यादवप्रकाशविरचितः
यतिधर्मसमुच्चयः
प्रथमं पर्व
पारिव्राज्यविधिः
ॐकारो वाचको यस्य
योग-काले श्रुतो हरेः ।
तं श्रुति-श्रेणि-निःश्रेणि-
श्रयणीयं श्रयामहे ॥1१॥
श्रीमाञ् जयति लोकानां
नायको गरुड-ध्वजः ।
पाषण्डेभ्यस् त्रयी त्राता
येन प्राग्-यति-लिङ्गिना ॥2२॥
संन्यासविषयाः सर्वाः
समाहृत्य श्रुतिस्मृतीः ।
क्रियते यादवेनायं
यतिधर्मसमुच्चयः ॥3३॥
विधिः कर्तृदशा लिङ्गं
प्रयोगो मुख्यकर्म च ।
अहोरात्र-क्रियाचारो
लिङ्गधर्मा गतिस्थितिः ॥4४॥
प्रायश्चित्तानि संस्कार
इत्येकादशपर्वकः ।
यतिधर्मः क्रमादत्र
धर्मशास्त्रेभ्य उद्धृतः ॥5५॥
वक्तारो धर्मशास्त्राणां
**मनुर्विष्णुर्यमोऽङ्गिराः **।
वसिष्ठदक्षसंवर्त-
शातातपपराशराः ॥6६॥
कात्यायनोशनो-व्यासा
आपस्तम्बो बृहस्पतिः ।
हारीत-शङ्खलिखित-
याज्ञवल्क्यात्रि-गौतमाः॥7७॥
बोधायनो वृद्धदक्षः
काश्यपः कपिलः क्रतुः ।
शाण्डिल्यो वृद्धजाबालो
दत्तात्रेयश्च देवलः॥8८॥
गार्ग्यो वृद्धवसिष्ठश्च
विश्वामित्रश्च गालवः ।
मेधातिथिर् भरद्वाजो
जमदग्निश्च शौनकः।
पैठीनसिः सत्यकामो
वायुश् चेत्य् एवमादयः ॥9९॥
एषां शास्त्रेषु संन्यास-
प्रदेशेष्व् एव संचितः ।
धर्मोऽयं नान्य-देशेषु
नेतिहासपुराणयोः ॥10१०॥
तत्र संन्यासविधिरस्ति वा न वेति निरूप्यते ॥11११॥ तत्र केचिदाहुः1 । श्रुतावदृष्टत्वात् श्रुतिविरोधे स्मृतीनामप्रामाण्यात् नास्त्येवेति2 ॥12१२॥ तथा च गौतमः1 ।
ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येति2 13॥१३॥ [GDh 3.36]
आह बोधायनः1 ।
तस्य ह वा एतस्य चतुर्धा विभेदमेक आहुः2 । अदृष्टार्थमेव चत्वार इति कर्मवाद ऐष्टिकसौमिकपाशुकदार्विकहौमिकानाम्3 । तदेषा भवन्ति4 । ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति5 । ब्रह्मचारी गुरुशुश्रूषुरामरणात्6 । वानप्रस्थो वैखानसशास्त्रसमुदाचारेण वने मूलफलाशी तपः शीलः श्रामणकेनाग्निं समाधाय सवनेषूदकमुपस्पृशेत्7 । अग्राम्यभोजी भैक्षमप्युपयुञ्जीत8 । ग्रामं च न प्रविशेत्9 । जटिलश्चीराजिनवासा नातिसंवत्सरं भुञ्जीत10 । परिव्राजकः परित्यज्य बन्धूनपरिग्रहः परिव्रजेत्11 । अरण्यं गत्वा मुण्डः शिखी वा कौपीनाच्छादनो वर्षास्वेकत्रस्थः12 । काषायवासाः सन्नमुसले व्यङ्गारे भुक्तजने निवृत्ते शरावसंपाते भिक्षेत13 । वाङ्मनःकायदण्डैर्भूतानामद्रोही14 । पवित्रभृच्छौचार्थमुद्धृताभिरद्भिः कार्यं कुर्यात्15 । अपविध्य दैविकाग्निकर्माण्युभयतः परिच्छिन्ना मध्यमं संश्लिष्यामह इति ब्रुवन्तः16 । ऐकाश्रम्यं त्वाचार्या अप्रजननत्वादितरेषाम्17 । तत्रोदाहरन्ति18 ।
प्राह्लादिर्वै कापिलो नामासुरिरास19 । स एतान्भेदांश्चकार देवैः स्पर्धमानः20 । तस्मान्मनीषी नाद्रियेतेति21 ।
दृष्टार्थत्वात्22 । तदेषाप्यनूद्यते23 ।
एष नित्यो महिमेति24 । [TB 3.12.9.7–8]
स ब्रूयात्25 ।
येन सूर्यस्तपति . . . सांपराय इति26 । [TB 3.12.9.7]
इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञय इति27॥ [RV 10.71.9]
प्रजाभिरग्ने अमृतत्वमश्याम्28 । [RV 5.4.10]
जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते । ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति29 ।[TS 6.3.10.5]
एवमृणसंयोगवादीन्यसंख्यातानि भवन्ति निषेधाश्च30 ॥14१४॥
[BDh 2.11.9–33]
आपस्तम्बः1 ।
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम्2 । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति3॥15१५॥ [ApDh 2.24.8]
तस्मात् श्रुतावदृष्टत्वात्प्रत्यक्षश्रुतिविरोधे स्मृतीनामप्रामाण्यान्न सन्त्यूर्ध्वरेतस आश्रमा इति ॥16१६॥
अथ स्यात्1 । अस्ति श्रुतिर्वाजसनेयिनां प्रत्यक्षा2 ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति3 । [BaU 4.4.22]
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरिति च4 ॥17१७ ॥ [BaU 3.5.1]
आचारं च दर्शयति1 ।
एतद्ध स्म वै पूर्वे विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति2 । [BaU 4.4.22]
अग्निहोत्रं न जुहुवाञ्चक्रिर इति च3 ॥18१८॥
अत्रोच्यते1 । किं पारिव्राज्यं पुरुषार्थं विधीयते उत पाणिग्रहणादिवदनुष्ठानान्तरार्थम्2 । पुरुषार्थत्वे तु स स्वर्गः स्यादिति [PMS 4.3.7.15] न्यायेन स्वर्गार्थं वा स्यादन्यार्थं वा3 । न तावत्स्वर्गार्थमपवर्गप्रकरणविरोधात्4 । तथा हि सर्वत्रापवर्गप्रकरण एव पारिव्राज्यं विधीयते5 । तेनापवर्गप्रकरण एव कथंचित्संबन्धो वाच्यः6 । सोऽपि वा न शक्यते वक्तुं ज्ञानादेवापवर्गश्रुतेः7।
तमेवं विदित्वाति मृत्युमेति । नान्यः पन्था विद्यतेऽयनायेति8 ॥
[VS 31.18]
विद्ययैव तदारोहति यत्र कामाः पराहताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन इति9 19॥१९॥
[SB 10.5.4.16]
अथ ज्ञानानुष्ठानाङ्गत्वेन विधीयत इति मतम्1 । नैतत्2 । ज्ञानानुष्ठानं गृहस्थानामपि संभवतीति न तदर्थमाश्रमान्तरविधिः कल्प्यः3 । कल्प्यमानोऽपि नाश्रमान्तरं प्रापयेत्4 । किंत्वाहिताग्निव्रतवद् गृहस्थानामेव किंचित्पारिव्राज्यं नाम व्रतं विदध्यात्5 । तच्च प्रवृत्तगार्हस्थ्याविरोधी कश्चित्सङ्गत्यागात्मको धर्म इति गम्यते6 । स्मृतिषु दृष्टानां धर्माणां श्रुतिविरोधान्न संग्रहः7 । न च पारिव्राज्यशब्द एवाश्रमान्तरवचनोऽन्यत्र प्रसिद्धः अश्रौतत्वप्रसङ्गात्8 । तथा च स्मृतिप्रसिद्धं पारिव्राज्यमियं श्रुतिर्विद्यास्तुतयेऽनुवदतीति स्यादित्थं महीयसी विद्या यद्बलाद्विहितान्यपि कर्माणि परित्यजन्तो न प्रत्यवयन्तीति9 20॥२०॥
तस्मादग्निहोत्रादिवदसाधारणस्य गृहस्थेष्वसंभवतः श्रौतस्याश्रमधर्मस्याभावात् भिक्षाटनादीनां च संध्यावन्दनादिवदाचारत्वेनाश्रमधर्मार्थत्वात् स्वयमाश्रमधर्मत्वानुपपत्तेः न पारिव्राज्यं नामाश्रमोऽस्तीति केचिदाचार्या मन्यन्ते 21॥२१॥
अत्रोच्यते1 । अस्त्यसाधारणो धर्मो ज्ञानयोगो नाम2 । तथा हि सत्यादीनि मानसान्तानि कर्माण्युपन्यस्य
तस्मान्यासमेषां तपसामतिरिक्तमाहुः । [MNU 538]
इति श्रुत्या संन्यासं विधाय
आत्मानं युञ्जीत । [MNU 540]
इति न्यासशब्दवाच्यं ज्ञानयोगं विधत्ते3 । ज्ञानयोगो नाम केवलस्य ज्ञानमात्रस्यानुष्ठानम्4 । न ह्यसौ गृहस्थानां संभवति अग्निहोत्रादेरप्यनुष्ठेयत्वात्5 । अतस्तेषां कर्मयोग एव6 । कर्मयोगो नाम ज्ञानकर्मसमुच्चयानुष्ठानम् ततो मोक्षः7 । परिव्राजकानां तु ज्ञानयोगादेव मोक्षः8 । अत एषां कर्माभावात्कर्मसंपादनं परेण दर्शयति9 ।
तस्यैवं विदुषो यज्ञस्यात्मा । [MNU 543]
इत्यनुवाकेन इयमप्यहन्यहन्यनुष्ठेयैव परिव्राजकस्य विधीयते10 । न स्तुतिमात्रमपूर्वत्वात्11 22॥२२॥
ननु परिव्राजकानामपि संध्यावन्दनादिकर्माणि सन्ति1 । सत्यम्2 । तेषां समाचारत्वात् आश्रमधर्मार्थत्वमेव न मोक्षार्थत्वम्3 । मोक्षार्थं तु ज्ञानयोग एव4 । तदर्थानि संध्यावन्दनादीनि5 । न हि संध्याहीनस्य तत्राधिकारः
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
इति स्मरणात्6 ।
आचारहीनं न पुनन्ति वेदाः ।
इति च7 । जपतपोभिक्षाटनादीनामपि यमनियमेष्वन्तर्भावो वर्ण्यते8 । यमनियमादीनां च योगाङ्गत्वं सर्वशास्त्रसिद्धम्9 । अतस्तेषामपि ज्ञानयोग एवान्तर्भावः10 23॥२३॥
तस्मात्परिव्राजकानां ज्ञानयोगो गृहस्थानां कर्मयोग इति स्थितम्1 ।
तथा च
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । [MNU 227]
इति कर्मत्यागेनैवामृतत्वं श्रूयते2 ।
वेदान्तविज्ञानसुनिश्चितार्थाः
संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले
परामृतात्परिमुच्यन्ति सर्वे ॥ [MNU 229–30]
इति च3 ।
तथा च भगवान्वासुदेवः4 ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति5 24॥२४॥
[BhG 3.3]
तदेवमसाधारणस्य धर्मस्य भावात् अस्ति पारिव्राज्यं नाम श्रौत आश्रमः1 । तन्मूलत्वाच्च स्मृतीनां प्रामाण्यम्2 । न चैष धर्मो गृहस्थानां संभवति भिक्षाचर्यं चरन्तीति सर्वत्र द्रव्यत्यागश्रवणात्3 । तस्मादाश्रमान्तरमेव पारिव्राज्यमिति सिद्धम्4 25॥२५॥
इति यादवप्रकाशेन विरचिते यतिधर्मसमुच्चये पारिव्राज्यविधिर्नाम प्रथमं पर्व 26॥२६॥
Notes
-
१. om Y* ; a)—अकारो R4 B M; c)—श्रुतीनां for तं श्रुति° A5; d)—श्रियामहे A1; समाश्रये R4 M+ ↩︎
-
२. d)—दृश्यते येन लिङ्गिना R4 M+ ↩︎
-
३. c–d)—om B; c)—ज्ञायते R4 M+ ↩︎
-
४. d)—धर्मो A1 2 R 1 2 4 B M; ॰स्थिती A4 B ↩︎
-
५. a)—संस्कारा R4; b)—॰पर्वका: R4 M+; c)—॰धर्मा: M+; d)—सर्वशा° A1 2 R1 M+; उद्धृताः M+ ↩︎
-
६. om Y*; c)—॰संवर्तः A1 ॰संवर्ताः A2 R3; d)—॰शरौ A2 ↩︎
-
७. * om Y; b)—॰म्बबृहस्पती A1 2 R1; c)—हारीतः A5 R2 3 B M; ॰लिखिता R4; ॰लिखितौ B M ↩︎
-
८. om Y*; c)—शाण्डिल्य॰ R3 M+; ॰जाबालौ M+; ॰जाबाल्यौ R3; ॰जाबालिर्दत्ता॰ R4 ↩︎
-
९. om Y* ↩︎
-
१०. om Y*; a)—येषां A1 5; सर्वेषां for संन्यास° A6; b)—संचिताः A5; सन्ति नः B; सन्तितः M ↩︎
-
११. वा om Y* A1 R1 4; विचार्यते R2 3 B M ↩︎
-
१२. 1)—तत्र om Y* A1 2 R1; अत्र R2 3 4 B M; 2)—यावज्जीवश्रुति॰ Y* A5 M+; स्मृतीनां प्रामाण्यं M+; नास्त्येव B M ↩︎
-
१३. १)—च om A5; 2)—ऐका॰. . .॰चार्याः om A5; एके for ऐकाश्रम्यं A1 2 R1 2 3; ॰श्रम्यत्वादाचार्याः G1; एकाश्रम्य एव इत्याचार्याः R4; गार्हस्त्य इति B M ↩︎
-
१४. 1)—आह om Y*; 2–16)— om Y*; 2)—भेदमेक B M; 3)—अत्र दृष्टार्थ° R4 B M; ये चत्वार B M; कर्मवादी R4; गृहैष्टि॰ M+; ॰दार्विहौ° R2 B M; °सौरकानाम् A5; 4)—॰षाभिवदन्ति B M; 5)—om R2 B M; 6)—॰मरणम् A6 B M; 7)—वानप्रस्थो conj. following BDh & B M, om in all mss; ॰शास्त्र॰ om A5; श्रावणके° A5; ॰स्पृशेत् add in margin वनी नातिसंवत्सरं भुञ्जीत A1; 8)—भैक्षमुप॰ R4; भैक्षमपि युञ्जीत A2; 11)—परिव्रज्य बन्धू॰ A2; 12)—मुण्डी A1 2 R1; ॰कस्थम् A5; 13)—भुक्तवर्जिते R2 3 4 B M; निवृत्ते conj. following BDh, B M and marginal addition वृत्ते in A1 2, om in all mss; 15)—पात्रभृ॰ R3 4; पवित्रं बिभ्रत् शौ॰ B M; 16)—अपविद्धदै॰ A1 2 R1 3 4 M+; ॰विध्यादैवि॰ A5; दैविकानि कर्माणि R2 B M; मध्यमं add पदं A5; 17)—एकाश्रमत्वादाचार्यात्प्रजन॰ A1 2 [॰चार्यः प्र॰ A2]; ऐकत्वाश्रम्यत्वाचार्यात् R4; एकाश्रमं A5; अप्रज° . . . [27] इति lacuna A6; अप्रजननार्थत्वादि° R5; ॰त्वादेतेषाम् R3; 19)—वै om A1 2 5 R1 4; कपिलो R2 5; नामाश्रमारि॰ A1 2 R1 [A1 corrected to नामासुरि॰]; नामाश्रमणसुरि° R4; नामाश्रविरास A5; 21)—नाद्रियेत Y* A5 R1 4; 22–27)—om Y* ; 22)—अदृष्टत्वात् A5; 23)—॰षाभ्यनूच्यते R4 M; 27)—॰जज्ञय conj., all mss read ॰ज्ञीय; 29)—ब्रह्मचर्येण . . . पितृभ्य om Y*; 30—॰योगवादीनि वचनान्यसंख्या° A1 2 R1; °योगादिवचनान्यसंख्या॰ A4 M+; ॰योगादीनि वचनान्यसंख्या॰ G1 2 3; सन्ति A5 6 ↩︎
-
१५. 2)—त्रयी A1 2 R1 2; प्रजापतिं A6 G3 R2 3 4; 3)—य om G 1 2 3 B M; येतानि A5; तैरित्स॰ conj., all mss read तैरुत्स॰ ↩︎
-
१६. lacuna A6; ॰दृष्टत्वादिति प्रत्य॰ X2*; ॰दृष्टत्वाद्धि प्रत्य॰ M+; ॰श्रुति॰ om M ↩︎
-
१७. 1)—om Y* A1 2 R1; 2)— अस्मृति for अस्ति R4; 3)—एवमेव A1 2 6 G1 3 R12 3; प्रव्रजन्ति Y* A1 2 R1; 4)—ब्राह्मणः om A4 5; बाल्येन . . . निर्विद्य om G3 ↩︎
-
१८. 1)—च om A5 R2 4 B M; 2)—एतद्धर्मं वै A1 2 R1; तत्पूर्वे A1 2 4 G2 3 R1; एषां R1 2 3 4 G6; 3)—न om A1 2 R1 3; च om Y* ↩︎
-
१९. २)—॰षार्थार्थं B M; ॰षार्थन्तरार्थं A5; ॰षार्थन्तरं A6; ॰ग्रहणवद॰ M+; ॰ष्ठानार्थम् B M; 3)—॰षार्थार्थत्वे M; ॰षार्थे G2; सर्वार्थत्वशस्यत्वादि° for तु . . . स्यादि° A5; स्वर्गार्थमन्या॰ A4 G2 3 R2 B M; वा स्यादित्यन्या॰ A1 2 R1 4; ॰न्यार्थत्वं R4; 3–4)—इति न्यायेन . . . ॰रोधात् om G1; 7)—वा om A1 2 R1 2 3 M+; येन for वा न A6; 8)—तमेव G2 R2; 9)—अविद्य॰ A5; समाहिताः B M; तत्रादक्षका B M; न विद्वांस॰ Y* A1 2 R1 2 4; विद्वांस॰ for नाविद्वांस° A6; नातप॰ B M; इति च Y* B M ↩︎
-
२०. ३)—॰स्थानां संभ॰ B M; संभवति A5 M+; न om A6 R2 3 4 M+; कल्प्यः om A6 R2 3 M+; 5)—om G3; ॰नामेव add ब्रह्मनिष्ठानां A4 G1 2 [A1 in margin]; 5–6)—पारिव्राज्यं . . . कश्चित् om R4; 6)—प्रवृत्त° om X2* B M, पूर्ववृत्त॰ Y* M+, प्रवृद्ध॰A1 2 R1 M+; ॰विरोधः A2 5; ॰विरोधं A6; ॰त्यागपरो A5; 7)—स्मृतिदृष्टा॰B M; स्मृतिविरो॰ A5; संशयः R4; 8)—न तु M+; 9)—स्मृतिर्वि° M+; ॰स्तुतयो A2 G1; ॰द्याश्रुतये A5; ॰वदन्तीति A2 M+; कर्माण्यपरि॰ A6; प्रव्रजन्तो A5 ↩︎
-
२१. गृहस्थेष्वेव संभ॰ A1 2 6 R1; ॰धर्माभा॰ M+; ॰धर्मत्वाभा॰ M+; ॰टनादीनि X2*; च om Y* A1 2 R1 B M; ॰श्रमार्थत्वात् A6; ॰श्रमधर्मत्वात् A5; ॰धर्मानुप॰ A1 2 M+; ॰श्रमधर्मोऽस्तीति Y* A1 2 R1 M+; ॰श्रमो नास्तीति R4 ↩︎
-
२२. २)—॰धारणधर्मो R3 4; 3)—हि om Y* A1 2 R1; मानसान्तानि om A5; संन्यासमेषां वि° B M; संन्यासशब्द॰ A5 G1; अध्यासशब्द॰ A4 6; 5)—॰होत्रादेरनुष्ठेय॰ A6; 6)—एव om Y*; 7)—कर्मसंन्यासश्च कर्मयोगानां [॰योगिनां A4] for कर्मयोगो नाम Y*; 8)—om M+; परिव्राजिनां A1; ज्ञानादेव R4; 9)—अतस्तेषां Y* A1 2 R1 M+; 10)—॰स्यात्मा add यजमान R4 ↩︎
-
२३. १**)**—॰जकानां संध्या॰ Y*; ॰नादीनि A6 R2 3 4 M+; ॰कर्माणि om R2 3; भवन्ति A4 G2 3; 2)—सत्यं नास्ति M+; 3)—समयाचा॰ Y* A1 2 R1 B M; आचार॰ R2 3 M+; ॰कर्मार्थत्व॰ A4 6 G2 3 R2 3 M+; 4)—ज्ञानमेव A1 2 R1 M+; ज्ञानमात्रानुष्ठानमेव A4 G2 3 M+; 5)—एतदर्थानि M+; ॰नादीनीति B M; 6)—संध्यादिही॰ X2* G1 3 B M; संध्यावन्दनही॰ A4 G2; संध्यावन्दनादिही° M+; 7)—च om A4; 8)—जपदमतपो॰ A1 2 R1; ॰तपोदमभि॰ G1 M+; ॰क्षाटनादियम॰ A5; यम॰ om A6; वक्ष्यते Y* A5 R2 M+; 10)—ततस्ते॰ A4; ज्ञानेऽन्तर्भा॰M+; ॰योगान्तर्भा॰ Y* A1 2 R1 ↩︎
-
२४. १)—इति च B M; स्थितः A2; सिद्धम् Y* M+; 2)—तथा च om Y*; अथ च R3 M+; ॰त्यागेनामृ° X2* B M; 3)—च omY* R4; 4)—तथा च om A6; वासुदेवः om Y* ↩︎
-
२५. १)—॰धारणधर्म॰ A5; धर्मस्य om B M (ed. notes धर्मस्य इति पदं लेखकप्रमादाल्लुप्तमिव); धर्मस्याभा॰ A1 R1 4 M+; श्रौताश्र॰ X2* A5; ॰श्रम इति R2 3 4 M+; 2)—॰लत्वात्स्मृ॰ B M; तत्सत्त्वाच्च श्रुतीणां R4; प्रामाण्यम् om A5; 3–4)—om A6; 3)—नैष R23 B M; चरन्तिA4 G1 2; चरेति A1 2 R1; सर्वद्रव्य॰ G1 2 3; सर्वत्याग॰ B M; ॰त्याग एव श्रव॰ A1 2 5 R1; 4)—॰न्तरमेवेति सिद्धम् A4 G1; ॰न्तरमेवेदं सिद्धम् G2; ॰व्राज्यं सिद्धम् A3 ↩︎
-
२६. ्रयादव॰ . . . ॰चिते om Y*; भगवद्याद॰A1 R1 M+; भगवद्यादवेन A2; भगवता याद॰ A3 6; ॰प्रकाशविर॰ A5 6 G6 R4; पारिव्राज्यं नाम A 1 2 5 R1 ↩︎