अष्टमं पर्व
लिङ्गधर्मप्रायश्चित्तविधिः
अथ लिङ्गधर्मा वपनादयः सप्रायश्चित्ता उच्यन्ते1 । तत्र शौनकः2।
शिखावर्जमृतुसंधिषु वापयेत्3 । न रोमाणि वापयेत्4 ॥ 1 ॥
देवलः1।
ऊर्ध्वं सितचतुर्दश्याः प्रतिपत्तोऽधरा तिथिः ।
ऋतुसंधिः स विज्ञेयो वपनं तत्र कारयेत् ॥ 2 ॥
लिखितः1।
ऋतुसंधिषु सर्वत्र चातुर्मास्यान्तरं विना ।
पौर्णमास्यां शिखावर्जं मुण्डयेत शिरो यतिः ॥ 3 ॥
अलाभे व्याधिपीडायां राजचोराद्युपद्रवे ।
वापयेत्पौर्णमास्यादि यावत्स्यात्कृष्णपञ्चमी ॥ 4 ॥
ऋतुसंधिकालः सितचतुर्दश्या ऊर्ध्वं प्रतिपद्यधरा तिथिः या सा ज्ञेया1 । अपरपक्षादिप्रतिपत्पञ्चदश्योः संधिमदहोरात्रं यत्तस्मिन्वपनं कुर्यादित्यर्थः2ˇ॥ 5 ॥ देवलः1।
चातुर्मास्यानन्तरं केशश्मश्रूण्यपनयेत् नाधोरोमाणि2 ॥ 6 ॥
मनुः1।
कृत्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ 7 ॥ [MDh 6.52]
देवलः1।
मौण्ड्यं शिखाविकल्पो वा यदि लुम्पेत्प्रमादतः ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ 8 ॥
गालवः1।
त्रिस्थानलोमवपनं कृत्वा प्राजापत्यं कृत्वा प्राणायामशतं कुर्यात्2 ॥ 9 ॥
जमदग्निः1।
कक्षोपस्थादिवपने प्रायश्चित्ती भवेद्यतिः ।
प्राजापत्यत्रयं कृत्वा प्राणायामशतानि च ॥ 10 ॥
इदं कक्षोपस्थादिवपनसमुच्चये प्रायश्चित्तम्1 । मेधातिथिः2।
कक्षोपस्थशिखावर्जमृतुसंधिषु वापयेत् ।
न त्रैमुण्ड्यमतिक्रामेद्भिक्षुः संवत्सरे क्वचित् ॥ 11 ॥
वपनानन्तरं स्नात्वा मृद्भिर्द्वादशभिर्यतिः ।
प्राणायामत्रयं कृत्वा वारुणीभिश्च मार्जयेत् ॥ 12 ॥
स्नात्वोत्तीर्य च शेषेण जङ्घाशौचं मृदम्भसा ।
अपवित्रीकृतो भिक्षुः कौपीनस्राविवारिणा ॥ 13 ॥
कुर्यान्मूत्रपुरीषे चेद् द्विगुणं स्नानमाचरेत् ।
मुहूर्तद्वयमस्नात्वा पिबन्खादंश्च षड्गुणम् ॥ 14 ॥
गृहीतं यदि दण्डाद्यमविनष्टं तु न त्यजेत् ।
समुद्रं गच्छ स्वाहेति विनष्टं प्रक्षिपेज्जले ॥ 15 ॥
प्रक्षिप्य चान्यदादद्याद्गायत्र्या प्रणवेन वा ।
तच्छंयोरित्युपवीतमब्लिङ्गाभिः कमण्डलुम् ॥ 16 ॥
कुण्डिकामिषुमात्रोर्ध्वां निक्षिपेच्च विहायसि ।
सोदकां रज्जुसंलामन्यथा दुष्यते यतिः ॥ 17 ॥
अरण्ये त्रीनिषुक्षेपान्त्रिदण्डेन विना व्रजेत् ।
न दुष्येद्दुष्यति ग्रामे गृहाद् गृहमपि व्रजन् ॥ 18 ॥
तथा1 ।
प्रगृहीतान्त्रिदण्डादीनविनष्टान्यदि त्यजेत् ।
एकरात्रोषितः कुर्यात्प्राणायामशतानि च ॥ 19 ॥
गालवः1।
विद्यमानेन जलपवित्रेणाचमनतर्पणोपस्थानानि न करोति यः तस्य सर्वं निष्फलं भवेत्2 । तस्य प्रायश्चित्तं विधीयते3 ।
प्राणायामांस्त्रिशतं कृत्वा जपेत्त्रिकशतत्रयमिति4 ।
जलपवित्रं विनापः प्राश्य दश प्राणायामान्धारयेत्5 ॥ 20 ॥
अत्रिः1।
गन्धवर्णरसैर्दुष्टमस्वच्छं केशदूषितम् ।
विना वस्त्रं पिबन्नम्भः प्राणायामान्दशाचरेत् ॥ 21 ॥
तत्र1 ।
उद्धृतासु स्रवन्तीषु ह्रदेषु विमलेषु च ।
वस्त्रपूता न कर्तव्या आपः शुद्धा इति श्रुतिः ॥
इति तेनैव पूर्वमेव परिहृतम्2 [see 6.44] ॥ 22 ॥ गालवः1।
जलपवित्रादानं बन्धनं च प्रणवेन कुर्यात्2 । त्रिदण्डजलपवित्रवियोगं न कुर्यात्3 । प्रमादात्करणे आचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्4 । स्नानभोजनकाले तु त्रिदण्डवियोगं न कुर्यात्5 । प्रमादात्करणे आचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्6 । प्रागुदक्शिरसं विष्णोः स्थानमसीति त्रिदण्डं स्थापयेत्7 । अधःपतने उत्तिष्ठ ब्रह्मणस्पत इति जपेत्8 । अन्यदण्डेषु दण्डान्स्पृा विष्णोर्मनसा पूतेस्थ इति प्रक्षाल्य प्राणायामांस्त्रीन्कुर्यात्9 । अज्ञानात्करणे प्रणवेन प्रक्षाल्य प्रणवं दशधावर्तयेत्10 ॥ 23 ॥
गर्गः1।
दण्डसंघर्षणं कृत्वा वनस्पते वीाङ्ग इति जपित्वा विष्णोर्मनसा पूतेस्थ इति प्रक्षाल्य प्राणायामांस्त्रीन्कुर्यात्2 । अज्ञानात्कृत्वा प्रणवेन प्रक्षालयेत्3 । प्रणवं दशकृत्व आवर्तयेत्4 ॥ 24 ॥
गालवः1।
कमण्डलुजलपवित्रपात्रसंघर्षणे सद्यस्त्यागो विधीयते2 ॥ 25 ॥
अत्रिः1।
पात्रस्नेहसंघर्षणं न कुर्यात्2 । अज्ञानात्कृतेऽपवित्रतां व्रजेत्3 ॥ 26 ॥
स एवाह1 ।
अभिन्नमदुष्टं वा पात्रं त्रिदण्डादीन्वा त्यक्त्वा अहोरात्रमुपोष्य गायत्र्यष्टशतं जपेत्2 । भिन्नपात्रं धारयित्वोपवासत्रयं चरेत्3 ॥ 27 ॥
जमदग्निः1।
शौचभेदे शतं कुर्यात्पात्रभेदे तथैव च ।
भिन्ने त्वन्यधृते पात्रे उपवासत्रयं चरेत् ॥ 28 ॥
उत्तरत्र1 ।
पूयशोणितमांसैस्तु विण्मूत्राभ्यां तथापि वा ।
रेतोऽश्रुश्लेष्मभिः स्पृष्टं पात्रं यदि यतिस्त्यजेत् ॥ 29 ॥
श्वकाकाखुगवोष्ट्रांश्च जम्बुकं वानरं तथा ।
चण्डालं पतितं स्पृा हस्तस्थं पात्रमुत्सृजेत् ॥ 30 ॥
मज्जामूत्रपुरीषैस्तु शुक्लकीलालशोणितैः ।
स्पृष्टं दण्डं त्यजेद्भिक्षुः शेषं संस्कारमर्हति ॥ 31 ॥
न दण्डेन विना ग्रामे गृहाद् गृहमपि व्रजेत् ।
प्राणायामांस्तथा कुर्याद्वने चाध्वव्यतिक्रमे ॥ 32 ॥
यद्यदण्डो गृहं गच्छेद्वनं वा त्रीषुमात्रतः ।
नीडं प्रतिनिवर्तेत प्राणायामांस्त्रयस्त्रयः ॥ 33 ॥
त्रिदण्डासनपात्रादेर्न वियोगः कथंचन ।
वियोगात्पतते भिक्षुः प्रायश्चित्तं तदुच्यते ॥ 34 ॥
त्रिदण्डस्य वियोगे तु प्राणायामशतं चरेत् ।
शतार्धं कुण्डिकायाः स्यात्पात्रे वै षोडश स्मृताः ॥ 35 ॥
पवित्रे चाष्ट विज्ञेयाः शिक्ये षट् च प्रकीर्तिताः ।
चत्वारश्चासने ज्ञेयाः पवित्रीकरणं त्विदम् ॥ 36 ॥
सत्यकामजाबालौ1।
अथ भिक्षूणां प्रायश्चित्तं व्याख्यास्यामः2 । पात्रं क्रोशमात्रं त्यक्त्वा व्रजति चेत्प्रायश्चित्तेन युज्यते3 । त्रिंशत्प्राणायामान्कृत्वा जपेत्त्रिकशतत्रयम्4 । त्रिदण्डं पात्रासनं वा त्यक्त्वा समुद्रगाया नद्याः पारं व्रजति चेदुपवासत्रयं कृत्वा प्राणायामशतं चरेत्5 ॥ 37 ॥
उत्तरत्र1 ।
स्त्रीशूद्रे दण्डान्तरं गते प्राणायामांस्त्रीन्कुर्यात्2 । खरोष्ट्रेऽन्तरं गते प्राणायामान्षडाचरेत्3 । श्वानसूकरचण्डालेष्वन्तरं गतेषु प्राणायामान्द्वादश धारयेत्4 । विहितातिक्रमं कृत्वा प्राणायामान्द्वादश धारयेत्5 ॥ 38 ॥
दक्षः1।
दण्डान्पात्रं परित्यज्य एकरात्रोषितो यतिः ।
दण्डान्मन्त्रेण गृह्णीयाद्भिक्षापात्रं परित्यजेत् ॥ 39 ॥
अत्रिः1।
यदि भूमौ क्षिपेद्दण्डान्पात्रं वापि कदाचन ।
षोडशासुयमान्कुर्यादष्टौ षड् द्वादशापि वा ॥ 40 ॥
देवलः1।
दण्डादौ दूषिते विष्ठाक्रव्यादाद्यैर्महामुने ।
किं तत्र वद कर्तव्यं संस्कारो येन जायते ॥ 41 ॥
दण्डान्मृद्भिर्द्वादशभिरद्भिः संशोध्य यत्नतः ।
जप्त्वाथ पौरुषं सूक्तमद्भिः संशोधयेदपि ।
इतरेषां तु राजेन्द्र सद्यस्त्यागो विधीयते ॥ 42 ॥
शुक्लोच्छिष्टाश्रुविण्मूत्रश्लेष्मशूद्रगवानलैः ।
त्यजेत्पात्रपवित्रादीन्स्पृा वा तस्करादिभिः ॥ 43 ॥
गृह्य शूद्रादिवर्णेभ्यः क्रमाद्दण्डादिकं यतिः ।
शतं शतार्धं पञ्च च प्राणायामान्दशापि च ॥ 44 ॥
अत्रिः1।
उपानच्छत्रवस्त्रादि भिक्षायाः साधनं तथा ।
गृह्य शूद्राच्छतं कुर्याद्वैश्यादर्धशतं तथा ।
क्षत्रियात्पञ्चविंशच्च हीनविप्राद्दशैव तु ॥ 45 ॥
वृद्धजाबालिः1।
त्रिदण्डमप्पवित्रं च त्यक्त्वा भिक्षुर्गृहान्तरे ।
जपेत्पुरुषसूक्तं च प्राणायामान्दशाचरेत् ॥ 46 ॥
देवलः1।
गृहस्थः परपाकाशी पात्रलोपी च भिक्षुकः ।
दशवर्षसहस्राणि तिर्यग्योनिषु जायते ॥ 47 ॥
पात्राभावे यतेर्नित्यं पात्रं पर्णपुटं भवेत् ।
तत्पात्रं तावदेव स्याद्यावन्मुख्यं न लभ्यते ॥ 48 ॥
कपिलः1।
सूचीनखनिकृन्तने जलपवित्रपात्रे अन्तर्वासोबहिर्वाससी चाशक्तौ धारयेत्2 ॥ 49 ॥
अत्रिः1।
त्यक्त्वा यज्ञोपवीतं तु षट् कृच्छ्राणि समाचरेत् ।
गायत्रीसहितान्येव पुनश्चाप्युपनाययेत् ॥ 50 ॥
वृद्धजाबालिः1।
हीनो यज्ञोपवीतेन यदि स्याद्ध्यानभिक्षुकः ।
तस्य क्रिया निष्फलाः स्युः प्रायश्चित्तं विधीयते ॥ 51 ॥
गायत्रीसहितानेव प्राजापत्यान्षडाचरेत् ।
पुनः संस्कारमाहृत्य धार्यं यज्ञोपवीतकम् ॥ 52 ॥
कुर्यात्त्रिदण्डग्रहणं कालक्षेपं न कारयेत् ।
एवं न याति नरकं सुगतिं चापि गच्छति ॥ 53 ॥
इदमेव यज्ञोपवीतत्यागात्मकं पारिव्राज्यं कृतवतां प्रायश्चित्तम्1 ।
हारीतः2।
विना यज्ञोपवीतेन यत्कृतं भोजनादिकम् ।
तत्पापप्रशमायालं प्रायश्चित्तं ब्रवीमि वः ॥ 54 ॥
तेषां तु भोजनादीनां प्रत्यहं सुसमाहितः ।
सहस्रार्धैरसुयमैर्विधिपूर्वकृतैः शुचिः ॥ 55 ॥
योगाभ्यासरतस्येह नश्यन्ते पातकानि तु ।
तस्माद्योगरतो भूत्वा ध्यायेन्नित्यं क्रियान्तरे ॥ 56 ॥
स एवाह1 ।
अज्ञानेन तु विप्रेन्द्रो विना यज्ञोपवीतकम् ।
कृत्वा मूत्रपुरीषाणि प्राणायामान्षडाचरेत् ॥ 57 ॥
नित्यं यज्ञोपवीती स्यादृते त्वावश्यकक्रियाम् ।
कुर्वन्नावश्यकं कर्म निवीतं पृष्ठतः क्षिपेत् ॥ 58 ॥
अथ वस्त्रमुच्यते1 । तत्राह गौतमः2।
कौपीनाच्छादनार्थं वासो बिभृयात्3 । प्रहीणमेके निर्णिज्य4 ॥ 59 ॥
[GDh 3.18–19]
बृहस्पतिः1।
कौपीनाच्छादनार्थं च बिभृयाज्जीर्णमम्बरम् ।
प्रहीणमेके निर्णिज्य बहिस्त्याज्यं तु यद्भवेत् ॥ 60 ॥
हारीतः1।
कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीम् ।
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् ॥ 61 ॥
जाबालिः1 ।
कार्पासं धारयेद्वस्त्रं पटं वल्कलवर्जितम् ।
नान्यथाचमने शुध्येत्संध्योपासन एव च ।
काषायमेव कार्पासं वासः कन्थां च धारयेत् ॥ 62 ॥
शङ्खलिखितौ1।
त्रिदण्डपवित्रपाणिर्विपरिधानं कुशचीरवल्कलवासाः शीतत्राणार्थं कम्बलमेके2 ॥ 63 ॥
यद्यपि काषायमित्यविशेषेणोक्तं तथापि गैरिकाख्यधातुना रक्तं कर्तव्यम्1 । तथा हि पारिव्राज्यलिङ्गधारणं गृहस्थस्य प्रतिषेधयन्नेतज्ज्ञापयति वृद्धजाबालिः2।
न धारयेद्धातुवस्त्रं शिक्यं चापि न धारयेत् ।
न धारयेत्त्रिविष्टब्धमेतत्स्नातकलक्षणम् ॥ 64 ॥
दत्तात्रेयः1।
मोक्षाश्रमे स्मृतं वस्त्रं रक्तं गैरिकधातुना ।
धार्यं यज्ञोपवीतं तु सितं नवगुणान्वितम् ॥ 65 ॥
एतासु विहितास्वपि मात्रासु सङ्गो न कर्तव्यः1 । तथा च देवलः2।
सममृत्काञ्चनः स्वमात्रास्वप्यसक्तो मध्यस्थः3 ॥ 66 ॥
मनुः1।
मात्रासङ्गाद्विनिर्गतः इति1 ॥ 67 ॥
वसिष्ठः1।
न कुट्यां नोदके सङ्गो न चेले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ 68 ॥
[VaDh 10.23]
इति यतिधर्मसमुच्चये लिङ्गधर्मप्रायश्चित्तविधिर्नाम अष्टमं पर्व ॥ 69 ॥