॥ द्वितीय-प्रतिफलनम् ॥ (कौपीन-धारण-विषयः)
कौपीनं व्यति-स्यूत-कटि-सूत्र-द्वयं पद्म-बीज-माला च प्रपन्नैर् धार्यं इत्य् अत्र हारीत-स्मृतिः, शेष-संहिता, सच्-चरित्र-परित्राणां प्रमाणम्
प्रपन्नानां कौपीन-धारण-विषये प्रमाणं —
प्रपन्नैः यति-स्यूत-कटि-सूत्र-द्वय-सहित-कौपीनं धार्यं वचनात् शिष्टाचारश् च ।
तथाहि हारीत-स्मृतौ –
त्रि-सूत्रं त्रिगुणी-कृत्य पञ्च सप्त नवापि वा । अ-युक्-सूत्रैर् व्यति-स्यूतं धारयेत् कटि-बन्धनम् ॥
इति ।
शेष-संहितायां पञ्चदशे ऽध्याये –
प्रादेश-मात्र-विस्तारमायामं तच्-चतुर्-गुणम् ।
कौपीनं धारयित्वाथ विप्राद्यो धारयेत् सदा ॥
कटि-सूत्रं प्रकुर्वीत राज्जवं पञ्च-सूत्रकम् ।
तत्-सूत्रेण च कौपीनं गृह-स्थाद्यैस् तु धारयेत् ॥
सच्-चरित्र-परित्राणे दिव्य-लक्षणानि भरद्वाजेन प्रपन्न-लक्षणाधिकारे—
ब्राह्मणः क्षत्रियो वैश्य इत्य् आरभ्य चक्राङ्कन-पुण्ड्राणि चोक्त्वा
पवित्राण्य् अब्-ज-बीजानि शङ्ख-चक्राङ्क-भूषणम् । धारयेद् वैष्णवं नाम वैष्णवाश्रयम् एव वा ॥
अ-युक्-सूत्रैर् व्यति-स्यूतं धारयेत् कटि-बन्धनम् ।
कौपीनं वस्त्र-युग्मं च यथार्हमितराणि च ।
इति ।
पञ्च-बीज-मयी माला तुलसी दिव्य-चूर्णकम् ।
पवित्रं चाथ कौपीनं व्यति-स्यूता च मेखला ॥
पञ्चायुधाब्-ज-तार्क्ष्यादि-लक्षणाभरणादिकम् ।
वेषश् चानुल्बणश् शौक्ल्यं दन्त-स्रक्-पुण्ड्र-वाससा ।
विष्णोस् तत्-संश्रयाणां च चेतनाचेतनात्मनाम् ॥
आख्याय व्यपदेशश् च लक्षणानि सतां विदुः ॥
इति ।
काश्यप-स्मृत्य्-उक्त-पञ्च-कच्छ-धारण-विधिः
उक्तानि।
पवित्रं भगवता पवित्रोत्सवे धारितं क्षौम-कार्पासादि-रूपा
इति
काश्यप-स्मृतौ
कौपीनस्य प्रमाणं हि वक्ष्यते बुध-सत्तमाः ।
बाहु-मात्र-प्रमाणं हि दीर्घं कौपीनम् उच्यते ॥
द्वादशाङ्गुल-विस्तारं शुभ्रं मलिन-वर्जितम् ।
इति ।
तत्रैव
पञ्च-किष्कु-प्रमाणं हि वस्त्र-द्वयम् उदाहृतम् ॥
पुरः कच्छं पुरो धार्यं पश्चात् कच्छं ततः परम् । पूर्व-कच्छं हि दैवं स्यात् पश्चात् कच्छं तदासुरम् ।
तस्माद् धृत्वा पूर्व-कच्छं पश्चात् कच्छं ततो धरेत् ॥
इति
[[P23]]
खगेश्वर-संहितायां दैवे, पित्र्ये, ब्राह्मे च यज्ञोपवीदादि-धारणवत् पञ्च-कच्छादि-धारणं इति
श्री-पाञ्चरात्रे खगेश्वर-संहितायां श्री-विष्णु-तिलके, ब्रह्मोपदेशे पुण्याहादि-विधि-नामक-पञ्चमाध्याये –
प्रसङ्गाद् अत्र वक्ष्यामि वस्त्रादीनां विधिं क्रमात् ।
सव्यं कटिं समारभ्य प्रादक्षिण्येन वेष्टयेत् ॥
पुरतः स्याच् चतुः-कच्छः पृष्ठतश् चैक-कच्छवान् ।
दैवे पैत्र्ये तथा ब्राह्मे पञ्च-कच्छो भवेद् इति ॥
सु-श्वेतं दोष-रहितम् अन्तर्-वासम् अ-खण्डितम् ।
पार्श्वे कच्छ-द्वयं कुर्याद् अग्रे कच्छ-द्वयं तथा ॥
पृष्ठ-भागे कच्छम् एकं कृत्वा पूजा-अर्हको भवेत् ॥
अन्तर्-वासस्य विप्राणां पञ्च-कच्छं भवेत् सदा ॥
अन्तर्-वासम् इदं विप्र कौपीनोपरि धारयेत् ।
बहिर्-वासं वाम-भुजे धारयेद् यज्ञ-सूत्रवत् ॥
इति । शेष-संहितायां पञ्चदशाध्याये इमे एव श्लोकाः तत्र कच्छ-शब्द-स्थाने पुच्छ-शब्दः प्रयुक्तः ।
पराशर-स्मृतौ –
कटि-सूत्रं तु कौपीनं शुक्लं वस्त्र-द्वयं शुभम् ।
कुण्डले चाङ्गुलीयादि–गृह-स्थस्य विशिष्यते ॥
इति ।
शाणिल्य, पराशर, अत्रि-स्मृतिषूक्त-कौपीन-धारणावश्यकत्व-वचनानि
शाण्डिल्य-स्मृतौ द्वितीये ऽध्याये–
अन्तराच्छाद्य कौपीनं वाससी परिधाय च ।
ध्यान-मौन-परो नित्यं संयताचमनं चरेत् ॥
इति ।
हारीत-स्मृतौ–
धौत-वस्त्रं सान्तरीयं स-कौपीनं धरेत् सितम् ।
निबद्ध-शिख-कच्छस् तु द्विर्-आचम्य यथा-विधि ॥
इति ।
पराशर-धर्मे–
कौपीनं कटि-सूत्रं च उत्तरीयम् इति त्रयम् ।
यज्ञोपवीतवद् धार्यं सर्व-शास्त्रार्थ-वित्तमैः ॥
कौपीन-हीनो न स्नायात् तीर्थेषु विमलेषु च ।
अन्तर् आच्छाद्य कौपीनं वाससी परिधापयेद् ॥
इति ।
अत्रि-स्मृतौ–
कौपीन-सहितं शुक्लम् अम्बरं बिभृयात् तथा ।
उत्तरीयं च विमलं पश्चाद् आचमनं चरेत् ॥
इति ।
पराशर-व्याख्यायाम्–
दशा-हीनेन वस्त्रेण न स्यात् कौपीनकाद् ऋते ।
नान्य-दीयेन नार्द्रेण न सूच्या ग्रथितेन च ॥
इति ।
[[P24]]
श्राद्धे ऽहनि कौपीन-धारणं ऊर्ध्व-पुण्ड्रादि-धारणम् आवश्यकम् इति (वसिष्ठ-संहिता)
वासिष्ठ-संहितायां प्रथमाध्याये–
कटि-सूत्रं स-कौपीनम् अन्तरीयं यथा-क्रमम् ।
उत्तरीयं बहिर्-वस्त्रं धृत्वेति ।
तत्रैव पञ्चमाध्याये –
श्रार्द्रे ऽहनि तु सम्प्राप्ते प्रातः स्नात्वा विधानतः ।
धृत्वा वस्त्र-द्वयं शुद्धं स-कौपीनं स-सूत्रकम् धृत्वोर्ध्व-पुण्ड्रं विधिवत् सन्ध्या-वन्दनम् आचरेत् ॥
इति ।
विष्वक्सेन-संहितायां –
कौपीन-हीनं यद् वस्त्रं तद् अ-शुद्धम् उदाहृतम् ।
तस्माद् धार्यं हि च सदा नराणां कार्य-सिद्धये ॥
तद्-विना यत्-कृतं कर्म तत्-सर्वं विफलं भवेद्
इति ॥
आचार्य, शिष्य, अर्चकानां लक्षणम्
पराशर-संहितायां प्रथमाध्याये–
कौपीनं कटि-सूत्रं च स-धौतं चोत्तरीयकम् ।
शिखा-च्छिद्रोर्ध्व-पुण्ड्रं च आचार्यस्य च लक्षणम् ॥
शिष्यस्य लक्षणं चैवम् अर्चकस्य च लक्षणम् ॥
पञ्च-संस्कार-रहितः शिखा-कौपीन-वर्जितः ।
नित्य-कर्मादि-रहितो ह्य् अन्-अर्चक इति स्मृतः ॥
इति ।
तत्रैव तृतीयाध्याये–
नदी-तीरं समागम्य मौनेन द्वयम् उच्चरन् ।
कौपीनं योक्तुम् उत्तर्यं[[??]] सु-श्वेतं धारयेत् ततः ॥
इति ।
संहितान्तरे–
कौपीन-हीनं पुरुषं न श्राद्धे भोजयेद् द्वि-जः ।
प्राङ्-मुखोदङ्-मुखो वापि वस्त्रं सन्धारयेद् द्वि-जः ॥
कटि-सूत्रं च कौपीनं उत्तरीयं क्रमेण तु ।
इति ।
कर्णे तु दक्षिणे कुर्यात् यज्ञ-सूत्रावकुण्ठनम् ॥
कटि-सूत्रं तथा कुर्यान् नामेर् ऊर्ध्वे यथा तथा ।
कौपीनाच्छादनं कृत्वा प्रक्षाल्य च कराव् इति ॥
रहस्य-त्रय-सार-व्याख्यात-सार-प्रकाशिकायां प्रभाव-व्यवस्थाधिकारे कौपीनादि-धारणम् आवश्यकम् - तन्-निषेध्यस्य वैष्णवेतर-विषयकत्वम्
वैखानस-श्रीनिवास-दीक्षितीये । श्री-रहस्य-सार–व्याख्यान-सार-प्रकाशिकायां प्रमाव-व्यवस्थाधिकारे शेष-संहितायां–
स्नात्वा विधिवद् आचम्य शौचाचमन-पूर्वकम् ।
कौपीनं कटि-सूत्रं च वस्त्र-युग्मं च धारयेद् ॥
इति ॥
कौपीनं कटि-सूत्रं च शिखायां तुलसी-दलम् ।
यावद् धारयते विप्रस् तावच्-छूद्रो न संशयः ॥
इत्य्-आदिकं श्री-वैष्णवेतर-विषयम् ।
हारीत-स्मृतौ–
कटि-सूत्रं च कौपीनं महती शुक्ल-वाससी ।
कुण्डले चाङ्गुलीयानि गृह-स्थस्य विधीयते ॥
इति ।
पुलस्त्य-संहितायां –
पञ्चभिस् सप्तभिर् वापि सूत्रैः कार्पास-निर्मितैः ।
विधातव्यम् इति प्रोक्तं कटि-सूत्रस्य लक्षणम् ॥
इति ।
[[P25]]
कटि-सूत्रस्य रौद्र, ब्राह्म, वैष्णव-भेदाः राजसाः स्वर्ग-दाः इत्य्-आदि-निरूपणम्
भारद्वाज-संहितायां परिशिष्टे चतुर्थाध्याये–प्रपन्न-लक्ष्म-विरुद्धाधिकारे–
युग्मैर् विवर्तितं रौद्रम् युग्मैर् ब्राह्म्यम् उच्यते ।
उभयैस् तैर् व्यति-स्यूतं युग्मैर् गुणं वैष्णवं गुणैः ॥
इति ।
अस्य व्याख्या –
युग्मैर् इति युग्मैस् समैर् गुणैर् विवर्तितं रज्जु-परिणामं प्रापितं रौद्रं रुद्र-देवताकम् । अ-युग्मैर् विषमैर् गुणैर् विवर्तितं ब्राह्मम् उच्यते । उभयैर् युग्मैः अ-युग्मैश् च मिलित्वा - अ-युग्मैः विषमैस् तैर् गुणैः व्यति-स्यूतं मेखला-रूपेण व्यत्यासेन स्यूतं, न तु विवर्तितं वैष्णवं विष्णु-देवताकं पञ्चभिर् गुणैर् व्यति-स्यूतं वैष्णवम् इत्य् अर्थः ।
उपवीतं सदा ब्राह्मं वैष्णवं कटि-बन्धनम् ।
उभयं धारयेद् रौद्रं साधयन् कर्म तामसम् ॥
उपवीतम् इति -
उपवीतं ब्राह्मं भवेत् तु गुण-त्रय-रूपत्वाद्
इति भावः ।
कटि-बन्धनं तु वैष्णवं युग्मायुग्ममयः गुणैः पञ्चभिः व्यति-स्यूतत्वाद्
इति भावः । उभयं ब्राह्मं उपवीतं वैष्णवं व्यति-स्यूत-कटि-बन्धनं च धारयेत् । रौद्रं तर्हि केन धार्यम् इत्य् अत आह –
तामसं कर्म साधयन् कुर्वन् रौद्रं युग्म-विवर्तितं कटि-बन्धनं धारयेद्
इति शेषः ॥ रौद्रस्य तामस-कर्माङ्गत्वात् सात्त्विकं कर्माचरता न धार्यम् इति भावः ॥
तामसं नग्नम् एकं च राजसं वसन-द्वयम् ।
कौपीन-सहितं तत् तु सात्त्विकं मुनिभिः स्मृतम् ॥
तामसम् इति – एकं वसनं नग्नं नग्न-प्रायं तामसं सिद्धम् । वसन-द्वयं राजसम् । कौपीन-सहितं वसन-द्वयं मुनिभिः सात्त्विकं स्मृतम् । अतः कौपीन-सहितं वसन-द्वयं धार्यम् इति भावः
इति ॥
सात्त्विकैर् एव वर्तेत सात्त्विकोक्तं समाचरेत् ।
तामसं राजसं चैव दूरतः परिवर्जयेत् ॥
इति ।
मात्स्य-पुराणे–
सात्त्विकाः मोक्ष-दाः प्रोक्ताः राजसाः स्वर्ग-दाश् शुभे ।
तथैव तामसा देवि निरय-प्राप्ति-हेतवः ॥
सात्त्विकान् एव गृह्णीयान् मोक्षार्थी नैव राजसान् ॥
स्वर्ग-दान् तु तामसान् देवि तथैव निरय-प्रदान् ।
इत्य्-आदि-वचनैः श्री-वैष्णवानां कौपीन-धारणस्यावश्यकत्व-प्रतिपादनात् ।
[[P26]]
कण्ठ-भूषणादौ कौपीन-धारणानुक्तेः द्वेधा समाधानम्
ननु कण्ठ-भूषणादौ गृह-स्थानां कौपीन-धारणस्यानुक्तत्वेन श्री-वैष्णवानां तेषां कौपीन-धारणं निषिद्धम् इति मा शङ्किष्ठाः । तद्-अन्-अन्तर-ग्रन्थे स्मृति-रत्नाकरे एवं गृह-स्थ-धर्मा उक्ताः इत्य् उक्तेः पूर्वं वचन-प्रदर्शन-पूर्वकं गृह-स्थानां कौपीन-धारणावश्यकत्व-प्रतिपादनेन – तत्रैवानन्तरं – साम्प्रतं स्नातक-व्रतं प्रतन्यते इति, कौपीन-धारणार्थाय शुल्बं कृत्वोपवीतवत् ।
यतिश् च ब्रह्म-चारी च दध्यातां त्रिः प्रदक्षिणम् ।
इति इत्य्-आदीन्य् अत्र स्नातक-व्रते द्रष्टव्यानीत्य्-आदि-वाक्येन स्नातकस्य कौपीन-धारणानावश्यकत्वस्य प्रतीयमानत्वेन च तद्-अनुसारेण तत्-पूर्व-ग्रन्थे कण्ठ-भूषणे स्नातक-प्रकरणे – एवं च तद्-ऊर्ध्वं स्नातकस्यान्तर्वासः-परिधानम् एव कर्तव्यम् । न कौपीनं, ब्रह्म-चारिणः नान्तर्वासः अ-स्नातकत्वात् तस्य कौपीनम् एव इत्य् उक्तेः ब्रह्मचारिवत् स्नातकस्य कौपीन-धारणं न मुख्यम् इति तद्-आशयः इत्य् अपि वक्तुं शक्यत्वात् । अन्यथा – स्मार्त-माध्वाचार-स्थापनापत्तेः यज्ञोपवीत-धारणादौ त्र्यम्बक-मन्त्र-जपादेः एकादश्यादौ श्राद्ध-कर्तव्यत्वस्य सोम-बुध-वारादौ विद्ध-जयन्त्य्-अनुष्ठानस्य च प्रतिपादनेन परिणये तुरीय-दिवसे द्राविड-वेद-स्वाप्निक-गाथा-पारायणस्य आचार्य-पदं गतानां श्री-चूर्ण-परिपालनादेः तद्-अवभृथ-कैङ्कर्य-परिसमाप्तौ त्रयोदश-दिने द्राविड-वेदाध्ययनादेः श्राद्धात्मक-तदीयाराधने श्री-पाद-तीर्थ-ग्रहणादेश् च प्रतिपादनाभावेन च तद्-ग्रन्थस्य संवलिताधिकारि-विषयकत्वस्यापि वक्तुं शक्यत्वेन तद्-ग्रन्थस्य प्रपन्न-मात्र-विषयकत्वस्य वक्तुम् अ-शक्यत्वात् । तदीयैर् एव मुमुक्षु-दर्पण-व्याख्याने शङ्का-समाधान-पूर्वकं श्री-वैष्णवानां कटि-सूत्र-कौपीन-धारणस्य आवश्यकत्व-प्रतिपादनाच् च – तथाहि —
मुमुक्षु-दर्पण-व्याख्याने तदीयैर् एव कौपीन-धारणावश्यकत्व-प्रतिपादनाच् च
मुमुक्षु-दर्पण-व्याख्याने अथ वस्त्र-धारणम् आह – सान्तर्-वस्त्रम् इति
सान्तर्-वस्त्रं च दध्याद् वसनम् अथ कटि-सूत्र-बद्धं न तत् स्यात् नास्मिन् कच्छश् च धार्यो यदि धृतिर् असुरा घ्नन्ति च एतस्य धर्मान् ।
कृष्णः प्राहेति तस्माद् उपरि वसनतः केवलं धार्यम् एतत् कर्माङ्गत्वेन संवर्तक-मुनि-वचनाद् उत्तरीयं च तद्वत् ॥
[[P27]]
अन्तर्-वस्त्रेण सहितं सान्तर्-वस्त्रं तथा वस्त्रं धारयेद् इत्य् अर्थः । अल्पीयसा एकेन वस्त्रेण गुह्यादिकम् आच्छाद्य तद्-उपरि परिधानं धारयेद् इत्य् अर्थः । तच् च कटि-सूत्रेण बद्धं न स्यात् । अस्मिन् कटि-सूत्रे कच्छश् च न धार्यः । धारयेच् चेत् अस्य धर्मान् असुरादयो घ्नन्ति इति कृष्णः प्राह आश्वमेधिके इति शेषः । तस्माद् धेतोः कटि-सूत्रं वसनाद् उपरि केवलं धार्यम् । कर्माङ्गत्वेन संवर्तक-मुनि-वचनात्, उत्तरीयं च तद्वत् धार्यम् इत्य् अर्थः । अन्यथा कण्ठ-भूषण-कर्तृभिः मित्र-तात-गुरुभिर् एव तत्-कृत-श्री-वैष्णवानुष्ठान-प्रतिपादक-स्मृति-रत्नाकर-ग्रन्थे जाबालिः –
स्नात्वा निरस्य वस्त्रं तु जङ्घे शोध्ये मृद्-अम्भसा ।
अपवित्री-कृते ते तु कौपीनास्राव-वारिणा ।
चन्द्रिकायां –
नोत्तरीयम् अधः कुर्यान् नोपर्याधस्त्यम् अम्बरम् ।
नान्तर्-वासो विना जातु निवसेद् वसनं बुधः ॥
इति ।
शाण्डिल्यः –
चतुर् निमज्य विधिवद् आचम्यादाय वाससः ।
खण्ड-द्वयं शिरो-ऽङ्गे च प्रत्येकं परिमार्जयेत् ॥
अन्तर् आच्छाद्य कौपीनं वाससी परिधापयेत् ।
उत्तरीयं सदा दध्यात् तद्-विना नाचरेत् क्रियाः
इति वचनान्य् उपादाय गृह-स्थानां सदा कौपीन-धारणावश्यकत्व-प्रतिपादनेन तद्-असाङ्गत्यापत्तेः ।
वाधूल-स्मृतौ प्रथमाध्याये–
अन्तर् आच्छाद्य कौपीनं वाससी परिधाय च ।
उत्तरीयं सदा दध्यात् तद्-विना नाचरेत् क्रियाः ॥
इत्य् उक्तत्वेन तद्-असाङ्गत्यापत्तेः ।
अहो-बिल-मठीयाह्निक-ग्रन्थे–
निवीतं ब्रह्म-सूत्रं दक्षिणे कर्णे आवेष्ट्य – कौपीनं धृत्वा जङ्घे पादौ आ-कूर्परं करौ च मृज्-जलाभ्यां प्रक्षाल्य वस्त्रं धृत्वा उपवीती इति तद्-आचार्यैर् एव गृह-स्थ–श्री-वैष्णवानां कौपीन-धारणम् आवश्यकम् इत्य् उक्तत्वात् ।
गोपाल-देशिक-आह्निक-ग्रन्थे च–
उपवीतं निवीतं कर्णे निधाय कौपीनं धृत्वा जङ्घे मृदा संशोध्य हस्तौ प्रक्षाल्य वस्त्रं धृत्वा उत्तरीयं च धृत्वा मन्त्र-स्नानम् अपि कुर्यात् इति तथैव उक्तत्वात् । अत्र
याज्ञवल्क्यः –
स्नात्वैवं वाससी धौते अ-च्छिद्रे परिधापयेद्
इति ।
व्यासः–
नोत्तरीयम् अधः कुर्यान् नोपर्याधस्त्यम् अम्बरम् । नान्तर्-वासो विना जातु निवसेद् असनं बुधः ॥
इति ।
[[P28]]
कटि-सूत्रेण वस्त्रस्य परितो बन्धनं तत्र कच्छ-बन्धनं च निषिध्यते
आश्वमेधिके श्री-भगवान्–
स्नात्वैवं धारयेच् छाटीं न कुर्यात् परिपाशिकाम् ।
तां कक्ष्यां धारयेन् नात्र कदाचिद् अपि मानवः ॥
पाशीर् निबद्ध-कक्ष्यो यः कुरुते कर्म वैदिकम् ।
तत्-सर्वम् असुरा घ्नन्ति यातु-धानाश् च सर्वशः ॥
तस्मात् सर्व-प्रयत्नेन कक्ष्यां पाशे न धारयेत् ॥
इति ।
तां शाटीं परितः पाश-बद्धां न कुर्याद् इत्य् अर्थः । अस्मिन्-वचन-त्रये – कटि-सूत्रेण वस्त्रस्य परितो बन्धनं तत्र कच्छ-बन्धनं च निषिध्यते ।
संवर्तः कटि-सूत्रं कर्माङ्गं आह –
कटि-सूत्रं विना कर्म श्रौतं स्मार्तं करोति यः ।
सर्वं तं निष्फलं विद्यात् सो ऽपि नग्नः इति स्मृतः ॥
इति ।
भरद्वाजश् च–
कौपीन-धारणायाथ शुक्लं कृत्वोपवीतवत् ।
यतिश् च ब्रह्म-चारी च दद्यातां द्विः प्रदक्षिणः ॥
नग्नत्व-परिहाराय गृह-स्थ–वनिनौ तथा ।
तथैव धारयेयातां अवश्यं केवलं च ताव् इति ॥
रत्नाकरे–
उत्तरीयं सदा शुद्धं गृहीत्वा द्विर् उपस्पृशेद्
इति ।
नग्नः पञ्च-विधः इति
एवं सति यत् तु संवर्तस्यैव वचनम् –
अ-कच्छः पुच्छ-कच्छो वा द्वि-कच्छः कटि-वेष्टितः ।
कौपीनक-धरश् चैव नग्नः पञ्च-विधः स्मृतः ॥
इति ।
अत्र द्वितीयं पादं अ-द्वि-कच्छः स-सूत्रकः इति केचित् पठन्ति । तद् इदम् उदाहृत-वचनम् आश्वमेधिक-वचनेन समानार्थम् ॥ स-सूत्र इति पाठे च तद्वत् न कटि-सूत्र-निन्दा-परम् । तथात्वे तस्यैव संवर्तस्य पूर्वोत्तर-वचन-विरोधापत्तेः कटि-सूत्र-अभावे ऽपि नग्नत्वस्य तेनैव उक्तत्वात् । तथात्वे तु नैव विरोधः ।
अ-कच्छः पुच्छ-कच्छश् च तिर्यक्-कच्छोर्ध्व-कच्छकः ।
कटि-सूत्रे बद्ध-कच्छो नग्नः पञ्च-विधः स्मृतः ।
इति रत्नाकरोदाहृत-वचनेनैकार्थ्यं भवति । अतो न कटि-सूत्र-निन्दा-परम् – तत्र कौपीन-निन्दा तन्-मात्र-धारण-परा । यतो वस्त्र-द्वयेन तद्-धारणं विधत्ते
भरद्वाजः स्व-संहितायाम् –
तामसं त्व् एक-वसनं राजसं वसन-द्वयम् ।
कौपीन-सहितं तत् तु सात्त्विकं मुनिभिः स्मृतम् ॥
इति ।
कटि-सूत्रं कर्माङ्गम् इति
एवं च यत् तु इति वचनम् –
कर्णे पुष्पं कटौ सूत्रं वासोभिः परिवेष्टनम् ।
यावद् धारयते विप्रस् तावच् छूद्रो न संशयः ॥
इति ।
[[P29]]
अत्र द्वितीय-पादम् —
शिखायां वेणिबन्धनम् इति केचित् पठन्ति । तद् इदं कर्म-काले अलङ्कार-निन्दा-परम् । अस्मिन्न् एव वचने कर्णे पुष्पम् इत्य्-आदि-दर्शनात् । कटौ सूत्रं काञ्ची-दामेति ज्ञेयम् । अतः काञ्ची-दाम-कर्णावतंसोष्णीष-कञ्चुक-शिखा-वेण्य्-आदिकम् अलङ्कारं कर्म-काले न कुर्याद् इत्य् अर्थः । अत एव आपस्तम्बादिभिर् अलङ्कारो निषिध्यते –
अनाविस्रग् अनुलेपनस् स्यात् सदा निशायां दारां प्रत्य्-अलङ्कुर्वीत
इति । मनुनापि – “बहिर्-माल्यं न धारयेद्” इति । तद् एवं कटि-सूत्रस्य कर्माङ्गत्वेन विहितत्वे ऽपि केषाञ्चित् तत्-परित्यागः श्राद्धे तिलक-बुद्ध्या पुण्ड्र-त्यागवद्-वचनार्थापरिशोधन-कृतम् इति ज्ञेयम् । तच् च कटि-सूत्रं व्यति-स्यूतम् एव धार्यं तस्यैव विधानात् विवर्तितस्य रौद्रत्वाच् च । तथाहि
भरद्वाजः –
युग्मैर् विवर्तितं रौद्रम् अयुग्मैर् ब्राह्मम् उच्यते ॥
उभयैस् तैर् व्यति-स्यूतं वैष्णवं कटि-बन्धनम् ।
उपवीतं सदा ब्राह्मं वैष्णवं कटि-बन्धनम् ।
कटि-सूत्रं व्यति-स्यूतं कुर्यात् सूत्रैस् तु पञ्चभिः ॥
इति । तथा
दर्भाक्ष-सूत्र-वस्त्राङ्क-पुण्ड्राणां विभूषणम् ।
मेखला मन्त्रम् अर्चेति रौद्राण्य् एतानि वर्जयेत् ॥
इति । रौद्रं सूत्रं वर्तुल-कटि-सूत्रम् । अत्र कौपीनं पर-वस्त्रं च छिद्रं च मलिनं तथा । एवं विधानि वस्त्राणि वर्जयेच् छ्राद्ध-कर्मणि ॥ इति स्मृति-सार-समुच्चये श्राद्धे कौपीन-निषेधात्, तस्य च सर्व-कर्मोपलक्षकत्वात् उदाहृत-संवर्तादि-वचनानां च नग्न-परत्वाङ्गीकारेण तद्-एकार्थत्वात् । कौपीन-विधायक-भरद्वाज-वचनानां च परस्पर-विरुद्धत्वाच् च केचित् कौपीन-धारणस्य विकल्पम् इच्छन्ति, तद्-अ-युक्तम्, भारद्वाज-वचने कौपीनं विना वस्त्र-द्वय-मात्र-धारणस्य राजसत्व-कथनेन तस्य अ-वैष्णवत्व-निश्चयात् श्राद्धे तन्-निषेधस्य च तन्-मात्र-धारण-परत्वाद् विकल्पासिद्धेर् इति ।
[[P30]]
कटि-सूत्रादि-धारणं आवश्यकम् इति
श्री-वैष्णव-समयाचार-निष्कर्षे अष्टम-विवेके –
ब्राह्मणेन त्रीणि वासांसि धार्याणि । अन्तर्-वासाः बहिर्-वासाः, उत्तरीयं च
इति । இப்பட मनु-विज्ञानेश्वरीय-प्रसिद्धम् । अन्तर्-वासस् तु कौपीनम् अलम् अल्पकम् एव च इति । ஆகையாலே விவேகியான பிராமணனுக்கு अन्तर्-वास-मग्न-कौपीन-धारण सहित-योक्त्रोत्तरीय-धारणं शास्त्र-विहित மாகக் குறைவில்லை. इति । अतः प्रपन्नैः
कौपीनं कटि-सूत्रं च वस्त्र-युग्मं च धारणम् ।
शिखा छिद्रोर्ध्व-पुण्ड्रं च विष्णु-भक्तस्य लक्षणम् ॥
इति संहितोक्त-रीत्या व्यति-स्यूत-कटि-सूत्र-द्वय-सहितं कौपीनं धार्यम् एव इति सिद्धम् ॥
इति श्री-सद्-अनुष्ठान-दर्पणे कौपीन-धारण-विषयो नाम द्वितीयं प्रतिफलम् ॥