पञ्च-संस्कार-खण्डम्

(यदुगिरेः। अस्याम् प्रतौ बहवो दोषाः। )

पुण्ड्र-धारणम्

10 दामोदराय नमः,

श्रियै नमः, लक्ष्म्यै नमः कमलायै नमः पद्मायैनमः, पद्मिन्यै नमः हरिवल्लभायै नमः, रमायै नमः वृषाकप्यै नमः, धन्यायै नमः,
चन्द्रायै नमः धर्मायै नमः इन्दिरायै नमः,

इति द्वादश नामभिः ऊर्ध्वपुण्ड्रान् धारयेत्,

नाम

अनन्तरम् आचार्यः शिष्यस्य, रामानुजदासोभवेति नाम विदध्यात्
अनन्तरं शिष्यस्य मूर्ध्नि स्वदक्षिण-हस्तं विन्यस्य

मन्त्रोपदेशः

तस्य दक्षिणे कर्णे गुरुपरम्परापूर्वकं मूलमन्त्र–मन्त्ररत्न–चरम-श्लोकान् स्वाचार्य-गुरुभ्यां वाचयित्वा,

कर्म-समाप्तिः

प्राणायामं, परिषेचनं, “कर्म-साद्गुण्यार्थं केशवादिहोमं करिष्य” इति सङ्कल्प्य, जुहुयात्,
ब्रह्मोद्वासनम् - “ब्रह्मणे नमः यथास्थान प्रतिष्ठापयामि”,
पूर्व-प्रतिष्ठित-कुम्भम् ऊद्वास्य
अग्र-मध्यस्थ-भगवन्तम् ऊद्वास्य
हृदिसमावाह्य
आशीर्वचनादिकं कारयेत्।

विकल-प्रपत्तिः

अनन्तरं आचार्यः शिष्यं दीर्घ-प्रणतं कृत्वा
स्वयम् अपि साष्टाङ्गं प्रणम्य
उत्थाय
भगवत्-सन्निधौ मूल-मन्त्र–मन्त्र-रत्न–चरम-श्लोकान् अनुसन्धायन्,

रामानुज-प्रपत्ति-स्मृतिः

कालत्रयेऽपि करण-त्रय-निर्मिताति-
पापक्रियस्य शरणं भगवत्-क्षमैव । सा च त्वयैव कमला-रमणेऽर्थिता यत्
क्षेमः स एव हि यतीन्द्र भवच्-छ्रितानाम् ॥

इति भगवद्-रामानुजायार्यैर् अनुष्ठिताम् एवम् प्रपत्तिं स्मरन्,

श्रियाः घटकत्वाय प्रपत्तिः

त्वं माता सर्वलोकानां
सर्व-लोकेश्वर-प्रिये ! । अपराधशतैर् जुष्टम्
आश्रयस्वैनम् अच्युतम् ॥

भगवन्-नारायण+अभिमत+अनुरूप–
स्वरूप-रूप-गुण–विभव+++(=नित्य-लीला-विभूती)++++ऐश्वर्य-शील+आदि-+
अनवधिक+अतिशय+असंख्येय-कल्याण-गुण-गणाम्
पद्म-वन+आलयाम् भगवतीम्, श्रियम्, देवीम्,
नित्य+अनपायिनीम्, निरवद्याम्,
देव-देव-दिव्य-महिषीम्, अखिल-जगन्-मातरम्,
अस्मन्-मातरम्, अशरण्य-शरण्याम्, अनन्य-शरणः शरणम् अहं प्रपद्ये ॥ १ ॥

इति श्रियं घतकत्वेन पुरस्कृत्य,

रक्षण-याचनम्

नारायण दयासिन्धो
वात्सल्यगुणसागर । एनं रक्ष जगन्नाथ
बहुजन्मापराधिनम् ॥

“अगल्-अगिल्लेऩ्+++(=??)+++ इऱैयुम्+++(=कणम् अपि)+++” ऎऩ्ऱ्
अलर्+++(=पुष्प)+++-मेल् मङ्गैय् उऱै+++(=नित्य-वास)+++-मार्बा+++(=वक्षोवान्)+++,
निगर्+++(=सम)+++-इल् पुगऴ् आय्। उलगमूऩ्ऱ्
उडैयाय्। ऎऩ्ऩै आळ्वाऩे,
निगर्-इल् अमरर् मुऩिकग्-गणङ्गळ्
विरुम्बुम्+++(=काङ्क्षितं)+++ तिरु-वेङ्कटत्ताऩे,
पुगल् ऒऩ्ऱ् इल्ला अडियेऩ् उऩ्
अडिक्-कीऴ् अमर्न्दु पुगुन्देऩे। ६।१०।१०

क्षमा-याचनम्

मनो-वाक्-कायैर्
अनादि-काल-प्रवृत्त+
अनन्त+अकृत्य-करण–कृत्य-अकरण–
भगवद्-अपचार–भागवत+अपचार+असह्य+अपचार-रूप
-नाना-विध+अनन्त+अपचारान्
आरब्ध-कार्यान् अनारब्ध-कार्यान्
कृतान् क्रियमाणान् करिष्यमाणांश् च
सर्वान् अशेषतः क्षमस्व ॥ ११ ॥

इति चूर्णिकाम् अनुसन्धायन् शिष्यस्य भरं भगवत्-पादांभोजयोर् न्यसेत् ॥

दक्षिणा

अनन्तरम् आचार्याय यथा-विभवं वस्त्रभूषणादिकं समर्प्य
सर्वेषां श्रीवैष्णवानां यथा-शक्ति दक्षिणां समर्प्य,

उपदेशः

आचार्यः शिष्यस्य वृत्तिम् आदिशेत् -

नित्यं विष्णुपरं कर्म
कुरु निन्द्यानि मा कृथाः ।
सदा ऽऽत्मानं विबुध्यस्व
मा कामेषु मनः कृथाः ॥
यजस्व नित्यमात्मेशं
मा नंसीर् अन्यदेवताः ॥
उपास्व वैष्णवान् नित्यम्
असतो मोपसीसरः।

शिष्यः प्रत्यादेशम् “ओम्” इति ब्रूयात् -

ततः शिष्य आचार्यस्य श्रीपादतीर्थं तळिगै-प्रसादं च स्वीकृत्य
भगवद्-भागवत-कैङ्कर्य-परो भवेत्

इति पञ्चसंस्कारविधिः समाप्तः॥

स्त्रीशूद्राणां पञ्चसुस्कारविधिः

नमस्सदसे
सर्वम् आयुर् उपसताम्।
सर्वेभ्यः श्रीवैष्णवेभ्यो नमः॥
विषक्सेनाराधनं कृत्वा,
प्राणान् आयम्य

अमीषां भगवद्-दास्य-सिद्ध्य्-अर्थं
पञ्चसंस्कार-कर्म करिष्ये

इति सङ्कल्प्य

अथ स्थल-मण्टप-वेदिकादि-शुद्ध्यर्थं
वासिष्ठसंहितागत-प्रकारेण
शुद्धि-पुण्याहं वाचयिष्ये

इति सङ्कल्प्य
स्थण्डिलोपरि सकूर्च-रत्न+-आम्र-शाखा-युक्त– तीर्थ-पूरित-कुण्डन् निधाय
तस्मिन् गङ्गाम् आवाहयेत्।

सन्निधत्स्वेह भगवत्-
पादाम्बुज-विनिस्सृते।
मन्दाकिनि नमस्तुभ्यं
सदाभय-सु??शोभने,

इत्यावाह्य
षोडशोपचारैर् अभर्च्य,
अभिमन्त्रण-श्लोकाः …