विश्वास-प्रस्तुतिः
ओम्-अर्थाय नमो नारा-
यणायेत्य् एक-वाक्यता ।
न्यासोऽत्र नमसोऽर्थस्
स्यात्, तेनोपाय-परो मनुः ॥(5)
मूलम्
ओमर्थाय नमो नारायणायेत्येकवाक्यता ।
न्यासोऽत्र नमसोऽर्थस्स्यात्तेनोपायपरो मनुः ॥
विश्वास-प्रस्तुतिः
ओम्-अर्थ-नारायणीय-
शेष-वृत्तिं “नमो” गिरा ।
उपलक्ष्य तद्-एकात्मा(→एकवाक्यः)
कृत्स्नः (शेष-वृत्ति-रूप-मोक्ष-)फल-परो मनुः ॥
मूलम्
ओमर्थनारायणीयशेषवृत्तिं नमो गिरा ।
उपलक्ष्य तदेकात्मा कृत्स्नः फलपरो मनुः ॥
विश्वास-प्रस्तुतिः
(ॐ नमः, नारायणाय)
आर्थ-नारायणस्यैव
स्वम् अहं, नास्म्य् अहं मम।
इति द्विवाक्ये जीवेश-
स्वरूपे, तत्परो मनुः ॥
मूलम्
आर्थनारायणस्यैव स्वमहं नास्म्यहं मम ।
इति द्विवाक्ये जीवेशस्वरूपे तत्परो मनुः ॥
विश्वास-प्रस्तुतिः
(ॐ नमः, नारायणाय??)
“आर्थनारायणस्याहं
भरत्वेनार्पितो, न मे।
भरोऽस्मी"ति द्विवाक्यस् सन्न्
उपायैकपरो मनुः ॥
मूलम्
आर्थनारायणस्याहं भरत्वेनार्पितो न मे ।
भरोऽस्मीति द्विवाक्यस्सन् उपायैकपरो मनुः ॥
विश्वास-प्रस्तुतिः
(ॐ नमः, नारायणाय)
“आर्थनारायणस्याहं
किङ्करस्, तद्-विरोधि मे ।
न स्याद्” इति द्विवावाक्यस् सन्
पुम्-अर्थैकपरो मनुः ॥
मूलम्
आर्थनारायणस्याहं किङ्करस्तद्विरोधि मे ।
न स्यादिति द्विवावाक्यस्सन् पुमर्थैकपरो मनुः ॥
विश्वास-प्रस्तुतिः
(ॐ नमो, नारायण, आय)
आयैवाहं, नमो, नारा-
यण-कैङ्कर्यम् अस्तु मे ।
इति त्रिवाक्यो जीवेश-
स्वरूपफलतत्परः ॥
मूलम्
आयैवाहं नमो नारायणकैङ्कर्यमस्तु मे ।
इति त्रिवाक्यो जीवेशस्वरूपफलतत्परः ॥
विश्वास-प्रस्तुतिः
(ॐ नमो, नारायण, आय)
आयैवास्मीत्य् एकवाक्यात्
स्वरूपं शेषवाक्ययोः ।
अनिष्टं नश्यताद्, इष्टं
स्याद् इत्याह त्रिवाक्यतः ॥
मूलम्
आयैवास्मीत्येकवाक्यात् स्वरूपं शेषवाक्ययोः ।
अनिष्टं नश्यतादिष्टं स्यादित्याह त्रिवाक्यतः ॥
विश्वास-प्रस्तुतिः
(ॐ, नमो, नारायणाय)
स्वरूपं तार-नमसोर्
अर्थो गोप्तृत्व-याचनम् ।
शेषस् स्याद् अस्त्रिवाक्योऽसौ
स्वरूपोपाय-तत्-परः ॥
मूलम्
स्वरूपं तारनमसोरर्थो गोप्तृत्वयाचनम् ।
शेषस्स्यातस्त्रिवाक्योऽसौ स्वरूपोपायतत्परः ॥
विश्वास-प्रस्तुतिः
(ॐ, नमो नारायणाय)
केचित् तु चरम-श्लोके
द्वये चोक्त-क्रमाद् इह ।
भर-न्यासपरं तारं,
शेषं फलपरं विदुः ॥
मूलम्
केचित्तु चरमश्लोके द्वये चोक्तक्रमादिह ।
भरन्यासपरं तारं शेषं फलपरं विदुः ॥