श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीवादिभीकरार्य विरचिता नित्याराधनविधिः
मङ्गलम्
विश्वास-प्रस्तुतिः
१. श्रीमत्-त्रयी-मकुट-देशिक-पाद-पद्म-
भृङ्गायमाण-वरदार्य-दयैक-पात्रम्।
तत्-सूक्ति-लेश-विभवात्त-समस्त-तत्वं
भक्त्या भजामि पर-वादि-भयङ्करार्यम्॥
मूलम्
१. श्रीमत्त्रयीमकुटदेशिकपादपद्म-
भृङ्गायमाणवरदार्यदयैकपात्रम्।
तत्सूक्तिलेश विभवात्त समस्ततत्वं
भक्त्या भजामि परवादिभयङ्करार्यम्॥
विश्वास-प्रस्तुतिः
२. वेदान्त-देशिक-कटाक्ष-विवृद्ध-बोधं
कान्तोपयन्तृ-यमिनः करुणैक-पात्रम्।
वत्सान्ववायम् अनवद्य-गुणैर् उपेतं
भक्त्या भजामि पर-वादि-भयङ्करार्यम्॥
मूलम्
२. वेदान्तदेशिककटाक्षविवृद्धबोधं
कान्तोपयन्तृयमिनः करुणैकपात्रम्।
वत्सान्ववायमनवद्यगुणैरुपेतं
भक्त्या भजामि परवादिभयङ्करार्यम्॥
वेदान्तदेशिककटाक्षविवृद्धबोध-
विद्वद्वरेण्यवरदार्यदयैकपात्रम्।
वत्सान्ववायमनवद्यगुणैरुपेतं
भक्त्या भजामि परवादिभयङ्करार्यम्॥
(तत्-प्रजास् स न वेदान्त-देशिकस्य साक्षाच् छिष्य इति केचित् कथयन्ति।
तर्हि कथम् अत्रान्यथाकथनम् उपपद्येत?
तत्-पुत्रस्य कीर्तनं तनियन्-श्लोके स्यात्। )
अभिगमनम्
विश्वास-प्रस्तुतिः
१. प्रातस् स्नात्वा, नित्यकर्म
कृत्वा, पाद-द्वयं करौ।
प्रक्षाल्याचम्य, पुरतो
विष्णोर् गुरु-परम्पराम्॥
मूलम्
१. प्रातस्स्नात्वा नित्यकर्म कृत्वा पादद्वयं करौ।
प्रक्षाल्याचम्य पुरतो विष्णोर्गुरुपरम्पराम्॥
मन्त्राः, अनुज्ञा
विश्वास-प्रस्तुतिः
२. ध्यात्वा, ऽनु मूल-मन्त्रं च
द्वयं च शरणागतिम्।
प्रणम्य दक्षिणे पार्श्वे
स्थितस् “स्वाचार्य-र्चोदितः …"॥
३. “… आराधने प्रवृत्तोस्मी"त्य्
अनुसन्धाय सादरम्।
मूलम्
२. ध्यात्वानुमूलमन्त्रं च द्वयं च शरणागतिम्।
प्रणम्य दक्षिणे पार्श्वेस्थितस्स्वाचार्यचोदितः॥
३. आराधने प्रवृत्तोस्मीत्यनुसन्धाय सादरम्।
आधार-शक्त्यादि-कल्पनम्
विश्वास-प्रस्तुतिः
“कूर्मादीन्” इति यत् पद्यं
तत् सार्थम् अनुसंदधत्॥
४. सर्वान् अभिमुखी-कृत्य
तत्-पद्य-प्रतिपादितान्।
मूलम्
कूर्मादीनिति यत्पद्यं तत्सार्थमनुसंदधत्॥
४. सर्वानभिमुखीकृत्य तत्पद्यप्रतिपादितान्।
पात्र-व्यवस्था
विश्वास-प्रस्तुतिः
स्व-सव्य-पार्श्वे निक्षिप्य
कुम्भं शुद्धाम्बु-पूरितम्॥
मूलम्
स्वसव्यपार्श्वे निक्षिप्य कुम्भं शुद्धाम्बुपूरितम्॥
विश्वास-प्रस्तुतिः
५. तस्मिन् द्वयेन तुलसी-
शिखां गन्धं च निक्षिपेत्।
अभिमन्तत्र्य द्वयेनैव
तुलसी-सहिताङ्गुलिः॥
मूलम्
५. तस्मिन्द्वयेन तुलसी-शिखां गन्धं च निक्षिपेत्।
अभिमन्तत्र्यद्वयेनैव तुलसीसहिताङ्गुलिः॥
विश्वास-प्रस्तुतिः
६. सप्त-कृत्वो ऽथवा पञ्च-
कृत्वस् सलिल-भाजनम्।
पात्राणि पञ्चोद्-धरण्या
प्रक्षाल्य++++(द्वयस्य)+++ उत्तर-वाक्यतः॥
मूलम्
६. सप्तकृत्वोथवा पञ्चकृत्वस्सलिलभाजनम्।
पात्राणि पञ्चोद्धरण्या प्रक्षाल्योत्तरवाक्यतः॥
विश्वास-प्रस्तुतिः
७. आग्नेयादिषु कोणेषु
मध्ये चैव यथा-क्रमम्।
न्यस्यार्घ्य-पाद्याचमन-
स्नान-शुद्ध्य्-अर्थ-वारिणा।
मूलम्
७. आग्नेयादिषु कोणेषु मध्ये चैव यथाक्रमम्।
न्यस्यार्घ्यपाद्याचमनस्नानशुद्ध्यर्थवारिणा।
विश्वास-प्रस्तुतिः
८. पूरयोत् तुलसीं तेषु
चन्दनञ्च विनिक्षिपेत्।
सर्वाण्य् +++(द्वयस्य)+++उत्तर-वाक्येन
पुनस् तान् अभिमन्त्रयेत्॥
मूलम्
८. पूरयोत्तुलसीं तेषु चन्दनञ्च विनिक्षिपेत्।
सर्वा ण्युत्तरवाक्येन पुनस्तानभिमन्त्रयेत्॥
विश्वास-प्रस्तुतिः
९. अर्घ्य-पात्राद् ऋते ऽन्येभ्यः
पात्रेभ्यस् सलिलं पुनः।
किञ्चित् किञ्चित् समादाय
तान्य् अर्घ्य-चषके क्षिपेत्॥
मूलम्
९. अर्घ्यपात्रादृतेन्येभ्यः पात्रेभ्यस्सलिलं पुनः।
किञ्चित्किञ्चि त्समादाय तान्यर्घ्यचषके क्षिपेत्॥
विश्वास-प्रस्तुतिः
१०. अर्घ्यपात्राद् उद्धरण्या
समादायोदकं पुनः।
निक्षिप्य तुलसीं तत्र
स्व-नासा-समम् उद्धरेत्॥
मूलम्
१०. अर्घ्यपात्रादुद्धरण्या समादायोदकं पुनः।
निक्षिप्य तुलसीं तत्रस्वनासासममुद्धरेत्॥
विश्वास-प्रस्तुतिः
११. भावयेद् विरजा-तोयं
कावेरी-सलिलं पुनः।
तच् चोद-कुम्भ-पात्रेषु
किञ्चित् किञ्चिद् विनिक्षिपेत्॥
मूलम्
११. भावये द्विरजातोयं कावेरीसलिलं पुनः।
तच्चोदकुम्भपात्रेषु किञ्चित्किञ्चि द्विनिक्षिपेत्॥
विश्वास-प्रस्तुतिः
१२. शेषेण प्रोक्षयेद् याग-
भूमिं स्वात्मानम् एवच।
त्यक्त्वा शेषाम्बु शुद्धेन
वारिणा तां विशोधयेत्॥
मूलम्
१२. शेषेण प्रोक्षये द्यागभूमिंस्वात्मान मेवच।
त्यक्त्वा शेषाम्बु शुद्धेन वारिणा तां विशोधयेत्॥
देवानुज्ञा
विश्वास-प्रस्तुतिः
१३.स्वाचार्यानुमतस् सम्यक्
वीक्ष्य विष्णोर् मुखाम्बुजम्।
“आराधनं स्वीकुरुष्वे“त्य्
अभ्याह्लादन-पूर्वकम्॥
मूलम्
१३.स्वाचार्यानुमतस्सम्यक् वीक्ष्य विष्णोर्मुखाम्बुजम्।
आराधनंस्वीकुरुष्वे त्यभ्याह्लादनपूर्वकम्॥
रामानुजार्चनम्
विश्वास-प्रस्तुतिः
१४. ततो रामानुजार्याय
तुलसीदलम् अर्पयन्।
अनुसन्धाय सान्निध्यम्
उद्धरण्या ऽर्घ्य-पात्रतः॥
मूलम्
१४. ततो रामानुजार्याय तुलसीदल मर्पयन्।
अनुसन्धाय सान्निध्य मुद्धरण्यार्घ्यपात्रतः॥
अर्घ्यम्
विश्वास-प्रस्तुतिः
१५. आदाय सलिलं तच्च
नासिका-समम् उद्धरेत्।
“श्रीमते रामानुजाय
नम” इत्युच्चरन् करे॥
मूलम्
१५. आदाय सलिलं तच्च नासिकासममुद्धरेत्।
श्रीमते रामानुजाय नम इत्युच्चरन् करे॥
विश्वास-प्रस्तुतिः
१६. दक्षिणे त्रिस् तुलस्या च
दद्याद् उद्धरणीं पुनः।
शोधयेद् उपचारेषु
सर्वेष्व् एवं विशोधयेत्॥
मूलम्
१६. दक्षिणे त्रिस्तुलस्या च दद्यादुद्धरणीं पुनः।
शोधये दुपचारेषु सर्वेष्वेवं विशोधयेत्॥
पाद्यम्
विश्वास-प्रस्तुतिः
१७. पात्राद् उद्धृत्य सलिलं
दक्षिणं पाद-पङ्कजम्।
सव्यं विशोध्य हस्ताव्
अप्य् अथ पात्राम्बुना क्रमात्॥
मूलम्
१७. पात्रादुद्धृत्य सलिलं दक्षिणं पादपङ्कजम्।
सव्यं विशोध्य हस्तावप्यथ पात्राम्बुना क्रमात्॥
आचन्मनीयम्
विश्वास-प्रस्तुतिः
१८. शोधयेद् अर्घ्यपात्राम्बु-
गण्डूषार्थं समर्पयेत्।
तद्वद् आचमनीयं च
तत्-पात्रोद्धृत-वारिणा॥
मूलम्
१८. शोधये दर्घ्यपात्राम्बु गण्डूषार्थं समर्पयेत्।
तद्वदाचमनीयं च तत्पात्रोद्धृतवारिणा॥
शोषणम्
विश्वास-प्रस्तुतिः
१९. प्लोत-वस्त्रैक-पार्श्वेन
मार्जयेत् पाद-पङ्कजे।
पार्श्वान्तरेण हस्तौ च
वदनं परिमार्जयेत्॥
मूलम्
१९. प्लोतवस्त्रैकपार्श्वेन मार्जयेत्पादपङ्कजे।
पार्श्वान्तरेण हस्तौ च वदनं परिमार्जयेत्॥
अलङ्कारः
विश्वास-प्रस्तुतिः
२०. मुख-पाणि-पदाब्जेषु
चन्दनञ् च समर्पयेत्।
समर्पयेच् च तुलसीं
भक्त्या पादाब्जयोर् युगे॥
मूलम्
२०. मुखपाणिपदाब्जेषु चन्दनञ्च समर्पयेत्।
समर्पयेच्च तुलसीं भक्त्या पादाब्जयोर्युगे॥
दन्त-धावनम्
विश्वास-प्रस्तुतिः
२१. कृत्वा तुलस्या दन्तानां
शोधनं तां त्यजेत् करम्।
शोधयेद् अर्घ्य-पादाम्बु
त्रिर् गण्डूषं समर्पयेत्॥
मूलम्
२१. कृत्वा तुलस्या दन्तानां शोधनं तां त्यजेत्करम्।
शोधये दर्घ्यपादाम्बु त्रिर्गण्डूषं समर्पयेत्॥
विश्वास-प्रस्तुतिः
२२. विशोध्य वदनाम्भोजं
दद्याद् आचमनीयकम्।
मुखाब्जं च कराब्जे च
प्लोतवस्त्रेण मार्जयेत्॥
मूलम्
२२. विशोध्य वदनाम्भोजं दद्या दाचमनीयकम्।
मुखाब्जं च कराब्जे च प्लोतवस्त्रेण मार्जयेत्॥
स्नानम्
विश्वास-प्रस्तुतिः
२३. दत्वा श्री-तुलसीं तैलं
स्नानीयार्थे च चन्दनम्।
स्नानम् अङ्गीकरोतीति
भावयेत् स्नान-पात्रतः॥
मूलम्
२३. दत्वा श्रीतुलसीं तैलंस्नानीयार्थे च चन्दनम्।
स्नानमङ्गीकरोतीति भावयेत्स्नानपात्रतः॥
विश्वास-प्रस्तुतिः
२४. उद्धृत्य सलिलं श्रीमद्-
रामावरज-योगिने।
नम इत्य् उच्चरन् दद्यात्
त्रिश् चतुर् वा पतद्-ग्रहे॥
मूलम्
२४. उद्धृत्य सलिलं श्रीमद्रामावरजयोगिने।
नम इत्युच्चर न्दद्यात् त्रिश्चतुर्वापतद्ग्रहे॥
समाप्तिः
विश्वास-प्रस्तुतिः
२५. दद्याद् आचमनं प्लोत-
वस्त्र-यज्ञोपवीतके।
पादौ प्रक्षाल्य+आचमनं
दत्वा प्लोतेन मार्जयेत्॥
मूलम्
२५. दद्यादाचमनं प्लोतवस्त्रयज्ञोपवीतके।
पादौ प्रक्षाल्याचमनं दत्वा प्लोतेन मार्जयेत्॥
विश्वास-प्रस्तुतिः
२६. पादाब्जयोः कराम्भोज-
युग्मे दत्वा च चन्दनम्।
श्रीमृत्तिकाञ् च मालाञ् च
दत्वा श्री-तुलसीम् अपि॥
मूलम्
२६. पादाब्जयोः कराम्भोजयुग्मे दत्वा च चन्दनम्।
श्रीमृत्तिकाञ्च मालाञ्च दत्वा श्रीतुलसीमपि॥
विश्वास-प्रस्तुतिः
२७. सर्वोपचारान् आचार्य-
कराम्भोज-समर्पितान्।
स्वामिन् रामानुजाचार्य-
स्वीकुर्व् इति निवेदयेत्॥
मूलम्
२७. सर्वोपचारा नाचार्यकराम्भोजसमर्पितान्।
स्वामिन् रामानुजाचार्यस्वीकुर्विति निवेदयेत्॥
विश्वास-प्रस्तुतिः
२८. पुनः प्रक्षाल्य पात्राणि
पूरयित्वाम्बुना ततः।
किञ्चित् किञ्चित् समादाय
क्षिप्त्वा सलिलभाजने॥
मूलम्
२८. पुनः प्रक्षाल्य पात्राणि पूरयित्वाम्बुना ततः।
किञ्चित्किञ्चि त्समादाय क्षिप्त्वा सलिलभाजने॥
गुर्व्-अर्चनम्
विश्वास-प्रस्तुतिः
२९. शेषेण रामावर-ज-
योगवच् छठ-वैरिणा ।
कुर्याच् छ्री-परकालादेर्
उपचारान् अशेषतः॥
मूलम्
२९. शेषेण रामावरजयोगवच्छठवैरिणा।
कुर्याच्छ्रीपरकालादेरुपचारानशेषतः॥
परिवार-पूजा
विश्वास-प्रस्तुतिः
३०. एवं सेनेशम् आरभ्य
श्री-सुदर्शन-शेषयोः।
पक्षीशस्य क्रमात् कुर्याद्
उपचारान् पृथक् पृथक्॥
मूलम्
३०. एवं सेनेशमारभ्य श्रीसुदर्शनशेषयोः।
पक्षीशस्य क्रमात्कुर्यादुपचारान्पृथक्पृथक्॥
मन्त्रासनम्
विश्वास-प्रस्तुतिः
३१. पुनर् आपूर्य पात्राणि
समुद्दिश्य श्रियः पतिम्।
“इदम् मन्त्रासनम्” इति
दत्वा श्री-तुलसी-शिखाम्॥
मूलम्
३१. पुनरापूर्य पात्राणि समुद्दिश्य श्रियः पतिम्।
इदम्मन्त्रासनमिति दत्वा श्रीतुलसीशिखाम्॥
अर्घ्यम्
विश्वास-प्रस्तुतिः
३२. अर्घ्यपात्राच्च सलिलम्
उद्धृत्य+उत्तर-वाकयतः।
इदम् अर्घ्यम् इति श्रीश-
करे त्रिर् दक्षिणे क्षिपेत्॥
मूलम्
३२. अर्घ्यपात्राच्च सलिलमुद्धृत्योत्तरवाकयतः।
इदमर्घ्यमिति श्रीशकरे त्रिर्दक्षिणे क्षिपेत्॥
विश्वास-प्रस्तुतिः
३३. श्रीमन्नारायणायेति
सर्वमङ्गलमूर्तये।
श्रियै भूम्यै च नीलायै
दद्याद् अर्घ्यं समन्ततः॥
मूलम्
३३. श्रीमन्नारायणायेति सर्वमङ्गलमूर्तये।
श्रियै भूम्यै च नीलायै दद्यादर्घ्यं समन्ततः॥
पाद्यादि
विश्वास-प्रस्तुतिः
३४. एवम् एषां पाद्य-पूर्वान्
उपचारान् समर्पयेत्।
पादाब्जयोश् श्री-तुलसीं
दद्यात् स्नानासनम्प्रति॥
मूलम्
३४. एवमेषां पाद्यपूर्वा नुपचारान् समर्पयेत्।
पादाब्जयो श्श्रीतुलसीं दद्यात्स्नानासनम्प्रति॥
स्नानासनम्
विश्वास-प्रस्तुतिः
३५. समायाहीति विज्ञाप्य
पादुकास्व् एव विन्यसेत्।
तुलसीम् अत्र वैतेषां
पाद्यादीन् परिकल्पयेत्॥
मूलम्
३५. समायाहीति विज्ञाप्य पादुकास्वेव विन्यसेत्।
तुलसीमत्र वैतेषां पाद्यादीन्परिकल्पयेत्॥
विश्वास-प्रस्तुतिः
३६. पुनश् श्रीश-पदाम्भोजे
दत्वा श्री-तुलसी-शिखाम्।
स-कर्पूरं च ताम्बूलं
गण्डूषं परिकल्पयेत्॥
मूलम्
३६. पुन श्श्रीशपदाम्भोजे दत्वा श्रीतुलसीशिखाम्।
सकर्पूरं च ताम्बूलं गण्डूषं परिकल्पयेत्॥
विश्वास-प्रस्तुतिः
३७. दद्याद् आचमनं, प्लोतं,
चन्दनं दन्त-शोधनम्।
जिह्वा-निर्लेखनं दद्याद्,
गण्डूषाचमनादिकम्॥
मूलम्
३७. दद्यादाचमनं प्लोतं चन्दनं दन्तशोधनम्।
जिह्वानिर्लेखनं दद्याद्गण्डूषाचमनादिकम्॥
विश्वास-प्रस्तुतिः
३८. पुनश्च तुलसीं दत्वा
स्नान-वेद्यां समाहितः।
सालग्रामान् समारोप्य
तेषां तैलं समर्पयेत्॥
मूलम्
३८. पुनश्च तुलसीं दत्वास्नानवेद्यां समाहितः।
सालग्रामान्समारोप्य तेषां तैलं समर्पयेत्॥
विश्वास-प्रस्तुतिः
३९.स्नानीयं चन्दनं दत्वा
सर्वे स्नान्तीति भावयेत्।
मर्दयित्वा ऽम्बुना सम्यग्
दत्वा श्रीतुलसी-शिखाम्॥
मूलम्
३९.स्नानीयं चन्दनं दत्वा सर्वेस्नान्तीति भावयेत्।
मर्दयित्वाम्बुना सम्यग्दत्वा श्रीतुलसीशिखाम्॥
विश्वास-प्रस्तुतिः
४०. पुंसूक्तं भट्टनाथार्य+++(=पॆरिय्-आऴ्वार्)+++-
सूक्तिं च शरणागतिम्।
अनुसन्धाय संस्नाप्य
दद्याद् आचमनादिकम्॥
मूलम्
४०. पुंसूक्तं भट्टनाथार्यसूक्तिं च शरणागतिम्।
अनुसन्धाय संस्नाप्य दद्या दाचमनादिकम्॥
अलङ्कारासनम्
विश्वास-प्रस्तुतिः
४१. विज्ञाप्याथ स्वीकुरुष्वेत्य्
आलङ्कारिकम् आसनम्।
दद्याद् अर्घ्यं श्रीतुलसीं
सालग्रामान् अशेषतः …॥
मूलम्
४१. विज्ञाप्याथस्वीकुरुष्वेत्यालङ्कारिक मासनम्।
दद्यादर्घ्यं श्रीतुलसीं सालग्रामानशेषतः॥
विश्वास-प्रस्तुतिः
४२. प्लोतवस्त्रेण सम्मृज्य
समारोप्य यथापुरम्।
वस्त्रं यज्ञोपवीतं च
दद्याद् आचमनादिकम्॥
मूलम्
४२. प्लोतवस्त्रेण सम्मृज्य समारोप्य यथापुरम्।
वस्त्रं यज्ञोपवीतं च दद्यादाचमनादिकम्॥
विश्वास-प्रस्तुतिः
४३. प्रक्षाल्य पूर्ववत् पात्राण्य्
अर्घ्यादींश् च समर्पयेत्।
पुनर् दत्वा श्रीतुलसीं
श्रीशपादार-विन्दयोः॥
मूलम्
४३. प्रक्षाल्य पूर्ववत्पात्राण्यर्घ्यादींश्च समर्पयेत्।
पुनर्दत्वा श्रीतुलसीं श्रीशपादारविन्दयोः॥
विश्वास-प्रस्तुतिः
४४. दद्याच् च मृत्तिका-गन्धं
तुलसीं भूषणान्य् अपि।
प्रीणयित्वा परां दिव्यां
सूक्तिं च शरवैरिणः॥
मूलम्
४४. दद्याच्च मृत्तिकागन्धं तुलसीं भूषणान्यपि।
प्रीणयित्वा परां दिव्यां सूक्तिं च शरवैरिणः॥
विश्वास-प्रस्तुतिः
४५. विज्ञाप्य धूपदीपादीन्
दत्वा नृत्यादिकान् अपि।
सर्वोपचारान् स्वीकुर्व् इत्य्
अपि विज्ञापयेत् सुधीः॥
मूलम्
४५. विज्ञाप्य धूपदीपादीन् दत्वा नृत्यादिकानपि।
सर्वोपचारांस्वीकुर्वित्यपि विज्ञापयेत्सुधीः॥
भोज्यासनम्
विश्वास-प्रस्तुतिः
४६. अथ भोज्यासनं स्वीकुर्व्
इति विज्ञाप्य पादयोः।
दत्वा श्रीतुलसीं भूयः
पाद्यादींश् च समर्पयेत्॥
मूलम्
४६. अथ भोज्यासनंस्वीकुर्विति विज्ञाप्य पादयोः।
दत्वा श्रीतुलसीं भूयः पाद्यादींश्च समर्पयेत्॥
विश्वास-प्रस्तुतिः
४७. दत्वा पुष्पाञ्जलिं भोज्यम्
अन्नम् आदाय सन्निधौ।
परिमृज्य निधायार्घ्य-
पात्राद् उद्धृत-वारिणा॥
मूलम्
४७. दत्वा पुष्पाञ्जलिं भोज्य मन्नमादाय सन्निधौ।
परिमृज्य निधायार्घ्यपात्रा दुद्धृतवारिणा॥
परिषेचनादि
विश्वास-प्रस्तुतिः
४८. तुलस्या मन्त्र-रत्नेन
प्रक्षाल्योत्तर-वाक्यतः।
स्पृष्ट्वा तेनैव भोज्यान्नं
परिषिच्य श्रियः पतेः॥
मूलम्
४८. तुलस्या मन्त्ररत्नेन प्रक्षाल्योत्तरवाक्यतः।
स्पृष्ट्वा तेनैव भोज्यान्नं परिषिच्य श्रियः पतेः॥
विश्वास-प्रस्तुतिः
४९. दत्वा चोत्तर-वाक्येन
करे सव्येतरे जलम्।
अनुसन्धाय+अन्न-सूक्तं
तुलसी-सहिताङ्गुलिः॥
मूलम्
४९. दत्वा चोत्तरवाक्येन करेसव्येतरेजलम्।
अनुसन्धायान्नसूक्तं तुलसीसहिताङ्गुलिः॥
विश्वास-प्रस्तुतिः
५०. गोदादि-परमाचार्य+++(=वेङ्कटनाथार्य)+++-
दिव्यसूक्तिं निवेदयेत्।
आविष्कृताश् च गुरुभिः
पूर्वैस् सूक्तीर् निवेदयेत्॥
मूलम्
५०. गोदादिपरमाचार्यदिव्यसूक्तिं निवेदयेत्।
आविष्कृताश्च गुरुभिः पूर्वैस्सूक्तीर्निवेदयेत्॥
विश्वास-प्रस्तुतिः
५१. तत उत्तर-वाक्येन
सर्व-मङ्गल-मूर्तये।
श्रीमते नारायणाय
नम इत्य् उच्चरन् स्फुटम्॥
मूलम्
५१. तत उत्तरवाक्येन सर्वमङ्गलमूर्तये।
श्रीमते नारायणाय नम इत्युच्चरन्स्फुटम्॥
गुरुभ्यो निवेदनम्
विश्वास-प्रस्तुतिः
५२. निवेदयेच् छ्री-भू-नीला-
सेनेशेभ्यश् शठारये।
परकालादि-पूर्वेभ्यश्
श्रीरामानुज-योगिने॥
मूलम्
५२. निवेदयेच्छ्रीभूनीलासेनेशेभ्यश्शठारये।
परकालादिपूर्वेभ्यश्श्रीरामानुजयोगिने॥
विश्वास-प्रस्तुतिः
५३.स्वाचार्य-प्रमुखेभ्यश् च
निवेद्योदक-भाजनात्।
शीतोदकं समादाय
श्रीशम् अभ्यर्च्य पूर्ववत्॥
मूलम्
५३.स्वाचार्यप्रमुखेभ्यश्च निवेद्योदकभाजनात्।
शीतोदकं समादाय श्रीशमभ्यर्च्य पूर्ववत्॥
गण्डूषादि
विश्वास-प्रस्तुतिः
५४. सर्वेभ्यो विनिवेद्यैषां
विधाय कर-शोभनम्।
त्रिस् त्रिर् गण्डूष-सलिलं
दद्याद् आचमनादिकम्॥
मूलम्
५४. सर्वेभ्यो विनिवेद्यैषां विधाय करशोभनम्।
त्रिस्त्रिर्गण्डूषसलिलं दद्या दाचमनादिकम्॥
विश्वास-प्रस्तुतिः
५५. दत्वा पुष्पाञ्जलिं
श्रीश-पद-पङ्के-रुह-द्वये।
मङ्गलाशासनं कृत्वा
वेद-शान्तिं पठंस् ततः॥
मूलम्
५५. दत्वा पुष्पाञ्जलिं श्रीशपदपङ्केरुहद्वये।
मङ्गलाशासनं कृत्वा वेदशान्तिं पठंस्ततः॥
प्रसाद-स्वीकारः
विश्वास-प्रस्तुतिः
५६. समस्त-परिवाराय
नमो नारायणाय च।
इत्य् उक्त्वा दण्डवद् भूमौ
प्रणम्याथ यथासुखम्॥
मूलम्
५६. समस्तपरिवाराय नमोनारायणाय च।
इत्युक्त्वा दण्डवद्भूमौ प्रणम्याथ यथासुखम्॥
विश्वास-प्रस्तुतिः
५७. विश्रमस्वेति तीर्थं च
प्रसादम् अतिपावनम्।
स्वीकुर्यात् प्रीति-संयुक्तः
कृतार्थो ऽस्मीति भावयन्॥
मूलम्
५७. विश्रमस्वेति तीर्थं च प्रसाद मतिपावनम्।
स्वीकुर्या त्प्रीतिसंयुक्तः कृतार्थोस्मीति भावयन्॥
समाप्तिः
विश्वास-प्रस्तुतिः
५८. भाषया रम्य-जामातृ-
मुनिना ऽऽराधन-क्रमः।
श्रीशस्य दर्शितस् सो ऽयं
मुदे पद्यैः प्रदर्शितः॥
मूलम्
५८. भाषया रम्यजामातृमुनिनाऽऽराधनक्रमः।
श्रीशस्य दर्शितस्सोयं मुदे पद्यैः प्रदर्शितः॥
श्रीवादिभीकरार्य-विरचिता नित्याराधनविधिस्समाप्ता