०५ शैरिराजः

॥ श्रीः ॥

॥ श्रियै नमः ॥

॥ श्रीमते रामानुजाय नमः ॥

॥ श्रीमद्-वर-वर-मुनये नमः ॥

॥ श्री-शुद्ध-सत्त्व-महा-गुरवे नमः ॥

बाल-व्याघ्र-स्थलाचार्यो वरदाचार्य-संज्ञकः।
शुद्ध-सत्त्व-महाचार्य-गुरु-पङ्क्ति-दिवाकरः॥ १ ॥
भक्ति-वैराग्य-सम्पन्नः सर्व-शास्त्र-विशारदः।
प्रख्यात-शीलवान् धीमान् सद्-अनुष्ठान-तत्-परः॥ २ ॥ श्री-वैष्णव-कुलाम्भोधि-सुधा-निधिर् अ-सीम-धीः।
सद्-अनुष्ठान-तत्त्व-ज्ञः परान् उद्धर्तुम् इच्छति॥ ३ ॥
श्री-कौशिकाम्भोधि-ज-पूर्ण-चन्द्रः
धी-मति-शान्त्यादि-गुणैर् वरिष्ठः।
महर्षि-तुलो निज-धर्म सूक्ष्मं
परैर् अ-शक्यं विशदी करोति॥ ४ ॥
ऋषीणां धर्म-शीलानां स्मृति-सङ्घात-घोषितम्।
प्रबन्धयति लोकानां सद्-अनुष्ठान-दर्पणम्॥ ५ ॥

श्रियः-पति-चरणारविन्द-युगलं उपायोपेयत्वेन स्वीकृतवतां सात्त्विकानां श्री-वैष्णवानां समयाचार-निर्णय-परम् इदं सद्-अनुष्ठान-दर्पणम्। दृश्यते हि स्मृत्यादिषु सात्त्विकाद्य्-अधिकारि-भेदेन आचार-भेदः। आचार-विषये शिष्ट-गरिष्ठानां पूर्विकाणां[[??]] आचार एव मुख्यं प्रमाणम्; अन्-अनन्तरं वेदः इति। ‘धर्म-ज्ञ-समयः प्रमाणं वेदाश् च’ इत्य् आह भगवान् आपस्तम्बः। वेद-भाष्य-प्रणेत्रा विद्यारण्येनापि —

स्मृतिः प्रत्यक्षम् ऐतिह्यम् अनुमानश् चतुष्टयम्

इत्य् अत्र अनुमानं शिष्टाचारः इति भाषितम्। उपनिषदि कर्म-विचिकित्सायां शिष्ट-गरिष्ठानां गुण-पूर्णानाम् आचारं ज्ञात्वा तथा वर्तितव्य इति स्पष्टं प्रतिपादितम्।

[[Pvii]]

अथ यदि ते कर्म-विचिकित्सा वा… यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः।

इति। महा-भारते ऽपि - महा-जनाचरितः आचारो ग्राह्यः। श्रुति-स्मृति-तर्कादिकं निर्णये न प्रयोजकम् इति।

तर्को ऽप्रतिष्ठः श्रुतयो विभिन्नाः,
नैको मुनिर् यस्य मतं प्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां,
महा-जनो येन गतः स पन्थाः॥

इति। श्री-रामायणे ऽपि भगवता सतां धर्मः परम-दुर्ज्ञेयः। शिष्टाचार एव निर्णायकः इति।

सूक्ष्मः परम-दुर्ज्ञेयः सतां धर्मः प्लवङ्गम

इति। श्री-नाथ-यामुन-रामानुज-लोक-गुरु-वेदान्ताचार्य-वर-वर-मुनि-प्रभृतिभिः अ-विच्छिन्न-सम्प्रदायाचार्य-परम्परा-प्राप्ताः आचार-विशेषाः स-प्रमाणं प्रतिपाद्यन्ते ऽस्मिन् सद्-अनुष्ठान-दर्पणे॥

अत्र सात्त्विक-स्मृतयः विशेषेण उदाहृताः।

वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा।
भारद्वाजं काश्यपं च सात्त्विकाः मुक्ति-दाः शुभाः॥

इति। एतद्-ग्रन्थ-प्रणेतारः भगवद्-रामानुज-स्थापित–चतुस्-सप्तति–सिंहासनाचार्य-परम्परायां तथा श्रीमद्-वर-वर-मुनि-स्थापित–पञ्च-रत्न–समाख्याचार्य-परम्परायां च अवातरन्॥

अवतार-कालः

एते आचार्याः इतः प्रपूर्व-परिवृत्तौ नन्दन-संवत्सरे (1831 A.D.|) सिंह-मासे हस्त-र्क्षे अवतीर्य अन्-अनन्तर-परिवृत्तौ कुम्भ-मास-पर्यन्तं (1909 A.D.) इमां लीला-विभूतिम् अलञ्चक्रुः। एषाम् एकोन-पञ्चाशत्तमे वत्सरे (1881 A.D.) विषु-चैत्र-मासे इदं सद्-अनुष्ठान-दर्पणं विरचितम् इति अनेन पद्येन ज्ञायते।

[[Pix]]

गतास्व् अथ कलेः कर-मतङ्ग-जनभः-श्रुति-समासु, विषु-नाम-शरदि,
प्रभौघवति, मेषम् उपगच्छति, विभयुत[[??]]-सुदर्शन-वर-प्रद-गुरुः।
कृतिं निरमिमित, सद्-अनुष्ठिति-लपन्-मुकुर-नाम-सहितां जगति यो
यतीश्वर-वचो-ऽर्थ-विशदीकृति-पटुं प्रतियुतं, तम् अहम् एमि, शरणम्।

(शम्भु-नटन-वृत्तम्)

एषां चतुस्-तन्त्र-पारवार-पारीणतादिकं प्रतिवादि-मत-निस्वन-पूर्वक–स्व-मत-स्थापन-कौशलं च, अनेन मुख-पद्येन ग्रन्थ-गठनेन च ज्ञायते।

वन्दे समस्त-शास्त्रार्थ-मन्दिर-च्छेदिनं शुभम्।
वरदं वावदूकानां भय-दं गुरु-पुङ्गवम्

इति॥

एतद्-वंशीयैः पूर्विकैः श्री-पराशर-भट्टारक-कृत-भगवद्-गुण-दर्पण-नामकस्य सहस्र-नाम-भाष्यस्य निरुक्तिः पद्य-रूपा परम-भोग्या मुद्रिता विराजते। एतत्-पूर्वतनैः आचार्य-प्रवरैः संस्कृत-वेदान्ते, द्राविड-वेदान्ते, रहस्य-प्रस्थाने च बहवो ग्रन्थाः विरचिताः लुप्त-प्राया दृश्यन्ते। सद्-अनुष्ठान-दर्पण-मातृका ऽपि अनेक-मित्राणां साहाय्येन कथञ्चित् प्राप्ता। पवित्रतमानां तेषां नाम्नां निरूपणम् आवश्यकम् अपि विस्तर-भयान् नोक्तम्॥

अस्मिन् दर्पणे सकल-शास्त्र-सम्प्रदाय-ग्रन्थ-पङ्क्तयः उदाहृताः (महा-भाष्य-व्युत्पत्ति-वाद-मीमांसा, रहस्य-त्रय-मीमांसा, श्री-भाष्य, श्रुत-प्रकाशिका, तद्-व्याख्या–गुरु-भाव-प्रकाशिका, श्री-वचन-भूषण-मीमांसा, वेदाहम् एतं च) एषां सर्वतोमुख-पाण्डित्यं प्रकटयन्ति। विशिष्य श्रुत-प्रकाशिका-व्याख्या-प्रधान-भूता विलसति। अत्र पूर्विकैः अहो-बिल–मठ–गो-पाल–देशिकादिभिः विरचिताः सर्वे ग्रन्थाः स-बहुमानम् उदाहृताः॥

अत्र प्रप्रथमतः शौचाद्य्-आचार-प्रकाशः वर्ण्यते। तत्र निदानं चतुर्-विध-पुरुषार्थ-सिद्धिः। नित्य-कर्मानुष्ठान-मूल-(वर्णाश्रम-धर्म)-शौचाद्य्-आचार-विकलस्य पुंसः आचमने ऽप्य् अन्-अधिकारात्। पुरुषार्थ-साधनानुष्ठानं न सम्भवति। तथा विश्व-गुणादर्श-चम्पू-ग्रन्थे वेङ्कटाध्वरिभिः मद्र-पुरी-वर्णन-प्रकरणे उक्तम् ।

तेषां दोषाः पारे वाचां ये नाचरन्ति शौचम् अपि

इति। काञ्ची-वर्णने -

[[Px]]

शौचं नाचरितुं यथा-विधि कलौ शक्ता द्वि-जाः किं च ते
ये खल्व् आचमनाप्लवादि-नियमास् तान् स्मर्तुम् अप्य् अ-क्षमाः।
क्वामीषां पुनर् अग्नि-होत्र-नियमाः क्वेष्टेर् अनुष्ठान-धीः
क्वाग्निष्टोम्-मुखा मखास् स-पशुकाः क्वन्याग्नि-चित्या तु सा॥ 1

श्रियः विभुत्वे, उपायत्वे, प्रपत्त्यादि-विषये च पूर्वाचार्य-प्रणीताः अस्माभिर् अश्रुत-पूर्वा बहवो ग्रन्थाः उदाहृता इति, ग्रन्थ-द्रष्टारः तद्-दर्शनेन अ-मन्दम् आनन्दम् अनुभविष्यन्ति इति विशिष्य न लिख्यते दासेन॥

कृतज्ञता-प्रकटनम्

अस्मिन् एव ग्रन्थे (140) पृष्ठे, ऊर्ध्व-पुण्ड्रस्य पाद-द्वयाकारत्व-निरूपणावसरे, ‘त्वत्-पाद-मूलं शरणं प्रपद्ये’ इत्य् अत्र न ह्य् एक-पद-प्रतीतिः -

एकान्तिनां पुण्ड्र-मतो ऽपि हेतोः पाद-द्वयाकारम् इति प्रतीतम्। इति दृश्यते। एवम् एव मुद्रापण-विषये च संयमीन्द्राणां द्वयम् एवोपकृतम्। उभय-वेदान्त-आचार्य-पीठ-स्थापकाः, सम्प्रदाय-रक्षणैक-जीविताः श्री-श्री-श्री-त्रिदण्डि-श्रीमन्-नारायण-संयमीन्द्राः, श्री-श्री-श्री-तिरुमलै-तिरुपति-ज्येष्ठ-मठाधिपतयः, श्रीनिवास-कैङ्कर्यैक-जीविताः श्रीमत्-परमहंसेत्य्-आदि अप्पन् सुन्दर-रामानुज-संयमीन्द्राश् च महान्तम् उपकारम् अकुर्वन्। परमहंसानाम् एतेषां निरवग्रहानुग्रहेणैव ग्रन्थो ऽयं मुद्रितः श्रीमताम् आस्तिकानां प्रेक्षण-योग्यो विलसतीति। ग्रन्थ-प्रणेतुः ज्ञानानुष्ठान-साम्राज्यम् अधिकृत्य, जगद्-गुरु-श्रीमत्-परमहंसेत्य्-आदि-श्री-तोताद्रि-रामानुज-स्वामि-पादैः, जगद्-आचार्य-सिंहासनाधि-पतिभिः, परस् सहस्र-ग्रन्थ-प्रणेतृभिः, पद्म-विभूषण–महा-महिमोपाध्याय आदि-बिरुद-भूषितैः श्री-काञ्ची प्र. भ. अण्णङ्कराचार्य-महाशयैः,

[[Pxi]]

बृन्दावनं, रङ्गजी-मन्दिरास्थान-पण्डितैः, विद्वद्-वरिष्ठैः, विद्या-भूषणं, तिरुनाङ्गूरु,प्र. भ. अण्णङ्गराचार्य-महाशयैश् च सम्यग्-वर्णितम् इति, न मया लिख्यते॥

ग्रन्थ-रत्न-मुद्रण-विषये महोपकारं कृतवतां एतेषां अन्येषां च वयं सर्वदा ऽधमर्णा वयं कृत-ज्ञता-प्रकटनम् अन्तरा प्रतीकारम् अन्यं कर्तुम् अ-शक्ता इति विज्ञाप्य बद्धाञ्जलिः वर्ते॥

किं च, “आम्र-फल-कीटः”(மாம்பழ உண்ணி) इति कश्चन साम्प्रदायिको व्यवहारो वर्तते। तद्वद् एव दासस्य ग्रन्थ-मुद्रणस्य च सम्बन्ध इति विनिवेद्य विरमामि। ग्रन्थ-स्थ–विषयाः सर्वेषाम् आनन्द-दायकाः, तत्र मुद्रणादि-विषये दास-कृत-दोषा न प्रतिबन्धका भवेयुः इति विश्वसिमि। ग्रन्थ-कृद्भिर् एवोक्तं वाक्यं स्मरामि —

न ख्यात्यै कृतिर् एषा, किं तु सु-सूक्तेर् निजार्थ-मननाय।
तद्-दययाद्य भवन्तः विमृशन्त्व् एतां विमत्सरास् सन्तः॥

इति।

द्रष्टारः सर्वे निर्मत्सराः, गुण-ग्राहिणः सद्-अनुष्ठान-तत्-पराश् च भवेयुः इति विश्वसिमि॥

इत्थं वैष्णव-चरण-रेणुः, तिरुक्कण्णपुरम्
शौरि-राज-दासः


[[Pxii]]


  1. मूल-पाठः अस्मिन् श्लोके बहुधा त्रुटितः। अर्थ-सङ्गतिम् अनुसृत्य प्रस्तावितः पाठः दत्तः। ↩︎