श्री नाथमुनिः अष्टाक्षरमन्त्रश्च एस्.एस्. सम्पत्कुमार
प्रस्तावना महाजनागाध महौघ सत्वं वेदोदकं शास्त्रतरङ्गशोभितम् । अलङ्घनीयं गुरुदेवतीर्थं सभा सुमुद्रं शिरसा नमामि ॥ व्योम्नः परस्तात् सविधं समेत्य लक्ष्म्या नियोगात् कु रुकाधिराजः । समन्त्ररत्नद्वयमाह यस्मै नाथाय तस्मै मुनये नमोSस्तु ॥ इति नाथमुनिविषयकं पद्यं अरयराख्य श्रीशविज्ञप्तिकराणां वंशे पाठतः प्रसिद्धम् । श्री नाथमुनिः श्रीमतः शठकोपमुनेः दिव्यानुग्रहात् नारायण अष्टाक्षरमन्त्रं मन्त्ररत्न्याख्यं, द्वयमन्त्रं च योगसमाधौ साक्षात्कृ त्य अष्टाक्षराख्यं मन्त्रराजं रहस्यत्रये प्रथमं अर्थानुसन्धानेन सह जप्त्वा, विषिष्टाद्वैतं नाम वेदान्ततत्वत्रयोपपत्तिं लब्धवान् इति इतिहासः । अयमितिहासः तत्वमुक्त्वाकलापादिषु पूर्वाचार्यैः उल्लिखितः । नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेय प्रबन्धैः । त्रातं सम्यग्यतीन्द्रैः इदमखिलतमः कर्शनं दर्शनं नः ॥ इति (तत्वमुक्ताकलापे अद्रव्यसरे श्लो १३६) उपदेशरत्नमालायां च “नाथमुनिमुदलान नं देशिकरैयल्लाल् पेदै मनमे उण्डो पेशु” इति वरवरमुनिभिः उक्तम् । तत्र नारादीय अष्टाक्षरब्रह्मविद्यायां आथर्वणकल्पघटितायां अष्टाक्षरमहिमावर्णने उक्तानि वचनानि तु यथा क्रमं लिखित्वा निरूप्यन्ते । अष्टाक्षरं जपेदेतत् रहस्यं मुक्ति साधनम् । (अध्याय - ४ , श्लो-६१) गत्वा नारायणं पश्येत् श्वेतद्वीपनिवासिनम् । (अध्याय - ४, श्लो- ५२) आसीना वा शयाना वा तिष्ठन्तो यत्र कु त्र वा ।
नमो नारायणायेति मन्त्रैक शरणा वयं ॥ इति (अध्याय -४, श्लोक-६२) मातृवत् परिरक्षन्ति देवताश्चापि तं सदा इति (अध्याय-२, श्लोक् -६१) अपुरश्चरणस्यापि नित्यजप्तुर्महात्मनः । समस्तकामसंसिद्धिः भक्तस्य भवति ध्रुवम् ॥ (अध्याय-२, श्लोक-५०) कर्मणां अविरोधेन कालेषु जप इष्यते इति (अध्याय-२, श्लो- ४) व्यक्तो हि भगवानेषः साक्षान्नारायणस्स्वयम् । ~ 23 ~ International Journal of Sanskrit Research https://www.anantaajournal.com अष्टाक्षरस्वरूपेण मुखेषु परिवर्तते ॥ इति (अध्याये-१, श्लोक-३१) देवदानवगन्धर्व सिद्धविद्याधरादयः । प्रणमन्ति महात्मानं अष्टाक्षरविदं नरम् ॥ इति (अध्याय-१, श्लोक-२०) सर्ववेदान्तसारार्थः संसारार्णवतारकः । गतिरष्टाक्षरो न ॄणाम् अपुनर्भवकाङ्क्षिणाम् ॥ (अध्याय-१, श्लोक-१३) पुरश्चरणमित्याहुः मान्त्रार्थपरिशीलनम् ॥ इति (अध्याय- २, श्लोक-२) एवं हि श्री नाथमुनिः आष्टाक्षरजपं सम्यक् अर्थानुसनन्धानेन कृ त्वा रहस्यत्रयोपदेशघटितं इमं मन्त्रं परंपरया भगवद्रामानुजार्याय उपदेशमकरोत् । भगवद्रामानुजश्च परमवैदिकसिद्धान्तं विशिष्टाद्वैतवेदान्तं श्रीभाष्ये गीताभाष्ये च यथा निरूपितवान् तथा किञ्चित् अग्रे वक्ष्यते । नाथमुनेः परमवैदिकवेदान्तसिद्धान्तः वेदान्ती दार्शनिके षु चरमः उत्तमश्च । आन्वीक्षक्यां तर्क शास्त्रं वेदान्तान्तं प्रतिष्ठित्तम्” इति शुक्रनीतिवचनम् । “जङ्गमं स्थावरञ्चैव राष्ट्र मित्यभिधीयते” इति च । वेदान्तस्य शब्दप्रमाणस्य भागे “हिरण्यपक्षः शकु निः ब्रह्मनामा” इति “ “यत्र विश्वं भवत्येकनीडम्” (यजुर्वेदे नारायण उपनिषत्सु) इति च श्रूयते । नीडम् इति द्राविडे वीडु-कू डु इति च पठ्यते । बीडु-गूडु इति च कन्नडे , वासस्थानं इत्यर्थः । कु टीरं इति तु संस्कृ ते यथा चटककु टीरं इति प्रयोगः । ‘प्रकृ तिमण्डलं एकपादविभूतिः ʼ इति । अप्राकृ तं मण्डलं त्रिपाद्विभूतिः इति आथर्वणोपनिषदि स्पष्टम् । उभयमपि “तस्य नाम महद्यशः ” इति तैत्तिरीयपठितस्य भगवतो नारायणस्य वीडुः वासस्थानम् । सर्वान्तर्यामित्वात् तस्य ।
तत्र त्रिपाद्विभूतिः महाविभूतिः पेरियवीडु इति संस्कृ ते द्राविडे च क्रमेण पठ्यते । विरजाख्या ज्योतिर्नदी हि विभूतिद्वयस्य विभाजकसीमारेखा । विरजोत्तरदेशः परमं निश्रेयसं स्थानं तद्विष्णोः परमं पदं इति कठोपनिषदि पठितम् । वेदान्तेषु भगवद्गीतासु सर्वधर्मान् इति पदं नाथमुनिसम्प्रदायात् भगवद्रामानुजमुनिना व्याख्यातम् । “कर्मयोग-ज्ञानयोग-भक्तियोगरूपान् परमनिश्रेयससाधनभूतान् सर्वान् धर्मान् यथाधिकारं कु र्वाण एव उक्तरीत्या फलसङ्गकर्मकर्तृत्वादिपरित्यागेन परित्यज्य” इति । अत्र अवैदान्तिकानां मतं वेदान्तिभ्योSन्यदेव । वेदान्तिनां तु सविशेषभगवदनुसन्धानं गीताभाष्ये स्पष्टम् यथा “माम् एकमेव १कर्तारं, २आराध्यम्, ३प्राप्यं, ४उपायं च अनुसन्धत्स्व” इति । यथा- प्राप्यस्य ब्रह्मणो रूपम्, प्राप्तुश्च प्रत्यागात्मन। : प्राप्त्युपायं फलं प्राप्ते:, तथा प्राप्तिविरोधि च । वदन्ति सकला वेदाः , सेतिहास पुराणकाः । मुनयश्च महात्मान: वेद-वेदान्तपारगाः ॥ इति हारीतस्मृतिषु १ . प्रयोजककर्तृत्वं हि भगवत एकस्यैव । प्रयोज्यकर्तृत्वं हि परतन्त्राणां जीवात्मानाम् । यथा राजसंश्रयवश्यानां राजाज्ञापालनमेव कर्तव्यमिति । सर्वमूलकारणत्वात् भगवतः इदं प्रयोजककर्तृत्वं छान्दोग्ये षष्ठप्रपाटके स्पष्टीकृ तम् । अन्यत्र च । अयं अंशः ब्रह्मसूत्रप्रथमाध्यायसारार्थः । २. इन्द्रादिदेवतान्तर्यामित्वात् प्रधानाराध्यत्वं भगवत एव । आत्माधीनत्वात् शरीराणां भगवतः इन्द्रादिशरीरकत्वात् शरीराणि अधीनानि न शरीरिणो बाधकानीति अविरोधाध्यायस्य द्वितीयस्य सारार्थोSयम् । ३. प्राप्यानुसारित्वात् प्रापकस्योपायस्य पूर्वं चतुर्थाध्यायार्थः प्राप्यत्वं परमनिश्रेयसे भगवत एवेति। ४. उपायत्वं उपासनेषु उपास्यस्यैव प्राधान्यात् उपायत्वं नायमात्मेत्यादिमन्त्राभ्यां श्रीभाष्यब्रह्मसूत्रानुगे दृढीकृ तामिति हि तृतीयाध्यायार्थः । एवं वेदान्तिनां अनुसन्धानं उपासनरूपस्य साक्षात्कारपर्यन्तस्य ज्ञानस्य अचेतनस्य उपासकरूपस्य चेतनवर्गस्य प्रयोज्यकर्तृत्वेन भगवतः सर्वेश्वरस्य प्रयोजककर्तृत्वादिना च अनुसन्धानरूपं तत्वत्रयज्ञानं परमनिश्रेयसाकाङ्क्षिभिः मुमुक्षुभिः स्वीकार्यमिति भावः । अत एव तत्वत्रयग्रन्थे “मुमुक्षुवान चेतननुक्कु
मोक्षमुण्डाम्पोदु तत्वत्रयज्ञानं उण्डायिरुक्कवेणुम्” इति श्रीलोकाचार्येण सूत्रितम् । एवं भगवद्रामानुजानुसरित्वं लोकार्यसूक्तेः , भगवद्रामानुजस्यापि नाथसम्प्रदायित्वात् नाथमुनेरभिप्रायोSपि न्यायतत्वादिग्रन्थप्रतिपादितः अयमेव। परमं निश्रेयसं हि विरजोत्तरदेशे नित्यवैकु ण्ठाख्ये परमे पदे एव ; नान्यत्र । कै वल्यं नाम जीवस्वरूपानुभवरूपं विष्णुपुराणाद् युक्तरीत्या प्रकृ तिमण्डले ध्रुवोपर्येव इति परममोक्षे कै वल्यव्यावृत्तिः बोध्या । कै वल्यं नाम यत् अवैदान्तिकैः योगन्यायशैवके वलाद्वैतादिपरैः अङ्गीक्रियते तत् प्रकृ तिमण्डल एवेति स्पष्टत्वात् के वलाद्वैतिभिरपि “अत्र ब्रह्म समश्नुते” इति स्वयं अङ्गीकृ तत्वात् अभिहितम्। कै वल्यं न हि परममोक्षः न चैतत् परमनिश्रेयसम् इति । अत एव नाथमुनिसाक्षात्कृ ते श्रीशठकोपमुनिदर्शिते सहस्रगाथाग्रन्थे “शिरुह निनैवदोर् पाशमुण्डां पिन्नुं वीडिल्लै” इति विश्वनीडस्य महद्यशसो भगवतो नारायणस्य नित्यलोकस्थानं विष्णुपुराणदर्शित कै वल्यस्थानार्थिनां योगिनां न प्राप्यत्वेन अनुसंहितम् इति वैदान्तिकावैदान्तिकभेदः तत्वत्रयानुसन्धानभेदादपि बोध्यः । ~ 24 ~ International Journal of Sanskrit Research https://www.anantaajournal.com के वलं कर्म-ज्ञानम् भक्तिर्वा अवैदान्तिकानां अप्यस्ति । तेषां शरीरे-भावाधिकरणोक्तेन न्यायेन वैयासिके न “आत्मस्वरूपानुसन्धानं न कर्माङ्गम्” इति भाषितम् । अतः कर्म-ज्ञानं- भक्तिर्वा न हि कर्मयोगः न हि ज्ञानयोगः न हि भक्तियोगः इति बोध्यम् । गीतोक्तयोगरूपपरिणामं प्राप्तानाम् एवं एतेषां परमनिश्रेयससाधनत्वं गीतायां भाष्ये च स्पष्टीकृ तामिति नाथमुनिप्रभृतिरामानुजीयः सिद्धान्तः । न्यायतत्वप्रथमश्लोकः श्रीभाष्यदर्शितः अहमर्थो न चेदात्मा इत्यादि श्लोकश्च श्रीनाथमुनिसूक्तिः तत्वत्रयविषये प्रमाणमिति लिख्यते । एवं योगमहिमप्रत्यक्षतत्वत्रयः इति यामुनमुनेः सूक्तिश्च प्रमाणोपबृंहणम् । यामुनमुनेः आगप्रामाण्ये अन्ते नाथमुनिविषयकः श्लोकः - तत्तत्कल्पितयुक्तिभिः शकलशः कृ त्वा तदीयं मतम् । यच्छिष्यैरुदमर्दि सात्वमतस्पर्धावतां उद्धति: ॥ यच्चैतः सततं मुकु न्दचरणद्वन्द्वास्पदं वर्तते । जीयात् नाथमुनिः सः योगमहिमप्रत्यक्षतत्वत्रयः ॥ इति इदं पद्यं सभासु धैर्येण रामानुजीयैः श्रीवैष्णवैः यथावकाशं वक्तव्यं इति विज्ञापना ।
नाथमुनेः नारायणाष्टाक्षरात् तत्वत्रयज्ञानं, कथं सम्पादितमिति चेत्- नारायणशब्दे एव तत्वत्रयं निरूपितम् । यथा नाराः नरसम्बन्धिनः । नाराः जीवाः । तत्सम्बन्धिनः अचेतनदेहादिपदार्थाः इति । एवं अयनशब्दार्थः तेषां चेतनाचेतनानां अन्तर्बहिश्च नियन्ता ईश्वरः नारायणः इति । अत्र के चन नराः भूतगणावताराः , के चन अचित्पदार्थाः कै लासादयः पार्वतीपतेः शिवस्यापि नियाम्याः । अतो हि सः नारायणः इति अतिवादः के षाञ्चित् अस्ति । किन्तु वेदव्यासपादैः महाभारते शिवसहस्रनामस्तोत्रे नारायणपदं न निहितम् । अतः शिवस्य नारायण इति संज्ञा नास्ति । अत एव श्रियः पते नारायण इति संज्ञा प्रसिद्धा । नाराणां अयनं इत्यत्र, नाराः अयनं यस्य सः इत्यत्र च अयनशब्दे तु नकारस्य णत्वं पूर्वपदात् संज्ञायाम् अगः (८-४-३) इति पाणिनिसूत्रात् भवति इति हि तत्वम् । एवं नारपदार्थेषु बहुविधे शीवोSपि चेतनः अन्तर्गतः । अयनपदार्थे श्रीयः पतिः सर्वेश्वरः एक एव स्थितः इति नारायणनाममन्त्रे तत्वत्रयं श्री नाथमुनिना साक्षात्कृ तम् इति । तदुक्तम् श्रीलोकाचार्य विरचिते श्रीरहस्यत्रयग्रन्थे:- नारायणनेन्रदु नारङ्गळुक्कु अयनम् एन्रपडि, नारङ्गळावन नित्यवस्तुक्कळिनुडैय तिरळ् - अवैयावन- ज्ञानानन्दामलत्वादिहळु म्, ज्ञानशक्त्यादिहळु म्, वात्सल्यसौशील्यादिहळु म्, तिरुमेनियुम्, कान्ति सौकु मार्यादिहळु म्, दिव्यभूषणङ्गळु म्, दिव्यायुधङ्गळु म्, पेरिय पिराट्टियार् तोडक्कमान नाच्चि मार्हळु म्, नित्यसूरिहळु म्, छत्रचामरादिहळु म्, तिरुवाशल्काक्कु म् मुदलिहळु म्, गणाधिपरुम्, मुक्तरुम्, परमाकाशमुम्, प्रकृ तियुम्, बद्धात्माक्कळु म्, कालमुम्, महदादिविकारङ्गळु म्, अण्डङ्गलुम्, अण्डत्तुक्कु ळ् पट्ट देवादि पदार्थङ्गळु म् । अयनम् एन्रदु इवत्रुक्कु आश्रयम् एन्रपडि । अत्र अष्टाक्षरोपदेशसम्प्रदायः शठकोप दत्तः कथं इति शाङ्का न कर्तव्या । “भगवता पराङ् कु शेन स्वशिष्येभ्य: श्रीमन्नाथमुनिप्रभृतिभ्य: स्ववर्णानुगुणमेव मूलमन्त्रोपदेश: कृ त:। नाथमुनिप्रभृतिभिस्तु अध्ययनक्रमप्राप्तप्रणवेन साकं स्वशिष्येभ्य: मूलमन्त्रादिकं उपदिष्टम् इति न कोऽपि विरोध:” इति पूर्वपक्षे सति: न च “मुक्तदशायामेव भगवता पराङ् कु शेन नाथमुनिं प्रति आचार्यक-करणात्, तदानीं सप्रणवाष्टाक्षरोपदेशे न किञ्चित् बाधकम्” इति वाच्यम्।
तथा सति विभवदशानुगुणतया भगवदुपदिष्टतान्त्रिकमन्त्रपरित्यागेन स्वेच्छयैव मुक्तिदशानुगुण-वैदिकमन्त्रोपदेशाङ्गीकारे; सर्वेश्वरस्य आचार्यपरम्परा अनुस्यूतघटकत्वाभावेन “आभगवत्त: प्रथितां अनघां आचार्य सन्ततिं वन्दे । मनसि मम यत् प्रसादात् भवति रहस्यत्रयस्य सारोऽयं (रहस्यत्रयसरम्) इति आचार्यसूक्तिविरोधस्य दुर्वारत्वात्। (अष्टाक्षरस्य सर्वाधिकार समर्थनम्) न च “पराङ् कु शादीनां रामकृ ष्णाद्यवतारवत् भगवदवतारत्वाङ्गीकारात्, शास्त्रवश्याज्ञचेतनसाम्येन वैदिकमन्त्रविरोधोद्भावनं आवश्यकमेव” इति वाच्यम्; तेषां भगवदवतारत्वेऽपि– “यद्यदाचरतिश्रेष्ठ:ʼ लोकसङ् ग्रहमेवापि संपश्यन् कर्तुमर्हसि, “कु र्याद्विद्वान्तथाऽसक्त: चिकीर्षुर्लोकसन्ग्रहम्" इत्यादि प्रमाणानुसारेण, स्ववर्णाश्रमविपरीताचारस्य भगवदत्यन्तानभिमततया, तेषां सप्रणवोपदेशस्य असंभावितत्वात्॥ अत एव पूर्वसूरिभि: सर्वाधिकारप्रबन्धे प्रणवोच्चारणं न कृ तम्॥ यदि च उक्तानुपपत्तिपरिहाराय “सर्वेषां तान्त्रिकं तु वा”(वि.सं-३९-३१६) इत्यादि प्रमाणबलात् मूलाग्रप्रदेशरहित-इक्षुदण्ड-दृष्टान्तस्वारस्यानुरोधाञ्च तान्त्रिकाष्टाक्षर एव श्रीपराङ् कु शादिगुरुपरम्परया उपदिष्ट इति अङ्गीक्रियते; तर्हि सर्वाधिकारतया भवदभ्युपगते श्रीमद्रहस्यत्रयसारादिग्रन्थे सप्रणवाष्टक्षरस्य अप्रसक्तत्वात्, तद्व्याख्यानं असङ्गतं स्यात्॥ किञ्च “न स्वर:” इत्यादि निषेधबलात् “इदु प्रणवचतुर्थिहळ् ओळिन्दपोदु सर्वाधिकारमाम्" इत्याचार्यसूक्तिबलाच्च, प्रणवचतुर्थीपरित्यागे चतुर्थीविभक्तिव्याख्यानं असङ्गतं स्यात्॥ तत्रोत्तरायणस्यादि: बिन्दुमान् विष्णुरन्तत:। बीजमष्टाक्षरस्य स्यात् तेनाष्टाक्षरता भवेत्॥” इत्यादि प्रमाणेन प्रणवस्थाने अम् इति बीजस्य संयोजनेन अष्टाक्षरत्वसम्पादने, बीजस्याप्यङ्गतया “अङ्गानीति” ~ 25 ~ International Journal of Sanskrit Research https://www.anantaajournal.com तस्यापि निषेधावश्यकत्वेन “वृद्धिमिच्छतो *मूलहानि:” इति हान्यापत्ति: । अतः शठकोपमुनिना उपदिष्टः योगसाक्षात्कारे यथा
सप्रणवः एव अष्टाक्षरमन्त्रः तथैव नाथमुनिना अर्थसाक्षात्कारोऽपि कृ तः इति भावः । आकल्पं विलसन्तु सात्वतमतप्रस्पर्धिदुष्पद्धति व्यामुग्द्धोद्धतदुर्विदग्धपरिषद्वैदग्ध्यविध्वंसिनः । श्रीमन्नाथमुनीन्द्रवर्धितधियो निर्धूतविश्वा शिवाः सन्तस्सन्ततगद्यपद्यपदवी हृद्यानवद्योक्तयः ॥ बाह्येन्द्रियाणि विषयेभ्यः प्रतिसंहृत्य मन आत्मनि व्यवस्थापयितुं यतेत इयं यतमानसंज्ञा । तीर्थयात्रार्थं गोवर्धनपुरीं गतं श्रीमन्नाथमुनिं वीरनारायणवासुदेवः स्वयमेव स्वपुरिं प्रति आगत्य मन्त्रग्रहणाय यत्नं कर्तुं स्वप्ने आह्वयति । अत्र दास्यभक्तिः समुत्पन्ना । अतः वीरनारायणपुरं गत्वा नारायणस्य कृ ते सकलविधानि कै ङ्कर्याणि कर्तुं आरभन्ते । एतदेव यतमानसंज्ञा दिव्यसूरिचेरिते प्रतिपादितम् तद्यथा- तत्र स्थितौ तद्विरहासहिष्णुः श्रीवीरनारायणवासुदेवः । स्वप्ने समाह्वयत् भजत स्म तौ हि तत्पार्श्वं ऊढ्वा यमुनेशमन्तः । इति ( १६-१२) सुप्रसिद्धे प्रपन्नामृते अपि – ततः श्रीराजगोपालो वीरनारायणाधिपः । तस्य नाथमुनेः स्वप्ने प्रसन्नः कृ पया ततः ॥ वीरनारायणपुरीं आयाहीत्यभ्यभाषत । ततः स्वप्नादुत्थाय विस्मितो नाथयोगिराट् ॥ इति (१०७- ३५- ३६) बलात् संहृतान्यपि बाह्येन्द्रियाणि सावशेषरागद्वेषादिदोषकलुषितं मनः पुनः पुनरवसरे प्रेरयेत् । स्वयं च आत्मनि स्थातुं न शक्नुयात् । अतः पक्वावशिष्टरागद्वेषादीन् औदासीन्यानभिनन्दनादिक्रमेण पचेत् । इयं व्यतिरेकसंज्ञा । एतदेव कान्ताभक्तिः इत्युच्यते । अवशिष्टस्य द्राविडाम्नस्य प्राप्त्यर्थं उत्कण्ठा उद् बुद्धा । अतः एते कु रुकापुरीम् गत्वा तत्रस्थान् विचारयन्ति । तत्र वीरनारायणपुरे स्नानतटाके दू रादागतैः (मेल्नाडु नाम्ना संप्रदाये प्रसिद्धात् मेलुकोटे नामकात् तिरुनारायनपुरात् समागतैः ) श्रीवैष्णवैः अनुसन्धीयमानं
कु म्भकोणनगरस्वामिनं सारङ्गपाणिनं उद्दिश्य आरावमुदे (ति.वाय्. ५-७-१) इति आरभ्यमाणं दशकं श्रुत्वा सहस्रगीतेः प्राप्त्यर्थं आशा वर्धिता । एतदेव व्यतिरेक संज्ञा। तद्यथा – निशम्य गाथा शतकं मनोज्ञं सनाथयोगी मुदितोSवशिष्टाः । गाथास्तदीयाः श्रवणामृतानि शुश्रूषमाणः कु रुकामयासीत् । दि.सू.१६-१४ ततः पक्वे पि दोषशेषेण अनादिविषयानुभव- भावितवासनामात्रमात्मानमनुबुभूषन्तीं शेमुषीं प्रतिबिभत्सेत् ; तत्र निरतिशयानन्दरूपमात्मानं पुरुषद्वेषिण्या योषिता इव युवानं प्रदर्श्य प्रदर्श्य क्रमादात्मनि तोषमुत्पाद्य तेन तोषविशेषेण दवीयसा च स्मृतिविधुरेण कालेन बाह्यविषय- वासनाजालमुन्मीलयितुमीहते । सेयम् एके न्द्रियसज्ञा । आदिनाथस्य अनुग्रहेण कण्णिनुण् शिरुत्तांबु इति गाथादशकं पराङ् कु शदासात् प्राप्य शठकोपसूरेः साक्षात्कारार्थं तदुनुन्धानं द्वादशसहस्रवारं एकस्मिन् मण्डले एव पर्यपूरयन् । एतदेव एके न्द्रियसंज्ञा । तथा हि- कवीन्दुनोक्तं मधुराभिदेन स तत्र गाथा दशकं शठारेः । सान्निध्यहेतोः द्विसहस्रयुक्तायुतं तदावर्तयति स्म वारम्। दि.सू. १६-१७ अनेन शठकोपसूरेः विषये प्रेमपूर्विका एकान्तभक्तिः समुपदर्शिता । अतः धन्यवादेन सह ज्ञाता-ज्ञेयं-ज्ञानम् इति त्रिभङ्गींक्रममतीत्य प्रेमातिशयसहजस्वभावेन शठकोपसूरेः साक्षात्कारम् अवापुः । एतदेव एकान्तभक्तिः इत्यभिव्यज्यते । आत्मगुणसंपत्तिकारणभूतशमदमादीनां अभावे सदाचार्यः न हि कदापि पूर्णानुग्रहपरो भवति । तदत्र श्रीमन्नाथमुनयः शठकोपसूरेः दिव्यानुग्रहं प्राप्तुमुद् युक्तास्सन्तः ग्रन्थस्यास्य सततानुसन्धानेन शमदमादिना विभूषिता अभवन् । तदत्र श्रीचवनभूषणे समुपदिष्टः क्रमः प्रमाणपथि समायाति । - इवै इरण्डुम् उण्डानाल् आचार्यन् कै पुहुरुम् । आचार्यन् कै पुकु न्दवारे तिरुमन्त्रम् कै पुकु रुम् । तिरुमन्त्रम् कै पुकु न्दवारे ईश्वरन् कै पुकु रुम् । ईश्ववरन् कै पुकु न्दवारे वैकु न्दमानहर् मत्तदु कै यदुवे
इन्गिरपडिये प्राप्यभूमि कै पुकु रुम् । इति (१-९७) प्राप्यलाभम् प्रापकत्ताले । प्रापकलाभं तिरुमन्त्रत्ताले । तिरुमन्त्रलाभं आचार्यनाले । आचार्यलाभं आत्मगुणत्ताले । १-९८ इति च इति अवरोहणक्रमेणापि अनुसन्धानक्रमः तत्रैव समुपदर्शितः । या पुनस्समस्तवासनाविलयात् औत्सुक्यमात्रस्याप्यसंभवेन परमवैराग्यदशा ; सा वशीकारसंज्ञा। ज्ञाननिष्ठाकाष्ठारूपा एषा योगाख्यमात्मावलोकनं साधयति । ~ 26 ~ International Journal of Sanskrit Research https://www.anantaajournal.com ततः शठकोपसूरिः नाथमुनये अष्टाक्षर्याः उपदेशं अकरोत्, तद्दर्शनार्थं दिव्यदृष्टिरपि दत्ता । तदनन्तरं वेदचतुष्टयप्रतिनिधिरूपाणि दिव्यप्रबन्धानि उपदिष्टानि । तद्बलेन आदिनाथस्य दिव्यसाक्षात्कारं प्राप्य सन्तुष्टा अभवन् श्रीमन्नाथमुनयः । तदेतत् वशीकारसंज्ञा । तद्यथा- प्रोतः शठारिर्मधुरेण साकं कवीन्दुनाग्रे कृ तसन्निधानः । उपादिशत् सद्वयमन्त्रपूर्वं सार्थानमुष्मै चतुरः प्रबन्धान् । दि.सू-१६-१८ न्यासविद्यायाः बलेन विनयभावेन परमैकान्ती अभवत् । तदा भक्ता एकान्तिनो मुक्ताः इति नारदभक्तिसूत्रोक्तप्रकारं (६८) कण्ठावरोधरोमाञ्च- अश्रुयुक्तनेत्रेण परस्परसंभाषणं समारब्धम्, येन कु लं, पृथ्वी च धन्या अभूत् । अत्र शठकोपसूरिणा मौनेन सर्वं व्याख्यातम्, नाथमुनिः संशयनिवृत्तो भूत्वा भगवदनुभवे मग्न आसीत् । एषा भक्तियोगस्य पराकाष्ठा । यथा वा स्थितः प्रज्ञः कू र्मोङ्गानीव सर्वशः इत्युक्तरीत्या कच्छपवत् यतमानसंज्ञा स्तरं प्राप्य, मीनवत् एके न्द्रियसंज्ञा स्तरं अधितिष्ठति । ततश्च खेचरवत् एके न्द्रियसंज्ञां प्राप्य अर्जुनतुल्यो भूत्वा वशीकारसंज्ञामधिष्ठाय साक्षात्करोति कृ ष्णं धर्मं सनातनम् । तद्वदेव अत्रापि श्रीमद्वेदान्तदेशिकैः कवितार्कि कसिंहैः तात्पर्यचन्द्रिकायां प्रदर्शितेन योगमार्गप्रकारेण श्रीमन्नाथमुनेः संज्ञाचतुष्टयक्रमेणैव आदिनाथस्य साक्षात्कारः अनुचिन्तनार्हो दरीदृश्यते । अत्रायमपरोपि विशेषः यो हि मनगालोक्य निश्चेतव्यः – भक्तियोगस्य प्रायोगिकक्रमे अपि सर्वतः कु शलाः श्रीमन्नाथमुनयः अनुराधाख्य महानक्षत्रजन्मानः भक्तियोगस्य कृ ते मूलस्रोतोरूपं अध्ययनोत्सवमेव
श्रीवैष्णवानां राजधान्यां भगवतः श्रीरङ्गनाथस्य सान्निध्ये तदनुमत्या मूलमन्त्रस्य अमूलचूलं अर्थानुसन्धानं कर्तुं योग्यतामापादयितुमिव विस्तारमकार्षुः । तदर्थं आश्वयुज दशमीतः भीष्म एकादशी पर्यन्तेषु एकमण्डलात्मके षु अष्टचत्वारिंशत् दिनेषु मन्त्ररत्नस्यास्य अष्टाक्षर्याः अनुष्ठानं विधायैव खलु शठकोपसूरेः सकाशात् द्राविडाम्न्यायं अध्यगच्छन् । तदेतस्मिन्नेव दिने शूभदिने यद्वापरे युगे भगवता श्रीकृ ष्णेन श्रीमद्भगवद्गीता अपि अर्जुनव्याजेन लोककल्याणाय समुपदिष्टा आसीत् । तस्माद्दिनादारभ्य दशदिनात्मकः अध्ययनोत्सवः अपि महता वैभवेन अनुष्ठाय तदन्तिमे अहनि शठकोपसूरिभिः अपि वैकु ण्ठलोकः समधिगतः । ततश्च तत्तादृशे कलौ युगे पुनरपि भक्तियोगस्य प्रसाराय श्रीवैष्णवैः प्रार्थ्यमाने सति भगवान् सर्वात्मकः पुनरपि तमेव शठकोपसूरिणं अनुगृह्य उपकारमकरोत् इत्याकरके न भावनाप्रकर्षेण अनुसन्धाननिरता भवन्तीति प्रतीतिः । यथा वेदव्यासैः वेदाः चतुर्धा विभक्ताः तथैव नाथमुनिना अपि शठकोपसूरेः सकाशात् प्राप्तानि दिव्यप्रबन्धानि प्रथमसहस्रम्, (मुदलायिरम्) द्वितीयसहस्रम् (पेरिय तिरुमोळि) तृतीयं सहस्रं (इयर्पा), चतुर्थं सहस्रं सहस्रगीतिः (तिरुवाय्मोळि) इति क्रमेण चतुर्धा विभक्तानि । तत्र अनुसन्धानक्रमेण मोदलायिरादित्रिसहस्रं, अवतारक्रमेण इयर्पा च अनुसन्धेयम्। पकृ तस्थले अष्टाक्षर्यामपि अनुसन्धानक्रमप्राधानेनैव उपपादनं दृश्यते । तथा हि मुमुक्षुवुक्कु अरियवेण्डुम् रहस्यं मून्रु, इति मुमुक्षुप्पडि सूत्राधारेण तत्वहितपुरुषार्थानां क्रमेण रहस्यत्रयरूपेण मन्त्रत्रयेण विवरणम् अभ्युपगम्यते । तत्र प्रथमं अवतरितं प्रथमरहस्यं अष्टाक्षरीमन्त्रम् । अस्मिन् मन्त्रे त्रीणि पदानि सन्ति । ओं, नमो, नारायणाय इति । अस्मिन्, प्रथम पदं प्रणवः । अस्य प्रणवार्थस्य विवरणरूपं तिरुप्पल्लाण्डु इत्यारभ्य अमलनादिपिरन् पर्यन्ताः नवग्रन्थाः । द्वितीयं नमः पदम् । तस्य अर्थः कण्णिनुण् शिरुत्ताम्बु ग्रन्थे लिव्रियते । आहत्य दशप्रबन्धाः प्रथमसहस्ररूपाः , श्रीमन्नाथमुनिभिः विभज्य अर्थानुसन्धानं कर्तुं योग्यत्वेन रूपेण भगवद्योगानुकू लं अनुगृहीतम्। परकालसूरेः पेरिय तिरुमोळि , तिरुक्कु डन्दाण्दहम्, तिरुनेडुन्दाशकम्, इयर्पायां तिरुमडल् पर्यन्ताः प्रबन्धाः नारायणपदस्य विवरणम् । हितमन्त्रस्य द्वयमन्त्रस्य विवरणरूपा सहस्रगीतिः । तस्य तु तृतीयसहस्रत्वेन व्यपदेशः कृ तः ।
इत्थं च प्रणवनमसोः विवरणरूपं प्रथमसहस्रम् । नारायणशब्दविवरणरूपः पेरिय तिरुमोळि ग्रन्थः यो हि, तिरुक्कु डन्दाण्दहम्, तिरुनेडुन्दाण्डकम् इति ग्रन्थद्वयेनापि संवलितः । तत्र पुरुषार्थविवरणरूपा इयर्पा चतुर्थसहस्ररूपा अवतारक्रमेण एव सूचिता दृश्यते । अस्मिन् क्रमे पहल्-पत्तु- इरा पत्तु इयर्पासेवा अभिनयं इत्यादि श्रीमन्नाथमुनिभिः आरब्धं सर्वेषु दिव्यदेशेषु अनुसन्धीयते इत्येतत् गमनार्हः विषयः । रहस्यत्रये तिरुमन्त्रं अष्टाक्षरी प्राथम्यं भजते । तस्य च पदत्रयात्मकत्वात् प्रणवो हि तत्र सर्वाद्यो भवति । स एव सकलवेदार्थसारार्थरूपः तस्मादेव प्रणवात् सर्वशास्त्रारम्भः । तत्तादृशस्य प्रणवार्थस्य प्रतिपादको हि अयं तिरुप्पल्लाण्डु ग्रन्थः । तदिदं रहस्यं मनागवगत्य पेरियाळ्वार् तिरुमोळि ग्रन्थात् प्रणवार्थप्रतिपादमिमं ग्रन्थरत्नं प्रूथक् कृ त्य तत् कृ ते गुरुमुखमनधीत्येत्यादिना अप्रतिमं तनियन् नामकं मुखपद्यमप्यन्वगृह्णन् । न के वलं तावदेव अपि तु प्रणवार्थरूपो यं तिरुप्पल्लाण्डु ग्रन्थ एव आसेतु हिमाचलं सर्वत्रापि आद्य प्रबन्धत्वरुपेण अनुसन्धानक्रममपि उपादिशन् । तदनुसृत्यैव अद्यापि सर्वत्र अयमेव ग्रन्थः अनुसन्धाने सर्वाद्यो भवति । एतत् तिरुप्पल्लाण्डु तोडक्कम् इत्येव नामनिर्देशेन आद्रियते । एतन्माध्यमेनैव नालायिरदिव्यप्रबन्धसेवा अपि आरभ्यते । के वलं मेलुकोटे नामक तिरुनारयणपुरे एव तत्तादृशस्य परिपूर्णस्य नालायिर प्रबन्धस्य पुनरवतारे हेतुभूतस्य अष्टाक्षरमन्त्रे द्वितीयपदस्य नमः शब्दार्थभूतस्य कण्णिनुण् ~ 27 ~ International Journal of Sanskrit Research https://www.anantaajournal.com शिरुत्ताम्बु ग्रन्थस्य अनुसन्धानं दरीदृश्यते । यथानुभवं नमः शब्देन विरोधिनिरसने सत्येव खलु प्रणवार्थभूतं अपेक्षितं समुपलब्धं भवति । अयं हि अपवादः मेल्नाट्टुकाराणां प्राशस्त्यं प्रदर्श्य शठकोपसूरेः सन्मानातिशयं द्योतयति इति प्राचीनानां अनुभवविशेषः स्मर्तव्यः । एतन्ममसि निधाय वरवरमुनिः उपदेशरत्नमालायां षोडशतमे श्लोके – नन्न्रु पुनै पल्लाण्दुपाडिय नम् पट्टर्पिरान् – प्रत्युपकारमेव प्रतिफलयन् पल्लाण्डु सुकृ तं आवहति इति अन्वगृह्णन् । तत्रैव रत्नमालायाम् कोदिलमाळ्वार्हल् – तान् मङ्गलमादलाल् (१९) इत्याकारके अस्मिन् ऊनविंशे पद्ये सुस्पष्टमेव प्रथमानुसन्धानस्यास्य महत्वं प्रतिपाद्यते । यथा वेदारम्भे हरिः ओम् इति प्रणवेनैव आरम्भः तथैव दिव्यप्रबन्धस्य
अनुसन्धानसमये सर्वादौ तदर्थभूतस्य तिरुप्पल्लाण्डु ग्रन्थस्य अनुसन्धानं विधीयते । एवमेव दिव्यप्रबन्धानुसन्धानावसानकाले अपि तिरुपल्लाण्डु पाशुरमेकं (पद्यमेकं ) अनुसन्धायैव समापनमपि क्रियते । यथा वेदपारायणकाले प्रणवेनैव आरम्भः , तेनैव परिसमाप्तिश्च । तदेतत् श्रुतौ श्रूयते यथा- यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तदिदं भक्तियोगाचार्यस्य अस्मदाचार्यस्य श्रीमन्नाथमुनेः अनितरसाधारणं योगदानमिति कथ्यते चेदपि नैवातिशयोक्तिः । इत्थं च - अज्ञानम् पोवदु आचार्यज्ञानत्ताले, अपूर्ति पोवदु ईश्वरपूर्तियाले, आर्तिपोवदु अरुळाले, अभिनिवेशम् पोवदु अनुभवत्ताले । (आ.ह ॄ -) इत्याद् युक्तप्रकारेण आचार्यस्य शठकोपसूरेः सम्बन्धेन तदनुसन्धानेन च शमदमादिसाधनसम्पद्भरिताः श्रीमन्नाथमुनयः तदनुगृहीत मन्त्ररत्नबलेन, चतुस्सहस्रगाथा संवलित द्राविडाम्नायाधारित भावपरिपुष्ट्या च भक्तिरूपापन्नं ज्ञानं अधिगम्य परमपुरुषस्य साक्षात्कारार्हा अभवन् । सोSयं साक्षात्कारः समेषां सर्वेषां कृ ते अस्मिन् घोरान्धकारभूयिष्टे कलौ युगे अपि तस्यैव भगवतो नारायणस्य पञ्चोपनिषन्मय दिव्यमङ्गलविग्रह साक्षात्कारद्वारा भवेदिति मत्वैव अन्वगृह्णन् इत्यपि अस्मिन् सभा समुद्रे विनिवेद्य यामुनमुनेः अनुभवस्रोतोनुगुणं नमो नमो वाङ्मनसाति भूमये नमो नमो वाङ्मनसैक भूमये । नमो नमोSनन्त महाविभूतये नमो नमोSनन्त दयैक सिन्धवे ॥ इत्यमृतवचसा स्वीयं प्रह्वीभावं समर्प्य, सर्वेभ्यः एतद् गोष्ठी कार्यकर्तृभ्यश्च प्रणामाञ्चलिं समर्प्य विरमामि । लक्ष्मीनाथाक्यसिन्धौ शठरिपुजलधः प्राप्यकारुण्यनीरम्। नाथाद्रावभ्यशिञ्चत् तदनुरघुवराम्बोज चक्षुर्झराभ्याम् ॥ गत्वा तां यामुनाख्यां सरितमथ यतीन्द्राख्यपद्मा । सम्पूर्य प्राणिसस्ये प्रवहति बहुधा देशिक्रे न्द्रप्रमोघैः ॥ श्रीमन्नाथमुनये नमः । श्रीमते रामानुजाय नमः ।
उपयुक्तग्रन्थसूची १. तत्वमुक्ताकलापः - अद्रव्यसार २. नारदीय अष्टाक्षरब्रह्मविद्या अध्याय १-४ ३. शूक्रनीतिः ४. यजुर्वेदे नारायणोपनिषत् ५. कठोपनिषत्- अ-१, वल्ली-२ ६. हारीतस्मृतिः ७. तत्वत्रयम् ८. भगवद्गीता ९. प्रपन्नामृतम् १०. दिव्यसूरिच्चेरितम् ११. श्रीभाष्यम् १२. तिरुवाय्मोळि १३. आचार्यहृदयम् १४. मुमुक्षुप्पडिk