ऎम्बार्-गोविन्दार्य-नित्य-ग्रन्थः

श्रियै नमः

श्रीमते रामानुजाय नमः
श्रीमद्-गोविन्दार्य-महा-देशिकाय नमः
श्री-ऎम्बाराख्यात-गोविन्दार्य-महादेशिक-विरचित-नित्य-ग्रन्थः

विश्वास-टिप्पनी

अत्र प्राचीनो रामानुजसमकालीन ऎम्बार्-गोविन्दार्यो नेति भाति। यतो - घण्टावादं चोदयति। तथा परकालाय निवेदयति?!

विश्वास-प्रस्तुतिः

रामानुज-पद-च्छाया
गोविन्दाह्वानपायनी।
तदायत्त-स्वरूपा सा
जीयान् मद्-विश्रम-स्थली॥

मूलम्

रामानुजपदच्छाया गोविन्दाह्वानपायनी।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली॥

स्नानादि

विश्वास-प्रस्तुतिः

१. अथ वक्ष्ये प्रपन्नानां
हरेर् आराधन-क्रमम्
आदौ शौच-विधिं कृत्वा
स्नानं कृत्वा यथा-विधि॥

मूलम्

१. अथ वक्ष्ये प्रपन्नानां हरेराराधनक्रमम्।
आदौ शौचविधिं कृत्वा स्नानं कृत्वा यथाविधि॥

विश्वास-प्रस्तुतिः

२. तत्-तन्-मन्त्रेणोर्ध्व-पुण्ड्रान्
धारयित्वा विधानतः।
नित्य-कर्माणि कृत्वाऽथ
याग-भूमिं प्रविश्य च॥

मूलम्

२. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः।
नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य च॥

विश्वास-प्रस्तुतिः

३. उपविश्यासने चाथ
प्राणान् आयम्य च त्रिधा।
रेचके प्रणवान् अष्टौ
पूरके षोडश क्रमात्॥

मूलम्

३. उपविश्यासने चाथ प्राणानायम्य च त्रिधा।
रेचके प्रणवानष्टौ पूरके षोडश क्रमात्॥

विश्वास-प्रस्तुतिः

४. द्वात्रिंशत् कुम्भके विद्वान्
पुनष् षोडश रेचके।
वामाङ्गुलीभिर् गणयेद्
एषो ऽसौ नियमः क्रमात्॥

मूलम्

४. द्वात्रिंशत्कुम्भके विद्वान्पुन ष्षोडश रेचके।
वामाङ्गुलीभि र्गणयेदेषोसौ नियमः क्रमात्॥

पञ्चोपनिषन्मन्त्र-न्यासः

विश्वास-प्रस्तुतिः

५. शोषणं दाहनं चैव
प्लावनं च यथाक्रमम्।
षौं यां रां वां लाम् इति च
बीजैर् उपनिषण्-मयैः॥

मूलम्

५. शोषणं दाहनं चैव प्लावनं च यथाक्रमम्।
षौं यां रां वां लामिति च रुपनिषण्मयैः॥

विश्वास-प्रस्तुतिः

६. न्यसेन् नमोऽन्त-बीजैश् च
सहैव परमेष्ठिना।
पुरुषेण च, विश्वेन,
सर्वेण, विनिवृत्तिना॥

[[ अन्यत्र त्वेवं क्रमः -
ओं षौं नमः पराय परमेष्ठ्यात्मने नमः, इति मूर्ध्नि स्पृशेत्,
ओं यां नमः पराय पुरुषात्मने नमः, इति नासिकाग्रे,
ओं रां नमः पराय विश्वात्मने नमः, इति हृदये,
ओं वां नमः पराय निवृत्त्यात्मने नमः, इति गुह्ये,
ओँ लां नमः पराय सर्वात्मने नमः, इति पादयोः, ]]

मूलम्

६. न्यसेन्नमोन्तबीजैश्च सहैव परमेष्ठिना।
पुरपषेनच विश्वेन सर्वेण विनिवृत्तिना॥

विश्वास-प्रस्तुतिः

७. परमेष्ठ्या च पादादि
निवृत्त्या मस्तकावधि।
शोषणं, दाहनं तु स्यान्
मूर्धादि चरणावधि॥

मूलम्

७. परमेष्ठ्या च पादादि निवृत्त्या मस्तकावधि।
शोषणं दाहनं तु स्यान्मूर्धादि चरणावधि॥

विश्वास-प्रस्तुतिः

८. निवृत्त्या परमेष्ठ्य्-अन्तं
प्लावनं मस्तकावधि।
पादाद्यं परमेष्ठ्य्-अन्तं
निवृत्यम्+++(??-)+++ इति च क्रमः॥

मूलम्

८. निवृत्त्या परमेष्ठ्यन्तं प्लावनं मस्तकावधि।
पादाद्यं परमेष्ठ्यन्तं निवृत्यमिति च क्रमः॥

विश्वास-प्रस्तुतिः

९. स्थानानि मूर्ध-वदन
हृन्-नाभि-चरणानि च।
श्रीमद्-अष्टाक्षर-न्यासं
कुर्याद् विद्वान् यथाश्रुतम्॥

मूलम्

९. स्थानानि मूर्धवदनहृन्नाभिचरणानि च।
श्रीमदष्टाक्षरन्यासं कुर्या द्विद्वान् यथाश्रुतम्॥

शरणागतिः

विश्वास-प्रस्तुतिः

१०. मूर्धादींश् च ततो न्यस्य
ततो गुरु-परम्पराम्
स्मृत्वा द्वयानुसन्धानं
दण्डवत् सम्प्रणम्य च॥

मूलम्

१०. मूर्धादींश्च ततो न्यस्य ततो गुरुपरम्पराम्।
स्मृत्वा द्वयानुसन्धानं दण्डवत्सम्प्रणम्य च॥

पात्रसादनादि

विश्वास-प्रस्तुतिः

११. आच्छादितम् अपाच्छिद्य
तथा पर्युषितान् अपि।
घण्टां निनाद्य देवानाम्
आगमार्थं च, रक्षसाम् …॥

मूलम्

११. आच्छादित मपाच्छिद्य तथा पर्युषितानपि।
घण्टां निनाद्य देवाना मागमार्थं च रक्षसाम्॥

विश्वास-प्रस्तुतिः

१२. … उत्सारणार्थं, भक्तानां
सान्निध्याय विशेषतः।
ततः प्रणम्योद-कुम्भं
शोधयेच् छोषणादिभिः॥

मूलम्

१२. उत्सारणार्थं भक्तानां सान्निध्याय विशेषतः।
ततः प्रणम्योदकुम्भं शोधयेच्छोषणादिभिः॥

विश्वास-प्रस्तुतिः

१३. मूलमन्त्रेणाभिमन्त्र्य
तथा पात्राणि शोधयेत्
अर्घ्यं पाद्यं तथाऽऽचामं
स्नानं शुद्धोदम् एव च॥

मूलम्

१३. मूलमन्त्रे णाभिमन्त्र्य तथा पात्राणि शोधयेत्।
अर्घ्यं पाद्यं तथाऽऽचामं स्नानं शुद्धोदमेव च॥

विश्वास-प्रस्तुतिः

१४. आग्नेयादिषु कोणेषु
मध्ये ऽवस्थाप्य पूरयेत्
अभिमन्त्र्य च मन्त्रेण
गृहीत्वा ऽर्घ्यजलाज् जलम्॥

मूलम्

१४. आग्नेयादिषु कोणेषु मध्येऽवस्थाप्य पूरयेत्।
अभिमन्त्र्य च मन्त्रेण गृहीत्वार्घ्यजलाज्जलम्॥

विश्वास-प्रस्तुतिः

१५. समं घ्राणैस् समुद्धृत्य
सपवित्रेण मन्त्रतः।
भगवद्-विग्रहं कुम्भं
पात्रोपकरणादिकम् …॥

मूलम्

१५. समं घ्राणैस्समुद्धृत्य सपवित्रेण मन्त्रतः।
भगवद्विग्रहं कुम्भं पात्रोपकरणादिकम्॥

विश्वास-प्रस्तुतिः

१६. … आत्मानम् अपि संप्रोक्ष्य
शेषं पात्रान्तरे क्षिपेत्।
अथ कूर्मादि-मन्त्रेण
यथाभिरुचित-स्थलात् …॥

मूलम्

१६. आत्मानमपि संप्रोक्ष्य शेषं पात्रान्तरे क्षिपेत्।
अथ कूर्मादिमन्त्रेण यथाभिरुचितस्थलात्॥

स्वागतम्

विश्वास-प्रस्तुतिः

१७. आवाह्य मूलमन्त्रेण
सह पुष्पाञ्जलिं क्षिपेत्
देवस्य दक्षिणे भागे
“ऽस्मद्-गुरुभ्यो नमोनमः”॥

मूलम्

१७. आवाह्य मूलमन्त्रेण सह पुष्पाञ्जलिं क्षिपेत्।
देवस्य दक्षिणे भागेऽस्मद्गुरुभ्यो नमोनमः॥

विश्वास-प्रस्तुतिः

१८. इति नत्वा चात्मगुरुम्
अनुज्ञाप्य प्रपूजयेत्।
सत्यं स्वगुरुम् अन्वीक्ष्य
भगवान् कमलासनः …॥

मूलम्

१८. इति नत्वा चात्मगुरु मनुज्ञाप्य प्रपूजयेत्।
सत्यं स्वगुरु मन्वीक्ष्य भगवा न्कमलासनः॥

विश्वास-प्रस्तुतिः

१९. अर्चाम् अङ्गीकरोतीति
भावयेत् प्रार्थयेत् ततः।
तोयं दद्यात् समादाय,
चोद्धरण्या हरेः पदम्॥

मूलम्

१९. अर्चा मङ्गीकरोतीति भावयेत्प्रार्थये त्ततः।
तोयं दद्या त्समादाय चोद्धरण्या हरेः पदम्॥

विश्वास-प्रस्तुतिः

२०. प्रक्षाल्य श्रीपदौ चाप्य् +उद्-
धरण्या शुद्ध-वारिणा।
प्रक्षाल्यार्घ्यात् समादाय
तोयम् “अर्घ्यम् इदं” त्विति॥

मूलम्

२०. प्रक्षाल्य श्रीपदौ चाप्युद्धरण्या शुद्धवारिणा।
प्रक्षाल्यार्घ्या त्समादाय तोय मर्घ्य मिदं त्विति॥

विश्वास-प्रस्तुतिः

२१. हस्ते दत्वा ऽर्घ्यम् आदाय
पुनर् आचमनीयकात्।
तोयं दत्वा “समाचाम
इति स्कन्धगतेन च॥

मूलम्

२१. हस्ते दत्वाऽर्घ्यमादाय पुनराचमनीयकात्।
तोयं दत्वा समाचाम इति स्कन्धगतेनच॥

विश्वास-प्रस्तुतिः

२२. एकेन प्लोत-वस्त्रेण
कुर्यात् पादोपमार्जनम्
अन्येन हस्त-वदनो-
पमार्जनम् अथाचरेत्॥

मूलम्

२२. एकेन प्लोतवस्त्रेण कुर्यात्पादोपमार्जनम्।
अन्येन हस्तवदनोपमार्जनमथाचरेत्॥

स्नानम्

विश्वास-प्रस्तुतिः

२३. दन्त-धावन-गण्डूषौ
मुख-मार्जनम् एव च।
सकर्पूरं च ताम्बूलम्
अभिनीय ततो हरिम्॥

मूलम्

२३. दन्तधावनगण्डूषौ मुखमार्जन मेव च।
सकर्पूरं च ताम्बूल मभिनीय ततो हरिम्॥

विश्वास-प्रस्तुतिः

२४. स्नानासनाय सम्प्रार्थ्य
गन्ध-तैलेन सादरम्।
अभ्यङ्गम् अभिनीयाशु
स्नान-वेद्यां निवेश्य च॥

मूलम्

२४. स्नानासनाय सम्प्रार्थ्य गन्धतैलेन सादरम्।
अभ्यङ्गमभिनीयाशु स्नानवेद्यां निवेश्य च॥

विश्वास-प्रस्तुतिः

२५. सालग्राम-स्वरूपेण
स्थितं स्नपन-बेरकम्+++(=विग्रहम्)+++।
पुंसूक्तेन च मन्त्रेण
द्वयेनाप्य् अभिषेचयेत्

मूलम्

२५. सालग्रामस्वरूपेण स्थितं स्नपनबेरकम्।
पुंसूक्तेन च मन्त्रेण द्वयेना प्यभिषेचयेत्॥

विश्वास-प्रस्तुतिः

२६. प्लोतेनोपमृजं कृत्वा
वस्त्र-यज्ञोपवीतकम्
दत्त्वा ऽऽसने प्रतिष्ठाप्य
केशान् कङ्कत-शोधितान्॥

मूलम्

२६. प्लोतेनोपमृजं कृत्वा वस्त्रयज्ञोपवीतकम्।
दत्त्वासने प्रतिष्ठाप्य केशान्कङ्कतशोधितान्॥

भोज्यासनम्

विश्वास-प्रस्तुतिः

२७. कृत्वा भूषण-स्रग्-गन्ध-
धूपदीपौ च दर्पणम्।
मात्रां समर्प्य प्रार्थ्यैव
भोज्यासनम् अथार्पयेत्॥

मूलम्

२७. कृत्वा भूषणस्रग्गन्धधूपदीपौ च दर्पणम्।
मात्रां समर्प्य प्रार्थ्यैव भोज्यासन मथार्पयेत्॥

विश्वास-प्रस्तुतिः

२८. अतिप्रभूतातिरसा-
+तिमनोज्ञातिसौरभम्।
अतिसङ्ख्यानेकविध-
धूसरं सोपदंशकम्॥

मूलम्

२८. अतिप्रभूतातिरसातिमनोज्ञातिसौरभम्।
अतिसङ्ख्यानेकविधधूसरंसोपदंशकम्॥

विश्वास-प्रस्तुतिः

२९. फलानि मोदकोपेत-
पायसापूप-लेह्यकम्।
चरकी-चषकोपेत-
पूरितं सरसायनम्॥

मूलम्

२९. फलानिमोदकोपेतपायसापूपलेह्यकम्।
चरकीचषकोपेतपूरितं सरसायनम्॥

विश्वास-प्रस्तुतिः

३०. महा-दधि-घृत-क्षीर
शर्करा-मधु-संयुतम्।
निवेद्य शीतलं चापि
पानीयं मुख-शोधनम्॥

मूलम्

३०. महादधिघृतक्षीर शर्करामधुसंयुतम्।
निवेद्य शीतलं चापि पानीयं मुखशोधनम्॥

विश्वास-प्रस्तुतिः

३१. आचामं प्लोतवस्त्रं च
गन्धं चैव समर्पयेत्।
सकर्पूरं च ताम्बूलं
दत्त्वा
, शेषं निवेदितम् …॥

मूलम्

३१. आचामं प्लोतवस्त्रं च गन्धं चैव समर्पयेत्।
सकर्पूरं च ताम्बूलं दत्त्वाशेषं निवेदितम्॥

विश्वास-प्रस्तुतिः

३२. महिषीभ्यश् च तच्-छेषं
नित्य-मुक्तेभ्य एव च।
शेषं पराङ्कुशायापि
परकालाय तत् पुनः॥

मूलम्

३२. महिषीभ्यश्च तच्छेषं नित्यमुक्तेभ्य एव च।
शेषं पराङ्कुशायापि परकालाय तत्पुनः॥

विश्वास-प्रस्तुतिः

३३. रामानुजाय मुनये,
दत्त्वा स्वगुरवे च तत्।
अनुज्ञयैव स्वगुरोस्
स्वयं श्रीवैष्णवैस्सह …॥

मूलम्

३३. रामानुजाय मुनये दत्वा स्वगुरवे च तत्।
अनुज्ञयैव स्वगुरो स्स्वयं श्रीवैष्णवैस्सह॥

विश्वास-प्रस्तुतिः

३४. …स्वीकुर्यात्, संस्मरेद् भूयो
मूल-मन्त्रं द्वयं तथा।
बिम्बेषु सत्सु बहुषु
वाक्ययोर् उभयोरपि …॥

मूलम्

३४. स्वीकुर्या त्संस्मरेद्भूयो मूलमन्त्रं द्वयं तथा।
बिम्बेषु सत्सु बहुषु वाक्ययोरुभयोरपि॥

विश्वास-प्रस्तुतिः

३५. … सर्व-मङ्गल-विग्रह-
विशिष्टायेति मन्त्रतः।
द्वयेनोक्तोपचारांश् च
सर्वान् एव निवेदयेत्

मूलम्

३५. सर्व-मङ्गलविग्रहविशिष्टायेति मन्त्रतः।
द्वयेनोक्तोपचारांश्च सर्वानेव निवेदयेत्॥

विश्वास-प्रस्तुतिः

३६. अन्येभ्योपि च बिम्बेभ्यः
क्रमाद् अर्चनम् आचरेत्
पाद्यम् अर्घ्यं तथाऽचामं
धूपदीपौ हविस्तथा॥

मूलम्

३६. अन्येभ्योपि च बिम्बेभ्यः क्रमादर्चनमाचरेत्।
पाद्यमर्घ्यं तथाऽचामं धूपदीपौ हविस्तथा॥

उपचाराः

विश्वास-प्रस्तुतिः

३७. पानीयं पुनर् आचामं
ताम्बूलम् इति सर्वतः।
इतरेषां च सर्वेषाम्
उपचारा नव स्मृताः॥

मूलम्

३७. पानीयं पुनराचामं ताम्बूलमिति सर्वतः।
इतरेषां च सर्वेषामुपचारा नव स्मृताः॥

विश्वास-प्रस्तुतिः

३८. तथैव नित्य-मुक्तेभ्यः
कार्यं देवार्चनं क्रमात्।
केवलं मूल-मन्त्रेण
द्वयेनैकेन वा हरेः॥

मूलम्

३८. तथैव नित्यमुक्तेभ्यः कार्यं देवार्चनं क्रमात्।
केवलं मूलमन्त्रेण द्वयेनैकेन वा हरेः॥

विश्वास-प्रस्तुतिः

३९. अखिलान् उपचारांश् च
दद्याद् ब्रह्मविद् अग्रणीः।
शेषेणैव प्रपन्नानां
हरेर् आराधन-क्रमः॥

मूलम्

३९. अखिलानुपचारांश्च दद्या द्ब्रह्मविदग्रणीः।
शेषेणैव प्रपन्नानां हरे राराधनक्रमः॥

श्री-ऎम्बाराख्यात-गोविन्दार्य-महा-गुरु-प्रणीत-नित्य-ग्रन्थस् सम्पूर्णः