10 प्रायश्चित्तविधिः

दशमं पर्व

प्रायश्चित्तविधिः

अथ प्रायश्चित्तान्युच्यन्ते1 । तत्र वायुः2

प्रायश्चित्तानि कार्याणि यान्यकामकृतानि च ।
कृतानि कामतश्चापि तत्र चेत्यपरे विदुः ॥ 1 ॥
पापं तु त्रिविधं ज्ञेयं वाङ्म नःकायसंभवम् ।
संततं स्यादहोरात्रं येनेदं दह्यते जनः ॥ 2 ॥
न कर्माणि न चाप्यायुस्तिष्ठतीति परा श्रुतिः ।
प्रायश्चित्तं क्षणेनाथ प्रयुञ्ज्यादायुषि स्थिते ॥ 3 ॥
अभ्यासाद्रमते पापे वर्धते दिनसंख्यया ।
अभ्यासे बुद्धिपूर्वे च प्रायश्चित्तेन शोधयेत् ।
शोधयेत्तावदात्मानं यावच्चित्तं प्रसीदति ॥ 4 ॥
यदि स्यात्पातकं किंचिद्योगी कुर्यात्प्रमादतः ।
योगमेव निषेवेत नान्यां कुर्वीत निष्कृतिम् ॥ 5 ॥
प्राणायामप्रत्याहारध्यानयोगसमन्वितः ।
नश्येत्प्रमादजो दोषो व्रतैर्नान्यैरनुष्ठितैः ॥ 6 ॥

अभ्यासे बुद्धिपूर्वे च व्रतानुष्ठानं प्रमादकृते योग इत्युक्तम्1 । तदाह हारीतः2

योगाभ्यासरतस्येह नश्यन्ते पातकानि तु ॥ 7 ॥ [see 8.56]

अत्रिः1

चान्द्रायणं पराकं वा कृच्छ्रं सान्तपनादि वा ।
न शक्नोति यतिः कर्तुं स कुर्यात्प्राणसंयमम् ॥ 8 ॥
यत्पापं नश्यते पुंसामेकाह्नोऽभोजनेन तु ।
जपात्त्रिकसहस्रस्य तत्पापं नश्यति ध्रुवम् ॥ 9 ॥
जपात्त्रिकसहस्रस्य यत्पापं नाशयेद् द्विजः ।
प्राणायामशतेनैव तत्पापं नश्यतेऽखिलम् ॥ 10 ॥
प्राणायामसहस्रेण यत्पापं नश्यते द्विजैः ।
क्षणमात्रेण तत्सम्यग्घरेर्ध्यानात्प्रणश्यति ॥ 11 ॥
प्राणायामाज्जपाद्ध्यानान्नान्यद्भिक्षोर्विशोधनम् ।
तस्मात्तान्येव कुर्वीत यतिः शुद्ध्यर्थमात्मनः ॥ 12 ॥
प्राणायामशतं भिक्षुर्यः करोति दिने दिने ।
पितृमातृगुरुघ्नोऽपि त्रिभिरेभिर्विमुच्यते ॥ 13 ॥

जमदग्निः1

प्राणायामैश्च ध्यानैश्च जपैश्च सततं कृतैः ।
दह्यन्ते सर्वपापानि पावकेनेन्धनं यथा ॥ 14 ॥

व्यासः1

उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
रजन्याः पादमेकं तु ब्रह्मध्यानेन शुध्यति ॥ 15 ॥

गालवः1

ईश्वरदर्शनं सर्वप्रायश्चित्तमिति2 ॥ 16 ॥

वायुः1

भवेद्योगोऽप्रमत्तस्य योगो हि परमो मतः ।
न हि योगात्परं किंचिन्नराणां विद्यते हितम् ॥ 17 ॥
पवित्राणां पवित्रं तत्पावनानां च पावनम् ।
तस्माद्योगं प्रशंसन्ति तत्क्षमस्य मनीषिणः ॥ 18 ॥

जमदग्निः1

अथ वा यद् गुरुर्ब्रूयात्तत्कार्यमविशङ्कया ।
निग्रहेऽनुग्रहे वापि गुरुः सर्वत्र कारणम् ॥ 19 ॥

वायुः1

व्यतिक्रमेत्तु यः कश्चिद्वाङ्मनःकायकर्मभिः ।
सभ्याः सर्वे विनिश्चित्य यद् ब्रूयुस्तत्समाचरेत् ॥ 20 ॥

अत्रिः1

उपपातकिनो भिक्षोस्तथा लघ्वशनं जपः ।
मौनं कालत्रयस्नानं विहितानि विशेषतः ॥ 21 ॥
सहस्रासुयमान्कृत्वा प्रणवस्यायुतं जपेत् ।
ततस्त्रिकसहस्राणां विधिना पञ्चविंशतिः ।
अरण्ये व्रतमेतत्तु कृत्वा भिक्षुर्विशुध्यति ॥ 22 ॥

अथ संध्यातिक्रमप्रायश्चित्तमुच्यते1 । तत्र देवलः2

संध्यालोपोऽनातुरस्य यदि जातः प्रमादतः ।
जपात्त्रिकसहस्रस्य शुध्यते नात्र संशयः ॥ 23 ॥

गर्गः1

भिक्षुः संध्यामतिक्रम्य प्रायश्चित्तेन युज्यते ।
जपेत्त्रिकसहस्रं तु प्राणायामशतं तथा ॥ 24 ॥

गालवः1

अर्धोदित उपस्थानं कुर्यात्2 । कालातिक्रमं कृत्वा प्राणायामान्द्वादशैव तु धारयेत्3 ॥ 25 ॥

अथ भिक्षाटनप्रायश्चित्तम्1 । तत्र देवलः2

उपस्थानं कृत्वा चिरकालं न तिष्ठेत्3 । चिरकालं स्थित्वा प्राणायामान्षोडशाचरेत्4 । उपस्थानं कृत्वा देवतावृद्धादीनां नमस्कारं न कुर्यात्5 । अज्ञानात्कृत्वा षोडश प्राणायामान्धारयेत्6 । उपस्थानं कृत्वा भिक्षाग्रहं न व्यतिक्रमेत्7 । व्यतिक्रमं कृत्वा प्राणायामांस्त्रिंशच्चरेत्8 । उपस्थानं कृत्वा एकभिक्षां न समाचरेत्9 । यदि समाचरेत्प्राजापत्यं समाचरेत्10 ॥ 26 ॥

भरद्वाजः1

संभाषणादीन्परिहरेत्2 । अज्ञानात्कृत्वा प्राणायामत्रयं कुर्यात्3 । सव्येनादाय पात्रं त्रिदण्डं दक्षिणे न क्वचिदपि परिवर्तयेत्4 । अज्ञानात्परिवर्तनं कृत्वा त्रीन्प्राणायामांश्चरेत्5 । सव्येनादाय पात्रं दक्षिणस्थत्रिदण्डे न संश्लेषयेत्6 । संश्लेषणं यदा करोति तदा प्राणायामान्षडाचरेत्7 । भिक्षार्थं चोपस्थानं कृत्वा प्रविश्य नोपविशेत्8 । क्वचिदुपविशन्प्राणायामान्द्वादश धारयेत्9 । यदि भिक्षुः प्रमादेन शूद्रोदक्याचोदितं गृह्णाति भैक्षं प्राणायामान्षोडश धारयेत्10 । त्रिदण्डं बहिः स्थाप्य भिक्षां न याचयेत् न च गृह्णीयात्11 । यदि गृह्णीयात्प्राणायामान्षोडश धारयेत्12 । त्रिदण्डं कराद्विहाय भिक्षां न याचयेत् न गृह्णीयात्13 । अज्ञानात्कृत्वा प्राणायामशतं चरेत्14 ॥ 27 ॥

देवलकाश्यपौ1

श्वखरोष्ट्राखुमार्जारभासवानरसूकरान् ।
नीलीकाष्ठाचियने नरास्थि ग्रामकुक्कुटम् ॥ 28 ॥
सृगालं च कृतघ्नं च शूद्रं मद्यपमेव च ।
त्यक्तोपवीतं नं च पाषण्डानुगतं द्विजम् ॥ 29 ॥
विश्रम्भघातिनं चैव देवब्राह्मणनिन्दकम् ।
अगारदाहिनं चैव धर्मविक्रयिणं तथा ॥ 30 ॥
अमेध्यनिचयं षण्ढं स्पृा देवलकं यतिः ।
स्थाप्य पात्रं शुचौ देशे शुभं गच्छेज्जलाशयम् ॥ 31 ॥
शौचं कृत्वा यथान्यायं क्षालयेच्च मृदम्भसा ।
यत्स्यादुपहतं चाङ्गं मृद्भिर्द्वादशभिर्यतिः ॥ 32 ॥
अद्भिः संशोध्य तत्सर्वं तथा स्नानं समाचरेत् ।
आचम्य प्रयतो भुक्त्वा प्राणायामान्षडाचरेत् ॥ 33 ॥
आपो हि ष्ठेति तिसृभिर्मार्जयित्वा पुनः पुनः ।
जलेऽघमर्षणं कृत्वा पुनः स्नानं समाचरेत् ॥ 34 ॥
भिक्षाधारं समादद्यात्त्रिकेणाभ्युक्ष्य वारिणा ।
निमज्जयेत्पुनस्तोये शुद्ध्यर्थं सकरे तथा ॥ 35 ॥
एवमेषां तु संस्पर्शे भिक्षा भिक्षोर्विशुद्ध्यति ।
यदि पात्रेऽन्यसंसर्गस्तदा शुध्यति नान्यथा ॥ 36 ॥
यदि पात्रेऽन्यसंस्पृष्टिः श्वकाकादिभिरन्त्यजैः ।
यदा च चरते तत्र तदा चान्द्रायणं चरेत् ॥ 37 ॥

जमदग्निः1

श्वकाकक्रोडवेश्याविट्खरोष्ट्रस्पर्शने यतिः ।
सभैक्षस्तु जले मः शुध्येज्जप्त्वाघमर्षणम् ॥ 38 ॥

वृद्धजाबालिः1

भिक्षामटन्यः संन्यासी शुनोऽमेध्यं च वा स्पृशेत् ।
भिक्षां गृहीत्वा स्नात्वा च प्राणायामान्षडाचरेत् ॥ 39 ॥
भिक्षां पवित्रां कुर्वीत गायत्र्या प्रणवेन च ।
वारुणेन तु मन्त्रेण प्रोक्षितं तु ततः शुचिः ॥ 40 ॥

गर्गः1

पतिते पात्रे भिक्षां गृहीत्वा प्राणायामांस्त्रिंशच्चरेत्2 ॥ 41 ॥

गालवः1

मत्स्यमांसं यद्गृहे पच्यते तद्गृहं वर्जयेत्2 । तत्र गृहीत्वा प्राणायामान्द्वादश धारयेत्3 ॥ 42 ॥

देवलः1

ग्रामाद्बहिस्तथा ग्रामे यदि भिक्षां समाचरेत् ।
उभयत्र च गृह्णानश्चरेत्सान्तपनव्रतम् ॥ 43 ॥

जमदग्निः1

ग्रामे प्रविष्टे भिक्षार्थं यदि भिक्षा न लभ्यते ।
ग्रामे द्वितीये भिक्षित्वा तप्तकृच्छ्रं समाचरेत् ॥ 44 ॥
पात्रे तु पतिते भैक्षे एकभिक्षां समाचरेत् ।
प्राणायामशतं कुर्याच्छुध्यर्थं यतिरात्मनः ॥ 45 ॥
भिक्षां माधूकरीमश्नन्नैवेद्यमपि वर्जयेत् ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ 46 ॥
भिक्षां माधूकरीमश्नन्नैवेद्ये तु विसर्जिते ।
परतोऽन्नमभुञ्जानस्त्रिरात्रेणैव शुध्यति ॥ 47 ॥

गालवः1

परान्नं भिक्षान्नं चैकस्मिन्नह्नि भुक्त्वा गायत्रीमयुतं जपेत्2 ॥ 48 ॥

देवलः1

पात्रे कृत्वा निवेद्यं तु यदि मन्त्रं न विन्यसेत् ।
जपात्त्रिकसहस्रस्य विरजा जायते यतिः ॥ 49 ॥
उदक्याशवचण्डालचोरनकपालिनः ।
पतितान्पिशुनान्स्पृा भिक्षां भिक्षुः परित्यजेत् ॥ 50 ॥
पतितान्नं सकृद्भुक्त्वा प्रायश्चित्तं चरेद्यतिः ।
वज्रकृच्छ्रत्रयं कृत्वा शुध्यते नात्र संशयः ॥ 51 ॥
यवप्रसृतिमात्रं तु गवां मूत्रेण संपचेत् ।
अमावास्यायामश्नीयाद्वज्रकृच्छ्रमिदं महत् ॥ 52 ॥
प्राजापत्यं तु वा कृच्छ्रं चरेत्पतितभोजने ।
अज्ञानात्तु सकृद्भुक्त्वा प्राजापत्येन शुध्यति ॥ 53 ॥
प्राणायामशतं कुर्यात्पादकृच्छ्रं समाचरेत् ।
त्रिरात्रं शङ्खपुष्पं वा पक्त्वाढ्यं पयसा पिबेत् ॥ 54 ॥

हारीतः1

शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यस्य संकरे ।
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ 55 ॥
अक्षारलवणां कृत्वा पिबेद् ब्रह्मसुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पं वा पयसा सह पाययेत् ॥ 56 ॥
पालाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान् ।
क्वाथयित्वा पिबेदापस्त्रिरात्रेण विशुध्यति ॥ 57 ॥
कपिलापञ्चगव्येन विधियुक्तेन वा पुनः ।
पीत्वा शुद्धिमवाप्नोति अभक्ष्यान्नस्य भक्षणात् ॥ 58 ॥

अत्रिः1

एकान्नं मधु मांसं चाप्यन्नं विष्ठादिदूषितम् ।
हन्तकारमनैवेद्यं प्रत्यक्षलवणानि च ॥ 59 ॥
एषामेकं यतिर्भुक्त्वा प्राजापत्यं समाचरेत् ।
मधुमांसाशनैर्भुक्त्वा पराकं तु समाचरेत् ।
त्रिकस्य च जपेल्लक्षं जपश्चेद्वत्सरं जपः ॥ 60 ॥
अपःप्राण्यङ्गभोक्ता यो मधुमांसस्य चापदि ।
जपेत्त्रिकसहस्रं वै प्राणायामशतं तथा ॥ 61 ॥

वृद्धजाबालिः1

दयापूर्वमदत्तं च दत्त्वा च प्रतिगृह्य च ।
दत्त्वा सौम्यं महत्कृच्छ्रं प्राजापत्यमथापि च ॥ 62 ॥
भिक्षुर्भुंक्ते य एकान्नं दाक्षिण्याल्लौल्यतोऽपि वा ।
प्राजापत्येन कृच्छ्रेण प्राणायामशतेन च ॥ 63 ॥

देवलः1

व्रणात्क्रिमिसमुद्भूते भक्षणे मधुमांसयोः ।
उपवासत्रयं कृत्वा प्राणायामशतं चरेत् ॥ 64 ॥

गालवः1

मांसं मधु वा भक्षयित्वा पराकं कुर्यात्2 । ताम्बूलं भक्षयित्वाहोरात्रमुपवसेत्3 । बुद्धिपूर्वे प्राजापत्यं चरेत्4 ॥ 65 ॥

जमदग्निः1

एकान्नं मधु मांसं च नवश्राद्धं च सौतिकम् ।
अभोज्यानि यतीनां तु प्रत्यक्षलवणं तथा ।
एकैकातिक्रमे तेषां प्राजापत्येन शुध्यति ॥ 66 ॥

क्रतुः1

श्वाखुमार्जारकाकानां केशकीटास्थिवाससाम् ।
दूषितान्नं यतिर्भुक्त्वा पञ्चगव्येन शुध्यति ॥ 67 ॥

भरद्वाजः1

भोजनमध्ये यत्किंचित्सूक्ष्मकेशकीटमक्षिकाभिहतं चेत्यादि2 ॥ 68 ॥

देवलः1

क्रव्यादाशुद्धिसंपाते भुञ्जानस्य कथंचन ।
पूर्वं त्यक्त्वा भोजनं तु पश्चात्स्नानं समाचरेत् ।
जपेत्त्रिकसहस्रं तु प्राणायामशतं चरेत् ॥ 69 ॥

जमदग्निः1

भुञ्जानस्य तु विप्रस्य कदाचित्प्रस्रवेद् गुदम् ।
उच्छिष्टताशुचित्वं च तस्य शौचं कथं भवेत् ॥ 70 ॥
पूर्वं कृत्वाथ शौचं तु तत्र पश्चादुपस्पृशेत् ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ 71 ॥
भैक्षशेषं तु यत्किंचिद्यदि भिक्षुः समुत्सृजेत् ।
ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ 72 ॥
सकर्दमं तु वर्षासु प्रविश्य ग्रामसङ्कटम् ।
जङ्घयोर्मृत्तिकास्तिस्रः प्रदद्यात्सप्त पादयोः ॥ 73 ॥

देवलः1

केशश्मश्रुगतं तोयं पात्रे तु पतितं यदि ।
त्यजेद्भिक्षां तथा पात्रं त्यक्त्वा चोपवसेद्यतिः ॥ 74 ॥
विरिक्तवान्तविण्मूत्रस्कन्दनैकान्नजग्धिषु ।
स्नात्वा भिक्षाटनादेत्य प्राणायामास्त्रयस्त्रयः ॥ 75 ॥

जमदग्निः1

घ्रात्वा गन्धं सुरायाश्च तथा मूत्रपुरीषयोः ।
क्रव्यादपूतिगन्धं वा प्राणायामास्त्रयस्त्रयः ॥ 76 ॥
छर्दिमूत्रपुरीषं वा दृा तु सहसा यतिः ।
प्राणायामेन शुध्येत कृत्वा तद्द्विगुणं चरेत् ॥ 77 ॥

गालवः1

पूतिविण्मूत्रक्रव्यादसुरागन्धाघ्राणं कृत्वा प्राणायामांस्त्रींस्त्रीन् कुर्यात्2 ॥ 78 ॥
नियमांस्तु सदा कुर्याद्यमांस्तेभ्योऽभिपालयेत् ।
आपत्कालेऽप्यशक्तौ वा पानेऽपां भेषजादने ॥ 79 ॥
हविषि ब्राह्मणेच्छायां पुष्पमूलफलादने ।
दध्नि दुग्धे गुरोर्वाक्ये त्वक्पत्रे दन्तधावने ।
नियमातिक्रमो नास्ति ब्राह्मणानामनुज्ञया ॥ 80 ॥
तेषां पुण्याहघोषेण कार्यं पापापनोदनम् ।
अकामकृतपापेभ्यस्तत्कृत्वा विप्रमुच्यते ॥ 81 ॥

बोधायनः1

अथ यत्रोपनिषदमाचार्या ब्रुवते तत्रोदाहरन्ति2 । स्थानमौनासनं सवनोपस्पर्शनं चतुर्थषष्ठाष्टमकालव्रतयुक्तत्वं कणपिण्याकयावकदधिपयोव्रतत्वं च3 । तत्र मौनयुक्तस्त्रैविद्यवृद्धैराचार्यैर्मुनिभिरन्यैर्वाश्रमिभिर्बहुश्रुतैर्दन्तैर्दन्तान्संधायान्तर्मुख एव यावदर्थं संभाषेत एवं न यत्र लोपो भवतीति विज्ञायते4 । स्थानमौनवीरासनानामन्यतमेन संप्रयोगो न त्रयं सन्निपातयेत्5 । यत्र गतश्चेद्यावन्मात्रमनुव्रजेदापत्सु न यत्र लोपो भवतीति विज्ञायते6 । स्थानमौनवीरासनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य7 ॥ 82 ॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः ।
हविर्ब्राह्मणकामाय गुरोर्वचनमौषधम् ॥ 83 ॥ [BDh 2.18.15–19]

देवलः1

यदि कश्चित्प्रमादेन स्वापाचारं तु विस्मरेत् ।
जपेत्त्रिकसहस्रं तु शुध्यते नात्र संशयः ॥ 84 ॥

अथ रात्रिजानामपराधानां निष्कृतिरुच्यते1 । तत्र वृद्धजाबालिः2

संध्याकाले तु संप्राप्ते निशि भुञ्जीत यो यतिः ।
उपस्थानं च जप्यं च प्राणायामो बलिस्तथा ॥ 85 ॥
सर्वे ते निष्फलास्तस्य प्रायश्चित्तं विधीयते ।
एकरात्रोपवासश्च प्राणायामाश्च षोडश ॥ 86 ॥

जमदग्निः1

आहारग्रहणे रात्रौ प्राणायामा दश स्मृताः ।
जलमृद्ग्रहणे चापि निशायां तद्वदाचरेत् ॥ 87 ॥
गृहीतनाशे धर्मेण स्रवन्तीषु सरित्सु च ।
सकृद् गृह्णन्न लिप्येत देवतायतनेषु च ॥ 88 ॥
रात्रौ तु क्षरणे स्नात्वा द्वादशासुयमांश्चरेत् ।
प्राणायामैर्विशुद्धात्मा विरजा जायते यतिः ॥ 89 ॥

शौनकः1

पूर्वसंभोगान्न स्मरेत्2 । प्रमादात्स्मरणे आचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्3 । प्रमादात्स्त्रीदर्शने प्राणायामानाचरेत्4 । स्वप्नसंभोगे त्रिकसहस्रं जप्त्वा प्राणायामान्द्वादश धारयेत्5 । संभोगे स्वप्नक्षरणे द्वादश तु धारयेत्6 । मेहमानो द्वयं कृत्वा पुनराचामेत्7 ॥ 90 ॥

कपिलः1

स्वप्नसंभोगे स्नात्वा त्रिकसहस्रं जपेत्2 । कण्डूयनरुधिरक्षरणे उपवासः3 ॥ 91 ॥

गालवः1

कामाद्रेतउत्सर्गे त्रीन्पराकान्धारयेत्2 । अकामतः स्वप्ने स्त्रीसंभोगे द्वादश प्राणायामान्धारयेत्3 । निद्रायां प्रमादात्क्षरणे द्वादश प्राणायामान्धारयेत्4 । प्राणायामांस्त्रींस्त्रीन्गुह्यप्रमाददर्शने धारयेत्5 । स्वप्ने एतद्दर्शने अघमर्षणम्6 । सदा चाप्रयत्नोत्सर्गं कृत्वा रेतस षोडश प्राणायामान्धारयेत्7 । प्रयत्नेन रेतःसेकं कृत्वा चान्द्रायणं चरेत्8 ॥ 92 ॥

जाबालिः1

शुक्लोत्सर्गं यदा कुर्यात्कामादभ्यासतोऽपि वा ।
पराकत्रयसंयुक्तं प्राणायामशतं चरेत् ॥ 93 ॥
दिवा तु स्कन्दयेद्रेतः प्रायश्चित्ती प्रमादतः ।
स त्रिरात्रोपवासेन प्राणायामशतं चरेत् ॥ 94 ॥
स्कन्न इन्द्रियदौर्बल्यात्स्त्रियं दृा प्रमादतः ।
तेन धारयितव्याः स्युः प्राणायमास्तु षोडश ॥ 95 ॥

वायुः1

शुक्लोत्सर्गं यदा कुर्यात्क्वचिद्भिक्षुस्तु कामतः ।
प्राजापत्यत्रयं कुर्यात्प्राणायामशतानि च ॥ 96 ॥

वृद्धपराशरः1

वासुदेव प्रसुप्तोऽसि यावन्नोदयते रविः ।
अहं तावन्निवत्स्यामि सर्वभूतहिताय वै ॥ 97 ॥
सप्तऋषयः प्रतिहिताः शरीरे
सप्त रक्षन्ति सदमप्रमादम् ।
सप्तापः स्वपतो लोकमीयुस्तत्र
जागृतो अस्वप्नजौ सत्रदौ च देवौ ॥ 98 ॥ [VS 34.55]
आभ्यां मन्त्राभ्यां शयीत1 । यदि न कुर्यात्प्राणायामषट्कं कृत्वा पुनरपि मन्त्राभ्यां शयीत2 । उत्तिष्ठेत्युत्थानं प्रातःकाले कुर्यात्3 । यदि न कुर्यात्प्राणायामत्रयं कृत्वा पुनरुत्तिष्ठेदिति4 ॥ 99 ॥

अथ नियमातिक्रमे प्रायश्चित्तानि1 । तत्र वायुः2

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ 100 ॥
उपेत्य तु स्त्रियं कामात्प्रायश्चित्ती भवेद्यतिः ।
प्राणायामसमायुक्तं कृच्छ्रमब्दं समाचरेत् ॥ 101 ॥
ततश्चरितनिर्वेदः कृच्छ्रध्याने समाहितः ।
भूयो निर्वेदमापन्नश्चरेद्भिक्षामतन्द्रितः ॥ 102 ॥

कपिलः1

सकृत्संभोगे द्वादशरात्रमुपवासः त्रिकलक्षं जपश्च2 । अभ्यासे त्रिरात्रं संवत्सरं जपेत्3 । सकृदन्त्यजां गत्वारण्ये बिल्वादीनि स्वयंपतितानि प्रक्षाल्योपयुञ्जीत ब्रह्मावर्तयन्यावत्स मृत्युतः शुद्धो भवति4 ॥ 103 ॥

जाबालिः1

उपेत्य तु स्त्रियं कामात्प्रायश्चित्ती भवेद्यतिः ।
प्राणायामसमायुक्तमब्दं सान्तपनं चरेत् ॥ 104 ॥

गालवः1

सकृत्साधारणीं गत्वा ब्रह्महत्याप्रायश्चित्तं चरेत्2 ॥ 105 ॥

अत्रिः1

महापातकजाद्दोषाच्छुद्ध्यर्थं वर्तयेद्यतिः ।
त्रिकलक्षं जपेद्योगी प्राणायामायुतं तथा ।
ततः शतसहस्राणि प्रणवानां जपेद्यतिः ॥ 106 ॥
स्त्रीसंभोगे सकृद्मोहाद्विधिनानेन शुध्यति ।
कामतो वा तथाभ्यासे प्रायश्चित्तेन शुध्यति ॥ 107 ॥

वायुः1

यदेतद् द्रविणं नाम प्राणा ह्येते बहिश्चराः ।
स तस्य हरति प्राणान्योऽस्य संहरते धनम् ॥ 108 ॥
एवं कृत्वा स दुष्टात्मा भिन्नवृत्ताश्रमो यतिः ।
ततो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ।
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ॥ 109 ॥
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः ।
भूयो निर्वेदमापन्नो भिक्षां भिक्षुः समाचरेत् ॥ 110 ॥

गालवः1

धनगोभूमितिलादीनां बुद्धिपूर्वं परिगृह्य पतितवत्प्रायश्चित्तं कुर्यात्2 ॥ 111 ॥

जमदग्निः1

लब्धद्रव्यं परित्यज्य उपवासत्रयं चरेत् ।
गायत्रीमयुतं जप्त्वा मुच्यते सर्वपातकैः ॥ 112 ॥

स एवाह1

भूमिर्गावो हिरण्यं वा यतेर्यस्य परिग्रहः ।
तादृशं कश्मलं दृा सवासा जलमाविशेत् ॥ 113 ॥

वायुः1

प्राणायामशतं कुर्यादुपवासे वदन्मृषा ।
असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना ॥ 114 ॥

गालवः1

अनृतमुक्त्वा त्रिरात्रमुपवसेत्2 । धर्मयुक्तमनृतमनूच्याहोरात्रमुपोष्य प्राणायामशतं कुर्यात्3 ॥ 115 ॥

जमदग्निः1

वाङ्मनःकायहिंसायां चरेषु स्थावरेषु च ।
येन येनोपरुध्येत तेन तेन विशोधयेत् ॥ 116 ॥
वाक्संप्रयोगे वाग्दण्डः प्राणदण्डस्तु मानसे ।
कर्मदण्डः शरीरस्य बुद्ध्या निर्वेदमादिशेत् ॥ 117 ॥
वाग्दण्डो हन्ति वै ज्ञानं मनोदण्डः परां गतिम् ।
कर्मदण्डस्तु लोकांस्त्रीन्हन्यादपरिरक्षितः ॥ 118 ॥
वाग्दण्डं मौनमातिष्ठेत्कर्मदण्डस्त्वभोजनम् ।
मनसः स तु दण्डः स्यात्प्राणायामस्य धारणम् ॥ 119 ॥
समुत्पन्नेषु दोषेषु स्यादनेन तु निष्कृतिः ।
अतीव चिरकाले तु द्विगुणं व्रतमाचरेत् ॥ 120 ॥

गालवः1

चतुष्पदान्मृगान्हत्वा व्रतं चान्द्रायणं चरेत् ।
कर्कटचित्ररोमादीन्दशरात्राण्युपवसेत् ॥ 121 ॥
कामादेव तु हिंसीत यदि भिक्षुः पशून्मृगान् ।
कृच्छ्रातिकृच्छ्रे कुर्वीत चान्द्रायणमथापि वा ॥ 122 ॥

जमदग्निः1

कृकलासे क्षीरगले मण्डूके गृहगोलिके ।
कुररादिषु भूतेषु दशाहं चार्धभोजनम् ॥ 123 ॥
मार्जारे मूषके सर्पे स्थूलमत्स्येषु पक्षिषु ।
नकुलादिषु भूतेषु चरेच्चान्द्रायणं व्रतम् ।
पिपीलिकायां सूक्ष्मायां प्राणायामास्त्रयस्त्रयः ॥ 124 ॥
सूक्ष्मास्थिमद्वधे भिक्षोः प्रायश्चित्तं विधीयते ।
त्रिंशत्प्राणायामान्कृत्वा एकाहं त्वर्धभुग्भवेत् ॥ 125 ॥

गालवः1

पर्णमूलाङ्कुरपुष्पाणां छेदनं कृत्वा त्रिंशत्प्राणायामान्धारयेत्2 ॥ 126 ॥

दत्तात्रेयः1

नं वानुपनीतं वा विप्रं दृा प्रमादतः ।
मृद्भिर्द्वादशभिः स्नात्वा वासोभिः सह शुध्यति ॥ 127 ॥

हारीतः1

नं वानुपनीतं वा यः श्राद्धे भोजयेद् द्विजम् ।
रेतोमूत्रपुरीषाणि स पितृभ्यः प्रयच्छति ॥ 128 ॥
प्रेरणादथ वा लोभादेकदण्डं समाश्रितः ।
भूयो निर्वेदमापन्नस्त्रिदण्डं धारयेद् बुधः ॥ 129 ॥
प्राजापत्यं चरेत्कृच्छ्रं नियतो माससंख्यया ।
उपस्पृशंस्त्रिषवणं गायत्रीं च सदा जपेत् ॥ 130 ॥
अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ स्थित्वा जले व्युष्टः प्राजापत्यफलं लभेत् ॥ 131 ॥
गायत्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ ।
मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ 132 ॥
सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
दशसाहस्रमभ्यस्य गायत्री शोधनं परम् ॥ 133 ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ 134 ॥
प्राणायामान्धारयेत्त्रीन्यथाविधि समाहितः ।
अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ 135 ॥
कर्मणा मनसा वाचा यदह्ना कुरुते द्विजः ।
आसीनः पश्चिमां संध्यां प्राणायामेन शुध्यति ॥ 136 ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं यो जपेन्नित्यं न स पापेन लिप्यते ॥ 137 ॥
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश ।
अपि भ्रूणहतं मासात्पुनन्त्यहरहः कृताः ॥ 138 ॥
दुरितानां दुरिष्ठानां पापानां महतां तथा ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ 139 ॥

संवर्तः1

संन्यासात्प्रच्युतानां तु निष्कृतिं श्रोतुमर्हथ ।
संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं भजेत्तु यः ॥ 140 ॥
स कुर्यात्कृच्छ्रमश्रान्तं षण्मासात्प्रत्यनन्तरम् ।
यतेर्विपत्तौ संदृष्टः प्रायश्चित्तविधिक्रमः ॥ 141 ॥

स एवाह1

चतुर्विद्योपपन्नस्य ब्रह्मघ्नो गुरुघातिनः ।
सेतुबन्धपथे युक्तं प्रायश्चित्तं विनिर्दिशेत् ॥ 142 ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यं समाचरेत् ।
ख्यापयंश्च स्वकर्माणि छत्रोपानहवर्जितः ॥ 143 ॥
अहं दुष्कृतात्मा वै महापातककारकः ।
वेश्मद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ 144 ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
पर्यटंश्चैव तीर्थानि पुण्यं गत्वा तु सागरम् ॥ 145 ॥
सेतुबन्धं ततः पश्येल्लङ्कामार्गं महोदधेः ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ 146 ॥
राघवस्य समादेशान्नलसंचयसंचितम् ।
सेतुबन्धं ततो दृा राजानं पृथिवीपतिम् ।
यजन्तमश्वमेधेन दृा सद्यः शुचिर्भवेत् ॥ 147 ॥

देवलः1

रजस्वलां तु नारीं वा वेश्यां वा मद्यपां तु वा ।
शवोपस्करकाष्ठं वा स्पृा स्नात्वा द्वयं जपेत् ॥ 148 ॥

स एवाह1

यूकोत्पत्तिः शरीरे चेत्प्रायश्चित्तं विधीयते ।
कृत्वोपवासमेकं तु प्राणायामान्षडाचरेत् ॥ 149 ॥

गर्गः1

भिक्षवः परस्परं न गृह्णीयुः2 । प्रमादाद् ग्रहणे मित्रस्य चर्षणी धृत इति जपेयुः प्राणायामास्त्रयश्च3 ॥ 150 ॥

गालवः1

कण्डूयनरुधिरक्षरणेऽहोरात्रमुपवासः2 ॥ 151 ॥

जमदग्निः1

मातरं पितरं पुत्रं मनसापि न चिन्तयेत् ।
यदि स्नेहो भवेत्तेषु प्राणायामास्तु षोडश ॥ 152 ॥

सत्यकामजाबालौ1

एकवषट्कारस्वाहास्वधावषट्कारं करोति कारयेद्वा सर्वं तन्निष्फलं भवति2 । तस्य प्रायश्चित्तं विधीयते3 । स्वयमेव प्रयुञ्जानः प्राजापत्यत्रयं कृत्वा प्राणायामान्द्वादश धारयेत्4 ॥ 153 ॥

अनुक्तानां सर्वेषां प्रायश्चित्तं **सत्यकाम **आह1

विहितातिक्रमं कृत्वा प्राणायामान्द्वादश धारयेत्2 ॥ 154 ॥

अशक्तस्य देशकालाद्यपेक्षया गुरूणि लघूनि प्रायश्चित्तानि व्यवस्थापनीयानि1 । ऋषीणां मतभेदात्तु विकल्प इति केचित्2 ॥ 155 ॥ तथान्येऽपि धर्मास्तत्प्रायश्चित्तं च गृहस्थधर्मादेव योजनीयम् ॥ 156 ॥

इति यतिधर्मसमुच्चये प्रायश्चित्तविधिर्नाम दशमं पर्व ॥ 157 ॥

Notes