नवमं पर्व
गतिस्थितिनिरूपणम्
अथ यतीनां गतिस्थितिर्निरूप्यते1 । तत्र गौतमः2।
ऊर्ध्वरेता ध्रुवशीलो वर्षासु3 ॥ 1 ॥ [GDh 3.11–12]
मेधातिथिः1।
उदितेऽन्यत्र मध्याह्ने अन्यत्रास्तमिते रवौ ।
दृश्यते त्वनिकेतः स्यात्सूर्यवत्सङ्गवर्जितः ॥ 2 ॥
देवालयायागारेषु त्वेकदेशे निशां नयेत् ।
अन्यत्र मरणत्रासान्महतश्चाप्युपद्रवात् ॥ 3 ॥
वार्षिकांश्चतुरो मासान्बहिर्ग्रामात्समापयेत् ।
तत्राप्युपक्रमे हेतू पूर्वोक्तावनिवारितौ ॥ 4 ॥
अत्र वर्षास्वेकत्र वस्तव्यमन्यथा न वस्तव्यमिति प्रतीयते1 । तत्राल्पानुग्रहं मनुराह2 ।
ग्रैष्महैमन्तिकान्मासानष्टौ प्रायेण पर्यटेत् ।
दयार्थं सर्वभूतानां वर्षास्वेकत्र संवसेत् ॥ 5 ॥
अत्र प्रायेणेति सूचितमनुग्रहं क्रतुर्विशिनष्टि1 ।
ग्रामे दिनं पुरे त्रीणि नगरे पञ्च सप्त वा ।
तिष्ठेदेकत्र वर्षासु व्रजेत्सूर्योदिते पथि ॥ 6 ॥
लिखितः1।
परे ब्रह्मणि संन्यस्य कुर्वन्कर्माणि शक्तितः ।
योगाभ्यासप्रधानस्तु जपशीलः क्षमापरः ॥ 7 ॥
पर्यटेत्पुण्यतीर्थानि देवतायतनानि च ।
कृच्छ्रचान्द्रायणादीनि कुर्याच्छुद्ध्यर्थमात्मनः ॥ 8 ॥
अनन्धोऽव्याधितोऽपङ्गुः षड्रात्रं न वसेत्क्वचित् ।
धर्मधीरन्यदेशाच्चेद्वसेद्वा सार्वकालिकम् ॥ 9 ॥
श्रावणं मासमारभ्य यावन्मासचतुष्टयम् ।
वसेयुः सर्वयतय एकत्रैवेति निश्चयः ॥ 10 ॥
देवलः1।
न चिरमेकत्र वसेदन्यत्र वार्षिकात्2 । श्रावणादिचतुर्मासिको वार्षिकः3 । तस्मिन्न यायी स्यात्4 ॥ 11 ॥
गालवः1।
शून्यागारे वृक्षमूले वा वर्षास्वेकत्र निवसेत्2 ॥ 12 ॥
विश्वामित्रः1।
वर्षाभ्योऽन्यत्राप्येकत्र वसेदेव2 ॥ 13 ॥
वृद्धमनुः1।
धर्मवृद्धो त्वामरणादेकत्रापि वसेत्2 । अन्यत्र व्रजनशीलः स्यादित्याचार्याः3 ॥ 14 ॥
प्रकारं देशं यम आह1 ।
ग्रामैकरात्रवासी स्यान्नगरे पञ्चरात्रिकः ।
एकत्र निवसेन्मासांश्चतुरो वार्षिकान्मुनिः ॥ 15 ॥
जले जीवाः स्थले जीवा आकाशे जीवमालिका ।
जीवमालिकाकुले लोके वर्षास्वेकत्र संवसेत् ॥ 16 ॥
अध्वा सूर्यस्य निर्दिष्टः कीटवच्च चरेन्महीम् ।
अश्वस्तननिधानस्तु सुमतिः सुसमाहितः ॥ 17 ॥
भयं प्राणान्तिकं त्यक्त्वा विण्मूत्रोत्सर्गमेव च ।
नान्यत्र विचरेद्रात्रौ न मध्याह्ने न संध्ययोः ॥ 18 ॥
एकाकी विचरेन्नित्यं मुक्तात्मा त्वसहायकः ।
एकस्य हि समः पन्था जायतेऽन्यत्र जीयते ॥ 19 ॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सूनृतामीरयेद्वाचं सर्वसत्त्वहितं चरेत् ॥ 20 ॥
एकशाट्येकभक्तश्च एकपात्री च भिक्षुकः ।
एकैकं विचरेद् ग्रामं तत्पुराणमृषिव्रतम् ॥ 21 ॥
नित्यं स्थण्डिलशायी स्यादनित्यां वसतिं वसेत् ।
अरण्यनित्यो मुण्डी स्यान्मनसा ध्यानमभ्यसेत् ॥ 22 ॥
भैक्षदेशं नृपज्ञातिपुत्रमित्रादियोषितः ।
उपकारकथाश्चैव मनसापि न चिन्तयेत् ॥ 23 ॥
आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदं प्रति ।
सन्मानमपि न ब्रूयान्मुनिर्मोक्षपरायणः ॥ 24 ॥
यतीनां व्रतवृद्धानां स्वधर्ममनुवर्तिनाम् ।
विष्णुरूपेण वै कुर्यान्नमस्कारं दिने दिने ॥ 25 ॥
यो भवेत्पूर्वसंन्यासी तुल्यो वा धर्मतो यतिः ।
नमस्कारार्चनादीनि कुर्यान्नान्यस्य कस्यचित् ॥ 26 ॥
स्वधर्मस्थान्यतीन्वृद्धान्देवांश्च प्रणमेद्यतिः ।
नान्यमाश्रमिणं कंचित्प्रशस्तमपि तं नमेत् ॥ 27 ॥
सायंप्रातर्न तृप्येत न प्रसज्जेत भोजने ।
नेन्द्रियार्थेषु सज्जेत कदाचिदपि कामतः ॥ 28 ॥
पन्थानमपि पृच्छेच्च भिक्षां देहीति च द्वयम् ।
तावदेव व्याहरणं शेषमन्यन्निषिध्यते ॥ 29 ॥
अत्रिः1।
गूढधर्माश्रितो विद्वानज्ञानचरणे स्थितः ।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ॥ 30 ॥
कपिलः1।
वृद्धातुरवद्यथाकथंचित्स्थितिं संपादयेत्2 ॥ 31 ॥
बृहस्पतिः1।
नैवाददीत पाथेयं यतिर्वै यदनापदि ।
पक्वमापत्सु गृह्णीयाद्यावदह्नोपयुज्यते ॥ 32 ॥
जमदग्निः1।
अरण्ये निर्जने देशे चोरव्याघ्राकुले पथि ।
कृत्वा मूत्रपुरीषं च द्रव्यहस्तो न दुष्यति ॥ 33 ॥
भूमौ निधाय तद् द्रव्यं शौचं कृत्वा यथाविधि ।
उत्सङ्गे गृह्य तद् द्रव्यमाचान्तः प्रयतः शुचिः ॥ 34 ॥
गालवः1।
योजनाधिकगमने द्वादश प्राणायामान्धारयेत्2 ॥ 35 ॥
अथ चातुर्मास्यकाल उच्यते1 । आषाढ्यां पौर्णमास्यामारभ्य कार्त्तिक्यामुत्थानम्2 । अथवा श्रावण्यामारभ्य मार्गशीर्ष्याम्3 । अन्ये त्वेवमाहुः4 । वर्षासु ध्रुवशील इत्यनेन ऋतुविधानात् मासद्वयेन व्रतसमाप्तिरिति5 ॥ 36 ॥ जाबालिः1।
ग्रैष्महैमन्तिकान्मासानष्टौ भिक्षुर्विपर्यटेत् ।
दयार्थं सर्वभूतानां वर्षास्वेकत्र संवसेत् ॥ 37 ॥
चातुर्मास्यान्वसेद् ग्रामे श्रद्धाभक्तिसमन्वितः ।
स्थितिभङ्गमकुर्वन्हि शाश्वतं पदमाप्नुयात् ॥ 38 ॥
यावद्वर्षत्यकालेऽपि यावत्क्लिन्ना च मेदिनी ।
ग्रामे सीमाधिकं नेयाद्विस्तीर्णे क्रोशतः परम् ॥ 39 ॥
मेधातिथिः1।
प्रशस्तां मृत्तिकां शुष्कां गृह्णीयाच्छुचिशुक्रयोः ।
द्वादश्यां मृदमादाय शुभां किंचिदपीडयन् ॥ 40 ॥
यावद्वर्षत्यकालेऽपि यावत्क्लिन्ना च मेदिनी ।
तावन्न विचरेद्भिक्षुः स्वधर्ममनुपालयन् ।
आषाढादि वसेन्मासांश्चतुरः कार्त्तिकोदयात् ॥ 41 ॥
अत्रिः1।
चातुर्मास्यविधिं वक्ष्ये यतीनां नियतात्मनाम् ।
यमाश्रित्य सदा मुक्तो भविष्यति न संशयः ॥ 42 ॥
शुक्लमासादिकः कालो यावदाषाढपूर्णिमा ।
तत्र पुण्येऽह्नि कस्मिंश्चित्सङ्कल्पदिवसेऽपि वा ॥ 43 ॥
शर्कराश्मलतावल्लीलोष्टादिरहितां शुभाम् ।
शुष्कां साधारणीं भूमिं गत्वा ससिकतां यतिः ॥ 44 ॥
स्मरन्वराहरूपेण धारयन्तं महीं हरिम् ।
सर्वभूताधिवासेन वासुदेवेन पावनीम् ॥ 45 ॥
अधिवासितासि देवि त्वं प्रणवेन स्वयंभुवा ।
पवित्रत्वाय यस्मात्त्वं देवदेवेन निर्मिता ॥ 46 ॥
प्रणवेन तथा पृथ्वी देवि त्वमधिवासिता ।
अधिवास्य क्षमामेवं मन्त्रैः सप्रणवैस्ततः ॥ 47 ॥
अश्वक्रान्त इत्यारभ्य पदे पदे, उद्धृतासि, भूमिर्धेनुः, मृत्तिके हन, त्वया हतेन, मृत्तिके देहि, गन्धद्वाराम्, ईश्वरीम् ॥ 48 ॥
येनोद्धृतासि देवि त्वं क्रोधरूपेण दंष्ट्रिणा ।
त्वया सह स मां पातु केशवो धरणीधरः ॥ 49 ॥
आधारः सर्वभूतानां त्वं देवि वसुधे स्मृता ।
पालनी पावनी धात्री सर्वभूताभयंकरी ॥ 50 ॥
विष्णुक्रान्तासि देवि त्वं विश्वक्रान्तासि मेदिनी ।
पाहि मां सर्वभूतेभ्यो विष्णुना सह माधवी ।
इति विज्ञाप्य युक्तात्मा माधवीं लोकधारिणीम् ॥ 51 ॥
मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ।
मृत्तिके जहि तत्सर्वं यन्मया दुष्कृतं कृतम् ॥ 52 ॥
इदं विष्णुरिति द्वाभ्यां शुभां गृह्णीत मृत्तिकाम् ।
अथ दर्भकरस्तेषु चासीनः प्राङ्मुखो यतिः ।
वार्षिकं व्रतमेतत्तु चातुर्मासिकमाहरेत् ॥ 53 ॥
माधवश्चतुरो मासान्सर्वभूतहिताय वै ।
स्वापं यास्यति शेषाङ्के लक्ष्म्या सह जगत्पतिः ॥ 54 ॥
सुप्तश्चैवोत्थितो यावन्न भवेत्स सनातनः ।
अहं तावन्निवत्स्यामि सर्वभूतहिताय वै ॥ 55 ॥
ध्रुवा द्यौरित्यृचं जप्त्वा ततो भूमिं च संस्पृशेत् ।
अनेनैव विधानेन आषाढे मासि भिक्षुकः ॥ 56 ॥
द्वादश्यां शुक्लपक्षस्य पौर्णमास्यामथापि वा ।
उत्तराषाढयुक्तायां यदि खण्डा तु पूर्णिमा ॥ 57 ॥
मृदं गृहीत्वेदं विष्णुरिति तामानयेन्मृदम् ।
अनेनैव तु मन्त्रेण तीर्थान्संपूजयेत्ततः ॥ 58 ॥
नमस्कृत्य विधानेन वृद्धानुक्रमतो यतीन् ।
ज्यायसे यतये दद्याद्यवीयान्मृत्तिकां यतिः ॥ 59 ॥
पिण्डमेकमथ द्वौ वा मन्त्रेणानेन पूजयेत् ।
गृहाण मृत्तिकां भिक्षो सर्वपापहरां शिवाम् ॥ 60 ॥
युष्मानस्मानियं देवी विष्णुना सह रक्षतु ।
मृदमित्थं गृहीत्वा तां तया स्नानादि साधयेत् ॥ 61 ॥
आहृत्य मृत्तिकामेवं तत्कालहृतया मृदा ।
कुर्यान्मृच्छौचकर्माणि यावन्मासचतुष्टयम् ॥ 62 ॥
श्वोभाविनीं प्रतिपदमारभ्य श्रावणीं यतिः ।
न प्रयायाच्चतुर्मासान्वपनं कारयेन्न च ॥ 63 ॥
आरम्भोत्थानदिनयोर्वापयेद्वपनेऽपि तु ।
अधःकण्ठशिखाक्षिभ्रूरोमाणि न हि जातुचित् ॥ 64 ॥
द्वादश्यां पौर्णमास्यां वानारम्भो विघ्नतो यदि ।
स्थानाभावाद्व्रजेत्तावद्यावत्स्यात्कृष्णपञ्चमी ॥ 65 ॥
प्रायश्चित्तेन युज्येत तदूर्ध्वं हि व्रजन्यतिः ।
कृच्छ्रमेकं चरेद्भिक्षुर्यदि व्याजेन गच्छति ॥ 66 ॥
विस्तीर्णे ग्रामसीमान्ते क्रोशादूर्ध्वं व्रजेद्यदि ।
त्रिंशत्प्राणायामान्कृत्वा जपेत्त्रिकशतत्रयम् ॥ 67 ॥
इदं प्रायश्चित्तं तस्मिन्नेवाहनि पुनः प्रत्यागतस्य1 । तत्रैव रात्रिमध्युषितस्य तु प्रायश्चित्तं वृद्धजाबालिराह2 ।
ग्रामे सीमाधिकं नेयाद्विस्तीर्णे क्रोशतः परम् ।
यदि कश्चित्प्रमादेन क्रोशमात्राधिकं व्रजेत् ।
प्राजापत्येन शुध्येत षोडशासुयमैस्तथा ॥ 68 ॥
वायुः1।
वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः ।
तप्तकृच्छ्रेण शुद्धात्मा विरजा जायते पुनः ॥ 69 ॥
शारीरं दृश्यते यत्र भयं कस्यांश्चिदापदि ।
दुर्भिक्षे राष्ट्रभङ्गे वा वर्षास्वपि तमुत्सृजेत् ॥ 70 ॥
चोरैरुपद्रुतं देशं दुर्भिक्षव्याधिपीडितम् ।
चक्रेणान्येन वाक्रान्तं वर्षास्वप्याशु तं त्यजेत् ॥ 71 ॥
अत्रिः1।
वर्षर्तौ तु विना विघ्नं शरणं संत्यजेद्यदि ।
जपेत्त्रिकसहस्रं वै प्राणायामशतं तथा ॥ 72 ॥
वर्षाकाले विना विघ्नं विशेत्स्थानान्तरं यदि ।
जपेत्त्रिकसहस्रं वै प्राणायामशतत्रयम् ॥ 73 ॥
स्थितियोग्यान्बहून्ग्रामान्यदि वर्षासु लङ्घयेत् ।
प्रत्येकं तु चरेत्कृच्छ्रं ततः पापात्प्रमुच्यते ॥ 74 ॥
समुद्रज्येष्ठादिभिर्मन्त्रैश्चतुर्भिः शिरसोदकम् ।
चतुर्दिशं जलैर्वापः सं नः शिशीहि मन्त्रतः ॥ 75 ॥
क्षुराभिमन्त्रणं कुर्याद्व्याधितस्यातुरस्य च ।
आपञ्चम्याः प्रशस्ताः स्युर्यतेः क्षौरादिकाः क्रियाः ॥ 76 ॥
द्वादश्यां कार्त्तिके मासि पौर्णमास्यामथापि वा ।
कृतवापो मृदं शिष्टामुर्विति प्रक्षिपेज्जले ॥ 77 ॥
श्वोभूतेऽथ त्रयोदश्यां प्रतिपद्यपि वा क्वचित् ।
उत्थायेष्टं व्रजेद्देशं तदा त्रीणि पदेत्यृचा ॥ 78 ॥
महि त्रीणामृचस्तिस्रो ये ते पन्थान इत्यपि ।
जपित्वैता ऋचो गच्छेदारभ्य प्रागुदक्च वा ॥ 79 ॥
गौतमः1।
न द्वितीयामपर्तु रात्रिं ग्रामे वसेत्2 ॥ 80 ॥ [GDh 3.21]
अपगते ऋतौ द्वितीयां रात्रिं ग्रामे न वसेत्1 । एकस्मिन्ग्रामे दिनद्वयं न वसेदित्यर्थः2 । ग्रामग्रहणादरण्ये न दोष इति मस्करी3 ॥ 81 ॥ न द्वितीयामपर्तु रात्रिमिति यद्यपि ऋतुरविशेषितः तथापि वार्षिको ग्राह्यः1 । ऊर्ध्वं वार्षिकाभ्यां नैकस्थानं विधीयत इति शङ्खः2। यौ च श्रावणभाद्रपदौ अशक्तस्य तौ3 । चत्वारो मासाः देवलः4।
न चिरमेकत्र वसेदन्यत्र वार्षिकात्5 । श्रावणादयश्चत्वारो मासा वार्षिकाः6 [see 6.11] ।
इति विश्वरूपः7 ॥ 82 ॥
सत्यकामजाबालौ1।
ग्रामे नगरे पुरे वा प्राप्ते वर्षाकाले स्थितिमेव करोति भिक्षुस्तस्मिन्नेव स्थाने ऊर्ध्वकालं क्षणमपि स्थितिं न कुर्यात्2 । अज्ञानात्स्थितिं कृत्वा प्राजापत्यं समाचरेत्3 ॥ 83 ॥
पुनरत्रिः1।
जपित्वैता ऋचो गच्छेदारभ्य प्रागुदक्च वा ।
ग्रामैकरात्रं विहरेद्दीर्घमासीत वा क्वचित् ।
अन्धवज्जडवच्चापि बधिरोन्मत्तमूकवत् ॥ 84 ॥
नामगोत्रादिचरणं देशं वंशं श्रुतं कुलम् ।
वयो वृत्तं व्रतं शीलं ख्यापयन्नैव सिद्ध्यति ।
प्रख्यापनाद्यतेर्हानिः पुण्यस्य स्यान्न संशयः ॥ 85 ॥
गूढधर्माश्रितो विद्वानज्ञातचरिते स्थितः ।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ॥ 86 ॥
इति यतिधर्मसमुच्चये गतिस्थितिनिरूपणं नाम नवमं पर्व ॥ 87 ॥