क्रिया-दीपः पराशरभट्ट-कृतः

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीमते श्री पराशर-भट्टारक-महादेशीकाय नमः

श्रीपराशरभट्टारक-विरचित-क्रियादीपः

विश्वास-प्रस्तुतिः

श्री-पराशर-भट्टार्यः
श्री-रङ्गेश-पुरोहितः
श्रीवत्सांक-नुतश् श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥

पुंसे परस्मै लक्ष्म्यै च
नमस्, ते भरितां स्तुतिम्
कुर्महे ऽहं-क्रिया-लब्ध-
संसाराब्धि-तितीर्षया ॥ (१)

मूलम्

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्सांक-नुतश्श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् ।
कुर्महेऽहंक्रियालब्ध-संसाराब्धि-तितीर्षया ॥ (१)

विश्वास-प्रस्तुतिः

पूर्वाचार्यान् नमस्-स्तोमैर्
अर्चयेद् भक्ति-भावितैः ।
यत्-पाद-भक्तिर् वैकुण्ठ-
पद-प्राप्त्य्-अधिरोहिणी ॥ (२)

मूलम्

पूर्वाचार्यान् नमस्स्तोमैरर्चयेद्भक्तिभावितैः ।
यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी ॥ (२)

विश्वास-प्रस्तुतिः

विष्णोर् नित्यार्चन-विधिं
भुक्ति-मुक्ति-प्रदायकम् ।
सारतः संप्रवक्ष्यामि
सर्वेषां सुग्रहाय च ॥ (३)

मूलम्

विष्णोर्नित्यार्चनविधिं भुक्ति-मुक्ति-प्रदायकम् ।
सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ॥ (३)

विश्वास-प्रस्तुतिः

काल्ये समुत्थाय हरिं
चिन्तयेत्, प्रणमेद्, वदेत्
रूपं, पदाब्जे, नामानि
मनसा, शिरसा, गिरा ॥ (४)+++(5)+++

मूलम्

काल्ये समुत्थाय हरिं चिन्तयेत् प्रणमेद्वदेत् ।
रूपं पदाब्जे नामानि मनसा शिरसा गिरा ॥ (४)

विश्वास-प्रस्तुतिः

प्रक्षाल्य पादाव्, आचम्य
सुगन्धैश् चार्चनं क्रमात् ।
यागभूमिं प्रविश्य+अद्भिस्
सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ (५)

मूलम्

प्रक्षाल्य पादावाचम्य सुगन्धैश्चार्चनं क्रमात् ।
यागभूमिं प्रविश्याद्भिस्सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ (५)

विश्वास-प्रस्तुतिः

अष्टाविंशतिकृत्वस् तु
मन्त्रम् आवर्त्य चेतसा ।
प्राणायाम-त्रयं कुर्यात्
सन्निधाव् आसने स्थितः ॥ (६)

मूलम्

अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा ।
प्राणायामत्रयं कुर्यात्सन्निधावासने स्थितः ॥ (६)

विश्वास-प्रस्तुतिः

श्रीमत्-पराङ्कुशादिभ्यो
भक्तेभ्यश् च निवेदयेत्
विष्णोः निवेदितं सर्वं
पश्चाद् भुञ्जीत च स्वयम् ॥ (७)

मूलम्

श्रीमत्पराङ्कुशादिभ्यो भक्तेभ्यश्च निवेदयेत् ।
विष्णोः निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ॥ (७)

विश्वास-प्रस्तुतिः

कृतं भट्टारकाख्येन
क्रियादीपं समुज्ज्वलम् ।
प्रेक्षध्वं पुण्डरीकाक्ष-
परिचर्यापरायणाः ॥ (८)

मूलम्

कृतं भट्टारकाख्येन क्रियादीपं समुज्ज्वलम् ।
प्रेक्षध्वं पुण्डरीकाक्षपरिचर्यापरायणाः ॥ (८)

विश्वास-प्रस्तुतिः

अघमर्षण-सूक्तेन
स्नानं कुर्याद् यथाविधि ।
शुद्धिं कृत्वात्मानः पूर्वं
सन्ध्या-वन्दन-कर्म च ॥ (९)

मूलम्

अघमर्षणसूक्तेन स्नानं कुर्याद् यथाविधि ।
शुद्धिं कृत्वात्मानः पूर्वं सन्ध्यावन्दनकर्म च ॥ (९)

विश्वास-प्रस्तुतिः

प्रक्षाल्य पादाव् आचम्य शुक्ल-वस्त्रोर्ध्व-पुण्ड्र-धृक् ।
याग-भूमिं प्रविश्याद्भिः सम्प्रोक्ष्य +अस्त्रं च विन्यसेत् ॥ (१०)

मूलम्

प्रक्षाल्य पादावाचम्य शुक्लवस्त्रोर्ध्वपुण्ड्रधृक् ।
यागभूमिं प्रविश्याद्भिः सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ (१०)

विश्वास-प्रस्तुतिः

अष्टाविंशतिकृत्वस् तु
मन्त्रम् आवर्त्य चेतसा ।
प्राणायाम-त्रयं कुर्यात्
सन्निधाव् आसने स्थितः ॥ (११)

मूलम्

अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा ।
प्राणायामत्रयं कुर्यात् सन्निधावासने स्थितः ॥ (११)

विश्वास-प्रस्तुतिः

स्वशेषभूतेन मया
स्वीयैस् सर्व-परिच्छेदैः ।
विधातुं प्रीतमात्मानं
देवः प्रक्रमते स्वयम् ॥ (१२)

मूलम्

स्वशेषभूतेन मया स्वीयैस्सर्वपरिच्छेदैः ।
विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥ (१२)

विश्वास-प्रस्तुतिः

इति बुद्ध्या ऽनुसन्धाय
मन्त्र-न्यासं समाचरेत् ।
पञ्चोपनिषदां न्यासाच्
जायते शक्तिमान् नरः ॥ (१३)

मूलम्

इति बुद्ध्याऽनुसन्धाय मन्त्रन्यासं समाचरेत् ।
पञ्चोपनिषदां न्यासाच् जायते शक्तिमान्नरः ॥ (१३)

विश्वास-प्रस्तुतिः

“ॐ षां नमः पराये"ति
“परमेष्ठ्यात्मने नमः” ।
“ॐ यां नमः पराये"ति
“नमो"ऽन्तः “पुरुषात्मने” ॥ (१४)

मूलम्

ॐ षां नमः परायेति परमेष्ठ्यात्मने नमः ।
ॐ यां नमः परायेति नमोऽन्तः पुरुषात्मने ॥ (१४)

विश्वास-प्रस्तुतिः

“ॐ रां नमः पराये"ति
ततो “विश्वात्मने नमः” ।
“ॐ वां नमः पराये"ति
स्यान् “निवृत्त्यात्मने नमः” ॥ (१५)

मूलम्

ॐ रां नमः परायेति ततो विश्वात्मने नमः ।
ॐ वां नमः परायेति स्यान्निवृत्त्यात्मने नमः ॥ (१५)

विश्वास-प्रस्तुतिः

“ॐ लां नमः पराये"ति
ततस् “सर्वात्मने नमः” ।
शिरो-नासाग्र-हृदय-
गुह्य-पादेषु विन्यसेत् ॥ (१६)

मूलम्

ॐ लां नमः परायेति ततस्सर्वात्मने नमः ।
शिरो-नासाग्र-हृदय-गुह्यपादेषु विन्यसेत् ॥ (१६)

विश्वास-प्रस्तुतिः

कुम्भं तु वामतस् स्वस्य
शोधनादि-समन्वितम् ।
निदद्ध्यान् मूलमन्त्रास्त्र-
मन्त्राभ्याम् अभिमन्त्रितम् ॥ (१७)

मूलम्

कुम्भं तु वामतस्स्वस्य शोधनादि-समन्वितम् ।
निदद्ध्यान्मूलमन्त्रास्त्र-मन्त्राभ्यामभिमन्त्रितम् ॥ (१७)

विश्वास-प्रस्तुतिः

निधाय पूजाद्रव्याणि
दक्षिणे ऽन्यानि देशिकः ।
तत्रार्घ्य-पाद्याचमन-
स्नानपात्राणि कल्पयेत्

मूलम्

निधाय पूजाद्रव्याणि दक्षिणेऽन्यानि देशिकः ।
तत्रार्घ्य-पाद्याचमन-स्नानपात्राणि कल्पयेत् ॥

विश्वास-प्रस्तुतिः

सिद्धार्थम् अक्षतं चैव
कुशाग्रं तिलम् एवच ॥ (१८)

यवं गन्धं फलं पुष्पम्
अर्घ्ये द्रव्याणि निक्षिपेत्
पाद्ये दूर्वां विष्णु-पर्णीं
श्यामाकं पद्मम् एव च ॥ (१९)

मूलम्

सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेवच ॥ (१८)

यवं गन्धं फलं पुष्पमर्घ्ये द्रव्याणि निक्षिपेत् ।
पाद्ये दूर्वां विष्णुपर्णीं श्यामाकं पद्ममेव च ॥ (१९)

विश्वास-प्रस्तुतिः

एला-लवङ्ग-तक्कोल-जातीर् आचमनीयके
कोष्ठम्माञ्ची-हरिद्रे द्वे मुराशैलेय-चम्पकाः॥ (२०)

मूलम्

एलाल-वङ्गत-क्कोल-जातीराचमनीयके ।
कोष्ठम्माञ्ची-हरिद्रे द्वे मुराशैलेय-चम्पकाः॥ (२०)

विश्वास-प्रस्तुतिः

वचाकचोरलामञ्चे स्नानीयस्यौषधीः निक्षिपेत् ।
गन्धाक्षते तु तुलसीं शुद्धो तु विनिक्षिपेत् ॥ (२१)

मूलम्

वचाकचोरलामञ्चे स्नानीयस्यौषधीः निक्षिपेत् ।
गन्धाक्षते तु तुलसीं शुद्धो तु विनिक्षिपेत् ॥ (२१)

विश्वास-प्रस्तुतिः

सव्याप-सव्यौ च करौ बीजाभ्यां सोमसूर्ययोः ।
विशोध्याप्लाव्य च सुधादोग्ध्र्या सुरभिमुद्रया ॥ (२२)

मूलम्

सव्याप-सव्यौ च करौ बीजाभ्यां सोमसूर्ययोः ।
विशोध्याप्लाव्य च सुधादोग्ध्र्या सुरभिमुद्रया ॥ (२२)

विश्वास-प्रस्तुतिः

अमृते नैव पूर्णानि पात्राण्यनुविचिन्त्य च ।
पवित्र-मूलमन्त्राभ्याम् अभिमन्त्र्यार्घ्यपात्रकम् ॥ (२३)

मूलम्

अमृते नैव पूर्णानि पात्राण्यनुविचिन्त्य च ।
पवित्र-मूलमन्त्राभ्याम् अभिमन्त्र्यार्घ्यपात्रकम् ॥ (२३)

विश्वास-प्रस्तुतिः

अन्यानि मूलमन्त्रेण दद्यात्स्र-गन्धपूर्वकम् ।
उद्धरण्यार्घ्य-सलिलमादाय प्रोक्षयेत् ततः ॥ (२४)

मूलम्

अन्यानि मूलमन्त्रेण दद्यात्स्र-गन्धपूर्वकम् ।
उद्धरण्यार्घ्य-सलिलमादाय प्रोक्षयेत् ततः ॥ (२४)

विश्वास-प्रस्तुतिः

आत्मानं यागभूमिं च पूजाद्रव्याणि देशिकः ।
अभ्यर्च्य हृदये विष्णुमर्घ्य-स्रग्गन्ध-धूप-पूर्वकैः ॥ (२५)

मूलम्

आत्मानं यागभूमिं च पूजाद्रव्याणि देशिकः ।
अभ्यर्च्य हृदये विष्णुमर्घ्य-स्रग्गन्ध-धूप-पूर्वकैः ॥ (२५)

विश्वास-प्रस्तुतिः

पश्चादाधारशक्त्यादि कल्पयेदासनं बहिः ।
अर्चयेच्चाखिल-जगदाधारं कूर्मरूपिणम् ॥ (२६)

मूलम्

पश्चादाधारशक्त्यादि कल्पयेदासनं बहिः ।
अर्चयेच्चाखिल-जगदाधारं कूर्मरूपिणम् ॥ (२६)

विश्वास-प्रस्तुतिः

नारायणं चतुर्थ्यन्तं नमसा योज्य देशिकः ।
अनन्तरम् अनन्ताय नमो भूम्यै नमस्तथा ॥ (२७)

मूलम्

नारायणं चतुर्थ्यन्तं नमसा योज्य देशिकः ।
अनन्तरम् अनन्ताय नमो भूम्यै नमस्तथा ॥ (२७)

विश्वास-प्रस्तुतिः

श्रीवैकुण्ठं दिव्यपूर्वं लोकं जनपदं तथा ।
नगरं च विमानानि चतुर्थ्यन्तं समर्पयेत् ॥ (२८)

मूलम्

श्रीवैकुण्ठं दिव्यपूर्वं लोकं जनपदं तथा ।
नगरं च विमानानि चतुर्थ्यन्तं समर्पयेत् ॥ (२८)

विश्वास-प्रस्तुतिः

अनन्तरूपिणे रत्न-मण्टपाय नमो नमः।
अनन्ताय नमः इत्यास्तरणं परिकल्पयेत् ॥ (२९)

मूलम्

अनन्तरूपिणे रत्न-मण्टपाय नमो नमः।
अनन्ताय नमः इत्यास्तरणं परिकल्पयेत् ॥ (२९)

विश्वास-प्रस्तुतिः

नमो धर्माय ज्ञानाय
वैराग्याय नमस्तथा ।
ऐश्वर्याय नमः कोणेष्व्
आग्नेयादिषु विन्यसेत् ॥ (३०)

मूलम्

नमो धर्माय ज्ञानाय वैराग्याय नमस्तथा ।
ऐश्वर्याय नमः कोणेष्वाग्नेयादिषु विन्यसेत् ॥ (३०)

विश्वास-प्रस्तुतिः

नमोऽधर्मायाऽज्ञानायाऽवैराग्याय नमस्तथा ।
अनैश्वर्याय च नमो दिक्क्षु प्राच्यादिषु न्यसेत् ॥ (३१)

मूलम्

नमोऽधर्मायाऽज्ञानायाऽवैराग्याय नमस्तथा ।
अनैश्वर्याय च नमो दिक्क्षु प्राच्यादिषु न्यसेत् ॥ (३१)

विश्वास-प्रस्तुतिः

नमः पद्माय चेत्युक्त्वा पीठं पद्मासनं न्यसेत् ।
गृहीतचामरादिभ्यः शक्तिभ्योऽष्टदलेषु च ॥ (३२)

मूलम्

नमः पद्माय चेत्युक्त्वा पीठं पद्मासनं न्यसेत् ।
गृहीतचामरादिभ्यः शक्तिभ्योऽष्टदलेषु च ॥ (३२)

विश्वास-प्रस्तुतिः

विमल्कोत्कर्षिणीज्ञानाक्रियायोगा तथैव च ।
प्रह्वासत्यातथेशाना तासां नाम्ना समर्चयेत् ॥ (३३)

मूलम्

विमल्कोत्कर्षिणीज्ञानाक्रियायोगा तथैव च ।
प्रह्वासत्यातथेशाना तासां नाम्ना समर्चयेत् ॥ (३३)

विश्वास-प्रस्तुतिः

अनुग्रहं कर्णिकायां पूर्वपार्श्वे समर्चयेत् ।
जगत्प्रकृतये योगपीठाय च नमोऽर्चयेत् ॥ (३४)

मूलम्

अनुग्रहं कर्णिकायां पूर्वपार्श्वे समर्चयेत् ।
जगत्प्रकृतये योगपीठाय च नमोऽर्चयेत् ॥ (३४)

विश्वास-प्रस्तुतिः

तस्मिन् सहस्रशीर्षाय नागराजाय वै नमः ।
पादपीठपुरस्ताच्च तत्तन्नामभिरेवच ॥ (३५)

मूलम्

तस्मिन् सहस्रशीर्षाय नागराजाय वै नमः ।
पादपीठपुरस्ताच्च तत्तन्नामभिरेवच ॥ (३५)

विश्वास-प्रस्तुतिः

आवाहनार्घ्यस्रग्गन्ध-धूप-दीपैश्च पञ्चभिः।
आधारादीनि तत्त्वानि पीठान्तं च समर्चयेत् ॥ (३६)

मूलम्

आवाहनार्घ्यस्रग्गन्ध-धूप-दीपैश्च पञ्चभिः।
आधारादीनि तत्त्वानि पीठान्तं च समर्चयेत् ॥ (३६)

विश्वास-प्रस्तुतिः

गुरूनभ्यर्चयेद्योगपीठस्योत्तरपश्चिमे ।
अर्चां कुर्वीत देवस्य गुर्वनुज्ञापुरस्सरम् ॥ (३७)

मूलम्

गुरूनभ्यर्चयेद्योगपीठस्योत्तरपश्चिमे ।
अर्चां कुर्वीत देवस्य गुर्वनुज्ञापुरस्सरम् ॥ (३७)

विश्वास-प्रस्तुतिः

पुष्पांजलिः प्रदातव्यो भक्त्या प्रत्युपचारतः ।
प्रत्यासनं प्रकुर्वीत पादुकार्घ्यादि पञ्चकम् ॥ (३८)

मूलम्

पुष्पांजलिः प्रदातव्यो भक्त्या प्रत्युपचारतः ।
प्रत्यासनं प्रकुर्वीत पादुकार्घ्यादि पञ्चकम् ॥ (३८)

विश्वास-प्रस्तुतिः

आवाहने धूपदीपे घण्टां भोज्ये निनादयेत् ।
क्षीराब्धेः दहराकाशात् वैकुण्ठद्वाऽर्कमण्डलात् ॥ (३९)

मूलम्

आवाहने धूपदीपे घण्टां भोज्ये निनादयेत् ।
क्षीराब्धेः दहराकाशात् वैकुण्ठद्वाऽर्कमण्डलात् ॥ (३९)

विश्वास-प्रस्तुतिः

अथवाऽसारसंसार-सारभूत-विभूतिकात् ।
श्रीरङ्गात् प्रणताधीन-परमात्म-परिष्कृतात् ॥ (४०)

मूलम्

अथवाऽसारसंसार-सारभूत-विभूतिकात् ।
श्रीरङ्गात् प्रणताधीन-परमात्म-परिष्कृतात् ॥ (४०)

विश्वास-प्रस्तुतिः

सविभूतिक-मावाह्य हरिं लक्ष्मींच दक्षिणे ।
वामे भूमिं च नीळां च सर्वाराधन-माचरेत् ॥ (४१)

मूलम्

सविभूतिक-मावाह्य हरिं लक्ष्मींच दक्षिणे ।
वामे भूमिं च नीळां च सर्वाराधन-माचरेत् ॥ (४१)

विश्वास-प्रस्तुतिः

मन्त्रयोग-स्समाह्वानं करपुष्पोपदर्शनम् ।
बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ॥ (४२)

मूलम्

मन्त्रयोग-स्समाह्वानं करपुष्पोपदर्शनम् ।
बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ॥ (४२)

विश्वास-प्रस्तुतिः

प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।
सान्निध्य-याचनं चैव तत्राह्वानस्य सत्क्रियाः ॥ (४३)

मूलम्

प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।
सान्निध्य-याचनं चैव तत्राह्वानस्य सत्क्रियाः ॥ (४३)

विश्वास-प्रस्तुतिः

किरीटं कुण्डलं चैव वनमालां तथैव च ।
कौस्तुभं हार-केयूरे चारु पीतांबरं तथा ॥ (४४)

मूलम्

किरीटं कुण्डलं चैव वनमालां तथैव च ।
कौस्तुभं हार-केयूरे चारु पीतांबरं तथा ॥ (४४)

विश्वास-प्रस्तुतिः

चक्रं गदां नन्दनकञ्च पाञ्चजन्यं तथा धनुः ।
पादसंवाहिनीः देवीराराध्याग्रे खगेश्वरम् ॥ (४५)

मूलम्

चक्रं गदां नन्दनकञ्च पाञ्चजन्यं तथा धनुः ।
पादसंवाहिनीः देवीराराध्याग्रे खगेश्वरम् ॥ (४५)

विश्वास-प्रस्तुतिः

प्रागुत्तरे च सेनेशं शेषं भागे परे स्थितम् ।
चण्डप्रचण्डौ प्राग्दावारे याम्ये भद्र-सुभद्रकौ ॥ (४६)

मूलम्

प्रागुत्तरे च सेनेशं शेषं भागे परे स्थितम् ।
चण्डप्रचण्डौ प्राग्दावारे याम्ये भद्र-सुभद्रकौ ॥ (४६)

विश्वास-प्रस्तुतिः

वारुण्यां जय-विजयौ सौम्ये धातृविधातृकौ ।
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः ॥ (४७)

मूलम्

वारुण्यां जय-विजयौ सौम्ये धातृविधातृकौ ।
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः ॥ (४७)

विश्वास-प्रस्तुतिः

शङ्कुकर्ण-स्सर्वनेत्र-स्सुमुख-स्सुप्रतिष्ठितः ।
प्राच्यादि-दिक्क्षु क्रमशः प्रत्येकं च समर्चयेत् ॥ (४८)

मूलम्

शङ्कुकर्ण-स्सर्वनेत्र-स्सुमुख-स्सुप्रतिष्ठितः ।
प्राच्यादि-दिक्क्षु क्रमशः प्रत्येकं च समर्चयेत् ॥ (४८)

विश्वास-प्रस्तुतिः

अर्घ्यात् सलिलमादाय प्रदर्श्य प्रोक्षयद्धरिम् ।
पात्र-प्रक्षाळनं कृत्वा पादौ प्रक्षाळयेद्धरेः ॥ (४९)

मूलम्

अर्घ्यात् सलिलमादाय प्रदर्श्य प्रोक्षयद्धरिम् ।
पात्र-प्रक्षाळनं कृत्वा पादौ प्रक्षाळयेद्धरेः ॥ (४९)

विश्वास-प्रस्तुतिः

प्लोताञ्चलेन सम्मृज्य गन्ध-पुष्पाणि निक्षिपेत् ।
देवाया चमसं धूपं मधुपर्कं तथैव च ॥ (५०)

मूलम्

प्लोताञ्चलेन सम्मृज्य गन्ध-पुष्पाणि निक्षिपेत् ।
देवाया चमसं धूपं मधुपर्कं तथैव च ॥ (५०)

विश्वास-प्रस्तुतिः

पुनराचमनं चैव तांबूलमुखवासने ।
दत्वाऽधिरोप्य देवेशं स्नानासन-मनन्यधीः ॥ (५१)

मूलम्

पुनराचमनं चैव तांबूलमुखवासने ।
दत्वाऽधिरोप्य देवेशं स्नानासन-मनन्यधीः ॥ (५१)

विश्वास-प्रस्तुतिः

व्यपोह्य वस्त्रमाल्यानि स्नानशाटीं प्रदाय च ।
पादपीठं दन्तकाष्ठं जिह्वानिर्लेहनं तथा ॥ (५२)

मूलम्

व्यपोह्य वस्त्रमाल्यानि स्नानशाटीं प्रदाय च ।
पादपीठं दन्तकाष्ठं जिह्वानिर्लेहनं तथा ॥ (५२)

विश्वास-प्रस्तुतिः

मुखशोधनं चाचमन मादर्शं हस्तशोधनम् ।
प्रदर्शयेत् ध्यानमात्रात् ताम्बूलमुखवासने ॥ (५३)

मूलम्

मुखशोधनं चाचमन मादर्शं हस्तशोधनम् ।
प्रदर्शयेत् ध्यानमात्रात् ताम्बूलमुखवासने ॥ (५३)

विश्वास-प्रस्तुतिः

देवस्य दर्शनान्मात्रां गुरवे तदनन्तरम् ।
अर्घ्याद्यैस्तं समभ्यर्च्य दातव्या तद्वदासने ॥ (५४)

मूलम्

देवस्य दर्शनान्मात्रां गुरवे तदनन्तरम् ।
अर्घ्याद्यैस्तं समभ्यर्च्य दातव्या तद्वदासने ॥ (५४)

विश्वास-प्रस्तुतिः

तैलमुद्वर्तयेच्चूर्णैः स्नानशाटीं प्रदापयेत् ।
आमलक्य-श्वेत-लोद्ध्रजनीकत-चन्दनैः ॥ (५५)

मूलम्

तैलमुद्वर्तयेच्चूर्णैः स्नानशाटीं प्रदापयेत् ।
आमलक्य-श्वेत-लोद्ध्रजनीकत-चन्दनैः ॥ (५५)

विश्वास-प्रस्तुतिः

ग्रन्थिपर्णि त्वगगरु-प्रियङ्गुनळदैः क्रमात् ।
सिद्धार्थनर्वौषधिभिः स्नापयेद्रत्न-वारिभिः ॥ (५६)

मूलम्

ग्रन्थिपर्णि त्वगगरु-प्रियङ्गुनळदैः क्रमात् ।
सिद्धार्थनर्वौषधिभिः स्नापयेद्रत्न-वारिभिः ॥ (५६)

विश्वास-प्रस्तुतिः

एतद्द्रव्ययुतैः अद्भिः प्रत्येकमभिषेचयेत् ।
तेष्वन्तरान्तराशुद्ध-सलिलेनाभिषेचयेत् ॥ (५७)

मूलम्

एतद्द्रव्ययुतैः अद्भिः प्रत्येकमभिषेचयेत् ।
तेष्वन्तरान्तराशुद्ध-सलिलेनाभिषेचयेत् ॥ (५७)

विश्वास-प्रस्तुतिः

हरिद्रालेपनस्नानं प्लोतवस्त्रोत्तरीयकम् ।
ब्रह्मसूत्रं चाचमनं गन्धपुष्पाद्यलङ्कृतिम् ॥ (५८)

मूलम्

हरिद्रालेपनस्नानं प्लोतवस्त्रोत्तरीयकम् ।
ब्रह्मसूत्रं चाचमनं गन्धपुष्पाद्यलङ्कृतिम् ॥ (५८)

विश्वास-प्रस्तुतिः

धूपमाचमनं चैव दद्याद्देवाय देशिकः ।
सहस्रधारास्नपनं वेदवेद्यादिघोषणम् ॥ (५९)

मूलम्

धूपमाचमनं चैव दद्याद्देवाय देशिकः ।
सहस्रधारास्नपनं वेदवेद्यादिघोषणम् ॥ (५९)

विश्वास-प्रस्तुतिः

नीराजनं प्लोतवस्त्रमुपवीतोत्तरीयके ।
पुनराचमनं दद्यात् अलङ्कारासनं ततः ॥ (६०)

मूलम्

नीराजनं प्लोतवस्त्रमुपवीतोत्तरीयके ।
पुनराचमनं दद्यात् अलङ्कारासनं ततः ॥ (६०)

विश्वास-प्रस्तुतिः

स्नानपात्रादृतेऽर्घ्यादि कल्पयेद्वस्त्रभूषणे ।
गन्धमाल्योपवीतं च दद्यादाचमनं पुनः ॥ (६१)

मूलम्

स्नानपात्रादृतेऽर्घ्यादि कल्पयेद्वस्त्रभूषणे ।
गन्धमाल्योपवीतं च दद्यादाचमनं पुनः ॥ (६१)

विश्वास-प्रस्तुतिः

ऊर्ध्वपुण्ड्रमथादर्शमज्जनं धूपदीपकौ ।
पुनराचमनं दद्यात् सध्वजच्छत्रचामरम् ॥ (६२)

मूलम्

ऊर्ध्वपुण्ड्रमथादर्शमज्जनं धूपदीपकौ ।
पुनराचमनं दद्यात् सध्वजच्छत्रचामरम् ॥ (६२)

विश्वास-प्रस्तुतिः

गजाश्व-रथतार्क्ष्यं च शङ्ख-काहळशृङ्गकान् ।
नृत्तवादित्रगीतादि दर्शयेदर्चयेत्सुधीः ॥ (६३)

मूलम्

गजाश्व-रथतार्क्ष्यं च शङ्ख-काहळशृङ्गकान् ।
नृत्तवादित्रगीतादि दर्शयेदर्चयेत्सुधीः ॥ (६३)

विश्वास-प्रस्तुतिः

प्रदक्षिणं प्रतिदिशं नत्वा पुष्पाणि निक्षिपेत् ।
सत्पूगफलतांबूलं सकर्पूरं निवेदयेत् ॥ (६४)

मूलम्

प्रदक्षिणं प्रतिदिशं नत्वा पुष्पाणि निक्षिपेत् ।
सत्पूगफलतांबूलं सकर्पूरं निवेदयेत् ॥ (६४)

विश्वास-प्रस्तुतिः

समस्तैर्द्भगवन्मन्त्रैः दद्यात्पुष्पाञ्जलिं ततः ।
ततस्तत्परिवाराणां धूपान्तं वा समर्चयेत् ॥ (६५)

मूलम्

समस्तैर्द्भगवन्मन्त्रैः दद्यात्पुष्पाञ्जलिं ततः ।
ततस्तत्परिवाराणां धूपान्तं वा समर्चयेत् ॥ (६५)

विश्वास-प्रस्तुतिः

भोज्यसने संनिवेश्य मधुपर्कं निवेदयेत् ।
आचम्य गोतिलाख्यां च मात्रां देवस्य दर्शयेत् ॥ (६६)

मूलम्

भोज्यसने संनिवेश्य मधुपर्कं निवेदयेत् ।
आचम्य गोतिलाख्यां च मात्रां देवस्य दर्शयेत् ॥ (६६)

विश्वास-प्रस्तुतिः

पायसान्नं गुडान्नं च मुद्दान्नं दध्यमोदनम् ।
मधु-क्षीराज्यसंपन्नं सर्वापूपफलान्वितम् ॥ (६७)

मूलम्

पायसान्नं गुडान्नं च मुद्दान्नं दध्यमोदनम् ।
मधु-क्षीराज्यसंपन्नं सर्वापूपफलान्वितम् ॥ (६७)

विश्वास-प्रस्तुतिः

निवेदयेद्यथैश्वर्यं हविर्देवाय सादरम् ।
निवेदित-चतुर्भागं सेनेशाय निधाय च ॥ (६८)

मूलम्

निवेदयेद्यथैश्वर्यं हविर्देवाय सादरम् ।
निवेदित-चतुर्भागं सेनेशाय निधाय च ॥ (६८)

विश्वास-प्रस्तुतिः

अनुपानं चाचमनम् अर्हणं हस्तशोधनम् ।
मुखवासं च तांबूलं देवायास्मै निवेदयेत् ॥ (६९)

मूलम्

अनुपानं चाचमनम् अर्हणं हस्तशोधनम् ।
मुखवासं च तांबूलं देवायास्मै निवेदयेत् ॥ (६९)

विश्वास-प्रस्तुतिः

निवेदितान्नमुद्धृत्य गुरोर्दद्यात्सदक्षिणाम् ।
अर्घ्याद्यष्टोपचारैश्च देवं मन्त्रासनेऽर्चयेत् ॥ (७०)

मूलम्

निवेदितान्नमुद्धृत्य गुरोर्दद्यात्सदक्षिणाम् ।
अर्घ्याद्यष्टोपचारैश्च देवं मन्त्रासनेऽर्चयेत् ॥ (७०)

विश्वास-प्रस्तुतिः

स्तोत्रैस्तुत्वा प्रणम्याधि पर्यङ्केस्वास्तृते हरिम् ।
अर्घ्यादिभिरथाभ्यार्च्य रक्षां मन्त्रेण कारयेत् ॥ (७१)

मूलम्

स्तोत्रैस्तुत्वा प्रणम्याधि पर्यङ्केस्वास्तृते हरिम् ।
अर्घ्यादिभिरथाभ्यार्च्य रक्षां मन्त्रेण कारयेत् ॥ (७१)

विश्वास-प्रस्तुतिः

विष्वक्सेनाय दातव्यं पश्चात् पूर्वोद्धृतं हविः ।
नागराजगरुत्मभ्यां हविरन्यन्निवेदयेत् ॥ (७२)

मूलम्

विष्वक्सेनाय दातव्यं पश्चात् पूर्वोद्धृतं हविः ।
नागराजगरुत्मभ्यां हविरन्यन्निवेदयेत् ॥ (७२)

विश्वास-प्रस्तुतिः

एवं सपरिवाराय देवाय परमात्मने ।
निवेद्यात्मानमात्मीयं प्रणम्यार्चां समापयेत् ॥ (७३)

मूलम्

एवं सपरिवाराय देवाय परमात्मने ।
निवेद्यात्मानमात्मीयं प्रणम्यार्चां समापयेत् ॥ (७३)

विश्वास-प्रस्तुतिः

चण्डादि द्वारपालादीन्युमुदादीन् गणानपि ।
अर्घ्यादिभिस्समभ्यर्च्य ह विशेषं बलिं क्षिपेत् ॥ (७४)

मूलम्

चण्डादि द्वारपालादीन्युमुदादीन् गणानपि ।
अर्घ्यादिभिस्समभ्यर्च्य ह विशेषं बलिं क्षिपेत् ॥ (७४)

विश्वास-प्रस्तुतिः

विष्णोर्निवेदितं सर्वं गुरुभ्यश्च निवेदयेत् ।
श्रीशठारिपरकालयतीन्द्रेभ्यो निवेदयेत् ॥ (७५)

मूलम्

विष्णोर्निवेदितं सर्वं गुरुभ्यश्च निवेदयेत् ।
श्रीशठारिपरकालयतीन्द्रेभ्यो निवेदयेत् ॥ (७५)

विश्वास-प्रस्तुतिः

विष्णोर्निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ।
कृतं श्रीभट्टकार्येण क्रियादीपं समुज्वलम् ।
प्रेक्षध्वं पुण्डरीकाक्ष-परिचर्यापरायणाः ॥ (७६)

मूलम्

विष्णोर्निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ।
कृतं श्रीभट्टकार्येण क्रियादीपं समुज्वलम् ।
प्रेक्षध्वं पुण्डरीकाक्ष-परिचर्यापरायणाः ॥ (७६)

इति श्री पराशरभट्टारक-विरचितः क्रियादीपः सम्पूर्णः