05 मुख्यकर्मविधिः

पञ्चमं पर्व

मुख्यकर्मविधिः

अथ यतीनां मुख्यकर्मोच्यते ॥ 1 ॥ तत्राहोशनाः1

ब्रह्मचार्युपकुर्वाणो नैष्ठिकोऽप्यपरस्तथा ।
सदारो न्यस्तदारश्च वानप्रस्थो द्विधा स्मृतः ॥ 2 ॥
भिक्षू द्वौ भिक्षुसंन्यासी वेदसंन्यासिकस्तथा ।
बहुधा गृहिणो भिन्नाः शालीनादय एव ते ॥ 3 ॥
द्विधैवाश्रमिणां भेदश्चतुर्णां मनुरब्रवीत् ।
तेषां यो भिक्षुसंन्यासी तस्येदं शृणुताधुना ॥ 4 ॥
इहामुत्रोपभोगेषु विरक्तः प्रव्रजेद् द्विजः ।
वैश्वानरीं निरूप्येष्टिं सर्ववेदसदक्षिणाम् इति ॥ 5 ॥

एवं परिव्राजकस्य द्विधा भेदोऽभ्युपगतः ॥ 6 ॥ केचित्तु चतुर्विधत्वं वर्णयन्ति1

चतुर्विधा भिक्षवस्तु कुटीचकबहूदकौ ।
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः इति ॥ 7 ॥

एतदपि पाञ्चरात्रसिद्धं सांख्यसिद्धं च न वेदसिद्धमिति केचिदाहुः ॥ 8 ॥ **आपस्तम्ब **इमं पक्षं प्रतिषेधति1

सर्वतः परिमोक्षमेके2 । सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत्3 । बुद्धे क्षेमप्रापणम्4 । तच्छास्त्रैर्विप्रतिषिद्धम्5 । बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत6 । एतेन परं व्याख्यातमिति7 ॥ 9 ॥ [ApDh 2.21.12–17]

आहात्रिः1

शिखिनश्च श्रुताः केचित्केचिन्मुण्डास्तु भिक्षुकाः ।
चतुर्धा भिक्षवो विप्राः सर्वे चैव त्रिदण्डिनः इति ॥ 10 ॥

आह पराशरः1

तत्र परिव्राजकाश्चतुर्विधा भवन्ति2 । कुटीचका बहूदका हंसाः परमहंसाश्चेति3 । तत्र कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभमोहमदमात्सर्यादीन्परित्यज्य विधिवत्संन्यासं कृत्वा त्रिदण्डजलपवित्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मचर्यध्यानतत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं यात्रामात्रमुपयुञ्जानास्तस्यां कुटौ नित्यं वसन्त आत्मानं मोक्षयन्ते4 । बहूदका नाम त्रिदण्डकमण्डलुपक्ष्मपवित्रशिक्यकाषायवस्त्रधारिणो वेदान्तार्थावबोधकाः साधुवृत्तेषु ब्राह्मणेषु भिक्षाचर्यं चरन्त आत्मानं मोक्षयन्ते5 । हंसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनो गोमूत्रगोमयाहारा एकरात्रत्रिरात्रमासोपवासपक्षोपवासकृच्छ्रचान्द्रायणसान्तपनमहासान्तपनपराकतुलापुरुषादीनि व्रतानि चरन्तो गोद्विजाढ्येषु पुण्येशु देशेषु वसन्त आत्मानं मोक्षयन्ते6 । परमहंसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनोऽन्तर्वासोबहिर्वासधारिणो ग्रामैकरात्रवासिनो नगरतीर्थावसथेषु पञ्चरात्रिका भिक्षाकाले शीर्णपर्णपुटं कृत्वा ब्राह्मणकुलादेव भैक्षं गृहीत्वाष्टौ ग्रासानेव भुञ्जानाः संध्योपासनतत्परा नित्यं वृक्षमूले वसन्त आत्मानं मोक्षयन्त इति7 ॥ 11 ॥

तत्र मनुः वेदसंन्यासिकानामाह1

एष धर्मोऽनुशिष्टोऽन्यो यतीनां नियतात्मनाम् ।
वेदसंन्यासकानां तु कर्मयोगं निबोधत इति ॥ 12 ॥ [MDh 6.86]

ऋणानि त्रीण्यपाकृत्येति त्रयः श्लोका अस्मिन्नवसरे पठ्यन्ते केषुचित्प्रदेशेषु1

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ 13 ॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ 14 ॥
सर्वेषामपि चैतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ॥ 15 ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ 16 ॥
चतुर्भिरेतैरपि तु नित्यमाश्रमिभिर्द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ 17 ॥
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ 18 ॥
दश चिह्नानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ 19 ॥
दशलक्षणकं धर्ममनुतिष्ठन्हि मानवः ।
वेदान्तान्विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ 20 ॥
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् ।
नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् इति ॥ 21 ॥
[MDh 6.87–96]

एवमेव कुटीचक इति केचिदाहुः1 । दश चिह्नानि धर्मस्येति चिह्नग्रहणमाश्रमधर्मं प्रति शेषत्वख्यापनार्थम्2 । ततश्च सर्वैराश्रमिभिः स्वं स्वं धर्ममनुतिष्ठद्भिर्धृत्यादिदशधर्मोपेतैर्भवितव्यमिति भावः3 ॥ 22 ॥

तत्र भिक्षुसंन्यासिनामाश्रमधर्म उच्यते1 । आह क्रतुः2

सांख्यं योगो हरेर्भक्तिरप्रमादो विरागता ।
एतत्सारमतः शेष आश्रमो धर्म उच्यते इति ॥ 23 ॥

एतदुक्तं भवति1 । सांख्यं तत्त्वज्ञानम्2 । योगोऽष्टाङ्गः षडङ्गो वा3 । हरेर्भक्तिरीश्वरोपासनं परमात्मनि स्नेहः4 । अप्रमादः सदा प्रतिबुद्धताः5 । विरागता विषयेष्वस्नेहता6 ॥ 24 ॥ तथाह बृहस्पतिः1

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति इति ॥ 25 ॥

एतत्सारमतः शेष इति1 । एष एव प्रधानधर्म आश्रमस्य2 । शेषस्तु धर्मः संध्यावन्दनादिलक्षण आश्रम एव आश्रमधर्मः स्वरूपमेव3 । तन्निष्ठ आश्रमनिष्ठ एव स्यात् नाश्रमधर्मनिष्ठः4 । संध्यावन्दनादयो व्यापारा आश्रमधर्माङ्गत्वमापन्ना न स्वयमाश्रमधर्माः5 ॥ 26 ॥ तथाह दक्षः1

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् इति ॥ 27 ॥

तत्र सांख्यमुच्यते1 । आह यमः2

पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
प्रकृतिज्ञो विकारज्ञः स दुःखात्परिमुच्यते ॥ 28 ॥
मनो बुद्धिरहङ्कारः खानिलाजिलानि भूः ।
एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥ 29 ॥
श्रोत्राक्षिरसनाघ्राणं त्वक्च सङ्कल्प एव च ।
शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ।
उपस्थपादाविति च विकाराः शोडश स्मृताः ॥ 30 ॥

सङ्कल्पः अन्तः करणानां वृत्तयः ।

चर्तुींवशकमित्येतज्ज्ञानमाहुर्मनीषिणः ।
पञ्चविंशकमव्यक्तं षशिंः पुरुषोत्तमः ।
एतज्ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ॥ 31 ॥
अशब्दमरसस्पर्शमरूपं गन्धवर्जितम् ।
निर्दुः खं सुसुखं शुद्धं तद्विष्णोः परमं पदम् ॥ 32 ॥
अजं निरञ्जनं शान्तमव्यक्तं ज्ञानमक्षरम् ।
अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् इति ॥ 33 ॥

बृहस्पतिः1

तदेतत्परमं भूतं यस्माद्भूतान्यनेकशः ।
पृथिव्या इव भाण्डानि प्रभवन्ति विशन्ति च ॥ 34 ॥
तदेतत्परमं ज्योतिस्तस्यान्ये विस्फुलिङ्गवत् ।
विक्षिप्तं सूर्यचन्द्रावििद्युत्ताराग्रहादिषु ॥ 35 ॥
स एष परमानन्दो याश्चान्याः सुखविप्रुषः ।
पिबन्ति पुण्यकर्माणो ब्रह्मेन्द्रपितृमानवाः ॥ 36 ॥
नानात्वैकत्वभावेन सर्वभावस्थितं प्रभुम् ।
इदं तु परमैकत्वं परा सत्ता परा गतिः ॥ 37 ॥

इत्युपक्रम्यान्ते च1

य एवं ब्रह्म जानाति संसारात्स विमुच्यते इति ॥ 38 ॥

आह शौनकः1

पृथिव्यापस्तथा तेजो वायुराकाश एव च ।
पञ्चैतानि विजानीयान्महाभूतानि पण्डितः ॥ 39 ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्छरीरके ॥ 40 ॥
मनो बुद्धिस्तथैवात्मा ह्यव्यक्तं च तथापरम् ।
इन्द्रियेभ्यः पराण्याहुश्चत्वारि कथितानि तु ॥ 41 ॥
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ।
इन्द्रियार्थान्विजानीयात्पञ्चैव सततं बुधः ॥ 42 ॥
हस्तपादावुपस्थं च जिह्वा पायुस्तथैव च ।
कर्मेन्द्रियाणि पञ्चैव नित्यमस्मिञ्छरीरके ॥ 43 ॥
चर्तुींवशतिरेतानि तत्त्वानि कथितानि तु ।
मत्वात्मानं तद्रहितं पुरुषं पञ्चविंशकम् ॥ 44 ॥
यज्ज्ञात्वा तु विमुच्यन्ते यतयः शान्तबुद्धयः ।
एतत्तत्परमं गुह्यमेतदक्षरमुत्तमम् ॥ 45 ॥

अशब्दमरसस्पर्शमित्यादि याम्यपाठ एव1 । एवमन्यत्रापीतिहासपुराणेषु मानवादिषु वेदान्तेषु च सांख्यशब्दवाच्यं तत्त्वज्ञानमन्वेषणीयम्2 ॥ 46 ॥

अथ ज्ञानतत्त्वस्य योग उच्यते1 । सोऽष्टाङ्ग उक्तः पातञ्जले2

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि3 । तत्र अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः4 । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः5 । स्थिरसुखमासनम्6 । प्राणगतिविच्छेदः प्राणायामः7 । स्वविषयासंप्रयोगे चित्तस्वरूपानुकार एवेन्द्रियाणां प्रत्याहारः8 । देशबन्धश्चित्तस्य धारणा9 । तत्र प्रत्ययैकतानता ध्यानम्10 । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः11 ॥ 47 ॥ [Ys 2.29—3.3]

एषामष्टानामङ्गानां प्रत्याहारादीनि स्वरूपाङ्गानि देवदत्तस्येव हस्तादीनि इतराणि साधनत्वेनाङ्गानि1 । तेषामन्तरङ्गविरोधेऽन्तरङ्गाण्येव पालनीयानि2 ॥ 48 ॥ तथा च भगवान्व्यासः1

यमान्यतेत सततं बाधित्वापीतरान्बुधः ।
यमान्पतत्यकुर्वाणो नियमान्केवलं भजन् इति ॥ 49 ॥

तानीमान्यङ्गानि व्याख्यायन्ते स्मृतिषु नानाप्रकारेण1 । तत्र तावत्क्रतुः2

योगाङ्गैर्वा यमादिभिः3 । [see 6.23]

इत्युक्त्वाह4

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
ह्रीर्विद्या सत्यमक्रोध एतद्धर्मस्य लक्षणम् ॥ 50 ॥
अहिंसा समतास्तेयं क्षमादमशमादयः ।
तुष्टिरद्रोहताकल्कं निर्वैरत्वं यमाः स्मृताः ॥ 51 ॥
विकल्पो दम्भ आलस्यं सङ्गः कर्मफलं भयम् ।
परिग्रहो ममत्वं च त्यागश्चोपयमाः स्मृताः ॥ 52 ॥

एषां त्यागस्त्याग इत्यर्थः1

कामरागद्वंद्वनिद्रामोहक्षुत्पापचेतसाम् ।
द्वेषाहङ्कारलोभानां विजयाः संयमाः स्मृताः ॥ 53 ॥
संनतिः शीलमास्तिक्यं योगो वृत्तं श्रुतं क्रिया ।
औदासीन्यं मृदु स्थैर्यं वैराग्यं च परा यमाः ॥ 54 ॥
अप्रार्थनमसंकल्पमस्पर्शनमदर्शनम् ।
ध्यानं प्रसादमाधुर्यं मौनं संनियमान्विदुः ॥ 55 ॥

शौनकः1

दश व्रतानि सर्वेषां यतीनां विहितानि वै ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥ 56 ॥
अक्रोधो गुरुशुश्रूषा शौचं दुर्वृत्तिवर्जनम् ।
वाङ्मनःकायचेष्टासु प्रमादस्य च वर्जनम् इति ॥ 57 ॥

आह बोधायनः1

अथैतानि व्रतानि भवन्ति2 । अहिंसा सत्यमस्तेयं मैथुनस्य च वर्जनं त्याग इति3 । पञ्चैवोपव्रतानि भवन्ति4 । अक्रोधो गुरुशुश्रूषाप्रमादः शौचमाहारशुद्धिश्चेति5 ॥ 58 ॥ [BDh 2.18.2–3]

यमः1

अथादित्यो यमो राजा यतीनां भावितात्मनाम् ।
जगाद विहितान्धर्मान्वेदसंन्यासिनामपि ॥ 59 ॥
अहिंसा सत्यमक्रोधो ब्रह्मचर्यं तपः श्रुतम् ।
अस्तेयाव्यभिचारौ च धर्मो दशविधः स्मृतः ॥ 60 ॥

तपसो वाङ्मनःकायभेदेन भिन्नत्वाद्दशविधत्वम्1

संतोषो गुरुशुश्रूषा ह्यप्रमादः क्षमा दया ।
मौनमाहारशुद्धिश्च शौचमष्टौ व्रतानि च ॥ 61 ॥

ननु हिंसाभेदादहिंसापि भिद्यते1 । हिंसा च दशविधा2 । तथा हि उद्वेगकरणं सन्तापकरणं रुजाकरणं शोणितोत्पादनं पैशुन्यं सुखापनयनमतिक्रमः सङ्कोचो हितप्रतिषेधो वध इति3 ॥ 62 ॥ अप्रसिद्धांश्च भेदान् वृद्धजाबालिराह1

हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्ता चोपकर्ता च खादकश्चाष्ट घातकाः इति ॥ 63 ॥

सत्यं वायुराह1

न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि तन्न वक्तव्यं प्रसङ्गोऽप्येष दारुणः ॥ 64 ॥

अस्तेयं च स एवाह1

असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना ।
न चैवापद्गतेनापि स्तेयं कार्यं कदाचन ॥ 65 ॥

ब्रह्मचर्यभेदं बृहस्पतिराह1

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ 66 ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ 67 ॥

अपरिग्रहं **लिखित **आह1

संस्कृतां न वदेद्वाणीं बालवन्मूकवच्चरेत् ।
न द्रव्यसंचयं कुर्यान्मात्रामप्यन्यकालिकाम् ॥ 68 ॥

शौचमुपरि व्याख्यास्यते गर्गेण [see 6.5] ॥ 69 ॥ स्वाध्यायं **यम **आहः1

जप्येनापि नयेत्कालं ध्यानश्रान्तो यतिः सदा ।
ध्यानेन जपविश्रान्तः पुनर्ध्यायेत्पुनर्जपेत् ॥ 70 ॥
चत्वारः पाकयज्ञास्तु विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ 71 ॥
विधियज्ञाज्जपो यज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः इति ॥ 72 ॥

मनुः1

अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ 73 ॥
[MDh 6.83]

वेदान्ताभिहितं प्रणवः1आपस्तम्बः2

स्वाध्याय एवोत्सृजमानो वाचमिति3 ॥ 74 ॥ [ApDh 2.21.10]

बोधायनः1

सायंप्रातरहिोत्रमन्त्राञ्जपेत्2 [BDh 2.18.20] । योऽहिोत्री भूत्वा प्रव्रजति तस्यायं विधिः3 ॥ 75 ॥

ईश्वरप्रणिधानं **कपिल **आह1

प्रातःस्नानं जपो मौनं नित्यमेकान्तशीलता ।
नमस्कारोपवासौ च भक्तिर्विष्णौ तथा गुरौ ॥ 76 ॥
आस्तिक्यं ब्रह्मसंस्पर्शः प्राणायामरतिस्तथा ।
त्रैकाल्यमर्चनं विष्णोः परमं मुक्तिसाधनम् ॥ 77 ॥

अत्रिः1

त्रैकाल्यमर्चनं विष्णोर्देवानां च तदात्मनाम् ।
नमस्कारार्चनादीनि कुर्यान्नान्यस्य कस्यचित् इति ॥ 78 ॥

आह क्रतुः1

ईश्वरो भगवान्विष्णुः परमात्मा महानजः ।
शास्ता चराचरस्यैको यतीनां परमा गतिः ॥ 79 ॥

पुनः स एवाह1

ध्यायतेऽर्चयते योऽन्यं विष्णुलिङ्गमुपाश्रितः ।
कल्पकोटिशतैश्चापि गतिस्तस्य न विद्यते ॥ 80 ॥

अथापि स एवाह1

पूजां पुरुषसूक्तेन वेदगुह्यस्तवैः स्तुतिम् ।
ॐ इत्येकाक्षरं ध्यायेदधियज्ञं तथा जपेत् ।
त्रिकं पुरुषसूक्तं च चतुष्कं प्राणसंयमैः ॥ 81 ॥

त्रिकं प्रणवव्याहृतिगायत्र्यः1 । ता एव सशिरस्काश्चतुष्कम्2 । आसनं **शङ्ख **आह3

शून्ये गृहे देवगृहे गुहायां गिरिगह्वरे ।
यत्र वा रमते बुद्धिस्तत्रासीत प्रसन्नधीः ॥ 82 ॥
योगशास्त्रोक्तमार्गेण कृतासनपरिग्रहः ।
योगं युञ्जीत सततं संध्यासु तु विशेषतः ॥ 83 ॥

विश्वामित्रः1

ततो निवातके रम्ये निम्नोन्नतविवर्जिते ।
कुशाजिनसुचेलानामुपर्युपरि विन्यसेत् ॥ 84 ॥
पद्मासनं तु तत्रैव कृत्वाङ्गानि समं नयेत् ।
प्राणायामांस्ततः कुर्याद्यावत्कालं समाहितः ॥ 85 ॥

प्राणायामप्रत्याहारधारणाध्यानानां लक्षणं **शङ्ख **आह1

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान्ध्यानेनानैश्वरान्गुणान् ॥ 86 ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ 87 ॥
संयमश्चेन्द्रियाणां हि प्रत्याहारः प्रकीर्तितः ।
मनःसंयमनं तज्ज्ञैर्धारणेति निगद्यते ॥ 88 ॥
ब्रह्मणि ध्यानयोगेन देवदेवस्य दर्शनम् ।
ध्यानं प्रोक्तं प्रवक्ष्यामि ध्यानयोगमतः शुभम् ॥ 89 ॥

ध्यानं समाधिः1 । ध्यानयोगस्तु ध्यानम्2 । तदाह3

हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि ज्योतींषि सूर्यश्च हृदि सर्वं प्रतिष्ठितम् ॥ 90 ॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येद्धृदि स्थितम् ॥ 91 ॥

ॐकारेण ब्रह्म ध्यायेदन्यांस्त्यक्त्वा शब्दादीनित्यभिप्रायः1 । तथा च श्रुतिः2

ॐ इत्यात्मानं युञ्जीतेति3 ॥ 92 ॥ [MNU 540]

तथा

अन्या वाचो विमुञ्चथ1 । [MuU 2.2.5]

इत्युक्त्वाह

ॐ इत्येव ध्यायतात्मानमिति2 । [MuU 2.2.6]
नानुध्यायेद्बहूञ्छब्दान् । [BaU 4.4.21]

इति च3 ॥ 93 ॥ आह यमः1

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ 94 ॥

शब्दब्रह्म प्रणवः1यमः शङ्खश्च2

रविमध्ये स्थितः सोमस्तस्य मध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः ॥ 95 ॥

विश्वामित्रः1

प्रसीदति मनो यावत्तावच्चित्तं नियम्य तु ।
चिन्तयेद्धृदि मध्ये तु प्रदीप्तं सूर्यमण्डलम् ॥ 96 ॥
तस्य मध्ये स्थितं सोममब्रिंह्म महच्छिखम् ।
सर्वविघ्नप्रशान्त्यर्थं हृत्पद्मे देवमच्युतम् ॥ 97 ॥
शुद्धस्फटिकसंकाशं चतुर्बाहुमनुस्मरेत् ।
ततः स निष्कलं ध्यायेह्मपूर्वमतन्द्रितः ॥ 98 ॥

ब्रह्मपूर्वं प्रणवपूर्वं नारायणमित्यर्थः1

सर्वं सर्वात्मकं तत्त्वं विष्ण्वाख्यं परमं पदम् ।
पुनः पुनः स्वचित्तस्थं निर्मलं यन्निरामयम् ॥ 99 ॥
तह्म चाहमेवास्मि सर्वगं त्वात्मनः परम् ।
निरस्य विषयासक्तिं संनिरुध्य मनो हृदि ॥ 100 ॥
यदा यस्य मनोभावं तदेवं परमं पदम् ।
वीक्षितां बुद्धिमादद्यात्पुनरप्यात्मनीश्वरे ॥ 101 ॥
न निर्वेदं मुनिर्गच्छेन्निरुन्ध्यादेव मानसम् ।
तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् ॥ 102 ॥
एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ।
इन्द्रियेषु निरुद्धेषु मनसि स्पन्दवर्जिते ।
आत्मा प्रकाशते शुद्धो बोधाकारो निराकुलः इति ॥ 103 ॥

लिखितः1

विचार्य च पुराणार्थान्वेदान्तान्भक्तिमास्थितः ।
विष्णुं सदा हृदि ध्यायेत्साकारं निष्कलं तु वा ॥ 104 ॥
इदं तु सर्वधर्माणां यद्योगेनात्मदर्शनम् ।
श्रेष्ठमेतद्विरोध्यन्यत्त्यजेदावश्यकादृते ॥ 105 ॥

बृहस्पतिः1

क्षमा तीर्थं दमस्तीर्थं तीर्थमिन्द्रियनिग्रहः ।
सर्वभूतदया तीर्थं ध्यानतीर्थमनुत्तमम् ॥ 106 ॥
एतानि पञ्च तीर्थानि सत्यं षष्ठं तु सर्वदा ।
देहे तिष्ठन्ति सर्वत्र तेषु स्नानं समाचरेत् ॥ 107 ॥
न तथा पुष्करे स्नातो गङ्गायां कुरुजाङ्गले ।
मुच्यते पुरुषः पापैर्यथा स्नातः क्षमादिषु ॥ 108 ॥
निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्करं तथा ॥ 109 ॥
इदं तीर्थमिदं नेति ये नरा भेदवादिनः ।
तेषां विधीयते तीर्थगमनं तत्फलं च यत् ॥ 110 ॥
सर्वं ब्रह्मेति यो वेत्ति नातीर्थं तस्य किंचन ।
जाग्रत्स्वप्नसुषुप्तेषु ब्रह्मण्येव स वर्तते ॥ 111 ॥
स एव परमो धर्मो ये त्वन्ये तस्य बिन्दवः ।
यज्ञं दानं तपो वेदास्तीर्थरूपेण संस्थिताः ॥ 112 ॥

योगं योगाङ्गानि च प्राणायामप्रत्याहारधारणाध्यानसमाधीन्**क्रतुः **स्तौति1

रैर्ब्रह्माण्डमापूर्य वेदविद्भ्यो निवेदिते ।
क्षयिष्णु तत्फलं दृष्टं न विष्णोः स्मरणं सकृत् ॥ 113 ॥
पञ्चाजिलमध्यस्थाः खस्थाश्चैवाधिूमपाः ।
प्राणायामस्थितस्यैते कलां नार्हन्ति षोडशीम् ॥ 114 ॥
त्वक्पत्रपुष्पशाकाम्बुफलमूलानिलादनैः ।
द्वादशाब्दैस्तत्त्वशुद्धिः प्रत्याहारेण वत्सरात् ॥ 115 ॥
सुस्थेयं शक्तिचक्रासिबाणाश्रयहितैषिणा ।
धारणायां तु योगस्य दुःस्थेयमकृतात्मभिः ॥ 116 ॥
शक्यतेऽौ हिमे युद्धे स्वाध्याये तपसि व्रते ।
पापध्वंसिन्यवस्थातुं न स्थाने क्षणमप्यलम् ॥ 117 ॥
कुष्ठज्वरगरव्याधीन्मर्षयन्तीह मानवाः ।
ये जना दुःसहा लोके योगनिश्चलकारकाः ॥ 118 ॥
त्यक्तबन्धस्य शुद्धस्य समाधिस्थस्य योगिनः ।
विरजाकाशकल्पस्य सा काष्ठा वैष्णवी गतिः ॥ 119 ॥
रवीन्दुवह्निद्युतयः शुद्धस्फटिकनिर्मलाः ।
तरन्ति तमसः पारं योगाङ्गै स्तोषिते हरौ ॥ 120 ॥
मनोवाग्देहजान्दोषानज्ञानोत्थान्प्रमादतः ।
सर्वान्दहति योगास्तिूलराशिमिवानलः ।
भक्तियुक्तो हरिं पश्येद्योगदीपिकया सदा ॥ 121 ॥

योगावसानं **हारीत **आह1

आत्मलाभसुखं यावत्तावद्ध्यानमुदाहृतम् ।
श्रुतिस्मृत्युदितं कर्म तदूर्ध्वं च समाचरेत् ॥ 122 ॥

निष्कलध्यानाशक्तौ ध्यानं बृहस्पतिराह1

ब्रह्मण्येव निराकारे ध्यानं कर्तुमशक्नुवन् ।
प्राणायामेन संशुद्धस्तन्मूर्तिध्यानमाचरेत् ॥ 123 ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ 124 ॥
प्राणायामैर्दहेद्दोषान्मनोवाक्कायसंभवान् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ 125 ॥
ध्मायमानं यथा भ्रश्येद्धातूनां संभृतं मलम् ।
तथेन्द्रियकृतो दोषः प्राणायामेन दह्यते ॥ 126 ॥
आधानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् ।
ब्रह्माणं केशवं शंभुं ध्यायन्मुच्येत बन्धनात् ॥ 127 ॥
रक्तं पितामहं ध्यायेद्विष्णुं नीलोत्पलप्रभम् ।
श्वेतं त्रिलोचनं शंभुं संसारार्णवतारणम् ॥ 128 ॥
योगाभ्यासपरो नित्यमेवं यो वर्तते यतिः ।
प्राप्तवैराग्यसर्वस्वः स याति परमां गतिम् ॥ 129 ॥
वासुदेवः परं ब्रह्म परमात्मा जगन्मयः ।
तस्यैव मूर्तयस्त्वेता भिद्यन्ते ह्याख्यया त्रिधा ॥ 130 ॥
नारायणं जगद्योनिं सर्वलोकेश्वरं हरिम् ।
चिन्तयेदन्वहं भक्तया सर्वकारणकारणम् ॥ 131 ॥
शङ्खचक्रधरं सौम्यं चतुर्बाहुं किरीटिनम् ।
श्रीवत्सकौस्तुभोरस्कं दिव्यरविभूषितम् ॥ 132 ॥
पीताम्बरमुदाराङ्गं प्रसन्नेन्दुनिभाननम् ।
श्यामलं पुण्डरीकाक्षं स्फुरन्मकरकुण्डलम् ॥ 133 ॥
संतापनाशनं सद्यः कालमेघमिवोदितम् ।
सर्वतेजोमयं पुण्यं शरण्यं शरणार्थिनाम् ॥ 134 ॥
चिन्तयेत्पुण्डरीकाक्षं नारायणमनामयम् ।
मनसा षोडशैः सम्यगुपचारैः प्रयतः इति ॥ 135 ॥

आह दत्तात्रेयः1

अष्टादशोपचारेण भगवान्पुरुषोत्तमः ।
हृदयेऽौ तथादित्ये पूज्यते च मुमुक्षुभिः ॥ 136 ॥
पलाशैः पद्मकुसुमैरर्चनं शस्यते हरेः ।
एवमभ्यर्च्य देवेशं नारायणमतन्द्रितः ॥ 137 ॥
तद्रूपं चिन्तयेद्योगी प्रणवेन समाहितः ।
साकारं वा यथायोगं नित्यं मनसि धारयेत् ॥ 138 ॥
आदित्यवर्णं पुरुषं पुण्डरीकनिभेक्षणम् ।
शङ्खचक्रगदापाणिं पीतनिर्मलवाससम् ॥ 139 ॥
किरीटचारुकेयूरकटकादिविभूषितम् ।
श्रीवत्सवक्षसं श्रीशं कौस्तुभोद्भ्राजिवक्षसम् ॥ 140 ॥
श्यामलं वा हृषीकेशं पुण्डरीकाक्षमच्युतम् ।
हृत्पद्मकर्णिकामध्ये स्थितमासीनमेव वा ॥ 141 ॥
एवं संचिन्तयद्देवं सर्वलोकमहेश्वरम् ।
समस्तक्लेशहन्तारं कार्यकारणसंस्थितम् ॥ 142 ॥

योगाभ्यासफलं शङ्ख आह1

सर्वेषु योगशास्त्रेषु वेदान्तेषु च निष्ठितः ।
सदा तद्भावयेद्योगी तैस्तैर्ब्रह्म विशेषणैः ॥ 143 ॥
पुनः पुनरनिर्विण्णो ज्योतिस्तल्लभते ध्रुवम् ।
सौम्यमानन्दमद्वैतं बहुशस्तत्प्रकाशितम् ।
तन्मयत्वेन लब्ध्वासौ परं निर्वाणमृच्छति ॥ 144 ॥

आह याज्ञवल्क्यः1

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ 145 ॥

आह विश्वामित्रः1

एवं हि ध्यायतस्तस्य ब्रह्मनिष्ठस्य योगिनः ।
सांख्यमानन्दमद्वैतं परं ब्रह्म प्रकाशते ॥ 146 ॥
प्रकाशितेन तत्त्वेन मुक्तिरुक्ता मनीषिणाम् ।
नान्येन योगहीनेन कर्महीनेन लभ्यते ॥ 147 ॥
तस्मात्कर्म च कर्तव्यं यथाकालं दिने दिने ।
ज्ञानयुक्तं च तत्कर्म कर्तव्यं मोक्षकाङ्क्षिभिः ॥ 148 ॥

बृहस्पतिः1

एवं भावयतस्तस्य व्यपैत्यज्ञानवासना ।
ज्ञानदीपोदयश्च स्यात्तमः सूर्योदये यथा ॥ 149 ॥
कुर्याच्छुद्धिमशुद्धस्य सर्वेणानेन चेतसः ।
तस्मिंस्तु विमलीभूते लयो ब्रह्मणि नान्यथा ॥ 150 ॥

मुक्तस्वरूपं मेधातिथिराह1

विमुक्तः परमप्येति सरितः सागरं यथा ।
तदाख्यस्तन्मयो भूत्वा स पुनर्नेह जायते ॥ 151 ॥
साधिभूताधिदैवस्य साधियज्ञस्य चैव हि ।
आत्मा भवति सर्वस्य तथैवाध्यात्मिकस्य च ॥ 152 ॥
स ब्रह्मा स शिवो विष्णुः शक्रः सोऽहर्पतिर्यमः ।
हुताशो निर्ऋतिर्वायुरीशानः सर्वभूतराट् ॥ 153 ॥
वेदा यज्ञास्तथा देवाः पशवो दक्षिणादयः ।
श्रद्धादयो हविः कालः क्रिया कर्ता धृतिर्विधिः ।
सर्वात्मा सर्वभूतेशः सर्वस्यायतनं च सः इति ॥ 154 ॥

सांख्ययोगं तत्फलं च क्रतुराह1

कर्मेन्द्रियाणि मनसा बुद्धिं ज्ञानेन शोधयेत् ।
वृत्तिं संशोधनेनैव विद्याविद्ये गुरोर्गिरा ॥ 155 ॥
राज्ञी बुद्धिर्गुणोऽमात्यः प्रतिहारो मनो मतम् ।
सेनापतिमहङ्कारं कारयेदभिमानतः ॥ 156 ॥
दशग्रामाधिपतयस्तेषां संकल्पनं विना ।
त्रिभिरावरणैर्युक्तं पाञ्चभूतं महत्पुरम् ॥ 157 ॥
योगैश्वर्यासनारूढो राजेव पुरुषः स्थितः ।
पश्यते गुणवैषम्यं सर्वं ज्ञात्वा तु साक्षिवत् ॥ 158 ॥
भावनाकल्पनाचिन्ताभयविक्षेपवर्जितः ।
संबन्धमर्थधर्मांश्च देशजातिगुणाश्रयान् ॥ 159 ॥
सर्वभावान्परित्यज्य सदस्मीत्येव भावयेत् ।
दिवारात्रौ सदैकाकी भूत्वा मनसि चिन्तयेत् ।
ततो रागक्षयादात्मा परे विशति तत्क्षणात् इति ॥ 160 ॥
इति यतिधर्मसमुच्चये मुख्यकर्मविधिर्नाम पञ्चमं पर्व ॥ 161 ॥

Notes