सप्तमं पर्व
आचारः
अथाचारः1 । तत्र मनुः2।
अनरिनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् ।
उपेक्षकोऽसंचयिको मुनिर्भावसमन्वितः ॥ 1 ॥ [MDh 6.43]
कपालं वृक्षमूलानि कुचेलमसहायता ।
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ 2 ॥ [MDh 6.44]
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ 3 ॥ [MDh 6.45]
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ 4 ॥ [MDh 6.46]
अतिवादांस्तितिक्षेत नावमन्येत कंचन ।
न चैनं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ 5 ॥ [MDh 6.47]
क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ 6 ॥ [MDh 6.48]
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थं विचरेद्दिवा ॥ 7 ॥ [MDh 6.49]
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ 8 ॥ [MDh 6.50]
न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः ।
आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत् ॥ 9 ॥ [MDh 6.51]
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ 10 ॥ [MDh 6.58]
अल्पान्नाभ्यवहारेण रहःस्थेनासनेन च ।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ 11 ॥ [MDh 6.59]
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाममृतत्वाय कल्पते ॥ 12 ॥ [MDh 6.60]
अवेक्षेत गतीर्नणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनां च यमक्षये ॥ 13 ॥ [MDh 6.61]
विप्रयोगं प्रियैश्चैव संप्रयोगमथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ 14 ॥ [MDh 6.62]
देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ 15 ॥ [MDh 6.63]
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ 16 ॥ [MDh 6.64]
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिमुत्तमेष्वधमेषु च ॥ 17 ॥ [MDh 6.65]
विष्णुः1।
मानावमानौ यावेतौ प्रीत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ 18 ॥
मानावमानौ यावेतौ तावेवाहुर्विषामृते ।
अवमानोऽमृतं तत्र मानस्तु परमं विषम् ॥ 19 ॥
उत्तरत्र1 ।
यथा चैवावमन्यन्ते जनाः परिवदन्ति च ।
तथा युक्तश्चरेद्योगी सतां धर्ममदूषयन् ॥ 20 ॥
पुनस्तत्रैवः1 ।
सारभूतमुपासीत येन मुक्तिमवाप्नुयात् ।
क्रियान्या बहुधा या तु योगविघ्नकरी हि सा ॥ 21 ॥
काम्यानि यानि कर्माणि प्रतिषिद्धानि यानि च ।
तानि तानि परित्यज्य नित्यं कर्म समाचरेत् ॥ 22 ॥
यमः1।
यश्चास्य दक्षिणं बाहुं चन्दनेनानुलिम्पति ।
सव्यं वास्य च यस्तक्षेत्समौ ताववधारयेत् ॥ 23 ॥
एवमस्य भवेद्भावो नित्यमेव प्रियाप्रिये ।
इष्टे वा यदि वा द्वेष्ये समः सर्वत्र वर्तयेत् ॥ 24 ॥
समः साधौ च पापे च शत्रौ मित्रे च वै समः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 25 ॥
न प्रहृष्यति सन्माने नावमाने च कुप्यति ।
रागद्वेषौ समौ यस्य स मुनिः सर्वनिःस्पृहः ॥ 26 ॥
श्रुत्वा स्पृा च दृा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ 27 ॥
न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न च वाक्चपलश्च स्यादिति शिष्टस्य लक्षणम् ॥ 28 ॥
तथा1 ।
अन्नाच्छुद्धागमाच्छुद्धाद्विशेषरसवर्जितात् ।
निर्मलं जायते सत्त्वं मलिनं मलिनाद्भवेत् ॥ 29 ॥
मांसशोणितसंघातं मेदोमज्जास्थिसंचयम् ।
नखरोमसमायुक्तं वसाप्रभृतिकर्दमम् ॥ 30 ॥
पूर्णं मूत्रपुरीषाभ्यां दुर्गन्धं चर्मबन्धनम् ।
देहोऽनिलमयं धाम मलाधारमसारकम् ॥ 31 ॥
चित्रभित्तिप्रतीकाशमपां फेनोपमं परम् ।
नित्यानित्यसमायुक्तं रागद्वेषसमुच्चयम् ॥ 32 ॥
एकस्तम्भं नवद्वारं त्रिस्थूणं पाञ्चभौतिकम् ।
प्रीतिप्राकारसंयुक्तं मनःप्रबलनायकम् ॥ 33 ॥
दशेन्द्रियभटाकीर्णं व्याधिश्वापदसेवितम् ।
विशेषविषयाक्रान्तं चेतनाधिष्ठितं पुरम् ॥ 34 ॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ 35 ॥
स्नानं जपं तथा ध्यानं शौचमाहारलाघवम् ।
य एतत्पञ्चकं कुर्यान्मुक्तो भवति नान्यथा ॥ 36 ॥
पुराणश्रवणाभ्यासं भक्तितो नित्यमाचरेत् ।
पुराणश्रवणे भक्तिर्मूर्खस्यापि प्रजायते ॥ 37 ॥
भक्तयाविच्छिन्नया मुक्तिस्तस्मात्पौराणमभ्यसेत् ।
तदभ्यासात्परं ब्रह्मभावमापद्यते मुनिः इति ॥ 38 ॥
वसिष्ठः1।
परिव्राजकः सर्वभूताभयं दत्वा प्रतिष्ठेत2 । [VaDh 10.1]
तथाप्युदाहरन्ति3 ।
अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ 39 ॥ [VaDh 10.2]
अभयं सर्वभूतेभ्योऽदत्वा यस्तु निवर्तते ।
हन्ति जातानजातांश्च [द्रव्याणि प्रतिगृह्य च] ॥ 40 ॥ [VaDh 10.3]
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
उपवासात्परं भैक्षं दया दानाद्विशिष्यते ॥ 41 ॥ [VaDh 10.5]
तथोत्तरत्र1 ।
अव्यक्तलिङ्गोऽव्यक्ताचारोऽनुन्मत्त उन्मत्तवेषः2 । अथाप्युदाहरन्ति3 ।
न शब्दशास्त्राभिरतस्य मोक्षो
न लोकचित्तग्रहणे रतस्य ।
न भोजनाच्छादनतत्परस्य
न चैव रम्यावसथप्रियस्य ॥ 42 ॥ [VaDh 10.18–20]
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथंचन ।
एतैः पूर्वं सुनिष्पन्नो यतिर्भवति नान्यथा ॥ 43 ॥
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा राष्ट्रात्प्रवासयेत् ॥ 44 ॥
उत्तरत्र1 ।
लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः ।
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥ 45 ॥
ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता ।
भिक्षोश्चत्वारि कर्माणि पञ्चमं नोपपद्यते ॥ 46 ॥
अत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति ।
ततः शास्त्राण्यधीयन्ते श्रूयते ग्रन्थविस्तरः ॥ 47 ॥
अस्विंात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
वेदाभ्यासपरो नित्यमात्मविद्यापरायणः ॥ 48 ॥
संसेव्य चाश्रमान्सर्वान्जितक्रोधो जितेन्द्रियः ।
ब्रह्मलोकमवाप्नोति वेदशास्त्रार्थविद् द्विजः ।
आश्रमेषु तु सर्वेषु प्रोक्तः प्राणान्तिको विधिः ॥ 49 ॥
शातातपः1।
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते यतिः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ॥ 50 ॥
पारिव्राज्यं गृहीत्वा तु गृहस्थो यो भवेत्पुनः ।
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ 51 ॥
इह पूर्वं प्रतिज्ञाय संन्यासं न करोति यः ।
मिथ्यावचनदग्धोऽसौ सोऽन्धे तमसि मज्जति ॥ 52 ॥
यस्तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् ।
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ 53 ॥
शून्यागारेषु घोरेषु भवत्याखुः सुदारुणः ।
सोऽचिराज्जायते गर्भे श्वा स्याद् द्वादशजन्मसु ॥ 54 ॥
भासो विंशतिवर्षाणि नववर्षाणि सूकरः ।
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥ 55 ॥
ततो दावानिा दग्धः स्थाणुर्भवति कामुकः ।
ततो वर्षशतान्यष्टौ द्वे च तिष्ठत्यचेतनः ॥ 56 ॥
पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।
क्षुत्पिपासापरिश्रान्तः क्रव्यादो रुधिराशनः ।
क्रमेण लभते मोक्षं कुलस्योत्सादनेन च ॥ 57 ॥
संन्यासं पातयेद्यस्तु पतितः संन्यसेच्च यः ।
संन्यासविघ्नकर्ता च त्रयस्ते पतिताः स्मृताः ॥ 58 ॥
बिन्दुला नाम चण्डालाः परिव्राजकरूपिणः ।
तेषां जातान्यपत्यानि चण्डालैः सह वासयेत् ॥ 59 ॥
हारीतः1।
विधिना बुद्धिपूर्वेण यः संन्यस्य गृही भवेत् ।
स एवारूढपतितः सर्वधर्मबहिष्कृतः ॥ 60 ॥
पारिव्राज्यं परित्यज्य गृहस्थो यो भवेत्पुनः ।
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ 61 ॥
इत्यादिपरं शातातपेयपाठवत्1 ।
आरूढपतितो हन्याद्दश पूर्वान्दशापरान् ।
तानेव तारयेद्विप्रो यतिः सम्यग्व्यवस्थितः ॥ 62 ॥
तस्मात्सर्वप्रयत्नेन त्रिदण्डं धारयेद्यतिः ।
नेह भूयः स जायेत यतिधर्मस्य पालनात् ॥ 63 ॥
सर्वेषामाश्रमाणां तु त्रिदण्डी ह्युत्तमाश्रमी ।
स एवास्य नमस्यः स्याद्भक्तया सन्मार्गवर्तिनः ॥ 64 ॥
त्रिदण्डरूपधृग्विप्रः साक्षान्नारायणात्मकः ।
यस्तं पूजयते भक्तया विष्णुस्तेन प्रपूजितः ॥ 65 ॥
अष्टाक्षरेण मन्त्रेण नित्यं नारायणात्मना ।
नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्डधृक् ॥ 66 ॥
एवं वः कथितो विप्राः सन्मार्गोऽयं सनातनः ।
प्राप्ते कलियुगे घोरे इतोऽन्ये क्षुद्रलिङ्गिनः ॥ 67 ॥
संभविष्यन्ति ते सर्वे गौतमावििदीपिताः ।
वेदार्थं चान्यथा सर्वं प्रवक्ष्यन्ति कलौ युगे ॥ 68 ॥
नाः प्रच्छन्नबौद्धाश्च विनिन्दन्ति त्रयीमयम् ।
रात्रौ वेदरहस्यानि पठिष्यन्त्यल्पमेधसः ॥ 69 ॥
भक्षयिष्यन्ति शूद्रान्नं वयं मुक्ता इति स्थिताः ।
अन्यानपि स्वधर्मस्थान्प्रेरयिष्यन्ति ते कलौ ॥ 70 ॥
एकवेणुं समाश्रित्य जीवन्ति बहवो द्विजाः ।
नरके रौरवे घोरे कर्मत्यागात्पतन्ति ते ॥ 71 ॥
तस्मात्तान्नालपेत्प्राज्ञो न निरीक्षेत वापि तान् ।
आलोकने च तेषां तु शुध्यते भानुदर्शनात् ॥ 72 ॥
नं वानुपनीतं वा यः श्राद्धे भोजयेद् द्विजम् ।
रेतोमूत्रपुरीषाणि स पितृभ्यः प्रयच्छति ॥ 73 ॥
प्रेरणादथ वा लोभादेकदण्डं समाश्रितः ।
भूयो निर्वेदमापन्नस्त्रिदण्डं धारयेद् बुधः ॥ 74 ॥
पराशरः1।
द्वाविमौ पुरुषौ यातो भित्त्वा वै सूर्यमण्डलम् ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ 75 ॥
संन्यस्तं तं द्विजं दृा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्वा परं ब्रह्माधिगच्छति ॥ 76 ॥
कात्यायनः1।
कामक्रोधादिकान्दोषान्वर्जयेद्यावदायुषम् ।
एवं संवर्तयन्नित्यं ब्रह्म संपद्यते यतिः ॥ 77 ॥
उशनाः1।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ 78 ॥
व्यासः1।
यत्पूर्वमभिनिर्दिष्टमात्मज्ञानं मया पुरा ।
तत्सर्वं यत्नतोऽभ्यस्येत्सर्ववित्सङ्गवर्जितः ॥ 79 ॥
लोकयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः ।
नानोपनिषदो यत्नादभ्यस्येन्मुक्तिहेतुकीः ॥ 80 ॥
आपस्तम्बः1।
अथ परिव्राजकः2 । अत एव ब्रह्मचर्यात्परिव्रजति3 । तस्योपदिशन्ति4 । अनरिनिकेतः स्यादशर्माशरणो मुनिः5 । स्वाध्याय एवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहोऽनमुत्रश्चरेत्6 ॥ 81 ॥ [ApDh 2.21.7–10]
बृहस्पतिः1।
आत्यन्तिकं ब्रह्मचर्यमाश्रमत्रयवासिनाम् ।
स्वदारनियमादेव गृहस्थो ब्रह्मचर्यवान् ॥ 82 ॥
उत्तरत्र1 ।
न ज्ञातिपुत्रमित्रादीन्न प्रशस्तान्द्विजातिषु ।
देशान्तरेऽपि तान्दृा न च तैः सह संविशेत् ।
अवश्यं भाविनी तत्र रागद्वेषादिषु स्थितिः ॥ 83 ॥
तथैव1 ।
न तीर्थवासी नित्यं स्यान्नोपवासपरो यतिः ।
न चाध्यापनशीलः स्यान्न व्याख्यानपरो भवेत् ॥ 84 ॥
शङ्खः1।
चन्दनेनोक्षितं बाहुं वास्यैकं वापि तक्षतः ।
कल्याणं वाप्यकल्याणं तयोरपि न चिन्तयेत् ।
सर्वभूतहितो मैत्रः समलोष्ठाश्मकाञ्चनः ॥ 85 ॥
लिखितः1।
नानध्यात्मग्रन्थरतिर्न च ज्यौतिषिको भवेत् ।
न व्याधिविषवेतालांश्चिकित्सेद्धर्मतोऽपि च ॥ 86 ॥
न शिष्यसंग्रहं कुर्यान्न स्वविद्यां प्रकाशयेत् ।
संस्कृतां न वदेद्वाणीं बालवन्मूकवच्चरेत् ॥ 87 ॥
उत्तरत्र1 ।
संन्यस्य यतिधर्मांश्च कुर्वाणो वत्सरत्रयम् ।
योगनिष्ठः सदा भूत्वा मोक्षं प्रेत्य स विन्दति ॥ 88 ॥
तस्मादैश्वर्यमाकाङ्क्षेत्तद्विष्णोः परमं पदम् ।
कैवल्याश्रममासाद्य चरेद्दिनमपि द्विजः ॥ 89 ॥
शङ्खलिखितौ1।
भैक्षवृत्तिरसंविभागरुचिरभिशस्तपतितवर्जं निन्दकोपहतान्नजीवी कौपीनाच्छादनमात्रावरणपरितुष्टः परिपक्वकषायः कालकाङ्क्षी सदायुक्त आत्मरतिरसंनिधानशीलः कुहककल्कदम्भवर्जितः सदा नैकग्रामवासी सङ्गदोषान्परित्यज्य पर्यटनशीलः स्यात्2 । आत्मज्ञानविवेकार्थकुशल ऊर्ध्वं वार्षिकाभ्यां नैकस्थानवासाभिरुचिरुद्धृताभिरद्भिर्मूत्रपुरीषशौचाचमनादि कुर्यात्3 ॥ 90 ॥
तथा1 ।
वाग्बाणान्दुर्जनैर्मुक्तान्सहते यो न कुप्यति ।
भावेन च सुसंहृष्टः स दमस्तस्य बुद्धिजः ॥ 91 ॥
शीतोष्णादीनि च द्वन्द्वान्दुर्जनप्रहितानि च ।
यथा धारयते बुद्ध्या सा तितिक्षा क्षमा स्मृता ॥ 92 ॥
इष्टानिष्टेषु भूतेषु व्यसनाभ्युदयेषु च ।
उपशान्तः परां प्रज्ञां प्राप्तः शमदमात्मकः ॥ 93 ॥
तपोज्ञानदमैश्वर्यैः सर्वदा यो न कुप्यति ।
वाग्बाणाभिहतस्तीक्ष्णैर्धीरः सोऽत्र न मुह्यति ॥ 94 ॥
यो यतिर्मृदुभावेन मोक्षधर्मं चरेदिह ।
भवबन्धं विहायाशु सोऽमृतत्वाय कल्पते ॥ 95 ॥
तथैव1 ।
चातुर्वर्ण्यं चरेद्भैक्षं पतितेषु च वर्जयेत् ।
नियतेन्द्रियवाक्चक्षुः पूर्वं पूर्वं विवर्जयेत् ॥ 96 ॥
वृद्धदक्षः1।
वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथापरः ।
एतैर्दण्डैस्तु दण्डी स्यान्न तु वैणवधारणात् ॥ 97 ॥
वाग्दण्डो मौनसंयोगः कर्मदण्डस्त्वहिंसनम् ।
मनसः स तु दण्डः स्यात्प्राणायमस्य धारणम् ॥ 98 ॥
कपिलः1।
स्वस्त्याशिषं वर्जयेत्2 । शरणं न कुर्यान्न कारयेत्3 । कृतं प्रविशेत्4 । अथ ब्रह्मोपासीत5 । तच्चित्त एव शयीत6 । अनिन्दके देवगृहे वा प्रविष्टो यथाकथंचिच्छर्वरीं नयेत् जाग्रदेव सुषुप्तः7 । आसीनोऽथाचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्8 । काष्ठारोपितकमण्डलुना रात्रावाचामेत् दिवा स्रवन्त्या9 । अभिरुचितं प्रभूतोदकं पुण्यस्थानं न त्यजेत्10 । न लोलुपो नेतिहासपुराणव्याख्यानपरः11 ॥ 99 ॥
उत्तरत्र1 ।
निर्जन्तुकैः स्वपतितैरिन्धनैरसहिष्णुरमििन्धीत2 । बीजशून्यमूलफलभक्षणे न दोषः3 । चेतनाचेतनमल्पप्रयोजनाय न द्रुह्येत्4 । कमण्डलुजलपवित्रकुसीदतैजसादिसंग्रहे न दोषः5 । कोपितोऽपि न कुप्येत्6 । तोषितोऽपि न तुष्येत्7 । मर्तुं नेच्छेन्न जीवितुं वा8 । अदग्धं पात्रं न त्यजेत्9 । शौचार्थं पूतिकाकरणात्क्षणमपि सद्यः संनिहितोदके जपनीयं जपेत्10 । ततश्चतुर्भुजं चिन्तयेत्11 । नैकदेवतापक्षपातित्वं दर्शयेत्12 । संनिकृष्टं साश्रयं शरणं संत्यजेत्13 । सुरूपां स्त्रियं दृा न क्वचित्प्रेक्षेत14 । संकोचयेदक्षिणी15 । ॐ इति नैव कम्पयेत्16 ॥ 100 ॥
तथैव1 ।
सर्वेन्द्रियाणां संकोचो दृष्टादृष्टकरो यतेः ।
अप्रमत्तेन कर्तव्यः सुखमत्यन्तमिच्छता ॥ 101 ॥
गीतानां गानशीलस्य प्राणायामपरस्य च ।
नैवोक्षन्ति च पापानि जन्मान्तरकृतान्यपि ॥ 102 ॥
क्रतुः1।
बीजघ्नं तैजसं पात्रं शुक्लोत्सर्गः सिताम्बरम् ।
दिवास्वापो वृथाजल्पो यतीनां पतनानि षट् ॥ 103 ॥
चिरस्थितानि द्रव्याणि संचयादीनि सर्वदा ।
तृणमृद्दारुतोयाश्मपत्रमूलफलानि च ।
अप्रयुक्तं न गृह्णीत प्रयुक्तं न च संचयेत् ॥ 104 ॥
दासीदासं गृहं यानं गोभूधान्यधनं रसम् ।
प्रतिगृह्याप्रतिग्राह्यं हन्यात्कुलशतद्वयम् ॥ 105 ॥
वृद्धजाबालिः1।
आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवादिषु ।
कुतूहलेषु सर्वेषु न गच्छेद्यतिरात्मवान् ॥ 106 ॥
उत्तरत्र1 ।
यस्तु दानपरो भिक्षुर्वस्त्रादीनां च संग्रही ।
उभौ तौ मन्दबुद्धित्वात्पूतीनरकपातिनौ ॥ 107 ॥
दत्तात्रेयः1।
आदाय वैष्णवं लिङ्गं यस्तु त्यजति मूढधीः ।
स याति नरकं घोरं तीव्रं सङ्कटदारुणम् ॥ 108 ॥
देवलः1।
तुल्यारिमित्रो निष्परिग्रहो ब्रह्मचारी मङ्गल्यव्यवहारो संस्कारो जीवशिक्षारत्नधनधान्यविषयोपभोगसंपर्केर्ष्यादर्पमायामोहहर्षविरोधविस्मयविवादत्रासवितर्कादिवर्जनमिति यतिधर्माः2 ॥ 109 ॥
आहारमौषधं चैव सद्गृहस्थगृहे यतिः ।
प्रत्यहं चैव भिक्षेत यथा शेषं न तिष्ठति ॥ 110 ॥
आहारमौषधं चैव तत्कालार्थाधिकं यतिः ।
आत्मार्थं धारयेन्मोहान्नरकं प्रतिपद्यते ॥ 111 ॥
आददीत प्रवृत्तेभ्यः साधुभ्यो धर्मसाधनम् ।
नाददीत निवृत्तेभ्यः प्रमादादपि किंचन ॥ 112 ॥
गर्गः1।
सर्वधर्मान्परित्यज्य यतिधर्मं समाश्रयेत् ।
यतिधर्मात्परिभ्रष्टो न धर्मफलमश्नुते ॥ 113 ॥
वृद्धवसिष्ठः1।
पुष्पमूलफलपाटनाग्रच्छेदनमधुमांसदानादानानि वर्जयेत्2 ॥ 114 ॥
मेधातिथिः1।
त्रिदण्डं कुण्डिकां शिक्यं भैक्षभाजनमासनम् ।
कौपीनाच्छादनं वासः षडेतानि परिग्रहः ॥ 115 ॥
स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् ।
षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् ॥ 116 ॥
भिक्षाटनं जपः स्नानं ध्यानं शौचं सुरार्चनम् ।
कर्तव्यानि षडेतानि सर्वदा नृपदण्डवत् ॥ 117 ॥
रसज्ञानं क्रियावादो ज्योतिषं क्रयविक्रयौ ।
विविधानि च शिल्पानि वर्जयेत्परदारवत् ॥ 118 ॥
नटादिप्रेक्षणं द्यूतं प्रमदां सुहृदस्तथा ।
भक्ष्यभोज्यमुदक्यां च षण्ण पश्येत्पुरीषवत् ॥ 119 ॥
स्कन्धावारे पुरे सार्थे खले गोष्ठे तथा गृहे ।
न वसेत यतिः षट्सु स्थानेष्वेतेषु कर्हिचित् ॥ 120 ॥
रात्र्यध्वानं च यानं च स्त्रीकथा लौल्यमेव च ।
मञ्चकं शुक्लवस्त्रं च यतीनां पतनानि षट् ॥ 121 ॥
रागद्वेषौ मदं मानं दम्भं द्रोहं परात्मसु ।
षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत् ॥ 122 ॥
आसनं पात्रलोपश्च संचयः शिष्यसंग्रहः ।
दिवास्वापो वृथाजल्पो यतेर्बन्धकराणि षट् ॥ 123 ॥
एकाहात्परतो ग्रामे पञ्चाहात्परतः पुरे ।
वर्षाभ्योऽन्यत्र यत्स्थानमुक्तं तद्दुष्टमासनम् ॥ 124 ॥
उक्तानां यतिपात्राणामेकस्यापि न संग्रहः ।
भिक्षोर्भैक्षभुजश्चापि पात्रलोपः स उच्यते ॥ 125 ॥
पात्रस्यापि त्रिदण्डादेर्द्वितीयस्य परिग्रहः ।
कालान्तरोपभोगार्थं सोऽपि स्याद् द्रव्यसंचयः ॥ 126 ॥
शुश्रूषालाभपूजार्थं यशोऽर्थं वा परिग्रहः ।
शिष्याणां न तु कारुण्यात्स ज्ञेयः शिष्यसंग्रहः ॥ 127 ॥
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ।
विद्याभ्यासप्रमादो यः स दिवास्वाप उच्यते ॥ 128 ॥
आध्यात्मिकां कथां मुक्त्वा भिक्षायात्रां सुरस्तुतिम् ।
अनुग्रहं पथिप्रश्नं वृथाजल्पोऽन्य उच्यते ॥ 129 ॥
अजिह्वः षण्ढकः पङ्गुरन्धो बधिर एव च ।
मुग्धः स उच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥ 130 ॥
इदं मृष्टमिदं नेति योऽश्नन्नपि न सज्जते ।
इदं तीक्ष्णमिदं स्वादु तमजिह्वं प्रचक्षते ॥ 131 ॥
अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृा निर्विकारः स षण्ढकः ॥ 132 ॥
भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च ।
योजनान्न परं याति य सदा पङ्गुरेव सः ॥ 133 ॥
तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् ।
चतुर्युगाद्भयं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ 134 ॥
हिताहितं मनोरामं वचः शोकावहं च यत् ।
श्रुत्वा यो न शृणोतीव बधिरः स तु कीर्तितः ॥ 135 ॥
संनिधौ परकीयाणां समौनोऽविकलेन्द्रियः ।
सुप्तवद्वर्तते योऽपि स भिक्षुर्मुग्ध उच्यते ॥ 136 ॥
श्रद्धया परयोपेतः परमात्मपरायणः ।
स्थूलसूक्ष्मशरीराभ्यां मुच्यते दशषट्कवित् ॥ 137 ॥
जमदग्निः1।
धान्यवृक्षलतावल्लीः स्थावरं जङ्गमं तथा ।
उत्पाटयेद्यो मूढात्मा नरकं प्रतिपद्यते ॥ 138 ॥
एकान्नी द्विप्रती चैव भैक्षजीवस्त्रिसंग्रही ।
चत्वारः पतिता ह्येते यतयो नात्र संशयः ॥ 139 ॥
ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ 140 ॥
द्वे एते समवीर्ये तु सुरा ताम्बूलमेव च ।
तस्मात्सर्वप्रयत्नेन ताम्बूलं वर्जयेद्यतिः ॥ 141 ॥
शौनकः1।
न स्वगुणं कीर्तयेत्2 । त्रासितोऽपि न कुप्येत्3 । पूजितोऽपि न मुदं व्रजेत्4 । त्रिषवणं दण्डवत्स्नानमाचरेत्5 । तथा न लङ्घयेत नदीं न बाहुभ्यां तरेत्6 । मृत्युं जीवितं वा न काङ्क्षेत्7 । रात्रौ न चरेत्संध्ययोश्च8 । ताम्बूलभक्षणं वर्जयेत्9 । अभ्यङ्गं द्विरन्नं न लिप्सेत10 । आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु न गच्छेत्11 । सार्थसमवायेषु वानप्रस्थगृहस्थाभ्यां प्रीतिं च वर्जयेत्12 ॥ 142 ॥
पैठीनसिः1।
स्थूयमानो न तुष्येत2 । निन्द्यमानो न कुप्येत्3 । सममेव वर्तेत विद्यया तपसा च तदुभयं प्राप्येति4 ॥ 143 ॥
सत्यकामः1।
सर्वधर्मान्परित्यज्य मोक्षधर्मं समाश्रयेत् ।
मोक्षधर्मात्परिभ्रष्टः संस्कारं प्रतिपद्यते ॥ 144 ॥
नादृष्टां भूमिमातिष्ठेन्नासूर्यं मार्गमाव्रजेत् ।
न हिंस्यात्सर्वभूतानि कर्मणा मनसा गिरा ॥ 145 ॥
इति यतिधर्मसमुच्चये आचारो नाम सप्तमं पर्व ॥ 146 ॥