्गं लक्ष्यते । बहिर्-अङ्गं ह्य् अ-सिद्धम् इति शास्त्र-कृद्भिर् उक्तम् । अयम् अर्थः - नियन्तृत्वं आत्म-धर्मत्वाद् अन्तरङ्गम् । पत्नीत्वं तु विग्रह-विशिष्ट-धर्मत्वाद् बहिर्-अङ्गम् । तथा च अन्तरङ्ग-बहिर्-अङ्गयोर् विरोधे अन्तरङ्गानुरोधेन बहिर्-अङ्गस्य नेतव्यत्वात् पतीत्वस्य ऐच्छिकत्व-सिद्धिर् इति न तेन कालात्ययापदिष्टत्वम् इति शङ्काशयः । अत्राह - अ-सिद्धा स्याद् इति । अयं भावः - न तावद् विग्रहात्मोभय-निरूपित-वृत्तिकत्वं विग्रह-विशिष्ट-धर्मत्वं तथाप्य् आत्म-वृत्तिकत्वानपायेनान्तरङ्गत्वाक्षतेः । नापि विग्रहावच्छिन्नात्म-वृत्तिकं तत् उक्त-युक्तेः । नियन्तृत्वस्यापि बहिर्-अङ्गत्वापत्तेश् च न वा विग्रह-द्वारकात्म-वृत्तिकत्वं तत् कालान्तरे ऽपि पत्नीत्व-व्यवहार-दर्शनात् लक्ष्मी-विग्रहाणाम् आनन्त्येन तत्र सर्वत्र पत्नीत्व-वृत्ति-स्वीकारे गौरवाच् च ॥

किं च आत्म–स्व-रूपं प्रति नियन्तृत्वं अन्तरङ्गं, पत्नीत्वं बहिर्-अङ्गम् इति हि भवन्-मतम् । तत्र न तद्-वृत्तिकत्वे सति तद्-इतरावृत्तिकत्वं तन्-निरूपित–बहिर्-ङ्गत्व–प्रयोजकम् ॥ तथा सति साक्षात् सम्बन्धेन घट-वर्तिनो ऽपि घट-पट-संयोगस्य बहिर्-अङ्गत्वं घट-निरूपित–बहिर्-अङ्गत्व–प्रसङ्गात् । किन्तु व्यवहित-सम्बन्धेन तद्-वृत्तिकत्वं तत्-प्रयोजकम् । एवं च लक्ष्मी-दिव्यात्म–स्व-रूपे साक्षात् सम्बन्धेन पत्नीत्वस्य वृत्तेर् वक्तव्यम् । पति-कर्तृक-व्यापाराधीन-रस-भोक्तृत्व-रूपस्य च पत्नीत्वस्य आत्म-वृत्तित्वान् न बहिर्-अङ्गत्व-सम्भवः ।

शेषित्त्व-रूपस्यापि तस्यात्म-वृत्तित्वम् अ-क्षतम् ।
पालयन्ती हरेर् भावं पत्नी भगवतो ह्य् अहम् ॥

इति । भगवद्-अभिप्रायानुविधान-कर्तृत्व-रूपस्य पत्नीत्वस्यात्म–स्व-रूप–धर्मत्वम् अ-क्षतम् ॥

[[P67]]

न च शरीर-विशिष्ट-विषयक–विवाह-संस्कार–निबन्धनत्वात् पत्नीत्वत्य-विग्रह-विशिष्ट-धर्मत्वं नित्य-पत्न्यां तद्-अभावात् । न च तस्य लौकिक-पत्न्यां तथात्व-दर्शनाद् विग्रह-विशिष्ट-धर्मत्वम् । तथा सति नियन्तृत्वस्यापि तद्-आपत्तेः । “राजानम् अभिषेचयेत्” इति शरीर-विशिष्ट-विषयक-अभिषेकाख्य-संस्कार-निबन्धनत्वस्य राज-निष्ठ-नियन्तृत्वे दर्शनात् । न चानन्यार्ह-स्त्रीत्व-रूपस्य पत्नीत्वस्य विग्रह-विशिष्ट-धर्मत्वम् । तद् ध्य् अनन्यार्ह-स्तनादिमच् छरीरकत्वं तच्-छरीर-विशेष-रूपम् इति न तस्य शरीर-विशिष्ट-रूपत्वं स्वस्मिन् स्व-प्रवृत्तित्व-प्रसङ्गात् । शरीरं चात्मैक-प्रकारतया तद्-एक-धार्यत्वाद् आत्म-धर्मः इति न नियन्तृत्वापेक्षया कश्चिद् अपि विशेषोस्ति । अतो नियतृत्व-पत्नीत्वयोः अन्तरङ्ग-बहिर्-अङ्गत्व-व्यवस्थानुपपत्तेर् न भवद्-इष्ट-सिद्धिर् इति ॥

अनयोर् एव शङ्का-परिहारयोर् विवरणम् औपयिकं चेत्य् आद्य्-उत्तरार्थम्

अ-श्रुतेन श्रुत-त्यागो न मीमांसक-तोष-दः ।
सर्व-शाखा-प्रत्ययस्य निष्फलत्वं यतो भवेत् ॥

श्रुतोपपत्तये ह्य् अ-श्रुतम् अपि कल्पनीयं नत्व् अ-श्रुत-कल्पनेन श्रुत-बाधनम् । तथा सति चोदना-पुनर्-आरम्भः “न वियद् अ-श्रुतेर्” इति मीमांसा-द्वय-द्वैतीयीकाधिकरण-द्वय-विरोधापत्तेः । तत्र हि अपूर्व-कल्पनम् आकाशोत्पत्तिश् च श्रुत-स्वर्ग-साधनत्व-सर्व-विज्ञानोपपत्तये निर्णीतम् इत्य् अभिसन्धायाह - “न मीमांसकेति” श्रुतोपपत्तये क्वाप्य् अ-श्रुतस्यापि कल्पयितव्यत्वे वाक्यान्तर-श्रुतम् अ-कामेनापि स्वीकार्यम् । अन्यथा सर्व-शखा-प्रत्यय-न्याय-विरोधश् चेत्य् आह - “सर्व-शाखेति” स हि अन्-उक्तांश-स्वीकार-फलकः इति भावः । इदं च सर्व-शब्द-द्वय-सङ्कोचम् अभ्युपेत्योक्तं स एव नास्तीत्य् अन्यत्र विस्तरः ॥

[[P68]]

श्रियो जगन्-नियन्तृत्वं, विष्णु-पत्नीत्वं च श्रुतं - तत्र नियन्तृत्व-हेतुना श्रुत-विष्णु-पत्नीत्व-विरुद्ध-धर्म-साधने ऽनिष्टम् आह द्वाभ्यां -

भगवद्-दिव्य-देहस्य श्रुतौ सावयवोक्तितः ।
अ-नित्यत्वं प्रसाध्येत प्रावाही नित्यता भवेत् ॥

सावयवोक्तितः - आप्रणखाद् इत्य्-आदि-सावयवत्व-श्रवणात् । तथा च भगवद्-दिव्य-देहस् त्व् अनित्यः सावयवत्वात् सम्प्रतिपन्नवद् इत्य् अनुमानेन, नित्याकृति-धरम् इति श्रुत-नित्यत्व-विरुद्धानित्यत्व-साधनं स्यात् । नित्यत्व-श्रवणं च प्रवाहतो नित्यत्व-परं स्यात् । पत्नीत्व-अ-श्रुतेर् ऐच्छिक-पत्नीत्व-परत्ववद् इत्य् अर्थः । तथा चान्तराद् इत्य् अधिकरण-विरोध इति भावः ॥

ननु सावयवत्व-मात्रं श्रुतं - न त्व् अवयवारब्धत्वं अतो न तत्रानित्यत्वानुमानापत्तिर् इत्य् अत्राह -

आत्मनोर् ज्ञानता श्रुत्या ज्ञान-शून्यत्व-साधनात् ।
ज्ञातृत्वादेर् अन्य-विध्यम् इत्य् अन्-इष्टं समापतेत् ॥

आत्मनोः जीव-परयोः ज्ञानता श्रुतिः - “सत्यं ज्ञानं विज्ञानं यज्ञं तनुते” इत्य्-आदिका । जीवः परश् च न ज्ञानाश्रयः । ज्ञानत्वात् धर्म-भूत-ज्ञानवद् इति ज्ञान-शून्यत्वानुमानं स्यात् । विज्ञातारं जानात्य् एवेत्य्-आदेः परोक्त-रीत्या अन्तः-करणादि-परत्वं स्याद् इत्य् अर्थः तथा च ज्ञोत एवेत्य्-आद्य्-अधिकरण-विरोध इति भावः ॥

वस्तुतस् तु सावयव-श्रुत्या भगवद्-दिव्य-विग्रहे ऽप्य् अवयवारब्धत्वानुमानं स्याद् इति द्रष्टव्यम् ॥

[[P69]]

विज्ञान-घन एवेति श्रुते चाप्य् अवधारणे ।
सत्य-सङ्कल्पता श्रुत्या नियोगो ह्य् अन्यथा कृतः ॥

श्रुतयोर् विरोधे यथा-योग्यं विषय-विभाग-प्रदर्शनेनाविरोध-सम्पादनं कृत्वा श्रुत-द्वयम् अपि निरूह्यते । आत्मनि सत्य-सङ्कल्पत्वं च श्रुतम् । तत्रावधारण-स्व-रूपे जडांश-व्यावर्तनेन सार्थकत्वान् न सत्य-सङ्कल्पतायाः काचित् क्षतिर् इति हि निर्णीतम् । एवं च पत्नीत्व-विरोधिनः क्वा ऽप्य् अ-श्रवणात् कथं पत्नीत्वम् ऐच्छिकतया नीयेत । तथा च विरोधि-श्रवणे ऽपि विरोध-शमनेन श्रुत-स्थापने दृष्टे विरोध्य्-अ-श्रवणे तत्-स्थापनं कैमुतिक-नय-सिद्धम् इति भावः । नियोगो ऽवधारणम् । कैमुतिक-नय-सिद्धत्वम् आह -

अ-श्रुते किं पुनर् लक्ष्या अयाम्यत्वे श्रुतौ क्वचित् ।
श्रुतस्य पत्नी-भावस्य नान्यथा नयनं भवेत् ॥

अ-नियाम्यत्वाश्रवणात् श्रुत-पत्नीत्वान्यथानयनाभावः कैमुतिक-नय-सिद्धः इति भावः । समर्थनीय-ग्रन्थ-विरुद्धत्वं भवद्-उक्तानुमानस्येत्य् आह -

समर्थनीय-ग्रन्थेन विरोधो भवता स्फुटः ।
अ-नियन्तव्य-भावस्य लैङ्गिकत्व-गिरो भवेत् ॥

भवतां लक्ष्म्यां भगवन्-नियाम्यत्वाभावस्य जगन्-नियन्तृत्व-लिङ्गेनानुमेयत्वोक्तिः व्याख्येय-ग्रन्थ-विरुद्धेत्य् अर्थः । विरोधं दर्शयितुं तद्-ग्रन्थोक्तम् अर्थम् आह -

उत्सर्गत्वन्नारवाचस् तत्रोक्तम् अपवादता ।
ईश्वरत्व-श्रुतेस् तूक्ता न तद्-अर्हत्य् अपह्नवम् ॥

भगवद्-व्यतिरिक्तस्य भगवन्-नियाम्यत्व-बोधको नार-शब्दस् सामान्य-विषयत्वाद् भवत्य् उत्सर्गः नियन्तृत्व-श्रुतिस् तु लक्ष्मी-मात्र-विषयत्वाद् अपवादः

[[P70]]

तथा च - नार-शब्दावगत-नियाम्यत्वस्य लक्ष्म्यां विशेषतः श्रुतेन नियन्तृत्वेन बाध इति हि तद्-ग्रन्थे स्थितम् । अतः कथम् इयम् अनुमानोक्तिः सङ्गच्छेद् इति भावः । नियन्तृत्व-श्रुतेर् भगवद्-अनियाम्यत्वाबोधकतया विरोधाभावान् न नार-श्रुत्य्-अवादत्वम् इत्य् अन्यत्र विस्तरः ॥ इति ।

वेदान्ताचार्य-श्री-सूक्तिः (चतुः-श्लोकी-भाष्यम्)

तत्रैव अथ सूक्तैर् अनुसरति । कूर-नाथ-सुतम् इत्य् एतद् अनुसारितया, स्तुत-वेदान्त-देशिक-सूक्ति-विरोधम् आह -

अत्यन्त-साम्यम् अप्य् अस्यादृष्टान्त-स्वरसागतम् ।
स्थाप्यन् नियत-निर्बाध-पत्नीत्वाद्य्-अविरोधतः ॥
इति प्रसादिता सूक्तिस् त्रय्यन्त-गुरु-पुङ्गवैः ।
पक्षान्तरोपन्यासत्व-शङ्कान् नार्हति सूरिभिः ॥

अपि शब्दः प्राधान्य-परः । वचन-साम्य-मूलक-गम्य-साम्याद् अपि यथा सर्व-गत इत्य्-आदि-कण्ठोक्तं साम्यं प्रबलम् इति भावः । नियतत्वं स्वाभाविकत्वम् । निर्बाधत्वं नियन्तृत्वादिभिर् अ-बाध्यत्वं विशेषतः श्रुतत्वात् विष्णु-पत्न्य्-अघोरास्येशानेति, जगद्-ईशानत्व-हेतुतया श्रवणाच् चेति भावः । आदि-पदेन स्व-भूतां परिरक्षतीति उक्त-स्वत्वादिकं गृह्यते । तथा च कण्ठोक्त-साध्यस्यैव पत्नीत्वानुरोधित्वे वचन-साम्य-मूलक-गम्यस्य तद्-अनुरोधित्वं कैमुतिक-नय-सिद्धम् इति भावः । एवम् आचार्य-पादैर् एव पत्नीत्वानुरोधेनात्यन्त-साम्यम् अपि नेयम् इति उक्तत्वे ऽपि जघन्य-वचन-साम्यानुरोधेन पत्नीत्वस्यान्यथानयनं कथं रोचत इति सुधीभिर् विभावनीयम् ॥

इति प्रसादिता चतुः-श्लोक्य्-अधिकार इति शेषः । प्रसादेनोक्ता “कर्तृ-करणाद् धात्व्-अर्थः” इति णिच् । पक्षान्तरेति केचिद् आदि-शब्दाभावाद् इति भावः । पञ्चम-पक्षे तु केचिच् छब्द-निर्देशात् । आचार्य-पादैः स्व-पक्षतयैव तद्-उपन्यास इति वक्ष्यते ॥

[[P71]]

अथ -

पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च ।
प्राप्याय प्रापकायास् तु यस्माद् अग्राहि नान्यतः ॥

इत्य्-आदि–स्व-वचन–व्यक्त्य्-अवगत-तद्-एक-दैवतकत्व-तद्-एकाधीत-कृत्स्नाध्यात्म-शास्त्रकत्व-सुरभित-कुमार-वेदान्ताचार्य-सूक्ति-विरोधम् आह -

विरोध-परिहार-ग्रन्थस्य कुमार-वेदान्ताचार्य-श्री-सूक्तिः [[??]]

विश्वं प्रति तु शेषित्वं माता-पित्रोर् इव द्वयोः ।
पत्न्याश् च पति-शेषत्वात् सर्व-शेषी परः पुमान् ॥
इत्थं कुमार-वेदान्त-गुरुभिः श्लोक ईरितः ।
विरोध-परिहाराख्ये ग्रन्थेनापह्नव-क्षमः ॥

पत्न्याश् चेति लौकिक-पत्नी भूम्य्-आदि-साधारण-पत्नीत्वस्यैव लक्ष्म्यास् सत्वात् । तद्वद् एव भगवच्-छेषत्वं श्रियोपीति-भाव इति हृदयम् । कुमार-वेदान्त-गुरुभिः आचार्य-पाद-तनयैर् वरद-गुरुभिः । पुनर् अप्य् आचार्य-पाद-सूक्ति-विरोधम् आह -

दम्पती इति पूर्वोक्तेर् अन्-उक्तेर् जगतां पती ।
इत्य् अस्य पत्नी-भावस्य प्राबल्यं जगद्-ईशनात् ॥
वृणीमहे च ताव् आद्यौ दम्पती जगतां पती ।

इति ।

सार-प्रथम-पद्य-स्थो ऽयं ग्रन्थः । अत्र हि दम्पति-शब्दस्य विशेष्य-समर्पकत्वम् । शरण्य-दम्पती इमौ दम्पती श्रद्धावन्तौ, दम्पत्योर् निशि जल्पतोः इत्य् आदिष्व् इवोचितम् । एवं च जगतां पती । इति विशेष्योपादानं समाप्त-पुनर्-आदानं भवति । तच् च विष्णु-पत्नीत्वानुसारेण जगत्-पतित्वं श्रियः न तु जगत्-पतित्वानुसारि-पत्नीत्वम् इति बोधनायाकाङ्क्षितत्वान् न दोषः इति परिहर्तव्यम् ॥

[[P72]]

यद् वा श्री-श्रीशयोर् जगत्-पतित्वस्य सत्तोपलम्भौ क्रमेण विष्णु-पत्नीत्व-लक्ष्मी-पतिभ्याम् इति बोधनार्थं तथा निर्देश इति वक्तव्यम् । अतो नियन्तृत्वानुसारेण पत्नीत्वस्यान्यथा-नयनं तद्-विरुद्धम् इति भावः । जगतां पती इत्य् अस्यानुक्तेर् इत्य् अन्वयः । जगन्-नियन्तृत्वापेक्षया पत्नीत्वस्य प्राबल्यम् अभ्यर्हिततम-सार-ग्रन्थ-प्रथम-पद्याभिप्रेतम् इति भावः ॥

ननु कथं श्रियो जगत्-पतित्वं विष्णु-पत्नीत्वायत्तम् इत्य् अत्राह -

अस्येशाना त्वम् इत्य् अत्र श्लोके श्री-स्तोत्र-मध्य-गे ।
शत्रादेशेन पत्नीत्व-हेतुकेश्वरता श्रियः ॥

श्रियः जगत्-पतित्वं विष्णु-पत्नीत्व-निबन्धनम् [[??]]

अस्येशाना त्वम् असि जगतः संश्रयन्ती मुकुन्दम्

इति खण्डो ऽत्राभिप्रेतः । श्रियः ईश्वरता संश्रयन्तीति शत्रादेश-ज्ञाप्य-विष्णु-पत्नीत्व-हेतुकत्ववतीत्य् अर्थः । अत्र हि “लक्षण-हेत्वोर्” इति सूत्रम् अभिप्रेतम् । विष्णु-पत्नीत्व-वेषेण हि सर्वस्य जगत इयम् ईष्टे इति श्री-तात्पर्य-चन्द्रिकायाम् उक्तम् । नित्यम् अपि लक्ष्म्य्-ऐश्वर्यं भगवन्-नित्याभिमतत्वाद् एव भगवन्न् इत्य् एच्छा-सिद्धत्वात् भगवन्न् इत्य् आयत्तम् इत्य् अभिप्रायेण अभिमतत्वाद् इत्य् उक्तम् । न पुनर् अभिमतत्वोक्त्या भगवद्-अन्-आयत्तम् इत्य् उच्यत इत्य् उक्तम् ॥

श्री-विषय-विचारः पूर्विक-ग्रन्थाः - १. तत्त्व-निर्णय २. तत्त्व-सङ्ग्रह ३. तत्त्व-दीप ४. तत्त्व-भूषण ५. तत्त्व-रूपण ६. रहस्यामृत ७. रहस्य-मञ्जरी ८. रहस्य-विवेक ९. रहस्य-त्रय-सार १०. रहस्य-त्रय-मीमांसा भाष्यम् [[??]]

स्तोत्राधिकारे च ईश्वर इह स्वेतर-सर्व-नियन्ता स्वयम् अन्यैः स्व-सङ्कल्पम् अन्तरेणानियाम्यः पुरुषोत्तमः इत्य् उक्तम् । पत्न्य्-अन्तरतो ऽपि श्रियः प्राधान्याद् इह तद्-उक्तिः । तद्-अपेक्षयापि भगवतः प्राधान्य-व्यञ्जनाय सह-शब्दः इति चोक्तम् । चतुः-श्लोक्य्-अधिकारे च पत्न्य्-अन्तरेभ्यः प्रकर्षं विवक्षन्न् इत्य् उक्तम् । अत्र च लक्ष्म्य्-ऐश्वर्यं निरङ्कुश-भगवद्-ऐश्वर्यापेक्षया गौणम् इति स्फुटम् अवगम्यते । एतेनानवाधिकत्वम् इह स्वोत्कृष्टावधिराहित्यम् इत्य् एतद् अपि

विश्वं प्रति तु शेषित्वं माता-पित्रोर् इव द्वयोः

इत्य् उक्त-दिशा श्रियो जगद्-ईश्वरत्वे भगवद्-ईश्वरत्वस्य नोत्कर्षावधित्वम् ईशितव्यापि शेषाद् इति वा भगवद्-धीनोत्कर्षावधि-राहित्य-परम् इति वा योज्यम् इति सिध्यति । अत एव सेनेशाद्य्-ऐश्वरीं गौणीं कृत्वा चार्थाद्य्-ऐश्वरीम् इत्य् एतद् अपि प्रत्युक्तम् इति ॥

[[P73]]

तत्रैव अत एव हि तात्पर्य-चन्द्रिकायां विष्णु-पत्नीत्व-वेषेण हि सर्वस्य जगतः इयम् ईष्ट इत्य् उक्तम् । न चायं वेष-शब्दः कृत्रिमाकार-परः सूक्ष्म-चिद्-अचिद्-विशिष्टे वषेणेत्य्-आदि अ-कृत्रिमे ऽपि प्रयोगात् । न चेयम् इत्यं भूत-लक्षणे तृतीया कारक-विभक्ति-प्राबल्याद् इति ॥

तत्रैव अत्र च नियन्तृत्वं किं चेतन-विषये पत्यभिप्रायानुगुणम् आज्ञापयितृत्वम् उत शरीरतया सर्व-चेतनाचेतनान्तर्यामित्वम् इति विकल्प्य आद्ये इष्टत्वम् अभिप्रयन् द्वितीये भाष्य-विरोधम् आह -

न नियन्तृत्वम् अन्यत्र परमात् पुरुषात् क्वचित् ।
इति भाष्ये स्फुटं दृष्टं ब्रह्म-शब्दार्थवद् धि तत् ॥

तथा च भाष्यं - तद् एतत् सर्वान् लोकान् सर्वाणि च भूतानि सर्वाणि च दैवानि सर्वान् वेदान् सर्वांश् च यज्ञान् अन्तः प्रविश्य सर्व-प्रकार-नियमनं सर्व-शरीरतया सर्वस्यात्मत्वे च सर्वज्ञात् सत्य-सङ्कल्पात् पुरुषोत्तमाद् अन्यस्य न सम्भवतीति । तथा परस्यैव ब्रह्मणः सर्वात्मत्वं सर्व-शरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्य च इति च । ब्रह्म-शब्देति । यथा ब्रह्म-शब्देन पुरुषोत्तमो ऽभिधीयत इति भाष्य-विरोधान् नास्याब्रह्म-शब्द-वाच्यत्वम् । तथैवोपदर्शित-भाष्ययोः पुरुषोत्तम-पर-ब्रह्म-शब्द-बलान् निषेधावधारणाभ्यां च नास्याः सर्व-शरीरतया सर्व-नियन्तृत्वम् इति भावः । तत् नियन्तृत्वम् । ब्रह्म-शब्दार्थवत् भाष्यस्य पुरुषोत्तमादि-निर्देश-निवर्तित-श्री-निष्ठतावत्त्वेन सादृश्यं विवक्षितम् । हीति ब्रह्म-शब्दार्थत्वाभावे पराभ्युपगम-प्रदर्शनम् । एवं च ब्रह्मेश्वर-शब्दार्थयोर् भेदोपगमाद् यादव-मत-प्रवेश इति भावः ॥

[[P74]]

किं च

श्रियो भगवत्-तुल्येश्वरत्वे ईश्वरः इह स्वेतर-सर्व-नियन्ता स्वयम् अन्यैः स्व-सङ्कल्पम् अन्तरेणानियाम्यः पुरुषोत्तम

इति स्तोत्राधिकार-सूक्ति-विरोधः । पुरुषोत्तम इति श्रियो मुख्येश्वरत्व-व्युदासः । इह तत्त्व-विभाजकोपाधि-निर्देश-प्रकरणे । एतेनान्यत्र श्रिय उच्यमानम् ईश्वरत्वम् अन्यद् एव नेदृशम् इति विवक्षितम् इति लभ्यते । भवत्-कूट-स्थैः पञ्च-मत-भञ्जन-कृद्भिर् अप्य् अक्षराधिकरण-व्याख्यायां प्रशासन-सर्वाधारत्वयोः श्री-तत्त्वे कथञ्चिद् अप्य् अन् उपपत्तेर् इति अनुगृहीतम् । अतो नियन्तृत्वम् उक्त-विधं श्रियो दुर्वचम् । अत एव च तात्पर्य-दीपिकायाम् - अन्तः प्रविश्य नियमनं भगवतो नेश्वर-शब्द-बलाद् अवगतम् । अतादृश्य् एव ईश्वर-शब्दस्य प्राक् प्रयोग-दर्शनात् । किं तु अन्तर्यामि-ब्राह्मणाद् इति । तत्र नास्ति लक्ष्मी-सन्निधिर् इत्य् अनुगृहीतम् । एवं कारणत्वादिनेत्य्-आदि-श्लोक-द्वयेनाक्षर-धियां त्व् अवरोधः अन्तर्याम्य्-अधिदैवत्याद्य्-अधिकरण-भाष्य-विरोध उक्तः ॥

तत्रैव - अत्र च शेषत्वस्य ऐच्छिकत्वम्, किम् अन्-अन्याधीन-भगवद्-इच्छा-सिद्धत्वे सति भगवद्-इच्छाधीन-लक्ष्मीच्छा-सिद्धत्वम्, उत भगवतो दश-रथादि-शेषत्वस्येवानन्याधीन-स्वेच्छा-सिद्धत्वम् इति विकल्पम् अभिप्रेत्याद्य-शिरसि न तावद् आद्यः इष्टत्वात् मुक्तस्यापि तादृश-शेषत्वाङ्गीकारात् । मुक्तस्य हि सत्य-सङ्कल्पत्वम् आविर्भूतं सङ्कल्पाद् एवेत्य् अत्र पञ्चमी हेत्व्-अर्थिका-इच्छा-सिद्धत्वं चेष्टत्वातिरिक्तेच्छाधीन-निष्पत्तिकत्व-रूपम् अत एव अस्या अपि तथैव इष्टत्वाद् इच्छा-सिद्धत्व-व्यपदेशः इति व्याख्यानं कृतम् ॥ मुक्त-सङ्कल्पश् च भगवत्-सङ्कल्पाधीनः । तथा च भाष्यं - यद्य् अप्य् अपहत-पाप्मत्वादिः सत्य-सङ्कल्पत्व-पर्यन्तो गुणः प्रत्यग् आत्मनः स्वाभाविक एवाविर्भूतः तथापि तस्य तथाविधत्वम् एव परम-पुरुषायत्तम् इति । श्रुत-प्रकाशिकायाम् अपि ईश्वराधीनं मुक्तस्य सत्य-सङ्कल्पादि प्रवर्तते । अस्य जगद्-व्यापार-वर्जितेषु स्व-भोगार्थेषु नित्य-सङ्कल्पो भूयान् मा भून् मत्-सङ्कल्प-विरुद्धेषु जगद्-व्यापारेष्व्-इत्य् अपवर्ग-प्रदान-समय एवेश्वरस् सङ्कल्पयतीत्य् अभ्युपगमाद् इत्य् उक्तम् । पर-तन्त्रस्यापि सत्य-सङ्कल्पत्वम् इच्छा-विघाताभावाद् उपपद्यत इति स्तोत्राधिकारादाव् उक्तम् । अतो मुक्तस्यानुसञ्चरणादिकं भगवत्-सङ्कल्पाधीन–स्व-सङ्कल्प–सिद्धम् इतीदृशम् ऐच्छिकत्वं मुक्तादि-शेषत्व-साधारणम् इत्य् अर्थान्तरम् इति दूषणं हृदि निधाय द्वितीयं दूषयति -

[[P75]]

अ-विधेयम् अन्-आधेयम् अ-शेषम् अधिकं समम् ।
नेति वस्तु-परिच्छेदाभावः स्याद् विश्व-देहिनः ॥
इति सर्वार्थ-सिध्य्-उक्तिर् विरुद्धा भवतां भवेत् ।

“अ-विधेयं अनियाभ्यम्” इत्य् अर्थः । तथा च भगवत्-तद्-ज्ञान-व्यतिरिक्तस्य भगवद्-अधीनत्व-रूप-भगवन्-नियाम्यत्व-स्थ-सर्वार्थ-सिद्धाव् एवोक्तेर् लक्ष्मी-च्छाया-भगवद्-अधीनत्वाभावोक्तिस् तद्-विरुद्धेति भावः । दूषणान्तरम् आह -

प्रकार्येकत्व-निर्णीतिः व्यर्था स्याद् भाष्य-दर्शिता ।

“नेह नानास्ति किञ्चन” इत्य्-आदिभिर् अ-ब्रह्मात्मक–स्व-तन्त्र–वस्तु-निषेधः क्रियत इति भाष्यादौ प्रतिपादनाल् लक्ष्मी-च्छाया अ-ब्रह्मात्मकत्वं तद्-विरुद्धम् इति भावः । इदम् उपलक्षणं चिद्-अचित्-प्रकारकं ब्रह्मैकम् एव तत्त्वम् इति न्याय-सिद्धाञ्जनोक्तिर् विरुध्येत । तत्र ब्रह्मणः सर्व-चेतनाचेतन-प्रकारत्वोक्तेर् इत्य् अपि द्रष्टव्यम् ॥

अथ स्यात् यद्य् अप्य् आचार्य-पाद-ग्रन्थेषु तुरीय-पक्ष एव तत्र तत्र स्व-पक्षतया प्रतीयते । तथापि स्व-पक्षोन्वारोहण-मात्रेणाचार्य-पादैर् उक्तः । अन्यथा एकायनाद् अ-विशेष-प्रसङ्गात् । यथाहि पुरुष-विद्याधिकरण-भाष्यस्यान्वारुह्य वाद-रूपत्वम् । तद्-उक्तम् -

अतः पुरुष-विद्येति न्यासाङ्गं नैव युज्यते ।
अन्वारोहण-मात्रेण भाष्ये तत्-परिकीर्तनात् ॥

इति ।

यथा च भाष्ये - चरम-श्लोकस्याङ्ग-प्रपत्ति-परतया योजनान्वारुह्य वाद-रूपा तद्वत् । अतः पञ्चम-पक्ष एवाचार्य-पादानाम् अतिभार इति । तद्-इदम् आशङ्क्य परिह्रियते -

[[P76]]

अन्योन्येन्च्छा-विघातादि-निवृत्तौ तत्-परत्वतः ।
ऐक-कण्ठ्यम् अ-शेषाणाम् आगमानां भवत्व् इति ॥
अङ्गीकारे भूमि-देव्यां सेनान्य्-आदिषु सूरिषु ।
ब्रह्म-रुद्रादि-देवेषु श्रुताव् ईश्वरता श्रुता ॥
अन्योन्येच्छा-विघातस्य निवृत्तेर् न निषिध्यताम् ।
पत्नीवत्-पुत्र-पौत्रादेर् अ-विरोधस् समञ्जसः॥
सृज्यत्व-कर्म-वश्यत्व-पारार्थ्यादि-श्रुतं क्वचित् ।
लक्ष्म्याः पत्नीत्ववत् त्व् इच्छा-सिद्धं किम् इति नोच्यते ॥

अन्योन्येच्छेति । अयं श्लोकः चतुः-श्लोक्य्-अधिकारे । तत्-परत्वतः तात्पर्यात् । अ-शेषाणाम् ईश्वर-विधि-निषेधादि-रूपाणाम् । ऐक-कण्ठ्यम् अ-विरोधः । परिहरति - अङ्गीकार इत्य्-आदिना । भाष्ये गति-सामान्य-च्छाग-पशु-नयाभ्यां लिङ्ग-भूयस्त्व-नयादिना चैकस्य ब्रह्मण एव स-कल-चिद्-अचित्-प्रकारकत्वम् उपास्यत्वं प्रकारिण एकत्वम् अन्यस्य चेश्वरत्वादिना श्रुतस्यापि -

पर-विद्यासु जीवोक्तिर् निरुक्त्य्-आदेः पराश्रया ।
तल्-लिङ्गान् अन्यथा सिद्धौ तद्-विशिष्टावलम्बिनी ॥

इति न्यायेन ब्रह्म-प्रकारत्वम् इति दिशा विशिष्टाद्वैत-सिद्धान्त-करण-विरुद्धस्याविरोधाद्वैत-सिद्धान्तस्याङ्गीकारोपसिद्धान्त-दोषावहः । तथापि तद्-अङ्गीकारे सतीत्य् अर्थः । भूमि-देव्याम् इति - तद्-विषये ऽपि “ईश्वरीं सर्व-भूतानाम्” इत्य्-आदि-श्रवणाद् इति भावः । सेनानीति - विश्व-सृज इत्य्-आदि-मन्त्रेण, स्व-सङ्कल्प-मात्रावक्लृप्त- समस्त-जगज्-जन्म-ध्वंसादिके श्री-मति-विष्वक्सेन इति गद्योपबृंहितेन तत्रापीश्वरत्वाद् इति भावः । आदि-शब्देन सुदर्शन-शेषादि-सङ्ग्रहः । तद्-विषये ऽपि भगवच्-छास्र-हरि-वंशादिष्व् ईश्वरत्वावगमाद् इति भावः । इदम् उपलक्षणं मुक्तेष्व् अपीश्वरत्वं स्यात् । स स्वराड् भवतीति विशेष-श्रुत्या एष सर्वेश्वर इत्य्-आदि-सामान्य-श्रुतीनां सङ्कोचनीयत्वाद् इत्य् अपि द्रष्टव्यम् ॥

[[P77]]

ब्रह्म-रुद्राद् इति - “हिरण्य-गर्भस् समवर्तताग्र” इति चतुर्-मुखस्यापीश्वरवं स्यात् । शम्भुर् आकाश-मध्ये ध्येय इत्य्-आदिना रुद्रस्यापि ध्येयत्वावगमाद् ईश्वरत्वं स्यात् । आदि-शब्देनेन्द्रादि-परिग्रहः । तत्रापि “नकिर् इन्द्र त्वद् उत्तर” इत्य्-आदिना सर्वोत्कृष्टत्वावगमाद् इति भावः । अन्योन्येच्छा-विघातस्य निवृत्तेः अन्योन्येच्छा-विघाताभाव-परत्वम् उपगम्य भाष्योक्त-विशिष्टाद्वैत-सिद्धान्तं विहाय अ-विरोधाद्वैत-सिद्धान्तम् उपगम्येत्य् अर्थः । श्रुतौ श्रुता ईश्वरता न निषिध्यताम् इत्य् अन्वयः । तथा च देवतान्तर-पारम्य-निरास-प्रयासो विफलस् स्याद् इति भावः । पत्नीवद् इति, पुत्रश् चतुर्-मुखः पौत्रो रुद्रः आदि-पदेनामात्यायुधादेस् सङ्ग्रहः । एतेषां पुत्रत्वादिकम् अप्य् उभयेच्छा सिद्धम् एवेत्य् उत्कर्ष-रूपत्वानपायः समानः । एतेषाम् ईश्वरत्वे ऽपि भगवतो निःसमाभ्यधिकत्वस्य न हानिः एवं विध-पुत्रादिकत्वस्यापि एवं विध-स-पत्नीकत्ववत् तद्-उपपादकत्वात् । अ-विरोधः अन्योन्येच्छा-विघाताभावः समञ्जसः युक्तः लोक-वेदयोस् तद्-अवगमान् नानुपपन्नः इति भावः । शिवस्य हृदयं विष्णुः विष्णोश् च हृदयं शिवः इत्य्-आदिभिर् आनुकूल्यं प्रसिद्धम् । एवं च तेषाम् अपीश्वरत्व-सिद्धौ पुत्रत्वादिकम् ऐच्छिकं स्याद् इति भावः ॥

सृज्यत्वेति लोकानां हित-काम्यया शापं तं ग्राह्यम् उक्तावान् इत्य्-आत्दिना भगवतः कर्म-वश्यत्वम् ऐच्छिकम् इत्य् अवगतं तद्वद् इति भावः । आदि-शब्देनापहत-पाप्मत्व-परिग्रहः । लक्ष्म्याः पत्नीत्ववद् इति । लक्ष्मी-निष्ठ-पत्नीत्ववद् इत्य् अर्थः । भगवद्-उक्त-रीत्येति शेषः । इदम् उपलक्षणं तस्याः पति-विभूतित्वाद् इत्य् अपि द्रष्टव्यम् । तस्यापि ह्य् ऐच्छिकत्वं तद्-अभिमतम् इच्छा-सिद्धम् इति । भगवद्-इच्छा-सिद्धत्वे सति भगवद्-इच्छानायत्त-तत्-तद्-इच्छा-सिद्धम् इत्य् अर्थः ॥

[[P78]]

किम् इति नोच्यत इति । श्रुतस्यापीश्वरत्व-विरोधिनो ऽन्यथा नयने लक्ष्मी-निष्ठ-पत्नीत्वादिभ्यो देवतान्तर-निष्ठ-भगवच्-छेषत्वादीनां न कश्विद् विशेष इति भावः ॥

भाष्योक्त-न्यायानुगृहीत-तत्-तद्-वाक्यस्वारस्यानुरोधे तु भूम्य्-आदिवल्-लक्ष्म्याम् अपि भगवद्-अधीनत्वादि-सिद्धिर् अनिवार्या । न हि प्रतर्दनादि-न्यायापवादको लक्ष्मी-मात्र-विषये कश्चिन् न्यायो भाष्यादिषूपलभ्यते इति हृदयम् । अत एव हि स्तुताव् अपि - अ-दूरोत्क्षिप्तैर् इव मधुरता दुग्ध-राशेस् तरग्ङैर् दूरी-कुर्यां न हि मधुरता दुग्ध-राशेस् तरङ्गान् इति औत्पत्तिको धर्मि-धर्म-भाव उक्तः । लक्ष्मी-च्छायाः स्व-तन्त्रत्व-वादो भाष्यादि-दर्शितात् प्रच्छन्न-स्पष्ट-बाह्याध्व-निरासाद् अ-गती-कृतः । अत्र तत्त्व-सङ्ग्रह-ग्रन्थः कृत्स्त्रो ऽपि योज्यः ॥

तत्र हि भगवद्-अ-भय-प्रद-राज-सूनु-चरणैर् लक्ष्म्याः कारणत्वाद्य्-अ-भावो विस्तरेणानुगृहीतः । न च तुरीय-पक्षः आचार्य-पादैर् अन्वारुह्योक्तः प्रमाणाभावात् । पुरुष-विद्यायास् तु नैरपेक्ष्य-बोधक-बहु-प्रमाणानुसारान् न न्यासाङ्गत्वम् इति तद्-अङ्गत्व-वादोन्वारुह्य-वादः । वस्तुतस् तु उपासन-विशेष एव तत्र न्यासो न प्रपत्तिः । अग्नि-होत्र-धर्म-साम्याद् अग्नि-होत्र-शब्देन मासाग्नि-होत्रम् इव प्रपत्ति-धर्म-साम्याद् उपासन-रूपो ऽप्य् अयं न्यास-शब्देनोच्यत इति तस्य पुरुष-विद्याङ्गकत्वम् उपपन्नम् इति भाष्यस्यान्वारुह्य-वादत्वम् इति भगवद्-वरद-गुरु-चरणाः । प्रपत्तेस् स-कल-फल-प्रयोजकत्वाद् उपासन-निवृत्ति-फलकत्वम् अप्य् अस्तीति चरम-श्लोकस्याङ्ग-प्रपत्ति-परतया योजना कृता नान्वारुह्य-वादतयेति भावः । नाप्य् एकायनाद् अ-विशेष-प्रसङ्गः भगवद्-इच्छाधीन-निरुपाधिक-जगच्-छेषित्वादिभिः तद्-अन्-अवकाशात् । भवद्भिर् अपि श्रियो गुणतस् सातिशयायाः ब्रह्मत्वानुपगमेन तस्योक्त-विधयैव वारणीयत्वात् । अतः पञ्चम-पक्षो नाचार्य-पादाभिमत इति भावः । एवं समर्थनीय-ग्रन्थ-दूषणान्य्-उक्तानि । अथ समर्थनानुपपत्तिम् अर्थान्तर-न्यासेन स्मारयति -

[[P79]]

तद्-विरुद्ध-व्याप्य-धर्म-सामानाधिकरण्य-भाक् ।
न हि तद्-व्याप्यताम् एति श्रौती व्याप्तिर् यतो ऽरुणात् ।

तद्-अ-भाव-समानाधिकरणस्य तद्-व्याप्यत्वं न सम्भवतीत्य् अर्थः । श्रौती श्रुत्य्-उक्ता यस्यात्मा शरीरम् इति श्रुतिर् इह विवक्षिता । अत्र हि व्यतिरेक-षष्ठी स्वारस्याच् छ्रुतिष्व् अवच्छेदकावच्छेदकान्वय-बोधस्य बहुलम् उपगमाच् च भगवद्-भिन्न-चेतनत्व-व्यापकं भगवच्-छरीरम् इति व्याप्तिः बोध्यते । काष्ठा-प्राप्तं नियाम्यं च शरीरम् । तथा च भगवद्-अनियाम्यत्व-विरुद्ध-तन्-नियाम्यत्व-व्याप्य-भगवद्-भिन्न-चेतनत्व-समानाधिकरणं जगन्-नियन्तृत्वं नानियाम्यत्व-व्याप्यम् इति भावः । अरुणत् निरुद्दवती । श्रुत्य्-अन्-उक्त-व्याप्त्य्-अपेक्षया श्रुत्य्-उक्त-व्याप्तिः प्रबलेति भावः । श्रुतौ च पुल्लिङ्गैक-वचनान्त-यच्-छब्दो न श्रियम् अभिधातुम् अलम् न वा श्रियो भगवद्भिर् भगवद्-वाचक-शब्द-शक्तौ विशेषणतया विषयत्वम् उपगतम् । स्व-रूप–निरूपकतया तद्-उपस्थितिः सा त्व् आर्थीति न तया शाब्द्य्-आकाङ्क्षा पूरयितुं शक्या । सन्नियोग-शिष्ट-न्यायस् तु नात्र प्रवर्तत इति शरीरं चास्मि वैष्णवम् इत्य् अनेनोच्यते । इदं हि वचनं यस्यात्मा शरीरम् इत्य् अत्र यच्-छब्ददात्म-शब्दाभ्यां क्रमेण श्रियो ऽनुपस्थितिं च ग्राहयतीति भवत्य् उपबृंहणं यस्यात्मेति श्रुतेर् इदं वचनम् । न चात्र सर्व-साधारण-शरीरत्वोक्तौ प्रयोजनाभावः । आपात-प्रतिपन्न-भगवद्-अन्-अधीनत्व-निवर्तनेन श्रुत्य्-उपबृंहणस्यैव प्रयोजनत्वात् गुणादि-साधारणाभिमततोक्तेर् एव निष्प्रयोजनत्वात् । प्रत्युत प्राणेभ्यो ऽपि गरीयस्याः शरीरवद्-अभिमतत्वोक्तेर् विरुद्धत्वात् । शरीर-शब्दे गौणी-प्रसङ्गाद् वैष्णवम् इत्यस्यैक-देशान्वयापत्तेस् तात्पर्य-ग्राहक-मात्रत्व-पसङ्गाच् च न विग्रहवद्-अभिमतास्मीति तद्-अर्थः । अतः श्रुत्य्-उक्त-व्याप्तिः न नियन्तृत्वानियाम्यत्व-व्याप्तिं सहत इति भावः । अनुमान-दूषणं सङ्कल्पयन्न् उपसंहरति –

व्याप्ति-क्षतेर् उपाध्य्-उक्तेर् बाधात् सत्-प्रतिपक्षतः ।
विरोध्योक्तेर् अ-सिद्धेश् च न समर्था नियन्तृता ॥

[[P80]]

व्याप्ति-क्षतेः व्याप्यत्वाभावात् नियन्तृत्वानियाम्यत्वयोर् न व्याप्तिः । पूर्वोक्त-न्यायात् भूम्याम् अनैकान्तिकत्वाच् चेति भावः । उपाध्य् उक्तेर् इति । निषिद्धेश्वरकत्वम् उपाधिः । तद् धि भगवति साध्य-व्यापकं, भूमौ साधनाव्यापकं च । बाधाद् इति । पत्नीत्वादि-श्रुतिभिर् इति भावः । सत्-प्रति-पक्षतः श्रीर् न भगवन्-नियाम्या सर्व-भूत-नियन्तृत्वात् भगवद्वत् इत्य् अत्र श्रीः भगवन्-नियाम्या पत्नीत्वात् भुवद् इत्य् अस्यापि सत्त्वाद् इति भावः ॥

विरोधोक्तेर् इति । भगवद्-व्यतिरिक्तत्वे सति नियन्तृत्वं भगवत्-प्रसादकत्व-रूप-शेषत्व-प्रयुक्तम् ।

हुत्वात्मानं विष्णुम् आराध्य पद्म-भूः

इत्य्-आदिभिर् अवगतं ब्रह्म-रुद्रादौ दृष्टं तद्वद् अत्रापि भगवद्-व्यतिरिक्तत्वे सति नियन्तृत्वं भगवत्-प्रसाद-मूलकत्वं स्वस्मिन् साधयतीति वा नियाम्यत्व–स्व-रूप–साध्याभाव-व्याप्तम् इति वा विरुद्धत्वम् इति भावः । भूर् न भगवन्-नियाम्यानियन्तृत्वात् भगवद् इत्य् अपि स्व-समीहित-विपरीत-साधकत्वं विवक्षितम् । अनन्यायत्त-जगन्-नियन्तृत्वं हेतुतया विवक्षितुं न शक्यम् । विष्णु-पत्नीत्व-हेतुक-जगन्-नियन्तृत्व-श्रवणान् मम योनिर् अप्स्व् अन्तस् समुद्र इति श्रवणाच् चेत्य् आशयेनाह – अ-सिद्धिर् इति । स्व-रूपासिद्धेर् इत्य् अर्थः । चकारेण जगन्-नियन्तृत्वं न भगवन्-नियाम्यत्वेनानुपपन्नम् अतो ऽत्रार्थाद् वा कल्पनैक-देशत्वाद् इत्य् अस्याप्य् अनवतार इत्य् अयम् अर्थस् समुच्चीयते ॥

न समर्थेति अनियाम्यत्व-साधन इति शेषः । वाक्य-द्वये ऽपि क्रमेण भगवतः श्री-नियन्तृत्वस्य श्रियो भगवन्-नियाम्यत्वस्य चानुक्तिर् एव न त्व् अ-भावोक्तिः । सर्व-शब्द-द्वय-सङ्कोच-कल्पने ऽपि न वा शब्द-द्वय-सङ्कोच-कल्पनं युक्तम् । एक-सङ्कोचेनोपपत्ताव् उभय-सङ्कोचस्यान्याय्यत्वात् । नापि विनिगमकाभावः भूयसो विनिगमस्य दर्शितत्वात् । नापि वचन-सामर्थ्यं स्त्री-प्रत्ययेन तद्-बाधात् । मच्-छेष-भूतेत्य्-आदिना वचन-द्वयस्याप्य् उपबृंहितत्वाच् चेत्य्-आदिकम् अपि सङ्कलय्यानुसंधेयम् इति भावः ॥

[[P81]]

अत्र श्री-तत्त्व-सुधा-न्याय-मन्दरे श्रियः भगवन्-नियाम्यत्वाभाव-साधकानुमान-खण्डन-पूर्वकं भगवन्-नियाम्यत्वं ईश्वरत्वाभावः । सन्नियोग-शिष्ट-न्यायाप्रवृत्तिर् इत्य्-आदिकं क्रमेण प्रतिपादितम् । तात्पर्य-दीपिकायां द्वयाधिकारे – आकरानुयायिनां तु सकृद्-एवाश्रयणम् अभिमितं तस्य च कार्यं न मोक्ष-प्रदानं तस्य ब्रह्म-लक्षणत्वात् । श्रियो ऽपि ब्रह्मत्व-स्वीकारे पाद्म-संहितायां – ब्रह्म-लक्षण-प्रश्ने वासुदेवाह्वयम् इति उत्तरोक्तिर् विरुध्यते, अव्याप्तत्वात् – अतः श्री-विशिष्ट-ब्रह्म-शब्दार्थम् इति मतम् ॥

तन् न । किं ब्रह्म-शब्देन श्रीः प्रकारतया बोध्यत इत्य् अभिप्रेतं उत तुल्यवत् ? आद्ये प्रवृत्ति-निमित्तं श्रीः न ब्रह्म-लक्षणे लक्ष्या न हि गोत्वं गो-लक्षणे लक्ष्यम् । श्रियश् च ब्रह्म-शब्द-वृत्ति-निमित्तत्वे ब्रह्मत्वस्यैव प्रवृत्ति-निमित्तता-प्रतिपादकेन बृहत्त्वं चेत्य्-आदि-भाष्य-ग्रन्थेन विरोधः । नापि द्वितीयः पुरुष-पर्यायतया ब्रह्म-शब्दः प्रयुक्त इति श्रुत-प्रकाशिका-विरोधात् इत्य्-आदिना श्रियः मोक्ष-प्रदत्वाभावः वात्सल्याद्य्-उद्बोधकत्वानुमन्तृत्व-सामरस्य-प्रेरकत्वादि च प्रतिपादितं सिद्ध-धर्म-प्रकाशिकायाम् –

ननु एक-शब्दस्य मां शब्दोक्तार्थ-व्यति-रिक्तोपायान्तर-व्यावर्तकत्वे ऽपि पर-तत्त्वान्तर्भूतायाः श्रियो मां शब्दार्थान्तर्-गतत्वेन तद्-व्यवच्छेदाभावात् चरम-श्लोकस्य भगवद्-एकोपायत्वम् अ-सिद्धम् इति चेन् मैवं, ब्रह्म-शब्देन च स्व-भावतो निरस्त-निखिल-दोषो ऽनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणः पुरुषोत्तमो ऽभिधीयते इति भाष्ये पुरुषोत्तमस्यैव ब्रह्म-शब्द-वाच्यत्वोक्त्या नारीणाम् उत्तमायास् तच्-छब्द-वाच्यत्वायोगेन पर-तत्त्वान्तर्-भावायोगात् ॥

[[P82]]

वेदान्त-तत्त्व-चिन्तां मुर-भिद्-उरसि यत्नाद् अ-चिह्नैस् तरन्ति ।

इति । श्रियः पर-तत्त्व-व्यावर्तकोक्त्या तस्या व्यावर्त्यान्तर्-भावायोगाच् च । “ह्रीश् च ते लक्ष्मीश् च पत्न्यौ” इति लक्ष्मी-पतेर् एव परत्वोक्त्या लक्ष्म्या अपि परतत्त्वान्तर्-भावे पति-पत्नी-भाव-असम्भवाच् च । सत्-ब्रह्म-आत्माकाशादि-शब्द-विशेष-निर्धारक-नारायण-शब्दस्य संज्ञात्व-निमित्त-करणत्व-विशिष्टस्य लक्ष्मी-वाचकत्वायोगेन तद्-अ-योगाच् च न च नारायण-शब्दस्य लक्ष्मी-भगवद्-एतद्-उभय-संज्ञा-रूपत्वं तथा सति त्रि-मूर्ति-संज्ञा-रूपत्वस्यापि सम्भवेन नारायण-शब्दस्य विशेष-निर्धारकत्वस्यैवासम्भव-प्रसङ्गात् ॥

नारायण-शब्दस्य देवतान्तर-संज्ञात्वम् अ-सिद्धम् इति चेत्, लक्ष्मी-संज्ञात्वम् अपि तथैव इति । अत्र श्रियः पर-तत्त्वानन्तर्-भावः चरम-श्लोकस्य मां शब्दादीनां विशिष्ट-परत्वाभावश् च प्रतिपादितः । ब्रह्मत्वस्यैव प्रवृत्ति-निमित्तता-प्रतिपादकेन “बृहत्त्वं चे"त्य्-आदि-भाष्य-ग्रन्थेन विरोधः । नापि द्वितीयः पुरुष-पर्यायतया ब्रह्म-शब्दः प्रयुक्तः इति श्रुत-प्रकाशिका-विरोधात् इत्य्-आदिना श्रियः मोक्ष-प्रदत्वाभावः वात्सल्याद्य्-उद्बोधकत्वानुनुमन्तृत्व-सामरस्य-प्रेरकत्वादि-प्रतिपादितम् । सम्प्रदाय-चन्द्रिकायां तृतीय-प्रकाशे –

एवं च दृष्ट-द्वारेणानुपयुक्तत्वात् श्रियः साधनता नास्ति । देव-राज-गुरुभिश् च – न च गुण-विग्रहयोर् अ-हेतुत्व-प्रसङ्ग इति वाच्यम् । ज्ञान-शक्त्य्-आदि-गुणाभावे भगवतः पाप-निवर्तकत्वाभावात् । तत्-सम्भवे सति तत्-सम्भवाच् च । गुणादीनां साधनत्वम् अवश्यं वक्तव्यम् एवं विध-दृष्टोपयोगाभावेन लक्ष्म्या न गुण-प्रतिबन्दि-मुखेन साधनत्व-सिद्धिः ॥

ननु चानादिकालम् आज्ञातिलङ्घन-प्रयुक्त-भगवत्-कालुष्य-विनिवर्तन-कृपोत्तम्भनादि-रूप-दृष्ट-मुखेन लक्ष्म्याश् च साधनत्वम् अस्तीति चेत्, इदं तु पुरुष-कार-कृत्यं तच् चाङ्गीकृतम् एव - तद्-अतिरेकेण दृष्ट-व्यापाराभावेन न गुण-न्याय-प्रवृत्तिर् इत्य् एवं निरणायीति । तत्रैव स्थलान्तरे - किं च लक्ष्म्या मोक्षोपायत्वं परामर्श-दशायां न सम्भवति । तथाहि - उपायत्वं नाम कारणत्वं – तच् च किं सत्तया प्रतिपाद्यते, उत व्यापार-कर्मत्वेन, आहोस्वित् व्यापार-कर्तृत्वेन वा ? नाद्यः कालादृष्टादीनाम् एव तथाविध-कारणत्वाभ्युपगमात् ॥

[[P83]]

न द्वितीयः; तस्याश् चेतनत्वेन कुलालाधिष्ठित-दण्डवद्-व्यापार-विषयत्वाभावात् । भगवद्-अधिष्ठित-चतुर्-मुखादिवद् अङ्गीकारे च मोक्ष-रूप-कार्यं प्रति पुरुष-कारत्वातिरिक्त-व्यापाराभावेन हेतुत्वायोगात् ॥

न तृतीयः; इतराधिष्ठित-व्यापार-कर्तृत्वस्य तस्यासम्भवात् । अत एव भगवता “मोक्षयिष्यामि” इति तथाविध-सङ्कल्प-रूप-व्यापारवत् प्रतीतेर् उपायत्वं अङ्गीकृतम् इति तत्रैव स्थलान्तरे ॥

किं च अ-पृथक्-सिद्धि-विशेषण-वाचि-शब्दानां चरम-विशेष्य-भूत-परमात्म-पर्यवसानं वेदान्त-व्युत्पत्ति-सिद्धम् इति अन्यत्र प्रयुक्ताहं पदस्य भगवत्-परत्वं युक्तम् – नान्यत्र तेषां चरम-विशेष्यत्वाभावात्, प्रकृते चाहं पदस्य लक्ष्म्याम् अ-पर्यवसान-वृत्तेर् वक्तुम् अ-शक्यत्वात् भगवत्-परत्वम् एव सिद्धम् । प्रत्युत यत्र यत्र प्राधान्यतया लक्ष्म्या उपायत्वं प्रतिभाति तत्र लक्ष्म्यादि-शब्दानां भगवत्-परत्वं युक्तम् इति सर्वतः भगवत एव फल-प्रदत्व-सिद्धेः ॥

ननु अहन्ता ब्रह्मणस् तस्य साहम् अहम् अस्मि सनातनीत्य् अनेन लक्ष्म्या अहन्ता-रूपत्व-प्रतिपादनात्, अहम् इति प्रतीतेः लक्ष्मी-विषयकत्वं सिद्धम् इति चेन् न – भगवत्-प्रकारेषु लक्ष्मी–स्व-रूप–प्रकारस्यातिशय-परत्वात् । तद्-वचनस्याहं प्रतीतौ लक्ष्म्या विषयत्वं वदता भवता धर्मि-भूत-ज्ञान-विषयत्वम् उच्यते, उत धर्म-भूत-ज्ञान-विषयत्वं वा ? नाद्यः धर्मि-भूत-ज्ञानस्य स्व-रूप–मात्र-विषयकत्वेन आत्मान्तर-विषयकत्वाभावात् । अन्यथा स्व-रूपैक्यापत्तेः ॥

[[P84]]

न च द्वितीयः; धर्म-ज्ञान-विषयस्य धर्मि-भूत-ज्ञान-विषयस्य चाहन्ता-रूपत्वायोगात् । अत एव विवरण-रूप-चरम-श्लोक-स्थाहं पदस्य विशिष्ट-परत्वाभावेन भगवन्-मात्र-परत्वात् । मन्त्र-रत्न-पूर्व-खण्डे श्रीमच्-छब्दस्य विशिष्ट-परत्वे ऽपि लक्ष्म्याश् शरण्यत्वं विशेषणत्वेन न सिध्यतीति स्थितम् इति तत्रैव स्थलान्तरे ॥

अपरं च स्व-व्यतिरिक्त-नियाम्यत्वं ततश् च लक्ष्म्याः स्व-व्यतिरिक्त-सर्वेश्वर-नियाम्यत्वेनापरमात्मत्वे सिद्धे ब्रह्म-शब्दस्य तत्र न मुख्य-वृत्तिः । यदि लक्ष्म्याः सर्व-नियामकत्वेन भगवन्-नियाम्यकत्वम् अभ्युपगम्येत तर्हि उभयोस् सर्व-नियामकत्वेन परस्पर-नियामकत्वेन च ईश्वर-द्वित्वापत्तिः उभयोर् अपि परस्पर-नियाम्यत्वेन निस्समाभ्यधिकत्वाभावात् अन्-ईश्वरत्वापत्तिश् च पति-पत्नी-भावानुपपत्तिश् च स्यात् । न च यजमान-पत्नी-न्यायेन भगवत्-सृष्टि-कर्मणि अनुमन्तृत्वेन कारणम् अस्ति इति वाच्यम् । तथाविध-कारणत्वस्य भू-देवी-साधारणत्वात् । एतेन यजमान-पत्नी-न्यायेन लक्ष्मी-मोक्ष-प्रदत्वे चोद्यं दत्तोत्तरम् । अग्नि-सापेक्ष-कर्मसु विधि-बलात् पत्नी-कर्तृत्वम् अभिहितम् । न चेह तथा विधिर् अस्ति । तद्-अङ्गीकारे प्राकृत-पति-पत्न्योर् इव दिव्य-दम्पत्योः कर्म-वश्यत्व-प्रसङ्गः ॥

किं च लक्ष्म्याः जगत्-कारणत्वाभ्युपगमे ब्रह्मत्वम् इव तत्-सम-व्याप्तानन्तत्वम् अपि स्वीकर्तव्यम् । न चेदम् अपि लक्ष्म्याः अन्-अन्तत्वस्य त्रि-विध-परिच्छेद-राहित्यात्मकत्वेन तत्र देशतः कालतः परिच्छेद-राहित्ये त्वत्-पक्षे सत्य् अपि वस्तु-परिच्छेद-राहित्याभावात् । सर्वस्य भगवद्-आत्मकत्वेन तद्-व्यतिरिक्त-वस्त्व्-अभावाद् अन्-अनन्तत्वं भगवद्-अ-साधारणम् एवेति । अत्र सम्प्रदाय-चन्द्रिका-ग्रन्थे – श्रियः भगवद्-गुण-तुल्योपायत्वाभावः, भगवत्-तुल्य-मोक्षोपायत्वाभावः, चरम-श्लोक-स्थाहं पद-वाच्यत्वाभावः, ब्रह्म-पद-वाच्यत्वाभावः, यजमान-पत्नी-न्यायाप्रवृत्तिश् चेत्य्-आदिकं क्रमेण प्रतिपादितम् ॥

[[P85]]

श्री-वचन-भूषण-मीमांसा-भाष्ये – लक्ष्म्याः उपायत्व-शोधनाधिकारे - न च आत्मात्मीय-भरं सर्वं निक्षिप्य श्री-पतेः पद् इत्य्-आदि-प्रमाणैः श्रियो ऽपि भर-समर्पण-प्रतिसम्बन्धित्वं भर-स्वीकर्तृत्वं विष्णोर् इव फल-प्रदत्वं चावगतम् इति । उपायत्व-सामान्य-वचनानाम् उक्त-विशेष-पर्यवसानं युक्तम् इति वाच्ये उदात्ते गृह-रक्षित्रोर् इति रक्षकत्वोपायत्वयोः परस्परम् अर्थान्तरत्वेन सामान्य-विशेष-भावापन्नत्वाभावात् । रक्षकत्वं फल-प्रदत्वं प्रतिपद्-अविहितोपाय-स्थान-निविष्टत्वम् उपायत्वम् इति तयोर् अत्यन्त-भेदात् ॥

तत्रापि देव्याः रक्षकत्वम् अपि न भगवत्-तुल्य-रक्षकत्वं प्रतिपाद्यते – तथात्वे मातृत्व-प्रयुक्त-सहज-वात्सल्यादीनां पत्नीत्व-प्रयुक्त-पारतन्त्र्यादीनां च नाशापत्तेः । अत एवोच्यते – युवत्वादौ तुल्ये ऽपीत्य्-आदि । अतस् तत्रापि रक्षकत्वं न पति-तुल्यम् । अन्यत्र देवतयोः स्व-तन्त्रत्वेन रक्षणे ऽपि – अत्र विशेषणत्वेन विशेष्य-तुल्य-रक्षकत्वम् अन्-उपपन्नम् । किं तु विशेषण-त्वाद् अनुगुणं तद्-रक्षणोपयुक्तं तद्-गुणोद्बोधकत्वं शेष-शेषिणोः शेष-शेषि-भाववत्-तुल्ययोर् अपि शेष-शेषि-भावस्य उचितत्वात् ॥

यच् च दुर्गति-प्रदाने ऽपि लक्ष्म्याः प्रयोजकत्वम् उक्तं; तन् न, तत्र लक्ष्म्याः स्व-पारतन्त्र्यानुगुण्येन अनुमन्तृत्वस्यैवोक्तत्वात् । अतः कदाचिद् अपि लक्ष्म्याः कालुष्य-गन्धस्याभावात् तद्-उपायत्वं न भगवत्-तुल्य-फल-प्रदत्वं, न वा भगवत्-तुल्योपायत्वम् इति, तद्-उपायत्व-पर-वचनानां न समाश्रयण-घटक-विरोधित्वम् इति ॥

[[P86]]

तत्रैव लक्ष्म्याः गौणोपायत्व-निषेधाधिकारे – नात्र शरण-शब्देन विशेष्य इव विशेषणो ऽप्य् उपायत्व-सम्बन्धो बोध्यते । तस्य शृणाति इति व्युत्पत्त्या श्री-शब्द एव बोधितत्वात् । न हि प्राप्ते ऽर्थे पुनर् विधि-सम्भवः, न च श्री-शब्द-रूढ्या लक्ष्म्य्-उपस्थापकत्व-मात्रम् अवयवार्थे न विवक्षेति वाच्यम् । शृणाति निखिलान् दोषान् इत्य्-आदिना श्री-शब्दस्यावयवार्थ-व्युत्पादक-शास्त्र-वैयर्थ्यात् । तथा वेद्यत्वाय खलु शास्त्रम् अवयवार्थ-व्युत्पत्तिं करोति । न च तद् एवात्र शरण-शब्देनानूद्यत इति वाच्यम्, एकेनैव शब्देन विशेष्यांशे विधायकत्वं विशेषणांशे ऽनुवादकत्वं चावश्यकम् । अनुवादाप्रयोजनं च न पश्यामः । न चैतेनैवास्मद्-अभमत-सिद्धेश् चेष्टापत्तिर् इति वाच्यम् । शृणातीत्य्-आदि-व्युत्पत्यावगतोपायत्वं सद्-वारम् अ-द्वारकम् इत्य् आकाङ्क्षायां – तत्रैव श्रीयते श्रयते शृणोति भावयतीति व्युत्पत्ति-चतुष्टयेन पुरुष-कारत्व-प्रतीत्या तत्-प्रतीतम् उपायत्वम् अर्थ-सामर्थ्य-लिङ्गेन सद्-वारकम् अवगतम् ततश् च सद्-वारकं रक्षकत्वं चेद् भवद्-अनिमित्तं तद् “ओम्” इति ब्रूमः ॥

ननु सद्-वारक-रक्षकत्वस्य तत्र प्रतिपादने ऽप्य् अत्र शरण-शब्देन अ-द्वारक-रक्षकत्वं प्रतिपाद्यत इति चेत् – अत्र किं रक्षकत्वं विधीयत इत्य् उच्यते, उत रक्षकत्वस्य अ-द्वारकत्वम् आहोस्वित् विशिष्टम् ? नाद्यः, श्री-शब्द एव तद्-विधेः । न द्वितीयः, अ-द्वारक-शब्दाभावात् शरण-शब्दस्य विशेष्ये अ-द्वारक-रक्षकत्व-विधायकत्वं विशेषणे अ-द्वारकत्व-मात्र-विधायकत्वं चेति विरम्य व्यापारापत्तेः । सद्-वारकस्य श्री-शब्दावगतत्वेन तद्-विरोधेनाद्वारकत्व-विधानानुपपत्तेश् च सद्-वारकत्वस्योपक्रमावगततया प्राबल्यात् । उक्त-दोषाद् एव न तृतीयो ऽपि ॥

किं च लक्ष्म्याः सद्-वारकोपायत्वम् अ-द्वारकोपायत्वं च विरुद्धम् । पूर्वम् एव द्वारेणान्यथा-सिद्धत्वात् । न ह्य् एक-कार्यं प्रत्येकस्यान्यथा-सिद्धत्वम् अन्-अन्यथा-सिद्धत्वं च सम्भवति । व्रीहि-द्वारा शेष-भूत-प्रेक्षणस्य व्रीहि-तुल्यं याग-शेषत्वं हि न सम्भवति । एवं श्री-शब्दे पुरुष-कार-द्वारक-रक्षकत्वस्यावगतत्वात् अ-प्राप्तं ब्रह्मोपायत्वम् एव शरण-शब्दो बोधयति – एवं पुरुष-कार-द्वारक-रक्षकत्व-विशिष्ट-लक्ष्मी-विशिष्ट्यं प्रत्ययेन बोध्यत इति विद्यायां तद्-वेद्यत्व-सम्भवः । अतो नाकारिणस् तु विज्ञानम् इत्य्-आदि-विरोधः ॥

[[P87]]

किं च नीलम् उत्पलम् इतिवद् अत्र लक्ष्मी-सामानाधिकरण्यम् उपायत्वस्य शरण-शब्देन बोध्यत इति शाखादिवत्, न तस्या बहिर्-भाव-सिद्धिः ॥ बहिर्-भूतस्यैवोपलक्षणत्वे जगज्-जन्मादेः ब्रह्म-लक्षणत्वाभाव-प्रसङ्गः । ततश् च सुश्लिष्टैक-तत्त्वस्यापि न विरोधः ॥

किं चात्र गुण-विग्रह-सामानाधिकरण्य-मात्रम् उपायत्वस्य बोध्यम् । न तु दण्डी गच्छतीत्य् अत्र गमन-क्रियाया विशेषण-विशेष्योभयान्वयवत्, शरण-शब्दार्थोपायत्वस्य विशेषणेष्व् अप्य् अन्वयः उपायत्वस्य चेतन-धर्मस्याचेतनेष्व् अवस्थानायोगात् – उत्तर-वाक्ये तु उपेयत्वस्य विशेषणेष्व् अप्य् अन्वयस् सम्भवति । तस्य चेतनाचेतन-साधारण्यात् । एवं लक्ष्मी-सामानाधिकरण्य-मात्रम् उपायत्वस्य बोध्यम् । ततो विधेयांशागुणादिवद्-विशेषणत्वेनापि विषयत्वेन कम् अपि विरोधं न पश्यामः ॥ नाप्य् उपायत्वाभावे मोक्ष-प्रदत्व-कर्मणि ऐकरस्य-हानिः । पुरुष-कारत्वेन तत्रान्वितत्वात् । अन्यथा जगत्-कारणत्वादौ गत्य्-अभाव-प्रसङ्गात् ॥

किं चाश्लेष-विनाशयोर् ईश्वर-विषये क्षमिष्यामीत्य् एवं रूपार्थत्वं लक्ष्मी-विषये क्षमा-युक्तं करोमीत्य् अर्थकत्वं च वाच्यं – तन् न सम्भवति – विरम्य-व्यापार-प्रसङ्गात् । एवं विधूनन-श्रुतेर् अपि क्षान्तं क्षमस्वेत्य् एव रूपार्थ-द्वय-बोधकत्वं विरम्य-व्यापारं विना न सम्भवति । अतो भर-स्वीकार-रक्षा-सङ्कल्पायोगात् न भगवत्-पारतन्त्र्यानुगुणोपायत्व-सिद्धिः । न च विद्या-मात्र-स्वात्मेति तूपगच्छन्तीति शेषत्व-ज्ञान-रूपत्वात् शेषत्व-प्रतिसम्बन्धित्वं च मिथुनस्येति लक्ष्म्याः भर-समर्पण-प्रतिसम्बन्धित्वे सिद्धे स्वीकार-रक्षा-सङ्कल्पाव् अप्य् अवगताव् इति वाच्यम् । शरणागति-विद्यायां तादर्थ्य-वाचक-शब्दाभावेन केवलं भर-स्वीकार-प्रार्थेन शेषत्वानुसन्धानाभावात् – पञ्चाङ्ग-भर-समर्पणं नात्र प्रतिपाद्यम् इति द्वितीयाधिकारे ॥

[[P88]]

सिद्धान्ते लक्ष्म्याः भक्ति-तुल्योपायत्वाङ्गीकारे ऽपि न तस्य शरण-शब्दार्थत्वेन वेद्याकारत्वम् । किन्तु पुरुष-कारस्यैव श्री-शब्दे शृणातीत्य्-आदि-व्युत्पत्ति-बोध्यत्वेन तस्य वेद्याकारत्वं, ततश् च पुरुष-कार-द्वारम् उपायत्वं श्री-शब्द-वेद्यम् इत्य् उक्तं भवति । एवं लक्ष्म्याः पुरुष-कारत्व-व्यतिरेकेणोपायत्वाभावात्, तत्त्वेनोपायत्वस्य भर-स्वीकार-प्रार्थना-पूर्वभावित्वात् च उपायत्व-दृष्टान्तेन न पुरुष-कार-सापेक्षित्वान् निर्हेतुकत्वासिद्धिर् इति । तत्रैव लक्ष्म्याः विभुत्व-भङ्गाधिकारे - चेतन-वशी-कारस्य चेतन-स-जातीयत्वस्याभ्यर्हितोपायत्वात् तद्-वाचक-शब्द-वाच्यत्वम् अभिप्रेतम् । स च मकारो नार-शब्दश् चेति । श्रियस् तद्-वाच्यत्वे – “माङ् माने”, इति धातोः, “नृ नये” इति “नृ गताव्” इति धातोश् चानुगुणत्व-सिद्धौ विभुत्व-प्रतिपादक-स्मृति-वचनानि विरोधाधिकरण-नयेन बाधितानीत्य् अर्थः । न च मकार-नार-शब्द-वाच्यत्वासिद्धिः । मकार-वाच्यत्वाभावे लक्ष्म्या भगवच्-छेषत्वासिद्धि-प्रसङ्गात् । समस्त-शब्द-मूल-प्रणवे तद्-अ-सिद्धौ असर्वत्र तद्-अ-सिद्धि-प्रसङ्गात् । नार-शब्द-वाच्यत्वं चागमे नार-शब्द-व्याख्याने ऽभिहितम् । ज्ञानादयो गुणानुरूपं लक्ष्मी नित्यानपायिनीति । भाष्य-कारैर् अपि गद्ये नार-शब्दार्थत्वेन साभिहिता ।

यो ऽसौ श्रियः श्रीः परमा तेन नारायणः स्मृतः

इति हारीत-स्मृतिश् च – एवं विभुत्वस्य श्रुति-बाधवत् – सत्य-ज्ञानादि-वाक्य-विरोधो ऽस्ति । लक्ष्म्या अन्-अन्तत्वे तस्य लक्षणत्वायोगात् – न च तत्र विशिष्टस्य लक्षणत्वं विवक्षितम् इति वाच्यम् । अणुत्व-पर-मूल-मन्त्र-विरोधात् । सत्यादि-पदानां द्वि-वचनान्ततापत्तेश् च । न च सत्यादि-पद-वाच्यत्वे ऽपि ईश्वर–स्व-रूपस्य स-दृश-लक्ष्मी–स्व-रूप–सुश्लिष्टत्वाद् अर्थ-सामर्थ्येन सत्यादीनां लक्ष्मी–स्व-रूप–लक्षणत्व-सिद्धिर् इति वाच्यम् ।

[[P89]]

लक्ष्म्यास् तादृश–स्व-रूपस्यागमात् सिद्धौ – अर्थ-सामर्थ्याद्-वेदे ऽपि तत्-तात्पर्य-कल्पनम् । वेदस्य तत्-तात्पर्ये सिद्धे तद्-अ-विरोधेनागमस्य तादृश–स्व-रूप–बोधकत्वम् इत्य् अन्योन्याश्रयात् । प्रवृत्ति-निमित्ते सति शब्दस्य तत्र तात्पर्ये च सति वृत्या बोधकत्वाविवक्षाया अन्याय्यत्वात् । तद्-विवक्षायां च पदानां द्वि-वचनापत्तिः । अतस् सत्यादि-वाक्यानां विशिष्ट-लक्षणत्वे तात्पर्याभावात् लक्ष्मी-विभुत्व-वचनानां तद्-बाधो युक्तः । किं च स्व-रूप–व्याप्तेर् अन्तर्-विवक्षिता बहिर् एव वा, नाद्यः ईश्वर–स्व-रूपे अन्तर्-व्याप्तेर् अभावात् । न चेष्टापत्तिः, मध्यम-परिमाणत्वेनानित्यतापत्तेः । न चेश्वर–स्व-रूपस्य गुण-व्यापकत्वाभावे ऽपि तद्-उपपत्तिवद् अत्रापि सम्भवः । तत्र द्रव्य-भूत-गुणेष्व् अन्तर्-व्याप्ति-सत्त्वे ऽपि व्यापक-गुणैर् एव स-गुणत्व-प्रसङ्गात् । ननु च लक्ष्मी–स्व-रूपस्येश्वर–रूपान्तर्गतत्वे ऽपि तत्र नियन्तृत्वान् नास्तीति चेद् अ-सङ्कुचित-ज्ञातृत्व-युक्तस्य तद्-अभावानुपपत्तेः । तत्रापि नियन्तृत्वे न तस्येशे कश्चनेत्य्-आदि-विरोधः । न द्वितीयः, अणुत्व-श्रुति-विरोधात् । संसारस्य तन्-निग्रह-फलत्वापत्तेश् च ।

एष एवासाधु-कर्म कारयति यम् अधो निनीषतीति

अन्तर्यामिणो निग्राहकत्वात् सर्वान्तरत्वे नारायण-शब्द-वाच्यता च स्यात् । ततश् च द्वये श्री-शब्द-द्वय-वैयर्थ्यात् चरणम् इत्य् अपि स्यात्, विभुत्वेन नियन्तृतया सर्वात्मक-चेतनाचेतन-वाचक-सर्व-शब्द-वाच्यता स्यात् । सा चार्थो विष्णुर् इयं वाणीति निषिद्धा । तथात्वे सर्व-शब्द-मूल-भूताकार-वाच्यतापि स्यात् । न चेष्टापत्तिः तत्रार्थ-सम्प्रदाय-विरोधात्, उकारेणोच्यते लक्ष्मीर् इति वचन-विरोधश् च, लोक-त्रय-शब्दस्येश्वरान्य-त्रि-विध-चेतनाचेतन-परत्वान् नियन्तृत्वेन धारकत्वेन पुरुषोत्तमत्वापत्तिश् च, विभुत्वे तत्त्व-त्रय-बहिर्-भावश् च एक-देश-लक्षण-सत्त्वे ऽपि पूर्ण-लक्षणाभावात् तस्यैव तत्-तत्त्व-नियामकत्वात् । शेषत्वाद् ईश्वरत्वाभाववद् अन्-अणुत्वाच् चेतन-बहिर्-भावापत्तेर् आवश्यकत्वात् । अन्यथा भोक्तेत्य्-आदि-श्रुति-विरोधः ॥

[[P90]]

एवं विभुत्वस्यानेक-प्रमाण-बाधितत्वात् तत्पर-वचनानि वैभव-पराणि

न च नीलादि-व्यावर्तने नात्र तथोक्तौ प्रशंसा-निदानं किम् अपि वाच्यम् । तन् न दृश्यत इति वाच्यम् । ईश्वर–स्व-रूप–व्यापकस्य लक्ष्मी-धर्म-भूत-ज्ञानस्य भगवत्–स्व-रूपस्येव तद्-गत-जगत्-कारणत्व-सर्वान्तरत्व-सर्व-नियन्तृत्वादि-प्रशस्त-वैभव-हेतुत्वाद्य्-व्यापक–स्व-रूपस्य यद् यत् कार्यं तत्-सर्वम् अनेन धर्म-भूत-ज्ञानेन निर्वाह्यत इति तद् एव लक्ष्मी–स्व-रूपत्वेनोपचर्यते । यथा अ-जडत्वादि-गुण-साम्यात् शुद्ध-तत्त्वे ज्ञानत्व-व्यपदेशः गुण-प्रकाशकत्वाद् विग्रहे षाड्-गुण्य-व्यपदेशः । यथा वा अहङ्कार-कार्येष्व् इन्द्रियेषु भूतानाम् आप्यायकत्वेन तज्-जन्यत्व-व्यपदेशः ॥

तथा विभु–स्व-रूप–कार्य-जगत्-कारणत्वादौ एतद्-धर्म-भूत-ज्ञानस्य सह-कारित्वेन कारणत्वात् तत्र स्व-रूपत्व–व्यवहारः । महिष्यन्तर-धर्म-भूत-ज्ञानं तु नैवं रूपं – अतो भगवत्–स्व-रूपं स्व-गत–समस्त-मङ्गल-गुणादिकं प्रति धर्मित्वेन हेतु-भूतं, तथा तत्–स्व-रूप–व्यापकं धर्म-भूत-ज्ञानम् अपि तद्-गत-मङ्गल-सर्व-गुण-सह-कारि-कारणम् इति तत्र स्व-रूपत्वोक्तिः यथा लक्ष्मी-कटाक्ष-लेशयोगाच् चतुर्-मुखादीनां स-श्रीकत्वं एवम् एव स्व-रूपस्याणुत्वे ऽपि स्व-रूप–मात्रस्य स-श्रीकत्वम् उपपद्यते । एतद्-विवक्षया श्री-शास्त्रे - स्तोत्रे गद्ये च तत्–स्व-रूपानन्त्योक्तिः । एवं बीज-स्थानीयस्य भगवतो जगत्-कारणत्वे जल-सेकवल् लक्ष्मी-धर्म-भूत-ज्ञानस्य सह-कारितया जगत्-कारणत्वोक्तिः ॥

तथा भगवतस् सर्व-नियन्तृत्वे तद्-उपयुक्त-ज्ञान-शक्त्याद्य्-उद्बोधकतया सर्व-नियन्तृत्वोक्तिश् च । अन्यथा “एकम् एवाद्वितीयं” “क्षरात्मा नाविशते देवः” इत्य्-आदि-शब्दानां द्वि-वचनान्ततापत्या वेदान्ता नाम तत्-परत्वस्य पूर्वम् एवोक्ततया तत्-तद्-वाक्यस्य निषेध-वचनानां लक्ष्मी-कारणत्वादि-निषेध-परत्वात् । अन्यथा कारण-वाचकाकार-वाच्यतापत्तिः ! जगज्-जन्मादेर् ईश्वर-लक्षणत्वाभावापत्तिश् च एवं धर्म-भूत-ज्ञानस्य भगवत्–स्व-रूपादि–स-कल–व्यापक-व्यापकत्वेन तत्-तत्–स-कल–वैभव-हेतुकत्वात् सर्व-भावानुगामित्व-तद्-धर्म-धर्मित्वादि-कम् अत्य् उपपन्नम् ॥

[[P91]]

अत एवोच्यते – “श्रद्धया देवो देवत्वम् अश्नुते” इत्य्-आदि । तस्माद् विभुत्व-वचनानाम् ईश्वर–स्व-रूपानुबन्धित्वेन स-कल–वस्तु-गत-धर्म-भूत-ज्ञान-परत्वं कारणत्वादि-पराणां अन्तरङ्ग-सह-कारि-परत्वम् । नियन्तृत्व-वचनानां तद्-उपयोगि-ज्ञान-शक्त्याद्य्-उद्बोधक-परत्वं चोचितम् । श्रुति-विरोधे स्मृतीनाम् एव सङ्कोचस्येष्टत्वात् । न च “ईश्वरीं सर्व-भूतानाम्” इति श्रुतिर् एव सर्व-नियमनम् अ-सङ्कुचितम् आह – अतो ऽन्तर् बहिश् च व्याप्ति-सिद्धिर् इति वाच्यम् । “क्षरात्मा नावीशते देव एक” इतीश्वरान्तर-निषेध-कण्ठोक्त्या सावकाशा उदाहृत-श्रुतिर् बाह्य-नियमन-परा । “अस्येशाना जगतो विष्णु-पत्नी"त्य् अत्र नियमनस्य पत्नीत्वेनौपाधिकत्व-श्रवणात् । ननूक्त-प्रकारेण लक्ष्म्या अन्-अन्तत्वं सर्व-वस्तु-शरीरत्व-लक्षणं न भवति । किं त्व् आकाशादिवद् अन्तर् बहिश् च व्याप्तत्व-मात्रं कारणत्वादिकम् अपि स्व-रूपस्य तत्-तत्-सह-कारित्वम् इत्य् अभ्युपगमे – विभुत्व-वचनानां मुख्यत्वं सिध्यतीति । तथात्वे न को ऽपि विरोधो ऽस्तीति चेत्, मैवं – अणुत्व-श्रुति-विरोधात् ॥

तत्त्वान्तरत्वापत्तेश् च – तस्माद् विभुत्वं न स्व-रूप–गतम् । अथवा चेतनाचेतनयोर् अन्तर् बहिश् च प्रत्येकं परिसमाप्य वर्तमाने ब्रह्म–स्व-रूपे अणुत्व-परिमाणं लक्ष्मी–स्व-रूपम् अपि तत्र तत्र वर्तत इति व्यापकम् इत्य् उच्यते । एवं निरूपकत्वेन स्व-रूपान्तर्गतत्वात् स्व-रूप–गतं कारणत्वादिकम् अपि लक्ष्मी–स्व-रूप–गुणम् इत्य् उच्यते । निरूपकत्वं च नीलादीनां नास्तीति तद्-व्यावृत्तिर् विभुत्वादिना प्रतिपाद्यते – निरूपकत्वं च विग्रहस्य श्री-वत्सवद् अणुत्वे ऽप्य् उपपद्यते । यथा सर्व-गतो विष्णुस् तथैवेयं द्वि-जोत्तम इत्य्-आद्य् अपि निरूप्य व्याप्य-सर्व-वस्तुषु परिसमाप्याणुत्वेन तत्र तत्र विद्यमानाभिप्रायम् । विग्रह-व्याप्त्य्-अभिप्रायं वा भवेत् ॥

[[P92]]

तस्माल् लक्ष्म्या विभुत्वेन नियन्तृत्वाभावात् संसारस्य स्व-निग्रह-रूपत्वाभावेन न तन्-निर्वृत्तौ हेतुत्वम् इति । अत्र श्री-वचन-भूषण-मीमांसा-भाष्ये –

लक्ष्म्याः भगवत्-तुल्योपायत्वाभावः भगवद्-गुण-तुल्योपायत्वाभावः । अणुत्व-समर्थनं विभुत्व-भङ्गः

इत्य्-आदिकं क्रमेण प्रतिपादितं भाव-टिप्पण्याम् – “सत्यं ज्ञानम् अन्-अन्तं ब्रह्मे"ति श्रुतौ विभुत्व-वाचिना अन्-अन्त-शब्देन लक्ष्म्यादीनां व्यावृत्तिर् हि श्री-भाष्ये प्रतिपादिता ॥

अत्र लक्ष्म्या अन्-अन्त-पदेन व्यावृत्तत्वं श्री-चतुः-श्लोकी-भाष्ये निगमान्त-गुरुभिर् अप्य् अङ्गीकृतम् । परं तु तैः क्लिष्ट-गतिर् आश्रिता । नैतद् युज्यते – श्रुति-स्वारस्य-भङ्गात् । तत्र तस्याः क्लिष्ट-गतेः पर-पक्षत्वेनैव उदाहृततया निगमान्त-गुरूणां न तत्र नैर्भर्यम् । अत एव लक्ष्म्याः अणुत्वम् एव तैस् तत्र स्व-पक्षत्वेन परिगृहीतम् । तथाहि – चतुः-श्लोकी-भाष्ये अणुत्वेन वैषम्ये ऽपि इत्य्-आदिना लक्ष्म्याः अणुत्व-स्वीकरणेन पूर्व-पक्षं कृत्वा अत्रोच्यत इत्य्-आदिना तस्य स्वयम् एव समाधानम् अकरोत् । विभुत्व-पक्षे तु अत्र केचिद् इत्य्-आदिना पर-मुखेनैव समाधानम् उक्तम् अणुत्व-पक्षे तु भोगोपद्घात-केली-चुलकित-भगव-वैश्व-रूप्यानुभवेति परमाणु-भूताया अपि तस्यापि तस्या विभु-भूत-भगवद्-वशीकरण-सामर्थ्याङ्गीकारात् श्रियो माहात्म्यातिरेकस् सिध्यति । अन्-अन्तं ब्रह्मेत्य् अत्रानन्त-पद-श्रुतेः स्वारस्यं च न हन्यते । विभुत्व-पक्षे तु चेतन-सामान्यस्याणुत्व-ग्राहक-श्रुतीनां भगवद्-असाधारणानन्त-पद-श्रुतेश् च अ-स्वारस्यम् । पर्वत-खननेन मूषिका-ग्रहण-न्यायेन जड-तत्त्वान्तर्गत-कालादि-साधारणं स्थूलत्वम् एव लक्ष्म्यास् सिध्यति न प्रभावातिशयः इतीति ॥

शिष्टा-भूषणे व्यापिनी जलशायिनी पवित्रं ते विततं ब्रह्मणस्पते स चानन्त्याय कल्पते । नित्यो व्यापी प्रतिक्षेत्रम् आत्मा भिन्नस् स्वतस् सुखीत्य्-आदिषु भूम्यादीनाम् अपि विभुत्व-वचन-सत्त्वेन लक्ष्म्याः विभुत्व-वचनम् अपि न तद्-अ-साधारण-वैभव-रूपम् । विभुत्वस्य सर्व-मूर्त-द्रव्य-संयोग-रूपस्य सर्व-चेतन-धर्म-भूत-ज्ञान-कालादि-साधारणत्वेन माहात्म्य-रूपत्वं च न सम्भवतीति । सद्-दर्शन-सुदर्शने –

[[P93]]

वक्ति स्पष्टं पौरुषं सूक्तम् एकं सर्वेशानं वै निस्समं पुमांसम् ।
तस्यार्धांशः श्री-सप्राख्या[[??]] यदि स्यात् लक्ष्म्याः स्त्रीत्वं व्योम-पाथोज-तुल्यम् ॥
नैजार्धांशस्यैव पत्नी यदि श्रीः पुंस्त्वं भर्तुः स्याच्छ्शस्येव शृङ्गम् ।
सर्वं पूर्णं वासुदेवो ऽसि पूर्ण इत्य् अर्धांशे पूर्णतोक्तिर् विरुद्धा ॥
ब्रह्मार्धं चेद् याति नारायणाख्यां मूको भूयात् तर्हि तस्यानुवाकः
पूर्णं ब्रह्मैवाथ नारायणश् चेत् तत्-पत्नी श्रीः काः स्वयं ब्रह्म-भूता ।
वस्तु-द्वन्द्वं चेत् पर-ब्रह्म-संज्ञं प्रत्येकं तद्-ब्रह्मता दुर्लभा स्यात्
वेदैर् दिव्यो देव एकान्तरात्मा भूयो ऽधीतो भाति नारायणो हि ॥

इति ॥

विस्तरस् तु பரந்தரஹஸ்ய परम-रहस्यत्रय श्री-मालाधिप-वंश्य-यामुनाचार्य-प्रणीत तत्त्व-सङ्ग्रह–तत्त्व-दीप–तत्त्व-भूषण–तत्त्व-निर्णय–तत्त्व-रूपण–रहस्यामृत–रहस्य-मञ्जरी–रहस्य-विवेक–रहस्य-त्रय-सार–रहस्य-त्रय-मीमांसा-भाष्य-पूर्वोक्त-ग्रन्थादौ द्रष्टव्यः । अतः श्रियः पत्नीत्व-शेषत्वाणुत्वादिकं स्वतस् सिद्धम् इति सर्वम् अन्-अवद्यम् इत्य् अलम् अधिक-विचारेण ॥

प्रकृतम् अनुसरामः । निम्न-स्थले जल-प्रवृत्तिः मध्य-सेतु-खण्डनात् स्वाभाविकी भवति तद्वत् संसार-निवृत्तिः । मार्गस्य समीकरणो ऽपि अश्मनः निम्न-स्थल-प्रवृत्तौ प्रेरणम् अपि कर्तव्यं तद्वत् ज्योतिष्टोमादौ फले औपाधिक-फलस्य प्रतिबन्धक-निवृत्तिः स्व-रूपादि-परिष्कारश् चावश्यकौ । निरुपाधिक-फलस्य स्वतः प्राप्तत्वं प्रतिबन्धक-निवृत्ति-मात्रम् अपेक्षितम् । अश्मनः कार्य-द्वयं,जलस्य एक-कार्यं,जलस्य निम्न-देश-गतिः स्वाभाविकी तद्वत् मुक्तिः स्वाभाविकी, तस्याः तत्त्व-ज्ञानं दृष्ट-विधया कारणं, तत्त्व-ज्ञानस्य दुःख-जन्म-प्रभृतीत्याद्य्-अनुसारेण दृष्ट-विधया मोक्ष-साधनत्वे ऽपि मोक्षस्य निर्हेतुक-भगवत्-प्रसाद-लक्षणादृष्ट-साध्यत्वाभ्युपगमेन तत्त्व-ज्ञानस्य स्वयं प्रयोजन-भगवत्-प्रसादार्थत्वाभ्युपगमेन च कुदृष्टि-मत-प्रवेश-शङ्का ॥

[[P94]]

न्यास-विद्या, शरणागति-विद्या च भिन्ना

अस्मत्-सिद्धान्ते न्यास-विद्या शरणागति-विद्या च भिन्ना । शरणागति-शब्देन प्रपत्तिस् तु विशेषिता इति प्रपन्न-पारिजाते – वात्स्य-वरदाचार्य-श्री-सूक्तेः । न्यास-विद्या च, तान्त्रिक-न्यास-विद्या, वैदिक-न्यास-विद्या चेति द्वि-विधा । तान्त्रिक-न्यास-विद्या “आनुकूल्यस्य सङ्कल्पः” इति । “न्यासः पञ्चाङ्ग-संयुतः” इत्य् उक्त-रीत्या आनुकूल्याद्य्-अङ्ग-पञ्चक-सहिता वैदिक-न्यास-विद्या च पुरुष-विद्याङ्ग-सहिता पुरुष-विद्याधिकरणोक्ता ॥

उपनिषण्णेत्य् उपनिषद् इति व्युत्पत्या ब्रह्म-समीप-वर्तित्व-बोधनात् स्व-वाक्येन ब्रह्म-प्रतिपादनात् उपनिषद्-विद्यायाः शब्द-रूपायाः ब्रह्म-परत्वम् । तथैव व्युत्पत्त्या यौगिकार्थम् अवलम्ब्य ब्रह्म-विषय-ग्राहकत्वाद् विद्यायाः ज्ञान-परत्वं बोध्यम् । यथा दहर-विद्यादीनां भक्तित्वेनैक-रूपत्वे ऽपि उपसंहार्य-गुणानां भेदाद् विद्या-भेदः । तद्वत् शरणागति-विद्या-न्यास-विद्ययोः प्रपत्तित्वेनैक-रूपत्वे ऽपि शक्यतावच्छेदकोपसंहार्य-गुण-रूप, रूपादि-भेदाद् विद्या-भेदः तथैवानुगृहीतं त्याग-शब्दार्थ-टिप्पण्याम् – कार्पण्यादि-पञ्चक-विधि-वाद-भङ्गनामक-द्वितीय-वादे ।

संयोग-रूप-वेदनाख्या-विशेषैर् न्यास-शरणागत्योर् भेदो हि दुरपह्नवः । स्वार्थ-कैङ्कर्य-रूप-फलान्तर-संयुक्तो न्यासः । “मोक्षयिष्यामि"ति उपाय-कृत्य-लक्षण-पर-गत-स्वीकारात्मक-फल-संयुक्तं वरणम् । स्व-रूप–भर-फल-समर्पणं न्यासस्य रूपम् । तद्-एकोपायता-याच्ञा-वरणस्य रूपम् । क्षेत्र-ज्ञे ब्रह्मणि न्यसेद् इति न्यासस्य चोदना । “माम् एकं शरणं व्रजे"ति वरणस्य चोदना, न्यास-विद्येति न्यासाख्या, शरणागतिर् इति वरणाख्या इति संयोग-रूप-चोदनाख्या-भेदैर् न्यास-शरणागत्योर् भेदस्यान्यत्र पूर्वाचार्यैः प्रपञ्चितत्वात्, तस्मान् “माम् एकं शरणं व्रजे"ति वरण-विधायक-वाक्ये न्यास-विद्या-प्रतिपादन-गन्धाभावात् ॥

[[P95]]

अहम् अस्म्य् अपराधानाम् आलयः किं च नो गतिः ।
त्वम् एवोपाय-भूतो मे भवेति प्रार्थना-मतिः ॥
शरणागतिर् इत्य् उक्ता सा देवेस्मिन् प्रयुज्यताम् ।
अन्-अन्य-साध्ये स्वाभीष्टे महा-विश्वास-पूर्वका ।
तद्-एकोपायता याच्ञा-प्रपत्तिश् शरणागतिः ॥

इत्य्-आदि-शरणागति-प्रकरणेषु कार्पण्याद्य्-अङ्ग-प्रसङ्गाभावाच् च सर्व-धर्मान् परित्यज्येत्य् अत्र शरणागत्य्-अङ्गतया कार्पण्य-विधानोक्तिर् दुरुक्तिर् एवेति ॥

शरणा-गतिः उपाय-विषयक-समीचीन-गतिः प्रार्थनात्मक-बुद्धिर् इत्य् अर्थः । द्वयम् अनुष्ठीयमानार्थ-प्रकाशकः शरणा-गति-मन्त्रः न तु न्यास-मन्त्रः । आनुकूल्याद्य्-अङ्ग-पञ्चक-सहिताङ्गि-न्यास-प्रतिपादनाभावात् । शरणा-गति-न्यासयोः ऐक्यम् अपि पूर्वोक्त-रीत्या नास्ति । संन्यासस् त्याग-इत्य् उक्तः शरणागतिर् इति वचने – अङ्ग-पञ्चक-सहितस्याङ्गिनः न्यासस्य यदा कदाचिच् छरणा-गति-विषयत्वं वा सम्भवेद् इति । “षड्-विधा शरणा-गतिर्” इति वचने – प्रत्येकं षण्णां शरणा-गति-शब्द-वाच्यत्वं वा सम्भवेद् इति च फलितार्थः प्रतिपादितः । न स्व-रूपैक्यं प्रतिपादितम् इति मन्तव्यम् ॥

श्रीमच्-छब्दस्य आनुकूल्य-सङ्कल्प-सूचकत्वं न सम्भवति । श्रयन्तीं श्रियमाणाम् इति निरुपाधिक-पुरुष-कारत्व-प्रतिपादनेन पुरुष-कारापेक्षायाः प्रतीयमानत्वात्, श्रीमान् अहम् इति निर्देशाभावात्, श्रीमन्-नारायणेति उपाये ऽन्वयेन भगवत एव पुरुष-कार-सापेक्षत्वस्य प्रतीयमानत्वात् । “अहम् अस्म्य् अपराधानाम् आलय” इति चेतने सापराधत्वस्य प्रतीयमानत्वात् ।

[[P96]]

आनुकूल्य-सङ्कल्प-प्रातिकूल्य-वर्जन-रूपाङ्गेन सूचिते, शब्दतः शरण-पदोपश्लिष्ट-पूर्वक-षद्लृ-धातोः उपायत्वाध्यवसायस्यैव प्रतिपादनात्, गोप्तृत्व-वरणाद्य्-अङ्ग-सहित-भर-न्यासस्य वाचक-शब्दाभावात् शरणा-गति-मन्त्र एव । “शरणं व्रजे"त्य् अत्रोक्ता शरणा-गति-विद्या प्रपत्तिः । “स्नात्वा भुञ्जीते"त्य् अत्र भोजनस्य राग-प्राप्तत्वात्, तत्र न विधिः स्वारसिकी, विधेः स्नान-विधान एव स्वारसिकत्वम् । तद्वद् अत्र शरण-वरणस्य राग-प्राप्तत्वात् “तम् एव त्वाम् एवे"ति वचन-बलात् तस्योपायत्व-निषेधात् आकिञ्चन्यानन्य-गतित्व-विशिष्टाधिकारिणः कर्म-त्याग-विधौ तात्पर्यम् अस्तीति युक्तम् ॥

अ-प्रामाण्य-ज्ञानाकलङ्कित–स्व-रूप–याथात्म्य-ज्ञानवतः पुरुषस्य ईश्वर एव उपायः न तु भक्ति-प्रपत्ती । ब्रह्मास्त्र-बन्धस्य शण-वल्कल-बन्ध-विरोधित्वम् । तद्-बन्धे निवृत्तेर् अपि विरोधित्वं नास्ति । स्व-प्रवृत्ति-निवृत्ति-मात्रं न प्रवृत्तिः, भगवत्-प्रवृत्ति-विरोधिनी या स्व-प्रवृत्तिः तन्-निवृत्तिः प्रवृत्तिर् इत्य् उक्तत्वात् । स्व-प्रवृत्तेर् भगवन्-निग्रह-रूपत्वात् । स्व-रक्षण-प्रवृत्ति-निवृत्तेर् भगवद्-इष्टत्वात् तस्याः प्रतिबन्धकत्वं नास्ति । मोक्षार्थं धर्म-त्यागे न प्रवृत्तिः अपि तु सिद्धोपाय-प्रवृत्ति-विरोधिनी स्व-प्रवृत्तिर् इति तत्-त्यागे प्रवृत्तिः । सा प्रवृत्तिः स्व-रक्षणार्थ-व्यापारो न भवति । तथा चेत् कैङ्कर्यादीनाम् अपि तथात्वं स्यात् । स्वर्ग-कामना अधिकारः, यागः उपायः, स्वर्गः फलं, तद्वत् मोक्ष-फलं प्रति शरण-वरणम् अधिकारः न साधनं भवति । साधनं तु ईश्वर एव । तथोक्तं रहस्य-मञ्जर्याम् –

उपायान्तरसं त्याग-विशिष्टोपाय-सङ्ग्रहः ।
श्रीमता चरम-श्लोक-पूर्वार्धेन विधीयते ॥
त्यागस्य वरणाङ्गत्वं स्याद् विशिष्ट-विधेर् बलात् ।
स्नानादेर् अर्चनाङ्गत्वं स्याद् विशिष्ट-विधेर् बलात् ।
स्नानादेर् अर्चनाङ्गत्वं यथा त्वा श्रुति-निश्चितम् ।
परित्यज्य व्रजेत्य् उक्त्या धर्माणं त्याग-कर्मता ।
त्याज्यत्वे सर्व-धर्माणां नित्यानां च स्व-रूपतः ।
त्यागः स्याद् इति चेत् सत्यं स्वीकाराङ्गतया हि सः ।
त्यागो विधीयते यज्ञे याग-कर्माङ्ग-भावतः ।
नित्य-नैमित्तिकादीनां यावद् दीक्षा-विधिस् तथा ।
आत्म-याग–स्व-रूपायाः प्रपत्तेर् अङ्ग-भावतः ।
तद्-भिन्न-सर्व-धर्माणां त्यागः स्पष्टं विधीयते ॥

[[P97]]

यद्य् अ-शक्त्या स्वतस् सिद्ध-त्यागो ऽनूद्येत तन्-मते ।
त्यागस्य राज-सत्त्वेन नाकिञ्चन्यं फलं भवेत् ॥
यतः कर्तव्य-बुध्येति कृत-त्यागस्य तत्-फलम् ।
ज्ञातुं कर्तुं च शक्त्या वा त्यजतस् त्व् अधिकारिणः ॥
शक्यांशस्यानुवृत्तौ च न विरोधो यतस् ततः ।
अ-त्यागात् सर्व-धर्माणां सर्व-शब्दो निरर्थकः ॥
नास्तिक्यात् त्यजतस् त्यागः तामसः परिकीर्तितः ।
दुष्करत्व-धिया त्यागो राजसः परिकीर्तितः ।
स्व–स्व-रूप–विरोधित्वात् त्यागस् सात्त्विक ईरितः ।
साम्याद् भक्त्याद्य्-उपायानां देवता-विषयान्तरैः ॥
नमसा शिक्षितात्यन्त-पारतन्त्र्य-निजा-कृतेः ।
चेतनस्य विरुद्धास् ते नित्यं भक्त्यादयस् ततः ॥
प्रपत्तौ यद्य् अ-शक्तानाम् अधिकारो नियम्यते ।
तदा सर्वाधिकारत्वं प्रपत्तेर् न हि युज्यते ॥
सर्व एव प्रपद्येरन् शक्ताशक्ता विशेषतः ।
मुमुक्षुत्वाधिकारत्वाच् छ्रद्धायाश् च निमित्ततः ॥
शक्ताशक्ताश् च ये सर्वे प्रपत्ताव् अधिकारिणः ।
अ-शक्तानां प्रपत्तिस् स्याच् छक्तानां भक्तिर् इष्यते ॥
इति वार्तास्मद्-आचार्य-गोष्ठीषु न हि जीवति ।
सर्वेषां भगवच्-छक्तिर् जीवातुर् इति निश्चयात् ॥
श्रीमतः पूर्व-सिद्धत्वात् सिद्धोपायम् इमं विदुः ॥

अथवा यत्न-साध्यत्वात् सिद्धोपायम् इमं विदुः ।
अतो ऽस्य सिद्धोपयांशे कर्तव्यं नावशिष्यते ॥
उपायः कृत्य-साध्यश् चेद् विधिर् निर्विषयो भवेत् ।
इति चेद् उच्यते सम्यक् श्रूयताम् अवधानतः ॥
अ-प्रमत्तेन भेत्तव्यम् इत्य् अत्र हि यथा विधिः ।
तथा जानीहि माम् एवेत्य् उपायं वदता स्फुटम् ॥
उपायाध्यवसायस् तु कर्तव्य इति चोच्यते ॥
त्यागाभावे तु नोत्पत्तिः स्वीकारस्य यतस् ततः ।
त्यागस्य सर्व-धर्माणां त्व् आश्रुत्याङ्गत्वम् उच्यते ॥

[[P98]]

श्लोके माम् एकम् इत्य् अत्र त्व् एक-शब्दो ऽवधारणे ।
तेन स्वीकार-तत्-कर्त्रोर् उपायत्वं निवर्तते ॥
स्वतन्त्रोपाय-निष्ठानां सिद्धोपाये स्थितिर् न हि ।
सिद्धोपायस्य तद्-भिन्न-प्रापका प्रहता यतः ॥
तत्-सिद्धोपाय-निष्ठस्य साध्योपायत्व-धीर् अपि ।
स्व-निष्ठा-भञ्जकत्वेन स्व-प्राप्य-प्रतिवन्धिका ॥
यतः शास्त्रे ऽस्य भक्त्यादेः प्रपन्नस्यापि चान्वये ।
पातकान्वयवत् सद्यः प्रायश्चित्तं विधीयते ।
प्रायश्चित्त-विधानं च कृतश् चेद् इति तच् छृणु ॥

अपाय-तौल्याद् भक्त्यादेः दया-हेतुस् तथापि च ।
शोक-संजनकत्वाच् च पातकत्त्वोक्तितः स्मृतौ ।
देवतान्तर-शब्दादि-भोग-प्रावण्य-तौल्यतः ।
अनुष्ठाने स्व-भोक्तृत्व-मात्रे पर्यवसानतः ।
फल-दाने ऽन्य-सापेक्षा नित्याहङ्कार-गर्भितः ॥
मदिरा-बिन्दु-सम्मिश्र-तीर्थवत्-प्रापकान्तरम् ।
इत्य् आह कुरु-केशार्याः श्री-भाष्यस्य प्रवर्तकाः ॥
प्रापकान्तरम् अ-ज्ञानाम् उपायो ज्ञानिनां तु तत् ।
अपायः स्याद् अपायत्वं स्व-रूप–च्युति-हेतुतः ॥

प्रपत्ताव् आनुकूल्यादेर् अङ्गत्वं नास्ति किं पुनः ।
सम्भावित-स्व-भावास् ते प्रपन्नस्याधिकारिणः ॥
अवहन्याद् इति विधौ यथा स्येदोद्गमस् तथा ।
आकिञ्चन्यैक-करुणा यतो भार्याधिकारतः ॥
गद्ये श्री-भाष्य-कारेण स्तोत्रे यामुन-देशिकैः ।
न्यासानुष्ठान-वेलायाम् आनुकूल्याद्य्-अनुक्तितः ।
आकिञ्चन्याद्य्-अनुष्ठानात् त्यागो ऽङ्गम् इह नेतरः ।
उपायाभास-संत्याग-पूर्वकोपाय-सङ्ग्रहम् ॥
वदतो मन्त्र-रत्नस्य द्वयत्वम् उपपद्यते ।
तस्माद् द्वयोपदेष्टा यस् स आचार्यतमो यथा ॥
श्रोता द्वयस्य यश् शिष्यस् स एवेति नियम्यते ।
भक्त्यादयस् स्व-रक्षार्थ–स्व-व्यापार–स्व-रूपिणः ॥
स्व-रक्षणार्थ–स्व-कृति-निवृत्तिर् न्यसनं यतः ।
दोषो निवृत्तिः कर्मादेः प्रवृत्तिर् न्यसने तथा ।
भक्तेस् तु सर्वापेक्षत्वात् प्रपत्तेर् निरपेक्षतः ।
भक्तिः प्रवृत्ति-साध्यत्वाद् दुष्करानुचितात्मनाम् ॥
निवृत्ति-साध्यत्वान् न्यासः सुकरश् चोचितात्मनाम् ।
चेतनेनेश्वर-प्राप्तौ न्यासो ऽप्य् अनुपधिर् महान् ॥

[[P99]]

अयम् अर्थो यथा स्पष्टं दृश्यते भारते स्मृतौ ।
परेण चेतने लभ्ये पातको ऽप्य् अ-निवारकः ॥
अयम् अर्थो यथा स्पष्टं श्री-गुहे दृश्यते स्मृतौ ।
अतः श्री-भाष्य-कृत्-कृत्स्न-धर्म-त्यागाङ्ग-पूर्विकाम् ॥
मत्वा ऽपराध-कोटौ तां प्रपत्तिं स्व-कृतां ततः ।
अ-शेषतः क्षमस्वेति गद्ये क्षामणम् आतनोत् ॥

श्लोकाष्टके च भट्टार्य-श्लोक-तात्पर्य-निर्णये –

नालं प्रपत्तु कर्तासि त्वम् एव मद्-अघक्षये ।
इत्य् अस्मिन् दृढ-विश्वासो वाक्यन्ते चरमं स्मरन् ॥
इत्य् आह सर्व-शास्त्र-ज्ञ-स्वातन्त्र्य-भय-विह्वलः ।
प्रसाद-हेतुर्-न्यासः स्यात् प्रसन्नस्य ह्य् उपायता ।
अतो हि पारम्पर्येण प्रपत्तेर् अप्य् उपायता ॥
इति ये केचन प्राहुः स्वातन्त्र्यावेश-मोहिताः ।
न परीक्षा-क्षमस् सो ऽपि स्व-मनोरथ-कल्पितः ॥

न्यास-प्रसाद-सापेक्षः प्रसादो न्यास-हेतुकः ।
न्यास-प्रसादयोर् इत्थं अन्योन्यापेक्षतो मिथः ।
अन्योन्याश्रय-दोषः स्यात् प्रसादस् साध्यते यदि ।
पूर्व-प्रसाद-जन्या स्यात् प्रसादानन्तर-सम्भवः ।
यद्य् आत्माश्रय-दोषः स्यात् स्वस्य स्वोत्पत्ति-हेतुतः ॥
न्यास-प्रसदने हेतुस् स तत्-पूर्व-प्रसादतः ।
तत्-पूर्वं न्यासतस् सो ऽपि यदि स्याद् अन्-अवस्थितिः ॥
यदि बीजाङ्कुर-न्यायान् न दोषायानवस्थितिः ।
तद्वत्-प्रसदनस्यैव साध्या नित्यं परम्परा ॥
अस्तु को दोष इति चेद् अ-निर्मोक्षः प्रसज्यते ।
तच्-चेतनेन कर्तव्य-भागं यद् अधिकारिणः ॥
विशेषणं तन्नोपायो हेतुर् भगवतः कृपा ।
कृपया केवलं मां त्वम् आत्मसात् कुरु मा चिरम् ॥
कृपया शिक्षय मनस् त्वम् एव धरणी-धर ।
नित्य-पारार्थ्य-धीर् एव देवायात्म-समर्पणम् ॥
इत्थं हि यामुनार्याद्यौः स्तोत्रादौ सम्यग् ईरितम् ।
यतो ऽहङ्कार-गर्भत्वं स्व-गत-स्वीकृतेस् तु तत् ।
उपाय-श्री-पति-गत-स्वीकारो नित्य एव सः ॥

यद्य् उपायं पर-गत-स्वीकारो मोक्ष-हेतुकः ।
सर्व एव प्रमुच्येरन् नित्यत्वाद् इति चेत् तु न ॥
पापाभिसन्धि-विरमात् अथ यादृच्छिकाद् इतः । हरेः कृपानपायापि फलायालं हि देहिनाम् ।
अभिसन्धि-विरामश् च तन्-निर्हेतुक-वीक्षणात् ॥
इत्य् अत्र भगवद्-वाक्य-श्रुति-स्मृत्य्-आर्य-सूक्तयः ।
परश् शतं प्रमाणानि प्रदर्श्यन्ते ऽअधुना स्फुटम् ॥

[[P100]]

यथा हि मोषकेत्य्-आदौ दया निर्हेतुकी स्फुटा ।
निर्हेतुक-कटाक्षेण प्राप्नुवन्ति परां गतिम् ॥
नासौ पुरुष-कारेण प्रेष्ये कञ्चित् कदाचन ।
यत्-कृपा-विशयी-भूता न ज्ञानन्ति भवार्णवम् ॥
इत्य्-आदि-भगवद्-वाक्याद् दया निर्हेतुकी मता ।
आत्म-बुद्धि-प्रसादं तं मुमुक्षुश् शरणं वृणे ॥
तस्यैव परमात्मासौ स्वां तनूं विवृणुते स्वयम् ।
उन्निनीषति यस् साधु कर्म कारयतीति तम् ॥
यन् निनीषति अधः कर्म साधु कारयतीति च ।
धातुः प्रसादाद् देवेश-महिमानम् अहं गतः ॥
येन गच्छति धातायं तेनामौ सह गच्छति ।
इत्य्-आदि-नित्य-निर्दोष-श्रुतेर् निर्हेतुकीं कृपा ॥

पापानां वा शुभानां वा न कश्चिन् नापराध्यति ।
स तं निपतितं भूमौ कृपया पर्यपालयत् ॥
एवं संसृति-चक्र-स्थे भ्राम्यमाणे स्व-कर्मभिः ।
जीवे दुःखाकुले विष्णोः कृपा का ऽप्य् उपजायते ।
इत्य् एवम् इतिहासादौ स्मृतिष्व् अपि बहु-स्थले ॥

उपायः श्री-सखस्यैव कृपेति परिघुष्यते ।
कृपया केवलम् इति स्तोत्रे यामुन-देशिकैः ॥
मदीययैव दयया केवलं माम् अवाप्स्यसि ।
इति श्री-भाष्य-कारेण गद्ये च प्रतिपादनात् ॥
वयं ते केवल-कृपा-निर्वाह्ये वर्ग उन्नताः ।
इति श्री-गुण-रत्नाख्य-कोशे भट्टारकोक्तितः ॥
करण-त्रितयोत्पन्न-महा-पाप-क्रियस्य मे ।
काल-त्रये ऽपि भगवत्-क्षमैव शरणं भवेत् ॥
यति-राड्-विंशतौ सौम्य-वर-योगीन्द्र-सूक्तितः ।
कृपा-मात्र-मनो-वृत्तिर् अ-शक्तस्य प्रसीद मे ॥
इत्थं जितं ता वचनात् कृपेतर-निवर्तकात् ।
इत्य् एवं भगवद्-वाक्य-श्रुति-स्मृति-गुरुक्तिभिः ।
कृपैव रक्षकं विष्णोर् इत्य् अस्माभिर् विभाव्यते ॥

[[P101]]

स्वीकारो येन न कृतः श्री-पतिस् तन् न रक्षति ।
स कृतो येन तं श्रीशो रक्षति स्वयम् एव यत् ।
तत्-स्वीकार-विशिष्टो ऽयं उपायस् सिद्ध उच्यते ॥
विशिष्टस्य ह्य् उपायत्वे स्वीकारो ऽप्य् उपधिर् यतः ।
इत्य् एवं ये कु-तर्केण स्वीकारोपायतां जगुः ॥
निरस्तास् ते समस्ताः स्युः पदेनैकेन ताडिताः ।
तेषान् न पूर्व-मीमांसा-प्रवेशो न मनाग् अपि ॥

विशेष्य-वृत्त्य्-उपायत्वं यतो न हि विशेषणे ।
गो-दोहनेन-प्रणयेत् पश्व्-अर्थी चेति चोदिते ॥
गो-दोहन-विशिष्टस्य हेतुत्वं यद्य् अपि श्रुतम् ॥
तथापि तस्य प्रकृत-याग-साध्यानुपायता ।
तथात्रेत्य् अ-परामृश्य मृदु-प्रज्ञैर् यद् ईरितम् ॥
विशेषणस्योपायत्वं विशेषज्ञैर् विगर्हितम् ।
यथा गुणैर् विशिष्टस्योपायत्वे ऽपि श्रियः पतेः ॥
वात्सल्य-ज्ञान-शक्तीनाम् उपयोगः पृथक् पृथक् ।
वात्सल्यं दोष-भोग्यत्वे सौलभ्यं दर्शने दृशा ।
शक्तिर् आश्रित-कार्याणां सिद्धौ हि विनियुज्यते ॥
ज्ञानम् आश्रित-सम्बन्धि-विरोधि-ज्ञान-कारणम् ।
शुभाश्रयो विग्रहः स्यात् घटकत्वं तथा श्रियः ।
सर्वेषाम् उपयोगो हि स्व-रूपानुगुणो मतः ॥

इति ।

ननु प्रसदनस्य व्यापार-रूपत्वेन, प्रपत्तेः व्यापारवत्त्वेन कारणत्वं सम्भवतीति चेन् न, प्रसदनस्य व्यापार-लक्षणासम्भवात्, तथोक्तं सम्प्रदाय-चन्द्रिकायां द्वितीय-प्रकाशे – नन्व् एवं शरण-वरणस्य साधनत्वं यद्य् अ-प्रसक्तं तदा तन्-निषेधो नोपपद्यते । यदि विधितः तत्-प्रसक्तम्, तदापि तन्-निषेधायोगात् । अतः निषेध-वाचकानां विहित-व्यति-रिक्त-निषेध-परत्वं वक्तव्यम् इति चेन् न, न ह्य् अ-प्रसक्तं साधनत्वं निराकरोत्य् एक-पदम् । न च विधितः प्रसक्तं वा, किं तु मुमुक्षोर् अवश्य-कर्तव्यत्वे सति, किं भगवद्-भजनवत्-प्रपदनम् अपि साधनम् इति शङ्का-प्राप्तौ वा साधनत्वं निराकरोति ॥

[[P102]]

भगवच्-छास्त्रे च –

चित्तः परम-चिल्-लाभे प्रपत्तिर् अपि नोपधिः ।
विपर्यये तु नैवास्य प्रतिषेधाय पातकम् ॥

इति प्रपत्तेर् अनुषायत्वं व्यक्तम् उक्तम् । अहिर्-बुध्निय-संहितायां च – नमसः प्रपदन-रूप-प्रतिपादकत्वेनार्थ-प्रकाशन-समये,

नन्तव्यः परमश् शेषी शेषा नन्तार ईरिताः ।
नन्तृ-नन्तव्य-भावो ऽयं न प्रयोजन-पूर्वकम् ॥
उपाधि-रहितो नायं येन भावेन चेतनः ।
नमति ज्यायसे तस्मै तद् वै नमनम् उच्यते ॥
शाश्वती मम संसिद्धिर् इयं प्रह्वी-भवामि यत् ।
पुरुषं परम् उद्दिश्य न मे सिद्धिर् अतो ऽन्यथा ॥

इत्य्-आदि-वचनैर् नमः शाश्वत-पर-प्रयोजन-कथनाच् च । स्व-व्यति-रिक्त-प्रयोजनान्तर-निरपेक्षत्वं तस्य रूपम् इति प्रतिपादितत्वाच् च प्रपदनस्यानुपायत्वं सिद्धम् ॥

एतत् सर्वम् अभिप्रेत्य निगमान्त-देशिकैर् न्याय-सिद्धाञ्जने – इयं केवल-लक्ष्मीशोपायत्व-प्रत्ययात्मिका स्व-हेतुत्व-धियं रुन्धे किं पुनस् सह-कारिणाम् इति शरणागतेर् अनपायत्वं कण्ठोक्तम् । न्यास-तिलके च – त्वय् एव, त्वद्-उपाय-धीर् अपि हित-स्वोपाय-भावास् तु मे इति साधन-भाव-रहिता शरणागतिर् एव प्रार्थिता । श्री-भट्टार्य-मिश्रैर् अपि – उपायोपेयत्वे तद् इह तव तत्त्वं, न तु गुणवतस् त्वां श्री-रङ्गेशाय शरणम् अव्याजम् अभवम् इत्य् अत्राव्याज-पदेन प्रपदनस्यानुपायत्वम् अभ्यधायि इति, तत्रैव प्रपदनानपायत्वस्यानन्यथा- सिद्धानेक-वचन-न्याय-लक्षण-प्रमाण-सिद्धत्वात् ॥

किं च भगवतः निरपेक्षोपायत्वम् अङ्गस् स्यात्, रक्षा-भर-समर्पण-भङ्गश् च । न च यद् यत् साङ्गं तत् तत् साधनम् इति न्यायेनानुकूल्याद्य्-अङ्ग-पञ्चक-सहित-प्रपदनम् अपि साधनम् अस्त्व् इति वाच्यम् । अस्य न्यायस्यानुपायत्व-प्रतिपादक-वचन-विरोधात् । न हि वचन-विरोधे न्यायः प्रवर्तते । न च प्रपदनस्य मोक्ष-साधनत्वाभावे – किमर्थं तद्-अनुष्ठानम् इति वाच्यम् । भगवद्-दास-भूतस्य चेतनस्य तत्-प्रसादस्य परम-प्रयोजनत्वेन तत्-सिद्ध्य्-अर्थं तद्-अनुष्ठानस्यावश्यकत्वात् ॥

[[P103]]

नन्व् एवं तर्हि प्रपदनस्य प्रसाद-रूप-व्यापार-द्वारेण मोक्ष-हेतुत्वम् आयातम् इति चेन् मैवं प्रसादस्य व्यापार-लक्षण-लक्षितत्वाभावेन तद्-द्वारेण हेतुत्वासम्भवात् तज्-जन्यत्वे सति तज्-जन्य-जनकत्वं हि तल्-लक्षणम् । तस्य जन्यत्वांशे सत्य् अपि मोक्षस्य प्रपदनाजन्यत्वे तज्-जन्य-जनकत्वांशासिद्धेर् इति ॥

तत्रैव चतुर्थ-प्रकाशे – ननु धर्म-शब्दस्य मोक्ष-हेतु-भूत-कर्म-ज्ञानाङ्गक-भक्ति-प्रतिपादकत्वेन प्रकृते वक्तव्यत्वात् । शूद्रादीनां तादृश-कर्मादिषु अधिकाराभावेन तत्-त्यागाङ्गक-प्रपदनाधिकारो न स्याद् इति चेन् न, अ-लौकिकस्य श्रेयस् साधनत्वस्य धर्म-शब्द-प्रतिपाद्यत्वेन, मोक्ष-हेतु-भूत-कर्मादिष्व् अधिकाराभावे ऽपि दीपारोपण-माला-करण-कर्मादिष्व् अधिकारानपायात् । तत्र मोक्षोपायत्व-बुद्धेः भ्रान्ति-रूपतया वा शङ्कया वा प्राप्ति-सम्भवात् । तत्-त्यागाङ्गक-प्रपदनाधिकारस्य तेषाम् अपि वक्तुं शक्यत्वाद् इति । अतः सिद्धोपाय-फल-भूत-प्रपत्तेः अधिकारि-विशेषणत्वम् एव ॥

अधिकारिणः पुरुषस्य विशेषणं फलान्तयितावच्छेदक-धर्मः । कर्तृ-विशेषणम्, अनुष्ठीयमान-कर्मादि, उपायस्य सिद्धत्वावस्थायाम् – अर्थित्व-मात्रम् अधिकारि-विशेषणम् अधिकार इत्य् अर्थः । प्रकृते फल-भूत ईश्वरः उपायः सिद्धः । “त्वम् एवोपाय-भूतो मे भवे"ति प्रार्थनात्मिका शरणागतिः । तन्-निष्ठस्य अर्थित्वम्, उपायस्य साध्यत्वावस्थायां – अर्थित्व-सामर्थ्ये इमे नियोज्यस्य विशेषणे । साध्योपाये – यागादौ स्वर्ग-कामना-विशिष्टत्वं अर्थित्वं ब्राह्मण्यादिस् सामर्थ्यम् इति बोध्यम् । तथोक्तं रहस्य-मञ्जर्यां श्री-भाष्ये भाष्य-कारेण, वशीकरण-सन्ततौ –

तद्-वशीकरणं चापि तदीय-शरणागतिः –

इत्य् उक्तां च व्यवृणोद् भट्टार्यश् शरणागतिम् ।
तच्-छेषता-प्रतीतिः स्यान् नाम तच्-छरणागतिः ॥
अतो ऽधिकारिणस् सम्यग्-विशेषणम् इति स्थितम् ॥

इति ।

[[P104]]

प्रपत्त्य्-अधिकरे विशेषणत्व-निष्कर्षे –

अग्नि-विद्यादि-तुल्यत्वात् प्रपत्तिः परतो विधेः। विधेयान्तरसत्वाद् अप्य् अधिकारि-विशेषणे । सर्वत्र सिद्धम् एव स्याद् अधिकारि-विशेषणम् । क्वचिद् विध्य्-अन्तरेस् सिद्धं क्वचिच् च स्वत एव तत् । तत्राद्यम् अग्नि-विद्यादि-द्वितीयं कामनादिकम् ॥

इति ।

शरणागतेः अधिकारि-विशेषणत्वम्

ननु शरणागतैर् अधिकारि-विशेषणत्वं न सम्भवति । अधिकारि-विशेषणत्वस्य निक्षेप-रक्षादौ दूषितत्वाद् इति । मैवं वादीः निक्षेप-रक्षादि-सूक्तिः अधिकारि-विशेषणत्वं नाम साध्योपायान्तर-नियोज्य-विशेषणत्वम् इति यः वदति तन्-मत-दूषण-प्रवृत्ता । शरणागतेस् सिद्धोपायान्वयितावच्छेदकत्वम् अधिकारि-विशेषणत्वम् इति सिद्धान्त-दूषणे न प्रवृत्ता ॥

अस्मत्-सिद्धान्त-रीत्या हि न्यास-विंशति-न्यास-दशकादौ न्यासस्य साधनत्वं प्रतिपादितम् । दीप-प्रकाशस्तवात्मिका-शरणागति-दीपिका-साध्य-प्रपत्ति-प्रतिपादन-परा । तत्र “नित्यम्” इति श्लोके – निर्व्याज-निर्भर-दया-भरितम् इति दयाया निर्हेतुकत्वं प्रतिपादितम् । “सत्तास्थिती"ति श्लोके

दीप प्रकाश तद् इह त्वद् अवाप्तये त्वाम्
अ-व्याज-सिद्धम् अनपायं उपायम् आहुः ॥

इति भगवतः निर्हेतुक-सिद्धोपायत्वं प्रतिपादितम् । मुख्यं च तत्-प्रपदनं स्वयम् एव साध्यम् । “दातव्यम् ईश कृपया तद् अपि त्वयैवे"ति साध्य-प्रपत्ति-प्रार्थना कृता । तत्र तत्र सिद्धान्त-योजनायां न कापि हानिः । दिङ्ग्-मात्रम् इह दर्शितम् अधिकारि-विशेषणत्व-निरूपण-ग्रन्थे ।

अत्र यत् तावद् उदाहृतं वेदान्ताचार्य-सूक्ति-जातं तत् सर्वं न सिद्धान्त-सिद्धं शरणागतेस् सिद्धोपायाधिकारि-विशेषणत्वं निराकरोति । किं तु साध्योपायोत्तर-नियोज्य-विशेषणत्वम् एव । तथाहि सिद्धान्ते सिद्धोपायाधिकारो नाम – सिद्धोपाय-सम्बन्धानुसन्धानं तद्वन्तं प्रति शरणागतेर् विशेषणत्वन् नाम व्यावर्तकत्वम् एव । तथा चानुगृहीतं பரந்தரஹஸ்யே द्वय-पूर्व-खण्डोत्तम-पुरुषार्थ-कथनावसरे –

[[P105]]

श्यामत्व-युवत्वादिक- ஸோபாதி अधिकारि-विशेषणमा யிதி चरम-श्लोकैक-शब्दार्थ-कथनावसरे अधिकारि யாதில் अपेक्षितं स्वीकारं செய்கிற கார்யமேதென்னில், ऐश्वर्यार्थि யிலும் னகல் யார்கதியிலும் भगवच्-चरणार्थि யாய் साधनानुष्ठानं பண்ணுமவனில் காட்டிலும இவ்வधिकारिனய வ்யாவ் ருத்தனாககு கிறது भगवल्-लाभार्थमाன இந்த ஸவீகரரமாகையாலே अरुणयैकहायन्या पिङ्गाक्ष्या स्मोमं क्रीणाति என்கிற விடத்தில் अरुणत्व-पिङ्गाक्षत्वादिகள் ஸோமக்ரயத்துக்குறுப்பாக पशुवुக்கு पश्वन्तर ததில் காட்டில் व्यावर्तक-विशेषण மாமாப்போலே இதுவு मधिकारि க்கு व्यावर्तक-विशेषण மாகக்கிடக்கிற दिति ॥

इदं च व्यावर्तक-लक्षणम् अधिकारि-विशेषणत्वं वेदान्ताचार्याणाम् अभिमतम् एव । तैर् एवोपाय-विभागाधिकारे இவ்வீச்வரனுடைய உபாயத்வமும் अद्वारक-प्रवृत्ति-निष्ठன் பக்கல் उपायान्तर-स्थान-निवेश ததாலே विशिष्ट மாயிருக்குமி सिद्धोपाय-प्रतिसम्बन्धिनः प्रपत्त्यैव विशेषित्वाद्

इति ॥

तत्रैव स्थलान्तरे – अस्याश् च शरणागतेः इयं केवल-लक्ष्मीशोपायत्व-प्रत्ययात्मिका स्व-हेतुत्व-धियं रुन्ध इति धर्मि–स्व-रूप–प्रतिपत्ति-प्रतिषिद्धत्वेनोपायत्वस्यासिद्धत्वात् साध्योपायाङ्गत्वं अधिकारि-विशेषणत्वं वा परिशेषात् सिध्यति । इत्थं प्रमाणोपपत्ति-सम्प्रदाय-सिद्धस्य शरणागति-तत्त्वस्य देव-गुह्य्त्वात् तद्-गोपनार्थं न्यास-विद्या-प्रवचनाय प्रणीतेषु प्रबन्धेषु तत्र तत्र शरणागति-पर-वचनानां न्यास-विद्याङ्ग-भूत-गोप्तृत्व-वरण-गर्भ-रक्षिष्यतीति विश्वास-प्राधान्य-मात्र-परत्वेनान्वारुह्य-वादाः कृताः । तथा तत्र तत्र कृतानां वादानाम् अन्यार्थत्वेनातत्परत्व-ज्ञापनाय तस्यैव विश्वासस्य तादृश-प्राधान्यासम्भवो विधेयस्य नियोज्य-विशेषणत्व-खण्डनेन परम-कारुणिकैर् आचार्यैः प्रतिबोध्यते इति तत्-सूक्ति-जातम् अन्यथा सिद्धम् एव ॥

तत्र साध्योपाय-शोधनाधिकारे – शरणागति-पर-वचनानां भर-न्यासाङ्ग-विश्वास-प्राधान्य-परत्वेनैषा तावद् अन्वारुह्य-वाद-सूक्तिः ॥

[[P106]]

இவ்வுபாய स्व-रूपत्तै பற்றற नारायणं स-लक्ष्मीकं प्राप्तुं तच्-चरण-द्वयम् । उपाय इति विश्वासो द्वयार्थश् शरणागतिः । என்கிற अभि யுக்நர் பாகாம் अधिकार-கோடியிலும் अङ्ग-கோடியிலும் இருக்கிற விச்வாஸத்தினுடைய प्राध्यान्यं சொல்லுகை க்காக வத்தன. அப்படியே प्रपत्तिर् विश्वासस् सकृत्-प्रार्थना-मात्रेणापेक्षितं दास्यतीति विश्वास-पूर्वकं प्रार्थनाम् इति यावत् । என்கிற वाक्य மும் प्राधान्य-विवक्षै யாலே

इति ॥

अत्र तावत् - भर-न्यासाङ्गतया विधीयमानस्यैव विश्वासस्य तद्-अधिकारकोटाव् अपि स्थिति-रूपं यत् प्राधान्यं तावन् मात्रपरत्वेन शरण-वरण-प्रधानानां प्रमाणानाम् अन्यथा सिद्धिर् उक्ता । तथा च मामेकं शरणं व्रजेत्य्-आदि-विहिता या शरणागतिः सा भर-न्यासाङ्ग-भूत-रक्षिष्यतीति विश्वासात्मिकैव । तस्याश् च भर-न्यासाधिकार-भूत-महा-विश्वासात्मकत्वम् अप्य् अस्तीति । तादृशाङ्गत्वाधिकारि-विशेषणत्वैतद्-आकार-द्वय-वैशिष्ट्य-रूप-प्राधान्य-स्फोरणायैव रक्षिष्यतीति विश्वासात्मक-शरणागतिर् एव प्रपत्तिर् इति तत्र तत्रोच्यत इत्य् उक्तं भवति ॥

एवं शरणागति-वचनानाम् अन्यथानयनस्यान्वारुह्य-वादतां ज्ञापयितुं शरणं व्रजेति विधीयमानाया एव शरणागतेर् भर-न्यासाधिकार-कोटि-निविष्टत्वं न सम्भवतीति तत्र तत्र निरस्यते । तत्र माम् एकं शरणं व्रजेत्य् उक्तायाश् शरणागतेर् महा-विश्वासात्मकत्वेन प्रपत्त्य्-अधिकारि-विशेषणत्वं यद् उक्तं, तन् निक्षेप-रक्षायां पूर्व-पक्ष-मुखेनानूद्य दूषयति अधिकारि-विशेषणतया तद्-उपादानम् अपि स-प्रयोजनम् अङ्गीक्रियत इति चेन् न ॥

फलादिभ्यो विभिन्नत्वात् प्रपत्तिर् विध्य्-अनन्वयात् विधेयान्तर-हानेश् च नाधिकारि-विशेषणम् इति, तद्-उपादानम् इति । रक्षिष्यतीति विश्वासात्मक-सिद्धावस्थ-शरणागत्य्-उपादानम् इत्य् अर्थः । फलादिभ्य इत्य् अत्रादि-शब्देन फल-कामना-निमित्ते सङ्गृह्येते । प्रपत्तिः – शरणं व्रजेत्य् उक्त-रक्षिष्यतीति महा-विश्वास इत्य् अर्थः । प्रपत्तिः नाधिकारिविशेषणम् इति योजनेति ॥

[[P107]]

तत्रैव स्थलान्तरे – अत्र सर्वत्र साध्यस्य वरणस्य निराकृतम् ।

साध्योपायाधिकारत्वं निगमान्त-गुरुत्तमैः ।
निपुणैर् अस्मद्-आचार्यैर् नेदम् अभ्युपगम्यते ॥
सिद्धोपायाधिकारत्वं यत् तैर् उद्घुष्यतेतराम् ।
सिद्धम् एव हि सर्वत्र नियोज्यस्य विशेषणम् ॥
इत्य् एव नियमो हि स्यात् साध्योपायैक-गोचरः ।
नियोज्यस्य च कार्यं यः स्वक्रियत्वेन बुध्यति ॥
सिद्धोपाये स नास्त्य् एव कस्येष्येत विशेषणम् ।
त्वम् एवोपाय-भूतो म इति वै यो ऽध्यवस्यति ॥
सिद्धोपायेन सम्बन्धस् सो ऽधिकार्यस्य गीयते ।
साध्योपायाधिकारिभ्यस् सिद्धोपायाधिकारिणः ॥
व्यावर्तकत्वाद् वरणम् अधिकारि-विशेषणम् ।
कर्मण्य् ऐश्वर्य-बोधो हि तत्र तेषाम् अधिक्रिया ॥
पार-तन्त्र्योचिता सात्र याच्ञा पर्यवसायिनी ।
फलोपहित-वेषेण सिद्धोपायर्थना धियः ॥
अर्थित्वान्तर्-गतत्वेनाप्य् अधिकारित्वम् अ-क्षतम् ।
सामर्थ्यम् इतर-त्यागो ब्रह्मास्त्र-क्षत्र-सदृशो ऽत्र हि ॥
अर्थित्वं वरणं तस्माद् विशिष्टस्याधिकारता ।
सिद्धानाम् इव साध्येषु साध्यानां सिद्ध-साधने ॥
तद्-औचित्य-परामर्शाद् अधिकारत्वम् इष्यताम् ॥
स्व-रूप–निष्ठम् इत्य् आर्यैः सिद्धत्वं चास्य दर्शितम् ।
क्षीर-पान-विधि-न्यायाद् विधिरप्य् अत्र योजिता ॥
तस्मात् त्रय्यन्त-गुरुभिः साध्योपायाधिकारता ।
निजान्वारुह्य-वादोक्ता वरणस्य निवार्यते ॥
यथान्वारुह्य वदता रात्रि-सत्र-नयादिकम् ।
प्रवर्तितं जैमिनिना तथात्रेति विभाव्यताम् ॥

इति ।

प्रपत्तेर् अधिकारि-विशेषणत्व-समर्थन-ग्रन्थे –

न च, तस्याः अधिकारि-विशेषणत्वासम्भवः । फलादि-रूपत्वाभावात् । तद् उक्तं –

फलादिभ्यो विभिन्नत्वात् प्रपत्तिर् विध्य्-अनन्वयात् ।
विधेयान्तर-हानेश् च नाधिकारि-विशेषणम्

इति

इति वाच्यम् ।

फलादिभ्यो ऽप्य् अ-भिन्नत्वात् प्रपत्तिर् विधितो ऽन्वयात् ।
विधेयान्तर-सत्वाद् अप्य् अधिकारि-विशेषणम्

इति । तत्-प्रतिष्ठापन-सम्भवात् ॥

[[P108]]

तथाहि – प्रपत्तेर् अधिकारि-विशेषणता हि फल-कामना-रूपतया फलतया निमित्ततया स्यात् । तत्राद्ये, त्वम् एवोपाय-भूतो मे भवेति प्रार्थना-मतिश् शरणागतिर् इति शरणागतेस् सिद्धोपाय-फलोपधान-प्रार्थना-रूपत्व-सिद्ध्या, तत्-फलोपधानस्य च योग्यतावस्थ-सिद्धोपाय-फलत्वस्य दुरपह्नवतया तत्व्-अर्थनायाः तत्-फल-कामना-रूपत्वानपायेन तेन रूपेण तद्-अधिकारि-विशेषणत्वोपपत्तिः । अथ द्वितीये ऽपि यथावस्थित-पारमार्थिक-भगवच्-चरणारविन्द-शरणागतेर् भगवद्-एक-शरणत्व-रूप–स्व-रूपाविर्भावात्मकत्वेनानवरत-भोग्य-फलात्मकतया अपि द्वय-पूर्व-खण्ड-क्रिया-वर्तमान-प्रत्ययादि-सिद्धत्वेन दुरपह्नवतया तेन रूपेण तत् तथात्वोपपत्तिः । न च फलस्य स्व-रूपेण विशेषणत्वासम्भवः । स्व-विषयक-कामनावत्व-सम्बन्धेन तस्यापि विशेषणत्वोपपत्तेः ॥

अथ तृतीये ऽपि प्रपत्तेर् निमित्ततयाधिकारि-विशेषणत्वं हि निषिद्धतया केवलतया च स्यात् । तत्राद्ये –

கலங்கி उपायबुद्ध्या பண்ணும் प्रपत्ति யும் பாதகத்தோடொக்கு म्

इत्य् अनुगृहीत-रीत्या प्रपत्ति-विशेषस्य निषिद्ध-निमित्तान्तर्-गतताया अपि सर्व-पाप-शब्द-सिद्धत्वेन दुरपह्नवतया तेन रूपेण तत् तथात्वोपपत्तिः । न चैवं प्रपत्तेः परिहरणीयता-प्रसङ्गः । तेन रूपेण तत् तथात्वस्येष्टत्वात् । अथ तत्र द्वितीये ऽपि –

जगति गतिम् अन्याम् अ-विदुषां गतिर् गम्यश् चासौ हरिर्

इत्य् अनुगृहीत-रीत्या अन्-अन्य-शरणत्वाविर्भावात्मिकायाः प्रपत्तेः केवल-निमित्ततया सिद्धोपायाधिकारि-विशेषणतया जितन्तादि-सिद्धत्वेन दुरपह्नवतया तेन रूपेण तत् तथात्वोपपत्तिः ॥

एवं स्वातन्त्र्यं निज-रक्षणम् इत्य्-आद्य्-अनुगृहीत-रीत्या सर्वेषां चेतनानां भगवद्-अन्या-रक्षकत्वात्मकानन्य-शरणत्व-रूप–स्व-रूपस्य तादृश–स्व-रूप–विशिष्ट-सर्व-चेतन-विषये ऽपि भगवत एव रक्षण-प्राप्तेश् चाष्टाक्षर-नमः-पदादि-सिद्धतया दुरपह्नत्वेन सिद्ध-रूप-शरणगतेर् अपि केवल-निमित्ततया सिद्धोपायाधिकारि-विशेषणत्वोपपत्तिः ॥

[[P109]]

न चात्र विधि-प्रत्यय-योगः परिपन्थीति वाच्यम् । विकल्पासहत्वात् । किं सिद्ध-रूपायाश् शरणागतेः केवल-निमित्तत्वे विधि-प्रत्यय-योग-विरोधः प्रतिपिपादयिषितः उत साध्य-रूपायास् तस्यास् तथात्वे वा । न तावद् आद्यः, तद्-विषय-विधि-प्रत्ययस्यैव गगन-कुसुम-समत्वात् ॥

नापि द्वितीयः तस्यापि विकल्पासहत्वात् । किं तद् अधिकारि-विशेषणत्व-ग्राहक-वाक्यान्तर्-गत-विधि-प्रत्यय-योग-विरोधः प्रतिपिपादयिषितः, उत वाक्यान्तरगत-तद्-विरोधो वा ? न तावद् आद्यः । अहं त्वेत्य्-आदि-वाक्ये विधि-प्रत्ययाश्रवणात् । नापि द्वितीयः,

परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयाद्

इत्य्-आदिषु वाक्यान्तर-विहिताया एव गुरूपपत्त्यादेर् वाक्यान्तरे अधिकारि-विशेषणत्वेनाप्य् उपपादन-दर्शनेन वाक्यान्तरीय-विधि-प्रत्यय-योग्यस्य, वाक्यान्तरोपात्ताधिकारि-विशेषणत्वेन साकम् अ-विरोध-दर्शनात् । अभ्युपगतं चाचार्यैः । वाक्यान्तर-विहितायाः प्रपत्तेर् एव प्रपन्नासाधारण-धर्म-द्वय-स्मरणादि-विधिषु केवल-निमित्ततयाधिकारिविशेषणत्वम् अपि । तस्मात् सिद्धम् – फल-कामना-रूपतया फलतया निमित्ततया च प्रपत्तेर् अधिकारि-विशेषणत्वम् उपपद्यत एवेति ॥

न चैवम् अपि विधेयान्तरासिद्ध्या तत् तथात्वासम्भव-शङ्का अधिकारि-विशेषणानां नियोज्य तावच् छेदकत्व-नियमे प्रमाणाभावात् । न च प्रायो-दर्शन-मात्रेण तत्-सिद्धिः । पार्थिवत्व-लोह-लेख्यत्वयोर् वज्र-मणौ व्यभिचारात् ॥

[[P110]]

अधिकारि-विशेषणानां नियोज्य त्वावच् छेदकत्वं न तावद् अधिकारि-विशेषणता-प्रयुक्तम् । किं तु उपायाविकार्यायत्त-सिद्धत्व-रूपोपाधि-निबन्धनम् अतो यत्रोपायस्य सिद्धत्वं, तत्र तद्-अधिकारि-विशेषणस्य नियोज्यतावच्छेदकत्वाभावो न क्षतिम् आवहतीति युक्तम् । विधेयान्तराभावे ऽपि सिद्धोपायाधिकारि-विशेषणत्वम् ॥

ननु किं तर्हि सर्वाधिकारि-विशेषण-साधारणम् अधिकारि-विशेषणत्वन् नाम इति चेत् । उपायान्तरान्वयितावच्छेदकत्वम् एवेति ब्रूमः । सिद्धं च प्रपत्तेः सिद्धोपायान्वयितावच्छेदकत्वं –

சரணமாகுந்தன் தாளனடந்தார்க் கெல்லாமி

त्य्-आदि-दिव्य-सूरि-सूक्तिभिः । तस्मान् न विधेयान्तरासिद्धाव् अपि प्रपत्तेर् अधिकारि-विशेषणत्व-विरोधः । अथ यद् वा स्यान् नामाधिकारि-विशेषणानां नियोज्यतावच्छेदकत्व-नियमो ऽपि । तथापि न प्रपत्तेर् अधिकारि-विशेषणत्व-हानिः । प्रपन्नं प्रति सिद्धोपायस्यैव विधीयमानत्वात् विधेयात्वासम्भवः । तस्योत्पाद्यत्व-लक्षण-साध्यत्वासम्भवे ऽपि प्राप्यत्व-लक्षण-साध्यत्वानपायेन तत्-साध्यक-विध्य्-उपपत्तेर् इति ॥

तद् एवम्, सिद्धान्त-सिद्धस्य शरणागत्य्-अधिकारि-विशेषणत्वस्य प्रामाणिकैर् दुरपह्नवत्वात् श्रीमन्-निगमान्त-सूरि-सूक्तिर् नियोज्य विशेषणत्व-मात्र-विषयैवेति सुधीभिर् मन्तव्यम् । अतः फलादिभ्यो ऽप्य् अन्-अन्यत्वात् प्रवृत्तिर् विधितो ऽन्वयात् । विधेयान्तर-सत्वादप्य् अधिकारि-विशेषणम् इति सिद्धम् । विस्तरस् तु – श्री-वचन-भूषण-मीमांसा-भाष्ये पूर्वोक्त-ग्रन्थादौ द्रष्टव्यः ॥

भक्तिः आवृत्तिर् अ-सकृद् उपदेशाद् इत्य्-आदिना अ-सकृद् आवृत्ता प्रपत्तिः सकृद् एव हि शास्त्रार्थः, सकृद् एव प्रपन्नायेत्य्-आदि-प्रमाणात् । सकृत् कर्तव्या, अधिकारि-विशेषणी-भूत-प्रपत्तेः न कर्माद्य्-अपेक्षा । सर्व-धर्मान् परित्यज्य, त्यज धर्मम् अ-धर्मं च, “उद्ववोत्सृज्य चोदनां प्रति चोदनाम्” इत्य्-आदौ स्व-रूप–विरुद्ध-कर्मादि-त्याग-विधानात् । तथैव पूर्वाचार्यैर् अनुगृहीतं शिष्ट-भूषणे –

[[P111]]

पञ्च-महा-यज्ञादि-विद्याङ्गत्वम्, आश्रमत्वं च श्री-भाष्य-विवरण-मुखेन

अत्रैषा रामानुजार्याणां प्रक्रिया बोध्या –

पञ्च-महा-यज्ञादीनां विद्याङ्गत्वम् आश्रमाङ्गत्वं च

इत्य् आकार-द्वयम् अस्ति । तत्रोपासकानां विद्याङ्गत्वाकारः, अ-मुमुक्षूणाम् आश्रमाङ्गत्वाकारः । अत्र विद्याङ्गत्वाकारः सर्वापेक्षा च यज्ञादि-श्रुतेर् इति सूत्र-भाषितः । आश्रमाङ्गत्वाकारः विहितत्वाच् चाश्रमकर्मापीति सूत्र-भाषितः ॥

प्रपन्न-विषये तु, विद्याया निष्पन्नत्वात् उपासक इव पञ्च-महा-यज्ञादीनां विद्याङ्गत्वम् अपि न सम्भवति । निष्पन्न-विद्या-माहात्म्यादेवानुष्ठितानाम् अप्य् आश्रम-धर्माणां इतरस्याप्य् एवम् अ-संश्लेषः इत्य्-आदिभिर् अ-श्लेष-वचनेनानिच्छतो ऽननुष्ठानम् एवेति केवलाश्रमाङ्गत्वम् अपि न सम्भवतीति । अग्नि-होत्रादि त्व् इति सूत्र-पूर्व-पक्षे भाषितं – तच् च सिद्धान्ते ऽप्य् अङ्गीकृतम् एवेति भाव-टिप्पण्याम् –

न देव-भूत-आत्म-नृणाम् इत्य्-आदि-रीत्या सर्वात्मना भगवच्-छरणागत्या देवतान्तर-ऋण-त्रयापाकरणात् ।

तम् अंशेनैव कुर्वीत मनीषी पूर्व-राशिवद्

इति, प्रपन्नान् प्रति प्रायाश्चित्तान्तराणां निषिद्धत्वात् अ-हिंसन्न् अन्यत्र तीर्थेभ्यः, यज्ञार्थात् कर्मणो ऽन्यत्रेति भगवत्-कैङ्कर्ये प्रत्यवायाप्रसक्तेः प्रपन्नानां मुमुक्षुत्वेन विहितत्वाच् चाश्रम-कर्मापीत्य् अ-मुमुक्षु[[??]]-विषय-न्यायस्यात्रानवतारात् । प्रपन्नानां निष्पन्न-विद्यत्वेन

सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत्, अग्नि-होत्रादि तु तत्-कार्यायैव तद्-दर्शनात् ।

इत्य् उक्त-न्याययोः निष्पाद्य-विद्या-विषययोर् अत्रानवतारात् ॥

सर्व-धर्मान् परित्यज्य – त्यज धर्मम् अ-धर्मं चेति प्रपिपित्सून् प्रति सर्व-कर्म-त्याग-विधानात् । शण-वल्क-ब्रह्मास्त्र-न्यायेन साधनान्तरस्य, सिद्धोपाय-निष्ठान् प्रति अवश्य-परिहरणीयत्वात् । निष्पन्न-विद्यानां पुण्य-पापाश्लेष-वचनेनानुष्ठितानाम् अपि निष्फलत्वात् । मनीषी वैदिकाचारम् इत्य्-आदि-विशेष-विधीनां स्व-रूपानुरूप-कैङ्कर्य-मात्र-विषयत्वाच् च पञ्च-यज्ञान् मुञ्चन्त इति यावत् इति ॥

[[P112]]

सद्-दर्शन-सुदर्शने

संन्यासो द्वि-विधः प्रमाण-गदितः सद्-ज्ञान-कर्मात्मना
तत्र ज्ञान-पथं व्रजन् हि पुरुषः श्रेष्ठो यतीनां शतात् ।
श्राद्धाद् यं बत कर्म कर्म-यतिना सद्यस् तु सन्त्यज्यते
विद्या-न्यासवतां सतां पितृ-विधि-व्रातस्य का वा कथा ॥

किं च

यज्ञो ऽपि द्वि-विधः त्रयीषु विहित-स्व-ज्ञान-कर्मात्मना
सर्वं कर्म जहाति कर्म-यजने दीक्षां भजन् वै पुमान् ।
यावज् जीवनम् आत्म-बुद्धि-यजने दीक्षां भजन्तो बुधा
मुञ्चन्तो ऽन्यद् अन्-अन्तम् आत्म-यजने नाञ्चन्ति यज्ञात्मकाः ॥

इति ।

प्रपन्नानां कैङ्कर्य-बुद्ध्यै वानुष्ठानम् [[??]]

ननु प्रपन्नैः सन्ध्या-वन्दन-कर्मानुष्ठीयते भवद्-उक्त-रीत्या तन् न सङ्गच्छत इति चेन् न – उपासकानुष्ठेय-कर्मापेक्षया प्रपन्नानुष्ठेय-कर्मणः कैङ्कर्य-रूपत्वेन भिन्नत्वात् ॥

तथाहि – कर्म–स्व-रूप-भेदः पूर्व-मीमांसायां – कुण्ड-पायिनाम् अग्नि-होत्र-न्यायेन, विनियोग-पृथक्त्व-न्यायेन च सम्भवति । विनियोगः शेषत्व-फलं – तस्य पृथक्त्वं पार्थक्यम् इत्य् अर्थः । कर्मण एकत्वे ऽपि फल-भेदात् स्व-रूप-भेद इति यावत् । अ-मुमुक्षोः कर्मणाम् आश्रमार्थतया ऽनुष्ठानम् । उपासकस्य विद्या-निष्पत्तये तद्-अनुष्ठानम् । कैङ्कर्य-भक्ति-निष्ठस्य पौष्कल्यार्थं कैङ्कर्यत्वेन तद्-अनुष्ठानं फल-प्रपत्ति-निष्ठस्य निष्पन्न-विद्यत्वेन किं कुर्वाद् इति कैङ्कर्यत्वेन तद्-अनुष्ठानम् । प्रपन्नानुष्ठित-कर्मणां स्व-रूप-भेदः ॥

अज्ञ-सर्वज्ञ-भक्ति-पर-वशानां भगवत्-प्रीत्य्-अर्धम् एव नित्य, नैमित्तिक-कर्मानुष्ठानम् [[??]]

पूर्व-मीमांसोक्त-द्वादशाह-कर्म-विशेषस्य सङ्कल्प-भेद-कृत-सत्रत्वाहीनत्व-भेदवत् अस्त्य् एव । सत्रं अनेक-कर्तृकैक-कर्म, अ-हीनम् एक-कर्तृक-कर्म । कर्मणः किं कुर्वाद् इति विशेष-विधेर् बलात् कैङ्कर्यत्वम् । अलौकिकत्वे सति, बलवद्-अनिष्टाननुबन्धित्व-विशिष्ट-श्रेयस्-साधनत्व-रूपं धर्मत्वं यस्य तं प्रति तस्य धर्मत्वं, न तु जातिः, आपेक्षिकं किं कुर्याद् इति विशेष-विधेः ॥

[[P113]]

कैङ्कर्यम् इति निश्चित्य देवस्य परमेष्ठिनः ।
वेद-स्मृत्य्-उक्तम् अखिलं कृत्यं कुर्याद् अन्-अन्य-धीः ॥

इति वासिष्ठ-संहिता–तृतीयाध्याय-वचनात् ॥

परमात्मा हरिः स्वामी स्वतो ऽहं तस्य किङ्करः ।
कैङ्कर्यम् अखिलावृत्तिर् इत्य् एष ज्ञान-सङ्ग्रहः ॥

इति भरद्वाज-परिशिष्ट-वचनाच् च । कैङ्कर्ये मुख्य-वृत्तो धर्म-शब्दः, तस्माद् अन्यत्र तद्-गुण-लेशयोगाद् औपचारिकः । धर्मेण पापम् अपनुदतीत्य् अत्र श्रुत-प्रकाशिकायाम् – अन्-अभिसंहित-फलस्य धर्मत्वं अन्यस्य पापत्वम् उक्तम् । अत्र पूर्व-मीमांसोक्त-संयोग-पृथक्त्व-न्यायेनाप्य् उपपत्तिः । दध्य्-आदि तु उभय-रूपम्, दध्ना जुहुयाद् इति फलासंयुक्त्येन वाक्येन क्रत्व्-अर्थत्वात् । दध्नेन्द्रिय-कामस्य जुहुयाद् इति अनेन फलाय विधानात् पुरुषार्थत्वात् । तद् उक्तं एकस्य तूभय-रूपत्वे संयोग-पृथक्त्वम् इति । संयोगो वाक्यम् । तस्य पृथक्त्वं भेदः । एकस्योभयार्थत्वे नियामक इत्य् अर्थः । इति संयोग-पृथक्त्व-न्यायः । पूर्व-मीमांसायां शाखान्तराधिकरणे “शाखान्तरे कर्म-भेद” इति सूत्रेण पूर्व-पक्षम् उक्त्वा, एकं वा संयोग-रूप-चोदनाख्याविशेषाद् इति सिद्धान्तितम् । तन्-न्यायेन च शरण-वरणाधिकार्य्-अनुष्ठित-कर्मणः आकार-भेदात् फल-संयोग–स्व-रूप–नामधेय-चोदना-भेदात् भेदः वर्तते ॥

[[P114]]

तथाहि - उपासकस्य सन्ध्या-वन्दनाद्य्-अनुष्ठानं प्रत्यवाय-परिहारार्थं “त्रिभिर् ऋणवा जायते” इत्य् उक्त-रीत्या ऋणित्वात् शरण-वरणाधिकारिणस् तद्-अनुष्ठानं भगवन्-मुखोल्लासार्थम् । न किङ्करो नायम् ऋणीत्य्-आदिना ऋण-त्रयादि-निषेधात् । अ-यथावस्थितस्य उपासितानुष्ठित-कर्मणः प्रत्यवाय-परिहारः फलम् । यथावस्थितस्य प्रपन्नानुष्ठित-कर्मणः भगवन्-मुखोल्लासः फलम् । उपासकानुष्ठित-कर्मणः अभिसंहित-फलकत्वं स्व-रूपं फल-जनकम् इत्य् अर्थः । प्रपन्नानुष्ठित-कर्मणः अन्-अभिसंहित-फलकत्वं स्व-रूपम् इति । उपासकानुष्ठित-कर्मणः तत्-तत्-कर्म-नामधेयम् आख्या । प्रपन्नानुष्ठित-कर्मणः कैङ्कर्यं नामधेये । उपासकानुष्ठित-कर्मणः यजेत उपासीतेति चोदना । प्रपन्नानुष्ठित-कर्मणः किं कुर्याद् इति चोदना कैङ्कर्यं कुर्याद् इत्य् अर्थः । अतः तयोर् भेदस् सिद्धः । उभयानुष्ठित-कर्मणोः संज्ञाया अ-भेदे ऽपि कर्मान्तरत्वम् एव संज्ञातश् चेद् इति सूत्र-न्यायात् । पूर्वोक्तं सर्वं दास-कृत-हरि-दिन-कृत्य-विवेके चरम-श्लोक-चन्द्रिका-सिद्ध-तात्पर्य-टिप्पणी-गीतान्त-स्थ-तत्त्व-प्रकाशिका ग्रन्थादौ सम्यक् द्रष्टव्यम् ॥

शरण-वरणाधिकारिणः सन्ध्या-वन्दनादि-कर्माणां ईश्वरोक्तत्वेन रागतः कर्तव्यत्वम्, न तु वैधकेन । स्वार्थानुभव-कैङ्कर्य-पराणाम् तु वैधत्वेन कर्मादि-प्रवृत्तिः । आचार्य-हृदये – “विधिरा சங்கள்” इत्य् अनुगृहीतत्वात् । श्री-पाञ्चरात्रे – अङ्ग-न्यास–कर-न्यासाद्य्–अङ्ग-विशिष्टाराधन-रूप-कैङ्कर्यवत् मुख्याङ्ग-विशिष्ट-मन्त्रोच्चारण-पूर्वकाज्ञा-कैङ्कर्य-रूपं कर्म प्रपन्नैः क्रियते । आज्ञा-कैङ्कर्य-रूपं कर्म सन्ध्या-वन्दनादि अ-करणे प्रत्यवाय-जनकम् । अनुज्ञा-कैङ्कर्य-रूपं कर्म यज्ञादि-करणे अभ्युदय-जनकम् । उपासकानाम् आवश्यकम् । तर्हि ईश्वरस्यैव कर्तृत्व-भोक्तृत्वाङ्गीकारे सिद्धोपाय-निष्ठैः करिष्यामीति सङ्कल्पः क्रियतां – न तु करिष्ये इति । फलस्य कर्तृगामित्वे करिष्ये इति आत्मनेपद-प्रयोगस्य, फलस्य अन्य-गामित्वे करिष्यामीति परस्मैपद-प्रयोगस्य च – “स्वरित-ञितः कर्त्र्-अभिप्राये क्रिया-फले”, “शेषात् कर्तरि परस्मैपदम् इति” शब्दानुशासन-सिद्धत्वाद् इति चेत् –

[[P115]]

अत्रायं निर्णयः । साधारण्येनाधिकारिणं प्रति शब्द-शास्त्रे तथोक्तत्वात् । भगवद्-गीतायाम् –

यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोक-सङ्ग्रहम् एवात्र सम्पश्यन् कर्तुम् अर्हसि ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अ-तन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
सक्ताः कर्मण्य् अ-विद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वान् तथा ऽसक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् ॥

इत्य्-आदिभिर् लोक-सङ्ग्रहार्थं, यथा जनाः यादृश-कर्मानुष्ठानेन शास्त्रानुष्ठानं तद्-विषय-विश्वासं च कुर्वीरन्, तथा कुरु इति गीताचार्येण पार्थं प्रति उपदिष्टत्वात् । आज्ञाच्छेदी मम द्रोहीति तद्-अ-करणे प्रत्यवाय-श्रवणात् । तादृश-शास्त्रोक्त-रीत्यैव कर्तव्यम् इति तद्-अनुष्ठिन्ति शिष्टाः अतः अज्ञ-प्रपन्नैः अस्मद्-आदिभिः नित्य-नैमित्तिक-रूपं कर्म कैङ्कर्य-रूपत्वेन रागतः अनुष्ठेयम् एव ॥

श्री-वचन-भूषण-दिव्य-शास्त्रे प्रथम-प्रकरणे –

स्व-यत्न-निवृत्ति-पारतन्त्र्य-फलं, स्व-प्रयोजन-निवृत्ति-शेषत्व-फलं, पर-प्रयोजन-प्रवृत्ति-प्रयत्न-फलं, तद्-विषय-प्रीति-चैतन्य-फलं

इति । ஆயிபடி व्याख्यान-ग्रन्थे — पर-प्रयोजन-प्रवृत्ति-प्रयत्न-फलं इति वाक्य-व्याख्यानावसरे –

இந்த பாரதந்திரிய ஞாநம் பிறந்த பின்னு மிவனுக்குண்டாம் ஸ்வய த்நங்சளில்– स्व-प्रयोजनमिல்லை என்கிறது. மேல் पर-प्रयोजनम् इत्य्-आदि யால், இந்தநில்ருத்யதிகாரிக்கு அவச்யகரணீயங்களான ऊर्ध्व-पुण्ड्र-धारण, द्वयोच्चारण-माला-करण-दीपारोपणादि-शिष्टाचार-रूप–स्व-प्रयत्नத்துக்கு फलं प्रयत्न-विषय-भूत னுமாய் प्रेरकनु ழான பரனுக்குப்ரீதிவர்த்தகமாய்க் கொண்டு तत्-प्रयोजन மான प्रवृत्ति-विशेषमा யிருக்குமத்தனை - அது स्व-प्रयोजन-प्रवृत्ति யாகாமையால் प्रार-तन्त्र्य-विरोधि யாகாதிதி.

[[P116]]

अत्र पूर्वाचार्य-श्री-सूक्तिः - इदं शरणम् अ-ज्ञानाम् । अज्ञ-सर्व-ज्ञ-भक्तानां अ-विद्यातः इत्य्-आदि களில் சொல்லுகிறபடியே अज्ञ ரென்றும், ज्ञानाधिक எரிரென்றும், भक्ति-परावश ரென்றும் प्रपन्नाधिकारिகள் மூன்றுபடியா யிருப்பார்கள். இதில் அனராகிறார். स्व-स्व-रूपादि-साक्षात्कार மும் तद्-विपाक-रूप-भक्त्य्-आदि களுமின்னிக்கே ஸம்ஸாரிகளோடொக்க ஆண்டாறு மாஸத்துக்கு ஜீவனந் தேடி अन्न-पानादि-धारकार யிருநிற்கச்செய்தே. सदाचार्य-परम्परा-प्राप्त மான औपदेशिक-ज्ञान க்தாலே आचार्य-पर-तन्त्रराய் வகுத்த விஷயத்தில், சரணம் புகுந்து पूर्वाचारத்தையண்டை கொண்டு வர்த்திக்கும் अस्मद्-आदिகள். இவர்கள் கன்றுமேய்த்தினிதுகக்கும் ஈச்வரனுடைய வாத்ஸல்யா திசயத்துக்கு இலக்கான வாகாரத்தாலே லோகவிலக்ஷண்யம विशेष-ज्ञ-दुर्ज्ञेय மாகையாலே ஸர்வர்க்குமிவர்களிடத்தில் स्व-सजातीयता-बुद्धिயே நடவாநிற்கும். ஆகையாலிவர்களில் வைலக்ஷ ண்யமடியாக मर्यादातिलङ्घनं பண்ணவொண்ணாது இவர்கள் மர்யாதாதிலங்கனம் பண்ணில் இவர்கள் திறத்தில் साजात्य-बुद्धिயுடைய ஸர்வலோகங்களுமிவர் ளுடைய அநுஷ்டானத்தை பரிக்ரஹித்துமிவர்களை நிந்தித்தும் நரிக்கையாலுண்டான भगवद्-अप्रीதியாலே मद्-भक्तो ऽपि न वैष्णवः என்கிறபடியே இவர்களுக்கு भगवद्-विषयத்திலுண்டான प्रेमமும் அகிஞ்சித்கரமாய் வைஷ்ண வத்வமும் நசித்து. ‘लङ्घयन्’ शूलम् आरोहेत् என்கிறபடியே यमो वैवस्वतो राजा, வென்கிற साक्षाद्यமன் தானே. முகம் மாறவைக்கையாகிற तद्-अप्राप्ति-महा-दुःख-रूप-महा-पातकानुभावात्म-शूलारोपணமும் फलि த்து விடுமத்தனையிதி.

[[P117]]

"” "” "”

तथोक्तं स्मृत्यन्तरे –

वैदिकैः कर्मभिः पुण्यैर् निषेकाद्यैर् द्वि-जन्मनाम् ।
कार्यश् शरीर-संस्कारः पावनः प्रेत्य चेह चेति ॥

पराशर-संहितायां विशिष्ट-पर-धर्म-शास्त्रे प्रथमे ऽध्याये भगवद्-वचनम् –

प्रपन्नः परमैकान्ती सर्वदा कमलासन ।
निषेकादि-क्रियास् सर्वाः वैष्णव-श्रुति-मार्गतः ॥
सदा स ब्रह्म-मेधान्तं कुर्याद् एव न संशयः ॥

इति ।

वासिष्ठ-संहितायाम् –

प्रीत्य्-अर्थं देव-देवस्य श्रीशस्य जगतीपतेः ।
नित्य-कर्माणि कुर्वीत तथा नैमित्तिकान्य् अपि ॥

इति ।

तत्त्व-शेखर-रहस्ये – लैङ्गे –

विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् ।
प्रियो भवति यो दृष्ट्वा वैष्णवो ऽसौ प्रकीर्तितः ॥

इति ।

पूर्वाह्निक-ग्रन्थे–

स्व-यत्न-साध्यैस् सुकृतैर् अ-फलाकाङ्क्षिणाम् अपि ।
ऋषीणाम् उदितं ज्ञानं नात्यन्त-विशदं भवेत् ॥
भक्ति-निष्ठाः परे श्रेष्ठाः पराशर-शुकादयः ।
जानन्ति भगवत्-तत्त्वम् अञ्जसा तद्-अनुग्रहात् ॥
निर्हेतुकेन श्रीशस्य प्रसादेनैव भूयसा ।
अर्थ-पञ्चक-याथात्म्यं पश्यन्त्य् अन्ये हि मुक्तवत् ॥
स्नान-दान-तपस्-तीर्थ-होम-नाम-जपार्चनम् ।
फलार्थिभिः कृतं सर्वं न विज्ञानाय कल्पते ॥

इति । कर्मानुष्ठान-विषये विस्तरस् तु, दास-कृत-तर्पण-तत्त्व-सार-ग्रन्थे द्रष्टव्यः । तथा च – परार्थ-पर-प्रपन्नानां यद् यद् आवश्यकं, तद् एव कर्तव्यं न त्व् अन्यत् काम्यादिकम् इति सिद्धम् । अतः प्रकृते सर्वदा पवित्र-धारणम् अनावश्यकम् एव ॥

इति श्री-सद्-अनुष्ठान-दर्पणे सदा पवित्र-धारणानावश्यकत्व-विषयो नाम तृतीय-प्रतिफलनम् ॥