॥ श्रीर् अस्तु ॥
भगवता गीताचार्येण गीतासूपनिषत्सु देवासुर-विभागः कृतो ऽस्ति —
द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च।
इति। स्वेनैव तद्-विव्रियतेस्म च
दैवी सम्पद्-विमोक्षाय निबन्धायासुरी मते’
इत्य्-अभिदधता। दैवीं सम्पदम् अभिजातास्पन्तो यद्य् अपि दुर्लभा लोके, तथापि तत्र तत्र विरला विलोक्यन्त एव। तथा विधा अपि महान्तः। तादृश-व्यक्ति-विशेषाश्शिष्ट-गरिष्ठा इति, ज्ञानानुष्ठान-सम्पन्ना इति च व्यपदिश्यन्ते। तेष्व् एषा भिदा विद्यते ज्ञान-मात्र-सम्पन्नाः केचित्, अनुष्ठान-मात्र-सम्पन्नाः केचिद् इति। अनुष्ठान-विरहिताः ज्ञातारः पङ्गु-समाः। ज्ञान-हीना अनुष्ठातारस् तु अन्ध-समाः इति गण्यन्ते। उभय-परिकर्मिता महान्तः प्रायो मृग्या इदानीम्। तादृशास् सर्वथा न सन्तीति न वयं वक्तुं प्रभवामः। क्वचित् क्वचिन्-महा-भागा इत्य्-उक्त-रीत्या तत्र तत्र परिमेया विभ्राजेरन्॥
षष्ट्यः संवत्सरेभ्यः प्राक् श्री-धन्वि-नव्य-पुर्यां श्रीमद्-वेद-मार्ग-प्रतिष्ठापनाचार्याः, उभय-वेदान्त-प्रवर्तकाचार्याः, शिरुपुलियूर् अण्णन् स्वामि-चरणाः, शुद्ध-सत्त्व-महा-गुरवः इति शुभ-नाम्ना प्रथिता आचार्य-सार्वभौमा अ-समाभ्यधिक-ज्ञानानुष्ठान-संपन्ना व्यराजन्त। तेषां परम-पवित्र-दिव्य-मङ्गल-विग्रह-सेवा-भाग्यं सकृद् अलभत सो ऽयं जनो विंशे वयसि। तेष्व् एतेषु महानुभावेषु सर्वतोमुख-ज्ञानं सद्-अनुष्ठान-साम्राज्यं च मिथः प्रस्पर्धमानम् इव व्यराजत। चतुर्ष्व् अपि शास्त्रेषु समरूढं ज्ञानम् एषाम् अवबभासे अनुष्ठाने तु ‘वह्निम् अपि क्षालयन्त्य् अमी’ इति वक्तव्या विरेजिरे।
त एते महानुभावानुष्ठान-सरणिं संरक्षणे विशिष्य बद्ध-श्रद्धा इति सर्व-लोक-विदितम् एतत्। अथ प्रकृतं प्रस्तुमः॥
[[Piv]]
‘श्रीमद्-वर-वर-मुनीन्द्रा उपदेश-रत्न-मालायां’ ஆசாரியர்க ளனைவருமுன்னாசரித்த, ஆசாரந்தன்னை யறியாதார் பேசுகின்ற, வார்த்தைகளைக்கேட்டுமருளாதே, பூருவர் கள் சீர்த்த நிலை தன்னை நெஞ்சே! इत्य् अनुजगृहुः । गाथाग्नम् इदम् अखिलैर् अनुसन्धीयते । पूर्वाचार्य-परम्परासमादृतायास् सदाचार-सरण्या विप्रतीपेषु नव-नवेषु आचारेषु निष्ठिता नवीना यद् यद् आचरन्ति, यच् च यच् च कथयन्ति, तेष्व् अभिनिवेशो मा भूद् इति परम-तात्पर्यम् अस्यास् उक्तेः। पूर्वैर् आचार्यैः परिष्कृता सद्-अनुष्ठान-सरणिः का नामेति जिज्ञासायां, प्रमाण-जालैः प्रशमनम् आवश्यकम्। तादृशः प्रामाणिक-वचन-बृन्द-निरूपण-भरितो निबन्धो न कोऽप्य् अवतीर्ण इह। सच्-चरित्र-परित्राणादयो द्वि-त्रा निबन्धास् तु कतिपय-विषय-विमर्श-मात्र-विश्रान्ताः। न्यूनता-लेश-विरहित-निबन्धम् एकं निबन्ध-रत्नं निर्मिमित्सवः श्रीमद्-उभय-वेशिरुपुलियूर-शुद्ध-सत्व-महा-गुरु चरणाः सद्-अनुष्ठान-दर्पणाख्यम् अत्य् अद्भुतं निबन्धं निबबन्धुः ॥
स एष ग्रन्थः श्रीमद्-वर-वर-मुनीन्द्र-सम्प्रदाय-निष्णातानां सताम् अनुष्ठान-सरणीनाम् अ-शेषाणां प्रमाण-गणैः उपपत्तिभूम-प्रपञ्चन-पटीयसो ऽस्य प्रबन्धस्य बहु-तिथेनापि कालेन अ-प्रकाशितस्य, साम्प्रतं भागशः प्रकाशनम् इति यत् तद् इदं महद् एव भागधेयं नः। एतत्-प्रकाशन-कृत्ये चिराद् एव बद्ध-श्रद्धेषु, श्रीमत्सु श्री-कृष्ण-पुराभिजनेषु, घन-पाठिषु न्याय-वेदान्त-विद्वत्-प्रवरेषु श्री-शौरि-राजार्येषु चिरं भृशं कृत-ज्ञा भवितुम् अर्हति कृत्स्ना ऽपि श्री-वैष्णव-मण्डली इति स-हर्षम् आवेदयति॥
श्री-काञ्ची–प्रतिवादि-भयङ्कर–अण्णङ्गराचार्यः।
[[Pv]]