१ उत्थानादि

॥ श्रियै नमः ॥

॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमद्-वर-वर-मुनये नमः ॥ ॥ श्री-शुद्ध-सत्व-महा-गुरवे नमः ॥

श्रीमद्-बाल-व्याघ्र-पुराभिजन श्री-शुद्ध-सत्व-वरदाचार्य-स्वामिभिर् अनुगृहीतम्

॥ सद्-अनुष्ठान-दर्पणम् ॥

॥ प्रथम-प्रतिफलनम् ॥

श्री-स्तनाभरणं तेजः श्रीरङ्गे शयम् आश्रये ।
चिन्तामणिम् इवोद्भान्तम् उत्सङ्गे ऽनन्त-भोगिनः ॥
नमः श्री-रङ्ग-नायक्यै यद्-भ्रू-विभ्रम-भेदतः ।
ईशेशितव्य-वैषम्य-निम्नोन्नतम् इदं जगत् ॥
श्रीशं भक्तान् गुरून् नत्वा ज्ञात्वा ग्रन्थान् सद्-ईरितान् ।
कुर्वे वरद-दास ऽहं सद्-अनुष्ठान-दर्पणम् ॥

ब्राह्मे मुहूर्ते उत्थाय अनुसन्धेय-सूक्ति-विशेषाः

श्रियः-पति-चरणारविन्द-युगलं सर्व-प्रकारेण स्वार्थता-गन्ध-राहित्येन उपायोपेयत्वेनोपगतः परार्थ-कैङ्कर्य-पर-प्रपन्नः ब्राह्मे मुहूर्ते श्री-हरिर् हरिर् हरिर् इति उच्चार्य शयनाद् उत्थाय पाणि-पादौ प्रक्षाल्य आचम्य, गुरु-परम्परा, मूल-मन्त्र–मन्त्र-रत्न–चरम-श्लोक–मुक्तकानुसन्धान-पूर्वकं भगवद्-ध्यानं प्रातर्-नित्यानुसन्धेय-श्लोक-प्राबोधक-गाथा–त्रिंशद्-गाथा–भक्ताङ्घ्रि-रेणु-प्रणीत-श्री-माला-गाथा- ऽनुसन्धानं च कुर्यात् ।

[[P1]]

मल-मूत्रोत्सर्जनादि-नियमाः

वस्त्र-प्रावृत-शिरस्कः दक्षिण-कर्ण-वेष्टित-ब्रह्म-सूत्रः दिवा सन्ध्ययोः उदङ्-मुखः, रात्रौ दक्षिणा-मुखः वल्मीकादि-रहिते देशे, मल-मूत्रोत्सर्जने कुर्यात् ततः पल्वलादीन् गत्वा प्रथमतः दक्षिण-करेण उत्सर्जनात् पूर्वं निक्षिप्तायां स्व-दक्षिण-पार्श्व-स्थायां मृदि प्रसृति-मृदम् आदाय वाम-करे निक्षिप्य शौचं कृत्वा द्वितीयादौ अर्ध-प्रसृति-मृदम् आदाय द्वा-त्रिंशद्-वारं गुद-शौचं षल्-लिङ्ग-शौचं कृत्वा मध्ये मध्ये हस्त-शौचं, विशिष्य विंशति-सव्य-कर-शौचं दक्षिण-सव्य-करयोः प्रत्येकं विंशति-शौचं सव्य-दक्षिण-पादयोः प्रत्येकं मृदा दश-शौचं च कुर्यात्। पुण्य-नद्य्-आदीन् गत्वा षोडश-गण्डूषान् कृत्वा त्रिर् आचामेत्। मूत्रोत्सर्जने षल्-लिङ्ग-शौचं त्रिः सव्य-कर-शौचं करयोः प्रत्येकं त्रिः त्रिः शौचं कृत्वा षड्-गण्डूषान् कृत्वा द्विर् आचामेत्। शिरो-वेष्टित-वस्त्रः उपवीती प्राङ्-मुखः, उदङ्-मुखो वा प्रादक्षिण्य-क्रमेण, नित्यम् आम्र-पत्रेण दन्त-धावनं कृत्वा, षोडश-गण्डूषेण आस्य-शुद्धिं कृत्वा द्विर् आचामेत्॥

स्नानादि (आनिद्रं) अनुष्ठान-क्रमः

गृहं गत्वा श्री-मृत्स्ना-पेटिकादि-गर्भक-बृहत्-पेटिकां, कमलाकार-ताम्र-भाजनं तन्-न्यून-विस्तृतास्य-ताम्र-भाजनादिकं गृहीत्वा पुण्य-नद्य्-आदीन् गत्वा शुचो देशे निक्षिपेत्। शुद्ध-तीर्थे अवगाह्य, कावेरीम् अवगाहिषियेति श्लोक-पञ्चकं ‘आपो वा इदं सर्वम्’ इति श्रुतिं

இலைத்தலைச் சரம் துரந்து

इति

நின்றவன் கீர்த்தியும்

इति च द्राविड-श्रुतिं च अनुसन्धाय प्रोक्ष्य, भगवद्-भागवताचार्य-श्री-पाद-तीर्थ-स्मरण-पूर्वकं स्नात्वा, ‘ओं श्री केशवाय नमः’ इति जलोर्ध्व-पुण्ड्रं धृत्वा देव-र्षि-पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्य तीरं गत्वा ‘अपगतमदे’ति श्लोकं ‘न चेद् रामानुजेति’ श्लोक-त्रयं ‘यतीश्वरेति’ प्रार्थना-पञ्चकं ‘काषाय-शोभीति’ श्लोकं च अनुसन्दधानः वस्त्रेण शिरो मार्जयित्वा धौतं कौपीनं पाणि-वस्त्रम् उत्तरीयम् अङ्ग-वस्त्रं च परिधाय पादौ प्रक्षाल्य आचम्य श्री-शैलेशेत्य्-आदि-पद्य-पञ्चकम् अनुसन्दधानः सव्य-करे श्री-मृत्स्नां प्रादक्षिण्य-क्रमेण घर्षयित्वा, स-श्री-चूर्ण-सपादोर्ध्व-पुण्ड्राणि ललाटादि-त्रि-कान्ताङ्गेषु धृत्वा चतुश्-चक्रं

[[P2]]

नमस्यामीत्य्-आदि-मन्त्रान् अनुसन्दधानः तत्-तत्-पुण्ड्र-स्थान-स्थित–श्री-देव्य्-आदि-सहित-केशवादीन् अञ्जलिना प्रणम्य पद्माक्ष-माला–तुलसी-मणि-माला–पवित्र-मालाः कण्ठे, पवित्र-मालां शिरसि च धृत्वा चन्दनाभय-हस्तं, चन्दन-प्रतिबिम्बित-लक्ष्मीं श्रीमच्-चन्दन-पाद-युगलं, श्री-पाद-वस्त्रं च शिरसि नेत्रयोः, अंसयोः, हृदये पुनः शिरसि विन्यस्य तीर्थ-वटिका–श्री-पाद-तीर्थं त्रिर् आवृत्तिं स्वीकृत्य, प्रणम्य, वाक्य-गुरु-परम्परा–श्लोक-गुरु-परम्परा–मूल-मन्त्र–मन्त्र-रत्न–श्री-कृष्ण-चरम-श्लोक–श्री-राम-चरम-श्लोक–श्री-वराह-चरम-श्लोक-द्वय–स्वाचार्यादि–लक्ष्मी-नाथ-पर्यन्ताचार्य-मुक्तकान् अनुसन्धाय गुरु-विषयक-द्राविड-गाथाः अनुसन्धाय सन्ध्या-वन्दनं कृत्वा, आचार्यादीन् प्रणम्य जपं कृत्वा, ब्रह्म-यज्ञं कृत्वा, वस्त्रं निष्पीड्य अष्टोत्तर-शत-गाथात्मिकां प्रपन्न-सावित्रीम् अनुसन्धाय तिन्त्रिणी-मृत्तिका-जलैः द्वा-त्रिंशद्-वारं ताम्र-भाजने स-मन्त्रकं संशोध्य तीर्थं गृहीत्वा बृहत्-पेटिकाम् आदाय गृहं गत्वा, गो-मयोदकेन चतुर्-अश्र-स्थल-शुद्धिं कृत्वा तीर्थ-भाजने संस्थाप्य भगवत्-सन्निधिम् अभिगम्य प्रणम्य औपासन-मात्रं कुर्यात्। श्री-तुलसी-पुष्प-चन्दनैला-कर्पूरादि-भगवद्-यागोपकरण-जातम् उपादाय शास्त्र-निषिद्ध-पदार्थान् परित्यज्य माध्याह्निक-स्नान-पूर्वकं सोर्ध्व-पुण्ड्रः माध्याह्निकं कृत्वा तिन्त्रिणी-मृत्तिका-जलैः द्वा-त्रिंशद्-वारं ताम्र-भाजनं स-मन्त्रकं संशोध्य भगवद्-यागार्थं वस्त्र-शोधितं तीर्थं गृहीत्वा, पुरुष-सूक्तादिकं पठन् गृहं गत्वा भगवत्-सन्निधौ गो-मयोदकेन चतुर्-अश्र-स्थल-शुद्धिं कृत्वा रङ्ग-वल्ल्या अलङ्कृत्य तीर्थ-भाजनं संस्थाप्य श्रीमद्-वर-वर-मुनि-प्रणीत-भगवद्-आराधन-ग्रन्थ-क्रमेण भगवद्-इज्यां परिसमाप्य गोष्ठ्यां पतद्-ग्रह-तीर्थं श्री-पाद-तीर्थ-विनियोगं कृत्वा स्वयं आचार्य-हस्ततः तत्-तीर्थे स्वीकृत्य वैश्व-देव-रहितं तदीयाराधनं कुर्यात्। श्री-रामायण-भगवद्-विषयादि–सत्-काल-क्षेपं कृत्वा स्वाध्यायं संशीलनं कृत्वा सायं-सन्ध्या-जपोपासनानि विधाय भगवन्-निवेदन-पूर्वकं प्रसादं स्वीकृत्य आनिद्रं तत्त्वार्थ-विचार-भगवद्-भागवताचार्य-गुणानुभव-पूर्वकं मनसा श्रियः-पति-पादारविन्द-युगल-योगं कुर्यात्।

[[P3]]

एवं प्रत्यहं भगवत्-कैङ्कर्यत्वेन,नित्य-नैमित्तिक-सत्-क्रियाः लोक-संग्रहार्थं कुर्वन् परार्थ-पर-प्रपन्नः श्रियः-पति-परिपूर्ण-कटाक्ष-विषयतां प्राप्नुयात्। श्री-पाञ्चरात्रे पराशर-संहितायां विशिष्ट-परम-धर्म-शास्त्रे तृतीयाध्याये ब्रह्माणं प्रति श्री-भगवान् उवाच –

प्रपन्नस्य इज्यादि-पञ्च-काल-विधानम्

नित्य-नैमित्तिकाचारः प्रपन्नस्योच्यते मया।
पञ्च-काल-विधानेन श्रुति-धर्मानुसारतः॥
नान्यं यजन्ते ध्यायन्ति नान्यं नारायणान् नराः।
ते यान्ति वैष्णवं स्थानं पुनर्-आवृत्ति-वर्जितम्॥
आद्यं कर्माभिगमनम् उपादानम् अनन्तरम्।
इज्या च पश्चात् स्वाध्यायः ततो योगस् ततः परः॥
पञ्चैते विषयास् तेषां कालाः पञ्चैव ते क्रमात्।
कल्याण-मरणान्तं यत् कर्म-जातं चतुर्-मुख॥

प्रातस् सूर्योदयात् पूर्वं घटिका-त्रय-मात्रके।
शयनात् प्राङ्-मुखोत्थाय सम्यग्-ज्ञानेन सादरात्॥
प्रक्षाल्य कर-पादौ च गण्डूषाचमनं चरेत्।
स्थित्वैकान्ती शुचौ देशे कुर्याद् गुर्व्-आदि-कीर्तनम्॥
श्रीमन्-नारायणस्यैव कीर्तनं भाषयापि च।
प्रपत्त्या मनसा वाचा गृही भिक्षुश् च कारयेत्॥
विष्णु-सायुज्य-योगं च ज्ञात्वा गुर्व्-आज्ञया तदा।
शेष-शेषि-प्रकाशेन जीवात्म-परमात्मनोः।
योग-सायुज्यम् एव स्याद् राज-योगः स उच्यते।
एतद्-योग-विधिं ज्ञात्वा विष्णोर् दास्यं समाचरेत्॥
कर्मणा मनसा वाचा यावज्-जीवं तु सर्वदा।
इति सञ्चिन्त्य तत्-पश्चाद् बुद्धिमान् वैष्णवोत्तमः॥
शुभे सद्-वैणवे दण्डे पूर्वेद्युश् च सदा शुचि।
कौपीनं धौतम् उत्तर्यं बद्ध्वा दण्डे प्रयत्नतः॥
तद्-दण्डं च करे धृत्वा जल-पात्रं कुशादिकम्।
मृत्स्नां शौचादि-सिद्ध्य्-अर्थं श्री-मृत्-स्नानाद्य्-आदि-पेटिकाम्।
नदीं तटाकं वा गच्छेत् कीर्तयन् रङ्गनायकम्॥

[[P4]]

शुचौ देशे नदी-तीरे सर्वं निक्षिप्य मन्त्र-वित्।
आपाद-पान-स्नानान्तं तन्-मृत्स्नां तु त्रिधा क्षिपेत्॥
तृण-पर्णोपरि ततः दुर्भूमौ निर्जने भुवि।
धृत्वा कर्णे यज्ञ-सूत्रं त्यजेन् मूत्र-पूरीषकौ॥ सन्ध्ययोर् उभयोर् अह्नि कुर्याद् एवोदङ्-मुखः।
स्याद् दक्षिणा-मुखो रात्रौ पश्चात् शौचं समाचरेत्॥
गुदे मृत्स्नास् त्रयस्-त्रिंशत् दद्याल् लिङ्गे तु षोडश।
द्वा-त्रिंशन्-मृत्तिका दद्यात् पादयोर् उभयोर् अपि॥
दद्यात् करार्ध-पर्यन्तं मृत्स्नां सम्यक् त्रि-वारकम्। शौचार्ध-भागकं सम्यक् द्वितीयं कर-पादयोः॥
तृतीय-भाग-मृत्स्नां वै स्नानार्थं योजयेत् शुचिः।
कृत्वा द्वादश-गण्डूषं यज्ञ-सूत्रं सुधारयेत्॥

तृण-पर्णैस् तथा कुर्याद् दन्त-धावनम् आनतः।
निम्ब-काष्ठेन वा कुर्यात् जिह्वा-निर्लेखनं ततः॥
[[??]]जिह्वादि-शुध्य्-अर्थं नित्य-नैमित्तिकादिषु।
त्रिंशद्-गण्डूषणं कुर्यात् वक्त्रं संशोध्य सद्–द्वि-जः॥
मुख-प्रक्षालनं कुर्यात् नखराग्रान् विशोध्य च।
त्रिर् आचम्य विधानेन केशवाद्य्-आदि-नामभिः।
मूलेन मन्त्र-रत्नेन स्नानं कुर्याद् अ-तन्द्रितः॥

इति।

रहस्य-त्रय-सार-व्याख्यान-सार-प्रकाशिकोक्त-पञ्चका-विधिः

रहस्य-त्रय-सार-व्याख्यान-सार-प्रकाशिकायां प्रभाव-व्यवस्थाधिकारे शेष-संहितायां –

ब्राह्मे मुहूर्ते चोत्थाय भगवन्-नाम-कीर्तनम्।
आचार्य-कीर्तनं कुर्याद् गच्छेच् चाथ नदीं द्वि-जः॥
स्नात्वा विधिवद् आचम्य शौचाचमन-पूर्वकम्।
कौपीनं कटि-सूत्रं च वस्त्र-युग्मं च धारयेत्।
सच्-छिद्रम् ऊर्ध्व-पुण्ड्राणि पवित्रं च द्वि-जोत्तमः॥

इत्य् आरभ्य,

मन्त्रान् जपेद् भक्त्या यावज्-जीवं द्वि-जोत्तमः।
सर्वदा सर्व-कालेषु मोक्षार्थी स्वाश्रमोचितैः॥
जपोपस्थानकं कृत्वा ब्रह्म-यज्ञम् अन्-अन्तरम्।
उपादानं ततः स्नानं कुर्यान् माध्याह्निकं क्रमात्॥
पञ्च-संस्कार-संयुक्तैः भुञ्जयाद् विधिवद् द्वि-जः।
स्वाध्यायं च पुराणं वा हरि-सङ्कीर्तनादिकम्।
मुमुक्षुर् नित्य-युक्तश् च मन्त्र-रत्नं सदा जपेत्॥

इति।

[[P5]]

अर्चना-नवनीते -

उदयात् प्राक् त्रि-घटिका मुहूर्तो ब्राह्म उच्यते ।
ब्राह्मे मुहूर्ते चोत्थाय पूर्वोत्तर-मुखं व्रजेत् ॥

इति ।

स्मृतौ -

ब्राह्मे मुहूर्ते उत्थाय निद्रां त्यक्त्वा प्रसन्न-धीः ।
हरिर् हरिर् हरिर् इति व्याहरेद् वैष्णवः पुमान् ॥

इति ।

वासिष्ठ-संहितायाम् -

आचम्य प्रयतो भूत्वा जपेद् गुरु-परम्पराम् ।

इति ।

भरद्वाज-परिशिष्टे -

आदौ गुरूणां विज्ञानम् अथ मन्त्रार्थ-चिन्तनम् ।
तत एवात्मनो ज्ञानं तद्-धर्माणां च सर्वशः ॥
परस्य पुंसः श्री-शस्य परेशस्य परात्मनः ।
स्व-रूप–रूप-विभव-गुण-व्यापार-चिन्तनम् ॥

इति ।

॥ परत्वादि-पञ्चकम् ॥

उद्यद्-भानु-सहस्र-भास्वर-पर-व्योमास्पदं निर्मल-
ज्ञानानन्द-घन–स्व-रूपं अ-मल-ज्ञानादिभिष् षड्-गुणैः । जुष्टं सूरि-जनाधिपं धृत-रथाङ्गाब्जं सुभूषोज्वलं
श्री-भूसेव्यम् अन्-अन्त-भोगि-निलयं श्री-वासुदेवं भजे ॥
आमोदे भुवने प्रमोद उत संमोदे च सङ्कर्षणं
प्रद्युम्नं च तथानिरुद्धम् अपि तान् संहार-सृष्टि-स्थितीः ।
कुर्वाणान् मति-मुख्य–षड्-गुण–वरैर् युक्तांस् त्रि-युग्मात्मकैः
व्यूहाधिष्ठित-वासुदेवम् अपि तं क्षीराब्धि-नाथं भजे ॥
वेदान्वेषण-मन्दराद्रि-भरण-क्ष्मोद्धारण-स्वाश्रित-
प्रह्लादावन-भूमि-भिक्षण-जगद्-विक्रान्तयो यत्-क्रियाः ।
दुष्ट-क्षत्र-निवर्हणं दश-मुखाद्य्-उन्मूलनं कर्षणं
कालिन्द्या अतिपाप-कम्प-निधनं यत्-क्रीडितं तं नुमः ॥
यो देवादि-चतुर्-विधेषु जनिषु ब्रह्माण्ड-कोशान्तरे
सम्भक्तेषु चराचरेषु निवसन्न् आस्ते सदान्तर् बहिः ।
विष्णुं तं निखिलेष्व् अणुष्व् अणुतरं भूयस् सु भूयस्तरं
स्वाङ्गुष्ठ-प्रमितं च योगि-हृदयेष्व् आसीनम् ईशं भजे ॥
श्री-रङ्ग-स्थल–वेङ्कटाद्रि–करि-गिर्य्-आदौ शते ऽष्टोत्तरे
स्थाने ग्राम-निकेतनेषु च सदा सान्निध्यम् आसेदुषे ।
अर्चा-रूपिणम् अर्चकाभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिल-वाञ्च्छितानु वितरते श्रीशाय तस्मै नमः ॥
प्रातः विष्णोः परत्वादि-पञ्चक-स्तुतिम् उत्तमाम्।
पठन् प्राप्नोति भगवद्-भक्तिं वरद-निर्मिताम् ॥

[[P6]]

॥ परमार्थ-श्लोक-द्वयम् ॥

सत्-सङ्गाद् भव निःस्पृहो गुरु-मुखात् श्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्म-शकलं प्रक्षीण-कर्मान्तरः ।
न्यासाद् एव निरङ्कुशेश्वर-दया-निर्लून-मायान्वयः
हार्दानुग्रह-लब्ध-मध्य-धमनि द्वाराद् बहिर् निर्गतः ॥
मुक्तो ऽर्चिर्-दिन–पूर्व-पक्ष–षड्-उदङ्-मासाब्द–वातांशुमद्–
विद्युद्-वरुणेन्द्र-धातृ-महितः सीमान्त-सिन्ध्व्-आप्लुतः ।
श्री-वैकुण्ठम् उपेत्य नित्यम् अ-जडं तस्मिन् पर-ब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥
प्रातर् नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः ।
श्लोक-द्वयेन संक्षिप्तं सु-व्यक्तं वरदो ऽब्रवीत् ॥

इति ।

वासिष्ठ-संहितायां

ततो मूत्र-पुरीषादि कुर्यात् निरृतिं गतः ।
कृत्वा यज्ञोपवीतं तु कर्णे सम्यक् निवीतकम् ॥
मल-मूत्रं त्यजेद् विप्रः शिरः प्रावृत्य वाससा ।
उदङ्-मुखो दिवा सन्ध्ये रात्रौ चेद् दक्षिणा-मुखः ॥

इति ।

स्मृति-रत्ने

आहरेन् मृत्तिकां प्राज्ञः कूलात् स-सिकता तु या ।
शुचौ देशे तु सङ्ग्राह्या शर्कराश्मास्थि-वर्जिता ॥

इति ।

मनुः

यस्मिन् देशे तु यत् तोयं या च तत्रैव मृत्तिका ।
सैव तत्र प्रशस्ता स्यात् यथा शौचं विधीयते ॥

इति ।

यमः

वापी-कूप-तटाकेषु नाहरेद् बाह्यतो मृदम् ।
आहरेत् जल-मध्यात् तु परतो मणि-बन्धनात् ॥

इति ।

अङ्गिराः

प्रथमा प्रस्मृतिर् ज्ञेया द्वितीया तु तद्-अर्धिका ।
तृतीया मृत्तिका ज्ञेया त्रि-भाग-कर-पूरणा ॥

इति ।

[[P7]]

प्राचीनाह्निके –

अन्तरा चान्तरा वाम-हस्तं प्रक्षाल्य मृज्-जलैः ।
मृन्-मात्राभिः समेतौ द्वौ करौ द्वादश-सङ्ख्यया ॥
त्रिः कृत्वा लिङ्ग-शौचं च हस्तौ क्षाल्य पद-द्वयम् ।
संयोज्य त्रिर् मृदा-क्षाल्य क्षालयेद् शौच-भूतलम् ॥

वासिष्ठ-संहितायाम्–

गुदे विंशति-मृत् प्रोक्ता लिङ्गे स्यात् सप्त-मृत्तिका ॥

इति ।

काश्यप-स्मृतौ गुद-शौचे विशेष उक्तः –

द्वात्रिंशन्-मृत्तिका प्रोक्ता क्षत्रिये विंशतिः स्मृता ।
वैश्ये षोडश मृत् प्रोक्ता शूद्रे स्यात् सप्त-मृत्तिका ॥

इति ।

स्मृतौ –

मूत्रे पुरीषे भुक्त्य्-अन्ते तथैव द्विज-धावने ।
चतुर्-अष्ट–द्वि-षड्–द्व्य्-अष्ट-गण्डूषैः शुद्धिर् उच्यते ॥
तृण-पर्णैः सदा कुर्यात् अमाम् एकादशीं विना ।
तयोर् अपि च कुर्वीत जम्बू-पत्र-रसालकैः ॥
अङ्गार-वालुका-पर्ण-ऋण[[??]]-पर्ण-नखादिभिः ।
न कुर्यात् दन्त-धावन् तु भस्म-लोष्टेष्ट्कादिभिः ॥

इति । पर्णः पलाशः ।

वासिष्ठ-संहितायाम् –

प्राङ्-मुखोदङ्-मुखो भूत्वा दन्त-धावनम् आचरेत्

इति ।

तत्रैव –

जान्वोर् अन्तः करौ कृत्वा कुक्कुटासनम् आस्थितः ।
शिरः प्रच्छाद्य वस्त्रेण एकान्ते प्रयतो बुधः ।
मौनेन सह कुर्वीत दन्त-धावनम् उत्तमम् ॥

इति ।

लैङ्गे –

गाधा द्रामिड-वेद-स्थाः स्मृत्वा स्नानं फलान्वितम् ।
अन्यथा बाह्यतः शुद्धिः काक-स्नानादिवत् ध्रुवम् ॥

स्नान-समये –

कावेरीम् अवगाहिषीय भगवद्-भोगान्तरायी-भवत्-
कर्म-क्लेश-फलाशय-प्रशमनोद्वेलामल-स्रोतसम् ।
जन्तोः संसरतो ऽर्चिरादि-सरणि-व्यासङ्ग-भङ्गाय या
लोके ऽस्मिन् विरजेव वेल्लित-जला श्री-रङ्गम् आलिङ्गति ॥
दुग्धाब्धिर् जनको जनन्य् अहम् इयं श्रीर् एव पुत्री वरः
श्री-रङ्गेश्वर एतद्-अर्हम् इह किं कुर्याम् इतीवाकुला ।
चञ्चच्चामर-चन्द्र-चन्दन-महा-माणिक्य-मुक्तोत्करान्
कावेरी लहरी-करैर् विदधती पर्येति सा सेव्यताम् ॥

[[P8]]

तीर्थं शुन्धन्ति पाति नन्दन-तरून् रथ्याङ्गणान् युक्षति
स्नानीयार्हण-पान-वारि वहति स्नातः पुनीते जनान् ।
श्यामं वेद-रहो व्यनक्ति पुलिने फेनैर् हसन्तीव तद्-
गङ्गां विष्णु-पदीत्व-मात्र-मुखरां हेमापगा हन्त्व् अघम् ॥
अ-गणित-गुणावद्यं सर्वं स्थिर-त्रसम् अ-प्रति
क्रियम् अपि पयः-पूरैर् आप्याययन्त्य् अनुजाग्रती ।
प्रवहति जगद्-धात्री भूत्वेव रङ्ग-पतेर् दया शिशिर-मधुरा-ऽगाधा सा नः पुनातु मरुद्-वृधा ॥
तरल-तनु-तरङ्गैर् मन्दम् आन्दोल्यमान–
स्व-तट–विटपि-राजी-मञ्जरी-सुप्त-भृङ्गा ।
क्षिपतु कनक-नाम्नी निम्नगा नारि-केल-
क्रमुकु-ज-मकरन्दैर् मां स-लापा मदंहः ॥

इति ॥

स्नान-काले अनुसन्धेय-सूक्ति-विशेषाः

आपो वा इदं सर्वं विश्वा भूतान्य् आपः प्राणा वा आपः पशव आपो ऽमृतम् आपो ऽन्नम् आपस् सम्राड् आपो विराड् आपस् स्वराड् आपश् छन्दांस्य् आपो ज्योतींष्य् आपस् सत्यम् आपस् सर्वा देवता आपो भूर् भुवस् सुवर् आप ओम् इति ॥

லைத்தலைச் சரந்துரந்து இலங்கை கட்டழித்தவன் மலைத்தலைப் பிறந்தழிந்து, வந்து, நுந்து சந்தனம் குலைத்தலைத் திறுத்தெறிந்த குங்குமக்குழம்பினோடு அலைத்தொழுகு காவிரி அரங்கமேய அண்ணலே.

நின்றவண் கீர்த்தியும், நீள்புனலும்; நிறை வேங்கடப் பொற்குன்றமும், வைகுந்த நாடும், குலவிய பாற்கடலும்,உந்தனக்கெத்தனை இன்பம் தரும, உன்னிணை மலர்த்தாள் எந்தனக்குமது இராமாநுச இவை ஈந்தருளே.

इति च वक्तव्यम् ॥

शाण्डिल्योक्त-स्नान-प्रकारः

स्नान-प्रकारश् च शाण्डिल्येनोक्तः

ध्यायन् देवं परं ब्रह्म यथा-शक्ति निमज्ज्य च ।
चतुर् निमज्ज्य विधिवद् आचम्यादाय वाससी ।
खण्ड-द्वयं शिरः साङ्गं प्रत्येकं परिमार्जयेत् ॥

इति ।

सच्-चरित्र-परित्राणे

मृद्-अलाभे त्वरायां वा कुर्यान् नीरोर्ध्व-पुण्ड्रकम् ॥

[[P9]]

पुलस्त्यः

कृत्वा तर्पणम् एवं तु समुत्तीर्य जलाशयात् ।
पीडयेत् स्नान-शाटीं तु शुचौ देशे स-मन्त्रकम् ॥

इति ।

अत्रि-स्मृतौ -

आचम्य तर्प्य देवांश् च पितॄंश् चैकाग्र-चेतसा ।
बहिर् निष्पीड्य वसनं पश्चाद् आचम्य वारिणा ॥

इति ।

हारीत-स्मृतौ -

आचम्य तर्प्य देवांश् च पितॄंश् च विधिना ततः ।
निष्पीड्य कूले वस्त्रं तु पुनर् आचमनं चरेत् ॥

इति ।

वसिष्ठः -

स्नातस् त्व् आर्द्र-वासाः देव-र्षि-पितृ-तर्पणम् अम्भस्-स्थ एव कुर्यात् ॥

इति ।

शिरो-मार्जन-समये वक्तव्य-श्लोकाः

अपगत-मद-मानैर् अन्तिमोपाय-निष्ठैः
अधिगत-परमार्थैः अर्थ-कामानपेक्षैः ।
निखिल-जन-सुहृद्भिर् निर्जित-क्रोध-लोभैर्
वर-वर-मुनि-भृत्यैर् अस्तु मे नित्य-योगः ॥

इति ।

न चेद् रामानुजेत्य् एषा चतुरा चतुर्-अक्षरी ।
काम् अवस्थां प्रपद्यन्ते जन्तवो हन्त मादृशाः ॥
पुण्याम्भोज-विकासाय पाप-ध्वान्त-क्षयाय च ।
श्रीमान् आविर् अभूद् भूमौ रामानुज-दिवाकरः॥
तृणी-कृत-विरिञ्चादि-निरङ्कुश-विभूतयः ।
रामानुज-पदाम्भोज-समाश्रयण-शालिनः ॥

इति ।

यतीश्वर शृणु श्रीमन् कृपया परया तव ।
मम विज्ञापनम् इदं विलोक्य वरदं गुरुम् ।
अन्-आदि-पाप-रचिताम् अन्तः-करण-निष्ठिताम् ।
यतीन्द्र विषये सान्द्रां विनिवर्तय वासनाम् ॥
अपि प्रार्थयमानानां पुत्र-क्षेत्रादि-सम्पदाम् ।
कुरु वैराग्यम् एवात्र हित-कारिन् यतीन्द्र नः ॥
यथा ऽपराधा न स्युर् मे भक्तेषु भगवत्य् अपि ।
तथा लक्ष्मण-योगीन्द्र यावद्-देहं प्रवर्तय ॥
आ-मोक्षं लक्ष्मणार्य त्वत्-प्रबन्ध-परिशीलनैः ।
काल-क्षेपो ऽस्तु नस् सद्भिः सहवासम् उपेयुषाम् ॥
इत्य् एतत् सादरं विद्वान् प्रार्थना-पञ्चकं पठन् ।
प्राप्नुयात् परमां भक्तिं यति-राज-पदाब्जयोः॥

इति ।

[[P10]]

काषाय-शोभि-कमनीय-शिखा-निवेशं
दण्ड-त्रयोज्ज्वल-करं विमलोपवीतम्।
उद्यद्-दिनेश-निभम् उल्लसद्-ऊर्ध्व-पुण्ड्रं
रूपं तवास्तु यति-राज दृशोर् ममाग्रे ॥

इति ।

वस्त्र-लक्षणम्, धारण-प्रकारः

वासिष्ठ-संहितायाम् -

शिरः-सम्मार्जनं कुर्याद् धौत-वस्त्रेण वै द्वि-जः।
यथा-क्रमेण सम्मृज्य पादान्तं मौनम् आस्थितः ॥
यज्ञोपवीतं कर्णे तु दक्षिणे सु-विधाय च ।
कटि-सूत्रं स-कौपीनम् अन्तरीयम् यथा-क्रमम् ।
उत्तरीयम् बहिर्-वस्त्रं धृत्वा ऽऽचामेत् परं ततः ॥

इति ।

स्मृति-संग्रहे -

दश-हस्तायतं वस्त्रं पञ्च-तालं सु-विस्तृतम् ।
तथोत्तरीयं षड्-ढस्तं धारयेत् श्वेतम् अम्बरम् ॥

इति ।

पराशरः -

दक्षिणोत्तरयोः कट्योः कच्छं बध्नाति वै द्वि-जः ।
नाभौ च वाम-कुक्षौ च पृष्ठे चैव यथा-क्रमम् ॥

इति ।

ऊर्ध्व-पुण्ड्र-धारण-काले अनुसन्धेय-पद्यानि

स्मृतौ -

आदौ गुरून् अभिध्यायन् धारयेद् ऊर्ध्व-पुण्ड्रकम् । ऊर्ध्व-पुण्ड्रोपरि तथा न कुर्याच् च त्रि-पुण्ड्रकम् ।

श्री-मृत्तिका-घर्षणादौ श्री-शैलेशेत्य्-आदि-पद्यानुसन्धाने प्रमाणं द्राविड-श्री-शैल-वैभवे

பட்டர்பிரான் முதலாயுள்ளோர் மார்க்கைப் படியியேலும்
சிட்டர்ள்தாம் திருநாமஞ்சேர்த்துமீ பணிசெய்வது
திட்டமுற உண்ணும் பொழுதக்கொண்கா ணேரஞ்சையிலும்
அட்டதிக்கும் விளங்கரத்தார் ஆரியர்கள் அனவருமே ॥

श्री-नारद अत्रि-पराशराणां वचनानि (ऊर्ध्व-पुण्ड्र-धारण-प्रकारः)

श्रीनारदीये

वाम-हस्ते शुचिषु अप्सु निधाय मृदु-मृत्तमाम् ।
प्रदक्षिणं समुत्थाप्य मूल-मन्त्रेण योजयेत् ।
ऊर्ध्व-पुण्ड्राणि कुर्वीत केशवाद्यैर् यथा-क्रमम् ॥

इति ।

[[P11]]

अत्रिस्मृतौ

स-पादम् ऊर्ध्व-पुण्ड्रं तु द्वि-षट्-स्थानेषु विन्यसेत् ।
ततो दिव्यं च हारीतं सामोदं तुलसी-दलम् ।
मन्त्रेण धारयेच् चूर्णं पुण्ड्रेषु द्वादशस्व् अपि ॥

पराशरः

श्री-देवीत्य्-आदि-मन्त्राणाम् अर्थं ध्यायेच् च नामतः ।
श्री-चूर्णं धारयेन् नित्यं पुण्ड्र-मध्ये द्वि-जोत्तमः ॥
श्री-देवी प्रथमं नाम द्वितीयम् अमृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्र-शोभिनी ॥
पञ्चमं विष्णु-पत्नी च षष्ठं चैव तु वैष्णवी ।
सप्तमं तु वरारोहा त्व् अष्टमं हरि-वल्लभा ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देव-देविका ।
एकादशं महा-लक्ष्मीः द्वादशं लोक-सुन्दरी ॥
एतासां, केशवादीनां देवीनाम् अर्थ-चिन्तनम् ।
श्री-चूर्ण-धारणे कार्यं प्रत्यहं द्वि-ज-सत्तमैः ॥

इति ।

ब्राह्मे

श्री-कृष्ण-तुलसी-काष्ठ-मणि-मालां तथैव च ।
श्रीमत्-पवित्रं देवेन धारितं वै गले तथा ॥

सह पञ्चाक्ष-मालां च इति ।

गुरु-परम्परा-ऽनुसन्धाने प्रमाणम्

चन्दनाभय-हस्तादि-सेवन-प्रमाणं ऊर्ध्व-पुण्ड्र-धारण–प्रतिफलेन वक्ष्यते । गुरु-परम्परा-मुक्तकानुसन्धाने प्रमाणं सच्-चरित्र-परित्राणे । ऊर्ध्व-पुण्ड्र-धरणाद्य्-अङ्ग-गुरु-परम्परा-प्रमाण-विषये तु “असाव् असाव् इत्य् अस्या भगवत्तः” इति श्रुत्या वाचनिक एव स्वाचार्योपक्रम-प्रमाणः इति । स च आचार्य-वंशो ज्ञेयः “असाव् असाव् इत्य् अस्या भगवत्तः” इति । आचार्याणां मध्ये “असाव् असाव्” इति, विशिष्य तत्-तद्-व्यक्ति-रूपेणोत्य् अर्थः । आ भगवत्तः — भगवत्-पर्यन्तं स च स्वाचार्यः आचार्य-वंशश् च आचार्य-परम्परा च ज्ञेयः इत्य् अस्याः श्रुतेर् अर्थः । वंशो हि उत्पादकानां प्रबन्धः । सः आचार्य-वंशः इति समानाधिकरणान्वयो वा । आचार्यस्य स्वाचार्यस्य, वंशः उत्पादक-परम्परा वा । वंश-शब्दो विद्या-जनक-परम्परा-परः । आचार्याणाम् असाव् असाव् इति ज्ञानाकार-परं आचार्य-वंश इति उद्देश्य-समर्पकम् । एतद्-अभिप्रायेण रामानुजाङ्घ्रि इति स्वाचार्योपक्रमः । आ-भगवत्तः इत्य् एतत् भगवन्तम् आरभ्येत्य् एतद्-अर्थकम् आ-जन्मनः इत्य्-आदाव् इव । आङ् आरम्भार्थम् इति योजनानन्तरम् । तद्-अभिप्रायेण लक्ष्मी-नाथ-समारम्भाम् इति प्रथमाचार्योपक्रमः॥

इति ।

[[P12]]

नारायण-सार-सङ्ग्रहे

श्रीमद्-अष्टाक्षरं मन्त्रं मन्त्र-रत्नं युगाह्वयम् ।
गीतासु चरम-श्लोकं यो जानाति, स वैष्णवः ॥

इति ।

गुरु-परम्परा-ऽनुसन्धाने सन्ध्या-वन्दन-कर्तव्यत्वे प्रमाणानि

स्वाचार्यम् आरभ्य, श्रियः-पति-पर्यन्तं, गुरु-परम्परा-मुक्तकानुसन्धाने प्रमाण-वाक्य-गुरु-परम्परा-व्याख्याने

परम्पराम् उपदेशेत् गुरूणां प्रथमं गुरुः ।
आत्म-विद्या–विशुद्ध्य्-अर्थं स्वाचार्याणां द्वि-जोत्तमः ॥
प्रीत्या पृथक् पृथक् शिष्यैः प्रथमेदीश्वरावधि ।
तद्-यथा-विधिना नित्यं प्रवक्तव्यं गुरोः कुलम् ॥
आदाव् उपदिशेद् वेदे खिल-ऋग्-वाक्य-गं मुदा ।
अस्मद्-गुरुभ्य इत्य्-आदि-वाक्य-त्रयम् अरिन्दमः ॥

इति ।

सन्ध्या-वन्दन-कर्तव्यत्वे प्रमाण-श्रुतिः

अहर् अहः सन्ध्याम् उपासीत इति ।

दक्ष-स्मृतौ

सन्ध्या-हीनो ऽशुचिर् नित्यम् अनर्हस् सर्व-कर्मसु ।
यद् अन्यत् कुरुते कर्म न तस्य फल-भाग् भवेत् ॥

इति ।

स्मृत्यन्तरे

एकाहं जप-हीनस् तु, सन्ध्या-हीनो दिन-त्रयम् ।
द्वादशाहम् अन्-अग्निश् च शूद्र एव न संशयः ॥
द्वादशाहम् अन्-अग्निस् तु सन्ध्या-हीनो दिन-त्रयम् ।
चतुर्-वेद-धरो विप्रः शूद्र एव न संशयः ॥

अग्निः — औपासनम् ॥

सन्ध्यादीनां गौण-मुख्य-काल-निर्णयः

उत्तम-मध्यम-अधम-काल-विषये संग्रहे

अ-सूर्य्यं च स-सूर्यं च सन्ध्या-वन्दनम् आचरेत् ।
कालातिक्रमणे चैव सूर्य-हत्या-समं भवेत् ॥

इति ।

शङ्ख-स्मृतौ

प्रातस् सन्ध्यां स-नक्षत्राम् मध्यमां स्नान-कर्मणि ।
सादित्यां पश्चिमां सन्ध्याम् उपासीत यथा-विधि ॥

स्नान-कर्मणि — माध्याह्निक-स्नानानन्तरम् इत्य्-अर्थः ॥

[[P13]]

पराशर-संहितायां

षट्-पञ्चाशत् उषः-कालः सप्त-पञ्चाशत् अरुणः ।
अष्ट-पञ्च भवेत् प्रातः शेषः सूर्योदयः स्मृतः ॥
उत्तमा तारकोपेता मध्यमा लुप्त-तारका ।
अधमा सूर्य-सहिता इति वेद-प्रपञ्चिता ॥

इति ।

गौण-मुख्य-काल-कर्तव्यत्व-विषये स्मृत्य्-अर्थ-सारे

दिवोदितानि कर्माणि प्रमादाद् अ-कृतानि वै ।
शर्वर्याः प्रथमे यामे तानि कुर्याद् अ-तन्द्रितः ॥
निशोदितानि कर्माणि प्रमादाद् अ-कृतानि वै ।
दिनस्य प्रथमे यामे तानि कुर्याद् अ-तन्द्रितः ।
ब्रह्म-यज्ञं च सौरं च वर्जयित्वा विशेषतः ॥

इति ।

स्मृत्य्-अन्तरे

अ-काले चेत् कृतं कर्म कालं प्राप्य पुनः क्रिया ।
कालातीतं तु यत् कर्म ह्य् अ-कृतं तद् विनिर्दिशेत् ॥
मुख्य-काले यद् आवश्यं कर्म कर्तुं न शक्यते ।
गौण-काले ऽपि कर्तव्यं गौणो ऽप्य् एतादृशो भवेत् ॥

अर्घ्य-प्रदान-विषये स्मृति-रत्नाकरे ब्रह्मा

कराभ्यां तोयम् आदाय गायत्र्या चाभिमन्त्रितम् ।
आदित्याभिमुखस् तिष्ठन् ऊर्ध्वं त्रिः सन्ध्ययोः क्षिपेत् ॥

इति ।

स्मृत्य्-अर्थ-सारे संग्रहे

सावित्र्य्-आदि-क्रियास् सर्वाः आदित्याभिमुखश् चरेत् ।
देवालय-समीपे तु तम् एवाभिमुखश् चरेत् ॥

इति ।

जप-विषये स्मृतौ

उत्तानिताङ्गुली हस्तौ आस्यान्तः प्रातर् इष्यते ।
स्कन्ध-स्पर्शौ करौ कृत्वा मध्याह्ने जप इष्यते ।
नाभौ कृत्वा करौ सायं एवं जप-विनिर्णयः ॥

गणना-विषये स्मृति-रत्नाकरे

अथाङ्गुलीनां रेखाभिः जपम् अन्वहम् आचरेत् ॥

शङ्खः

प्रारभ्यानामिकायास् तु मध्यमे पर्वणि क्रमात् ।
तर्जनी-मूल-पर्यन्तं जपेद् दशसु पर्वसु ॥
मध्यमाङ्गुलि-मूले तु यत् पर्व-द्वितयं भवेत् ।
तं वै मेरुं विजानीयात् जपे तं नातिलङ्घयेत् ॥

इति ।

[[P14]]

संग्रहे

अनामिका-द्वयी-पर्व-कनिष्ठादि-क्रमेण तु ।
तर्जनी-मूल-पर्यन्तं गायत्री-जपम् आचरेत् ॥

जप-विषये सङ्ख्या-नियमः

संख्या-विषये स्मृतौ

नित्याद् अर्धं चतुर्थी वसु-मनु-तिथिषु स्याज् जपः सप्तमी या,
सप्त-त्रिंशच् च तस्यां प्रतिपदि पुनः षड्-युता त्रिंशद् एव ।
एवम् पर्व-द्वये ऽपि त्रियुत-दश-दिने ऽपि अष्ट-युग्-विंशतौ[[??]] वा
ऽप्य् एवं विश्वादि-काले सकल-मुनि-मतं सायम् एवं न काल्ये ॥

इति ।

उपस्थानानन्तरं जप-स्थान-प्रोक्षण-विषये सङ्ग्रहे -

शुचौ देशे समासीनः जपं यः कुरुते नरः ।
न प्रोक्षेत् जप-स्थानं शुक्रो गृह्णाति तत्-फलम् ॥
सन्ध्या-त्रये जप-स्थानं प्रोक्षणीयं द्वि-जातिभिः ।
अ-प्रोक्षिते जप-स्थाने शुक्रो गृह्णाति तत्-फलम् ॥

इति ।

औपासन-करणे, प्रपन्न-सावित्र्य्-अनुसन्धाने प्रमाणम्

औपासन-करण-विषये पराशर-संहितायाम्

उपस्थानं ततः कुर्याद् अभिवादन-पूर्वकम् ।
सूर्य-नारायणं दृष्ट्वा कुर्याद् औपासनं शुचिः ॥

इति ।

प्रपन्न-सावित्री-ऽनुसन्धान-विषये, रामानुजार्य-दिव्य-चरितायाम्

श्री-रङ्गाधिप-देशिकं कवि-वरं श्री-वत्स-चिह्न-प्रियं
सेवे, यो हि यतीश्वरैक-शरणं तत्-स्तोत्र-रूपं महत् ।
सूक्तीनां शतकं हि साष्टकम् अथो रामानुजाख्यां चितं
त्वन्तादी च शुभं प्रपन्न-जनता सावित्रिकाख्यां जगौ ॥

இனியென் குணम् நமक्கு, எம்பெருமாऩ् திருநாமத்தில்
முனிதந்த நூற்றிச் சாவித்திரியெனு நுண்பொருளைக்
கனிந்த செஞ்சொல் கலித்துறை அந்தாதி பாடித் தந்தான்
புனிதன் திருவரங்கத் தமுதாகிய புண்ணியனே.

इत्य्-आदि ।

स्मार्त-माध्व-श्री-वैष्णवानां ताम्र-भाजन-विषये स्व-रूप–भेदः

अत्र ताम्र-भाजन-विषये पूर्विकाः शिष्टाः व्याहरन्ति,

बृहत्-ताम्र-भाजनं कपालाकारं, कुवलयाकारं, कुमुदाकारम्

इति त्रि-विधम् । तत्र कुवलयाकारे स्मार्तानां कुमुदाकारे माध्वानां, श्री-वैष्णवानां तु कमलाकारं बृहत्-ताम्र-भाजनम्, तन्-न्यूनं विस्तृतास्यां दीर्घाकारं आचमनादि-योग्यं ताम्र-पात्रं च आवश्यकम् इति । अत्रेदम् ऐतिह्यम् -

[[P15]]

विस्तृतास्यदीर्घाकार-ताम्र-पात्रस्य रामानुजेति नाम

श्री-भाष्य-कार-काले तच्-छिष्यः चरमोपाय-निष्ठः श्री-वैष्णवः, स्वाचार्य-नामकं स्वात्म-जं श्री-रामानुजेति नाम्ना आह्वयत् । श्री-रामानुज-पद-च्छायाह्वयः ‘எம்பாள்’ इति द्राविड-नामकः श्री-गोविन्दाचार्यः तद् अश्रौषीत् । स ममापि पुत्र-सत्त्वे, ‘तन्-नामकरणं चेति दास्यम् एतच् चतुर्-विधम्’ – इत्य् उक्त-रीत्या तस्य स्वाचार्य-नाम कृत्वा तद्-आह्वाने श्री-रामानुजेति, दिव्य-नामामृत-रसानुभवः सम्भवेत् । तन् नास्तीति निर्विण्णो ऽभूत् । रामानुजाचार्यः श्री-वैष्णव-मुखात् एतद्-वृत्तान्तम् आकर्ण्य श्री-गोविन्दाचार्यम् आहूय, स्व-समीप-स्थम्, विस्तृतास्यं दीर्घाकारं, ताम्र-पात्रं, तस्मै दत्त्वा, तस्य मन्-नाम कुरु इति अनुजगृहुः । सः तथेत्य् अङ्गीचकार । तदा प्रभृति विस्तृतास्य-दीर्घाकार–ताम्र-पात्रस्य श्री-रामानुज-नामेति प्रसिद्धिः ॥

इति । अत्र —

அப்பாச்சியாரண்ணாவை அழைத்தருளி, முந்திய மனப்படிக்குப் பெருமான் கோயிலுக்கு நியமித்தருள, அவரும் இந்த தேசவையையும், கோஷ்டியையும் விட்டுப் பிரியமாட்டேனென்று வியாஜமாகச் சொல்ல, ஜீயர் அவர் கையைப் பிடித்துக்கொண்டு, ஸந்நிதியில் எழுந்தருளி தாமடி தொடங்கி இராமாநுசன் என்று திருநாம மிடக்கிற தீர்த்தச்சொம்பு ஸ்வாமி எம்பெருமானுடைய ப்ரசாதம் என்று வன்மமாய் ஜீயர் திருப்புடிக் கூடையிலே வைத்துச் சேவித்துக்கொண்டிருக்கிறதைக்கொண்டு, வரச்சொல்லி திருக்கைகளாலே வாங்கிக் கொண்டு, முன்னிருந்த இராமாநுசன் என்கிற விலாசமும், திருவாழ், திருச்சங்கு, திருநாமம், ஸ்ரீசடகோபனும் எல்லாம் பரிமளித்ததாயும், ஸ்ரீமணவாள மாமுனிகளாலே இந்த த்ரவ்யத்தைக் கொண்டு நம்மைப் பாதுகாத்தார், ஸ்ரீமணவாள மாமுனிகளாலே இந்த த்ரவ்யத்தைக் கொண்டு நம்மைப் பாதுகாத்தார் போல் இருக்கிற இரண்டு விக்ரகங்களை உண்டாக்கி, உம்முடைய ஆசார்யருக்கு ஒரு விக்ரகமும், உமக்கு ஒரு விக்ரகமுமாகக்கொள்ளும் என்று பிரஸாதித்தருள,

इति यतीन्द्र-प्रणव-प्रभाव-श्री-सूक्तिर् अपि अनुसन्धेया ।

[[P16]]

श्री-तुलसी-पुष्पोपादान-नियमाः

श्री-तुलस्याद्य्-उपादान-विषये सच्-चरित्र-परित्राणे संवर्तः

समित्-पुष्प-कुशादीनि श्रोत्रियः स्वयम् आहरेत् ।
शूद्राद् आहृतैः क्रय-क्रीतैः कर्म कुर्वन् पतत्य् अधः ॥

स्कान्दे

स्त्रीभिर् वा यदि वा शूद्रैर् आनीतैस् तुलसी-दलैः ।
ये ऽर्चयन्ति नरा नित्यं ते वै निरय-गामिनः ॥
स्त्रीशूद्रानुपनीता वा उच्छिष्टाशौचिनो ऽपि वा ।
ये विचिन्वन्ति तुलसीं ते वै निरय-गामिनः ॥

शाण्डिल्यः

स्व-क्रिया-राम-जातानि वन्यान्य् अन्यानि वा आदरात् ।
समित्-पत्रोदकादीनि प्रातर् एव समाहरेत् ॥

इति ।

सत्-प्रतिग्रह-विषये च विशेषः वासिष्ठ-संहितायाम् उक्तः

भगवद्-भक्ति-पूतेभ्यो विप्रेभ्यो धनम् आहरेत् ।
शूद्रेभ्यो विष्णु-भक्तेभ्य इति ।
भगवद्-भक्ति-हीनेभ्यो विप्रेभ्यो ऽपि कदाचन ।
धनं वा धान्यम् अथवा शाकाद्यं वा न च आहरेत् ॥

इति ।

तुलस्यादि-विषये

बुद्ध-रुद्रादि-देवानां उद्देश्याराम-सम्भवम् ।
नार्च्यं न स्पृश्यम् अग्राह्यं पूजायां मधु-विद्विषः ॥

इति ।

वासिष्ठ-संहितोक्तौ विशेषे

देवारामोद्भवं पुष्पं गृह-देवाय न अर्चयेत्

इत्य्-आदि-सामान्य-निषेधस्य पर्यवसानात् भगवद्-अर्थ आरामोद्भव-पुष्पादिभिः गृहे भगवद्-अर्चनम् उपपद्यते इति ॥

स्कान्दे

अ-भिन्न-पत्रां हरितां हृद्य-मञ्जरि-संयुताम् ।
क्षीरोदार्णव-सम्भूतां तुलसीं हरये ऽर्पयेत् ॥

इति ।

[[P17]]

वसिष्ठ-संहितोक्तः माध्याह्निक-स्नान-प्रकारः, जलाहरण-प्रकारः

वासिष्ठसंहितायां

ततो मध्याह्न-समये निर्गत्य स्व-गृहाद् बहिः ।
गच्छेन् नदीं तटाकं वा तत्र स्नायाद् यथा-विधि ॥

इति ।

तत्रैव

एवं निमज्य तोयान्तः निमज्य द्वि-ज-सत्तमः ।
आचम्य तीरम् आसाद्य शुद्ध-वस्त्रेण मार्जयेत् ॥
शिरः-प्रभृति-पादान्तं दक्षिणाभिमुखः स्थितः ।
कौपीनं सोत्तरीयं च कटि-सूत्र-समन्वितम् ॥
धृत्वा वस्त्र-द्वयं शुद्धम् आचम्य प्रयतः शुचिः ।
धृत्वोर्ध्व-पुण्ड्रं विधिवत् स-पवित्र-करो द्वि-जः ॥
शिखां बद्ध्वा द्विर् आचम्य सन्ध्याम् आध्याह्निकीं चरेत् ।
यावद् यावत् स्व-सूत्रोक्तं तावत् सन्ध्यां समाचरेत् ॥

इति ।

तत्रैव

जलानि वस्त्र-पूतानि शुचीनि गुणवन्ति च ।
आहृत्याच्छाद्य वस्त्रेण शुचौ देशे विनिक्षिपेत् ॥

इति ।

तत्रैव

आचम्य वस्त्रं निष्पीड्य द्विर् आचम्य द्वि-जोत्तमः ।
कुम्भे जलं समादाय वस्त्रेणाच्छाद्य तन्-मुखम् ॥
मूर्ध्नि संस्थाप्य तत्-कुम्भं सोपानहो गृहं व्रजेत् ।
उपानहौ बहिः स्थाप्य कुम्भं देव-गृहे न्यसेत् ॥

इति ।

वैखानसीये स्मृतौ

धृतोर्ध्व-पुण्ड्रः परमीशितारं नारायणं पूजयति स्म भक्त्या ।
अर्घ्यादिभिः पुरुष-सूक्त-मन्त्रैः सम्प्राप्नुयाद् विष्णु-पदं महात्मा ॥
नास्माद्-आराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्माद् अन्-आदि-निधनं नित्यम् आराधयेत् हरिम् ॥
यस्माद् यावद्-दिनं जीवेत् तावत् सम्पूजयेद् धरिम् ।
पापैर् न लिप्यते मर्त्यः हरि-मन्दिरम् आप्नुयात् ॥

इति ।

अर्चावतार-भेदाः, अर्चावतारो श्रुति-स्मृति-संहिताः

अर्चावतारो द्वि-विधः

साकारं च निराकारं भवेद् आराधनं द्विधा ।
अग्नौ यजेन् निराकारं साकारे बिम्ब-पूजनम् ॥
स्थण्डिले च जले चैव हृदये सूर्य-मण्डले ।
आराधनं निराकारम् अतः साकारम् उत्तमम् ॥
सर्वावयव-सम्पूर्णं चतुर्-बाहुं किरीटिनम् ।
एवं कृत्वा विधानेन साकारम् अभिधीयते ॥
चक्षुषः प्रीति-जननात् मनसो हृदयस्य च ।
प्रीत्या सञ्जायते भक्तिः भक्त्या हि सुलभो हरिः ॥

[[P18]]

साकारं द्वि-विधम्

आलयार्चा गृहार्चेति बेर-पूजा च सा द्विधा ।
बल्य्-उत्सवादिभिर् दिव्यैः हीना तस्माद् गृहार्चना ॥
बल्य्-उत्सवादिभिर् दिव्यैः पूर्णत्वात् सर्व-विग्रहैः ।
देवस्यैव निवासत्वात् परिवारैः समायुतम् ।
रहस्य-ग्रन्थ-भगवद्-विषय-श्री-रामायणादि-अर्थ-श्रवणं कुर्यात् ॥

अर्चावतारे श्रुतिः

प्रवः प्राज्ञम् अन्धसो धियायते । गृहे शूराय विष्णवे चार्चते । अजायमानो बहुधा विजायते । एकस् सन् बहुधा विचारः । एको देवो बहुधा निविष्टः

इति ।

स्मृतिः

अर्चावतार-रूपेण लोके ऽस्मिन् चतुर्-आनन ।
अवतारं करिष्यामि ह्रिया लक्ष्म्या समन्वितः ॥

वासिष्ठ-संहितायाम्

बहिर्-यागं ततः प्राप्य देवेशं गरुड-ध्वजम् ।
अर्चयेज् जगताम् ईशं पत्रैः पुष्पैस् तथा ऽम्बुभिः ॥

इति ।

वर-वर-मुनि-प्रणीत-संस्कृताराधन-कारिकायाम्

आग्नेयादिषु कोणेषु मध्ये चैव यथा-क्रमम् ।
न्यस्यार्घ्य-पाद्याचमन-स्नान-शुद्ध्य्-अर्थ-वारिणा ।
पूरयेत् तुलसीं तेषु चन्दनं च विनिक्षिपेत् ॥

इति ।

वासिष्ठ-संहितायाम्

पञ्च-पात्राण्य् एवम् एव कल्पयित्वा विधानतः ।
प्रतिग्रहं दक्षिणतो विन्यसेत् पात्रम् उत्तमम् ॥

इति ।

भगवच्-छास्त्रे

गृहार्चाम् अर्चयेद् गेहे बलि-होम-विहीनकम् ।
षोडशैर् उपचारैश् च परिवारान् विना बहिः ॥

इति ।

वासिष्ठ-संहितायाम्

पुं-सूक्तं सततं जप्यं ब्रह्म-यज्ञे विशेषतः ।
देवार्चने ऽग्न्य्-उपस्थाने देव-देवस्य दर्शने ॥

[[P19]]

वैशाख-पूर्णिमायां क्षीर-संयुक्त-पनसाम्रादि-महा-हविर् निवेदने प्रमाणम्

वैशाख-मासे विशाखा-नक्षत्र-युत-पूर्णिमायां क्षीर-संयुक्त-पनसाम्रादि-फलोपेत-महा-हविर् निवेदन-विषये प्रमाणं श्री-पाञ्च-रात्रे विश्वामित्र-संहितायां षड्-विंशे ऽध्याये

वैशाखस्य सिते पक्षे विशाखा-पूर्णिमा यदि ।

इति । विचारं तु न कारयेत् ।

विशाखा-नक्षत्र-हीने ऽपि सर्व-पाप-प्रणाशनम् ॥
चूतादिषु समस्तानां फलान्य् आहृत्य देशिकः ।
पाचयेद् गुड-मिश्रं तु इति ।
नालिकेर-फलोपेतम् एला-कर्पूर-मिश्रितम् ।
पाचयेत् क्षीर-मिश्रं तु महा-हविस्-समन्वितम् ॥

इत्य् आरभ्य,

चूतादि-फल-संयुक्तं यथा-कामं प्रदापयेत् ।

इत्य्-आदि ॥

श्री-वैखानसीये

तस्यां तु शुद्ध-वैशाख्यां पौर्णमास्यां विशेषतः ।
रम्भा-पनस-चूतानां फलान्य् आहृत्य शर्कराः ॥
नारिकेल-फलेक्षूणां खण्डं क्षीर-विमिश्रकम् ।
महानसे तु संतप्य पात्रेष्व् आदाय सन्निधौ ।
प्रक्षिप्य देव-देवाय उत्सवान्ते निवेदयेत् ॥

इति ।

वासिष्ठ-संहितायाम्

एवम् अभ्यर्चयन् विप्रः स याति परमां गतिम् ॥

इति ।

परम-पुरुष-संहितायाम्

पूजान्ते स्थापकस् सम्यक् विज्ञाप्याथ जनार्दनम् ।
आचार्यायार्चको भूयः प्रददेत् तद्-अनन्तरम् ॥

तीर्थ-स्वीकार-प्रकारः श्री-पाद-तीर्थ-स्वीकार-प्रकारः

भगवच्-छास्त्रे

पतद्-ग्रह-गतं तीर्थं ग्राह्यं दक्षिण-हस्ततः ।
पिबेत् तेनैव चाङ्गानि प्लावयेद् वैष्णवश् शुचिः ॥

हारीत-स्मृतौ विशिष्ट-पर-धर्म-शास्त्रे वृत्त्य्-अधिकार-नामके ऽष्टमे ऽध्याये

चक्राङ्कितस्य विप्रस्य पाद-प्रक्षालितं जलम् ।
पीत्वा पातक-साहस्रैः मुच्यते नात्र संशयः ॥

इति ।

[[P20]]

भूमौ स्थल-शुद्धिः तत्र ब्राह्मणादि-भेदेन आकार-भेदाः

स्थल-शुद्धि-विषये स्मृतौ

भूमेर् विलेपनं कुर्यात् पश्चात् पात्रं निधाय च ।
अ-विलेपन-भूमिश् चेत् भुक्त्वा चान्द्रायणं व्रजेत् ॥
सर्व-तीर्थ-मयी भूमिः सर्व-रत्न-समन्विता ।
सर्वौषधि-गुणेपेता किम्-अर्थम् उपलेपनम् ॥
इन्द्रस्य वज्रेण हतो वृत्रासुर-महा-यशाः ।
मेदसा तस्य विच्छिन्नं तद्-अर्थम् उपलेपनम् ॥
चतुर्-अश्रं ब्राह्मणस्य त्रि-कोणं क्षत्रियस्य च ।
वैश्यस्य वर्तुलाकारं शूद्रस्याभ्युक्षणं स्मृतम् ॥
ब्रह्मा विष्णुश् च रुद्रश् च श्री-हुताशन एव च ।
मण्डलान्य् उपजीवन्ति तस्मात् कुर्वीत मण्डलम् ॥
यातुधान-पिशाचाश् च क्रूराश् चैव तु राक्षसाः ।
हरन्ति रसम् अन्नस्य मण्डलेन विवर्जितम् ॥

इति ।

भोजन-स्थल-शुद्धिः भोजन-पात्र-नियमः

वैद्यनाथ-दीक्षितीये आह्निक-काण्डे

उपलिप्ते शुचौ देशे निश्छिद्रं चतुर्-अश्रकम् ।
गो-मयं मण्डलं कृत्वा भोक्तव्यम् इति निश्चितम् ॥
पत्रावस्थानतो न्यूनम् अधिकं वा न कारयेत् ॥

इति ।

भुक्ति-पात्र-विषये

स-दण्डं कदली-पत्रं वाम-भागे प्रविन्यसेत् ।
दक्षिणे ऽग्रं समादाय भुक्त्वा चान्द्रायणं व्रजेत् ॥

इति ।

परिशेष-विषये स्मृतौ

सूपं च पायसं चाज्यं दद्यात् भोक्तुश् च दक्षिणे ।
तैल-पाकं तथा वामे शेषे त्व् अनियमः स्मृतः ॥

इति ।

परमैकान्तिनां वैश्व-देव-राहित्यम्

वासुदेव-संहितायां

मद्-यागानन्तरं देवि वैश्वदेवं विना रमे ।
अनुयागस् तदा कार्यः परमैकान्तिभिर् द्वि-जैः ॥ इति ।

विश्वास-टिप्पनी

स्मृत्य्-अविरोधेन - इज्यार्थान्नम् पृथक् कृत्य, अभिगमनपूजायां निवेद्य, वैश्वदेव-करणम् अनुमतम् इति विकल्पो गृहीतुं वरः।

महा-भागवत, वैष्णव-लक्षणम्

स्मृति-रत्नाकरे

अर्थ-पञ्चक-तत्त्व-ज्ञाः पञ्च-संस्कार-संस्कृताः ।
आकार-त्रय-सम्पन्ना महा-भागवताः स्मृताः ॥

इति ।

भरद्वाज-परिशिष्टे

तच्-चिह्नाङ्कित-देहत्वं, तदीयाराधने रतिः ।
तद्-अन्य-स्पर्श-वैराग्य इन्द्रियार्थेष्व् अ-लोलता ॥
आचार्याधीन-वृत्तित्वं आचार्यार्थात्म-देहता ।
क्रोध-लोभ-मदालस्य-मान-मोह-विहीनता ॥
सत्य-शौच-दया-धैर्य-क्षमा-सन्तोष-युक्तता ।
इत्य् एतैर् लक्षणैर् युक्ता वैष्णवा वीत-कल्मषाः ॥

इति ।

श्री-रामायण-पारायण-क्रमः

वासिष्ठ-संहितायां

अभ्यर्च्य रामं गन्धाद्यैः आञ्जनेयं प्रणम्य च ।
बाल-काण्डं समारभ्य प्रत्यहं शक्तितः पठेत् ।
प्रत्यहं विंशतिः सर्गाः पठनीया द्वि-जन्मनाम् ॥

इति ।

[[P21]]

तत्रैव

नामभिर् वैष्णवैर् दिव्यैः काल-क्षेपं समाचरेत् ।
नाम-सङ्कीर्तनं कुर्यात् अ-शक्तो वेद-पाठने ॥
यावद्-अस्तम-पर्यन्तं तावद्-रामायणं पठेत् ।
अस्त गते दिन-करे सन्ध्यां कुर्वीत पूर्ववत् ॥

इति ।

तत्रैव

हृत्-पुण्डरीके देवेशं निवेद्य शयनं सुधीः ।
तत्-पाद-पद्मयोर् जीवम् आबद्ध्याथ सुखं स्वपेत् ॥

इति ।

तत्रैव

एवं यः कुरुते नित्यं स तु वैष्णव उच्यते ।
अन्यथा प्रच्युतो याति नरकं वेद-दूषकः ॥

इति ।

कैङ्कर्यम् इति निश्चित्य देवस्य परमेष्ठिनः ।
वेद-स्मृत्य्-उक्तम् अ-खिलं कुर्याद् अन्-अन्य-धीः ॥

इति ।

वैष्णवस्य कैङ्कर्य-बुद्ध्या ऽनुष्ठानं न साधनतया इति निरूपणम्

हारीत-स्मृतौ विशिष्ट-परम-धर्म-शास्त्रे नानाविधोत्सव-विधानान-नामके सप्तमे ऽध्याये

हरेर् भोगतया कुर्यात् न साधनतया क्वचित् ।
साधनं भगवान् विष्णुः साध्याः स्युर् वैदिकाः क्रियाः ॥
शेष-भूतस्य जीवस्य तद्-दास्यैक-क्रियाः ।
श्रुति-स्मृत्य्-उदितं धर्मः तद्-दास्यसं परिकीर्तितम् ॥
नैसर्गिकतया कुर्यात् तद्-दास्यस्यैक-विलक्षणः ।
शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-चिह्नं तद्-दास्य-लक्षणम् ॥
भोगार्थं परमैकान्ती यजेत् तैर् अन्वितो हरिम् ।
वैदिकेनैव मार्गेण पूजयेत् परमेश्वरम् ॥
अन्यथा नरकं याति कल्प-कोटि-शत-त्रयम् ।
तस्मात् श्रुत्य्-उक्त-मार्गेण यजेद् विष्णुम् अ-तन्द्रितः ॥
अर्चायाम् अर्चयेत् पुष्पैः अग्नौ जुहुयाद् धविः ।
ध्यायेत् तु मनसा वाचा जपेन् मन्त्रान् सु-वैदिकान् ।
एवं विदित्वा सत्-कर्म भर्गार्थं परमात्मनः ।
कुर्वीत परमैकान्ती पत्नी पत्युर् इव प्रिया ॥

इत्य्-आदि ।

इति श्री-सद्-अनुष्ठान-दर्पणे उपोद्घातो नाम प्रथम-प्रतिफलम् ॥

[[P21]]