रामानुजादेशाः

॥ रामानुजार्य दिव्याज्ञा वर्धतामभिवर्धताम् ॥

  • (१) पठित्वा भाष्यम्
  • (२) तत्-प्रवचनम्, अशक्तौ शठरिपोः गिरि श्रद्धा
  • (३) वासः प्रभु-परिचित-स्थान-निवहे
  • (४) प्रभोः कैङ्कर्यं वा, प्रपन्नानां वा, मे भवतु परिचर्या-परिचयः
  • (५) प्रपदन-मनोर् अर्थ-मननम्
  • (६) कुटीं कृत्वा तस्मिन् यदुगिरितटे नित्य-वसतिः,

षड् अर्थाः श्रीशस्य प्रपदनविधौ साधकतमाः॥