तृतीयं पर्व
लिङ्गनिरूपणम्
अथ लिङ्गं निरूप्यते1 । तच्च द्विविधं बाह्यं शारीरं च2 । तत्र शारीरं यज्ञोपवीतं मुण्डत्वं शिखामात्रधारणं वेति3 । बाह्यं दण्डकमण्डलुप्रभृति4। बाह्यं लिङ्गं मात्रा इत्युच्यते5 ॥ 1 ॥
तत्र शारीरमुच्यते1 । आह वसिष्ठः2 ।
यज्ञोपवीत्युदकमण्डलुहस्त इति3 । [VaDh 10.31]
मुण्डोऽमदोऽक्रोधोऽपरिग्रह इति च4 ॥ 2 ॥ [VaDh 10.6]
आह यमः1 ।
नित्यं स्थण्डिलशायी स्यादनित्यां वसतिं वसेत् ।
अरण्यनित्यो मुण्डः स्यान्मनसा ज्ञानमभ्यसेत् इति ॥ 3 ॥
आह पैठीनसिः1 ।
अप्रतिष्ठो मुनिर्मुण्डो निर्ममो निष्परिग्रहः इति ॥ 4 ॥
आह बोधायनः1 ।
अरण्यं गत्वा शिखी मुण्डो वेति2 ॥ 5 ॥ [BDh 2.11.17–18]
आह क्रतुः1।
स्तुत्वा हंसं त्रिभिः सूक्तैर्मनो वैष्णवपौरुषैः ।
मुण्डः शिखी वा काषायी पात्री दण्डी गृहाद्व्रजेत् ॥ 6 ॥
आह सुमन्तुः1।
मुनिर्मुण्डोऽपरिग्रह इति2 ॥ 7 ॥
आह गौतमः1।
मुण्डः शिखी वेति2 ॥ 8 ॥ [GDh 3.21]
तस्मान्मौण्ड्यं शिखा वेति विकल्पः1 । यज्ञोपवीतं तु सर्वेषां नित्यमेव2 ॥ 9 ॥ **तथात्रिः **पारिव्राज्यमेवाधिकृत्याह1 ।
ब्रह्मसूत्रं त्रिदैवत्यं ब्रह्मविष्णुशिवात्मकम् ।
परित्यजन्ति विप्रा ये मोहात्तर्कोपजीविनः ।
स्वर्गापवर्गमार्गाभ्यां प्रच्युतास्ते न संशयः इति ॥ 10 ॥
आहोशनाः1 ।
ब्रह्मसूत्रपरित्यागाह्मचारी गृही वनी ।
परिव्राट् चापि पतति तस्मात्तन्न परित्यजेत् इति ॥ 11 ॥
अथ बाह्यलिङ्गमुच्यते1 । आह दक्षः2।
मेखलाजिनदण्डाद्यैर्ब्रह्मचारीति लक्ष्यते ।
गृहस्थो यष्टिवेदाद्यैर्नखरोमैर्वनाश्रमी ।
त्रिदण्डेन यतिश्चेति लक्षणानि पृथक्पृथक् ॥ 12 ॥
आह बृहस्पतिः1।
एवं संन्यसनं कृत्वा त्रिदण्डं सपवित्रकम् ।
केशसंमितमादाय पात्रं करकमेव च इति ॥ 13 ॥
आहतुः शङ्खलिखितौ1।
सर्वारम्भानुत्सृज्य त्रिदण्डकुण्डिकापक्ष्मपवित्रप्रयोजनापेक्षी मुण्डः काषायवासा भैक्षवृत्तिरिति2 ॥ 14 ॥
आहाङ्गिराः1।
यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः ।
ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् ॥ 15 ॥
शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् ।
यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः इति ॥ 16 ॥
बृसी कूर्मासनम्1 । आह देवलः2।
काषायमुण्डत्रिदण्डकमण्डलुपात्रपवित्रपादुकासनकन्था मात्रा इति3 ॥ 17 ॥
आह गालवः1।
अथ परिव्राजको लिङ्गी मुण्डः शिखी वा नित्यं यज्ञोपवीती काषायकर्पटः कौपीनाच्छादनार्थं वासो बिभृयान्नोत्तरीयं त्रिदण्डं जलपवित्रं कमण्डलुं कपालं कन्थां चेति2 ॥ 18 ॥
आह लिखितः1 ।
काषायमेव कार्पासं वासः कन्थां च धारयेत् ।
वल्कलं वाजिनं वापि कौशं शणमयं तु वा ॥ 19 ॥
शिक्यं सकवचं पात्रं त्रिविष्टब्धेन संयुतम् ।
बद्धं जलपवित्रेण त्रिदण्डं वर्तुलासनम् ॥ 20 ॥
शिखां यज्ञोपवीतं च शौचार्थमपि कुण्डिकाम् ।
सर्वदा धारयेद्गच्छन्नासीनो वापि वा शुचिः इति ॥ 21 ॥
आह यमः1।
सूची पिप्पलकं चैव त्रिविष्टब्धमुपानहौ ।
कुण्डिका रज्जुशिक्यं च भैक्षभाजनमासनम् ।
कन्थां कर्पटकं दण्डं लघुमात्रापरिग्रहः इति ॥ 22 ॥
आहोशनाः1।
पात्रं तत्कवचं शिक्यं त्रिदण्डं सपवित्रकम् ।
आसनं कटिसूत्रं च कौपीनं कटिवेष्टनम् ।
यज्ञोपवीतं कन्थां च संगृह्यान्यत्परित्यजेत् इति॥ 23 ॥
आह क्रतुः1।
विंशतिं धारयेन्मात्रा दश वा पञ्च नित्यशः ।
कन्था सूच्यजिनं छत्रं पवित्रं कुण्डिकासनम् ॥ 24 ॥
पात्रं शिक्याक्षसूत्राणि मृत्खनित्रमुपानहौ ।
गुह्याच्छादस्त्रिपादी च पादुके दण्डपक्ष्मणी ।
योगपट्टो बहिर्वासो मात्राख्या विंशतिः स्मृताः ॥ 25 ॥
आसां विंशतिमात्राणां पञ्चमात्रा नित्याः1 । ताश्च उपवीतत्रिदण्डपवित्रपात्रकौपीनकटिवस्त्राख्याः2 ॥ 26 ॥ तथा विष्णुः1।
उपवीतं त्रिदण्डं च पात्रं जलपवित्रकम् ।
कौपीनं कटिवस्त्रं च न त्याज्यं यावदायुषम् इति ॥ 27 ॥
पात्रग्रहणादेव तदङ्गभूतशिक्यकवचत्रिविष्टब्धानामपि ग्रहणमेव1 । दशमात्रास्तु याः स्मृत्युक्ताः सूची पिप्पलकं चेत्यादि2 । तत्र सूचीपिप्पलयोरेकीकरणेन दशत्वम्3 । पिप्पलं सूत्रम्4 ॥ 28 ॥
द्विधाकारः परिव्राट्1 । ज्ञानाभ्यासशीलो योगमारुरुक्षुरेकः अपरस्तु आरूढयोगस्तत्त्वदर्शी अव्यक्तलिङ्गोऽव्यक्ताचारोऽनुन्मत्त उन्मत्तवदाचरन्2 ॥ 29 ॥ तथा च क्रतुना द्वैविध्यं दर्शितम्1 ।
पूर्वाह्णे विचरेद्योगी सम्यग्ज्ञानी तु पश्चिमे इति ॥ 30 ॥
तत्र सम्यग्ज्ञानमभिप्रेत्य क्रतुरेवाह1 ।
शीलं वृत्तं श्रुतं ज्ञानं वैराग्यं धर्मलक्षणम् ।
ऐश्वर्यं विद्यते यस्य मात्राभिस्तस्य किं फलम् ॥ 31 ॥
ध्यानं शौचं तपः पूजां प्राणायामजपस्तुतीः ।
संध्यां भिक्षामुपस्थानं कुर्यादामरणान्तिकम् इति ॥ 32 ॥
पञ्च नित्यश इति विधानात् भिक्षाविधानाच्च सम्यग्ज्ञानिनामपि पञ्चमात्राधारणमवश्यं कर्तव्यमेव ॥ 33 ॥
अथैषामुपवीतादीनां लक्षणमुच्यते1 । तत्र तावद्यज्ञोपवीतलक्षणम्2 ॥ 34 ॥ पारिव्राज्यमेवाधिकृत्य **दत्तात्रेयात्री **चाहतुः1 ।
तन्तुत्रयमधोवृत्तं पुनश्चोर्ध्वं त्रिवृत्त्रिवृत् ।
कार्पासं तान्तवं कार्यं तथैकं चोत्तरीयकम् ॥ 35 ॥
अधोवृत्तैस्त्रिभिः सूत्रैस्त्रिभिरूर्ध्वं त्रिवृत्कृतम् ।
ब्रह्मसूत्रं स्मृतं ब्राह्मं कार्पासं नवतान्तवम् ॥ 36 ॥
संग्रहो नवसूत्रस्य द्विजानां मुक्तिसाधनम् ।
विना तेन भवेत्सद्यः सर्वधर्मबहिष्कृतः इति ॥ 37 ॥
दण्डलक्षणमुच्यते1 । **कपिल **आह2 ।
अङ्गुलिपरिमाणमृजुं नासायतं वैणवं दण्डं दण्डान्वा धारयेदात्मसंमितं वा3 ॥ 38 ॥ अथाप्युदाहरन्ति1 ।
अङ्कुरा यत्र दृश्यन्ते शुभाः पत्रविनिः सृताः ।
तत्तु पर्व विजानीयाच्छेषं मध्यमिहोच्यते ॥ 39 ॥
त्रिपञ्चसप्तनवकं पर्व चैकादशं तथा ।
वर्जितो दण्ड इत्याहुर्यतेः सर्वत्र तस्य च ॥
अधस्तात्पर्वणोऽधस्तादूर्ध्वादूर्ध्वाङ्गुलिद्वयम् ॥ 40 ॥
इदं गृहस्थानामप्यविरुद्धम्1 । आह दत्तात्रेयः2।
त्रिदण्डानङ्गुलिस्थूलान्वैणवान्मूर्धसंमितान् ।
सत्वचानव्रणान्सौम्यान्समसंनतपर्वकान् ॥
षडष्टदशपर्वाणो योनिहीनांश्च निर्व्रणान् ॥ 41 ॥
दक्षः1।
केशमात्रान्समग्रन्थींस्त्रिदण्डान्वैणवान्यतिः ॥ 42 ॥
धारयेदिति1 । वृद्धदक्षः2।
त्रिदण्डं धारयेद्विद्वानूर्ध्वस्थोदपवित्रकम् ॥ 43 ॥
हारीतः1।
त्रिदण्डं पञ्चधा कृत्वा त्रिभागादूर्ध्वमेव च ।
वेष्टयेत्कृष्णगोवालरज्ज्वा तु चतुरङ्गुलम् ॥ 44 ॥
ग्रन्थिधारात्रयोपेतं जलपूतेन चोपरि ।
गृह्णीयाद्दक्षिणे हस्ते गुरुदत्तं तु मन्त्रवत् ॥ 45 ॥
जलपूतं जलपवित्रम्1 । वृद्धदक्षः2।
त्रिदण्डाग्रे च मूले च मध्ये सूत्रेण बन्धयेत् ।
अग्राद् द्विभागं हित्वा च तत्रैव चतुरङ्गुलम् ॥ 46 ॥
गोवालदाम्ना बध्नीयादथ वा पञ्चबन्धनम् ।
रज्ज्वैव बन्धनं कुर्यात्पञ्चधा विभजेत्पुनः ॥ 47 ॥
श्रीपाञ्चरात्रे तत्वसागरसंहितायाम्1 ।
त्रिदण्डस्याग्रभागं तु संस्मरेत्परमेष्ठिनम् ।
द्वितीयं पुरुषात्मानं विश्वात्मानं तु मध्यमम् ॥ 48 ॥
तुर्यं निवृत्तिपुरुषं सर्वात्मानं तु पञ्चमम् ।
त्रिदण्डं समुदायेन विष्णुरूपं स्मरेद्यतिः ॥ 49 ॥
हारीतः1 ।
विष्णुरूपं त्रिदण्डाख्यं सर्वदा धारेद्यतिः ॥ 50 ॥
शौनकः1।
ज्ञानदण्डो भवेद्ध्रस्व आत्मदण्डस्तु मध्यमः ।
विष्णुदण्डस्तु दीर्घः स्यात्त्रिदण्डं धारयेद्यतिः ॥ 51 ॥
प्रचेताः1 ।
ब्रह्मसूत्रं त्रिदण्डं च शिखावद्बिभृयात्स्वयम् ।
वाहयेदितरेणाथ प्रायश्चित्ती भवेद्यतिः ॥ 52 ॥
पौरुषेणैव सूक्तेन त्रिदण्डं चाभिषेचयेत् ।
सप्तभिर्वैष्णवीऋग्भिः प्राणायामशतं चरेत् ॥ 53 ॥
स्नाने चावश्यके चैव भोजने जपकर्मणि ।
स्वाध्याये चापि निद्रायामुप दण्डेन बन्धयेत् ॥ 54 ॥
त्रिदण्डधारणं चैकं वैणवं च तथा यतिः ।
कौपीनकटिवस्त्रादिधारणार्थं सदा वहेत् ॥ 55 ॥
कुर्यान्मूत्रपुरीषे चेत्त्रिदण्डसहितो यतिः ।
शुद्ध्यर्थं सह दण्डेन चरेदाचमनक्रियाम् ॥ 56 ॥
आह वृद्धजाबालिः1।
अपां पूर्णाञ्जलिं निनीय दण्डं दण्डान्वा गृहीत्वेत्यादि2 ॥ 57 ॥
आह बोधायनः1।
न चात ऊर्ध्वं शुक्लमम्बरं बिभृयात्2 । एकदण्डी त्रिदण्डी वेति3 ॥ 58 ॥ [BDh 2.17.44—18.1]
आह याज्ञवल्क्यः1।
एको वा तादृशो दण्डो गोवालरहितो भवेत् इति ॥ 59 ॥
तस्माद्दण्डविकल्पः1 । यत्नगौरवाद्भूयसीषु दृष्टत्वाच्च ऐकदण्ड्यात्त्रैदण्ड्यमेव शस्तम्2 ॥ 60 ॥ तथाह भगवान्व्यासः1।
त्रिदण्डधारणं शस्तं तथैकान्तनिषेवणम् ।
लघ्वाहारमनायासो यतीनां मुक्तिसाधनम् इति ॥ 61 ॥
दण्डमात्राभेदादितरमात्राः संध्यावन्दनादयश्च धर्मा न भिद्यन्ते1 । क्वचित्त्रिदण्डनाशे त्वेकदण्डो विधीयते2 ॥ 62 ॥ अत्रिजाबालावाहतुः1 ।
नष्टे जलपवित्रे वा त्रिदण्डे वा प्रमादतः ।
गृह्णीयाद्वैणवं चैकं पालाशं वापि मध्यमम् ॥ 63 ॥
ब्रह्मपत्रमभावेऽपि कुशस्तम्भमथापि वा ।
गृहीत्वा विचरेत्तावद्यावदन्यं न लभ्यते इति ॥ 64 ॥
आह हारीतः1।
नष्टे जलपवित्रे वा त्रिदण्डे वा प्रमादतः ।
एकं तु वैणवं दण्डं पालाशं मध्यमं तु वा ।
गृहीत्वा विचरेत्तावद्यावल्लब्धं त्रिदण्डकम् ॥ 65 ॥
यत्नेनान्वेषयेन्नित्यमप्रमत्तः समाहितः ।
लब्धे त्रिदण्डे गृह्णीयाज्जलपूतमथोपरि इति ॥ 66 ॥
आह मेधातिथिः1।
यावन्न स्युस्त्रयो दण्डास्तावदेकेन पर्यटेत् ।
तत्रापि वस्त्रमासज्य त्वग्रदेशेऽम्बुशुद्धये इति ॥ 67 ॥
जमदग्निः1।
त्रिदण्डे न तु बध्नीयात्कौपीनं कटिवेष्टनम् ।
यो मोहाद्बन्धनं कुर्यात्त्रिदण्डमवमन्यते ॥ 68 ॥
त्रिदण्डमन्यदण्डेन संगतं चेत्प्रमादतः ।
प्रक्षाल्य मृज्जलैर्भिक्षुः प्राणायामत्रयं चरेत् ॥ 69 ॥
कलौ युगे कुण्डिका न धार्या1 । तथा च देवलः2 ।
द्वापरादियुगे चैव पात्रभोजी यतिर्भवेत् ।
कलौ स्वपात्रे नैवाद्याद्धारयेन्न तु कुण्डिकाम् ॥ 70 ॥
जलपवित्रलक्षणं मेधातिथिराह1।
विकेशं सितमस्पृष्टमुभयं द्वादशाङ्गुलम् ।
अस्पृष्टमनुपयुक्तमित्यर्थः2 ।
द्विगुणं त्रिगुणं वापि सर्वतोऽष्टाङ्गुलं तथा ॥ 71 ॥
प्रादेशमात्रं वा सूक्ष्मं कार्पासकृतमव्रणम् ।
चण्डालाद्यकृतं चैव विद्याज्जलपवित्रकम् ॥ 72 ॥
आहाङ्गिराः1।
यतीनां त्रीणि शुक्लानि भवन्त्येतानि नित्यशः ।
यज्ञोपवीतं दन्ताश्च तथा जन्तुनिवारणम् इति ॥ 73 ॥
पात्राण्याहात्रिः1।
मृद्दार्वलाबुनिर्वृत्तं वैणवं तान्तवौपलम् ।
तार्णं पात्रं तथा क्षौमं पात्रं पर्णपुटं तथा ॥ 74 ॥
एतेषामेकमादेयमात्मशक्त्यनुरूपतः ।
लोभात्पात्रान्तरं गृह्णन्प्राणायामान्दशाचरेत् ॥ 75 ॥
आह क्रतुः1।
वेणुदारुशिलालाबुतृणपर्णमयानि च ।
मृन्मयं क्षौमपात्राणि गृह्णीयादात्मशक्तितः इति ॥ 76 ॥
मनुः1 |
अलाबुदारुपात्राणि मृन्मयं वैणवं तु वा ।
एतानि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् इति ॥ 77 ॥
[MDh 6.54]
शिक्यलक्षणं हारीत आह1।
क्षौमं वा कुशसूत्रं वा सूत्रं कार्पासकं तु वा ।
तैरेव ग्रथितं शिक्यं पद्माकारसमन्वितम् ।
षड्भिर्वा पञ्चभिर्वापि मुष्टिभिः शिक्यलक्षणम् इति ॥ 78 ॥
आसनलक्षणं स एवाह1 ।
आसनं वर्तुलं प्रोक्तं सहस्तं दारुजं यतेः ।
शौचार्थमासनार्थं च निर्मितं मुनिभिः पुरा इति ॥ 79 ॥
खनित्रलक्षणं कपिल आह1 ।
चतुरङ्गुलमात्रमृत्तिकाखननपरिग्रहे न दोष इति2 ॥ 80 ॥
इति यतिधर्मसमुच्चये लिङ्गनिरूपणं नाम तृतीयं पर्व ॥ 81 ॥