द्वितीयं पर्व
पारिव्राज्याधिकारिदशानिरूपणम्
अथाधिकारिदशा चिन्त्यते ॥ 1 ॥
वनवासाद् ऊर्ध्वम् एव पारिव्राज्यम्
न ब्रह्मचर्याद्
इत्य् एकः पक्षः ॥ 2 ॥ तथा च श्रुतिः1 ।
आचार्याय प्रियं धनम् आहृत्य
प्रजातन्तुं मा व्यवच्छेत्सीर्
इति2॥ 3 ॥ [TU 1.11.1]
तथा1 ।
जायमानो वै ब्राह्मण इति च2 । [TS 6.3.10.5]
प्रजननं वै प्रतिष्ठा साधु प्रजायास्तन्तुं तन्वानः पितॄणाम् अनृणो भवति
इति च3 ॥ 4 ॥ [MNU 525]
तथा च मनुः1 ।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः इति ॥ 5 ॥ [MDh 6.35]
आह याज्ञवल्क्यः1 ।
अधीतवेदो जपकृत्पुत्रवानन्नदोऽमिान् ।
शक्तया च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा इति ॥ 6 ॥
[YDh 3.57]
आहतुः शङ्खलिखितौ1 ।
वनवासादूर्ध्वं परिणतवयसः कामतः पारिव्राज्यमिति2 ॥ 7 ॥
आह मेधातिथिः1 ।
पुत्रदारगृहक्षेत्रगोहिरण्यादिबन्धनैः ।
विरक्तो मानुषैर्भोगैर्दिव्यैश्च श्रुतिदर्शितैः ॥ 8 ॥
वेदाभ्यासेन यज्ञेन तपसा वीतकल्मषः ।
जन्मजन्मान्तराभ्यासाद्विशुद्धात्मा जितेन्द्रियः ॥ 9 ॥
इतिहासपुराणाभ्यां श्रुत्या च प्रतिबोधितः ।
यतते परमं स्थानं यतनात्स यतिर्भवेत् ।
तस्येयं परमा सिद्धिर्यतेर्नान्यस्य कस्यचित् इति ॥ 10 ॥
केचित्तु ब्रह्मचर्याद् गृहाद्वनाद्वा यथाकामं पारिव्राज्यमित्याहुः ॥ 11 ॥ तथा च जाबालिश्रुतिः1 ।
ब्रह्मचर्यं समाप्य गृही भवेत्2 । गृही भूत्वा वनी भवेत्3 । वनी भूत्वा प्रव्रजेत्4। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वनाद्वेति5॥ 12 ॥ [JU 64]
आह यमः1 ।
चीर्णवेदव्रतो विद्वान्ब्राह्मणो मोक्षमाश्रयेत् ।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ 13 ॥
जातपुत्रो गृहस्थो वा विजितात्मा जितेन्द्रियः ।
निः स्पृहः सर्वकामेभ्यः कृतकृत्यः परिव्रजेत् ।
वनस्थो वा तप्ततपाः परं पन्थानमाश्रयेत् इति ॥ 14 ॥
अत्र यदि ब्रह्मचारी प्रव्रजेत् चीर्णव्रत एव प्रव्रजेत्1 । यदि गृहस्थो जातपुत्र एव इष्टयज्ञश्च तानीन्हृदि संहृत्येति पूर्वमुक्तत्वात्2 । वानप्रस्थश्चेत्तप्ततपा एव प्रव्रजेत्3 । इति गम्यते4 । एतदुत्तरत्रापि योज्यम्5 । एतद्विषयमेव मानवमपि वचनमृणानि त्रीण्यपाकृत्येत्यादि6 ॥ 15 ॥ केचिदाहुः1
ब्रह्मचारी गृहस्थो वा मृतदारो वनेचरः ।
ज्ञात्वा सम्यक्परं ब्रह्म त्यक्त्वा सङ्गान्परिव्रजेत् इति ॥ 16 ॥
अत्र गृहस्थस्य मृतदारस्य पुत्रोत्पत्त्यादेः प्रागपि सति वैराग्ये पारिव्राज्यं गम्यते ॥ 17 ॥ आह बृहस्पतिः1 ।
असारमेव संसारं दृा सारदिदृक्षया ।
प्रव्रजेदकृतोद्वाहः परं वैराग्यमास्थितः ॥ 18 ॥
अन्योऽप्युत्पन्नसन्तान इा च विविधैर्मखैः ।
पतितार्धशरीरो वा वनादन्यः परिव्रजेत् इति ॥ 19 ॥
अर्धशरीरं भार्या
पतत्यर्धं शरीरस्य भार्या यस्य सुरां पिबेत् । [VaDh 21.15]
इति दर्शनात्
अर्धो वा एष आत्मनो यत्पत्नी । [TS 6.1.8.5]
इति श्रुतेश्च ॥ 20 ॥ आह शङ्खः1 ।
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ।
नानोपनिषदां ज्ञानात्प्राप्तवैराग्यपाटवः ॥ 21 ॥
समाहृतेन्द्रियग्रामो विषयेभ्यः सुदूरतः ।
आत्मैकरामो मनसा निरस्य परिपन्थिनः ॥ 22 ॥
योगाभ्यासेन बहुशो लब्धात्मा दृढबन्धनः ।
सर्वसङ्गनिवृत्तात्मा ब्रह्मचार्यपि सुव्रतः ॥ 23 ॥
एतैर्गुणैरुपेतश्चेद् गृहस्थो वा प्रजापतेः ।
कृत्वेष्टिं विधिवद्दत्त्वा सर्ववेदसदक्षिणाम् ।
आत्मन्यीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् इति ॥ 24 ॥
एवं काश्चित् श्रुतयः स्मृतयश्च ब्रह्मचर्यादेव पारिव्राज्यं विदधति काश्चित्तु ऋणापकरणादेरूर्ध्वमेवेति1 । एवं विरोधे सति केचिदाहुः2 । अन्धपंग्वादीन्कर्मस्वनधिकृतानधिकृत्य ब्रह्मचर्यादुत्थानश्रुतयः स्मृतयश्च3 ॥ 25 ॥ तथा चाह लिखितः1 ।
जन्मकोटिशतारब्धपुण्याप्तं देवकारितम् ।
वैराग्यं जायते यस्य तृष्णापि ब्रह्मणि स्थिरा ॥ 26 ॥
सोऽधीतवेदतत्त्वार्थो गृहवासमशक्नुवन् ।
प्रव्रजेह्मचर्याच्च गृहाज्जीर्णो वनादपि ॥ 27 ॥
नीरुजश्च युवा चैव वसेद्गार्हस्थ्यमादृतः ।
अन्धः पङ्गुस्तथा कुष्ठी वृद्धो मौनं समाश्रयेत् इति ॥ 28 ॥
अन्ये त्वाहुः1 | उभयीषु श्रुतिस्मृतिषु विपरीतः किं न भवेत्2 । अविरक्तः पारिव्राज्यं कर्तुमशक्नुवन्किं न गृही भवेत्3 । न ह्यविरक्तः पारिव्राज्यं कर्तुं शक्नोतीति4 ॥ 29 ॥ तथा च दक्षः1 ।
सत्त्वोत्कटाः सर्वे तेऽपि विषयैस्तु वशीकृताः ।
किं पुनः क्षुद्रसत्त्वैस्तु मानवैरत्र का कथा ॥ 30 ॥
तस्मात्पक्वकषायेण कर्तव्यं दण्डधारणम् ।
इतरस्तु न शक्नोति विषयैर्ह्रियते यतः ॥ 31 ॥
त्रिदण्डं लिङ्गमाश्रित्य जीवन्ति बहवो द्विजाः ।
यो हि ब्रह्म न जानाति त्रिदण्डार्हो न स स्मृतः इति ॥ 32 ॥
आह लिखितः1 ।
यः कृत्वा सर्वसंन्यासं प्रत्यापत्तिं भजेद् द्विजः ।
तं दास्ये योजयेद्राजा श्वपदेनाङ्कयेत्तथा ॥ 33 ॥
तस्मादाशयशुद्धिं प्राग्बहुकालं परीक्ष्य च ।
मनो न चलते धर्मादिति ज्ञात्वाथ संन्यसेत् इति ॥ 34 ॥
आह यमः1 ।
निवृत्तः कामरागादेः प्रशान्तो ब्रह्मतत्परः ।
स संन्यासेऽधिकारी स्यादितरो जीविकापरः इति ॥ 35 ॥
न चानधिकृतविषया ह्युत्थानश्रुतिरिति युक्तं तेषामुत्तरत्र पृथगेव विधानात्1 ।
अथ पुनर्व्रती वाव्रती वा स्नातको वास्नातको वा सारिनकिो वेत्यादिना2 ॥ 36 ॥ [JU 64]
आह वृद्धजाबालिः1 ।
व्रतिको वाव्रतिको वा स्नातको वास्नातको वा आवसथ्यनावसथी वा अहिोत्र्यनहिोत्री वा ग्रामादमिाहृत्येत्यादि2॥ 37 ॥
यत्पुनरुक्तम्
अन्धः पङ्गुस्तथा कुष्ठी वृद्धो मौनं समाश्रयेत् ।
इति तदप्यविरुद्धम् अन्धादिशब्दानामन्यथा व्याख्यातत्वात् ॥ 38 ॥ तथा हि मेधातिथिः1 ।
अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृा निर्विकारः स षण्ढकः ॥ 39 ॥
भिक्षार्थं गमनं यस्य विण्मूत्रकरणाय च ।
योजनान्न परं याति यः सदा पङ्गुरेव सः ॥ 40 ॥
तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् ।
चतुर्युगाद्भयं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ 41 ॥
हिताहितं मनोरामं वचः शोकावहं च यत् ।
श्रुत्वा यो न शृणोतीव बधिरः परिकीर्तितः इति ॥ 42 ॥
न चान्धस्य पारिव्राज्येऽधिकारः
दृष्टिपूतं न्यसेत्पादम् । [MDh 6.46]
इति धर्मविधानात् ॥ 43 ॥ नापि पङ्गोः कुष्ठिनो वा1
पर्यटन्पुण्यतीर्थानि देवतायतनानि च ।
अध्वास्य सूर्यनिर्दिष्टः कीटवच्च महीं चरेत् ॥
इत्यादिधर्मविधानात्2 ॥ 44 ॥ ब्रह्मचर्यविधानान्न षण्ढस्य पारिव्राज्यम्1 । ब्रह्मचर्यं हि मैथुनवर्जनम्2 । न हि षण्ढस्य मैथुनवर्जनमस्ति तस्य स्थाणुकल्पस्य मैथुने प्राप्त्यभावात्3 । प्राप्तस्य हि वर्जनं व्रतम्4 ॥ 45 ॥ तस्मादृणश्रुतिरविरक्तविषया1 । विरक्तस्य तु पारिव्राज्यमेव2 ॥ 46 ॥ तथा च बृहस्पतिः1 ।
प्रव्रजेदकृतोद्वाहः परं वैराग्यमाश्रितः इति ॥ 47 ॥
आह क्रतुः1 ।
ब्रह्मचारी गृहस्थो वा मृतदारो वनेचरः ।
ज्ञात्वा सम्यक्परं ब्रह्म त्यक्त्वा सङ्गान्परिव्रजेत् इति ॥ 48 ॥
आह शङ्खः1 ।
सर्वसङ्गनिवृत्तात्मा ब्रह्मचार्यपि सुव्रतः ।
एतैर्गुणैरुपेतश्चेद् गृहस्थो वा प्रजापतेः ॥ 49 ॥
कृत्वेष्टिं विधिवद्दत्त्वा सर्ववेदसदक्षिणाम् ।
आत्मन्यीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् इति ॥ 50 ॥
आह दत्तात्रेयः1 ।
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ।
गृहवासविरक्तानां पुरा प्रोक्तं स्वयंभुवा इति ॥ 51 ॥
उपकुर्वाणस्य ब्रह्मचारिणश्चतुर्ष्वाश्रमेषु इच्छाविकल्प इत्याचार्याः ॥ 52 ॥ तथा च वसिष्ठः1 ।
चत्वार आश्रमाः ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः2 । तेषां वेदमधीत्य वेदौ वा वेदान्वाचीर्णब्रह्मचर्यो यमिच्छेत्तमावसेदिति3 ॥ 53 ॥ [VaDh 7.1–3]
आह चापस्तम्बः1 ।
बुद्ध्वा कर्माणि यत्कामयेत तदारभेतेति2 ॥ 54 ॥ [ApDh 2.21.5]
आह भगवान्व्यासः1 ।
गुरुशुश्रूषया विद्यां संप्राप्य विधिवद् द्विजः ।
स्नायीत गुर्वनुज्ञातो दत्त्वास्मै दक्षिणां हि गाम् ॥ 55 ॥
नैष्ठिकं वा मुनेर्वापि पारिव्राज्यकमेव वा ।
यमिच्छेदाश्रमं विप्रो वसेत्तत्रैव संयतः इति ॥ 56 ॥
आह गौतमः1 ।
तस्याश्रमविकल्पमेके ब्रुवत इति2 ॥ 57 ॥ [GDh 3.1]
यदुक्तम् ऋणानि त्रीण्यपाकृत्येति तदपि श्रुतिस्मृतिभ्यां विरक्तस्य ब्रह्मचर्यादेव पारिव्राज्यं विदधतीभ्यां व्यवस्थाप्यमानं रागवति पुरुष एवावतिष्ठते प्राप्तर्णापकरणार्थं वा ॥ 58 ॥
तस्माद्विरक्तस्य ब्रह्मचर्याद् गृहाद्वनाद्वा पारिव्राज्यं सिद्धम् ॥ 59 ॥ तथा च बृहस्पतिः1 ।
परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥ 60 ॥
आतुरस्यापि पारिव्राज्यमङ्गिरसोक्तम्1 ।
वनवासात्परिश्रान्तः प्रव्रजेद्विधिपूर्वकम् ।
व्याध्याविष्टो विरक्तो वा ब्रह्मवित्संन्यसेद् द्विजः ॥ 61 ॥
प्रव्रजेह्मचर्याच्च प्रव्रजेच्च गृहादपि ।
वनाद्वा प्रव्रजेद्विद्वानातुरो वाथ दुः खितः ॥ 62 ॥
उत्पन्ने संकटे घोरे चोरव्याघ्रादिगोचरे ।
भयभीतस्य संन्यासमङ्गिरा मुनिरब्रवीत् ॥ 63 ॥
तथा च शातातपः1 ।
संन्यस्तमिति यो ब्रूयात्प्राणैः कण्ठगतैरपि ।
स तु क्रतुसहस्रेण तुल्यं फलमवाप्नुयात् ॥ 64 ॥
आह दत्तात्रेयः1 ।
मुखजानामयं धर्मो विष्णोर्यल्लिङ्गधारणम् ।
बाहुजातोरुजातानामयं धर्मो न विद्यते ॥ 65 ॥
इति यतिधर्मसमुच्चये पारिव्राज्याधिकारिदशानिरूपणं नाम द्वितीयं पर्व ॥ 66 ॥