04 संन्यासप्रयोगः

चतुर्थं पर्व

संन्यासप्रयोगः

अथ प्रयोग उच्यते1 । अथातः शौनकप्रोक्तं संन्यासविधिं व्याख्यास्यामः2 । तत्र तस्मिन्ननुक्तान्यन्यत्रोक्तान्यपेक्षितानि तत्र तत्र निगद्यन्ते प्रयोगाङ्गानि3ˇ॥ 1 ॥ तत्र पुरश्चरणमाह कात्यायनः1

कृच्छ्रचतुष्टयं कार्यमनाश्रमिभिः2 । कृच्छ्रमेकमाश्रमिभिः3। एवं संन्यासयोग्यता भवति4। द्वादश्यां पौर्णमास्यां वा संकल्प्य वपनं कृत्वा देवश्राद्धं प्रथममृषिश्राद्धं द्वितीयं दिव्यश्राद्धं तृतीयं पित्र्यं चतुर्थं मातृकं पञ्चमं मानुषं षष्ठं भौतिकं सप्तममात्मनश्चाष्टममिति5 ॥ 2 ॥

एवमाह भगवान्वृद्धवसिष्ठः1। पौर्णमास्यामित्यादि समानम्2 ॥ 3 ॥ आह शौनकः1

पूर्वेद्युर्नान्दीमुखं कृत्वा ब्राह्मणान्भोजयेत्2 । अथ पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा केशश्मश्रुलोमनखानि वापयेदिति3 ॥ 4 ॥

तत्राह भगवान्जामद****योऽपि1

केशश्मश्रुलोमनखानि वापयेदिति2 ॥ 5 ॥

आह शौनकः1

अथ यथाविधि स्नात्वा होमादिद्रव्यं वर्जयित्वा सर्वस्वं दद्यादिति2॥ 6 ॥

आह बोधायनः1

यष्टयः शिक्यं कमण्डलुं जलपवित्रं पात्रमित्येतानि2 ॥ 7 ॥

[BDh 2.17.11–12]

वसिष्ठः1

त्रिदण्डमासनं कन्थां शिक्यं पात्रं कमण्डलुम् ।
षण्णां परिग्रहं कुर्याच्छेषं वित्तं त्यजेद् बुधः ॥ 8 ॥
द्रव्यत्यागं प्रकुर्वीत मलशुद्धिर्विधीयते ।
अत्यागे पुत्रवित्तानां संन्यासं नैव कारयेत् इति ॥ 9 ॥

कात्यायनः1

त्रिदण्डं जलपवित्रं शिक्यं पात्रं कौपीनं काषायवस्त्रमसिंनिधौ संसाद्यानमिानमिुत्पाद्येति2 ॥ 10 ॥

बोधायनः1

अनीनामयुत्पादनमेकावििधानेनेति2 ॥ 11 ॥

शौनकः1

अथ दण्डादीन्संनिधाप्य देवायतने ग्रामे ग्रामसीमान्ते वा नदीपुलिने पुण्ये वा पूर्वं मनसा ब्रह्माञ्जलिं कृत्वा जपेत्2
ब्रह्मणे नमः2 । इन्द्राय नमः3 । सूर्याय नमः4 । आत्मने नम इति5
अथाप उपस्पृश्य दर्भाञ्जलिं कृत्वा वेदादीञ्जपेत्6 । अथ सक्तुमुष्टिं प्राश्याचमनं करोति7 । अथ नाभिदेशमभिमन्त्रयेत्8
आत्मने स्वाहा9 । अन्तरात्मने स्वाहा10 । प्रजापतये स्वाहेति11
अथ पयो दधि सर्पिरिति त्रिवृत्प्राश्याचम्योपवसेत्12 । अपो वा भक्षयेत्13 । जपेच्च14
ॐ भूः सावित्रीं प्रविशामि । तत्सवितुर्वरेण्यम्15
ॐ भुवः सावित्रीं प्रविशामि । भर्गो देवस्य धीमहि16
ॐ सुवः सावित्रीं प्रविशामि । धियो यो नः प्रचोदयात्17
ॐ भूः सावित्रीं प्रविशामि । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि18
ॐ भुवः सावित्रीं प्रविशामि । धियो यो नः प्रचोदयात्19
ॐ सुवः सावित्रीं प्रविशामि । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्20
ॐ भूर्भुवः सुवः सावित्रीं प्रविशामि । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्21
इत्यात्मानमाश्रमान्तरमुपनीय ब्रह्मभूतो भवतीति विज्ञायते22 । अथाप्युदाहरन्ति23
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः 24
भिक्षाबलिपरिश्रान्तः पश्चाद्भवति भिक्षुकः 25
स एव भिक्षुरानन्त्यायेति26 ॥ 12 ॥

आह शौनकः1

अथ पुनरादित्यस्यास्तमयादाज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्धेऽौ पूर्णाहुतिं जुहोति ॐ स्वाहेति2 । अथ सायमकिार्यं कृत्वा उत्तरेणातिंृणानि संस्तीर्य तेषु पात्राणि सादयित्वा दक्षिणेनाब्रिंह्मायतने दर्भान्संस्तीर्य कृष्णाजिनमन्तर्धाय तां रात्रिं जागर्ति3 । अथ ब्राह्मे मुहूर्ते उत्थाय यथाविधि स्नात्वा प्रातरकिार्यं करोति4 । अथ व्याहृतीर्जपित्वान्तर्जले तिष्ठन्तरत्स मन्दीति सूक्तं जपेत्5 । अथ ब्राह्मणानन्नेन परितोष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वामिुपसमाधायाज्याहुतिं जुहोति6
प्राणाय स्वाहा7 । अपानाय स्वाहा8 । व्यानाय स्वाहा9 । उदानाय स्वाहा10 । समानाय स्वाहेति11
अथ पुरुषसूक्तेन प्रत्यृचं समिदाज्यचरूञ्जुहोति12 । अथ पुरुषसूक्तं जपित्वा प्रणीतापात्रं संस्तीर्य सौविष्टकृतेन जुहोति13 । यथाकामं जयादिसौविष्टकृतं जुहोति14 । अथाचार्यायाज्यपात्रं हिरण्यं धेनुं च दत्त्वा अन्यदपि यथाश्रद्धं दद्यात्15 । अथाचार्यमुपतिष्ठेत सं मा सिञ्चन्त्विति16 । ततो या ते अे यज्ञिया तनुरित्यात्मन्यीन्समारोपयेत्17 । अथापिूर्वेऽन्तर्जले वा तिष्ठन् ॐ भूर्भुवः सुवः संन्यस्तं मयेति त्रिरुपांशु त्रिर्मध्यमेन स्वरेण त्रिरुच्चैः18 । अथ अभयं सर्वभूतेभ्यो मत्तः स्वाहेति प्राङ्मुखोऽपां पूर्णाञ्जलिं निनयतीति19 ॥ 13 ॥

एवं बोधायनोऽपि ॐ भूर्भुवः सुवः संन्यस्तं मयेत्यादि अपो निनयतीत्यन्तमुक्त्वा1 । [BDh 2.17.27–29]

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते इति ॥ 14 ॥
[BDh 2.17.30]

वृद्धवसिष्ठः1

संन्यस्तं मयेति स्वरक्रमेण त्रिर्वाचो वदन् ।
त्रिंशत्परांस्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।
सद्यः संन्यसनादेव नरकात्त्रायते पितॄन् ॥ 15 ॥
संन्यस्तं हि द्विजं दृा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्वा परं ब्रह्माधिगच्छति ॥ 16 ॥
विरक्तेन तु विप्रेण संन्यासाश्रममिच्छता ।
यत्र तत्र मृतश्चापि न स भूयो भविष्यति ॥ 17 ॥

स एवाह1

अनाहितार्मिृतपत्नीको वानेन विधिना संन्यासं कुर्यादिति2॥ 18 ॥

अथ शौनकः1

अथ युवा सुवासा इति काषायवासो गृह्णाति2 । सखा मा गोपायेति त्रिदण्डं गृह्णाति3 । तच्छंयोरावृणीमह इति यज्ञोपवीतं गृह्णाति4 । यदस्य पारे रजस इति शिक्यं गृह्णाति5 । ॐ इति पात्रम्6 । येन देवाः पवित्रेणेति जलपवित्रम्7 । येन देवा ज्योतिषोर्ध्वा उदायन्निति कमण्डलुं गृह्णाति8 ॥ 19 ॥

सप्तव्याहृतिभिः पात्रमिति **कात्यायनः **॥ 20 ॥ वसिष्ठः1

यज्ञोपवीतमिति उपवीतं समादाय हंसः शुचिषत् उदुत्यम् चित्रम् तच्चक्षुः नमो मित्रस्येति त्रिदण्डादिपञ्च अङ्गमित्युपस्थाय समिद्धमिति द्वाभ्यामविंिसृज्य ग्रामसीमान्तं गत्वा त्रिधा बद्धो वृषभो रोरवीतीति त्रिदण्डानादद्यात्2 । पवित्रचतुष्टयत्रिकं जपित्वा त्रीणि पदा विचक्रम इति पदत्रयं गत्वा तद्विष्णोः परमं पदमित्युपस्थाय स्वयंभूरिति जपेत्3 । जले मत्स्यादीनां स्थले पशुमृगसरीसृपादीनां सर्वप्राणिनामभयं दत्त्वा पुष्पमूलफलोपादानद्रुमच्छेदमधुमांसानृतदानादानादीन्वर्जयेदिति4 ॥ 21 ॥

आह कात्यायनः1

स्वकीयं ग्रामं बन्धुजनं च परित्यज्यान्यग्रामं प्राप्य जपध्यानपरायणो भवेत्2 । याचितायाचिताभ्यां भैक्षाभ्यां वर्तयेत्3 । कामक्रोधरागद्वेषादि वर्जयेत्4 । यावदायुरेवं वर्तयन्ब्रह्म संपद्यते5 । न च पुनर्जायत इति6 ॥ 22 ॥

शौनकः1

अथानवेक्षमाणो वाचं नियम्य प्राचीमुदीचीं वा दिशमभिप्रव्रजेत्2 । शमदमादि येन कुर्यात्3 । श्रवणमनननिदिध्यासनानि कर्तव्यानि4। प्रणवमभ्यसेन्नित्यमिति5 ॥ 23 ॥

इति शौनकीयसंन्यासविधिः समाप्तः ॥ 24 ॥ आह कपिलः1

अनस्तिु मुण्डः शिखी वाहोरात्रमुपोषितः स्नात्वाप एवाप्सु पाणिना जुहोति2 । आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति3 । पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्चाप्युत्थितोऽहं स्वाहेति4। ॐ भूर्भुवः स्वः संन्यस्तं मया5 । इति त्रिरुपांशूक्त्वा त्रिर्मध्यमेन त्रिरुच्चैस्त्रिषत्या हि देवा इति विज्ञायते6 । अभयं सर्वभूतेभ्यो मत्तः स्वाहा7 । इत्यपां पूर्णाञ्जलिं भूमौ निनीय दण्डं दण्डान्वा जलपवित्रं कमण्डलुं शिक्यं पात्रमित्येतानि समादाय पुत्रमित्रशत्रुज्ञातीनसिंनिधानं त्यजेदिति8 ॥ 25 ॥

आह वृद्धवसिष्ठः1

आहितास्तिु प्रातरुत्थाय व्रीहियवाभ्यां वैश्वानरीं पाथीकृतिं तन्तुमतीं वा निर्वपेत्2 । अथाहवनीयं गत्वा स्वर्गाय लोकाय स्वाहेति यज्ञपात्राणि जुहुयात्3 । अयं ते योनिर्ऋत्विय इत्यात्मन्यसिंमारोप्य दक्षिणागिंत्वा अयमपिंुरीष्य इत्युलूखलमुसले जुहुयात्4 । अयं त इत्यसिंमारोप्य गार्हपत्यं गत्वा अयमर्ग्गिृहपतिरित्यरणिं जुहुयात्5 । अयं त इत्यसिंमारोप्य वेदिमध्ये स्थित्वा सहस्रशीर्षा पुरुष इति जपेत्6 । अद्भ्यः संभूत इत्युपस्थाय वेदाहमित्यात्मानमुपस्थाय पितृभ्यः पिण्डदानं कुर्यात्7 । प्राच्यां दिशि पितरः सेन्द्रास्तृप्यन्ताम्8 । त्रातारमिन्द्रमित्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्9 । ओय्यां दिशि साकिाः पितरस्तृप्यन्ताम्10 । अर्मिूर्धेत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्11 । दक्षिणायां दिशि सयमाः पितरस्तृप्यन्ताम्12 । असि यम इत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्13 । नैर्ऋत्यां दिशि सनिर्ऋतयः पितरस्तृप्यन्ताम्14। एष ते निर्ऋत इत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्15 । प्रतीच्यां दिशि सवरुणाः पितरस्तृप्यन्ताम्16 । उरुं हि राजा वरुण इत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्17 । वायव्यां दिशि सवायवः पितरस्तृप्यन्ताम्18 । वायो शतमित्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्19 । उदीच्यां दिशि ससोमाः पितरस्तृप्यन्ताम्20 । सोमो राजा इत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्21 । ऐशान्यां दिशि सेशानाः पितरस्तृप्यन्ताम्22। ईशानमित्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्23। ऊर्ध्वायां दिशि सब्रह्माणः पितरस्तृप्यन्ताम्24। ब्रह्म जज्ञानमित्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्25। अधरायां दिशि ससर्पाः पितरस्तृप्यन्ताम्26। नमोऽस्तु सर्पेभ्य इत्युपस्थाय पितृभ्यः पिण्डदानं कुर्यात्27 ॥ 26 ॥

पिण्डं दत्वा बन्धूननुमोदयतेत्युक्त्वा दर्भाननुशतं गृहीत्वा अत ऊर्ध्वं यज्ञोपवीतमसीत्यादि शौनकीयोक्तं द्रष्टव्यम्॥ 27 ॥

आहितोरेव कपिलो विशेषमाह1

आहिताश्चिेत्प्राजापत्येष्टिं सर्वस्वदक्षिणां विधिवद्दत्त्वा अयं ते योनिर्ऋत्विय इत्यात्मन्यीन्समारोप्य वेदिमध्ये स्थित्वा देवं नारायणं शङ्खचक्रगदाधरं पीतवाससं किरीटकेयूरकुण्डलधरं हारिणं विष्णुं ध्यात्वा गुर्वनुज्ञातः प्रैषमन्त्रमुदाहरेदिति2 ॥ 28 ॥

जामद****यः1

ऋतं चेति द्वादशाहमनुतिष्ठन्हि मानवः ।
वेदार्थान्विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ 29 ॥
केशश्मश्रून्वापयित्वा पुण्ये चैव जलाशये ।
वाचंयमोपवसति रात्रिं जागर्ति पर्वणि ॥ 30 ॥
कृत्वा प्रजापतेरिष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यीन्समारोप्य या ते अे य इत्यृचा ॥ 31 ॥
अहं वृक्षस्येति तिष्ठेदन्तर्वेदि द्विजोत्तमः ।
वेदो ह वै ब्रह्मवृक्षो ब्रह्मभूयाय कल्पते ॥ 32 ॥
सत्यं वदेत्यनुशास्ति पुत्रं वा शिष्यमेव वा ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ 33 ॥
ॐ भूर्भुवः सुवः संन्यस्तं मयेति त्रिरुपांश्वाह त्रिर्मध्यमं त्रिरुच्चैः ।
त्रिषत्या हि देवा इति वदन्ति ब्रह्मवादिनः ॥ 34 ॥
त्रीणि पदेति त्रिदण्डं वैणवं धारयेद्यतिः ।
मानसं वाचिकं चैव कायिकं च विचक्षणः ॥ 35 ॥
अर्दिेवता गायत्री छन्द इति मन्त्रेणालाबुदारुपात्रं
गृह्णीयाद्भिक्षुको द्विजः ।
जलपवित्रं गृह्णीयात्प्राजापत्यमिति ऋचा ।
तेन पूतं पिबेत्तोयं पवित्रोपचितो मुनिः ॥ 36 ॥
सर्वभूतेभ्यः स्वाहेति यो दद्यादभयाञ्जलिम् ।
तस्यैव सर्वभूतेभ्यो न भयं जातु विद्यते ॥ 37 ॥
ग्रामात्प्राचीमुदीचीं वा दिशं गत्वा तु वाग्यतः ।
स्नानं तु विधिवत्कृत्वा प्राणायामान्षडाचरेत् ॥ 38 ॥

अथ यज्ञोपवीतमप्सु जुहोति भूः स्वाहेति1 । त्रिदण्डानादत्ते सखा मे गोपायेति2परिशिष्टे पूर्वयज्ञोपवीतप्रतिपत्तिविधानवाक्यमस्ति3 ॥ 39 ॥

अथापत्संन्यास उच्यते ॥ 40 ॥ तत्र जाबालिः1

यद्यातुरः स्यद्वाचा वा मनसा वापि संन्यसेत्2
एष पन्था ब्रह्मणानामिहानुविहितस्त्विति3 ॥ 41 ॥ [JU 68–69]

आहाङ्गिराः1

आतुराणां विशेषोऽस्ति न विधिर्नैव च क्रिया ।
प्रैषमात्रस्तु संन्यास आतुराणां विधीयते इति ॥ 42 ॥

आह लिखितः1

व्याघ्रादिस्युसर्पाद्यैः संपन्नमरणस्तु यः ।
महता व्याधिना वापि पीडितो यो मुमूर्षति ।
तदैव कुर्यात्संन्यासं विधिनाविधिनापि वा ॥ 43 ॥
संन्यस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।
तारिताः पितरस्तेन स्वयं मुक्तिपथे स्थितः ॥ 44 ॥
मुक्तो यः प्राणसंदेहात्कृतसंन्यसनो द्विजः ।
पुनर्निवर्तते ये च तेन संव्यवहारिणः ।
सर्वे ते कर्मचण्डालास्तेषां दृष्टा न निष्कृतिः ॥ 45 ॥
संन्यस्य चापदं तीर्णः सकाशे तु गुरोरथ ।
लब्ध्वा मन्त्रैस्त्रिदण्डादीन्गृहीत्वा योगमाचरेत् ॥ 46 ॥
तेषां नाशे पुनः प्राप्ते गृहीत्वा मन्त्रवत्स्वयम् ।
समुद्रं गच्छ स्वाहेति नष्टानप्सु विनिक्षिपेत् ।
शिक्षेत यतिधर्मांश्च लिखितस्य वचो यथा इति ॥ 47 ॥

आपन्नानां त्रिधा संन्यास उक्तः विधिनाविधिनापि वेत्युक्तत्वात्1। कथंचित्कर्तुं शक्तो विधिना कुर्यात्2 । अशक्तः संन्यस्तं मयेति वाचा प्रैषमात्रमुच्चारयेत्3 । तत्राप्यशक्तश्चेन्मनसैव सङ्गत्यागं कुर्यात्4 । इत्यापत्संन्यासविधिः5 ॥ 48 ॥

इति यतिधर्मसमुच्चये संन्यासप्रयोगो नाम चतुर्थं पर्व ॥ 49 ॥

Notes