06 अहोरात्रक्रिया

षष्ठं पर्व

अहोरात्रक्रिया

अथ यतीनामहोरात्रक्रियोच्यते1
तत्रानुक्तमपेक्षितं ब्रह्मचारिधर्माद् गृहीतव्यम्2 -

इतरेषां चैतदविरोधि3 । [GDh 3.10]

इत्यनुज्ञानात्4 । तत्राप्यसंभवे गृहस्थधर्मेभ्यो गृहीतव्यम्5 ॥ 1 ॥ तथा च भगवान्व्यासः1

सर्वाश्रमाणां धर्माः स्युर्येऽविरुद्धाः परस्परम् ।
सर्वाश्रमाणां ते सर्वे साधारण्यमवाप्नुयुः इति ॥ 2 ॥

विश्वामित्रः1

उषःकाले समुत्थाय शौचं कृत्वा विधानतः ।
दन्तकाष्ठमथाचम्य पर्ववर्जमतन्द्रितः ॥ 3 ॥
कृतस्नानो जपेत्तावद्यावदादित्यदर्शनम् ।
उत्तिष्ठ ब्रह्मणेत्यादिरुत्थाने मन्त्र ईरितः ॥ 4 ॥

गर्गः1

अथ भिक्षूणां नियमसंयमशौचप्रायश्चित्तं व्याख्यास्यामः2 । तत्र पूर्वं मूत्रशौचम्3 । मृत्तिकया पर्वत्रयपूरणं कृत्वा लिङ्गं चतसृभिः प्रक्षालयेत् सव्यहस्तं द्वादशभिः द्वौ हस्तावष्टाभिर्मृत्तिकाभिः4 । एवं यथोक्तं लिङ्गमूत्रशौचं कृत्वा पश्चाद् गुदशौचमाचरेत्5 । प्रथमा प्रसृतिरेका दातव्या द्वितीया च तृतीया च तदर्धार्धेन6 । एवं यथोक्तक्रमेण विंशत्या मृत्तिकाभिर्गुदशौचं कृत्वा द्विगुणेन सव्यहस्तं प्रक्षालयेत् द्वौ हस्तावष्टाविंशत्या7 । मृत्तिकात्रयेण पादौ प्रक्षाल्य हस्तौ चाचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्8 ॥ 5 ॥
मृत्तिकाभावे वालुकाभिर्यदा शौचं करोति तदा द्विगुणं कुर्यात्1 । स्वस्थावस्थो भिक्षुः शौचशैथिल्यं न कुर्यात्2 । शौचशैथिल्ये प्रत्यवायो भवति3 । तत्प्रत्यवायनिराकरणाय प्राणायामत्रयं कृत्वा पुनराचामेत्4 ॥ 6 ॥
ब्राह्मे मुहूर्ते उत्थाय वसुरण्वो विभुरिति ।
अनेन परमात्मानं ध्यायेदहरहर्हृदि ॥ 7 ॥
तत आवश्यकं कृत्वा पूर्वमादाय मृत्तिकाम् ।
शौचं चतुर्गुणं कुर्याद्विहिताद् गृहमेधिनः ।
आददानस्तु वै पश्चात्सचेलो जलमाविशेत् ॥ 8 ॥

देवलः1

शोधयेच्च चतुर्लिङ्गमङ्गुलिनां त्रिपर्वकम् ।
यथा मृत्तिकया पूर्णं सा संख्यैका मृदः स्मृता ॥ 9 ॥
हस्तं द्वादशभिः सव्यमष्टाभिः संहतौ करौ ।
गुदशौचं ततः कुर्याद्विंशतिस्तु मृदो गुदे ॥ 10 ॥
प्रथमा प्रसृतिर्देया उत्तरे तु तदर्धके ।
चत्वारिंशत्करे सव्ये करयोः साष्टविंशतिः ॥ 11 ॥
पादयोश्च त्रिरेकस्मिन्द्विगुणं वालुका यदि ।
द्विराचम्य त्रिराचम्य प्राणानप्याचमेत्पुनः इति ॥ 12 ॥

स एवाह1

विण्मूत्रकरणात्पूर्वमादद्यान्मृत्तिकां सदा ।
आददानस्तु वै पश्चात्सचेलो जलमाविशेत् ॥ 13 ॥

आह जमदग्निः1

अन्यदेव दिवाशौचमन्यद्रात्रौ विधीयते ।
अन्यथा बाधमानेषु स्वस्थादिषु यथोदितम् ॥ 14 ॥
यथोदितं दिवाशौचमर्धं रात्रौ विधीयते ।
आतुरस्य तदर्धं स्यात्तदर्धं पथि गच्छतः ॥ 15 ॥

देवलः1

एको द्वौ वा त्रयो मूत्रे पुरीषे चाथवा पुनः ।
प्राणायामान्यतिः कुर्याद्देशकालाद्यपेक्षया ॥ 16 ॥

स एवाह1

ध्याने दैवतपूजायां भोजने दन्तधावने ।
अवश्यकार्ये स्नाने च षट्सु मौनं विधीयते ॥ 17 ॥

वायुः1

आकर्णप्रावृतशिरा अप्सु यानगतस्तथा ।
अधौतपादस्तिष्ठन्वा जल्पन्मुक्तशिखोऽपि वा ।
यज्ञोपवीतेन विना स्वाचान्तोऽप्यशुचिर्भवेत् ॥ 18 ॥

देवलः1

विरिक्तवान्तविण्मूत्रकरणेष्वथ संध्ययोः ।
स्नात्वान्तरान्तरादित्यं प्राणायामत्रयं चरेत् ॥ 19 ॥
एकेन प्रणवेनैव प्राणायामा निशि स्मृताः ।
मध्याह्नकाले नैकेन काष्ठस्थो नाचमेद्यतिः ॥ 20 ॥

गर्गः1

ब्रह्मचारी यतिश्चैव अन्तर्लिङ्गं न शोधयेत् ।
अन्तर्लिङ्गस्य शौचेन तयोश्चान्द्रायणं चरेत् ॥ 21 ॥

ततो दन्तधावनं कृत्वा स्नानं कुर्यात्1क्रतुराह2

यतिर्योगी ब्रह्मचारी शतायुः सत्यवाग्व्रती ।
सती च दानशीलश्च स्नाताः शुद्धाश्च ते सदा ॥।1
प्राक्शौचं नैव च स्नायााह्मं वा स्नानमिष्यते ।
वृद्धातुराणामुष्णाभिर्योगाङ्गैर्वा यमादिभिः ।
अब्लिङ्गैर्वारुणं स्नानं कुर्यान्मन्त्रैः सदा यतिः ॥ 23 ॥

दक्षः1

उषःकाले तु संप्राप्ते शौचं कृत्वा यथाविधि ।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥ 24 ॥
अत्यन्तमलिनः कायो नवद्वारसमन्वितः ।
स्रवत्येव दिवारात्रं प्रातःस्नानं विशोधनम् ॥ 25 ॥
उपर्युषसि यत्स्नानं संध्यायामुदितेऽपि वा ।
प्राजापत्येन तत्तुल्यं सर्वपापप्रणाशनम् ॥ 26 ॥
प्रातरुत्थाय यो विप्रः संध्यास्नानं समाचरेत् ।
सप्तजन्मकृतं पापं त्रिभिर्वर्षैर्व्यपोहति ॥ 27 ॥
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति वै श्रुतिः ॥ 28 ॥
गुणा दश स्नानपरस्य साधो रूपं च तेजश्च बलं च शौचम् ।
आयुष्यमारोग्यमलोलुपत्वं दुः स्वप्ननाशश्च तपश्च मेधा ॥ 29 ॥

कपिलः1

प्रातः स्नाने चासमर्थो नाभेरधः प्रक्षाल्य जलार्द्रेण कर्पटेन सशिरस्कमङ्गममलं कृत्वान्तर्वासो विपरिधाय संध्यामुपासीत2 । नित्यं मध्याह्नादर्वागूर्ध्वं वा स्नायात्3 । अथाचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्4 ॥ 30 ॥

विश्वामित्रः1

प्रातःस्नाने त्वशक्तश्चेत्कापिलस्नानमाचरेत् ।
तस्मिन्नप्यसमर्थश्चेन्मन्त्रस्नानं समाचरेत्। ॥ 31 ॥

अङ्गिराः1

स्नानकाले तु संप्राप्ते वस्त्रार्धं परिधापयेत् ।
तस्यार्धं जपकाले तु कटिवेष्टनशाटिकाम् ॥ 32 ॥

एवं सवनत्रये स्नानं कुर्यात्1 । मार्जनमन्त्राः पठ्यन्ते अव ते हेड उदुत्तमं दधिक्राव्ण आपो हि ष्ठेति तिसृभिः2 । हिरण्यवर्णा इति चतस्रः पवमानानुवाकश्च मार्जने विहिताः3 ॥ 33 ॥

अथ मन्त्राचमनम्1 । तत्र क्रतुः2

चतुष्केणाप आचम्य द्रुपदाद्यघमर्षणैः ।
मार्जयित्वा च पूताद्भिः पितृदेवांश्च तर्पयेत् इति ॥ 34 ॥

अस्यार्थः चतुष्केणैव मन्त्रेण चतुष्कृत्वः पिबेदप इति1मनुः2

दशभिः प्रणवैर्युक्तां सप्तव्याहृतिपूर्विकाम् ।
गायत्रीं शिरसोपेतामाहुः पापप्रणाशिनीम् इति ॥ 35 ॥

अयं वेदगुह्योऽनुवाकश्चतुष्कः1 । प्रणवव्याहृतिगायत्र्यः सशिरस्काश्चतुष्क इत्येके2देवलः2

त्रिपदेत्यनयैवर्चा साघमर्षणसूक्तया ।
प्रोक्ष्याङ्गं चुलुकैर्विष्णुस्तर्प्यो द्वादशनामभिः ॥ 36 ॥
प्रणवाद्यैर्नमोऽन्तैस्तु प्रतिमन्त्रं यतिः शुचिः ।
तर्पयेदेकहस्तेन पूर्वं द्वादशनामभिः ॥ 37 ॥

ॐ केशवाय नम इत्यादि1 । अथ देवतर्पणं पितृतर्पणं च2

गोशृङ्गमात्रमुद्धृत्याञ्जलिना तर्पयेत्सुरान् ।
पितॄंश्च तर्पयेत्पश्चात्पूर्ववत्सुकृताञ्जलिः ॥ 38 ॥
पैतृकं देवतीर्थेन तथा यज्ञोपवीतिना ।
अन्ते महर्नमो वाच्यं तर्पयामीति चोच्चरेत् इति ॥ 39 ॥

ॐ भूस्तर्पयामि1 । ॐ भुवस्तर्पयामि2 । ॐ सुवस्तर्पयामि3 । ॐ भूर्भुवःसुवर्महर्नमस्तर्पयामीति4 । ॐ भूः स्वधोम्5 । ॐ भुवः स्वधोम्6 । ॐ सुवः स्वधोम्7 । ॐ भूर्भुवःसुवर्महर्नमः स्वधोम्8 । स्वधान्तमेतत्9 ॥ 40 ॥ स्नानं समाप्य त्रीन्प्राणायामान्कृत्वा मन्त्राचमनादि संध्योपासनं पूर्ववत्1 । आचमनादिषु पञ्चसु जलपवित्रस्य संबन्धः2 । विद्यमाने जलपवित्रेऽन्येनाचमनमार्जनतर्पणादित्योपस्थानकुण्डिकापूरणसावित्रीजपान्यः करोति तदास्य सर्वं निष्फलं भवति3 ॥ 41 ॥ मेधातिथिः1

स तेनाचमनं कुर्यान्मार्जनं तर्पणं तथा ।
उपस्थानं सहस्रांशोः कुण्डिकायाश्च पूरणम् इति॥ 42 ॥

गालवः1

सदा जलपवित्रेण मार्जनाचामतर्पणम् ।
उपस्थानं रवेश्चापि यो यतिः कुरुते न च ।
सर्वं तन्निष्फलं तस्य प्रायश्चित्तमथाचरेत् ॥ 43 ॥

अत्रिः1

उद्धृतासु स्रवन्तीषु ह्रदेषु विमलेषु च ।
वस्त्रपूता न कर्तव्या आपः शुद्धा इति श्रुतिः ॥ 44 ॥

हारीतः1

स्नात्वा चाचम्य विधिवत्तिष्ठन्नासीन एव वा ।
बिभ्रज्जलपवित्रं चाप्यक्षसूत्रं करद्वये ॥ 45 ॥
तद्वत्पवित्रे गोवालकृते दुष्कृतनाशने ।
उदयाद्विधिवत्संध्यामुपास्य त्रिकजप्यवत् ॥ 46 ॥
मित्रस्य चर्षणीत्याद्यैरुपस्थाय रविं त्रिभिः ।
प्रातः सायं चोपतिष्ठेद्वारुणीभिश्च पञ्चभिः ॥ 47 ॥
त्रिकालं दद्यादर्घ्यं तु लोहितार्काय सो यतिः ।
भुक्तोत्तरे च तद्दद्यात्परमात्मपरायणः ॥ 48 ॥

भुक्तोपस्थानमुद्वयेन भिक्षाकाले हंसमन्त्रेण1

दिवाकरोदये दद्यात्सावित्र्यार्घ्यं समाहितः ।
जपमध्यगते भानौ जपान्तेऽर्घ्यं प्रदापयेत् ॥ 49 ॥

देवलः1

उपस्थानं प्रकुर्वीत भास्करस्य त्रिसंध्यकम् ।
प्रदक्षिणं ततः कुर्याज्जानुभ्यां शिरसा नमेत् ॥ 50 ॥
न नामग्रहणं कुर्यादात्मनः प्रणमेद्रविम् ।
पूर्ववत्तर्पयित्वाथ जपेत्सम्यक्समाहितः इति ॥ 51 ॥

बोधायनः1

वारुणीभिः सायंसंध्यामुपतिष्ठेत मैत्रीभिः प्रातः ॥ 52 ॥ [BDh 2.18.21]

शौनकः1

सुप्तोत्थितोऽभिध्यायेत्2 । अथ कृतावश्यक्रियः शुद्ध आचान्तो दन्तधावनपूर्वकमुपर्युषसि यथाविधि स्नात्वापोमन्त्रवदापो हि ष्ठेति तिसृभिर्मार्जयित्वा पूर्वाभिमुखो गायत्र्याप ऊर्ध्वं विक्षिप्य दर्भपाणिरादित्योदयात्तिष्ठन्गायत्रीमभ्यसेत्3 । अथ जपध्यानस्तुतिभिरहःशेषं समापयेत्4 ॥ 53 ॥

कपिलः1

भूम्यां पादौ प्रतिष्ठाप्य जप्यं भोजनमर्चनं च कुर्यात्2 । अथ तिष्ठन्प्राङ्मुख आसीनो वा पवित्रपाणिरक्षसूत्रैरङ्गुलिभिर्वा यथाशक्ति त्रिकं जपेत्3 । त्रिसंध्यं प्राणायामत्रयं कुर्यात्4 । अज्ञातप्राणिवधशुद्धये जलपवित्रेणाचमनमार्जनतर्पणकमण्डलुपूरणादि कुर्यात्5 । सजलाञ्जलिरादित्योपस्थानमिति6 ॥ 54 ॥

एवं संध्योपासनं कृत्वा ततः पूर्वोक्तं योगमाचरेत्1विश्वामित्रः2

कृतस्नानो जपेत्तावद्यावदादित्यदर्शनम् ।
ततो निवातके रम्ये निम्नोन्नतविवर्जिते ॥

इत्यादि3 ॥ 55 ॥ एवं योगं कृत्वा तस्यैवं विदुषो यज्ञस्येत्युक्तकर्मसंपादनं च कृत्वा ततो योगाद्विरम्य जपित्वा गत्वा ग्रामैकरात्रचारी चेद् ग्रामान्तरं गच्छेत्1 । तदाह शङ्खः2

आत्मलाभसुखं यावत्तावद्ध्यात्वा शनैः शनैः ।
विरम्य योगात्प्रणवं जपेत्स्वाध्यायमेव च ।
अन्यत्र विहरेद् ग्रामाद् ग्रामान्तरमिति स्थितिः ॥ 56 ॥

यदि ग्रामान्तरं न गच्छेत्तदा स्तुतिजपध्यानादि कुर्वन्नासीत1 । तदाह बृहस्पतिः2

उशसः पूर्वमुत्थाय कृतावश्यक्रियः शुचिः ।
गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् ॥ 57 ॥
प्राणायामैर्जपैर्ध्यानैः स्तुतिभिश्चेतिहासकैः ।
पुराणैर्वेददृष्टैश्च किंचिदह्नोऽवशेषयेत् ॥ 58 ॥

इति प्रातःकाल्यं समाप्तम् ॥ 59 ॥

अथ मध्याह्नकर्मोच्यते1 । तत्राह शौनकः2

अथ यथाविधि स्नात्वाचम्य आपो हि ष्ठा मयो भुव इति तिसृभिर्मार्जयित्वान्तर्जलगतोऽघमर्षणेन षोडशप्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा मृदम्भसा जङ्घयोः शौचं कृत्वा अन्यत्प्रयतं कौपीनं बहिर्वासश्च परिधाय अप आचम्य ॐ भूर्भुवः सुवरिति जलपवित्रमादाय तर्पयति ॐ भूस्तर्पयामीति3 ॥ 60 ॥

पूर्ववत्सुकृताञ्जलिरित्यन्तम्1 [see 6.38] । अथ उदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते2 । प्राणायामान्षड् धारयित्वा गायत्र्याष्टशतं जपेदिति3 ॥ 61 ॥ बोधायनः1

उदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते2 । ॐ इति ब्रह्म ब्रह्म वा एतज्ज्योतिः य एष तपति एष वेदो य एष तपति वेद्यमेतद्य एष तपति3 । एवमेवैष आत्मानं तर्पयति4 । आत्मने नमस्करोति5 । आत्मा ब्रह्म6 । आत्मा ज्योतिरिति7 । अथ सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वोऽपरिमितकृत्वः8 । ॐ भूर्भुवःसुवरिति जलपवित्रमादायापो गृह्णाति9 ॥ 62 ॥ [BDh 2.17.39–42]

हारीतः1

स्नात्वा ह्याचम्य विधिवज्जलपूतास्रवेण वै ।
वारिणा तर्पयित्वा तु मन्त्रवद्भास्करं नमेत् ॥ 63 ॥

क्रतुः1

उदु त्यं चित्रं तच्चक्षुः शिवसंकल्पं पौरुषम् ।
सूक्तं च वैष्णवं भिक्षुः स्नात्वार्कस्याग्रतो जपेत् ॥ 64 ॥
प्रातः सायं चोपतिष्ठेत्सूर्यं मैत्रैश्च वारुणैः ।
भुक्ते ग्रामेऽह्नि भिक्षार्थी हंसमन्त्रेण पर्यटेत् ॥ 65 ॥
त्रिभिस्त्रिभिर्वाच्यलिङ्गैः पावमान्यघमर्षणैः ।
मार्जयित्वा सुपूताद्भिर्गायत्र्यष्टशतं जपेत् ॥ 66 ॥

विश्वामित्रः1

मध्याह्ने च ततः स्नात्वा सावित्रीं च समाहितः ।
जपं कृत्वा तु मेधावी वैदिकं किंचिदाचरेत् ॥ 67 ॥
वैष्णवं पावमानं च वारुणं रौद्रमेव च ।
सौरं चोपनिषच्चैव जप्त्वा शुद्ध्यर्थमात्मनः ।
ध्यानं च विधिवत्कृत्वा ततो भिक्षां समाचरेत् ॥ 68 ॥

हारीतः1

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ।
गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत्परं पदम् ।
स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ॥ 69 ॥

देवलः1

ऋग्वेदादीञ्जपेन्मन्त्रान्स्तोकांश्च प्राङ्मुखो यतिः ।
तेषां च नास्त्यनध्यायो नित्यकर्म हि तत्स्मृतम् ॥ 70 ॥
वैदिकेन विधानेन पूजां कुर्याद्धरेस्ततः ।
अभावे वेदमन्त्राणां पाञ्चरात्रोदितेन वा ॥ 71 ॥

मनुः1

अह्नि रात्रौ च यान्जन्तून्हिनस्त्यज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ 72 ॥
[MDh 6.69]

कथं पूजां प्रकुर्वीतेति1 । पुरुषसूक्तेन वेदगुह्यैरन्यैर्मन्त्रैश्च फलपुष्पोत्पाटने प्रायश्चित्तविधानात् अद्भिः कर्तव्यमन्याहृतैर्वा2 ॥ 73 ॥ आपस्तम्बः1

स्वाध्याय एवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहोऽनमुत्रश्चरेत्2 । तस्य मुक्तमाच्छादनं विहितम्3 । सर्वतः परिमोक्षमेके4 ॥ 74 ॥ [ApDh 2.21.10–12]

मनुः1

अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ 75 ॥
[MDh 6.83]

संयोगं च वियोगं च वियोगस्य च साधनम् ।
जीवेश्वरप्रधानानां स्वरूपाणि विचिन्तयेत् ॥ 76 ॥
इतिहासपुराणाभ्यां ध्यानाध्ययनसंपदा ।
आमध्याह्नदिनं प्राप्य मध्याह्नेऽप्येष वै विधिः ॥ 77 ॥
स्नानस्य विधिकर्मान्ते प्रदायार्घ्यं यथोदितम् ।
उदु त्यं चित्रमित्याभ्यामुपस्थाय ततो जपेत् ॥ 78 ॥

इति मध्याह्नस्नानं समाप्तम् ॥ 79 ॥

अथ भिक्षाटनमुच्यते1 । तत्रोशनाः2

माधूकरमसंकॢप्तं प्राक्प्रणीतमयाचितम् ।
तात्कालिकोपपन्नं च भैक्षं पञ्चविधं स्मृतम् ॥ 80 ॥
मनःसङ्कल्परहितान्गृहांस्त्रीन्पञ्च सप्त वा ।
गत्वा मधुवदुद्धारो यत्तन्माधूकरं स्मृतम् ॥ 81 ॥
शयनोत्थानतः प्राग्यत्प्रार्थितं भक्तिसंयुतैः ।
तत्प्राक्प्रणीतमित्याह भगवानुशना मुनिः ॥ 82 ॥
भिक्षाटनसमुद्योगात्प्राग्येनापि निमन्त्रितम् ।
अयाचितं च तद्भैक्षं भोक्तव्यं मनुरब्रवीत् ॥ 83 ॥
उपस्थाने च यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन हि ।
तात्कालिकमिति प्रोक्तं तच्च प्राश्यं मुमुक्षुणा ॥ 84 ॥
सिद्धमन्नं भक्तजनैरानीतं यन्मठं प्रति ।
उपपन्नं तदित्याहुर्मुनयो मोक्षकाङ्क्षिणः ॥ 85 ॥
भिक्षाः पञ्चविधा ह्येताः सोमपानसमाः स्मृताः ।
आसामिहैकतमया वर्तयञ्छुद्धिमाप्नुयात् ॥ 86 ॥

विश्वामित्रः1

भैक्षप्रतिकृतीरेता विदुर्माधूकरे स्थिते ।
शक्तो माधूकरे त्वेताः कुर्वन्किल्बिषमाप्नुयात् ॥ 87 ॥

एकान्नं मधु मांसं चेत्येवमादयो निषेधा अनेनैकवाक्यत्वान्माधूकरसमर्थस्यैव द्रष्टव्याः1 [see 10.59] । समर्थस्याप्यनुग्रहार्थमेकान्नं न दुष्यति2 ॥ 88 ॥ आह मेधातिथिः1

एकान्नं न तु भुञ्जीत न शूद्रान्नं न बह्वपि ।
अशक्तोऽनुग्रहार्थं वा विप्रादेकान्नभुग्भवेत् ॥ 89 ॥

कात्यायनः1

याचितायाचिताभ्यां तु भैक्षाभ्यां वर्तयेद्यतिः ॥ 90 ॥

अङ्गिराः1

व्याधितानां यतीनां तु वृद्धानां दीर्घरोगिणाम् ।
एकान्नाशनदोषेण नैनस्तेषां तु विद्यते ॥ 91 ॥

बोधायनः1

यात्रामात्रं भुञ्जीतेति2 ॥ 92 ॥ [BDh 2.18.12]

कपिलः1

असाङ्केतिकतात्कालिकादिप्रशस्तान्नं भुञ्जीत2 । प्रेतान्नं वर्जयेद्यतिरिति3 ॥ 93 ॥

यमः1

चरेन्माधूकरं भैक्षं यर्तिेच्छकुलादपि ।
एकान्नं न तु भुञ्जीत बृहस्पतिसमादपि ॥ 94 ॥
ब्राह्मणेभ्यः परं नास्ति वासुदेवात्परो न च ।
वर्णाश्रमात्परो नास्ति नास्ति वेदसमा श्रुतिः ।
नास्ति भैक्षसमा शुद्धिस्तपो नानशनात्परम् ॥ 95 ॥
भैक्षं माधूकरं यत्तन्महापातकनाशनम् ।
तस्मात्तेनैव वर्तेत शुद्धे पात्रेऽथ निर्व्रणे इति ॥ 96 ॥

अथ माधूकरधर्माः1 । तत्र कालं मनुराह2

विधूमे सन्नमुसले व्यङ्गारे भुक्तवर्जिते ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ 97 ॥
[MDh 6.56]

क्रतुः1

पूर्वाह्णे विचरेद्योगी सम्यग्ज्ञानी तु पश्चिमे ।
मध्याह्ने भिक्षयन्भिक्षुस्तेन ह्याप्नोति किल्बिषम् ॥ 98 ॥

पञ्चदशघटिकाया ऊर्ध्वं पादोनचतस्रो मध्याह्नः यत्प्रतीचीनं सङ्गवात्प्राचीनं मध्यन्दिनादिति लिङ्गदर्शनात् ॥ 99 ॥ कपिलः1

अत्यन्तं बुभुक्षितो न जघन्यं कालमुदीक्षेतेति2 ॥ 100 ॥

भैक्षदेशनियमे बोधायनः1

अथ भैक्षचर्या2 । ब्राह्मणानां शालीनयायावराणां प्रवृत्ते वैश्वदेवे भिक्षां लिप्सेतेति3 ॥ 101 ॥ [BDh 2.18.4]

विष्णुः1

भैक्षं चरेद् गृहस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा चेयं वृत्तिरत्रोपदिश्यते ॥ 102 ॥
अत ऊर्ध्वं गृहस्थेषु साकिेषु चरेद्यतिः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ 103 ॥
अत ऊर्ध्वमशूद्रेषु त्वदुष्टापतितेषु च ।
भैक्षचर्या त्वियं तस्य त्रिप्रकारा प्रकीर्तिता ॥ 104 ॥

मेधातिथिः1

ब्राह्मणक्षत्रियविशां मध्ये तद्भैक्षमाचरेत् ।
तत्राप्यसंभवे पूर्वादाददीतोत्तरोत्तरात् ॥ 105 ॥
सर्वेषामप्यभावे तु भक्तत्रयमनश्नतः ।
भैक्षं शूद्रादपि ग्राह्यं रक्ष्याः प्राणास्तु भिक्षया ॥ 106 ॥
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान्निघ्नतां किं न हतं रक्षतां किं न रक्षितम् ॥ 107 ॥
प्राणायामशतं कुर्याच्छतार्धं पादमेव वा ।
शूद्रविट्क्षत्रभैक्षेषु ह्यापत्सु च विशुद्धये ।
अज्ञानादर्धमेतस्य प्रायश्चित्तं विशुद्धये ॥ 108 ॥

क्रतुः1

न क्रियायोगचरणं शौचाशौचं शुभाशुभम् ।
पृच्छेन्माधूकरे भैक्षे शीलं वृत्तं श्रुतं कुलम् ।
पात्रे तु पतिते भैक्षे शौचाशौचं विनश्यति ॥ 109 ॥

वृद्धजाबालिः1

न वर्णविचयं कुर्यान्न च पृच्छेच्छुभाशुभम् ।
पात्रे तु पतिते भैक्षे शौचाशौचं न चिन्तयेत् ॥ 110 ॥

विनश्यतीति वा पाठः1अत्रिः2

न ज्ञातीनां कुले भिक्षेत्3 । अन्तेवासिपरिपन्थिज्ञातीश्वरप्रेतसूतकगृहेषु भिक्षामुपलभ्य न गृह्णीयात्4 । आत्मना संस्कृतं परबाधाकरं च वर्जयेत्5 ॥ 111 ॥

कपिलः1

सुजीर्णश्च कृशो रोगी प्रशान्तो विकलेन्द्रियः ।
शिष्यबन्धुसुतभ्रातृसखिभ्यो भैक्षमाचरेत् ॥ 112 ॥
अश्वशय्यासनादीनां बाह्यानां स्पर्शलक्षणैः ।
याजनाध्यापनव्याख्यावस्त्रभाण्डपरिग्रहैः ॥ 113 ॥
मैथुनेक्षणसङ्कल्पैः सङ्करी स्याद्यतिः कृतैः ।
तस्मात्पुत्राद्भैक्षमिच्छेद् गृहेऽरण्येऽपि वाश्रयन् ॥ 114 ॥

स एवाह1

सुजीर्णोऽतिकृशो रोगी शताब्दो विकलेन्द्रियः ।
शिष्यबन्धुसुतभ्रातृसुहृद्भ्यो भैक्षमाचरेत् ॥ 115 ॥
कुब्जवामनकुण्डाश्च छिन्नपंग्वन्धरोगिणः ।
भिक्षादोषैर्न लिप्यन्ते यदि राजा न पालयेत् ॥ 116 ॥

गृहसंख्यां **वसिष्ठ **आह1

सप्तागाराण्यसंकल्पितानि चरेद्विधूमे सन्नमुसले एकशाटीपरिवृतोऽजिनेन वा2 ॥ 117 ॥ [VaDh 10.7–9]

देवलः1

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ।
नियम्य प्रयतो वाचमभिशस्तांश्च वर्जयेत् ॥ 118 ॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्द्धुषेः ।
मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ 119 ॥
तान्प्रजापतिरित्याह मा कृध्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ 120 ॥
उद्यतं चाप्यभोज्यान्नं यच्च व्याधिप्रकोपनम् ।
निराकृतान्नं वान्येन नाददीत विचक्षणः ॥ 121 ॥

अत्रिः1

अथ भैक्षविधिं कृत्स्नं वक्ष्ये वर्ज्यांश्च नित्यशः ।
यमकुर्वन्पतत्याशु यतिः कुर्वन्विमुच्यते ॥ 122 ॥
माधूकरेण वर्तेत न कुर्यादितराः सदा ।
ताः सर्वाः कुत्सिता वृत्तिरनिन्द्या मन्त्रणादृते ॥ 123 ॥
माधूकरमसंकॢप्तमुपपन्नं यदृच्छया ।
तदश्नीयादनिन्द्यान्नं निःस्पृहेणैव चेतसा ॥ 124 ॥
षट् त्रीन्वापि च सप्ताष्टौ नित्यं भिक्षुर्गृहांश्चरेत् ।
माधूकरमिदं श्रेष्ठमूर्ध्वं वा कामतश्चरेत् ॥ 125 ॥
कणयावकपिण्याकशाकतक्रपयोदधि ।
भिक्षां सर्वरसोपेतां हिंसावर्जं समाहरेत् ॥ 126 ॥
व्रताविरुद्धं यद्यस्य तस्य तद्भक्षणं भवेत् ।
हितं मितं सदाश्नीयाद्यत्सुखेनैव जीर्यते ।
धातुः प्रकुप्यते येन तदन्नं वर्जयेद्यतिः ॥ 127 ॥
कुटुम्बसङ्कटं चैव लोभेनोपहतं गृहम् ।
पीडयान्नं प्रयच्छेत तस्मात्तद्वर्जयेद् गृहम् ॥ 128 ॥
शाठ्यं वाप्यथ दैन्यं वा लक्ष्यते यद्गृहे क्वचित् ।
वर्जयेत्तद्गृहं भिक्षुः काकजग्धं यथा हविः ॥ 129 ॥
उदक्याचोदितं ह्यन्नं द्विजान्नं शूद्रचोदितम् ।
प्राण्यङ्गे चायसे वापि कॢप्तान्नं वर्जयेद्यतिः ॥ 130 ॥
पित्रर्थं कल्पितं पूर्वं देवार्थं वान्यकारणात् ।
वर्जयेत्तादृशीं भिक्षां परबाधाकरीं तथा ॥ 131 ॥
नोत्पन्ना संततिः काचिद्यत्र स्त्रीपुंसयोर्गृहे ।
नाश्नीयात्तद्गृहे भिक्षुर्भुक्त्वा चान्द्रायणं चरेत् ॥ 132 ॥
दृष्टं भ्रूणहपाषण्डैः कुष्ठ्यादिभिरुदक्यया ।
श्वषण्डकाकचण्डालैरन्यैर्वान्तेऽवसायिभिः ॥ 133 ॥
पश्यंश्चैतान्न भिक्षेत भिक्षंश्चान्द्रायणं चरेत् ।
एतैर्न चापि संभाषेन्मार्गप्रश्नाद्भयाद्विना ॥ 134 ॥
महापातकिनः सर्वान्पतितान्परिवर्जयेत् ।
सर्वेषु व्यवहारेषु भोजनार्थे विशेषतः ॥ 135 ॥
कृते देशं त्यजेद् ग्रामं त्रेतायां द्वापरे कुलम् ।
कर्तारं तु कलौ दुष्टं त्यक्त्वा भैक्ष्यं चरेद्यतिः ॥ 136 ॥
कर्ता चैवानुमन्ता च प्रेरकश्चानुमोदकः ।
पुण्ये चैव तथा पापे भवन्ति फलभागिनः ॥ 137 ॥
सगोत्रमसगोत्रं वा यद्गृहे सूतकं भवेत् ।
न तावच्छुध्यते भूमिर्यावत्तत्स्यादनिर्दशम् ॥ 138 ॥
न तत्र कर्म कुरुते पितृदेवादिकं क्वचित् ।
भिक्षां भिक्षुर्न भिक्षेत भिक्षंश्चान्द्रायणं चरेत् ॥ 139 ॥
न ज्ञातीनां कुले भिक्षुर्न चेश्वरगृहे क्वचित् ।
न शिष्यबन्धुमित्रादीन्भिक्षां लिप्सेत कर्हिचित् ॥ 140 ॥
नाश्नन्ति पितरो देवा नाश्नन्ति वृषलीपतेः ।
स्त्रीजितस्यापि नाश्नन्ति तदन्नं वर्जयेद्यतिः ॥ 141 ॥
वर्णानामाश्रमाणां च स्वधर्मो वीरसंज्ञितः ।
ये तु तस्मिन्प्रवर्तन्ते वीरास्ते विप्रकीर्तिताः ।
यस्तं लोपयते धर्मं तं वीरघ्नं यतिस्त्यजेत् ॥ 142 ॥
अथ दिग्वाससीं कन्यां गर्भिणीं मलिनां तथा ।
प्रमत्तां मुदितां क्रुद्धामन्नं भोक्तुं समुद्यताम् ॥ 143 ॥
गर्भभर्तृद्रुहां चैव स्वैरिणीं कामचारिणीम् ।
अवीरां कुष्ठिनीं चान्धां पुनर्भूं कृत्रिमां तथा ॥ 144 ॥
मुक्तकेशीं सुखासीनां सरागां विस्मयान्विताम् ।
शठां दीनां दुराचारां सखेदां व्याधिपीडिताम् ॥ 145 ॥
निर्लज्जां वर्धकीं श्रान्तां प्रेष्यां क्लीबां सुनिष्ठुराम् ।
भिक्षां भिक्षुर्न भिक्षेत पाययन्तीं स्तनं शिशुम् ॥ 146 ॥

कपिलः1

कुटुम्बसङ्कटं सोपरोधं वा गृहं न विशेत्2 । सुप्तां मत्तां प्रमत्तां प्रमुदितां सखेदां सुखासीनामन्तर्वीं व्याधितां भर्तृगतां सरागामन्नं भोक्तुमुद्यतां बाललस्तनां भिक्षां न याचेत3 । रजस्वलाप्रयुक्तां नवधूहस्तगतामवज्ञोपहतां कुमार्यानीतां भिक्षां न याचेत न गृह्णीयाच्च4 ॥ 147 ॥

क्रतुः1

प्रत्यक्षलवणं मांसं मधु शावकसौतकम् ।
मूर्खाभिशस्तपतितक्लीबान्नानि च वर्जयेत् ॥ 148 ॥
अधीरां स्वैरिणीं कुष्ठीं गर्भभर्तृद्रुहामपि ।
कन्यां धात्रीं पुनर्भूं च नां भिक्षेत न क्वचित् ॥ 149 ॥

वृद्धजाबालिः1

द्वावेवाश्रमिणौ भोज्यौ वानप्रस्थो गृही तथा ।
अभोज्यमन्नमन्येषामितरेषां च लिङ्गिनाम् इति ॥ 150 ॥

अथ भिक्षाचर्या1 । तत्राह शौनकः2

अथ सप्तव्याहृतिभिर्गोवालरज्ज्वा सोदकया पात्रं प्रक्षाल्य हंसः शुचिषदित्यादित्यमुपस्थाय वाग्यतः प्रसन्नात्मा च गच्छेदिति3 ॥ 151 ॥

शङ्खलिखितौ1

काष्ठालाबुविदलपार्थिवानामेकैकं भैक्षभाजनम्2 । तस्य गोवालरज्ज्वा सोदकपाणिना परिघर्षणं कृत्वा साधुवृत्तेषु ब्राह्मणेषु भैक्षचर्यां चरेत्3 ॥ 152 ॥

अत्रिः1

सव्येनादाय पात्रं तु त्रिदण्डं दक्षिणे करे ।
उपस्थानं रवेः कुर्याद्ध्यात्वा चैकत्वमात्मनः ॥ 153 ॥
जपेद्विरजसं मन्त्रं देवं ध्यायन्समाहितः ।
योऽसौ विष्ण्वाख्य आदित्ये पुरुषोऽन्तर्हृदि स्थितः ॥ 154 ॥
सोऽहं नारायणो देवः पुरुषो लोकसाक्षिकः ।
एवं ध्यात्वात्मनात्मानं पुरुषं विश्वभावनम् ॥ 155 ॥
प्रदक्षिणं ततः कृत्वा नमस्येत्तिमिरापहम् ।
नमस्कृत्य पुनर्भूमौ समारोहेदुपानहौ ॥ 156 ॥
शौचार्थं विचरेद्भिक्षुः पादत्राणे तु न त्यजेत् ।
उदपात्रं तथा भिक्षां विना दुष्यत्युपानहौ ॥ 157 ॥
उपानहाववष्टभ्य व्रजेद्भिक्षुः स्मरन्हरिम् ।
विष्णुस्तिर्यगधोर्ध्वं मे वैकुण्ठो विदिशो दिशः ॥ 158 ॥
पातु मां सर्वतो रामो धन्वी चक्री च केशवः ।
स मां रक्षतु गोविन्दः सोमपो हव्यकव्यभुक् ॥ 159 ॥
विष्णुस्तार्क्ष्यासनोऽनन्तश्चक्री वामनरूपधृक् ।
योऽसौ सर्वगतः सूक्ष्मः परमात्मा सनातनः ॥ 160 ॥
निर्गुणो निष्कलश्चैव श्वेतमूर्तिधरोऽव्ययः ।
अनाद्यन्तः सदानन्ते फणामणिविभूषिते ।
श्वेते क्षीरार्णवे मध्ये स मां रक्षतु माधवः ॥ 161 ॥
सबाह्याभ्यन्तरं देहमापादतलमस्तकम् ।
सर्वायुधः सर्वशक्तिः पातु मां गरुडध्वजः ॥ 162 ॥
स मां रक्षतु सर्वात्मा माधवः परमेश्वरः ।
यस्य नाभ्यम्बुजाज्जातो ब्रह्मा सर्गकरः प्रभुः ॥ 163 ॥
एवं ध्यायन्नेकवासा उपवीती च पर्यटेत् ।
वासो हि ब्रह्मणा सृष्टं सर्वधर्मप्रसिद्धये ।
वस्त्राभावे क्रियाः सर्वा निष्फलाः परिकीर्तिताः ॥ 164 ॥

देवलः1

आत्मानं ब्रह्मस्वरूपसंस्थानं कृत्वा नमो ब्रह्मण इत्येतैर्नमस्कारं कृत्वा विरजसं मन्त्रं जपित्वा आ सत्येनेति प्रदक्षिणं कृत्वा ये ते पन्थान इति जपित्वा वाग्यतः परिव्रजेत्2 ॥ 165 ॥

यमः1

मेध्यं भैक्षं चरेन्नित्यं सायाह्ने वाग्यतः शुचिः ।
एकवासा अवासा वा मन्दगामी युगान्तदृक् ॥ 166 ॥
एक एव चरेद्भैक्षमेकदृष्टिरलोलुपः ।
तृप्तिप्रयोजनो न स्याद्योऽनरिनिकेतनः ॥ 167 ॥

मेधातिथिः1

ऊर्ध्वं जान्वोरधो नाभेः परिधायैकमम्बरम् ।
द्वितीयमन्तर्वासश्च परिधाय रविं ततः ॥ 168 ॥
उपस्थायाथ भैक्षार्थं पात्री दण्डी गृहान्व्रजेत् ।
तिष्ठेत्संदर्शने द्वारि याच्य भिक्षामधोमुखः ॥ 169 ॥
वाग्यतः सुप्रसन्नात्मा स्वपन्ध्यायन्दिवापि च ।
अदृष्टोपक्रमे काले तूष्णीं गोदोहसंमितम् ॥ 170 ॥
यदि नोद्यमते कश्चिद्दृाप्यन्यगृहं व्रजेत् ।
तावत्प्रतिश्रुते तिष्ठेद्यावद्भैक्षं प्रदीयते ॥ 171 ॥

क्रतुः1

दृष्टिपूतपदन्यासी मौनी तु सुमतिः शमी ।
एकवस्त्र्येकपात्री च निःसङ्गः सुप्तवच्चरेत् ॥ 172 ॥
चतुःषडष्टकाले वा यतिश्चान्द्रायणेन वा ।
पञ्चसप्तगृहेभ्यो वा भिक्षामिच्छेत्क्रियावताम् ॥ 173 ॥
भवत्पूर्वं सकृद्याचेत्तिष्ठन्भिक्षामधोमुखः ।
गोदोहमात्रमाकाङ्क्षेन्निष्क्रान्तो न पुनर्व्रजेत् ॥ 174 ॥

बोधायनः1

भवत्पूर्वं प्रचोदयात्2 । गोदोहनमाकाङ्क्षेत्3 ॥ 175 ॥ [BDh 2.18.5–6]

देवलः1

भिक्षाकाले सदा कार्यं यतीनां छत्रधारणम् ।
वर्षमाणे तु पर्जन्ये न तु घर्मार्कतापनात् ॥ 176 ॥

अत्रिः1

एकवस्त्र्येकपात्री च सदैकाकी व्रजेद्यतिः ।
एककालं चरेद्भैक्षं न जघन्यं कथंचन ॥ 177 ॥
ऊर्ध्वं न तिर्यग्दूरं वा निरीक्षेत्पर्यटन्यतिः ।
युगमात्रं महीपृष्ठं भिक्षुर्गच्छेद्विलोकयन् ॥ 178 ॥
न वीक्षेद् द्वाररन्ध्रेण भिक्षालिप्सुर्गृहान्तरम् ।
न कुर्याद्घोषणं तत्र न द्वारं ताडयेद्यतिः ॥ 179 ॥
अतिक्रम्य गृहं पूर्वं प्रविशेन्न पुनस्तु तत् ।
प्रविश्य भिक्षामादाय त्रिंशत्प्राणायमांश्चरेत् ॥ 180 ॥
नैव सव्यापसव्येन भिक्षाकाले चरेद् गृहम् ।
अनिन्द्यातिक्रमं कृत्वा प्राणायामशतं चरेत् ॥ 181 ॥
पूर्वासंकल्पितगृहं स्वयं विवृतमाश्रयेत् ।
देशकालविभागेन सामर्थ्यापेक्षयापि च ॥ 182 ॥
अनागते परे भिक्षौ भिक्षार्थं प्रविशेद् गृहम् ।
प्रविश्य भैक्षभुग्गेहं निष्प्रकम्पेन चेतसा ॥ 183 ॥
गृहिणीदर्शने वापि वह्न्यागारेऽपि वा स्थितः ।
सव्येनादाय पात्रं तु त्रिदण्डं दक्षिणेन तु ॥ 184 ॥
प्रणवादि भवत्पूर्वं भिक्षां देहीति याचयेत् ।
भिक्षार्थं चोदनं कृत्वा शक्तो नोपविशेत्क्वचित् ॥ 185 ॥
न चान्यद्वस्तु याचेत तृप्तिलोभेन किंचन ।
कृत्वा भिक्षां दृष्टिपूतां दातुश्च करसंस्थिताम् ॥ 186 ॥
त्रिदण्डं दक्षिणे त्वंसे यतिः संधाय पाणिना ।
उत्पाट्य पात्रकवचं दक्षिणेन करेण तु ।
पात्रं वामकरे स्थाप्यं न क्वचिद्दक्षिणे करे ॥ 187 ॥

लिखितः1

नैकान्नं म्रियमाणोऽपि भुञ्जीतापि निषादजात् ।
माधूकरेण वर्तेत सत्त्वशुद्धिकरं हि तत् ॥ 188 ॥
नैकस्मिन्नापि कुत्रापि प्रत्याख्यातो गृहे पुनः ।
प्रविशेद्भैक्षसमये न च गेहान्तरेण वा ।
अन्यार्थं पूर्वकॢप्तं वा भिक्षां नैवाददीत च ॥ 189 ॥

काश्यपः1

चतुरङ्गुलान्तरितः समपादो निश्चलस्तिष्ठेत्2 । काष्ठपाषाणमृण्मयवर्जमशुचिरिति न जुगुप्सेत शुचिरिति मत्वा गृह्णीयात्3 । मुखमण्डलं न कदाचिन्निरीक्षेत4 । हस्तमात्रं चक्षुषा पश्येत्5 । तथाग्रतो युगमात्रावलोकी6 । पार्श्वं पृष्ठतश्च मुहुर्मुहुर्नावलोकयेत्7 । विवृतद्वाराणि प्रविशेत्8 । अपद्वाराणि न प्रविशेत्9 । द्वारं न हन्यात् न घोषयेत्10 । क्षिप्रं न निर्गच्छेत्11 । चिरं न तिष्ठेदिति12 ॥ 190 ॥

देवलः1

ग्रामे प्रविष्टे भिक्षार्थे यदि विघ्नो भवेत्क्वचित् ।
पुनर्भैक्षं न भिक्षेत बहिर्ग्रामाद्विनिर्गतः ॥ 191 ॥

जमदग्निः1

पञ्चाहं सप्तरात्रं वा यस्मिन्भिक्षा न लभ्यते ।
तद् गृहं वर्जयेन्नित्यं चण्डालगृहवद्यतिः ॥ 192 ॥
तद्दिनानि गृहस्थस्य निराशो भिक्षुको व्रजेत् ।
स्वाध्यायं होमदानं च सर्वमादाय गच्छति ॥ 193 ॥

स एवाह1

आहारमात्रादधिकं यतिर्भैक्षं तु नाहरेत् ।
अन्यायेन तु पक्वान्नं चोरवद्दण्डमर्हति ॥ 194 ॥

वृद्धजाबालिः1

एकपात्रेण भुञ्जीत निर्दिष्टं व्रतमुत्तमम् ।
नैव दोषो द्विपात्रेण त्वशक्तो व्याधिपीडने ॥ 195 ॥
शक्तश्च नीरुजश्चैव नैकपात्रेण वर्तयन् ।
पात्रलोभी स दुष्टात्मा नरकं प्रतिपद्यते ॥ 196 ॥
लोभमानस्तु यो भिक्षुः पात्रपूरणमिच्छति ।
दाता स्वर्गमवाप्नोति भोक्ता भुञ्जीत किल्बिषम् ॥ 197 ॥
निमन्त्रितस्तु संन्यासी यदा भिक्षां समाचरेत् ।
लोभं तत्र प्रकुर्याच्चेत्पतत्येव न संशयः ॥ 198 ॥
देहि देहीति यो ब्रूयाल्लवणव्यञ्जनादि वा ।
गोमांसतुल्यं तद्भैक्षं भुक्त्वा चान्द्रायणं चरेत् ॥ 199 ॥
यत्किंचिद्दीयमानं तु गृहिणीकरसंस्थितम् ।
न गृह्णात्यल्पबुद्ध्या चेत्काकयोनिषु जायते ॥ 200 ॥

कपिलः1 ।

भिक्षित्वा न चिरमासीत2 । नेत्युक्ते चादोषमनाः परिवर्तेत3 । नैकपात्रपूरणमन्विच्छेत्4 ॥ 201 ॥

भरद्वाजः1

पूर्णा दर्वि परापत इति जपित्वा पुनर्नम इति परिवर्तेत2 ॥ 202 ॥

अथ भोजनविधिः1 । तत्र शौनकः2

तत उपावृत्य शुचौ देशे पात्रं न्यस्य पादौ प्रक्षाल्याचम्य त्रीन्प्राणायामान्धारयित्वाप आचम्य ॐ इति वारिणा भैक्ष्यं प्रोक्ष्य गायत्र्याभिमन्त्र्य इदं विष्णुर्विचक्रम इति विष्णवे हविर्निवेदयेत्3 । उदु त्यं चित्रमिति द्वाभ्यामादित्याय ब्रह्म जज्ञानमिति ब्रह्मणे भूतेभ्यो नम इति भूतेभ्यो निवेदयेत्4 । अथ शेषमौषधवत् प्राश्नीयात्5 ॥ 203 ॥

बोधायनः1

अथ भैक्षचर्याया उपावृत्य पात्रं शुचौ देशे न्यस्य हस्तं पादं च प्रक्षाल्याचम्य उदु त्यं चित्रमित्यादित्यस्याग्रे निवेदयेत्2 । ब्रह्म जज्ञानमिति ब्रह्मणे इदं विष्णुरिति विष्णवे भूतेभ्यो नम इति भूतेभ्यो निवेदयेदिति3 । विज्ञायते4 । आधानप्रभृति यजमान एवायो भवन्ति5 । तस्य प्राणो गार्हपत्यः अपानोऽन्वाहार्यपचनः व्यान आहवनीयः समानोदानौ सभ्यावसथ्यौ6 । पञ्च वा एतेऽय आत्मस्था आत्मन्येव जुहोति7 । स एवात्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठित आत्मानं क्षेमं नयतीति विज्ञायते8 । भूतेभ्यो दयापूर्वं संसृज्य शेषमद्भिः संस्पृश्य औषधवत्प्राश्नीयात्9 ॥ 204 ॥
[BDh 2.18.7–10]

यमः1

न भैक्षपात्रे भुञ्जीत पात्रे नाचमनं चरेत् ।
कृतत्रेताद्वापरेषु पात्रभोजी यतिर्भवेत् ।
कलौ न पात्रे भुञ्जीत धारयेन्न च कुण्डिकाम् ॥ 205 ॥

भरद्वाजः1

यत्किंचिज्जीर्णपर्णं पतितं पात्रं लब्ध्वा तत्राश्नीयान्न तैजसे कदाचन2 । तैजसपात्रे भोजनं कृत्वा प्राजापत्यं समाचरेत्3 । ग्रामान्ते विजनेऽरण्ये तटाके विजने नदीपुलिने पुष्करिणीषु गत्वा तदन्नमुपयुञ्जीत4 । तीर्थदेशे प्रक्षालनं कृत्वा सान्तर्धानं पात्रं स्थापयेत्5 । मृत्तिकात्रयेण तु पादौ प्रक्षाल्य हस्तौ च तथैव प्रक्षाल्याचम्य प्राणायामान्षडाचरेत्6 । प्रणवेन गायत्र्या अन्नसूक्तं जपित्वा परमात्मस्वरूपं ध्यात्वा अमृतोपस्तरणमसीत्यपः प्राश्य प्राणाहुतिं जुहोति7 । भोजनमध्ये यत्किंचित्सूक्ष्मकेशमक्षिकाभिहतं च तदन्नं पिण्डमात्रमुद्धृत्य हस्तप्रक्षालणं कृत्वा भोजनं करोति8 । मुखे केशं लं तत्क्षणात्क्षिपेद् ग्रासमास्येन द्वादशगण्डूषैर्मुखप्रक्षालणं कृत्वा भोजनं करोति9 ॥ 206 ॥

बृहस्पतिः1

सुगुप्तवाङ्मनश्चक्षुर्गुप्तगुह्यः कृताह्निकः ।
सुगुप्तभैक्षमाहृत्य सुगुप्तं भोजनं चरेत् ॥ 207 ॥
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन ।
न पादौ न शिरोपस्थं न पद्भ्यां भोजनं स्पृशेत् ॥ 208 ॥
न किंचिद्भेषजादन्यत्तत्तथा दन्तधावनात् ।
विना भोजनकालेन न भक्ष्यान्भक्षयेद्यतिः ॥ 209 ॥

विष्णुः1

भैक्षं यवाग्रं भुञ्जीत पयो घृतमथापि वा ।
सुपक्वं फलमूलं वा शाकपिण्याकसक्तु वा ॥ 210 ॥
इत्येते ह्यशनाकारा योगिनः सिद्धिकारकाः ।
तत्प्रयुञ्ज्यादहरहः परमेण समाधिना ॥ 211 ॥
अपः पीत्वा सकृत्तूष्णीं भुञ्जानः प्राक्समाहितः ।
प्राणायेति तु भुञ्जीत प्रथमामाहुतिं यतिः ॥ 212 ॥
अपानाय द्वितीया स्याद्व्यानायेति ततः परा ।
उदानाय चतुर्थी स्यात्समानायेति पञ्चमी ॥ 213 ॥
इत्थं प्राणाहुतीर्हुत्वा शेषं भुञ्जीत वाग्यतः ।
अपः पुनः सकृत्प्राश्य त्वाचम्य हृदयं स्पृशेत् ॥ 214 ॥

यमः1

विधूमे सन्नमुसले वृत्ते वा यज्ञसंस्तरे ।
न श्ववृत्तिसमाकीर्णे न तापससमाकुले ॥ 215 ॥
नाभुक्तवति लोके वा भैक्षं भिक्षेत भिक्षुकः ।
यात्रामात्रं तु गृह्णीयात्केवलं प्राणधारणम् ।
यथालब्धं च नाश्नीयात्कामं भुञ्जीत न क्वचित् ॥ 216 ॥
भैक्षस्यागमशुद्धस्य प्रोक्षितस्य हुतस्य च ।
यावतो ग्रसते ग्रासांस्तावद्भिः क्रतुभिः समाः ॥ 217 ॥
प्रोक्षितं प्रणवेनैव हुतमाध्यात्मिकाषिु ।
प्राणादिषु दशार्धेषु स्वाहाकारैः पृथक्पृथक् ॥ 218 ॥
प्राणश्चक्षुर्दिवं सूर्यो व्यानः श्रोत्रं निशा शशी ।
अपानो वाङ्मनो वह्निः समानोऽपो मनोऽशनिः ॥ 219 ॥
उदानो वायुराकाशस्तृप्यन्त्वन्नं समाहितः ।
दत्वैषां भक्षयंस्तृप्तिं मुच्यते स ऋणत्रयात् ॥ 220 ॥

भैक्षस्य भोजनं सर्वत्रोक्तं प्रक्षाल्य भोजनम्1 । आह संवर्तः2

अष्टौ भिक्षाः समादाय स मुनिः पञ्च सप्त वा ।
अद्भिः प्रक्षाल्य तत्सर्वं भुञ्जीत सुसमाहितः ॥ 221 ॥

कपिलः1

अथ ग्रामादागत्य एकपात्रेण भैक्षमुदकेन प्लाव्य सकृद्भुञ्जीत2 । न केनचित्सह संभाषेत किंचन3 । न किंचन याचेदौषधादन्यत्4 । एवं वर्तमानो यावज्जीवं भिक्षुको मुक्तो भवेत्5 ॥ 222 ॥

दोषाशङ्कायामिदं द्रष्टव्यम्1क्रतुः2

चतुष्कैः प्रोक्षयेद्भिक्षां तल्लिङ्गैर्बलिमाहरेत् ।
विष्णुब्रह्मार्कभूतेभ्यो दद्याद्वा किंचिदर्थिने ॥ 223 ॥
पद्ममूर्ध्वमुखं कृत्वा प्राणाद्यैः पूरकादिभिः ।
प्रादेशमात्रे ब्रह्माौ हुत्वान्नं मुच्यते मलैः ॥ 224 ॥
न स्वादयीत भुञ्जानः षड्रसान्नैव कीर्तयेत् ।
सत्कृतासत्कृते तुल्यो नाभिनन्देत न द्विषेत् ॥ 225 ॥

स एवाह1

नोत्सृजेन्नातिभुञ्जीत न निन्देन्नाधिकं हरेत् ।
गोब्राह्मणार्कसोमामिरुदापो न कुत्सयेत् ॥ 226 ॥

कपिलः1

व्रताविरुद्धं यत्किंचित्पर्युषितमपि गृह्णीयादाप्याययितुकामः प्राणायामत्रयं कृत्वा पुनराचामेत्त्रिर्द्विर्वा प्रक्षाल्य देशं पात्रं वा यन्त्रमारोप्य प्रणवेनाभ्युक्ष्य त्रिकेणाभिमन्त्रयेद्भिक्षाम्2 । इदं विष्णुरिति ग्रासमात्रमपि पूजयेत्3 । नानिवेद्यं भुञ्जीत4 । भूतबलिदानादिकमर्थिने संविभागशीलतापि प्रशस्ता5 ॥ 227 ॥
सुखं जीवन्ति मुनयो भैक्षवृत्तिमुपाश्रिताः ।
अद्रोहाः सर्वभूतानां सारङ्गा इव षट्पदाः ॥ 228 ॥
सोम एवान्नमश्नीयादिति ध्यात्वा योऽन्नमत्ति सोऽमृतमत्ति1 । प्राणाय स्वाहेति प्राणेऽन्नमत्ति2 । अपानाय स्वाहेत्यपानेऽन्नमत्ति3 । व्यानाय स्वाहेति व्यानेऽन्नमत्ति4 । उदानाय स्वाहेत्युदानेऽन्नमत्ति5 । समानाय स्वाहेति समानेऽन्नमत्ति6 । यो योऽन्नमत्ति स सोऽग्निः7 । यदन्नमद्यते तत्सर्वं सोमः8 । प्रक्षाल्य पात्रं त्रिकेणाभिमन्त्रितं प्रतिगृह्णीत9 । प्रतिमुच्यते भुक्त्वा पापादिति10 ॥ 229 ॥

विश्वामित्रः1

माधूकरे यथापूर्वं चतुर्थायोत्सृजेद्यतिः ।
शेषेषु च चतुर्ष्वेव यतिस्तन्न विसर्जयेत् ॥ 230 ॥
उदु त्यं चित्रमित्याभ्यामादित्याय निवेदयेत् ।
ब्रह्म जज्ञानमित्युक्त्वा ब्रह्मणेऽन्नं निवेदयेत् ।
इदं विष्णुरित्यनेन विष्णवेऽथ निवेदयेत् ॥ 231 ॥
ततस्तु सर्वभूतेभ्यो बलिं दत्त्वा चतुर्थकम् ।
ग्रासमात्रं तु दातव्यं सूर्यादीनां यथाक्रमम् ॥ 232 ॥
यः परान्नं समाहृत्य त्यजत्यन्नं दिने दिने ।
तस्य दोषेण युज्येत प्रायश्चित्ती भवेद्यतिः ॥ 233 ॥
अपि चास्य कुतो दानं दत्त्वा चास्य कुतः फलम् ।
दाता प्रतिग्रहीता च प्रेत्य वै नरकं व्रजेत् ॥ 234 ॥

हारीतः1

उत्पाटयेच्च कवचं दक्षिणेन करेण वै ।
पात्रं वामकरे स्थाप्य दक्षिणेनानुश्लेषयेत् ॥ 235 ॥
यावदन्नक्षुधार्तिः स्यात्तावद्भैक्षं समाचरेत् ।
ततो निवृत्य तत्पात्रं संस्थाप्याचम्य संयमी ॥ 236 ॥
चतुरङ्गुलैः प्रच्छाद्य ग्रासमात्रं समाहितः ।
सर्वव्यञ्जनसंयुक्तं पृथक्पात्रे निवेदयेत् ॥ 237 ॥
सूर्यादिदेवभूतेभ्यो दत्त्वान्नं प्रोक्ष्य वारिणा ।
भुञ्जीत पर्णपुटके न पात्रे वाग्यतो यतिः ॥ 238 ॥
वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥ 239 ॥
न च कांस्ये तु भुञ्जीत त्वापद्यपि कदाचन ।
पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ॥ 240 ॥
कांस्यकस्य च यत्पापं गृहस्थस्य तथैव च ।
कांस्यभोजी यतिः सर्वं प्राप्नुयात्किल्बिषं तयोः ॥ 241 ॥

यमः1

हिरण्मयानि पात्राणि कृष्णायसमयानि च ।
यतीनां तान्यपात्राणि भैक्षे वा भोजनेऽपि वा ॥ 242 ॥
सुवर्ण-रूप्य-पात्रेषु ताम्र-कांस्यायसेषु च ।
भिक्षां दत्त्वा न धर्मोऽस्ति गृहीत्वा नरकं व्रजेत् ॥ 243 ॥

लिखितः1

न भैक्षपात्रे भुञ्जीत पात्रे नाचमनं चरेत् ।
कृतत्रेताद्वापरेषु पात्रभोजी यतिर्भवेत् ॥ 244 ॥
कलौ न पात्रे भुञ्जीत धारयेन्न च कुण्डिकाम् ।
भुञ्जीत पर्णपुटके पर्णपृष्ठे न जातुचित् ॥ 245 ॥
पलाशपद्मकदलीदलाभावे ह्यभोजनम् ।
अभावेऽप्यन्यपात्राणां न कांस्ये नैव राजते ॥ 246 ॥
नापि कार्ष्णायसे नापि सौवर्णे नापि ताम्रके ।
न प्राण्यङ्गे नैव भूमौ न कुशादितृणेषु वा ॥ 247 ॥
पलाशपर्णे भुञ्जीत पाणिपात्रेऽथ वापदि ।
पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
यतिर्वनस्थश्च ततो लभते चैन्दवं फलम् ॥ 248 ॥

मेधातिथिः1

सुवर्णकांस्यरूप्येषु ताम्राब्जाश्ममयेषु च ।
भुञ्जन्भिक्षुर्न दुष्येत दुष्यते तु परिग्रहात् ॥ 249 ॥

सुवर्णादीनि पात्राणि भैक्षाय भोजनाय वा स्वयं न परिग्राह्याणीति यमलिखितयोरभिप्रायः1मेधातिथेस्तु स्वयं परिग्रहेऽपि परकीयेषु तेष्वापदि भुञ्जानो न दुष्यतीति मतम्2 । परकीयानामप्यभावे पाणिपात्रभोजनम्3 । कांस्यादिषु पर्णाभावमात्रेण न भोक्तव्यं किंतु मुमूर्षावस्थाप्राप्तौ हारीतेन त्वापद्यपि कदाचनेत्युक्तत्वात्4 ॥ 250 ॥ बलिदानस्य विनियोगमत्रिराह1

निवेद्यं नार्थिने दद्याद्यथेष्टं नोत्सृजेत वा ।
प्रक्षिपेत्तज्जले विद्वान्निखनेद्वा महीतले ॥ 251 ॥

भिक्षान्नस्य दानं भोजनविघ्ने समुत्पन्ने तस्यान्नस्य विनियोगं च क्रतुराह1

माधूकरं समाहृत्य ब्राह्मणेभ्यो ददाति यः ।
स याति नरकं घोरं भोक्ता चान्द्रायणं चरेत् ॥ 252 ॥
प्रायश्चित्तव्रतापत्सु भैक्षमुक्तं द्विजातिषु ।
तद्देयं स्तेयमन्येषां यतीनां तु मखैः समम् ॥ 253 ॥

यतेः सकृद्भोजनं **शाण्डिल्य **आह1

ग्रामं गत्वा तु सायाह्ने भैक्षमाहृत्य वाग्यतः ।
अष्टौ ग्रासान्समश्नीयात्प्रत्यहं सकृदेव तु ॥ 254 ॥

वृद्धजाबालिः1

न क्वचिन्निशि भुञ्जीत भुक्त्वा भुञ्जीत नो पुनः ।
भुञ्जानो निशि संन्यासी पतते नात्र संशयः ॥ 255 ॥
संध्याकाले तु संप्राप्ते निशि भुञ्जीत यो यतिः ।
उपस्थानं च जप्यं च प्राणायामो बलिस्तथा ।
सर्वे ते निष्फलास्तस्य प्रायश्चित्तं विधीयते ॥ 256 ॥

द्विर्भोजने वसिष्ठः1

ब्राह्मणकुले यल्लभते तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जं न च तृप्येदिति2 । (VaDh 10.24–25)

तदेतदशक्तविषयम्3 ॥ 257 ॥

अथ भोजनोत्तरक्रिया1 । तत्र शौनकः2

प्राश्याप आचम्य वाङ्म आसन्नसोः प्राण इति जपित्वाचम्य उद्वयं तमसस्परीत्यादित्यमुपस्थाय सप्तव्याहृतिभिर्गोवालरज्ज्वा सोदकेन पात्रं प्रक्षाल्य त्रीन्प्राणायामान्धारयित्वा गायत्र्याष्टशतं जपेत्3 । जपध्यानाभ्यां शिष्टकालं नयेत्4 । अथास्तमितभास्करां सायंसंध्यामातारकोदयमुपासीनो गायत्रीजपं कुर्यात्5 । अथ यावदवशमुपागतस्तावद्ध्यायेत्6 । सुप्तोत्थितोऽपि ध्यायेत्7 ॥ 258 ॥

यमः1

सुवर्णस्याथ रूप्यस्य यज्ञेषु चमसस्य च ।
यतीनां चैव पात्राणामद्भिः शौचं विधीयते ॥ 259 ॥

लिखितः1

भुक्त्वोपस्थाय मार्ताण्डं पुराणानि सदा पठेत् ।
भावशुद्ध्या हरौ भक्तिः पुराणश्रवणाद्भवेत् ॥ 260 ॥

शङ्खलिखितौ1

काष्ठालाबुविदलपार्थिवानामेकं भैक्षभाजनम्2 । तस्य गोवालरज्ज्वा सोदकया परिघर्षणम्3 । प्रत्याह्निकं शौचम्4 । नात्राचामेत्5 । न भूमौ क्षिपेत्6 । नाशुचिभिः संस्पृशेत्7 । भुक्त्वाचान्तः पुनराचम्य द्रव्याण्यभ्युक्षेत्8 । रज्जुशिक्यं यथान्यदविरुद्धं स्यात्9 ॥ 261 ॥

शङ्खः1

भुक्त्वा सूर्यमुपस्थाय प्राणानायम्य चासने ।
गायत्र्यष्टशतं जप्त्वा ध्यायेन्नारायणं पुनः ॥ 262 ॥
दिनशेषं पुराणाद्यैर्नीत्वोपास्य च पश्चिमाम् ।
संध्यां ततोऽभ्यसेद्योगं निद्रान्तेऽपि पुनस्तथा ॥ 263 ॥
एवं दिने दिने कुर्वन्ध्यानमेव प्रधानतः ।
कर्माण्यपि च कुर्वाणो ब्रह्मभूयाय कल्पते ॥ 264 ॥

विश्वामित्रः1

भुक्त्वा पुनरुपस्थानमुद्वयं तमसस्परि ।
भिक्षाटनविधिर्भिक्षोः प्रोक्तः पञ्चविधो मया ॥ 265 ॥
य एवं वर्तते भिक्षुः स यतिः साश्रमी स च ।
संध्यामुपास्य विधिवद्ध्यानकर्म समाचरेत् ॥ 266 ॥
मैत्रीभिर्ऋग्भिः पूर्वायां संध्यायामुपतिष्ठते ।
मध्याह्नसंध्यां सौरीभिः सायं वरुणदेवतैः ॥ 267 ॥
सेयं सारस्वती ज्ञेया संध्या याभ्युदयाश्रया ।
शाङ्करी चैव मध्याह्ने अपराह्णे तु वैष्णवी ॥ 268 ॥
एवं ध्यानं सदा कार्यं ब्राह्मणेन विपश्चिता ।
जपयज्ञार्थसिद्ध्यर्थं ध्यानमेतन्मयोदितम् ॥ 269 ॥
गवां वालपवित्रैस्तु यः संध्यां समुपासते ।
यत्कृतं दुष्कृतं तेन तस्य सद्यो विनश्यति ॥ 270 ॥
दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः ।
सहस्रकृत्वः सावित्रीं शतकृत्वोऽपि वा जपेत् ॥ 271 ॥
ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽमलाः ।
त्रिपदा चैव गायत्री विज्ञेया परमं पदम् ॥ 272 ॥
पवित्रं धारयेन्नित्यं कौशेयं दक्षिणे करे ।
भुञ्जानस्तु विशेषेण सोऽन्नदोषैर्न लिप्यते ॥ 273 ॥
उपवीती त्रिदण्डी च शिखी पीठी कुसुम्भवान् ।
श्रुतिस्मृत्युक्तकर्माणि यानि तानि समाचरेत् ।
अनुतिष्ठन्सदा योगं यतिः सिध्यति नान्यथा ॥ 274 ॥

मेधातिथिः1

गोवालरज्ज्वा सोदक्या पात्रं प्रक्षालयेत्स्वयम् ।
भुक्त्वा व्याहृतिभिश्चैव गायत्र्या प्रणवेन वा ॥ 275 ॥
प्राणायामत्रयं कृत्वा गायत्र्यष्टशतं जपेत् ।
अर्थमात्रं वदेत्किंचिद्वक्तव्यं यदि विद्यते ॥ 276 ॥
ध्यानेन दिनशेषं यत्ततोऽव्यग्रः समापयेत् ।
लोहितार्कामुपासीत संध्यामातारकोदयात् ॥ 277 ॥
तावद्ध्यायेत्पुनर्यावन्निद्रावशमुपागतः ।
सुप्तोत्थितः पुनर्ध्यायेत्तिष्ठन्संध्यां पुनर्जपेत् ॥ 278 ॥

भरद्वाजः1

अमृतापिधानमसीति चुलुकं गृहीत्वा प्रणवेन दन्तधावनं करोति2 । उच्छिष्टमन्नं पात्रं चाप्सु प्रक्षिप्याचम्य प्राणायामत्रयं कृत्वा पुनराचम्य वाङ्म आसन्निति जपित्वा आपो हि ष्ठेति मार्जयित्वा उद्वयं तमसस्परीत्युपस्थानं कुर्यात्3 । प्रणवेन पात्रं प्रक्षालयेत्4 । गायत्र्यष्टशतं जपेत्5 । गोवालं गृहीत्वा प्रणवेनैव शुष्कं पात्रं मार्जयेत्6 । दिशः प्रदिश इति बन्धनं कृत्वा गायत्र्या स्थापयेत्7 । लोहितार्कमुपासीत8 । एवं यथोक्तविधानेन भोजनं कृत्वा भिक्षुः परां गतिं प्राप्नोतीति9 ॥ 279 ॥

अथ सायंसंध्योपासनम्1 । तत्र शौनकः2

स्नानादि सायमेवं स्यात्समाप्य सकलं विधिम् ।
अर्घ्यं च पूर्ववद्दद्याल्लोहितायति भास्करे ॥ 280 ॥
वारुणीभिरुपस्थानं ततः संध्याविधिक्रिया ।
ध्यायन्नासीत चैतावद्यावन्निद्रावशंगतः ।
ध्यायेत्पुनः प्रबुद्धश्चेद् ब्रह्मभूयाय कल्पते ॥ 281 ॥

रात्रिवसनदेशं **हारीत **आह1

भुक्त्वा पात्रे यतिर्नित्यं क्षालयेन्मन्त्रपूर्वकम् ।
न दुष्येत्तस्य तत्पात्रं यज्ञेषु चमसं यथा ॥ 282 ॥
अथाचम्य निरुद्धासुरुपतिष्ठेत भास्करम् ।
जपध्यानेतिहासैस्तु दिनशेषं समापयेत् ।
कृतसंध्यस्ततो रात्रिं नयेद्देवगृहादिषु ॥ 283 ॥

शाण्डिल्यः1

वेदं विहाय कर्माणि सर्वाण्येव तु संन्यसेत् ।
ग्रामाद्बहिः कुटीं कृत्वा वृक्षमूलेऽपि वा वसेत् ॥ 284 ॥

क्रतुः1

शून्यागारे गुहायां वा वह्न्यागारे सुरालये ।
वसेदसङ्गो निःशङ्को निर्मलो योगमास्थितः ॥ 285 ॥

खादिनिषेधमास्तरणं स्थण्डिलशायित्वं वासदेशं च **वसिष्ठ **आह1

एकशाटीपरिवृतोऽजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः स्थण्डिलशायी नित्यं वसतिं वसेत्2 । ग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा मनसा स्वाध्यायमधीयानोऽरण्यनित्यो न ग्राम्यपशूनां संदर्शने विचरेत्3 ॥ 286 ॥ [VaDh 10.9-16]

स एवाह1

न च तृप्येत्2 । ग्रामे वसेत्3 । अजिह्मोऽशठोऽसङ्कुसुकः4 ॥ 287 ॥
[VaDh 10.25-27]

असहवासमावसथार्हत्वानर्हत्वे च **दक्ष **आह1

एको भिक्षुर्यथोक्तस्तु द्वावेव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ 288 ॥
नगरं तु न कर्तव्यं ग्रामो वा मिथुनं तु वा ।
एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥ 289 ॥
राजवार्तादि तेषां च भिक्षावार्ता परस्परम् ।
स्नेहपैशुन्यमात्सर्यं संनिकर्षाद्भविष्यति ॥ 290 ॥
तपोजपैः कृशीभूता व्याधिता वसथार्हकाः ।
वृद्धा ग्रहगृहीताश्च ये चान्ये विकलेन्द्रियाः ॥ 291 ॥
नीरुजश्च युवा चैव भिक्षुर्नावसथार्हकः ।
वसन्नावसथे भिक्षुर्मैथुनं यदि सेवते ।
स दूषयति तत्स्थानं वृद्धान्संपीडयेदपि ॥ 292 ॥

कपिलस्तु सहवासमनुमोदते1

गुरुवृद्धतपस्विन आगतानभिवदेत्2 । चतुर्भुजवत्पश्येत्3 । करणे यथाशक्ति संविभागशीलतापि प्रशस्ता4 । अनुद्वेगकारिभिस्तपस्विभिः समानशीलैः सह संवसेत्5 ॥ 293 ॥

शौनकः1

शरणं न कुर्यान्न च कारयेत्2 । कृतं प्रविशेत्3 । अथ ब्रह्मोपासीत4 । तच्चित्त एव शयीत5 । अनिन्दके देवगृहे वा प्रविष्टो यथाकथंचिच्छर्वरीं नयेत् जाग्रदेव सुषुप्तः6 । आसीनोऽथाचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्7 । काष्ठारोपितकमण्डलुना रात्रावाचामेत् दिवा स्रवन्त्या8 । अभिरुचितं प्रभूतोदकं पुण्यस्थानं न त्यजेत्9 । न तीर्थलोलुपः10 ॥ 294 ॥

वायुः1

निशान्तेऽभ्युद्धृता आपः शुद्धे पात्रे यथाविधि ।
अहोरात्रोषितास्तास्तु त्याज्या मेध्या अपि स्वयम् ॥ 295 ॥

अथ ग्रासवासादिनिमित्तं भिक्षावागते गृहस्थस्य कर्तव्यमुच्यते1 । तत्र वृद्धजाबालिः2

चतुर्वेदोऽपि यो विप्रः सोमयाजी शतक्रतुः ।
तस्मादपि यतिः श्रेष्ठस्तिलमेरुवदन्तरम् ॥ 296 ॥
आसनं शयनं वापि यतिं दृा त्यजेन्न यः ।
स मूढात्मा मृतस्तस्मात्तिर्यग्योनिषु जायते ॥ 297 ॥
दुर्वृत्ते वा सुवृत्ते वा यतौ निन्दां न कारयेत् ।
यतीनां द्विष्यमाणस्तु नरकं प्रतिपद्यते ॥ 298 ॥

दत्तात्रेयः1

त्रिदण्डरूपधृग्विप्रः साक्षान्नारायणात्मकः ।
यस्तं पूजयते भक्तया विष्णुस्तेन प्रपूजितः ॥ 299 ॥
सगुणो निर्गुणो वापि व्रतज्येष्ठो युवापि सः ।
संपूज्योऽभिक्षुभिर्भिक्षुः स्वधर्मे संस्थितो यतिः ॥ 300 ॥
अष्टाक्षरेण मन्त्रेण नित्यं नारायणात्मना ।
नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्डधृक् ॥ 301 ॥
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ 302 ॥
काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी ॥ 303 ॥

जमदग्निः1

शुष्कमन्नं पृथक्पाकं यतये यः प्रयच्छति ।
स मूढो नरकं याति तेन पापेन कर्मणा ॥ 304 ॥
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ 305 ॥
यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ 306 ॥
यतिर्यस्य गृहे भुंक्ते तत्र भुंक्ते हरिः स्वयम् ।
हरिर्यस्य गृहे भुंक्ते तत्र भुंक्ते जगत्त्रयम् ॥ 307 ॥
संचितं यद् गृहस्थस्य पापमामरणान्तिकम् ।
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः ॥ 308 ॥
अपचन्तं परित्यज्य पचन्तं यस्तु भोजयेत् ।
दैवे कर्मणि पित्र्ये च वृथा तस्य परिश्रमः ॥ 309 ॥
अदुष्टापतितं साधुं यो यतिं परिवर्जयेत् ।
स तस्य सुकृतं दत्वा दुष्कृतं प्रतिपद्यते ॥ 310 ॥
दुर्वृत्तो वा सुवृत्तो वा मूर्खः पण्डित एव वा ।
काषायदण्डमात्रेण यतिः पूज्यो युधिष्ठिर ॥ 311 ॥

अत्रिः1

भैक्षदाता सदा भिक्षोः सलिलं दक्षिणे करे ।
दत्वा भिक्षां प्रयच्छेत पात्रे सव्ये करे स्थिते ॥ 312 ॥
तृप्त्यर्थं पितृदेवानां तत्प्रदानेऽम्बु कल्पितम् ।
तदन्नेनैव दत्तेन भवेत्तदुपपादितम् ॥ 313 ॥
भैक्षं संस्कृत्य यो दद्याद्विष्णुरूपाय भिक्षवे ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तद्भवेत् ॥ 314 ॥
पात्रासनं तथा दण्डं शिक्यं जलपवित्रकम् ।
संन्यासिने प्रदायैव गोदानफलमाप्नुयात् ॥ 315 ॥
व्याधितानां च भिक्षूणां कुर्यादाश्रममण्डपम् ।
पथ्याद्यैर्वा परिचरेत्सोऽनन्तफलमश्नुते ॥ 316 ॥

वृद्धजाबालिः1

पृथक्कृता तु या भिक्षा घ्राता मार्जारमूषकैः ।
वातोपवाता शुष्कान्ना मधुमांससमा भवेत् ॥ 317 ॥
पर्युषिता तु या भिक्षा या च नैवेद्यकल्पिता ।
सा गृह्णतो न दोषाय दाता तु नरकं व्रजेत् ॥ 318 ॥
भिक्षोः पाणौ जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
सा भिक्षा पर्वतैस्तुल्या तज्जलं सागरोपमम् ।
एवं दत्तं तु यद्भैक्षं तेन तृप्यन्ति देवताः ॥ 319 ॥

जाबालिः1

यतिहस्तगतं द्रव्यं यो गृह्णाति नरः क्वचित् ।
स मूढो नरकं याति तेन पापेन कर्मणा ॥ 320 ॥
त्रिदण्डमप्पवित्रं च भैक्षभाजनमासनम् ।
संन्यासिने ददानो हि गोसहस्रफलं लभेत् ॥ 321 ॥
पात्रं चतुर्विधं युक्तं यो ददाति त्रिदण्डिने ।
पूरयित्वा हविष्यान्नैरात्मानं च निवेदयेत् ॥ 322 ॥
ये के च नरकस्थाने पच्यन्तेऽप्यतिपापिनः ।
उद्धरंश्चात्मनात्मानं स गच्छेत्परमां गतिम् ॥ 323 ॥
यावन्ति यतिपात्राणि यावन्त्यन्नानि तत्र च ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ 324 ॥
इति यतिधर्मसमुच्चये अहोरात्रक्रिया नाम षष्ठं पर्व ॥ 325 ॥

Notes


  1. . om A1 2 5 R1; 1)—ततः for कृत्वा X2* B M; कुर्यात् om X2* B M; 2)—स्नानं क्रतु॰ A6; आह om X2* B M; a–d)—om Y* ↩︎