॥ श्रीर् अस्तु ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ प्रस्तावना ॥
१. सद्-अनुष्ठान-दर्पणम्
सद्-अनुष्ठान-दर्पणाख्यस्य सत्-प्रबन्धस्यादिमो
भागो ऽधिगतो ऽस्माभिः । ग्रन्थो ऽयं समग्रो द्वात्रिंशत्-प्रतिफलनात्मको वर्त्तते महान्। तस्यैक-देशः प्रतिकल्पन-सप्तक-गर्भितः प्रथम-भागो ऽद्य मुद्राप्य प्रकाशितः। श्रीमद्भिः तिरुक्कण्णापुरं घन-पाठि–श्री-शौरि-राजय्यङ्गार-स्वामिभिः, अस्मत्-प्रिय-सुहृद्भिः न्याय-शिरो-मणिभिः, उभय-वेदान्त-निष्णातर् वेद-भाष्य-प्रवीणैर् एतत्-प्रकाशने कृतो महान् परिश्रमः। अग्रिम-भाग-प्रकाशने चैते कृतोत्साहा कृत-परिकर-बन्धाश् चेति महान् अयं हर्ष-विषयः॥
२. प्रबन्धृ-वैलक्षण्यम्
ग्रन्थस्यास्य प्रणेतारः शिष्टाग्र-गण्याः, सद्-आचार-तत्-पराः, श्री-शुद्ध-सत्त्व-वाद-गुरवः (शिरुपुलियूर-स्वामीति सुप्रसिद्धाः)। स्वामि-पादानाम् एषाम् उभय-वेदान्त-ग्रन्थेषु, रहस्येषु, श्रुति-स्मृत्य्-आगमादि-शास्त्रेषु चानवद्यम् अ-प्रतिहतं चासीत् पाण्डित्यम् इत्य् एतद् एतद्-ग्रन्थे परिशीलयतां विदुषाम् अन्तरङ्गेष्व् अनर्गलं प्रतिभायाद् एव। श्री-वचन-भूषण-मीमांसा-भाष्य–सम्प्रदाय-चन्द्रिकादि-ग्रन्थोदाहरणात् तत्-कर्तृभ्यो ऽर्वाक्वालिका एत इति सुगमम्। अत्रैव ग्रन्थे षष्ठ-प्रतिकलने
श्री-काञ्ची-दिव्य-देश–दीप-प्रकाश-सन्निधौ श्रीमन्-निगमान्त-गुरोर् अवतार-स्थले श्रीमद्-आचार्यार्चा दिव्य-मङ्गल-विग्रहादौ सपादोर्ध्व-पुण्ड्रम् अद्यापि समुज्ज्वलति
इत्य् एतैर् उपवर्णितत्वात् तत्रत्योर्ध्व-पुण्ड्र-विषये विपर्यसन-कालात् प्राचीना इमे इति ज्ञायते। हरि-दिन-विवेक-कृत्य्-आदयः बहवः ग्रन्था एतद्-विरचिता इति ज्ञायते॥
[[Pvi]]
३. विषय-वैलक्षण्यम्
ग्रन्थे ऽस्मिन् प्रतिपादिताश् च विषयाः परमैकान्तिनां श्री-वैष्णवानां कृते ऽवश्यं ज्ञातव्याः समुपादेयाश् च विद्यन्ते निताम्। केवल-वर्णाश्रमिभ्यः प्रपन्नाधिकारिणां ह्य् अनुष्ठाने ऽस्त्य् अन्तरं महत्
उपायापाय-निर्मुक्तो मध्यमां स्थितिम् आस्थितः
इति लक्षितानाम्।
वयं तु किङ्कराः विष्णार्यूयम् इन्द्रिय-किङ्कराः, अस्माकं हरि-दासानां युष्माकं नास्ति सङ्गतिः।
इति ‘विल्लिपुत्तूर्पकषर’[[??]] नाम्ना ऽभिख्यात-परमैकान्ति-महा-पुरुष-वचनतश् चैतत् सुज्ञेयम्। श्रीमद्-अष्टाक्षर-प्रतिपाद्य-सम्बन्ध-नवक-ज्ञानवतां तदीय-पद-त्रयार्थानुष्ठावतां परार्थानुभव-कैङ्कर्य-निरतानां श्री-वैष्णवोत्तमानां ‘सन्तम् एनं ततो विदुः’ इति श्रुत्य्-उक्त-रीत्या निरुपाधिक-सत्-पद-वाच्यानां यान्य् अनुष्ठानानि, सर्वाणि तानि स-प्रमाणान्य् एव। यतो ह्य् एते प्रमाणैक-शरणाः, आस्तिकाग्रे-सरास् त्रैविद्य-वृद्धाः न प्रमाण-पथात् मात्रया ऽपि स्खालित्यं क्षाम्यन्ते सोढुम्। तद् एतद् अनुष्ठानानां प्रामाणिकत्वं प्रथयितुं सर्वस्मिन् अपि अनुष्ठान-विषये प्रमाण-वचनान्य् अत्र सङ्गृहीतानि श्रुति-स्मृत्य्-आगमादिभ्यः। अतः श्री-वैष्णवानुष्ठानेषु मूल-प्रमाणानि अन्वेषयताम् आस्तिकानां कृते ऽप्य् उपादेयो ऽयं ग्रन्थो वर्तते। अन्यत् सर्वं ग्रन्थत एवावगतं भविष्यतीति मनीषया नात्र चिकीर्षामो विस्तरम्॥
४. कामना अभ्यर्थना च
अग्रिमो ऽप्य् एतत्-ग्रन्थ-भाग एवम् एवाचिरेण भवेत् प्रकाशितः इति कामयामहे। अभ्यर्थयामश् च, धनिकानाम् उदाराशयानाम् आस्तिक-वर्याणां श्री-वैष्णवानां श्री-वैष्णवाभिमानिनां च महतां सन्निधौ महतो ऽस्य ग्रन्थस्य प्रकाशनौपयिकम् अनर्घम् अर्थ-साहाय्यं च विधातुं विधापयितुं च इति॥
1-10-76
बृन्दावन्, यू. पि.
श्री-वैष्णव-दासः, विद्या-भूषणः, तिरुनाङ्गूरु,
प्र. भ. अण्णङ्गराचार्यः,
श्री-रङ्ग-मन्दिर–आस्थान-विद्वान्
[[Pvii]]