एकादशं पर्व
यतिसंस्कारविधिः
अथ यतीनां संस्कारविधिरुच्यते1 । तत्र बोधायनः2।
यतीनां प्रेतसंस्कारविधिं वक्ष्याम्यशेषतः ।
स्नात्वा गृहस्थः शुद्धात्मा यतिसंस्कारमाचरेत् ॥ 1 ॥
शिक्ये शरीरमारोप्य गन्धमाल्यैरलंकृतम् ।
घोषितं जयशब्देन दुन्दुभीनां रवेण च ।
प्राचीमुदीचीं वा गत्वा शुद्धदेशं समाश्रयेत् ॥ 2 ॥
नदीतीरेऽश्वत्थवृक्षे देवगृहे गोष्ठे ब्रह्मवृक्षस्याधस्ताद्वा व्याहृतिभिर्दण्डायामप्रमाणं देवयजनं खात्वा सप्तव्याहृतिभिः प्रोक्ष्य पुरुषसूक्तेन स्नापयित्वा गन्धादिभिरलंकृत्य विष्णो रक्षस्वेति निदधाति1 । इदं विष्णुर्विचक्रम इति दक्षिणहस्ते दण्डं निदधाति2 । हंसः शुचिषदित्यृचा हृदयदेशे जपेत्3 । पुरुषसूक्तं भ्रुवोर्मध्ये जपेत्4 । ब्रह्म जज्ञानमिति मूर्ध्नि देशे जपेत्5 । भूमिर्भूमिमगादिति मूर्धानं भेदयेत्6 । गायत्र्याभिमर्षणं7 । प्रणवेन देवयजनं पूरयेत्8 । पुनः पुनर्गायत्र्या देशसंस्कारः9 । सृगालकाकादिबाधो यदि दोषमापादयेत्कर्तुस्तद्देशेऽनावृष्टिर्भविष्यति10 । तस्मात्पुनः पुनः पूरयेत्11 । तस्मिन्प्रच्छादयेत्12 । नाशौचं नोदकक्रिया13 । यतेर्वहनखननस्पर्शनाच्च सद्योऽवभृथस्नानं भवति14 । पदे पदेऽश्वमेधफलं पुरुषः प्राप्नोति15 ।
इत्याह भगवान्बोधायनः16 ॥ 3 ॥
ब्रह्मनिष्ठे मृते पुत्रः खनेच्छिष्योऽथवा गृही ।
तस्य तेनैव कर्तव्यो नारायणबलिस्तथा ॥ 4 ॥
न वह्निर्नोदकं श्राद्धं नापि ब्राह्मणतर्पणम् ।
सर्वं नारायणोद्दिष्टमेकोद्दिष्टवदाचरेत् ॥ 5 ॥
यतिमात्रे मृतेऽप्येतद्विधानं कवयो विदुः ।
अहन्येकादशे प्राप्ते पार्वणं तु विधीयते ॥ 6 ॥
सपिण्डीकरणं चैषां न कुर्वीत कदाचन ।
त्रिदण्डग्रहणादेव प्रेतत्वं नैव गच्छति ॥ 7 ॥
एतदेव हि पर्याप्तं भिक्षोरेकान्तशीलिनः ।
न चास्य क्रियते कश्चित्क्रियते न स कस्यचित् ॥ 8 ॥
अथापरो विधिर्दृष्टो व्याहृतिभिस्तु पूर्ववत् ।
ताभिरेव निधायैनं ताभिः कृत्वा तथावटम् ॥ 9 ॥
सप्तव्याहृतिभिश्चैव प्रोक्ष्य तच्चावटं पुनः ।
पिष्टप्रस्कन्दमन्त्रेण देवो वः सवितादिना ॥ 10 ॥
दत्वा शिक्यं तु निक्षिप्य पार्श्वे दण्डं तु निक्षिपेत् ।
सखा मेत्यादिना शिक्यं हृदयेऽस्य विनिक्षिपेत् ॥ 11 ॥
येन देवाः पवित्रेण मुखे जलपवित्रकम् ।
त्वं नो अइति न्यस्य कुण्डिकां दक्षिणे करे ॥ 12 ॥
भूमिर्भूमिमगान्मन्त्रमुक्त्वा पात्रं तथोदरे ।
होतृभिः समुपस्थाय प्रोक्ष्य व्याहृतिसप्तकैः ॥ 13 ॥
पूरयेदवटं मन्त्रमनिासिः मिध्यते ।
यथा सृगालाः श्वानो वा नोद्धरेयुः पुनस्तथा ॥ 14 ॥
प्राक्साकिानां भिक्षूणां निदध्याद्वा बिले क्षितौ ।
निरीनां दहेद्विप्रः संसिद्धानां कलेवरम् ॥ 15 ॥
एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसंस्क्रियाः ।
एतेषां तु विधानेन कुर्यादब्दे सपिण्डताम् ।
न कुर्यात्पार्वणादन्यद् ब्रह्मभूताय भिक्षवे ॥ 16 ॥
अत्रिः1 ।
पुत्रो गृहस्थः शुद्धात्मा यतिसंस्कारमाचरेत् ।
शिक्ये शरीरमारोप्य गन्धमाल्यैरलंकृतम् ॥ 17 ॥
तुषामित्र चोत्पाद्य संस्कारार्थं यतेर्हरेत् ।
घोषितं जयशब्देन दुन्दुभीनां रवेण च ।
प्राचीमुदीचीं वा गत्वा शुद्धदेशं समाचरेत् ॥ 18 ॥
खात्वा व्याहृतिभिर्भूमिं दण्डायामप्रमाणकम् ।
सप्तव्याहृतिभिः प्रोक्ष्य तत्र दारुचितिर्भवेत् ॥ 19 ॥
याज्ञीयैस्तु यथाशक्ति काष्ठैरन्यैरनिन्दितैः ।
ततः शरीरं प्रक्षाल्य सावित्र्या शुद्धमानसः ॥ 20 ॥
विष्णो हव्यं रक्षस्वेति दारुचित्यां निधाय तत् ।
पवित्रमित्यनेनैव पवित्रं स्थापयेन्मुखे ॥ 21 ॥
त्रिदण्डं दक्षिणे पाणाविदं विष्णुरिति न्यसेत् ।
सव्ये शिक्यं यदस्येति स्वाहान्तेन निधाय तत् ॥ 22 ॥
सावित्र्या चोदरे पात्रं गुह्यस्थाने कमण्डलुम् ।
भूमिर्भूमिमगादिति स्थापयेद्विधिकोविदः ॥ 23 ॥
श्वभ्रे काष्ठेऽथ निक्षिप्तं सर्वसाधनसंयुतम् ।
शरीरं होतृभिः कर्ता अभिमन्त्र्योपतिष्ठते ।
तुषानिा दहेद्देहं यावद्भस्मीभविष्यति ॥ 24 ॥
अथाप्युदाहरन्तीमं वेदार्थनिपुणा बुधाः ।
निषेकादिश्मशानान्ता विधयो ब्राह्मणे स्मृताः ।
तस्माद्यतेश्च संस्कारं मन्त्रवत्कुरुते गृही ॥ 25 ॥
आत्मन्यीन्समारोप्य यः प्रैषमवदद्यतिः ।
तस्य पुत्रो विधानेन ह्यवरोप्यानिा दहेत् ॥ 26 ॥
अपि होत्रविधानेन गायत्र्या प्रणवेन वा ।
कर्मनिष्ठे तु संन्यस्ते पितर्युपरते सुतैः ।
दहनं तस्य कर्तव्यं श्राद्धं पिण्डोदकक्रियाः ॥ 27 ॥
आदावेव विकल्पेन ब्रह्मचारी यतिर्भवेत् ।
तस्य सर्वं गृहस्थेन कर्तव्यं सन्निधौ हरेः ॥ 28 ॥
यतीन्वहन्दहन्स्पर्शन्स्नानमात्रेण शुध्यति ।
पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ 29 ॥
**शौनकः **।
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ।
न तस्य दहनं कार्यं नैव पिण्डोदकक्रियाः ॥ 30 ॥
निदध्यात्प्रणवेनैव ध्यानभिक्षोः कलेवरम् ।
प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥ 31 ॥
यतीन्वहन्स्पृशन्वापि स्नानमात्रेण शुध्यति ।
अश्वमेधफलं सर्वे पृथक्पृथगवाप्नुयुः इति ॥ 32 ॥
एतमेवाह भगवान्**वृद्धयाज्ञवल्क्यः ** ॥ 33 ॥
इति यादवप्रकाशीये यतिधर्मसमुच्चये यतिसंस्कारविधिर्नाम एकादशं पर्व ॥ 34 ॥