202412 ed

यादवप्रकाशविरचितः

यतिधर्मसमुच्चयः

प्रथमं पर्व

पारिव्राज्यविधिः

ओङ्कारो वाचको यस्य योगकाले श्रुतो हरेः ।
तं श्रुतिश्रेणिनिःश्रेणिश्रयणीयं श्रयामहे ॥ १.१ ॥
श्रीमाञ् जयति लोकानां नायको गरुडध्वजः ।
पाषण्डेभ्यस् त्रयी त्राता येन प्राग् यतिलिङ्गिना ॥१.२ ॥
सन्न्यासविषयाः सर्वाः समाहृत्य श्रुतिस्मृतीः ।
क्रियते यादवेनायं यतिधर्मसमुच्चयः ॥ १.३ ॥
विधिः कर्तृदशा लिङ्गं प्रयोगो मुख्यकर्म च ।
अहोरात्रक्रियाचारो लिङ्गधर्मा गतिस्थितिः ॥ १.४ ॥
प्रायश्चित्तानि संस्कार इत्य् एकादशपर्वकः ।
यतिधर्मः क्रमाद् अत्र धर्मशास्त्रेभ्य उद्धृतः ॥१.५ ॥
वक्तारो धर्मशास्त्राणां मनुर् विष्णुर् यमो ऽङ्गिराः
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥ १.६ ॥
कात्यायनोशनोव्यासा आपस्तम्बो बृहस्पतिः ।

हारीतशङ्खलिखितयाज्ञवल्क्यात्रिगौतमाः ॥ १.७ ॥

बोधायनो वृद्धदक्षः काश्यपः कपिलः क्रतुः ।

शाण्डिल्यो वृद्धजाबालो दत्तात्रेयश् च देवलः ॥ १.८ ॥

गार्ग्यो वृद्धवसिष्ठश् च विश्वामित्रश् च गालवः ।

मेधातिथिर् भरद्वाजो जमदग्निश् च शौनकः ।

पैठीनसिः सत्यकामो वायुश् चेत्येवमादयः ॥ १.९ ॥

एषां शास्त्रेषु सन्न्यासप्रदेशेष्व् एव सञ्चितः ।
धर्मो ऽयं नान्यदेशेषु नेतिहासपुराणयोः ॥ १.१० ॥

तत्र सन्न्यासविधिर् अस्ति वा न वेति निरूप्यते ॥१.११ ॥ तत्र केचिद् आहुः । श्रुताव् अदृष्टत्वात् श्रुतिविरोधे स्मृतीनाम् अप्रामाण्यात् नस्त्य् एवेति ॥ १.१२ ॥ तथा च गौतमः:

ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्येति [ग्ध् ३.३६] ॥ १.१३ ॥

आह बोधायनः

तस्य ह वा एतस्य चतुर्धा विभेदम् एक आहुः । अदृष्टार्थम् एव चत्वार इति कर्मवाद ऐष्टिकसौमिकपाशुकदार्विकहौमिकानाम् । तद् एषा भवन्ति । ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति । ब्रह्मचारी गुरुशुश्रूषुरामरणात् । वानप्रस्थो वैखानसशास्त्रसमुदाचारेण वने मूलफलाशी तपःशीलः श्रामणकेनाग्निं समाधाय सवनेषूदकम् उपस्पृशेत् । अग्राम्यभोजी भैक्षम् अप्य् उपयुञ्जीत । ग्रामं च न प्रविशेत् । जटिलश् चीराजिनवासा नातिसंवत्सरं भुञ्जीत । परिव्राजकः परित्यज्य बन्धून् अपरिग्रहः परिव्रजेत् । अरण्यं गत्वा मुण्डः शिखी वा कौपीनाच्छादनो वर्षास्व् एकत्रस्थः । काषायवासाः सन्नमुसले व्यङ्गारे भुक्तजने निवृत्ते शरावसम्पाते भिक्षेत । वाङ्मनःकायदण्डैर् भूतानाम् अद्रोही । पवित्रभृच् छौचार्थम् उद्धृताभिर् अद्भिः कार्यं कुर्यात् । अपविध्य दैविकाग्निकर्माण्य् उभयतः परिच्छिन्ना मध्यमं संश्लिष्यामह इति ब्रुवन्तः । ऐकाश्रम्यं त्व् आचार्या अप्रजननत्वाद् इतरेषाम् । तत्रोदाहरन्ति ।
प्राह्लादिर् वै कापिलो नामासुरिर् आस । स एतान् भेदांश् चकार देवैः स्पर्धमानः । तस्मान् मनीषी नाद्रियेतेति ।
दृष्टार्थत्वात् । तद् एषाप्य् अनूद्यते ।
एष नित्यो महिमेति । [त्ब् ३.१२.९.७–८]
स ब्रूयात् ।
येन सूर्यस् तपति ॥ । साम्पराय इति [त्ब् ३.१२.९.७] ।
इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचम् अभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञय इति [र्व् १०.७१.९] ॥ प्रजाभिर् अग्ने अमृतत्वम् अश्याम् [र्व् ५.४.१०] ।
जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते । ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति [त्स् ६.३.१०.५] ।
एवम् ऋणसंयोगवादीन्य् असङ्ख्यातानि भवन्ति निषेधाश् च [ब्ध् २.११.९–३३] ॥ १.१४ ॥

आपस्तम्बः

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञम् अनुप्रदानम् । य एतानि कुर्वते तैर् इत् सह स्मो रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति [अप्ध् २.२४.८]
॥ १.१५ ॥

तस्मात् श्रुताव् अदृष्टत्वात् प्रत्यक्षश्रुतिविरोधे स्मृतीनाम् अप्रामाण्यान् न सन्त्य् ऊर्ध्वरेतस आश्रमा इति ॥ १.१६ ॥

अथ स्यात् । अस्ति श्रुतिर् वाजसनेयिनां प्रत्यक्षा ।

एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीति [बउ ४.४.२२] ।
तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर् इति च [बउ ३.५.१] ॥ १.१७ ॥

आचारं च दर्शयति ।

एतद् ध स्म वै पूर्वे विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोक इति [बउ ४.४.२२] ।
अहिओत्रं न जुहुवाञ् चक्रिर इति च ॥ १.१८ ॥

अत्रोच्यते । किं पारिव्राज्यं पुरुषार्थं विधीयते उत पाणिग्रहणादिवद् अनुष्ठानान्तरार्थम् । पुरुषार्थत्वे तु स स्वर्गः स्याद् इति [प्म्स् ४.३.७.१५] न्यायेन स्वर्गार्थं वा स्याद् अन्यार्थं वा । न तावत् स्वर्गार्थम् अपवर्गप्रकरणविरोधात् । तथा हि सर्वत्रापवर्गप्रकरण एव पारिव्राज्यं विधीयते । तेनापवर्गप्रकरण एव कथञ्चित् सम्बन्धो वाच्यः । सो ऽपि वा न शक्यते वक्तुं ज्ञानाद् एवापवर्गश्रुतेः ।

तम् एवं विदित्वाति मृत्युम् एति । नान्यः पन्था विद्यते ऽयनायेति [व्स् ३१.१८] ।
विद्ययैव तदारोहति यत्र कामाः पराहताः ।
न तत्र दक्षिणा यन्ति नाविद्वांस स्तपस्विन इति [स्ब् १०.५.४.१६] ॥ १.१९॥

अथ ज्ञानानुष्ठानाङ्गत्वेन विधीयत इति मतम् ।

नैतत् । ज्ञानानुष्ठानं गृहस्थानाम् अपि सम्भवतीति न तदर्थम् आश्रमान्तरविधिः कल्प्यः । कल्प्यमानो ऽपि नाश्रमान्तरं प्रापयेत् । किं त्व् आहिताव्रितवद् गृहस्थानाम् एव किञ्चित् पारिव्राज्यं नाम व्रतं विदध्यात् । तच् च प्रवृत्तगार्हस्थ्याविरोधी कश्चित् सङ्गत्यागात्मको धर्म इति गम्यते । स्मृतिषु दृष्टानां धर्माणां श्रुतिविरोधान् न सङ्ग्रहः । न च पारिव्राज्यशब्द एवाश्रमान्तरवचनो ऽन्यत्र प्रसिद्धः अश्रौतत्वप्रसङ्गात् । तथा च स्मृतिप्रसिद्धं पारिव्राज्यम् इयं श्रुतिर् विद्यास्तुतये ऽनुवदतीति स्याद् इत्थं महीयसी विद्या यद्बलाद् विहितान्य् अपि कर्माणि परित्यजन्तो न प्रत्यवयन्तीति ॥ १.२० ॥

तस्माद् अग्निहोत्रादिवद् असाधारणस्य गृहस्थेष्व् असम्भवतः श्रौतस्याश्रमधर्मस्याभावात् भिक्षाटनादीनां च सन्ध्यावन्दनादिवद् आचारत्वेनाश्रमधर्मार्थत्वात् स्वयम् आश्रमधर्मत्वानुपपत्तेः न पारिव्राज्यं नामाश्रमो ऽस्तीति केचिद् आचार्या मन्यन्ते ॥१.२१ ॥

अत्रोच्यते । अस्त्य् असाधारणो धर्मो ज्ञानयोगो नाम । तथा हि सत्यादीनि मानसान्तानि कर्माण्य् उपन्यस्य

तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः [म्नु ५३८] ।

इति श्रुत्या सन्न्यासं विधाय

आत्मानं युञ्जीत [म्नु ५४०] ।

इति न्यासशब्दवाच्यं ज्ञानयोगं विधत्ते । ज्ञानयोगो नाम केवलस्य ज्ञानमात्रस्यानुष्ठानम् । न ह्य् असौ गृहस्थानां सम्भवति अहिओत्रादेर् अप्य् अनुष्ठेयत्वात् । अतस् तेषां कर्मयोग एव । कर्मयोगो नाम ज्ञानकर्मसमुच्चयानुष्ठानम् ततो मोक्षः । परिव्राजकानां तु ज्ञानयोगाद् एव मोक्षः । अत एषां कर्माभावात् कर्मसम्पादनं परेण दर्शयति,

तस्यैवं विदुषो यज्ञस्यात्मा [म्नु ५४३] ।

इत्य् अनुवाकेन इयम् अप्य् अहन्य् अहन्य् अनुष्ठेयैव परिव्राजकस्य विधीयते । न स्तुतिमात्रम् अपूर्वत्वात् ॥ १.२२ ॥

ननु परिव्राजकानाम् अपि सन्ध्यावन्दनादिकर्माणि सन्ति ।

सत्यम् । तेषां समाचारत्वात् आश्रमधर्मार्थत्वम् एव न मोक्षार्थत्वम् । मोक्षार्थं तु ज्ञानयोग एव । तदर्थानि सन्ध्यावन्दनादीनि । न हि सन्ध्याहीनस्य तत्राधिकारः,

सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।

इति स्मरणात् ।

आचारहीनं न पुनन्ति वेदाः ।

इति च । जपतपोभिक्षाटनादीनाम् अपि यमनियमेष्व् अन्तर्भावो वर्ण्यते । यमनियमादीनां च योगाङ्गत्वं सर्वशास्त्रसिद्धम् । अतस् तेषाम् अपि ज्ञानयोग एवान्तर्भावः ॥ १.२३ ॥

तस्मात् परिव्राजकानां ज्ञानयोगो गृहस्थानां कर्मयोग इति स्थितम् । तथा च,

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः [म्नु २२७] ।

इति कर्मत्यागेनैवामृतत्वं श्रूयते ।

वेदान्तविज्ञानसुनिश्चितार्थाः
सन्न्यासयोगाद् यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले
परामृतात् परिमुच्यन्ति सर्वे ॥ [म्नु २२९–३०]

इति च । तथा च भगवान् वासुदेवः ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् । इति [भ्ग् ३.३] ॥ १.२४ ॥

तद् एवम् असाधारणस्य धर्मस्य भावात् अस्ति पारिव्राज्यं नाम श्रौत आश्रमः । तन्मूलत्वाच् च स्मृतीनां प्रामाण्यम् । न चैष धर्मो गृहस्थानां सम्भवति भिक्षाचर्यं चरन्तीति सर्वत्र द्रव्यत्यागश्रवणात् । तस्माद् आश्रमान्तरम् एव पारिव्राज्यम् इति सिद्धम् ॥ १.२५ ॥

**इति यादवप्रकाशेन विरचिते यतिधर्मसमुच्चये **

पारिव्राज्यविधिर् नाम प्रथमं पर्व ॥ १.२६ ॥

द्वितीयं पर्व

पारिव्राज्याधिकारिदशानिरूपणम्

अथाधिकारिदशा चिन्त्यते ॥ २.१ ॥ वनवासाद् ऊर्ध्वम् एव पारिव्राज्यम् न ब्रह्मचर्याद् इत्य् एकः पक्षः ॥ २.२ ॥ तथा च श्रुतिः

आचार्याय प्रियं धनम् आहृत्य प्रजातन्तुं मा व्यवच्छेत्सीर् इति [तु १.११.१]
॥ २.३ ॥

तथा ।

जायमानो वै ब्राह्मण इति च । [त्स् ६.३.१०.५]
प्रजननं वै प्रतिष्ठा साधु प्रजायास् तन्तुं तन्वानः पितॄणाम् अनृणो भवतीति च । [म्नु ५२५] ॥ २.४ ॥

तथा च मनुः

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ इति [म्ध् ६.३५] ॥ २.५ ॥

आह याज्ञवल्क्यः

अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् ।
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ इति [य्ध् ३.५७] ॥ २.६ ॥

आहतुः शङ्खलिखितौ

वनवासाद् ऊर्ध्वं परिणतवयसः कामतः पारिव्राज्यम् इति ॥ २.७ ॥

आह मेधातिथिः

पुत्रदारगृहक्षेत्रगोहिरण्यादिबन्धनैः ।
विरक्तो मानुषैर् भोगैर् दिव्यैश् च श्रुतिदर्शितैः ॥ २.८ ॥
वेदाभ्यासेन यज्ञेन तपसा वीतकल्मषः ।
जन्मजन्मान्तराभ्यासाद् विशुद्धात्मा जितेन्द्रियः ॥ २.९ ॥
इतिहासपुराणाभ्यां श्रुत्या च प्रतिबोधितः ।
यतते परमं स्थानं यतनात् स यतिर् भवेत् ।
तस्येयं परमा सिद्धिर् यतेर् नान्यस्य कस्यचित् ॥ इति ॥ २.१० ॥

केचित् तु ब्रह्मचर्याद् गृहाद् वनाद् वा यथाकामं पारिव्राज्यम् इत्य् आहुः ॥ २.११ ॥

तथा च जाबालिश्रुतिः

ब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वनाद् वेति । [जु ६४] ॥ २.१२ ॥

आह यमः

चीर्णवेदव्रतो विद्वान् ब्राह्मणो मोक्षम् आश्रयेत् ।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ २.१३ ॥
जातपुत्रो गृहस्थो वा विजितात्मा जितेन्द्रियः ।
निःस्पृहः सर्वकामेभ्यः कृतकृत्यः परिव्रजेत् ।
वनस्थो वा तप्ततपाः परं पन्थानम् आश्रयेत् ॥ इति ॥ २.१४ ॥

अत्र यदि ब्रह्मचारी प्रव्रजेत् चीर्णव्रत एव प्रव्रजेत् । यदि गृहस्थो जातपुत्र एव इष्टयज्ञश् च तान् अग्नीन् हृदि संहृत्येति पूर्वम् उक्तत्वात् । वानप्रस्थश् चेत् तप्ततपा एव प्रव्रजेत् । इति गम्यते । एतद् उत्तरत्रापि योज्यम् । एतद्विषयम् एव मानवम् अपि वचनम् ऋणानि त्रीण्य् अपाकृत्येत्यादि ॥ २.१५ ॥ केचिद् आहुः ।

ब्रह्मचारी गृहस्थो वा मृतदारो वनेचरः ।
ज्ञात्वा सम्यक् परं ब्रह्म त्यक्त्वा सङ्गान् परिव्रजेत् ॥इति ॥ २.१६ ॥

अत्र गृहस्थस्य मृतदारस्य पुत्रोत्पत्त्यादेः प्राग् अपि सति वैराग्ये पारिव्राज्यं गम्यते ॥ २.१७ ॥ आह बृहस्पतिः

असारम् एव संसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजेद् अकृतोद्वाहः परं वैराग्यम् आस्थितः ॥ २.१८ ॥
अन्यो ऽप्य् उत्पन्नसन्तान इष्ट्वा च विविधैर् मखैः ।
पतितार्धशरीरो वा वनाद् अन्यः परिव्रजेत् ॥ इति ॥ २.१९ ॥

अर्धशरीरं भार्या,

पतत्य् अर्धं शरीरस्य भार्या यस्य सुरां पिबेत् । [वध् २१.१५]

इति दर्शनात्,

अर्धो वा एष आत्मनो यत्पत्नी । [त्स् ६.१.८.५]

इति श्रुतेश् च ॥ २.२० ॥ आह शङ्खः

एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ।
नानोपनिषदां ज्ञानात् प्राप्तवैराग्यपाटवः ॥ २.२१ ॥
समाहृतेन्द्रियग्रामो विषयेभ्यः सुदूरतः ।
आत्मैकरामो मनसा निरस्य परिपन्थिनः ॥ २.२२ ॥
योगाभ्यासेन बहुशो लब्धात्मा दृढबन्धनः ।
सर्वसङ्गनिवृत्तात्मा ब्रह्मचार्य् अपि सुव्रतः ॥ २.२३ ॥
एतैर् गुणैर् उपेतश् चेद् गृहस्थो वा प्रजापतेः ।
कृत्वेष्टिं विधिवद् दत्त्वा सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन् समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥ इति ॥ २.२४ ॥

एवं काश्चित् श्रुतयः स्मृतयश् च ब्रह्मचर्याद् एव पारिव्राज्यं विदधति काश्चित् तु ऋणापकरणादेर् ऊर्ध्वम् एवेति । एवं विरोधे सति केचिद् आहुः- अन्धपङ्ग्वादीन् कर्मस्व् अनधिकृतान् अधिकृत्य ब्रह्मचर्याद् उत्थानश्रुतयः स्मृतयश् च ॥ २.२५ ॥ तथा चाह लिखितः

जन्मकोटिशतारब्धपुण्याप्तं देवकारितम् ।
वैराग्यं जायते यस्य तृष्णापि ब्रह्मणि स्थिरा ॥ २.२६ ॥
सो ऽधीतवेदतत्त्वार्थो गृहवासम् अशक्नुवन् ।
प्रव्रजेद् ब्रह्मचर्याच् च गृहाज् जीर्णो वनाद् अपि ॥ २.२७ ॥
नीरुजश् च युवा चैव वसेद् गार्हस्थ्यम् आदृतः ।
अन्धः पङ्गुस् तथा कुष्ठी वृद्धो मौनं समाश्रयेत् ॥ इति ॥ २.२८ ॥

अन्ये त्व् आहुः । उभयीषु श्रुतिस्मृतिषु विपरीतः किं न भवेत् । अविरक्तः पारिव्राज्यं कर्तुम् अशक्नुवन् किं न गृही भवेत् । न ह्य् अविरक्तः पारिव्राज्यं कर्तुं शक्नोतीति ॥ २.२९ ॥ तथा च दक्षः

सत्त्वोत्कटाः सर्वे ते ऽपि विषयैस् तु वशीकृताः ।
किं पुनः क्षुद्रसत्त्वैस् तु मानवैर् अत्र का कथ ॥ २.३० ॥
तस्मात् पक्वकषायेण कर्तव्यं दण्डधारणम् ।
इतरस् तु न शक्नोति विषयैर् ह्रियते यतः ॥ २.३१ ॥
त्रिदण्डं लिङ्गम् आश्रित्य जीवन्ति बहवो द्विजाः ।
यो हि ब्रह्म न जानाति त्रिदण्डार्हो न स स्मृतः ॥ इति ॥ २.३२ ॥

आह लिखितः

यः कृत्वा सर्वसन्न्यासं प्रत्यापत्तिं भजेद् द्विजः ।
तं दास्ये योजयेद् राजा श्वपदेनाङ्कयेत् तथा ॥ २.३३ ॥
तस्माद् आशयशुद्धिं प्राग् बहुकालं परीक्ष्य च ।
मनो न चलते धर्माद् इति ज्ञात्वाथ सन्न्यसेत् ॥ इति ॥ २.३४ ॥

आह यमः

निवृत्तः कामरागादेः प्रशान्तो ब्रह्मतत्परः ।
स सन्न्यासे ऽधिकारी स्याद् इतरो जीविकापरः ॥ इति ॥ २.३५ ॥

न चानधिकृतविषया ह्य् उत्थानश्रुतिर् इति युक्तं तेषाम् उत्तरत्र पृथग् एव विधानात् ।

अथ पुनर् व्रती वाव्रती वा स्नातको वास्नातको वा सारिनकिओ वेत्यादिना ।
[जु ६४] ॥ २.३६ ॥

आह वृद्धजाबालिः ।

व्रतिको वाव्रतिको वा स्नातको वास्नातको वा आवसथ्य् अनावसथी वा अग्निहोत्र्य् अनग्निहोत्री वा ग्रामाद् अग्निम् आहृत्येत्यादि ॥ २.३७ ॥

यत् पुनर् उक्तम्,

अन्धः पङ्गुस् तथा कुष्ठी वृद्धो मौनं समाश्रयेत् ।

इति, तद् अप्य् अविरुद्धम् अन्धादिशब्दानाम् अन्यथा व्याख्यातत्वात् ॥ २.३८ ॥ तथा हि मेधातिथिः

अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृष्ट्वा निर्विकारः स षण्ढकः ॥ २.३९ ॥
भिक्षार्थं गमनं यस्य विण्मूत्रकरणाय च ।
योजनान् न परं याति यः सदा पङ्गुर् एव सः ॥ २.४० ॥
तिष्ठतो व्रजतो वापि यस्य चक्षुर् न दूरगम् ।
चतुर्युगाद् भयं मुक्त्वा परिव्राट् सो ऽन्ध उच्यते ॥ २.४१ ॥
हिताहितं मनोरामं वचः शोकावहं च यत् ।
श्रुत्वा यो न शृणोतीव बधिरः परिकीर्तितः ॥ इति ॥ २.४२ ॥

न चान्धस्य पारिव्राज्ये ऽधिकारः,

दृष्टिपूतं न्यसेत्पादम् । [म्ध् ६.४६]

इति धर्मविधानात् ॥ २.४३ ॥ नापि पङ्गोः कुष्ठिनो वा,

पर्यटन् पुण्यतीर्थानि देवतायतनानि च ।
अध्वास्य सूर्यनिर्दिष्टः कीटवच् च महीं चरेत् ॥

इत्यादिधर्मविधानात् ॥ २.४४ ॥ ब्रह्मचर्यविधानान् न षण्ढस्य पारिव्राज्यम् । ब्रह्मचर्यं हि मैथुनवर्जनम् । न हि षण्ढस्य मैथुनवर्जनम् अस्ति तस्य स्थाणुकल्पस्य मैथुने प्राप्त्यभावात् । प्राप्तस्य हि वर्जनं व्रतम् ॥ ४.४५ ॥ तस्माद् ऋणश्रुतिर् अविरक्तविषया । विरक्तस्य तु पारिव्राज्यम् एव ॥ २.४६ ॥ तथा च बृहस्पतिः

प्रव्रजेद् अकृतोद्वाहः परं वैराग्यम् आश्रितः । इति ॥ २.४७ ॥

आह क्रतुः

ब्रह्मचारी गृहस्थो वा मृतदारो वनेचरः ।
ज्ञात्वा सम्यक् परं ब्रह्म त्यक्त्वा सङ्गान् परिव्रजेत् ॥ इति ॥ २.४८ ॥

आह शङ्खः

सर्वसङ्गनिवृत्तात्मा ब्रह्मचार्य् अपि सुव्रतः ।
एतैर् गुणैर् उपेतश् चेद् गृहस्थो वा प्रजापतेः ॥ २.४९ ॥
कृत्वेष्टिं विधिवद् दत्त्वा सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन् समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥ इति ॥ २.५० ॥

आह दत्तात्रेयः

त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणाम् इति वेदानुशासनम् ।
गृहवासविरक्तानां पुरा प्रोक्तं स्वयम्भुवा ॥ इति ॥ २.५१ ॥

उपकुर्वाणस्य ब्रह्मचारिणश् चतुर्ष्व् आश्रमेषु इच्छाविकल्प इत्य् आचार्याः ॥ २.५२ ॥तथा च वसिष्ठः

चत्वार आश्रमाः ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः । तेषां वेदम् अधीत्य वेदौ वा वेदान् वा चीर्णब्रह्मचर्यो यम् इच्छेत् तम् आवसेद् इति ॥ [वध् ७.१–३] ॥ २.५३ ॥

आह चापस्तम्बः

बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेतेति [अप्ध् २.२१.५] ॥ २.५४ ॥

आह भगवान् व्यासः

गुरुशुश्रूषया विद्यां सम्प्राप्य विधिवद् द्विजः ।
स्नायीत गुर्वनुज्ञातो दत्त्वास्मै दक्षिणां हि गाम् ॥ २.५५ ॥
नैष्ठिकं वा मुनेर् वापि पारिव्राज्यकम् एव वा ।
यम् इच्छेद् आश्रमं विप्रो वसेत् तत्रैव संयतः ॥ इति ॥ २.५६ ॥

आह गौतमः

तस्याश्रमविकल्पम् एके ब्रुवत इति [ग्ध् ३.१] ॥ २.५७ ॥

यद् उक्तम् ऋणानि त्रीण्य् अपाकृत्येति तद् अपि श्रुतिस्मृतिभ्यां विरक्तस्य ब्रह्मचर्याद् एव पारिव्राज्यं विदधतीभ्यां व्यवस्थाप्यमानं रागवति पुरुष एवावतिष्ठते प्राप्तर्णापकरणार्थं वा ॥ २.५८ ॥

तस्माद् विरक्तस्य ब्रह्मचर्याद् गृहाद् वनाद् वा पारिव्राज्यं सिद्धम् ॥ २.५९ ॥ तथा च बृहस्पतिः
परमात्मनि यो रक्तो विरक्तो ऽपरमात्मनि ।
सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुम् अर्हति ॥ २.६० ॥

आतुरस्यापि पारिव्राज्यम् अङ्गिरसोक्तम् ।

वनवासात् परिश्रान्तः प्रव्रजेद् विधिपूर्वकम् ।
व्याध्याविष्टो विरक्तो वा ब्रह्मवित् सन्न्यसेद् द्विजः ॥ २.६१ ॥
प्रव्रजेद् ब्रह्मचर्याच् च प्रव्रजेच् च गृहाद् अपि ।
वनाद् वा प्रव्रजेद् विद्वान् आतुरो वाथ दुःखितः ॥ २.६२ ॥
उत्पन्ने सङ्कटे घोरे चोरव्याघ्रादिगोचरे ।
भयभीतस्य सन्न्यासम् अङ्गिरा मुनिर् अब्रवीत् ॥ २.६३ ॥

तथा च शातातपः

सन्न्यस्तम् इति यो ब्रूयात् प्राणैः कण्ठगतैर् अपि ।
स तु क्रतुसहस्रेण तुल्यं फलम् अवाप्नुयात् ॥ २.६४ ॥

आह दत्तात्रेयः

मुखजानाम् अयं धर्मो विष्णोर् यल् लिङ्गधारणम् ।
बाहुजातोरुजातानाम् अयं धर्मो न विद्यते ॥ २.६५ ॥

**इति यतिधर्मसमुच्चये पारिव्राज्याधिकारिदशानिरूपणं नाम **

द्वितीयं पर्व ॥ २.६६ ॥

तृतीयं पर्व

लिङ्गनिरूपणम्

अथ लिङ्गं निरूप्यते । तच् च द्विविधं बाह्यं शारीरं च । तत्र शारीरं यज्ञोपवीतं मुण्डत्वं शिखामात्रधारणं वेति । बाह्यं दण्डकमण्डलुप्रभृति । बाह्यं लिङ्गं मात्रा इत्य् उच्यते ॥ ३.१ ॥

तत्र शारीरम् उच्यते । आह वसिष्ठः
यज्ञोपवीत्य् उदकमण्डलुहस्त इति [वध् १०.३१] ।
मुण्डो ऽमदो ऽक्रोधो ऽपरिग्रह इति च [वध् १०.६] ॥ ३.२ ॥

आह यमः

नित्यं स्थण्डिलशायी स्याद् अनित्यां वसतिं वसेत् ।
अरण्यनित्यो मुण्डः स्यान् मनसा ज्ञानम् अभ्यसेत् ॥ इति ॥ ३.३ ॥

आह पैठीनसिः

अप्रतिष्ठो मुनिर् मुण्डो निर्ममो निष्परिग्रहः इति ॥ ३.४ ॥

आह बोधायनः

अरण्यं गत्वा शिखी मुण्डो वेति [ब्ध् २.११.१७–१८] ॥ ३.५ ॥

आह क्रतुः

स्तुत्वा हंसं त्रिभिः सूक्तैर् मनो वैष्णवपौरुषैः ।
मुण्डः शिखी वा काषायी पात्री दण्डी गृहाद् व्रजेत् ॥ ३.६ ॥

आह सुमन्तुः

मुनिर् मुण्डो ऽपरिग्रह इति ॥ ३.७ ॥

आह गौतमः

मुण्डः शिखी वेति [ग्ध् ३.२१] ॥ ३.८ ॥

तस्मान् मौण्ड्यं शिखा वेति विकल्पः । यज्ञोपवीतं तु सर्वेषां नित्यम् एव ॥ ३.९ ॥ तथ्आत्रिः पारिव्राज्यम् एवाधिकृत्याह ।

ब्रह्मसूत्रं त्रिदैवत्यं ब्रह्मविष्णुशिवात्मकम् ।
परित्यजन्ति विप्रा ये मोहात् तर्कोपजीविनः ।
स्वर्गापवर्गमार्गाभ्यां प्रच्युतास् ते न संशयः ॥ इति ॥ ३.१० ॥

आह्ओशनाः

ब्रह्मसूत्रपरित्यागाद् ब्रह्मचारी गृही वनी ।
परिव्राट् चापि पतति तस्मात् तन् न परित्यजेत् ॥ इति ॥ ३.११॥
अथ बाह्यलिङ्गम् उच्यते । आह दक्षः
मेखलाजिनदण्डाद्यैर् ब्रह्मचारीति लक्ष्यते ।
गृहस्थो यष्टिवेदाद्यैर् नखरोमैर् वनाश्रमी ।
त्रिदण्डेन यतिश् चेति लक्षणानि पृथक् पृथक् ॥ ३.१२ ॥

आह बृहस्पतिः

एवं सन्न्यसनं कृत्वा त्रिदण्डं सपवित्रकम् ।
केशसम्मितम् आदाय पात्रं करकम् एव च ॥ इति ॥ ३.१३ ॥

आहतुः शङ्खलिखितौ

सर्वारम्भान् उत्सृज्य त्रिदण्डकुण्डिकापक्ष्मपवित्रप्रयोजनापेक्षी मुण्डः काषायवासा भैक्षवृत्तिर् । इति ॥ ३.१४ ॥

आह्आङ्गिराः

यतेर् लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः ।
ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् ॥ ३.१५ ॥
शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् ।
यस्यैतद् विद्यते लिङ्गं स यतिर् नेतरो यतिः ॥ इति ॥ ३.१६ ॥

बृसी कूर्मासनम् । आह देवलः

काषायमुण्डत्रिदण्डकमण्डलुपात्रपवित्रपादुकासनकन्था मात्रा इति ॥ ३.१७ ॥

आह गालवः

अथ परिव्राजको लिङ्गी मुण्डः शिखी वा नित्यं यज्ञोपवीती काषायकर्पटः कौपीनाच्छादनार्थं वासो बिभृयान् नोत्तरीयं त्रिदण्डं जलपवित्रं कमण्डलुं कपालं कन्थां चेति ॥ ३.१८ ॥

आह लिखितः

काषायम् एव कार्पासं वासः कन्थां च धारयेत् ।
वल्कलं वाजिनं वापि कौशं शणमयं तु वा ॥ ३.१९ ॥
शिक्यं सकवचं पात्रं त्रिविष्टब्धेन संयुतम् ।
बद्धं जलपवित्रेण त्रिदण्डं वर्तुलासनम् ॥ ३.२० ॥
शिखां यज्ञोपवीतं च शौचार्थम् अपि कुण्डिकाम् ।
सर्वदा धारयेद् गच्छन्न् आसीनो वापि वा शुचिः ॥ इति ॥ ३.२१ ॥

आह यमः

सूची पिप्पलकं चैव त्रिविष्टब्धम् उपानहौ ।
कुण्डिका रज्जुशिक्यं च भैक्षभाजनम् आसनम् ।
कन्थां कर्पटकं दण्डं लघुमात्रापरिग्रहः ॥ इति ॥ ३.२२ ॥

आह्ओशनाः

पात्रं तत्कवचं शिक्यं त्रिदण्डं सपवित्रकम् ।
आसनं कटिसूत्रं च कौपीनं कटिवेष्टनम् ।
यज्ञोपवीतं कन्थां च सङ्गृह्यान्यत् परित्यजेत् ॥ इति ॥ ३.२३ ॥

आह क्रतुः

विंशतिं धारयेन् मात्रा दश वा पञ्च नित्यशः ।
कन्था सूच्यजिनं छत्रं पवित्रं कुण्डिकासनम् ॥ ३.२४ ॥
पात्रं शिक्याक्षसूत्राणि मृत्खनित्रम् उपानहौ ।
गुह्याच्छादस् त्रिपादी च पादुके दण्डपक्ष्मणी ।
योगपट्टो बहिर्वासो मात्राख्या विंशतिः स्मृताः ॥ ३.२५ ॥

आसां विंशतिमात्राणां पञ्चमात्रा नित्याः । ताश् च उपवीतत्रिदण्डपवित्रपात्रकौपीन-कटिवस्त्राख्याः ॥ ३.२६ ॥ तथा विष्णुः

उपवीतं त्रिदण्डं च पात्रं जलपवित्रकम् ।
कौपीनं कटिवस्त्रं च न त्याज्यं यावदायुषम् ॥ इति ॥ ३.२७ ॥

पात्रग्रहणाद् एव तदङ्गभूतशिक्यकवचत्रिविष्टब्धानाम् अपि ग्रहणम् एव । दशमात्रास् तु याः स्मृत्युक्ताः सूची पिप्पलकं चेत्यादि । तत्र सूचीपिप्पलयोर् एकीकरणेन दशत्वम् । पिप्पलं सूत्रम् ॥ ३.२८ ॥

द्विधाकारः परिव्राट् । ज्ञानाभ्यासशीलो योगम् आरुरुक्षुर् एकः अपरस् तु आरूढयोगस् तत्त्वदर्शी अव्यक्तलिङ्गो ऽव्यक्ताचारो ऽनुन्मत्त उन्मत्तवद् आचरन् ॥ ३.२९ ॥ तथा च क्रतुना द्वैविध्यं दर्शितम् ।
पूर्वाह्णे विचरेद् योगी सम्यग्ज्ञानी तु पश्चिमे । इति ॥ ३.३० ॥

तत्र सम्यग्ज्ञानम् अभिप्रेत्य क्रतुर् एवाह ।

शीलं वृत्तं श्रुतं ज्ञानं वैराग्यं धर्मलक्षणम् ।
ऐश्वर्यं विद्यते यस्य मात्राभिस् तस्य किं फलम् ॥ ३.३१।
ध्यानं शौचं तपः पूजां प्राणायामजपस्तुतीः ।
सन्ध्यां भिक्षाम् उपस्थानं कुर्याद् आमरणान्तिकम् ॥ इति ॥ ३.३२ ॥

पञ्च नित्यश इति विधानात् भिक्षाविधानाच् च सम्यग्ज्ञानिनाम् अपि पञ्चमात्राधारणम् अवश्यं कर्तव्यम् एव ॥ ३.३३ ॥

अथैषाम् उपवीतादीनां लक्षणम् उच्यते१, तत्र तावद् यज्ञोपवीतलक्षणम् ॥ ३.३४ ॥ पारिव्राज्यम् एवाधिकृत्य दत्तात्रेयात्री चाहतुः ।
तन्तुत्रयम् अधोवृत्तं पुनश् चोर्ध्वं त्रिवृत्त्रिवृत् ।
कार्पासं तान्तवं कार्यं तथैकं चोत्तरीयकम् ॥ ३.३५ ॥
अधोवृत्तैस् त्रिभिः सूत्रैस् त्रिभिर् ऊर्ध्वं त्रिवृत्कृतम् ।
ब्रह्मसूत्रं स्मृतं ब्राह्मं कार्पासं नवतान्तवम् ॥ ३.३६ ॥
सङ्ग्रहो नवसूत्रस्य द्विजानां मुक्तिसाधनम् ।
विना तेन भवेत् सद्यः सर्वधर्मबहिष्कृतः ॥ इति ॥ ३.३७ ॥

दण्डलक्षणम् उच्यते । कपिल आह ।

अङ्गुलिपरिमाणम् ऋजुं नासायतं वैणवं दण्डं दण्डान् वा धारयेद् आत्मसम्मितं वा ॥ ३.३८ ॥ अथाप्य् उदाहरन्ति ।
अङ्कुरा यत्र दृश्यन्ते शुभाः पत्रविनिःसृताः ।
तत् तु पर्व विजानीयाच् छेषं मध्यम् इहोच्यते ॥ ३.३९ ॥
त्रिपञ्चसप्तनवकं पर्व चैकादशं तथा ।
वर्जितो दण्ड इत्य् आहुर् यतेः सर्वत्र तस्य च ।
अधस्तात् पर्वणो ऽधस्ताद् ऊर्ध्वाद् ऊर्ध्वाङ्गुलिद्वयम् ॥ ३.४० ॥

इदं गृहस्थानाम् अप्य् अविरुद्धम् । आह दत्तात्रेयः

त्रिदण्डान् अङ्गुलिस्थूलान् वैणवान् मूर्धसम्मितान् ।
सत्वचान् अव्रणान् सौम्यान् समसन्नतपर्वकान् ।
षडष्टदशपर्वाणो योनिहीनांश् च निर्व्रणान् ॥ ३.४१ ॥

दक्षः

केशमात्रान् समग्रन्थींस् त्रिदण्डान् वैणवान् यतिः ॥ ३.४२ ॥

धारयेद् इति । वृद्धदक्षः

त्रिदण्डं धारयेद् विद्वान् ऊर्ध्वस्थोदपवित्रकम् ॥ ३.४३ ॥

हारीतः

त्रिदण्डं पञ्चधा कृत्वा त्रिभागा दूर्ध्वम् एव च ।
वेष्टयेत् कृष्णगोवालरज्ज्वा तु चतुरङ्गुलम् ॥ ३.४४ ॥
ग्रन्थिधारात्रयोपेतं जलपूतेन चोपरि ।
गृह्णीयाद् दक्षिणे हस्ते गुरुदत्तं तु मन्त्रवत् ॥ ३.४५ ॥

जलपूतं जलपवित्रम् । वृद्धदक्षः

त्रिदण्डाग्रे च मूले च मध्ये सूत्रेण बन्धयेत् ।
अग्राद् द्विभागं हित्वा च तत्रैव चतुरङ्गुलम् ॥ ३.४६ ॥
गोवालदाम्ना बध्नीयाद् अथ वा पञ्चबन्धनम् ।
रज्ज्वैव बन्धनं कुर्यात् पञ्चधा विभजेत् पुनः ॥ ३.४७ ॥

श्रीपाञ्चरात्रे तत्वसागरसंहितायाम्

त्रिदण्डस्याग्रभागं तु संस्मरेत् परमेष्ठिनम् ।
द्वितीयं पुरुषात्मानं विश्वात्मानं तु मध्यमम् ॥ ३.४८॥
तुर्यं निवृत्तिपुरुषं सर्वात्मानं तु पञ्चमम् ।
त्रिदण्डं समुदायेन विष्णुरूपं स्मरेद् यतिः ॥ ३.४९ ॥

हारीतः

विष्णुरूपं त्रिदण्डाख्यं सर्वदा धारेद् यतिः ॥ ३.५० ॥

शौनकः

ज्ञानदण्डो भवेद् ध्रस्व आत्मदण्डस् तु मध्यमः ।
विष्णुदण्डस् तु दीर्घः स्यात् त्रिदण्डं धारयेद् यतिः ॥ ३.५१ ॥

प्रचेताः

ब्रह्मसूत्रं त्रिदण्डं च शिखावद् बिभृयात् स्वयम् ।
वाहयेद् इतरेणाथ प्रायश्चित्ती भवेद् यतिः ॥ ३.५२ ॥
पौरुषेणैव सूक्तेन त्रिदण्डं चाभिषेचयेत् ।
सप्तभिर् वैष्णवीऋग्भिः प्राणायामशतं चरेत् ॥ ३.५३ ॥
स्नाने चावश्यके चैव भोजने जपकर्मणि ।
स्वाध्याये चापि निद्रायाम् उप दण्डेन बन्धयेत् ॥ ३.५४ ॥
त्रिदण्डधारणं चैकं वैणवं च तथा यतिः ।
कौपीनकटिवस्त्रादि धारणार्थं सदा वहेत् ॥ ३.५५ ॥
कुर्यान् मूत्रपुरीषे चेत् त्रिदण्डसहितो यतिः ।
शुद्ध्यर्थं सह दण्डेन चरेद् आचमनक्रियाम् ॥ ३.५६ ॥

आह वृद्धजाबालिः

अपां पूर्णाञ्जलिं निनीय दण्डं दण्डान् वा गृहीत्वेत्यादि ॥ ३.५७ ॥

आह बोधायनः

न चात ऊर्ध्वं शुक्लम् अम्बरं बिभृयात् । एकदण्डी त्रिदण्डी वेति ।
[ब्ध् २.१७.४४—१८.१] ॥ ३.५८ ॥

आह याज्ञवल्क्यः

एको वा तादृशो दण्डो गोवालरहितो भवेत् । इति ॥ ३.५९ ॥

तस्माद् दण्डविकल्पः । यत्नगौरवाद् भूयसीषु दृष्टत्वाच् च ऐकदण्ड्यात् त्रैदण्ड्यम् एव शस्तम् ॥ ३.६० ॥ तथाह भगवान् व्यासः

त्रिदण्डधारणं शस्तं तथैकान्तनिषेवणम् ।
लघ्वाहारम् अनायासो यतीनां मुक्तिसाधनम् ॥ इति ॥ ३.६१ ॥

दण्डमात्राभेदाद् इतरमात्राः सन्ध्यावन्दनादयश् च धर्मा न भिद्यन्ते । क्वचित् त्रिदण्डनाशे त्व् एकदण्डो विधीयते ॥ ३.६२ ॥ अत्रिजाबालाव् आहतुः ।

नष्टे जलपवित्रे वा त्रिदण्डे वा प्रमादतः ।
गृह्णीयाद् वैणवं चैकं पालाशं वापि मध्यमम् ॥ ३.६३ ॥
ब्रह्मपत्रम् अभावे ऽपि कुशस्तम्भम् अथापि वा ।
गृहीत्वा विचरेत् तावद् यावद् अन्यं न लभ्यते ॥ इति ॥ ३.६४ ॥

आह हारीतः

नष्टे जलपवित्रे वा त्रिदण्डे वा प्रमादतः ।
एकं तु वैणवं दण्डं पालाशं मध्यमं तु वा ।
गृहीत्वा विचरेत् तावद् यावल् लब्धं त्रिदण्डकम् ॥ ३.६५ ॥
यत्नेनान्वेषयेन् नित्यम् अप्रमत्तः समाहितः ।
लब्धे त्रिदण्डे गृह्णीयाज् जलपूतम् अथोपरि ॥ इति ॥ ३.६६ ॥

आह मेधातिथिः

यावन् न स्युस् त्रयो दण्डास् तावद् एकेन पर्यटेत् ।
तत्रापि वस्त्रम् आसज्य त्व् अग्रदेशे ऽम्बुशुद्धये ॥ इति ॥ ३.६७ ॥

जमदग्निः

त्रिदण्डे न तु बध्नीयात् कौपीनं कटिवेष्टनम् ।
यो मोहाद् बन्धनं कुर्यात् त्रिदण्डम् अवमन्यते ॥ ३.६८ ॥
त्रिदण्डम् अन्यदण्डेन सङ्गतं चेत् प्रमादतः ।
प्रक्षाल्य मृज्जलैर् भिक्षुः प्राणायामत्रयं चरेत् ॥ ३.६९ ॥

कलौ युगे कुण्डिका न धार्या । तथा च देवलः

द्वापरादियुगे चैव पात्रभोजी यतिर् भवेत् ।
कलौ स्वपात्रे नैवाद्याद् धारयेन् न तु कुण्डिकाम् ॥ ३.७० ॥

जलपवित्रलक्षणं मेधातिथिर् आह ।

विकेशं सितम् अस्पृष्टम् उभयं द्वादशाङ्गुलम् ।

अस्पृष्टम् अनुपयुक्तम् इत्य् अर्थः ।

द्विगुणं त्रिगुणं वापि सर्वतो ऽष्टाङ्गुलं तथा ॥ ३.७१ ॥
प्रादेशमात्रं वा सूक्ष्मं कार्पासकृतम् अव्रणम् ।
चण्डालाद्यकृतं चैव विद्याज् जलपवित्रकम् ॥ ३.७२ ॥

आह्आङ्गिराः

यतीनां त्रीणि शुक्लानि भवन्त्य् एतानि नित्यशः ।
यज्ञोपवीतं दन्ताश् च तथा जन्तुनिवारणम् ॥ इति ॥ ३.७३ ॥

पात्राण्य् आह्आत्रिः

मृद्दार्वलाबुनिर्वृत्तं वैणवं तान्तवौपलम् ।
तार्णं पात्रं तथा क्षौमं पात्रं पर्णपुटं तथा ॥ ३.७४ ॥
एतेषाम् एकम् आदेयम् आत्मशक्त्यनुरूपतः ।
लोभात् पात्रान्तरं गृह्णन् प्राणायामान् दशाचरेत् ॥ ३.७५ ॥

आह क्रतुः

वेणुदारुशिलालाबुतृणपर्णमयानि च ।
मृन्मयं क्षौमपात्राणि गृह्णीयाद् आत्मशक्तितः ॥ इति ॥ ३.७६ ॥

मनुः

अलाबुदारुपात्राणि मृन्मयं वैणवं तु वा ।
एतानि यतिपात्राणि मनुः स्वायम्भुवो ऽब्रवीत् ॥ इति [म्ध् ६.५४] ॥ ३.७७ ॥

शिक्यलक्षणं हारीत आह ।

क्षौमं वा कुशसूत्रं वा सूत्रं कार्पासकं तु वा ।
तैर् एव ग्रथितं शिक्यं पद्माकारसमन्वितम् ।
षड्भिर् वा पञ्चभिर् वापि मुष्टिभिः शिक्यलक्षणम् ॥ इति ॥ ३.७८ ॥

आसनलक्षणं स एवाह

आसनं वर्तुलं प्रोक्तं सहस्तं दारुजं यतेः ।
शौचार्थम् आसनार्थं च निर्मितं मुनिभिः पुरा ॥ इति ॥ ३.७९ ॥

खनित्रलक्षणं कपिल आह ।

चतुरङ्गुलमात्रमृत्तिकाखननपरिग्रहे न दोष इति ॥ ३.८० ॥

**इति यतिधर्मसमुच्चये लिङ्गनिरूपणं नाम **

तृतीयं पर्व ॥ ३.८१ ।

चतुर्थं पर्व

सन्न्यासप्रयोगः

अथ प्रयोग उच्यते । अथातः शौनकप्रोक्तं सन्न्यासविधिं व्याख्यास्यामः । तत्र तस्मिन्न् अनुक्तान्य् अन्यत्रोक्तान्य् अपेक्षितानि तत्र तत्र निगद्यन्ते प्रयोगाङ्गानि ॥ ४.१ ॥ तत्र पुरश्चरणम् आह कात्यायनः

कृच्छ्रचतुष्टयं कार्यम् अनाश्रमिभिः । कृच्छ्रम् एकम् आश्रमिभिः । एवं सन्न्यासयोग्यता भवति । द्वादश्यां पौर्णमास्यां वा सङ्कल्प्य वपनं कृत्वा देवश्राद्धं प्रथमम् ऋषिश्राद्धं द्वितीयं दिव्यश्राद्धं तृतीयं पित्र्यं चतुर्थं मातृकं पञ्चमं मानुषं षष्ठं भौतिकं सप्तमम् आत्मनश् चाष्टमम् इति ॥ ४.२ ॥

एवम् आह भगवान् वृद्धवसिष्ठः । पौर्णमास्याम् इत्यादि समानम् ॥ ४.३ ॥ आह शौनकः

पूर्वेद्युर् नान्दीमुखं कृत्वा ब्राह्मणान् भोजयेत् । अथ पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा केशश्मश्रुलोमनखानि वापयेद् इति ॥ ४.४ ॥

तत्राह भगवान् जामदग्न्यो ऽपि ।

केशश्मश्रुलोमनखानि वापयेद् इति ॥ ४.५ ॥

आह शौनकः

अथ यथाविधि स्नात्वा होमादिद्रव्यं वर्जयित्वा सर्वस्वं दद्याद् इति ॥ ४.६ ॥

आह बोधायनः

यष्टयः शिक्यं कमण्डलुं जलपवित्रं पात्रम् इत्य् एतानि ।
[ब्ध् २.१७.११–१२] ॥ ४.७ ॥

वसिष्ठः

त्रिदण्डम् आसनं कन्थां शिक्यं पात्रं कमण्डलुम् ।
षण्णां परिग्रहं कुर्याच् छेषं वित्तं त्यजेद् बुधः ॥ ४.८ ॥
द्रव्यत्यागं प्रकुर्वीत मलशुद्धिर् विधीयते ।
अत्यागे पुत्रवित्तानां सन्न्यासं नैव कारयेत् इति ॥ ४.९ ॥

कात्यायनः

त्रिदण्डं जलपवित्रं शिक्यं पात्रं कौपीनं काषायवस्त्रम् असिन्निधौ संसाद्यानग्निमान् अग्निम् उत्पाद्येति ॥ ४.१० ॥

बोधायनः

अनग्नीनाम् अग्न्युत्पादनम् एकाग्निविधानेनेति ॥ ४.११ ॥

शौनकः

अथ दण्डादीन् सन्निधाप्य देवायतने ग्रामे ग्रामसीमान्ते वा नदीपुलिने पुण्ये वा पूर्वं मनसा ब्रह्माञ्जलिं कृत्वा जपेत् ।
ब्रह्मणे नमः । इन्द्राय नमः । सूर्याय नमः । आत्मने नम इति ।
अथाप उपस्पृश्य दर्भाञ्जलिं कृत्वा वेदादीञ् जपेत् । अथ सक्तुमुष्टिं प्राश्याचमनं करोति । अथ नाभिदेशम् अभिमन्त्रयेत् ।
आत्मने स्वाहा । अन्तरात्मने स्वाहा । प्रजापतये स्वाहेति ।
अथ पयो दधि सर्पिर् इति त्रिवृत् प्राश्याचम्योपवसेत् । अपो वा भक्षयेत् । जपेच् च ।
ॐ भूः सावित्रीं प्रविशामि । तत् सवितुर् वरेण्यम् ।
ॐ भुवः सावित्रीं प्रविशामि । भर्गो देवस्य धीमहि ।
ॐ सुवः सावित्रीं प्रविशामि । धियो यो नः प्रचोदयात् ।
ॐ भूः सावित्रीं प्रविशामि । तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि
।ॐ भुवः सावित्रीं प्रविशामि । धियो यो नः प्रचोदया
ॐ सुवः सावित्रीं प्रविशामि । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
ॐ भूर् भुवः सुवः सावित्रीं प्रविशामि । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
इत्य् आत्मानम् आश्रमान्तरम् उपनीय ब्रह्मभूतो भवतीति विज्ञायते । अथाप्युदाहरन्ति ।
आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः पश्चाद् भवति भिक्षुकः ॥
स एव भिक्षुर् आनन्त्यायेति ॥ ४.१२ ॥

आह शौनकः

अथ पुनर् आदित्यस्यास्तमयाद् आज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्धे ऽग्नौ पूर्णाहुतिं जुहोति ॐ स्वाहेति । अथ सायम् अग्निकार्यं कृत्वा उत्तरेणाग्निम् तृणानि संस्तीर्य तेषु पात्राणि सादयित्वा दक्षिणेनाग्निं ब्रह्मायतने दर्भान् संस्तीर्य कृष्णाजिनम् अन्तर्धाय तां रात्रिं जागर्ति । अथ ब्राह्मे मुहूर्ते उत्थाय यथाविधि स्नात्वा प्रातरग्निकार्यं करोति । अथ व्याहृतीर् जपित्वान्तर्जले तिष्ठन् तरत् स मन्दीति सूक्तं जपेत् । अथ ब्राह्मणान् अन्नेन परितोष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाग्निम् उपसमाधायाज्याहुतिं जुहोति ।
प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा । समानाय स्वाहेति ।
अथ पुरुषसूक्तेन प्रत्यृचं समिदाज्यचरूञ् जुहोति । अथ पुरुषसूक्तं जपित्वा प्रणीतापात्रं संस्तीर्य सौविष्टकृतेन जुहोति । यथाकामं जयादिसौविष्टकृतं जुहोति । अथाचार्यायाज्यपात्रं हिरण्यं धेनुं च दत्त्वा अन्यद् अपि यथाश्रद्धं दद्यात् । अथाचार्यम् उपतिष्ठेत सं मा सिञ्चन्त्व् इति । ततो या ते अग्ने यज्ञिया तनुर् इत्य् आत्मन्य् अग्नीन् समारोपयेत् । अथाग्निपूर्वे ऽन्तर्जले वा तिष्ठन् ॐ भूर् भुवः सुवः सन्न्यस्तं मयेति त्रिर् उपांशु त्रिर् मध्यमेन स्वरेण त्रिर् उच्चैः । अथ अभयं सर्वभूतेभ्यो मत्तः स्वाहेति प्राङ्मुखो ऽपां पूर्णाञ्जलिं निनयतीति ॥ ४.१३ ॥

एवं बोधायनो ऽपि ॐ भूर् भुवः सुवः सन्न्यस्तं मयेत्यादि अपो निनयतीत्यन्तम् उक्त्वा [ब्ध् २.१७.२७–२९] ।

अभयं सर्वभूतेभ्यो दत्त्वा यश् चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ इति [ब्ध् २.१७.३०] ॥ ४.१४ ॥

वृद्धवसिष्ठः

सन्न्यस्तं मयेति स्वरक्रमेण त्रिर् वाचो वदन् ।
त्रिंशत् परांस् त्रिंशद् अपरांस् त्रिंशच् च परतः परान् ।
सद्यः सन्न्यसनाद् एव नरकात् त्रायते पितॄन् ॥ ४.१५ ॥
सन्न्यस्तं हि द्विजं दृष्ट्वा स्थानाच् चलति भास्करः ।
एष मे मण्डलं भित्वा परं ब्रह्माधिगच्छति ॥ ४.१६ ॥
विरक्तेन तु विप्रेण सन्न्यासाश्रमम् इच्छता ।
यत्र तत्र मृतश् चापि न स भूयो भविष्यति ॥ ४.१७ ॥

स एव्आह ।

अनाहिताग्निर् मृतपत्नीको वानेन विधिना सन्न्यासं कुर्याद् इति ॥ ४.१८ ॥

अथ शौनकः

अथ युवा सुवासा इति काषायवासो गृह्णाति । सखा मा गोपायेति त्रिदण्डं गृह्णाति । तच् छं योर् आवृणीमह इति यज्ञोपवीतं गृह्णाति । यद् अस्य पारे रजस इति शिक्यं गृह्णाति । ॐ इति पात्रम् । येन देवाः पवित्रेणेति जलपवित्रम् । येन देवा ज्योतिषोर्ध्वा उदायन्न् इति कमण्डलुं गृह्णाति ॥ ४.१९ ॥

सप्तव्याहृतिभिः पात्रम् इति कात्यायनः ॥ ४.२० ॥ वसिष्ठः

यज्ञोपवीतम् इति उपवीतं समादाय हंसः शुचिषत् उदुत्यम् चित्रम् तच् चक्षुः नमो मित्रस्येति त्रिदण्डादिपञ्च अङ्गम् इत्य् उपस्थाय समिद्धमिति द्वाभ्याम् अग्निं विसृज्य ग्रामसीमान्तं गत्वा त्रिधा बद्धो वृषभो रोरवीतीति त्रिदण्डान् आदद्यात् । पवित्रचतुष्टयत्रिकं जपित्वा त्रीणि पदा विचक्रम इति पदत्रयं गत्वा तद् विष्णोः परमं पदम् इत्य् उपस्थाय स्वयम्भूर् इति जपेत् । जले मत्स्यादीनां स्थले पशुमृगसरीसृपादीनां सर्वप्राणिनाम् अभयं दत्त्वा पुष्पमूलफलोपादान-द्रुमच्छेदमधुमांसानृतदानादानादीन् वर्जयेद् इति ॥ ४.२१ ॥

आह कात्यायनः

स्वकीयं ग्रामं बन्धुजनं च परित्यज्यान्यग्रामं प्राप्य जपध्यानपरायणो भवेत् । याचितायाचिताभ्यां भैक्षाभ्यां वर्तयेत् । कामक्रोधरागद्वेषादि वर्जयेत् । यावदायुर् एवं वर्तयन् ब्रह्म सम्पद्यते । न च पुनर् जायत इति ॥ ४.२२ ॥

शौनकः

अथानवेक्षमाणो वाचं नियम्य प्राचीम् उदीचीं वा दिशम् अभिप्रव्रजेत् । शमदमादि येन कुर्यात् । श्रवणमनननिदिध्यासनानि कर्तव्यानि । प्रणवम् अभ्यसेन् नित्यम् इति
॥ ४.२३ ॥

इति शौनकीयसन्न्यासविधिः समाप्तः ॥ ४.२४ ॥ आह कपिलः

अनग्निस् तु मुण्डः शिखी वाहोरात्रम् उपोषितः स्नात्वाप एवाप्सु पाणिना जुहोति । आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति । पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् चाप्य् उत्थितो ऽहं स्वाहेति । ॐ भूर् भुवः स्वः सन्न्यस्तं मया । इति त्रिर् उपांशूक्त्वा त्रिर् मध्यमेन त्रिर् उच्चैस् त्रिषत्या हि देवा इति विज्ञायते । अभयं सर्वभूतेभ्यो मत्तः स्वाहा । इत्य् अपां पूर्णाञ्जलिं भूमौ निनीय दण्डं दण्डान् वा जलपवित्रं कमण्डलुं शिक्यं पात्रम् इत्य् एतानि समादाय पुत्रमित्रशत्रुज्ञातीन् अग्निसन्निधानं त्यजेद् इति ॥ ४.२५ ॥

आह वृद्धवसिष्ठः

आहिताग्निस् तु प्रातर् उत्थाय व्रीहियवाभ्यां वैश्वानरीं पाथीकृतिं तन्तुमतीं वा निर्वपेत् । अथाहवनीयं गत्वा स्वर्गाय लोकाय स्वाहेति यज्ञपात्राणि जुहुयात् । अयं ते योनिर् ऋत्विय इत्य् आत्मन्य् अग्निं समारोप्य दक्षिणाग्निं गत्वा अयम् अग्निं पुरीष्य इत्य् उलूखलमुसले जुहुयात् । अयं त इत्य् अग्निं समारोप्य गार्हपत्यं गत्वा अयम् अग्निर् गृहपतिर् इत्य् अरणिं जुहुयात् । अयं त इत्य् अग्निं समारोप्य वेदिमध्ये स्थित्वा सहस्रशीर्षा पुरुष इति जपेत् । अद्भ्यः सम्भूत इत्य् उपस्थाय वेदाहम् इत्य् आत्मानम् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । प्राच्यां दिशि पितरः सेन्द्रास् तृप्यन्ताम् । त्रातारम् इन्द्रम् इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । आग्नेय्यां दिशि साग्निकाः पितरस् तृप्यन्ताम् । अग्निर् मूर्धेत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । दक्षिणायां दिशि सयमाः पितरस् तृप्यन्ताम् । असि यम इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । नैरृत्यां दिशि सनिरृतयः पितरस् तृप्यन्ताम् । एष ते निरृत इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । प्रतीच्यां दिशि सवरुणाः पितरस् तृप्यन्ताम् । उरुं हि राजा वरुण इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । वायव्यां दिशि सवायवः पितरस् तृप्यन्ताम् । वायो शतम् इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । उदीच्यां दिशि ससोमाः पितरस् तृप्यन्ताम् । सोमो राजा इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । ऐशान्यां दिशि सेशानाः पितरस् तृप्यन्ताम् । ईशानम् इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । ऊर्ध्वायां दिशि सब्रह्माणः पितरस् तृप्यन्ताम् । ब्रह्म जज्ञानम् इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् । अधरायां दिशि ससर्पाः पितरस् तृप्यन्ताम् । नमो ऽस्तु सर्पेभ्य इत्य् उपस्थाय पितृभ्यः पिण्डदानं कुर्यात् ॥४.२६ ॥

पिण्डं दत्वा बन्धून् अनुमोदयतेत्य् उक्त्वा दर्भान् अनुशतं गृहीत्वा अत ऊर्ध्वं यज्ञोपवीतम् असीत्यादि शौनकीयोक्तं द्रष्टव्यम् ॥ ४.२७ ॥

आहिताग्नेर् एव कपिलो विशेषम् आह ।

आहिताग्निश् चेत् प्राजापत्येष्टिं सर्वस्वदक्षिणां विधिवद् दत्त्वा अयं ते योनिर् ऋत्विय इत्य् आत्मन्य् अग्नीन् समारोप्य वेदिमध्ये स्थित्वा देवं नारायणं शङ्खचक्रगदाधरं पीतवाससं किरीटकेयूरकुण्डलधरं हारिणं विष्णुं ध्यात्वा गुर्वनुज्ञातः प्रैषमन्त्रम् उदाहरेद् इति ॥ ४.२८ ॥

जामदग्न्यः

ऋतं चेति द्वादशाहम् अनुतिष्ठन्हि मानवः ।
वेदार्थान् विधिवच् छ्रुत्वा सन्न्यसेद् अनृणो द्विजः ॥ ४.२९ ॥
केशश्मश्रून् वापयित्वा पुण्ये चैव जलाशये ।
वाचंयमोपवसति रात्रिं जागर्ति पर्वणि ॥ ४.३० ॥
कृत्वा प्रजापतेर् इष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन् समारोप्य या ते अग्ने य इत्य् ऋचा ॥ ४.३१ ॥
अहं वृक्षस्येति तिष्ठेद् अन्तर्वेदि द्विजोत्तमः ।
वेदो ह वै ब्रह्मवृक्षो ब्रह्मभूयाय कल्पते ॥ ४.३२ ॥
सत्यं वदेत्य् अनुशास्ति पुत्रं वा शिष्यम् एव वा ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ४.३३ ।
ॐ भूर्भुवः सुवः सन्न्यस्तं मयेति त्रिर् उपांश्व् आह त्रिर् मध्यमं त्रिर् उच्चैः ।
त्रिषत्या हि देवा इति वदन्ति ब्रह्मवादिनः ॥ ४.३४ ॥
त्रीणि पदेति त्रिदण्डं वैणवं धारयेद् यतिः ।
मानसं वाचिकं चैव कायिकं च विचक्षणः ॥ ४.३५ ॥
अग्निर् देवता गायत्री छन्द इति मन्त्रेणालाबुदारुपात्रं गृह्णीयाद् भिक्षुको द्विजः ।
जलपवित्रं गृह्णीयात् प्राजापत्यम् इति ऋचा ।
तेन पूतं पिबेत् तोयं पवित्रोपचितो मुनिः ॥ ४.३६ ॥
सर्वभूतेभ्यः स्वाहेति यो दद्याद् अभयाञ्जलिम् ।
तस्यैव सर्वभूतेभ्यो न भयं जातु विद्यते ॥ ४.३७ ॥
ग्रामात् प्राचीम् उदीचीं वा दिशं गत्वा तु वाग्यतः ।
स्नानं तु विधिवत् कृत्वा प्राणायामान् षड् आचरेत् ॥ ४.३८ ॥

अथ यज्ञोपवीतम् अप्सु जुहोति भूः स्वाहेति । त्रिदण्डान् आदत्ते सखा मे गोपायेति । परिशिष्टे पूर्वयज्ञोपवीतप्रतिपत्तिविधानवाक्यम् अस्ति ॥ ४.३९ ॥

अथापत्सन्न्यास उच्यते ॥ ४.४० ॥ तत्र जाबालिः

यद्य् आतुरः स्यद् वाचा वा मनसा वापि सन्न्यसेत् ।
एष पन्था ब्रह्मणानाम् इहानुविहितस् त्व् इति [जु ६८–६९] ॥ ४.४१ ॥

आह्आङ्गिराः

आतुराणां विशेषो ऽस्ति न विधिर् नैव च क्रिय ।
प्रैषमात्रस् तु सन्न्यास आतुराणां विधीयते इति ॥ ४.४२ ॥

आह लिखितः

व्याघ्राग्निदस्युसर्पाद्यैः सम्पन्नमरणस् तु यः ।
महता व्याधिना वापि पीडितो यो मुमूर्षति ।
तदैव कुर्यात् सन्न्यासं विधिनाविधिनापि वा ॥ ४.४३ ॥
सन्न्यस्तम् इति यो ब्रूयात् कण्ठस्थप्राणवान् अपि ।
तारिताः पितरस् तेन स्वयं मुक्तिपथे स्थितः ॥ ४.४४ ॥
मुक्तो यः प्राणसन्देहात् कृतसन्न्यसनो द्विजः ।
पुनर् निवर्तते ये च तेन संव्यवहारिणः ।
सर्वे ते कर्मचण्डालास् तेषां दृष्टा न निष्कृतिः ॥ ४.४५ ॥
सन्न्यस्य चापदं तीर्णः सकाशे तु गुरोर् अथ ।
लब्ध्वा मन्त्रैस् त्रिदण्डादीन् गृहीत्वा योगम् आचरेत् ॥ ४.४६ ॥
तेषां नाशे पुनः प्राप्ते गृहीत्वा मन्त्रवत् स्वयम् ।
समुद्रं गच्छ स्वाहेति नष्टान् अप्सु विनिक्षिपेत् ।
शिक्षेत यतिधर्मांश् च लिखितस्य वचो यथा इति ॥ ४.४७ ॥

आपन्नानां त्रिधा सन्न्यास उक्तः विधिनाविधिनापि वेत्युक्तत्वात् । कथञ्चित् कर्तुं शक्तो विधिना कुर्यात् । अशक्तः सन्न्यस्तं मयेति वाचा प्रैषमात्रम् उच्चारयेत् । तत्राप्य् अशक्तश् चेन् मनसैव सङ्गत्यागं कुर्यात् । इत्य् आपत्सन्न्यासविधिः ॥ ४.४८ ॥

**इति यतिधर्मसमुच्चये सन्न्यासप्रयोगो नाम **

चतुर्थं पर्व ॥ ४.४९ ॥

पञ्चमं पर्व

मुख्यकर्मविधिः

अथ यतीनां मुख्यकर्मोच्यते ॥ ५.१ ॥ तत्राह्ओशनाः

ब्रह्मचार्य् उपकुर्वाणो नैष्ठिको ऽप्य् अपरस् तथा ।
सदारो न्यस्तदारश् च वानप्रस्थो द्विधा स्मृतः ॥ ५.२ ॥
भिक्षू द्वौ भिक्षुसन्न्यासी वेदसन्न्यासिकस् तथा ।
बहुधा गृहिणो भिन्नाः शालीनादय एव ते ॥ ५.३ ॥
द्विधैवाश्रमिणां भेदश् चतुर्णां मनुर् अब्रवीत् ।
तेषां यो भिक्षुसन्न्यासी तस्येदं शृणुताधुना ॥ ५.४ ॥
इहामुत्रोपभोगेषु विरक्तः प्रव्रजेद् द्विजः ।
वैश्वानरीं निरूप्येष्टिं सर्ववेदसदक्षिणाम् इति ॥ ५.५ ॥

एवं परिव्राजकस्य द्विधा भेदो ऽभ्युपगतः ॥ ५.६ ॥ केचित् तु चतुर्विधत्वं वर्णयन्ति ।

चतुर्विधा भिक्षवस् तु कुटीचकबहूदकौ ।
हंसः परमहंसश् च यो यः पश्चात् स उत्तमः इति ॥ ५.७ ॥

एतद् अपि पाञ्चरात्रसिद्धं साङ्ख्यसिद्धं च न वेदसिद्धम् इति केचिद् आहुः ॥ ५.८ ॥ आपस्तम्ब इमं पक्षं प्रतिषेधति ।

सर्वतः परिमोक्षम् एके । सत्यानृते सुखदुःखे वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् । बुद्धे क्षेमप्रापणम् । तच् छास्त्रैर् विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणम् इहैव न दुःखम् उपलभेत । एतेन परं व्याख्यातम् इति [अप्ध् २.२१.१२–१७] ॥ ५.९ ॥

आह्आत्रिः

शिखिनश् च श्रुताः केचित् केचिन् मुण्डास् तु भिक्षुकाः ।
चतुर्धा भिक्षवो विप्राः सर्वे चैव त्रिदण्डिनः इति ॥ ५.१० ॥

आह पराशरः

तत्र परिव्राजकाश् चतुर्विधा भवन्ति । कुटीचका बहूदका हंसाः परमहंसाश् चेति । तत्र कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभमोहमदमात्सर्यादीन् परित्यज्य विधिवत् सन्न्यासं कृत्वा त्रिदण्डजलपवित्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मचर्यध्यानतत्पराः पुत्रादेर् एव भिक्षाकाले ऽन्नं यात्रामात्रम् उपयुञ्जानास् तस्यां कुटौ नित्यं वसन्त आत्मानं मोक्षयन्ते । बहूदका नाम त्रिदण्डकमण्डलुपक्ष्मपवित्रशिक्यकाषायवस्त्रधारिणो वेदान्तार्थावबोधकाः साधुवृत्तेषु ब्राह्मणेषु भिक्षाचर्यं चरन्त आत्मानं मोक्षयन्ते । हंसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनो गोमूत्रगोमयाहारा एकरात्रत्रिरात्रमासोपवासपक्षोपवासकृच्छ्रचान्द्रायणसान्तपनमहासान्तपन-पराकतुलापुरुषादीनि व्रतानि चरन्तो गोद्विजाढ्येषु पुण्येशु देशेषु वसन्त आत्मानं मोक्षयन्ते । परमहंसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनो ऽन्तर्वासोबहिर्वासधारिणो ग्रामैकरात्रवासिनो नगरतीर्थावसथेषु पञ्चरात्रिका भिक्षाकाले शीर्णपर्णपुटं कृत्वा ब्राह्मणकुलाद् एव भैक्षं गृहीत्वाष्टौ ग्रासान् एव भुञ्जानाः सन्ध्योपासनतत्परा नित्यं वृक्षमूले वसन्त आत्मानं मोक्षयन्त इति
॥ ५.११ ॥

तत्र मनुः वेदसन्न्यासिकानामाह ।

एष धर्मो ऽनुशिष्टो ऽन्यो यतीनां नियतात्मनाम् ।
वेदसन्न्यासकानां तु कर्मयोगं निबोधत इति [म्ध् ६.८६] ॥ ५.१२ ॥

ऋणानि त्रीण्य् अपाकृत्येति त्रयः श्लोका अस्मिन्न् अवसरे पठ्यन्ते केषुचित् प्रदेशेषु ।

ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ ५.१३ ॥
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ५.१४ ॥
सर्वेषाम् अपि चैतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ५.१५ ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ५.१६ ॥
चतुर्भिर् एतैर् अपि तु नित्यम् आश्रमिभिर् द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ५.१७ ॥
धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।
ह्रीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ ५.१८ ॥
दश चिह्नानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ५.१९ ॥
दशलक्षणकं धर्मम् अनुतिष्ठन्हि मानवः ।
वेदान्तान् विधिवच् छ्रुत्वा सन्न्यसेद् अनृणो द्विजः ॥ ५.२० ॥
सन्न्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् इति ॥ ५.२१ ॥
[म्ध् ६.८७–९६]

एवम् एव कुटीचक इति केचिद् आहुः । दश चिह्नानि धर्मस्येति चिह्नग्रहणम् आश्रमधर्मं प्रति शेषत्वख्यापनार्थम् । ततश् च सर्वैर् आश्रमिभिः स्वं स्वं धर्मम् अनुतिष्ठद्भिर् धृत्यादिदशधर्मोपेतैर् भवितव्यम् इति भावः ॥ ५.२२ ॥

तत्र भिक्षुसन्न्यासिनाम् आश्रमधर्म उच्यते । आह क्रतुः

साङ्ख्यं योगो हरेर् भक्तिर् अप्रमादो विरागता ।
एतत् सारम् अतः शेष आश्रमो धर्म उच्यते इति ॥ ५.२३ ॥

एतद् उक्तं भवति । साङ्ख्यं तत्त्वज्ञानम् । योगो ऽष्टाङ्गः षडङ्गो वा । हरेर् भक्तिर् ईश्वरोपासनं परमात्मनि स्नेहः । अप्रमादः सदा प्रतिबुद्धताः । विरागता विषयेष्व् अस्नेहता ॥ ५.२४ ॥ तथाह बृहस्पतिः

परमात्मनि यो रक्तो विरक्तो ऽपरमात्मनि ।
सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुम् अर्हति इति ॥ ५.२५ ॥

एतत् सारम् अतः शेष इति । एष एव प्रधानधर्म आश्रमस्य । शेषस् तु धर्मः सन्ध्यावन्दनादिलक्षण आश्रम एव आश्रमधर्मः स्वरूपम् एव । तन्निष्ठ आश्रमनिष्ठ एव स्यात् नाश्रमधर्मनिष्ठः । सन्ध्यावन्दनादयो व्यापारा आश्रमधर्माङ्गत्वम् आपन्ना न स्वयम् आश्रमधर्माः ॥ ५.२६ ॥ तथाह दक्षः

सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत् कुरुते कर्म न तस्य फलभाग् भवेत् इति ॥ ५.२७ ॥

तत्र साङ्ख्यमुच्यते । आह यमः

पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
प्रकृतिज्ञो विकारज्ञः स दुःखात् परिमुच्यते ॥ ५.२८ ॥
मनो बुद्धिर् अहङ्कारः खानिलाग्निजलानि भूः ।
एताः प्रकृतयस् त्व् अष्टौ विकाराः षोडशापरे ॥ ५.२९ ॥
श्रोत्राक्षिरसनाघ्राणं त्वक् च सङ्कल्प एव च ।
शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ।
उपस्थपादाव् इति च विकाराः शोडश स्मृताः ॥ ५.३० ॥

सङ्कल्पः अन्तःकरणानां वृत्तयः ।

चर्तुर्विंशकम् इत्य् एतज् ज्ञानम् आहुर् मनीषिणः ।
पञ्चविंशकम् अव्यक्तं षड्विंशः पुरुषोत्तमः ।
एतज् ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ॥ ५.३१ ॥
अशब्दम् अरसस्पर्शम् अरूपं गन्धवर्जितम् ।
निर्दुःखं सुसुखं शुद्धं तद् विष्णोः परमं पदम् ॥ ५.३२ ॥
अजं निरञ्जनं शान्तम् अव्यक्तं ज्ञानम् अक्षरम् ।
अनादिनिधनं ब्रह्म तद् विष्णोः परमं पदम् इति ॥ ५.३३ ॥

बृहस्पतिः

तद् एतत् परमं भूतं यस्माद् भूतान्य् अनेकशः ।
पृथिव्या इव भाण्डानि प्रभवन्ति विशन्ति च ॥ ५.३४ ॥
तद् एतत् परमं ज्योतिस् तस्यान्ये विस्फुलिङ्गवत् ।
विक्षिप्तं सूर्यचन्द्राग्निविद्युत्ताराग्रहादिषु ॥ ५.३५ ॥
स एष परमानन्दो याश् चान्याः सुखविप्रुषः ।
पिबन्ति पुण्यकर्माणो ब्रह्मेन्द्रपितृमानवाः ॥ ५.३६ ॥
नानात्वैकत्वभावेन सर्वभावस्थितं प्रभुम् ।
इदं तु परमैकत्वं परा सत्ता परा गतिः ॥ ५.३७ ॥

इत्य् उपक्रम्यान्ते च ।

य एवं ब्रह्म जानाति संसारात् स विमुच्यते इति ॥ ५.३८ ॥

आह शौनकः

पृथिव्य् आपस् तथा तेजो वायुर् आकाश एव च ।
पञ्चैतानि विजानीयान् महाभूतानि पण्डितः ॥ ५.३९ ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।
बुद्धीन्द्रियाणि जानीयात् पञ्चैवास्मिञ् छरीरके ॥ ५.४० ॥
मनो बुद्धिस् तथैवात्मा ह्य् अव्यक्तं च तथापरम् ।
इन्द्रियेभ्यः पराण्य् आहुश् चत्वारि कथितानि तु ॥ ५.४१ ॥
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ।
इन्द्रियार्थान् विजानीयात् पञ्चैव सततं बुधः ॥ ५.४२ ॥
हस्तपादाव् उपस्थं च जिह्वा पायुस् तथैव च ।
कर्मेन्द्रियाणि पञ्चैव नित्यम् अस्मिञ् छरीरके ॥ ५.४३ ॥
चर्तुर्विंशतिर् एतानि तत्त्वानि कथितानि तु ।
मत्वात्मानं तद्रहितं पुरुषं पञ्चविंशकम् ॥ ५.४४ ॥
यज् ज्ञात्वा तु विमुच्यन्ते यतयः शान्तबुद्धयः ।
एतत् तत् परमं गुह्यम् एतद् अक्षरम् उत्तमम् ॥ ५.४५ ॥

अशब्दम् अरसस्पर्शम् इत्यादि याम्यपाठ एव । एवम् अन्यत्राप्ईतिहासपुराणेषु मानवादिषु वेदान्तेषु च साङ्ख्यशब्दवाच्यं तत्त्वज्ञानम् अन्वेषणीयम् ॥ ५.४६ ॥

अथ ज्ञानतत्त्वस्य योग उच्यते । सो ऽष्टाङ्ग उक्तः पातञ्जले

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाङ्गानि । तत्र अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । स्थिरसुखम् आसनम् । प्राणगतिविच्छेदः प्राणायामः । स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार एवेन्द्रियाणां प्रत्याहारः । देशबन्धश् चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्यानम् । तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः
॥ ५.४७ ॥ [य्स् २.२९—३.३]

एषाम् अष्टानाम् अङ्गानां प्रत्याहारादीनि स्वरूपाङ्गानि देवदत्तस्येव हस्तादीनि इतराणि साधनत्वेनाङ्गानि । तेषाम् अन्तरङ्गविरोधे ऽन्तरङ्गाण्य् एव पालनीयानि ॥ ५.४८ ॥

तथा च भगवान् व्यासः

यमान् यतेत सततं बाधित्वापीतरान् बुधः ।
यमान् पतत्य् अकुर्वाणो नियमान् केवलं भजन् इति ॥ ५.४९ ॥

तानीमान्य् अङ्गानि व्याख्यायन्ते स्मृतिषु नानाप्रकारेण । तत्र तावत् क्रतुः

योगाङ्गैर् वा यमादिभिः [सेए ६.२३] ।

इत्य् उक्त्वाह ।

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।
ह्रीर् विद्या सत्यम् अक्रोध एतद् धर्मस्य लक्षणम् ॥ ५.५० ॥
अहिंसा समतास्तेयं क्षमादमशमादयः ।
तुष्टिर् अद्रोहताकल्कं निर्वैरत्वं यमाः स्मृताः ॥ ५.५१ ॥
विकल्पो दम्भ आलस्यं सङ्गः कर्मफलं भयम् ।
परिग्रहो ममत्वं च त्यागश् चोपयमाः स्मृताः ॥ ५.५२ ॥

एषां त्यागस् त्याग इत्य् अर्थः ।

कामरागद्वन्द्वनिद्रामोहक्षुत्पापचेतसाम् ।
द्वेषाहङ्कारलोभानां विजयाः संयमाः स्मृताः ॥ ५.५३ ॥
सन्नतिः शीलम् आस्तिक्यं योगो वृत्तं श्रुतं क्रिय ।
औदासीन्यं मृदु स्थैर्यं वैराग्यं च परा यमाः ॥ ५.५४ ॥
अप्रार्थनम् असङ्कल्पम् अस्पर्शनम् अदर्शनम् ।
ध्यानं प्रसादमाधुर्यं मौनं सन्नियमान् विदुः ॥ ५.५५ ॥

शौनकः

दश व्रतानि सर्वेषां यतीनां विहितानि वै ।
अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यापरिग्रहौ ॥ ५.५६ ॥
अक्रोधो गुरुशुश्रूषा शौचं दुर्वृत्तिवर्जनम् ।
वाङ्मनःकायचेष्टासु प्रमादस्य च वर्जनम् इति ॥ ५.५७ ॥

आह बोधायनः

अथैतानि व्रतानि भवन्ति । अहिंसा सत्यम् अस्तेयं मैथुनस्य च वर्जनं त्याग इति । पञ्चैवोपव्रतानि भवन्ति । अक्रोधो गुरुशुश्रूषाप्रमादः शौचम् आहारशुद्धिश् चेति [ब्ध् २.१८.२–३] ॥ ५.५८ ॥

यमः

अथादित्यो यमो राजा यतीनां भावितात्मनाम् ।
जगाद विहितान् धर्मान् वेदसन्न्यासिनाम् अपि ॥ ५.५९ ॥
अहिंसा सत्यम् अक्रोधो ब्रह्मचर्यं तपः श्रुतम् ।
अस्तेयाव्यभिचारौ च धर्मो दशविधः स्मृतः ॥ ५.६० ॥

तपसो वाङ्मनःकायभेदेन भिन्नत्वाद् दशविधत्वम् ।

सन्तोषो गुरुशुश्रूषा ह्य् अप्रमादः क्षमा दया ।
मौनम् आहारशुद्धिश् च शौचम् अष्टौ व्रतानि च ॥ ५.६१ ॥

ननु हिंसाभेदाद् अहिंसापि भिद्यते । हिंसा च दशविधा । तथा हि उद्वेगकरणं सन्तापकरणं रुजाकरणं शोणितोत्पादनं पैशुन्यं सुखापनयनम् अतिक्रमः सङ्कोचो हितप्रतिषेधो वध इति ॥ ५.६२ ॥ अप्रसिद्धांश् च भेदान् वृद्धजाबालिर् आह ।

हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्ता चोपकर्ता च खादकश् चाष्ट घातकाः इति ॥ ५.६३ ॥

सत्यं वायुर् आह ।

न धर्मयुक्तम् अनृतं हिनस्तीति मनीषिणः ।
तथापि तन् न वक्तव्यं प्रसङ्गो ऽप्य् एष दारुणः ॥ ५.६४ ॥

अस्तेयं च स एवाह

असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना ।
न चैवापद्गतेनापि स्तेयं कार्यं कदाचन ॥ ५.६५ ॥

ब्रह्मचर्यभेदं बृहस्पतिर् आह ।

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पो ऽध्यवसायश् च क्रियानिवृत्तिर् एव च ॥ ५.६६ ॥
एतन् मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यम् एतद् एवाष्टलक्षणम् ॥ ५.६७ ॥

अपरिग्रहं लिखित आह ।

संस्कृतां न वदेद् वाणीं बालवन् मूकवच् चरेत् ।
न द्रव्यसञ्चयं कुर्यान् मात्राम् अप्य् अन्यकालिकाम् ॥ ५.६८ ॥

शौचम् उपरि व्याख्यास्यते गर्गेण [सेए ६.५] ॥ ५.६९ ॥ स्वाध्यायं यम आहः ।

जप्येनापि नयेत् कालं ध्यानश्रान्तो यतिः सदा ।
ध्यानेन जपविश्रान्तः पुनर् ध्यायेत् पुनर् जपेत् ॥ ५.७० ॥
चत्वारः पाकयज्ञास् तु विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ ५.७१ ॥
विधियज्ञाज् जपो यज्ञो विशिष्टो दशभिर् गुणैः ।
उपांशु स्याच् छतगुणः सहस्रो मानसः स्मृतः इति ॥ ५.७२ ॥

मनुः

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ५.७३ ॥ [म्ध् ६.८३] वेदान्ताभिहितं प्रणवः । आपस्तम्बः
स्वाध्याय एवोत्सृजमानो वाचम् इति ॥ ५.७४ ॥ [अप्ध् २.२१.१०]

बोधायनः

सायम्प्रातर् अग्निहोत्रमन्त्राञ् जपेत् [ब्ध् २.१८.२०] । यो ऽग्निहोत्री भूत्वा प्रव्रजति तस्यायं विधिः ॥ ५.७५ ॥

ईश्वरप्रणिधानं कपिल आह ।

प्रातःस्नानं जपो मौनं नित्यम् एकान्तशीलता ।
नमस्कारोपवासौ च भक्तिर् विष्णौ तथा गुरौ ॥ ५.७६ ॥
आस्तिक्यं ब्रह्मसंस्पर्शः प्राणायामरतिस् तथा ।
त्रैकाल्यम् अर्चनं विष्णोः परमं मुक्तिसाधनम् ॥ ५.७७ ॥

अत्रिः

त्रैकाल्यम् अर्चनं विष्णोर् देवानां च तदात्मनाम् ।
नमस्कारार्चनादीनि कुर्यान् नान्यस्य कस्यचित् इति ॥ ५.७८ ॥

आह क्रतुः

ईश्वरो भगवान् विष्णुः परमात्मा महान् अजः ।
शास्ता चराचरस्यैको यतीनां परमा गतिः ॥ ५.७९ ॥

पुनः स एवाह

ध्यायते ऽर्चयते यो ऽन्यं विष्णुलिङ्गम् उपाश्रितः ।
कल्पकोटिशतैश् चापि गतिस् तस्य न विद्यते ॥ ५.८० ॥

अथापि स एवाह

पूजां पुरुषसूक्तेन वेदगुह्यस्तवैः स्तुतिम् ।
ॐ इत्य् एकाक्षरं ध्यायेद् अधियज्ञं तथा जपेत् ।
त्रिकं पुरुषसूक्तं च चतुष्कं प्राणसंयमैः ॥ ५.८१ ॥

त्रिकं प्रणवव्याहृतिगायत्र्यः । ता एव सशिरस्काश् चतुष्कम् । आसनं शङ्ख आह ।

शून्ये गृहे देवगृहे गुहायां गिरिगह्वरे ।
यत्र वा रमते बुद्धिस् तत्रासीत प्रसन्नधीः ॥ ५.८२ ॥
योगशास्त्रोक्तमार्गेण कृतासनपरिग्रहः ।
योगं युञ्जीत सततं सन्ध्यासु तु विशेषतः ॥ ५.८३ ॥

विश्वामित्रः

ततो निवातके रम्ये निम्नोन्नतविवर्जिते ।
कुशाजिनसुचेलानाम् उपर्य् उपरि विन्यसेत् ॥ ५.८४ ॥
पद्मासनं तु तत्रैव कृत्वाङ्गानि समं नयेत् ।
प्राणायामांस् ततः कुर्याद् यावत् कालं समाहितः ॥ ५.८५ ॥

प्राणायामप्रत्याहारधारणाध्यानानां लक्षणं शङ्ख आह ।

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान् गुणान् ॥ ५.८६ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥ ५.८७ ॥
संयमश् चेन्द्रियाणां हि प्रत्याहारः प्रकीर्तितः ।
मनःसंयमनं तज्ज्ञैर् धारणेति निगद्यते ॥ ५.८८ ॥
ब्रह्मणि ध्यानयोगेन देवदेवस्य दर्शनम् ।
ध्यानं प्रोक्तं प्रवक्ष्यामि ध्यानयोगम् अतः शुभम् ॥ ५.८९ ॥

ध्यानं समाधिः । ध्यानयोगस् तु ध्यानम् । तदाह ।

हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि ज्योतींषि सूर्यश् च हृदि सर्वं प्रतिष्ठितम् ॥ ५.९० ॥
स्वदेहम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद् विष्णुं पश्येद् धृदि स्थितम् ॥ ५.९१ ॥

ओङ्कारेण ब्रह्म ध्यायेद् अन्यांस् त्यक्त्वा शब्दादीन् इत्य् अभिप्रायः । तथा च श्रुतिः

ॐ इत्य् आत्मानं युञ्जीतेति ॥ ५.९२ ॥ [म्नु ५४०]

तथा ।

अन्या वाचो विमुञ्चथ । [मुउ २.२.५]

इत्युक्त्वाह ।

ॐ इत्य् एव ध्यायतात्मानम् इति । [मुउ २.२.६]
नानुध्यायेद् बहूञ् छब्दान् । [बउ ४.४.२१]

इति च ॥ ५.९३ ॥ आह यमः

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ५.९४ ॥

शब्दब्रह्म प्रणवः । यमः शङ्खश् च ।

रविमध्ये स्थितः सोमस् तस्य मध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितो ऽच्युतः ॥ ५.९५ ॥

विश्वामित्रः

प्रसीदति मनो यावत् तावच् चित्तं नियम्य तु ।
चिन्तयेद् धृदि मध्ये तु प्रदीप्तं सूर्यमण्डलम् ॥ ५.९६ ॥
तस्य मध्ये स्थितं सोमम् अग्निं ब्रह्म महच्छिखम् ।
सर्वविघ्नप्रशान्त्यर्थं हृत्पद्मे देवम् अच्युतम् ॥ ५.९७ ॥
शुद्धस्फटिकसङ्काशं चतुर्बाहुम् अनुस्मरेत् ।
ततः स निष्कलं ध्यायेद् ब्रह्मपूर्वम् अतन्द्रितः ॥ ५.९८ ॥

ब्रह्मपूर्वं प्रणवपूर्वं नारायणम् इत्य् अर्थः ।

सर्वं सर्वात्मकं तत्त्वं विष्ण्वाख्यं परमं पदम् ।
पुनः पुनः स्वचित्तस्थं निर्मलं यन् निरामयम् ॥ ५.९९ ॥
तद् ब्रह्म चाहम् एवास्मि सर्वगं त्व् आत्मनः परम् ।
निरस्य विषयासक्तिं सन्निरुध्य मनो हृदि ॥ ५.१०० ॥
यदा यस्य मनोभावं तद् एवं परमं पदम् ।
वीक्षितां बुद्धिम् आदद्यात् पुनर् अप्य् आत्मनीश्वरे ॥ ५.१०१ ॥
न निर्वेदं मुनिर् गच्छेन् निरुन्ध्याद् एव मानसम् ।
तावद् एव निरोद्धव्यं हृदि यावत् क्षयं गतम् ॥ ५.१०२ ॥
एतज् ज्ञानं च ध्यानं च शेषो ऽन्यो ग्रन्थविस्तरः ।
इन्द्रियेषु निरुद्धेषु मनसि स्पन्दवर्जिते ।
आत्मा प्रकाशते शुद्धो बोधाकारो निराकुलः इति ॥ ५.१०३ ॥

लिखितः

विचार्य च पुराणार्थान् वेदान्तान् भक्तिम् आस्थितः ।
विष्णुं सदा हृदि ध्यायेत् साकारं निष्कलं तु वा ॥ ५.१०४ ॥
इदं तु सर्वधर्माणां यद् योगेनात्मदर्शनम् ।
श्रेष्ठम् एतद् विरोध्य् अन्यत् त्यजेद् आवश्यकाद् ऋते ॥ ५.१०५ ॥

बृहस्पतिः

क्षमा तीर्थं दमस् तीर्थं तीर्थम् इन्द्रियनिग्रहः
सर्वभूतदया तीर्थं ध्यानतीर्थम् अनुत्तमम् ॥ ५.१०६ ॥
एतानि पञ्च तीर्थानि सत्यं षष्ठं तु सर्वदा ।
देहे तिष्ठन्ति सर्वत्र तेषु स्नानं समाचरेत् ॥ ५.१०७ ॥
न तथा पुष्करे स्नातो गङ्गायां कुरुजाङ्गले ।
मुच्यते पुरुषः पापैर् यथा स्नातः क्षमादिषु ॥ ५.१०८ ॥
निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन् नरः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्करं तथा ॥ ५.१०९ ॥
इदं तीर्थम् इदं नेति ये नरा भेदवादिनः ।
तेषां विधीयते तीर्थगमनं तत्फलं च यत् ॥ ५.११० ॥
सर्वं ब्रह्मेति यो वेत्ति नातीर्थं तस्य किञ्चन ।
जाग्रत्स्वप्नसुषुप्तेषु ब्रह्मण्य् एव स वर्तते ॥ ५.१११ ॥
स एव परमो धर्मो ये त्व् अन्ये तस्य बिन्दवः ।
यज्ञं दानं तपो वेदास् तीर्थरूपेण संस्थिताः ॥ ५.११२ ॥

योगं योगाङ्गानि च प्राणायामप्रत्याहारधारणाध्यानसमाधीन् क्रतुः स्तौति ।

रत्नैर् ब्रह्माण्डम् आपूर्य वेदविद्भ्यो निवेदिते ।
क्षयिष्णु तत्फलं दृष्टं न विष्णोः स्मरणं सकृत् ॥ ५.११३ ॥
पञ्चाग्निजलमध्यस्थाः खस्थाश् चैवाग्निधूमपाः ।
प्राणायामस्थितस्यैते कलां नार्हन्ति षोडशीम् ॥ ५.११४ ॥
त्वक्पत्रपुष्पशाकाम्बुफलमूलानिलादनैः ।
द्वादशाब्दैस् तत्त्वशुद्धिः प्रत्याहारेण वत्सरात् ॥ ५.११५ ॥
सुस्थेयं शक्तिचक्रासिबाणाश्रयहितैषिणा ।
धारणायां तु योगस्य दुःस्थेयम् अकृतात्मभिः ॥ ५.११६ ॥
शक्यते ऽग्नौ हिमे युद्धे स्वाध्याये तपसि व्रते ।
पापध्वंसिन्य् अवस्थातुं न स्थाने क्षणम् अप्य् अलम् ॥ ५.११७ ॥
कुष्ठज्वरगरव्याधीन् मर्षयन्तीह मानवाः ।
ये जना दुःसहा लोके योगनिश्चलकारकाः ॥ ५.११८ ॥
त्यक्तबन्धस्य शुद्धस्य समाधिस्थस्य योगिनः ।
विरजाकाशकल्पस्य सा काष्ठा वैष्णवी गतिः ॥ ५.११९ ॥
रवीन्दुवह्निद्युतयः शुद्धस्फटिकनिर्मलाः ।
तरन्ति तमसः पारं योगाङ्गैस् तोषिते हरौ ॥ ५.१२० ॥
मनोवाग्देहजान् दोषान् अज्ञानोत्थान् प्रमादतः ।
सर्वान् दहति योगाग्निस् तूलराशिम् इवानलः ।
भक्तियुक्तो हरिं पश्येद् योगदीपिकया सदा ॥ ५.१२१ ॥

योगावसानं हारीत आह ।

आत्मलाभसुखं यावत् तावद् ध्यानम् उदाहृतम् ।
श्रुतिस्मृत्युदितं कर्म तदूर्ध्वं च समाचरेत् ॥ ५.१२२ ॥

निष्कलध्यानाशक्तौ ध्यानं बृहस्पतिर् आह ।

ब्रह्मण्य् एव निराकारे ध्यानं कर्तुम् अशक्नुवन् ।
प्राणायामेन संशुद्धस् तन्मूर्तिध्यानम् आचरेत् ॥ ५.१२३ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥ ५.१२४ ॥
प्राणायामैर् दहेद् दोषान् मनोवाक्कायसम्भवान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ५.१२५ ॥
ध्मायमानं यथा भ्रश्येद् धातूनां सम्भृतं मलम् ।
तथेन्द्रियकृतो दोषः प्राणायामेन दह्यते ॥ ५.१२६ ॥
आधानं रोधम् उत्सर्गं वायोस् त्रिस् त्रिः समभ्यसेत् ।
ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥ ५.१२७ ॥
रक्तं पितामहं ध्यायेद् विष्णुं नीलोत्पलप्रभम् ।
श्वेतं त्रिलोचनं शम्भुं संसारार्णवतारणम् ॥ ५.१२८ ॥
योगाभ्यासपरो नित्यम् एवं यो वर्तते यतिः ।
प्राप्तवैराग्यसर्वस्वः स याति परमां गतिम् ॥ ५.१२९ ॥
वासुदेवः परं ब्रह्म परमात्मा जगन्मयः ।
तस्यैव मूर्तयस् त्व् एता भिद्यन्ते ह्य् आख्यया त्रिधा ॥ ५.१३० ॥
नारायणं जगद्योनिं सर्वलोकेश्वरं हरिम् ।
चिन्तयेद् अन्वहं भक्त्या सर्वकारणकारणम् ॥ ५.१३१ ॥
शङ्खचक्रधरं सौम्यं चतुर्बाहुं किरीटिनम् ।
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ॥ ५.१३२ ॥
पीताम्बरम् उदाराङ्गं प्रसन्नेन्दुनिभाननम् ।
श्यामलं पुण्डरीकाक्षं स्फुरन्मकरकुण्डलम् ॥ ५.१३३ ॥
सन्तापनाशनं सद्यः कालमेघम् इवोदितम् ।
सर्वतेजोमयं पुण्यं शरण्यं शरणार्थिनाम् ॥ ५.१३४ ॥
चिन्तयेत् पुण्डरीकाक्षं नारायणम् अनामयम् ।
मनसा षोडशैः सम्यग् उपचारैः प्रयत्नतः इति ॥ ५.१३५ ॥

आह दत्तात्रेयः

अष्टादशोपचारेण भगवान् पुरुषोत्तमः ।
हृदये ऽग्नौ तथादित्ये पूज्यते च मुमुक्षुभिः ॥ ५.१३६ ॥
पलाशैः पद्मकुसुमैर् अर्चनं शस्यते हरेः ।
एवम् अभ्यर्च्य देवेशं नारायणम् अतन्द्रितः ॥ ५.१३७ ॥
तद्रूपं चिन्तयेद् योगी प्रणवेन समाहितः ।
साकारं वा यथायोगं नित्यं मनसि धारयेत् ॥ ५.१३८ ॥
आदित्यवर्णं पुरुषं पुण्डरीकनिभेक्षणम् ।
शङ्खचक्रगदापाणिं पीतनिर्मलवाससम् ॥ ५.१३९ ॥
किरीटचारुकेयूरकटकादिविभूषितम् ।
श्रीवत्सवक्षसं श्रीशं कौस्तुभोद्भ्राजिवक्षसम् ॥ ५.१४० ॥
श्यामलं वा हृषीकेशं पुण्डरीकाक्षम् अच्युतम् ।
हृत्पद्मकर्णिकामध्ये स्थितम् आसीनम् एव वा ॥ ५.१४१ ॥
एवं सञ्चिन्तयेद् देवं सर्वलोकमहेश्वरम् ।
समस्तक्लेशहन्तारं कार्यकारणसंस्थितम् ॥ ५.१४२ ॥

योगाभ्यासफलं शङ्ख आह ।

सर्वेषु योगशास्त्रेषु वेदान्तेषु च निष्ठितः ।
सदा तद् भावयेद् योगी तैस् तैर् ब्रह्म विशेषणैः ॥ ५.१४३ ॥
पुनः पुनर् अनिर्विण्णो ज्योतिस् तल् लभते ध्रुवम् ।
सौम्यम् आनन्दम् अद्वैतं बहुशस् तत्प्रकाशितम् ।
तन्मयत्वेन लब्ध्वासौ परं निर्वाणम् ऋच्छति ॥ ५.१४४ ॥

आह याज्ञवल्क्यः

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ ५.१४५ ॥

आह विश्वामित्रः

एवं हि ध्यायतस् तस्य ब्रह्मनिष्ठस्य योगिनः ।
साङ्ख्यम् आनन्दम् अद्वैतं परं ब्रह्म प्रकाशते ॥ ५.१४६ ॥
प्रकाशितेन तत्त्वेन मुक्तिर् उक्ता मनीषिणाम् ।
नान्येन योगहीनेन कर्महीनेन लभ्यते ॥ ५.१४७ ॥
तस्मात् कर्म च कर्तव्यं यथाकालं दिने दिने ।
ज्ञानयुक्तं च तत् कर्म कर्तव्यं मोक्षकाङ्क्षिभिः ॥ ५.१४८ ॥

बृहस्पतिः

एवं भावयतस् तस्य व्यपैत्य् अज्ञानवासना ।
ज्ञानदीपोदयश् च स्यात् तमः सूर्योदये यथा ॥ ५.१४९ ॥
कुर्याच् छुद्धिम् अशुद्धस्य सर्वेणानेन चेतसः ।
तस्मिंस् तु विमलीभूते लयो ब्रह्मणि नान्यथा ॥ ५.१५० ॥

मुक्तस्वरूपं मेधातिथिर् आह ।

विमुक्तः परम् अप्येति सरितः सागरं यथा ।
तदाख्यस् तन्मयो भूत्वा स पुनर् नेह जायते ॥ ५.१५१ ॥
साधिभूताधिदैवस्य साधियज्ञस्य चैव हि ।
आत्मा भवति सर्वस्य तथैवाध्यात्मिकस्य च ॥ ५.१५२ ॥
स ब्रह्मा स शिवो विष्णुः शक्रः सो ऽहर्पतिर् यमः ।
हुताशो निरृतिर् वायुर् ईशानः सर्वभूतराट् ॥ ५.१५३ ॥
वेदा यज्ञास् तथा देवाः पशवो दक्षिणादयः ।
श्रद्धादयो हविः कालः क्रिया कर्ता धृतिर् विधिः ।
सर्वात्मा सर्वभूतेशः सर्वस्यायतनं च सः इति ॥ ५.१५४ ॥

साङ्ख्ययोगं तत्फलं च क्रतुर् आह ।

कर्मेन्द्रियाणि मनसा बुद्धिं ज्ञानेन शोधयेत् ।
वृत्तिं संशोधनेनैव विद्याविद्ये गुरोर् गिरा ॥ ५.१५५ ॥
राज्ञी बुद्धिर् गुणो ऽमात्यः प्रतिहारो मनो मतम् ।
सेनापतिम् अहङ्कारं कारयेद् अभिमानतः ॥ ५.१५६ ॥
दशग्रामाधिपतयस् तेषां सङ्कल्पनं विना ।
त्रिभिर् आवरणैर् युक्तं पाञ्चभूतं महत् पुरम् ॥ ५.१५७ ॥
योगैश्वर्यासनारूढो राजेव पुरुषः स्थितः ।
पश्यते गुणवैषम्यं सर्वं ज्ञात्वा तु साक्षिवत् ॥ ५.१५८ ॥
भावनाकल्पनाचिन्ताभयविक्षेपवर्जितः ।
सम्बन्धम् अर्थधर्मांश् च देशजातिगुणाश्रयान् ॥ ५.१५९ ॥
सर्वभावान् परित्यज्य सद् अस्मीत्य् एव भावयेत् ।
दिवारात्रौ सदैकाकी भूत्वा मनसि चिन्तयेत् ।
ततो रागक्षयाद् आत्मा परे विशति तत्क्षणात् इति ॥ ५.१६० ॥

**इति यतिधर्मसमुच्चये मुख्यकर्मविधिर्नाम **

पञ्चमं पर्व ॥ ५.१६१ ॥

षष्ठं पर्व

अहोरात्रक्रिया

अथ यतीनाम् अहोरात्रक्रियोच्यते । तत्रानुक्तम् अपेक्षितं ब्रह्मचारिधर्माद् गृहीतव्यम् ।

इतरेषां चैतद् अविरोधि । [ग्ध् ३.१०]

इत्य् अनुज्ञानात् । तत्राप्य् असम्भवे गृहस्थधर्मेभ्यो गृहीतव्यम् ॥ ६.१ ॥ तथा च भगवान् व्यासः

सर्वाश्रमाणां धर्माः स्युर् ये ऽविरुद्धाः परस्परम् ।
सर्वाश्रमाणां ते सर्वे साधारण्यम् अवाप्नुयुः इति ॥ ६.२ ॥

विश्वामित्रः

उषःकाले समुत्थाय शौचं कृत्वा विधानतः ।
दन्तकाष्ठम् अथाचम्य पर्ववर्जम् अतन्द्रितः ॥ ६.३ ॥
कृतस्नानो जपेत् तावद् यावद् आदित्यदर्शनम् ।
उत्तिष्ठ ब्रह्मणेत्यादिर् उत्थाने मन्त्र ईरितः ॥ ६.४ ॥

गर्गः

अथ भिक्षूणां नियमसंयमशौचप्रायश्चित्तं व्याख्यास्यामः । तत्र पूर्वं मूत्रशौचम् । मृत्तिकया पर्वत्रयपूरणं कृत्वा लिङ्गं चतसृभिः प्रक्षालयेत् सव्यहस्तं द्वादशभिः द्वौ हस्ताव् अष्टाभिर् मृत्तिकाभिः । एवं यथोक्तं लिङ्गमूत्रशौचं कृत्वा पश्चाद् गुदशौचम् आचरेत् । प्रथमा प्रसृतिर् एका दातव्या द्वितीया च तृतीया च तदर्धार्धेन । एवं यथोक्तक्रमेण विंशत्या मृत्तिकाभिर् गुदशौचं कृत्वा द्विगुणेन सव्यहस्तं प्रक्षालयेत् द्वौ हस्ताव् अष्टाविंशत्या । मृत्तिकात्रयेण पादौ प्रक्षाल्य हस्तौ चाचम्य प्राणायामत्रयं कृत्वा पुनराचामेत्
॥ ६.५ ॥
मृत्तिकाभावे वालुकाभिर् यदा शौचं करोति तदा द्विगुणं कुर्यात् । स्वस्थावस्थो भिक्षुः शौचशैथिल्यं न कुर्यात् । शौचशैथिल्ये प्रत्यवायो भवति । तत्प्रत्यवायनिराकरणाय प्राणायामत्रयं कृत्वा पुनर् आचामेत् ॥ ६.६ ॥
ब्राह्मे मुहूर्ते उत्थाय वसुर् अण्वो विभुर् इति ।
अनेन परमात्मानं ध्यायेद् अहर् अहर् हृदि ॥ ६.७ ॥
तत आवश्यकं कृत्वा पूर्वम् आदाय मृत्तिकाम् ।
शौचं चतुर्गुणं कुर्याद् विहिताद् गृहमेधिनः ।
आददानस् तु वै पश्चात् सचेलो जलम् आविशेत् ॥ ६.८ ॥

देवलः

शोधयेच् च चतुर्लिङ्गम् अङ्गुलिनां त्रिपर्वकम् ।
यथा मृत्तिकया पूर्णं सा सङ्ख्यैका मृदः स्मृता ॥ ६.९ ॥
हस्तं द्वादशभिः सव्यम् अष्टाभिः संहतौ करौ ।
गुदशौचं ततः कुर्याद् विंशतिस् तु मृदो गुदे ॥ ६.१० ॥
प्रथमा प्रसृतिर् देया उत्तरे तु तदर्धके ।
चत्वारिंशत् करे सव्ये करयोः साष्टविंशतिः ॥ ६.११ ॥
पादयोश् च त्रिर् एकस्मिन् द्विगुणं वालुका यदि ।
द्विर् आचम्य त्रिर् आचम्य प्राणान् अप्य् आचमेत् पुनः इति ॥ ६.१२ ॥

स एवाह

विण्मूत्रकरणात् पूर्वम् आदद्यान् मृत्तिकां सदा ।
आददानस् तु वै पश्चात् सचेलो जलम् आविशेत् ॥ ६.१३ ॥

आह जमदग्निः

अन्यद् एव दिव शौचम् अन्यद् रात्रौ विधीयते ।
अन्यथा बाधमानेषु स्वस्थादिषु यथोदितम् ॥ ६.१४ ॥
यथोदितं दिव शौचम् अर्धं रात्रौ विधीयते ।
आतुरस्य तदर्धं स्यात् तदर्धं पथि गच्छतः ॥ ६.१५ ॥

देवलः

एको द्वौ वा त्रयो मूत्रे पुरीषे चाथ वा पुनः ।
प्राणायामान् यतिः कुर्याद् देशकालाद्यपेक्षया ॥ ६.१६ ॥

स एवाह

ध्याने दैवतपूजायां भोजने दन्तधावने ।
अवश्यकार्ये स्नाने च षट्सु मौनं विधीयते ॥ ६.१७ ॥

वायुः

आकर्णप्रावृतशिरा अप्सु यानगतस् तथा ।
अधौतपादस् तिष्ठन् वा जल्पन् मुक्तशिखो ऽपि वा ।
यज्ञोपवीतेन विना स्वाचान्तो ऽप्य् अशुचिर् भवेत् ॥ ६.१८ ॥

देवलः

विरिक्तवान्तविण्मूत्रकरणेष्व् अथ सन्ध्ययोः ।
स्नात्वान्तरान्तरादित्यं प्राणायामत्रयं चरेत् ॥ ६.१९ ॥
एकेन प्रणवेनैव प्राणायामा निशि स्मृताः ।
मध्याह्नकाले नैकेन काष्ठस्थो नाचमेद् यतिः ॥ ६.२० ॥

गर्गः

ब्रह्मचारी यतिश् चैव अन्तर्लिङ्गं न शोधयेत् ।
अन्तर्लिङ्गस्य शौचेन तयोश् चान्द्रायणं चरेत् ॥ ६.२१ ॥

ततो दन्तधावनं कृत्वा स्नानं कुर्यात् । क्रतुर् आह ।

यतिर् योगी ब्रह्मचारी शतायुः सत्यवाग् व्रती ।
सती च दानशीलश् च स्नाताः शुद्धाश् च ते सदा ॥ ६.२२ ॥
प्राक्शौचं नैव च स्नायाद् ब्राह्मं वा स्नानम् इष्यते ।
वृद्धातुराणाम् उष्णाभिर् योगाङ्गैर् वा यमादिभिः ।
अब्लिङ्गैर् वारुणं स्नानं कुर्यान् मन्त्रैः सदा यतिः ॥ ६.२३ ॥

दक्षः

उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथाविधि ।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥ ६.२४ ॥
अत्यन्तमलिनः कायो नवद्वारसमन्वितः ।
स्रवत्य् एव दिवारात्रं प्रातःस्नानं विशोधनम् ॥ ६.२५ ॥
उपर्य् उषसि यत् स्नानं सन्ध्यायाम् उदिते ऽपि वा ।
प्राजापत्येन तत् तुल्यं सर्वपापप्रणाशनम् ॥ ६.२६ ॥
प्रातर् उत्थाय यो विप्रः सन्ध्यास्नानं समाचरेत् ।
सप्तजन्मकृतं पापं त्रिभिर् वर्षैर् व्यपोहति ॥ ६.२७ ॥
ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति वै श्रुतिः ॥ ६.२८ ॥
गुणा दश स्नानपरस्य साधो
रूपं च तेजश् च बलं च शौचम् ।
आयुष्यम् आरोग्यम् अलोलुपत्वं
दुःस्वप्ननाशश् च तपश् च मेधा ॥ ६.२९ ॥

कपिलः

प्रातः स्नाने चासमर्थो नाभेर् अधः प्रक्षाल्य जलार्द्रेण कर्पटेन सशिरस्कम् अङ्गम् अमलं कृत्वान्तर्वासो विपरिधाय सन्ध्याम् उपासीत । नित्यं मध्याह्नाद् अर्वाग् ऊर्ध्वं वा स्नायात् । अथाचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् ॥ ६.३० ॥

विश्वामित्रः

प्रातःस्नाने त्व् अशक्तश् चेत् कापिलस्नानम् आचरेत् ।
तस्मिन्न् अप्य् असमर्थश् चेन् मन्त्रस्नानं समाचरेत् ॥ ६.३१ ॥

अङ्गिराः

स्नानकाले तु सम्प्राप्ते वस्त्रार्धं परिधापयेत् ।
तस्यार्धं जपकाले तु कटिवेष्टनशाटिकाम् ॥ ६.३२ ॥

एवं सवनत्रये स्नानं कुर्यात् । मार्जनमन्त्राः पठ्यन्ते अव ते हेड उद् उत्तमं दधिक्राव्ण आपो हि ष्ठेति तिसृभिः । हिरण्यवर्णा इति चतस्रः पवमानानुवाकश् च मार्जने विहिताः ॥ ६.३३ ॥

अथ मन्त्राचमनम् । तत्र क्रतुः

चतुष्केणाप आचम्य द्रुपदाद्यघमर्षणैः ।
मार्जयित्वा च पूताद्भिः पितृदेवांश् च तर्पयेत् इति ॥ ६.३४ ॥

अस्यार्थः चतुष्केणैव मन्त्रेण चतुष्कृत्वः पिबेद् अप इति । मनुः

दशभिः प्रणवैर् युक्तां सप्तव्याहृतिपूर्विकाम् ।
गायत्रीं शिरसोपेताम् आहुः पापप्रणाशिनीम् इति ॥ ६.३५ ॥

अयं वेदगुह्यो ऽनुवाकश् चतुष्कः । प्रणवव्याहृतिगायत्र्यः सशिरस्काश् चतुष्क इत्य् एके । देवलः

त्रिपदेत्य् अनयैवर्चा साघमर्षणसूक्तया ।
प्रोक्ष्याङ्गं चुलुकैर् विष्णुस् तर्प्यो द्वादशनामभिः ॥ ६.३६ ॥
प्रणवाद्यैर् नमो ऽन्तैस् तु प्रतिमन्त्रं यतिः शुचिः ।
तर्पयेद् एकहस्तेन पूर्वं द्वादशनामभिः ॥ ६.३७ ॥

ॐ केशवाय नम इत्यादि । अथ देवतर्पणं पितृतर्पणं च ।

गोशृङ्गमात्रम् उद्धृत्याञ्जलिना तर्पयेत् सुरान् ।
पितॄंश् च तर्पयेत् पश्चात् पूर्ववत् सुकृताञ्जलिः ॥ ६.३८ ॥
पैतृकं देवतीर्थेन तथा यज्ञोपवीतिना ।
अन्ते महर् नमो वाच्यं तर्पयामीति चोच्चरेत् इति ॥ ६.३९ ॥

ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ॐ सुवस् तर्पयामि । ॐ भूर्भुवःसुवर्महर्नमस् तर्पयामीति । ॐ भूः स्वधोम् । ॐ भुवः स्वधोम् । ॐ सुवः स्वधोम् । ॐ भूर्भुवःसुवर्महर्नमः स्वधोम् । स्वधान्तम् एतत् ॥ ६.४० ॥ स्नानं समाप्य त्रीन् प्राणायामान् कृत्वा मन्त्राचमनादि सन्ध्योपासनं पूर्ववत् । आचमनादिषु पञ्चसु जलपवित्रस्य सम्बन्धः । विद्यमाने जलपवित्रे ऽन्येनाचमनमार्जन-तर्पणादित्योपस्थानकुण्डिकापूरणसावित्रीजपान् यः करोति तदास्य सर्वं निष्फलं

भवति ॥ ६.४१ ॥ मेधातिथिः

स तेनाचमनं कुर्यान् मार्जनं तर्पणं तथा ।
उपस्थानं सहस्रांशोः कुण्डिकायाश् च पूरणम् इति ॥ ६.४२ ॥

गालवः

सदा जलपवित्रेण मार्जनाचामतर्पणम् ।
उपस्थानं रवेस् चापि यो यतिः कुरुते न च ।
सर्वं तन् निष्फलं तस्य प्रायश्चित्तम् अथाचरेत् ॥ ६.४३ ॥

अत्रिः

उद्धृतासु स्रवन्तीषु ह्रदेषु विमलेषु च ।
वस्त्रपूता न कर्तव्या आपः शुद्धा इति श्रुतिः ॥ ६.४४ ॥

हारीतः

स्नात्वा चाचम्य विधिवत् तिष्ठन्न् आसीन एव वा ।
बिभ्रज्जलपवित्रं चाप्य् अक्षसूत्रं करद्वये ॥ ६.४५ ॥
तद्वत् पवित्रे गोवालकृते दुष्कृतनाशने ।
उदयाद् विधिवत् सन्ध्याम् उपास्य त्रिकजप्यवत् ॥ ६.४६ ॥
मित्रस्य चर्षणीत्याद्यैर् उपस्थाय रविं त्रिभिः ।
प्रातः सायं चोपतिष्ठेद् वारुणीभिश् च पञ्चभिः ॥ ६.४७ ॥
त्रिकालं दद्याद् अर्घ्यं तु लोहितार्काय सो यतिः ।
भुक्तोत्तरे च तद् दद्यात् परमात्मपरायणः ॥ ६.४८ ॥

भुक्तोपस्थानम् उद्वयेन भिक्षाकाले हंसमन्त्रेण ।

दिवाकरोदये दद्यात् सावित्र्यार्घ्यं समाहितः ।
जपमध्यगते भानौ जपान्ते ऽर्घ्यं प्रदापयेत् ॥ ६.४९ ॥

देवलः

उपस्थानं प्रकुर्वीत भास्करस्य त्रिसन्ध्यकम् ।
प्रदक्षिणं ततः कुर्याज् जानुभ्यां शिरसा नमेत् ॥ ६.५० ॥
न नामग्रहणं कुर्याद् आत्मनः प्रणमेद् रविम् ।
पूर्ववत् तर्पयित्वाथ जपेत् सम्यक् समाहितः इति ॥ ६.५१ ॥

बोधायनः

वारुणीभिः सायंसन्ध्याम् उपतिष्ठेत मैत्रीभिः प्रातः ॥ ६.५२ ॥ [ब्ध् २.१८.२१] शौनकः
सुप्तोत्थितो ऽभिध्यायेत् । अथ कृतावश्यक्रियः शुद्ध आचान्तो दन्तधावनपूर्वकम् उपर्य् उषसि यथाविधि स्नात्वापोमन्त्रवद् आपो हि ष्ठेति तिसृभिर् मार्जयित्वा पूर्वाभिमुखो गायत्र्याप ऊर्ध्वं विक्षिप्य दर्भपाणिर् आदित्योदयात् तिष्ठन् गायत्रीम् अभ्यसेत् । अथ जपध्यानस्तुतिभिर् अहःशेषं समापयेत् ॥ ६.५३ ॥

कपिलः

भूम्यां पादौ प्रतिष्ठाप्य जप्यं भोजनम् अर्चनं च कुर्यात् । अथ तिष्ठन् प्राङ्मुख आसीनो वा पवित्रपाणिर् अक्षसूत्रैर् अङ्गुलिभिर् वा यथाशक्ति त्रिकं जपेत् । त्रिसन्ध्यं प्राणायामत्रयं कुर्यात् । अज्ञातप्राणिवधशुद्धये जलपवित्रेणाचमनमार्जनतर्पणकमण्डलुपूरणादि कुर्यात् । सजलाञ्जलिर् आदित्योपस्थानम् इति ॥ ६.५४ ॥

एवं सन्ध्योपासनं कृत्वा ततः पूर्वोक्तं योगमाचरेत् । विश्वामित्रः

कृतस्नानो जपेत् तावद् यावद् आदित्यदर्शनम् ।
ततो निवातके रम्ये निम्नोन्नतविवर्जिते ॥

इत्यादि ॥ ६.५५ ॥ एवं योगं कृत्वा तस्यैवं विदुषो यज्ञस्येत्य् उक्तकर्मसम्पादनं च कृत्वा ततो योगाद् विरम्य जपित्वा गत्वा ग्रामैकरात्रचारी चेद् ग्रामान्तरं गच्छेत् । तदाह शङ्खः

आत्मलाभसुखं यावत् तावद् ध्यात्वा शनैः शनैः ।
विरम्य योगात् प्रणवं जपेत् स्वाध्यायम् एव च ।
अन्यत्र विहरेद् ग्रामाद् ग्रामान्तरम् इति स्थितिः ॥ ६.५६ ॥

यदि ग्रामान्तरं न गच्छेत् तदा स्तुतिजपध्यानादि कुर्वन्न् आसीत । तद् आह बृहस्पतिः

उशसः पूर्वम् उत्थाय कृतावश्यक्रियः शुचिः ।
गायत्रीम् अभ्यसेत् तावद् यावद् आदित्यदर्शनम् ॥ ६.५७ ॥
प्राणायामैर् जपैर् ध्यानैः स्तुतिभिश् चेतिहासकैः ।
पुराणैर् वेददृष्टैश् च किञ्चिद् अह्नो ऽवशेषयेत् ॥ ६.५८ ॥

इति प्रातःकाल्यं समाप्तम् ॥ ६.५९ ॥

अथ मध्याह्नकर्मोच्यते । तत्राह शौनकः

अथ यथाविधि स्नात्वाचम्य आपो हि ष्ठा मयो भुव इति तिसृभिर् मार्जयित्वान्तर्जलगतो ऽघमर्षणेन षोडशप्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वा मृदम्भसा जङ्घयोः शौचं कृत्वा अन्यत् प्रयतं कौपीनं बहिर्वासश् च परिधाय अप आचम्य ॐ भूर् भुवः सुवर् इति जलपवित्रम् आदाय तर्पयति ॐ भूस् तर्पयामीति ॥ ६.६० ॥

पूर्ववत् सुकृताञ्जलिर् इत्यन्तम् [सेए ६.३८] । अथ उद् उ त्यं चित्रम् इति द्वाभ्याम् आदित्यम् उपतिष्ठते । प्राणायामान् षड् धारयित्वा गायत्र्याष्टशतं जपेद् इति ॥ ६.६१ ॥ बोधायनः

उद् उ त्यं चित्रम् इति द्वाभ्याम् आदित्यम् उपतिष्ठते । ॐ इति ब्रह्म ब्रह्म वा एतज् ज्योतिः य एष तपति एष वेदो य एष तपति वेद्यम् एतद् य एष तपति । एवम् एवैष आत्मानं तर्पयति । आत्मने नमस्करोति । आत्मा ब्रह्म । आत्मा ज्योतिर् इति । अथ सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो ऽपरिमितकृत्वः । ॐ भूर् भुवः सुवर् इति जलपवित्रम् आदायापो गृह्णाति [ब्ध् २.१७.३९–४२] ॥ ६.६२ ॥

हारीतः ।

स्नात्वा ह्य् आचम्य विधिवज् जलपूतास्रवेण वै ।
वारिणा तर्पयित्वा तु मन्त्रवद् भास्करं नमेत् ॥ ६.६३ ॥

क्रतुः

उद् उ त्यं चित्रं तच् चक्षुः शिवसङ्कल्पं पौरुषम् ।
सूक्तं च वैष्णवं भिक्षुः स्नात्वार्कस्याग्रतो जपेत् ॥ ६.६४ ॥
प्रातः सायं चोपतिष्ठेत् सूर्यं मैत्रैश् च वारुणैः ।
भुक्ते ग्रामे ऽह्नि भिक्षार्थी हंसमन्त्रेण पर्यटेत् ॥ ६.६५ ॥
त्रिभिस् त्रिभिर् वाच्यलिङ्गैः पावमान्यघमर्षणैः ।
मार्जयित्वा सुपूताद्भिर् गायत्र्यष्टशतं जपेत् ॥ ६.६६ ॥

विश्वामित्रः

मध्याह्ने च ततः स्नात्वा सावित्रीं च समाहितः ।
जपं कृत्वा तु मेधावी वैदिकं किञ्चिद् आचरेत् ॥ ६.६७ ॥
वैष्णवं पावमानं च वारुणं रौद्रम् एव च ।
सौरं चोपनिषच् चैव जप्त्वा शुद्ध्यर्थम् आत्मनः ।
ध्यानं च विधिवत् कृत्वा ततो भिक्षां समाचरेत् ॥ ६.६८ ॥

हारीतः

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ।
गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत् परं पदम् ।
स्थित्यर्थम् आत्मनो नित्यं भिक्षाटनम् अथाचरेत् ॥ ६.६९ ॥

देवलः

ऋग्वेदादीञ् जपेन् मन्त्रान् स्तोकांश् च प्राङ्मुखो यतिः ।
तेषां च नस्त्य् अनध्यायो नित्यकर्म हि तत् स्मृतम् ॥ ६.७० ॥
वैदिकेन विधानेन पूजां कुर्याद् धरेस् ततः ।
अभावे वेदमन्त्राणां पाञ्चरात्रोदितेन वा ॥ ६.७१ ॥

मनुः

अह्नि रात्रौ च यान् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ६.७२ ॥ [म्ध् ६.६९]

कथं पूजां प्रकुर्वीतेति । पुरुषसूक्तेन वेदगुह्यैर् अन्यैर् मन्त्रैश् च फलपुष्पोत्पाटने प्रायश्चित्तविधानात् अद्भिः कर्तव्यम् अन्याहृतैर् वा ॥ ६.७३ ॥ आपस्तम्बः

स्वाध्याय एवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहो ऽनमुत्रश् चरेत् । तस्य मुक्तम् आच्छादनं विहितम् । सर्वतः परिमोक्षम् एके ॥ ६.७४ ॥
[अप्ध् २.२१.१०–१२]

मनुः

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.७५ ॥ [म्ध् ६.८३]
संयोगं च वियोगं च वियोगस्य च साधनम् ।
जीवेश्वरप्रधानानां स्वरूपाणि विचिन्तयेत् ॥ ६.७६ ॥
इतिहासपुराणाभ्यां ध्यानाध्ययनसम्पदा ।
आमध्याह्नदिनं प्राप्य मध्याह्ने ऽप्य् एष वै विधिः ॥ ६.७७ ॥
स्नानस्य विधिकर्मान्ते प्रदायार्घ्यं यथोदितम्
उद् उ त्यं चित्रम् इत्य् आभ्याम् उपस्थाय ततो जपेत् ॥ ६.७८ ॥

इति मध्याह्नस्नानं समाप्तम् ॥ ६.७९ ॥

अथ भिक्षाटनम् उच्यते । तत्र्ओशनाः

माधूकरम् असङ्कॢप्तं प्राक्प्रणीतम् अयाचितम् ।
तात्कालिकोपपन्नं च भैक्षं पञ्चविधं स्मृतम् ॥ ६.८० ॥
मनःसङ्कल्परहितान् गृहांस् त्रीन् पञ्च सप्त वा ।
गत्वा मधुवद् उद्धारो यत् तन् माधूकरं स्मृतम् ॥ ६.८१ ॥
शयनोत्थानतः प्राग् यत् प्रार्थितं भक्तिसंयुतैः ।
तत् प्राक्प्रणीतम् इत्य् आह भगवान् उशना मुनिः ॥ ६.८२ ॥
भिक्षाटनसमुद्योगात् प्राग् येनापि निमन्त्रितम् ।
अयाचितं च तद् भैक्षं भोक्तव्यं मनुर् अब्रवीत् ॥ ६.८३ ॥
उपस्थाने च यत् प्रोक्तं भिक्षार्थं ब्राह्मणेन हि ।
तात्कालिकम् इति प्रोक्तं तच् च प्राश्यं मुमुक्षुणा ॥ ६.८४ ॥
सिद्धम् अन्नं भक्तजनैर् आनीतं यन् मठं प्रति ।
उपपन्नं तद् इत्य् आहुर् मुनयो मोक्षकाङ्क्षिणः ॥ ६.८५ ॥
भिक्षाः पञ्चविधा ह्य् एताः सोमपानसमाः स्मृताः ।
आसाम् इहैकतमया वर्तयञ् छुद्धिम् आप्नुयात् ॥ ६.८६ ॥

विश्वामित्रः

भैक्षप्रतिकृतीर् एता विदुर् माधूकरे स्थिते ।
शक्तो माधूकरे त्व् एताः कुर्वन् किल्बिषम् आप्नुयात् ॥ ६.८७ ॥

एकान्नं मधु मांसं चेत्य् एवमादयो निषेधा अनेनैकवाक्यत्वान् माधूकरसमर्थस्यैव द्रष्टव्याः [सेए १०.५९] । समर्थस्याप्य् अनुग्रहार्थम् एकान्नं न दुष्यति ॥ ६.८८ ॥ आह मेधातिथिः

एकान्नं न तु भुञ्जीत न शूद्रान्नं न बह्व् अपि ।
अशक्तो ऽनुग्रहार्थं वा विप्राद् एकान्नभुग् भवेत् ॥ ६.८९ ॥

कात्यायनः

याचितायाचिताभ्यां तु भैक्षाभ्यां वर्तयेद् यतिः ॥ ६.९० ॥

अङ्गिराः

व्याधितानां यतीनां तु वृद्धानां दीर्घरोगिणाम् ।
एकान्नाशनदोषेण नैनस् तेषां तु विद्यते ॥ ६.९१ ॥

बोधायनः

यात्रामात्रं भुञ्जीतेति ॥ ६.९२ ॥ [ब्ध् २.१८.१२]

कपिलः

असाङ्केतिकतात्कालिकादिप्रशस्तान्नं भुञ्जीत । प्रेतान्नं वर्जयेद् यतिर् इति ॥ ६.९३ ॥

यमः

चरेन् माधूकरं भैक्षं यतिर् म्लेच्छकुलाद् अपि ।
एकान्नं न तु भुञ्जीत बृहस्पतिसमाद् अपि ॥ ६.९४ ॥
ब्राह्मणेभ्यः परं नास्ति वासुदेवात् परो न च ।
वर्णाश्रमात् परो नास्ति नास्ति वेदसमा श्रुतिः ।
नास्ति भैक्षसमा शुद्धिस् तपो नानशनात् परम् ॥ ६.९५ ॥
भैक्षं माधूकरं यत् तन् महापातकनाशनम् ।
तस्मात् तेनैव वर्तेत शुद्धे पात्रे ऽथ निर्व्रणे इति ॥ ६.९६ ॥

अथ माधूकरधर्माः । तत्र कालं मनुर् आह ।

विधूमे सन्नमुसले व्यङ्गारे भुक्तवर्जिते ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥ ६.९७ ॥ [म्ध् ६.५६]

क्रतुः

पूर्वाह्णे विचरेद् योगी सम्यग्ज्ञानी तु पश्चिमे ।
मध्याह्ने भिक्षयन् भिक्षुस् तेन ह्य् आप्नोति किल्बिषम् ॥ ६.९८ ॥

पञ्चदशघटिकाया ऊर्ध्वं पादोनचतस्रो मध्याह्नः यत् प्रतीचीनं सङ्गवात् प्राचीनं मध्यन्दिनाद् इति लिङ्गदर्शनात् ॥ ६.९९ ॥ कपिलः

अत्यन्तं बुभुक्षितो न जघन्यं कलम् उदीक्षेतेति ॥ ६.१०० ॥

भैक्षदेशनियमे बोधायनः

अथ भैक्षचर्या । ब्राह्मणानां शालीनयायावराणां प्रवृत्ते वैश्वदेवे भिक्षां लिप्सेतेति ॥ ६.१०१ ॥ [ब्ध् २.१८.४]

विष्णुः

भैक्षं चरेद् गृहस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा चेयं वृत्तिर् अत्रोपदिश्यते ॥ ६.१०२ ॥
अत ऊर्ध्वं गृहस्थेषु साग्निकेषु चरेद् यतिः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ ६.१०३ ॥
अत ऊर्ध्वम् अशूद्रेषु त्व् अदुष्टापतितेषु च ।
भैक्षचर्या त्व् इयं तस्य त्रिप्रकारा प्रकीर्तिता ॥ ६.१०४ ॥

मेधातिथिः

ब्राह्मणक्षत्रियविशां मध्ये तद् भैक्षम् आचरेत् ।
तत्राप्य् असम्भवे पूर्वाद् आददीतोत्तरोत्तरात् ॥ ६.१०५ ॥
सर्वेषाम् अप्य् अभावे तु भक्तत्रयम् अनश्नतः ।
भैक्षं शूद्राद् अपि ग्राह्यं रक्ष्याः प्राणास् तु भिक्षया ॥ ६.१०६ ॥
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान् निघ्नतां किं न हतं रक्षतां किं न रक्षितम् ॥ ६.१०७ ॥
प्राणायामशतं कुर्याच् छतार्धं पादम् एव वा ।
शूद्रविट्क्षत्रभैक्षेषु ह्य् आपत्सु च विशुद्धये ।
अज्ञानाद् अर्धम् एतस्य प्रायश्चित्तं विशुद्धये ॥ ६.१०८ ॥

क्रतुः

न क्रियायोगचरणं शौचाशौचं शुभाशुभम् ।
पृच्छेन् माधूकरे भैक्षे शीलं वृत्तं श्रुतं कुलम् ।
पात्रे तु पतिते भैक्षे शौचाशौचं विनश्यति ॥ ५.१०९ ॥

वृद्धजाबालिः

न वर्णविचयं कुर्यान् न च पृच्छेच् छुभाशुभम् ।
पात्रे तु पतिते भैक्षे शौचाशौचं न चिन्तयेत् ॥ ५.११० ॥

विनश्यतीति वा पाठः । अत्रिः

न ज्ञातीनां कुले भिक्षेत् । अन्तेवासिपरिपन्थिज्ञातीश्वरप्रेतसूतकगृहेषु भिक्षाम् उपलभ्य न गृह्णीयात् । आत्मना संस्कृतं परबाधाकरं च वर्जयेत् ॥ ५.१११ ॥

कपिलः

सुजीर्णश् च कृशो रोगी प्रशान्तो विकलेन्द्रियः ।
शिष्यबन्धुसुतभ्रातृसखिभ्यो भैक्षम् आचरेत् ॥ ९.११२ ॥
अश्वशय्यासनादीनां बाह्यानां स्पर्शलक्षणैः ।
याजनाध्यापनव्याख्यावस्त्रभाण्डपरिग्रहैः ॥ ९.११३ ॥
मैथुनेक्षणसङ्कल्पैः सङ्करी स्याद् यतिः कृतैः ।
तस्मात् पुत्राद् भैक्षम् इच्छेद् गृहे ऽरण्ये ऽपि वाश्रयन् ॥ ९.११४ ॥

स एवाह

सुजीर्णो ऽतिकृशो रोगी शताब्दो विकलेन्द्रियः ।
शिष्यबन्धुसुतभ्रातृसुहृद्भ्यो भैक्षम् आचरेत् ॥ ९.११५ ॥
कुब्जवामनकुण्डाश् च छिन्नपङ्ग्वन्धरोगिणः ।
भिक्षादोषैर् न लिप्यन्ते यदि राजा न पालयेत् ॥ ९.११६ ॥

गृहसङ्ख्यां वसिष्ठ आह ।

सप्तागाराण्य् असङ्कल्पितानि चरेद् विधूमे सन्नमुसले एकशाटीपरिवृतो ऽजिनेन वा
॥ ९.११७ ॥ [वध् १०.७–९]

देवलः

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानाम् असम्भवे ।
नियम्य प्रयतो वाचम् अभिशस्तांश् च वर्जयेत् ॥ ९.११८ ॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्द्धुषेः ।
मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥ ९.११९ ॥
तान् प्रजापतिर् इत्य् आह मा कृध्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् ॥ ९.१२० ॥
उद्यतं चाप्य् अभोज्यान्नं यच् च व्याधिप्रकोपनम् ।
निराकृतान्नं वान्येन नाददीत विचक्षणः ॥ ९.१२१ ॥

अत्रिः

अथ भैक्षविधिं कृत्स्नं वक्ष्ये वर्ज्यांश् च नित्यशः ।
यम् अकुर्वन् पतत्य् आशु यतिः कुर्वन् विमुच्यते ॥ ९.१२२ ॥
माधूकरेण वर्तेत न कुर्याद् इतराः सदा ।
ताः सर्वाः कुत्सिता वृत्तिर् अनिन्द्या मन्त्रणाद् ऋते ॥ ९.१२३ ॥
माधूकरम् असङ्कॢप्तम् उपपन्नं यदृच्छया ।
तद् अश्नीयाद् अनिन्द्यान्नं निःस्पृहेणैव चेतसा ॥ ९.१२४ ॥
षट् त्रीन् वापि च सप्ताष्टौ नित्यं भिक्षुर् गृहांश् चरेत् ।
माधूकरम् इदं श्रेष्ठम् ऊर्ध्वं वा कामतश् चरेत् ॥ ९.१२५ ॥
कणयावकपिण्याकशाकतक्रपयोदधि ।
भिक्षां सर्वरसोपेतां हिंसावर्जं समाहरेत् ॥ ९.१२६ ॥
व्रताविरुद्धं यद् यस्य तस्य तद् भक्षणं भवेत् ।
हितं मितं सदाश्नीयाद् यत्स् उखेनैव जीर्यते ।
धातुः प्रकुप्यते येन तद् अन्नं वर्जयेद् यतिः ॥ ९.१२७ ॥
कुटुम्बसङ्कटं चैव लोभेनोपहतं गृहम् ।
पीडयान्नं प्रयच्छेत तस्मात् तद् वर्जयेद् गृहम् ॥ ९.१२८ ॥
शाठ्यं वाप्य् अथ दैन्यं वा लक्ष्यते यद् गृहे क्वचित् ।
वर्जयेत् तद् गृहं भिक्षुः काकजग्धं यथा हविः ॥ ९.१२९ ॥
उदक्याचोदितं ह्य् अन्नं द्विजान्नं शूद्रचोदितम् ।
प्राण्यङ्गे चायसे वापि कॢप्तान्नं वर्जयेद् यतिः ॥ ९.१३० ॥
पित्रर्थं कल्पितं पूर्वं देवार्थं वान्यकारणात् ।
वर्जयेत् तादृशीं भिक्षां परबाधाकरीं तथा ॥ ९.१३१ ॥
नोत्पन्ना सन्ततिः काचिद् यत्र स्त्रीपुंसयोर् गृहे ।
नाश्नीयात् तद्गृहे भिक्षुर् भुक्त्वा चान्द्रायणं चरेत् ॥ ९.१३२ ॥
दृष्टं भ्रूणहपाषण्डैः कुष्ठ्यादिभिर् उदक्यया ।
श्वषण्डकाकचण्डालैर् अन्यैर् वान्तेऽवसायिभिः ॥ ९.१३३ ॥
पश्यंश् चैतान् न भिक्षेत भिक्षंश् चान्द्रायणं चरेत् ।
एतैर् न चापि सम्भाषेन् मार्गप्रश्नाद् भयाद् विना ॥ ९.१३४ ॥
महापातकिनः सर्वान् पतितान् परिवर्जयेत् ।
सर्वेषु व्यवहारेषु भोजनार्थे विशेषतः ॥ ९.१३५ ॥
कृते देशं त्यजेद् ग्रामं त्रेतायां द्वापरे कुलम् ।
कर्तारं तु कलौ दुष्टं त्यक्त्वा भैक्ष्यं चरेद् यतिः ॥ ९.१३६ ॥
कर्ता चैवानुमन्ता च प्रेरकश् चानुमोदकः ।
पुण्ये चैव तथा पापे भवन्ति फलभागिनः ॥ ९.१३७ ॥
सगोत्रम् असगोत्रं वा यद्गृहे सूतकं भवेत् ।
न तावच् छुध्यते भूमिर् यावत् तत् स्याद् अनिर्दशम् ॥ ९.१३८ ॥
न तत्र कर्म कुरुते पितृदेवादिकं क्वचित् ।
भिक्षां भिक्षुर् न भिक्षेत भिक्षंश् चान्द्रायणं चरेत् ॥ ९.१३९ ॥
न ज्ञातीनां कुले भिक्षुर् न चेश्वरगृहे क्वचित् ।
न शिष्यबन्धुमित्रादीन् भिक्षां लिप्सेत कर्हिचित् ॥ ९.१४० ॥
नाश्नन्ति पितरो देवा नाश्नन्ति वृषलीपतेः ।
स्त्रीजितस्यापि नाश्नन्ति तदन्नं वर्जयेद् यतिः ॥ ९.१४१ ॥
वर्णानाम् आश्रमाणां च स्वधर्मो वीरसञ्ज्ञितः ।
ये तु तस्मिन् प्रवर्तन्ते वीरास् ते विप्रकीर्तिताः ।
यस् तं लोपयते धर्मं तं वीरघ्नं यतिस् त्यजेत् ॥ ९.१४२ ॥
अथ दिग्वाससीं कन्यां गर्भिणीं मलिनां तथा ।
प्रमत्तां मुदितां क्रुद्धाम् अन्नं भोक्तुं समुद्यताम् ॥ ९.१४३ ॥
गर्भभर्तृद्रुहां चैव स्वैरिणीं कामचारिणीम् ।
अवीरां कुष्ठिनीं चान्धां पुनर्भूं कृत्रिमां तथा ॥ ९.१४४ ॥
मुक्तकेशीं सुखासीनां सरागां विस्मयान्विताम् ।
शठां दीनां दुराचारां सखेदां व्याधिपीडिताम् ॥ ९.१४५ ॥
निर्लज्जां वर्धकीं श्रान्तां प्रेष्यां क्लीबां सुनिष्ठुराम् ।
भिक्षां भिक्षुर् न भिक्षेत पाययन्तीं स्तनं शिशुम् ॥ ९.१४६ ॥

कपिलः

कुटुम्बसङ्कटं सोपरोधं वा गृहं न विशेत् । सुप्तां मत्तां प्रमत्तां प्रमुदितां सखेदां सुखासीनाम् अन्तर्वत्नीं व्याधितां भर्तृगतां सरागाम् अन्नं भोक्तुम् उद्यतां बाललग्नस्तनां भिक्षां न याचेत । रजस्वलाप्रयुक्तां नग्नवधूहस्तगताम् अवज्ञोपहतां कुमार्यानीतां भिक्षां न याचेत न गृह्णीयाच् च
॥ ९.१४७ ॥

क्रतुः

प्रत्यक्षलवणं मांसं मधु शावकसौतकम् ।
मूर्खाभिशस्तपतितक्लीबान्नानि च वर्जयेत् ॥ ९.१४८ ॥
अधीरां स्वैरिणीं कुष्ठीं गर्भभर्तृद्रुहाम् अपि ।
कन्यां धात्रीं पुनर्भूं च नग्नां भिक्षेत न क्वचित् ॥ ९.१४९ ॥

वृद्धजाबालिः

द्वाव् एवाश्रमिणौ भोज्यौ वानप्रस्थो गृही तथा ।
अभोज्यम् अन्नम् अन्येषाम् इतरेषां च लिङ्गिनाम् इति ॥ ९.१५० ॥

अथ भिक्षाचर्या । तत्राह शौनकः

अथ सप्तव्याहृतिभिर् गोवालरज्ज्वा सोदकया पात्रं प्रक्षाल्य हंसः शुचिषद् इत्य् आदित्यम् उपस्थाय वाग्यतः प्रसन्नात्मा च गच्छेद् इति ॥ ९.१५१ ॥

शङ्खलिखितौ

काष्ठालाबुविदलपार्थिवानाम् एकैकं भैक्षभाजनम् । तस्य गोवालरज्ज्वा सोदकपाणिना परिघर्षणं कृत्वा साधुवृत्तेषु ब्राह्मणेषु भैक्षचर्यां चरेत्
॥ ६.१५२ ॥

अत्रिः

सव्येनादाय पात्रं तु त्रिदण्डं दक्षिणे करे ।
उपस्थानं रवेः कुर्याद् ध्यात्वा चैकत्वम् आत्मनः ॥ ६.१५३ ॥
जपेद् विरजसं मन्त्रं देवं ध्यायन् समाहितः ।
यो ऽसौ विष्ण्वाख्य आदित्ये पुरुषो ऽन्तर्हृदि स्थितः ॥ ६.१५४ ॥
सो ऽहं नारायणो देवः पुरुषो लोकसाक्षिकः ।
एवं ध्यात्वात्मनात्मानं पुरुषं विश्वभावनम् ॥ ६.१५५ ॥
प्रदक्षिणं ततः कृत्वा नमस्येत् तिमिरापहम् ।
नमस्कृत्य पुनर् भूमौ समारोहेद् उपानहौ ॥ ६.१५६ ॥
शौचार्थं विचरेद् भिक्षुः पादत्राणे तु न त्यजेत् ।
उदपात्रं तथा भिक्षां विना दुष्यत्य् उपानहौ ॥ ६.१५७ ॥
उपानहाव् अवष्टभ्य व्रजेद् भिक्षुः स्मरन् हरिम् ।
विष्णुस् तिर्यग् अधोर्ध्वं मे वैकुण्ठो विदिशो दिशः ॥ ६.१५८ ॥
पातु मां सर्वतो रामो धन्वी चक्री च केशवः ।
स मां रक्षतु गोविन्दः सोमपो हव्यकव्यभुक् ॥ ६.१५९ ॥
विष्णुस् तार्क्ष्यासनो ऽनन्तश् चक्री वामनरूपधृक् ।
यो ऽसौ सर्वगतः सूक्ष्मः परमात्मा सनातनः ॥ ६.१६० ॥
निर्गुणो निष्कलश् चैव श्वेतमूर्तिधरो ऽव्ययः ।
अनाद्यन्तः सदानन्ते फणामणिविभूषिते ।
श्वेते क्षीरार्णवे मध्ये स मां रक्षतु माधवः ॥ ६.१६१ ॥
सबाह्याभ्यन्तरं देहम् आपादतलमस्तकम् ।
सर्वायुधः सर्वशक्तिः पातु मां गरुडध्वजः ॥ ६.१६२ ॥
स मां रक्षतु सर्वात्मा माधवः परमेश्वरः ।
यस्य नाभ्यम्बुजाज् जातो ब्रह्मा सर्गकरः प्रभुः ॥ ६.१६३ ॥
एवं ध्यायन्न् एकवासा उपवीती च पर्यटेत् ।
वासो हि ब्रह्मणा सृष्टं सर्वधर्मप्रसिद्धये ।
वस्त्राभावे क्रियाः सर्वा निष्फलाः परिकीर्तिताः ॥ ६.१६४ ॥

देवलः

आत्मानं ब्रह्मस्वरूपसंस्थानं कृत्वा नमो ब्रह्मण इत्य् एतैर् नमस्कारं कृत्वा विरजसं मन्त्रं जपित्वा आ सत्येनेति प्रदक्षिणं कृत्वा ये ते पन्थान इति जपित्वा वाग्यतः परिव्रजेत् ॥ ६.१६५ ॥

यमः

मेध्यं भैक्षं चरेन् नित्यं सायाह्ने वाग्यतः शुचिः ।
एकवासा अवासा वा मन्दगामी युगान्तदृक् ॥ ६.१६६ ॥
एक एव चरेद् भैक्षम् एकदृष्टिर् अलोलुपः ।
तृप्तिप्रयोजनो न स्याद् यो ‘नग्निर् अनिकेतनः ॥ ६.१६७ ॥

मेधातिथिः

ऊर्ध्वं जान्वोर् अधो नाभेः परिधायैकम् अम्बरम् ।
द्वितीयम् अन्तर्वासश् च परिधाय रविं ततः ॥ ६.१६८ ॥
उपस्थायाथ भैक्षार्थं पात्री दण्डी गृहान् व्रजेत् ।
तिष्ठेत् सन्दर्शने द्वारि याच्य भिक्षाम् अधोमुखः ॥ ६.१६९ ॥
वाग्यतः सुप्रसन्नात्मा स्वपन् ध्यायन् दिवापि च ।
अदृष्टोपक्रमे काले तूष्णीं गोदोहसम्मितम् ॥ ६.१७० ॥
यदि नोद्यमते कश्चिद् दृष्ट्वाप्य् अन्यगृहं व्रजेत् ।
तावत् प्रतिश्रुते तिष्ठेद् यावद् भैक्षं प्रदीयते ॥ ६.१७१ ॥

क्रतुः

दृष्टिपूतपदन्यासी मौनी तु सुमतिः शमी ।
एकवस्त्र्य् एकपात्री च निःसङ्गः सुप्तवच् चरेत् ॥ ६.१७२ ॥
चतुःषडष्टकाले वा यतिश् चान्द्रायणेन वा ।
पञ्चसप्तगृहेभ्यो वा भिक्षाम् इच्छेत् क्रियावताम् ॥ ६.१७३ ॥
भवत्पूर्वं सकृद् याचेत् तिष्ठन् भिक्षाम् अधोमुखः ।
गोदोहमात्रम् आकाङ्क्षेन् निष्क्रान्तो न पुनर् व्रजेत् ॥ ६.१७४ ॥

बोधायनः

भवत्पूर्वं प्रचोदयात् । गोदोहनम् आकाङ्क्षेत् ॥ ६.१७५ ॥ [ब्ध् २.१८.५–६]

देवलः

भिक्षाकाले सदा कार्यं यतीनां छत्रधारणम् ।
वर्षमाणे तु पर्जन्ये न तु घर्मार्कतापनात् ॥ ६.१७६ ॥

अत्रिः

एकवस्त्र्य् एकपात्री च सदैकाकी व्रजेद् यतिः ।
एककालं चरेद् भैक्षं न जघन्यं कथञ्चन ॥ ६.१७७ ॥
ऊर्ध्वं न तिर्यग् दूरं वा निरीक्षेत् पर्यटन् यतिः ।
युगमात्रं महीपृष्ठं भिक्षुर् गच्छेद् विलोकयन् ॥ ६.१७८ ॥
न वीक्षेद् द्वाररन्ध्रेण भिक्षालिप्सुर् गृहान्तरम् ।
न कुर्याद् घोषणं तत्र न द्वारं ताडयेद् यतिः ॥ ६.१७९ ॥
अतिक्रम्य गृहं पूर्वं प्रविशेन् न पुनस् तु तत् ।
प्रविश्य भिक्षाम् आदाय त्रिंशत् प्राणायमांश् चरेत् ॥ ६.१८० ॥
नैव सव्यापसव्येन भिक्षाकाले चरेद् गृहम् ।
अनिन्द्यातिक्रमं कृत्वा प्राणायामशतं चरेत् ॥ ६.१८१ ॥
पूर्वासङ्कल्पितगृहं स्वयं विवृतम् आश्रयेत् ।
देशकालविभागेन सामर्थ्यापेक्षयापि च ॥ ६.१८२ ॥
अनागते परे भिक्षौ भिक्षार्थं प्रविशेद् गृहम् ।
प्रविश्य भैक्षभुग् गेहं निष्प्रकम्पेन चेतसा ॥ ६.१८३ ॥
गृहिणीदर्शने वापि वह्न्यागारे ऽपि वा स्थितः ।
सव्येनादाय पात्रं तु त्रिदण्डं दक्षिणेन तु ॥ ६.१८४ ॥
प्रणवादि भवत्पूर्वं भिक्षां देहीति याचयेत् ।
भिक्षार्थं चोदनं कृत्वा शक्तो नोपविशेत् क्वचित् ॥ ६.१८५ ॥
न चान्यद् वस्तु याचेत तृप्तिलोभेन किञ्चन ।
कृत्वा भिक्षां दृष्टिपूतां दातुश् च करसंस्थिताम् ॥ ६.१८६ ॥
त्रिदण्डं दक्षिणे त्व् अंसे यतिः सन्धाय पाणिना ।
उत्पाट्य पात्रकवचं दक्षिणेन करेण तु ।
पात्रं वामकरे स्थाप्यं न क्वचिद् दक्षिणे करे ॥ ६.१८७ ॥

लिखितः

नैकान्नं म्रियमाणो ऽपि भुञ्जीतापि निषादजात् ।
माधूकरेण वर्तेत सत्त्वशुद्धिकरं हि तत् ॥ ६.१८८ ॥
नैकस्मिन् नापि कुत्रापि प्रत्याख्यातो गृहे पुनः ।
प्रविशेद् भैक्षसमये न च गेहान्तरेण वा ।
अन्यार्थं पूर्वकॢप्तं वा भिक्षां नैवाददीत च ॥ ६.१८९ ॥

काश्यपः

चतुरङ्गुलान्तरितः समपादो निश्चलस् तिष्ठेत् । काष्ठपाषाणमृण्मयवर्जम् अशुचिर् इति न जुगुप्सेत शुचिर् इति मत्वा गृह्णीयात् । मुखमण्डलं न कदाचिन् निरीक्षेत । हस्तमात्रं चक्षुषा पश्येत् । तथाग्रतो युगमात्रावलोकी । पार्श्वं पृष्ठतश् च मुहुर् मुहुर् नावलोकयेत् । विवृतद्वाराणि प्रविशेत् । अपद्वाराणि न प्रविशेत् । द्वारं न हन्यात् न घोषयेत् । क्षिप्रं न निर्गच्छेत् । चिरं न तिष्ठेद् इति ॥ ६.१९० ॥

देवलः

ग्रामे प्रविष्टे भिक्षार्थे यदि विघ्नो भवेत् क्वचित् ।
पुनर् भैक्षं न भिक्षेत बहिर् ग्रामाद् विनिर्गतः ॥ ६.१९१ ॥

जमदग्निः

पञ्चाहं सप्तरात्रं वा यस्मिन् भिक्षा न लभ्यते ।
तद् गृहं वर्जयेन् नित्यं चण्डालगृहवद् यतिः ॥ ६.१९२ ॥
तद्दिनानि गृहस्थस्य निराशो भिक्षुको व्रजेत् ।
स्वाध्यायं होमदानं च सर्वम् आदाय गच्छति ॥ ६.१९३ ॥

स एवाह

आहारमात्राद् अधिकं यतिर् भैक्षं तु नाहरेत् ।
अन्यायेन तु पक्वान्नं चोरवद् दण्डम् अर्हति ॥ ६.१९४ ॥

वृद्धजाबालिः

एकपात्रेण भुञ्जीत निर्दिष्टं व्रतम् उत्तमम् ।
नैव दोषो द्विपात्रेण त्व् अशक्तो व्याधिपीडने ॥ ६.१९५ ॥
शक्तश् च नीरुजश् चैव नैकपात्रेण वर्तयन् ।
पात्रलोभी स दुष्टात्मा नरकं प्रतिपद्यते ॥ ६.१९६ ॥
लोभमानस् तु यो भिक्षुः पात्रपूरणम् इच्छति ।
दाता स्वर्गम् अवाप्नोति भोक्ता भुञ्जीत किल्बिषम् ॥ ६.१९७ ॥
निमन्त्रितस् तु सन्न्यासी यदा भिक्षां समाचरेत् ।
लोभं तत्र प्रकुर्याच् चेत् पतत्य् एव न संशयः ॥ ६.१९८ ॥
देहि देहीति यो ब्रूयाल् लवणव्यञ्जनादि वा ।
गोमांसतुल्यं तद् भैक्षं भुक्त्वा चान्द्रायणं चरेत् ॥ ६.१९९ ॥
यत् किञ्चिद् दीयमानं तु गृहिणीकरसंस्थितम् ।
न गृह्णात्य् अल्पबुद्ध्या चेत् काकयोनिषु जायते ॥ ६.२०० ॥

कपिलः

भिक्षित्वा न चिरम् आसीत । नेत्य् उक्ते चादोषमनाः परिवर्तेत । नैकपात्रपूरणम् अन्विच्छेत् ॥ ६.२०१ ॥

भरद्वाजः

पूर्णा दर्वि परापत इति जपित्वा पुनर् नम इति परिवर्तेत ॥ ६.२०२ ॥

अथ भोजनविधिः । तत्र शौनकः

तत उपावृत्य शुचौ देशे पात्रं न्यस्य पादौ प्रक्षाल्याचम्य त्रीन् प्राणायामान् धारयित्वाप आचम्य ॐ इति वारिणा भैक्ष्यं प्रोक्ष्य गायत्र्याभिमन्त्र्य इदं विष्णुर् विचक्रम इति विष्णवे हविर् निवेदयेत् । उद् उ त्यं चित्रम् इति द्वाभ्याम् आदित्याय ब्रह्म जज्ञानम् इति ब्रह्मणे भूतेभ्यो नम इति भूतेभ्यो निवेदयेत् । अथ शेषम् औषधवत् प्राश्नीयात् ॥ ६.२०३ ॥

बोधायनः

अथ भैक्षचर्याया उपावृत्य पात्रं शुचौ देशे न्यस्य हस्तं पादं च प्रक्षाल्याचम्य उद् उ त्यं चित्रम् इत्य् आदित्यस्याग्रे निवेदयेत् । ब्रह्म जज्ञानम् इति ब्रह्मणे इदं विष्णुर् इति विष्णवे भूतेभ्यो नम इति भूतेभ्यो निवेदयेद् इति । विज्ञायते । आधानप्रभृति यजमान एवाग्नयो भवन्ति । तस्य प्राणो गार्हपत्यः अपानो ऽन्वाहार्यपचनः व्यान आहवनीयः समानोदानौ सभ्यावसथ्यौ । पञ्च वा एते ऽय आत्मस्था आत्मन्य् एव जुहोति । स एवात्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठित आत्मानं क्षेमं नयतीति विज्ञायते । भूतेभ्यो दयापूर्वं संसृज्य शेषम् अद्भिः संस्पृश्य औषधवत् प्राश्नीयात् ॥ ६.२०४ ॥ [ब्ध् २.१८.७–१०]

यमः

न भैक्षपात्रे भुञ्जीत पात्रे नाचमनं चरेत् ।
कृतत्रेताद्वापरेषु पात्रभोजी यतिर् भवेत् ।
कलौ न पात्रे भुञ्जीत धारयेन् न च कुण्डिकाम् ॥ ६.२०५ ॥

भरद्वाजः

यत् किञ्चिज् जीर्णपर्णं पतितं पात्रं लब्ध्वा तत्राश्नीयान् न तैजसे कदाचन । तैजसपात्रे भोजनं कृत्वा प्राजापत्यं समाचरेत् । ग्रामान्ते विजने ऽरण्ये तटाके विजने नदीपुलिने पुष्करिणीषु गत्वा तद् अन्नम् उपयुञ्जीत । तीर्थदेशे प्रक्षालनं कृत्वा सान्तर्धानं पात्रं स्थापयेत् । मृत्तिकात्रयेण तु पादौ प्रक्षाल्य हस्तौ च तथैव प्रक्षाल्याचम्य प्राणायामान् षड् आचरेत् । प्रणवेन गायत्र्या अन्नसूक्तं जपित्वा परमात्मस्वरूपं ध्यात्वा अमृतोपस्तरणम् असित्य् अपः प्राश्य प्राणाहुतिं जुहोति । भोजनमध्ये यत् किञ्चित् सूक्ष्मकेशमक्षिकाभिहतं च तद् अन्नं पिण्डमात्रम् उद्धृत्य हस्तप्रक्षालणं कृत्वा भोजनं करोति । मुखे केशं लग्नं तत्क्षणात् क्षिपेद् ग्रासमास्येन द्वादशगण्डूषैर् मुखप्रक्षालणं कृत्वा भोजनं करोति
॥ ६.२०६ ॥

बृहस्पतिः

सुगुप्तवाङ्मनश्चक्षुर् गुप्तगुह्यः कृताह्निकः ।
सुगुप्तभैक्षम् आहृत्य सुगुप्तं भोजनं चरेत् ॥ ६.२०७ ॥
न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
न पादौ न शिरोपस्थं न पद्भ्यां भोजनं स्पृशेत् ॥ ६.२०८ ॥
न किञ्चिद् भेषजाद् अन्यत् तत् तथा दन्तधावनात् ।
विना भोजनकालेन न भक्ष्यान् भक्षयेद् यतिः ॥ ६.२०९ ॥

विष्णुः

भैक्षं यवाग्रं भुञ्जीत पयो घृतम् अथापि वा ।
सुपक्वं फलमूलं वा शाकपिण्याकसक्तु वा ॥ ६.२१० ॥
इत्य् एते ह्य् अशनाकारा योगिनः सिद्धिकारकाः ।
तत् प्रयुञ्ज्याद् अहर् अहः परमेण समाधिना ॥ ६.२११ ॥
अपः पीत्वा सकृत् तूष्णीं भुञ्जानः प्राक् समाहितः ।
प्राणायेति तु भुञ्जीत प्रथमाम् आहुतिं यतिः ॥ ६.२१२ ॥
अपानाय द्वितीया स्याद् व्यानायेति ततः परा ।
उदानाय चतुर्थी स्यात् समानायेति पञ्चमी ॥ ६.२१३ ॥
इत्थं प्राणाहुतीर् हुत्वा शेषं भुञ्जीत वाग्यतः ।
अपः पुनः सकृत् प्राश्य त्व् आचम्य हृदयं स्पृशेत् ॥ ६.२१४ ॥

यमः

विधूमे सन्नमुसले वृत्ते वा यज्ञसंस्तरे ।
न श्ववृत्तिसमाकीर्णे न तापससमाकुले ॥ ६.२१५ ॥
नाभुक्तवति लोके वा भैक्षं भिक्षेत भिक्षुकः ।
यात्रामात्रं तु गृह्णीयात् केवलं प्राणधारणम् ।
यथालब्धं च नाश्नीयात् कामं भुञ्जीत न क्वचित् ॥ ६.२१६ ॥
भैक्षस्यागमशुद्धस्य प्रोक्षितस्य हुतस्य च ।
यावतो ग्रसते ग्रासांस् तावद्भिः क्रतुभिः समाः ॥ ६.२१७ ॥
प्रोक्षितं प्रणवेनैव हुतम् आध्यात्मिकाग्निषु ।
प्राणादिषु दशार्धेषु स्वाहाकारैः पृथक् पृथक् ॥ ६.२१८ ॥
प्राणश् चक्षुर् दिवं सूर्यो व्यानः श्रोत्रं निशा शशी ।
अपानो वाङ् मनो वह्निः समानो ऽपो मनो ऽशनिः ॥ ६.२१९ ॥
उदानो वायुर् आकाशस् तृप्यन्त्व् अन्नं समाहितः ।
दत्वैषां भक्षयंस् तृप्तिं मुच्यते स ऋणत्रयात् ॥ ६.२२० ॥

भैक्षस्य भोजनं सर्वत्रोक्तं प्रक्षाल्य भोजनम् । आह संवर्तः

अष्टौ भिक्षाः समादाय स मुनिः पञ्च सप्त वा ।
अद्भिः प्रक्षाल्य तत् सर्वं भुञ्जीत सुसमाहितः ॥ ६.२२१ ॥

कपिलः

अथ ग्रामाद् आगत्य एकपात्रेण भैक्षम् उदकेन प्लाव्य सकृद् भुञ्जीत । न केनचित् सह सम्भाषेत किञ्चन । न किञ्चन याचेद् औषधाद् अन्यत् । एवं वर्तमानो यावज्जीवं भिक्षुको मुक्तो भवेत् ॥ ६.२२२ ॥

दोषाशङ्कायामिदं द्रष्टव्यम् । क्रतुः ।

चतुष्कैः प्रोक्षयेद् भिक्षां तल्लिङ्गैर् बलिम् आहरेत् ।
विष्णुब्रह्मार्कभूतेभ्यो दद्याद् वा किञ्चिद् अर्थिने ॥ ६.२२३ ॥
पद्मम् ऊर्ध्वमुखं कृत्वा प्राणाद्यैः पूरकादिभिः ।
प्रादेशमात्रे ब्रह्माग्नौ हुत्वान्नं मुच्यते मलैः ॥ ६.२२४ ॥
न स्वादयीत भुञ्जानः षड् रसान् नैव कीर्तयेत् ।
सत्कृतासत्कृते तुल्यो नाभिनन्देत न द्विषेत् ॥ ६.२२५ ॥

स एवाह

नोत्सृजेन् नातिभुञ्जीत न निन्देन् नाधिकं हरेत् ।
गोब्राह्मणार्कसोमाग्निमरुदापो न कुत्सयेत् ॥ ६.२२६ ॥

कपिलः

व्रताविरुद्धं यत् किञ्चित् पर्युषितम् अपि गृह्णीयाद् आप्याययितुकामः प्राणायामत्रयं कृत्वा पुनर् आचामेत् त्रिर् द्विर् वा प्रक्षाल्य देशं पात्रं वा यन्त्रम् आरोप्य प्रणवेनाभ्युक्ष्य त्रिकेणाभिमन्त्रयेद् भिक्षाम् । इदं विष्णुर् इति ग्रासमात्रम् अपि पूजयेत् । नानिवेद्यं भुञ्जीत । भूतबलिदानादिकम् अर्थिने संविभागशीलतापि प्रशस्ता
॥ ६.२२७ ॥
सुखं जीवन्ति मुनयो भैक्षवृत्तिम् उपाश्रिताः ।
अद्रोहाः सर्वभूतानां सारङ्गा इव षट्पदाः ॥ ६.२२८ ॥
सोम एवान्नम् अश्नीयाद् इति ध्यात्वा यो ऽन्नम् अत्ति सो ऽमृतम् अत्ति । प्राणाय स्वाहेति प्राणे ऽन्नम् अत्ति । अपानाय स्वाहेत्य् अपानेऽन्नम् अत्ति । व्यानाय स्वाहेति व्याने ऽन्नम् अत्ति । उदानाय स्वाहेत्य् उदाने ऽन्नम् अत्ति । समानाय स्वाहेति समाने ऽन्नम् अत्ति । यो यो ऽन्नम् अत्ति स सो ‘ग्निः । यद् अन्नम् अद्यते तत् सर्वं सोमः । प्रक्षाल्य पात्रं त्रिकेणाभिमन्त्रितं प्रतिगृह्णीत । प्रतिमुच्यते भुक्त्वा पापाद् इति ॥ ६.२२९ ॥

विश्वामित्रः

माधूकरे यथापूर्वं चतुर्थायोत्सृजेद् यतिः ।
शेषेषु च चतुर्ष्व् एव यतिस् तन् न विसर्जयेत् ॥ ६.२३० ॥
उद् उ त्यं चित्रम् इत्य् आभ्याम् आदित्याय निवेदयेत् ।
ब्रह्म जज्ञानम् इत्य् उक्त्वा ब्रह्मणे ऽन्नं निवेदयेत् ।
इदं विष्णुर् इत्य् अनेन विष्णवे ऽथ निवेदयेत् ॥ ६.२३१ ॥
ततस् तु सर्वभूतेभ्यो बलिं दत्त्वा चतुर्थकम् ।
ग्रासमात्रं तु दातव्यं सूर्यादीनां यथाक्रमम् ॥ ६.२३२ ॥
यः परान्नं समाहृत्य त्यजत्य् अन्नं दिने दिने ।
तस्य दोषेण युज्येत प्रायश्चित्ती भवेद् यतिः ॥ ६.२३३ ॥
अपि चास्य कुतो दानं दत्त्वा चास्य कुतः फलम् ।
दाता प्रतिग्रहीता च प्रेत्य वै नरकं व्रजेत् ॥ ६.२३४ ॥

हारीतः

उत्पाटयेच् च कवचं दक्षिणेन करेण वै ।
पात्रं वामकरे स्थाप्य दक्षिणेनानुश्लेषयेत् ॥ ६.२३५ ॥
यावद् अन्नक्षुधार्तिः स्यात् तावद् भैक्षं समाचरेत् ।
ततो निवृत्य तत् पात्रं संस्थाप्याचम्य संयमी ॥ ६.२३६ ॥
चतुरङ्गुलैः प्रच्छाद्य ग्रासमात्रं समाहितः ।
सर्वव्यञ्जनसंयुक्तं पृथक् पात्रे निवेदयेत् ॥ ६.२३७ ॥
सूर्यादिदेवभूतेभ्यो दत्त्वान्नं प्रोक्ष्य वारिणा ।
भुञ्जीत पर्णपुटके न पात्रे वाग्यतो यतिः ॥ ६.२३८ ॥
वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥ ६.२३९ ॥
न च कांस्ये तु भुञ्जीत त्व् आपद्य् अपि कदाचन ।
पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ॥ ६.२४० ॥
कांस्यकस्य च यत् पापं गृहस्थस्य तथैव च ।
कांस्यभोजी यतिः सर्वं प्राप्नुयात् किल्बिषं तयोः ॥ ६.२४१ ॥

यमः

हिरण्मयानि पात्राणि कृष्णायसमयानि च ।
यतीनां तान्य् अपात्राणि भैक्षे वा भोजने ऽपि वा ॥ ६.२४२ ॥
सुवर्णरूप्यपात्रेषु ताम्रकांस्यायसेषु च ।
भिक्षां दत्त्वा न धर्मो ऽस्ति गृहीत्वा नरकं व्रजेत् ॥ ६.२४३ ॥

लिखितः

न भैक्षपात्रे भुञ्जीत पात्रे नाचमनं चरेत् ।
कृतत्रेताद्वापरेषु पात्रभोजी यतिर् भवेत् ॥ ६.२४४ ॥
कलौ न पात्रे भुञ्जीत धारयेन् न च कुण्डिकाम् ।
भुञ्जीत पर्णपुटके पर्णपृष्ठे न जातुचित् ॥ ६.२४५ ॥
पलाशपद्मकदलीदलाभावे ह्य् अभोजनम् ।
अभावे ऽप्य् अन्यपात्राणां न कांस्ये नैव राजते ॥ ६.२४६ ॥
नापि कार्ष्णायसे नापि सौवर्णे नापि ताम्रके ।
न प्राण्यङ्गे नैव भूमौ न कुशादितृणेषु वा ॥ ६.२४७ ॥
पलाशपर्णे भुञ्जीत पाणिपात्रे ऽथ वापदि ।
पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
यतिर् वनस्थश् च ततो लभते चैन्दवं फलम् ॥ ६.२४८ ॥

मेधातिथिः

सुवर्णकांस्यरूप्येषु ताम्राब्जाश्ममयेषु च ।
भुञ्जन् भिक्षुर् न दुष्येत दुष्यते तु परिग्रहात् ॥ ६.२४९ ॥

सुवर्णादीनि पात्राणि भैक्षाय भोजनाय वा स्वयं न परिग्राह्याणीति यम-लिखितयोर् अभिप्रायः । मेधातिथेस् तु स्वयं परिग्रहे ऽपि परकीयेषु तेष्व् आपदि भुञ्जानो न दुष्यतीति मतम् । परकीयानाम् अप्य् अभावे पाणिपात्रभोजनम् । कांस्यादिषु पर्णाभावमात्रेण न भोक्तव्यं किं तु मुमूर्षावस्थाप्राप्तौ हारीतेन त्व् आपद्य् अपि कदाचनेत्य् उक्तत्वात् ॥ ६.२५० ॥ बलिदानस्य विनियोगम् अत्रिर् आह ।

निवेद्यं नार्थिने दद्याद् यथेष्टं नोत्सृजेत वा ।
प्रक्षिपेत् तज् जले विद्वान् निखनेद् वा महीतले ॥ ६.२५१ ॥

भिक्षान्नस्य दानं भोजनविघ्ने समुत्पन्ने तस्यान्नस्य विनियोगं च क्रतुर् आह ।

माधूकरं समाहृत्य ब्राह्मणेभ्यो ददाति यः ।
स याति नरकं घोरं भोक्ता चान्द्रायणं चरेत् ॥ ६.२५२ ॥
प्रायश्चित्तव्रतापत्सु भैक्षम् उक्तं द्विजातिषु ।
तद् देयं स्तेयम् अन्येषां यतीनां तु मखैः समम् ॥ ६.२५३ ॥

यतेः सकृद्भोजनं शाण्डिल्य आह ।

ग्रामं गत्वा तु सायाह्ने भैक्षम् आहृत्य वाग्यतः ।
अष्टौ ग्रासान् समश्नीयात् प्रत्यहं सकृद् एव तु ॥ ६.२५४ ॥

वृद्धजाबालिः

न क्वचिन् निशि भुञ्जीत भुक्त्वा भुञ्जीत नो पुनः ।
भुञ्जानो निशि सन्न्यासी पतते नात्र संशयः ॥ ६.२५५ ॥
सन्ध्याकाले तु सम्प्राप्ते निशि भुञ्जीत यो यतिः ।
उपस्थानं च जप्यं च प्राणायामो बलिस् तथा ।
सर्वे ते निष्फलास् तस्य प्रायश्चित्तं विधीयते ॥ ६.२५६ ॥

द्विर्भोजने वसिष्ठः

ब्राह्मणकुले यल् लभते तद् भुञ्जीत सायं प्रातर् मधुमांसवर्जं न च तृप्येद् इति । (वध् १०.२४–२५)

तद् एतद् अशक्तविषयम् ॥ ६.२५७ ॥

अथ भोजनोत्तरक्रिया । तत्र शौनकः

प्राश्याप आचम्य वाङ्म आसन्नसोः प्राण इति जपित्वाचम्य उद् वयं तमसस् परित्य् आदित्यम् उपस्थाय सप्तव्याहृतिभिर् गोवालरज्ज्वा सोदकेन पात्रं प्रक्षाल्य त्रीन् प्राणायामान् धारयित्वा गायत्र्याष्टशतं जपेत् । जपध्यानाभ्यां शिष्टकालं नयेत् । अथास्तमितभास्करां सायंसन्ध्याम् आतारकोदयम् उपासीनो गायत्रीजपं कुर्यात् । अथ यावद् अवशम् उपागतस् तावद् ध्यायेत् । सुप्तोत्थितो ऽपि ध्यायेत् ॥ ६.२५८ ॥

यमः

सुवर्णस्याथ रूप्यस्य यज्ञेषु चमसस्य च ।
यतीनां चैव पात्राणाम् अद्भिः शौचं विधीयते ॥ ६.२५९ ॥

लिखितः

भुक्त्वोपस्थाय मार्ताण्डं पुराणानि सदा पठेत् ।
भावशुद्ध्या हरौ भक्तिः पुराणश्रवणाद् भवेत् ॥ ६.२६० ॥

शङ्खलिखितौ

काष्ठालाबुविदलपार्थिवानाम् एकं भैक्षभाजनम् । तस्य गोवालरज्ज्वा सोदकया परिघर्षणम् । प्रत्याह्निकं शौचम् । नात्राचामेत् । न भूमौ क्षिपेत् । नाशुचिभिः संस्पृशेत् । भुक्त्वाचान्तः पुनर् आचम्य द्रव्याण्य् अभ्युक्षेत् । रज्जुशिक्यं यथान्यद् अविरुद्धं स्यात् ॥ ६.२६१ ॥

शङ्खः

भुक्त्वा सूर्यम् उपस्थाय प्राणान् आयम्य चासने ।
गायत्र्यष्टशतं जप्त्वा ध्यायेन् नारायणं पुनः ॥ ६.२६२ ॥
दिनशेषं पुराणाद्यैर् नीत्वोपास्य च पश्चिमाम् ।
सन्ध्यां ततो ऽभ्यसेद् योगं निद्रान्ते ऽपि पुनस् तथा ॥ ६.२६३ ॥
एवं दिने दिने कुर्वन् ध्यानम् एव प्रधानतः ।
कर्माण्य् अपि च कुर्वाणो ब्रह्मभूयाय कल्पते ॥ ६.२६४ ॥

विश्वामित्रः

भुक्त्वा पुनर् उपस्थानम् उद् वयं तमसस् परि ।
भिक्षाटनविधिर् भिक्षोः प्रोक्तः पञ्चविधो मया ॥ ६.२६५ ॥
य एवं वर्तते भिक्षुः स यतिः साश्रमी स च ।
सन्ध्याम् उपास्य विधिवद् ध्यानकर्म समाचरेत् ॥ ६.२६६ ॥
मैत्रीभिर् ऋग्भिः पूर्वायां सन्ध्यायाम् उपतिष्ठते ।
मध्याह्नसन्ध्यां सौरीभिः सायं वरुणदेवतैः ॥ ६.२६७ ॥
सेयं सारस्वती ज्ञेया सन्ध्या याभ्युदयाश्रया ।
शाङ्करी चैव मध्याह्ने अपराह्णे तु वैष्णवी ॥ ६.२६८ ॥
एवं ध्यानं सदा कार्यं ब्राह्मणेन विपश्चिता ।
जपयज्ञार्थसिद्ध्यर्थं ध्यानम् एतन् मयोदितम् ॥ ६.२६९ ॥
गवां वालपवित्रैस् तु यः सन्ध्यां समुपासते ।
यत् कृतं दुष्कृतं तेन तस्य सद्यो विनश्यति ॥ ६.२७० ॥
दर्भेषु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः ।
सहस्रकृत्वः सावित्रीं शतकृत्वो ऽपि वा जपेत् ॥ ६.२७१ ॥
ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽमलाः ।
त्रिपदा चैव गायत्री विज्ञेया परमं पदम् ॥ ६.२७२ ॥
पवित्रं धारयेन् नित्यं कौशेयं दक्षिणे करे ।
भुञ्जानस् तु विशेषेण सो ऽन्नदोषैर् न लिप्यते ॥ ६.२७३ ॥
उपवीती त्रिदण्डी च शिखी पीठी कुसुम्भवान् ।
श्रुतिस्मृत्युक्तकर्माणि यानि तानि समाचरेत् ।
अनुतिष्ठन् सदा योगं यतिः सिध्यति नान्यथा ॥ ६.२७४ ॥

मेधातिथिः

गोवालरज्ज्वा सोदक्या पात्रं प्रक्षालयेत् स्वयम् ।
भुक्त्वा व्याहृतिभिश् चैव गायत्र्या प्रणवेन वा ॥ ६.२७५ ॥
प्राणायामत्रयं कृत्वा गायत्र्यष्टशतं जपेत् ।
अर्थमात्रं वदेत् किञ्चिद् वक्तव्यं यदि विद्यते ॥ ६.२७६ ॥
ध्यानेन दिनशेषं यत् ततो ऽव्यग्रः समापयेत् ।
लोहितार्काम् उपासीत सन्ध्याम् आ तारकोदयात् ॥ ६.२७७ ॥
तावद् ध्यायेत् पुनर् यावन् निद्रावशम् उपागतः ।
सुप्तोत्थितः पुनर् ध्यायेत् तिष्ठन् सन्ध्यां पुनर् जपेत् ॥ ६.२७८ ॥

भरद्वाजः

अमृतापिधानम् असीति चुलुकं गृहीत्वा प्रणवेन दन्तधावनं करोति । उच्छिष्टम् अन्नं पात्रं चाप्सु प्रक्षिप्याचम्य प्राणायामत्रयं कृत्वा पुनर् आचम्य वाङ्म आसन्न् इति जपित्वा आपो हि ष्ठेति मार्जयित्वा उद् वयं तमसस् परित्य् उपस्थानं कुर्यात् । प्रणवेन पात्रं प्रक्षालयेत् । गायत्र्यष्टशतं जपेत् । गोवालं गृहीत्वा प्रणवेनैव शुष्कं पात्रं मार्जयेत् । दिशः प्रदिश इति बन्धनं कृत्वा गायत्र्या स्थापयेत् । लोहितार्कम् उपासीत । एवं यथोक्तविधानेन भोजनं कृत्वा भिक्षुः परां गतिं प्राप्नोतीति ॥ ६.२७९ ॥

अथ सायंसन्ध्योपासनम् । तत्र शौनकः

स्नानादि सायम् एवं स्यात् समाप्य सकलं विधिम् ।
अर्घ्यं च पूर्ववद् दद्याल् लोहितायति भास्करे ॥ ६.२८० ॥
वारुणीभिर् उपस्थानं ततः सन्ध्याविधिक्रिया ।
ध्यायन्न् आसीत चैतावद् यावन् निद्रावशं गतः ।
ध्यायेत् पुनः प्रबुद्धश् चेद् ब्रह्मभूयाय कल्पते ॥ ६.२८१ ॥

रात्रिवसनदेशं हारीत आह ।

भुक्त्वा पात्रे यतिर् नित्यं क्षालयेन् मन्त्रपूर्वकम् ।
न दुष्येत् तस्य तत् पात्रं यज्ञेषु चमसं यथा ॥ ६.२८२ ॥
अथाचम्य निरुद्धासुर् उपतिष्ठेत भास्करम् ।
जपध्यानेतिहासैस् तु दिनशेषं समापयेत् ।
कृतसन्ध्यस् ततो रात्रिं नयेद् देवगृहादिषु ॥ ६.२८३ ॥

शाण्डिल्यः

वेदं विहाय कर्माणि सर्वाण्य् एव तु सन्न्यसेत् ।
ग्रामाद् बहिः कुटीं कृत्वा वृक्षमूले ऽपि वा वसेत् ॥ ६.२८४ ॥

क्रतुः

शून्यागारे गुहायां वा वह्न्यागारे सुरालये ।
वसेद् असङ्गो निःशङ्को निर्मलो योगम् आस्थितः ॥ ६.२८५ ॥

खट्वादिनिषेधम् आस्तरणं स्थण्डिलशायित्वं वासदेशं च वसिष्ठ आह ।

एकशाटीपरिवृतो ऽजिनेन वा गोप्रलूनैस् तृणैर् अवस्तृतशरीरः स्थण्डिलशायी नित्यं वसतिं वसेत् । ग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा मनसा स्वाध्यायम् अधीयानो ऽरण्यनित्यो न ग्राम्यपशूनां सन्दर्शने विचरेत् ॥ ६.२८६ ॥ [वध् १०.९-१६]

स एवाह

न च तृप्येत् । ग्रामे वसेत् । अजिह्मो ऽशठो ऽसङ्कुसुकः ॥ ६.२८७ ॥ [वध् १०.२५-२७]

असहवासम् आवसथार्हत्वानर्हत्वे च दक्ष आह ।

एको भिक्षुर् यथोक्तस् तु द्वाव् एव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ ६.२८८ ॥
नगरं तु न कर्तव्यं ग्रामो वा मिथुनं तु वा ।
एतत् त्रयं प्रकुर्वाणः स्वधर्माच् च्यवते यतिः ॥ ६.२८९ ॥
राजवार्तादि तेषां च भिक्षावार्ता परस्परम् ।
स्नेहपैशुन्यमात्सर्यं सन्निकर्षाद् भविष्यति ॥ ६.२९० ॥
तपोजपैः कृशीभूता व्याधिता वसथार्हकाः ।
वृद्धा ग्रहगृहीताश् च ये चान्ये विकलेन्द्रियाः ॥ ६.२९१ ॥
नीरुजश् च युवा चैव भिक्षुर् नावसथार्हकः ।
वसन्न् आवसथे भिक्षुर् मैथुनं यदि सेवते ।
स दूषयति तत् स्थानं वृद्धान् सम्पीडयेद् अपि ॥ ६.२९२ ॥

कपिलस् तु सहवासम् अनुमोदते ।

गुरुवृद्धतपस्विन आगतान् अभिवदेत् । चतुर्भुजवत् पश्येत् । करणे यथाशक्ति संविभागशीलतापि प्रशस्ता ।अनुद्वेगकारिभिस् तपस्विभिः समानशीलैः सह संवसेत्
॥ ६.२९३ ॥

शौनकः

शरणं न कुर्यान् न च कारयेत् । कृतं प्रविशेत् । अथ ब्रह्मोपासीत । तच्चित्त एव शयीत । अनिन्दके देवगृहे वा प्रविष्टो यथाकथञ्चिच् छर्वरीं नयेत् जाग्रद् एव सुषुप्तः । आसीनो ऽथाचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् । काष्ठारोपितकमण्डलुना रात्राव् आचामेत् दिवा स्रवन्त्या । अभिरुचितं प्रभूतोदकं पुण्यस्थानं न त्यजेत् । न तीर्थलोलुपः ॥ ६.२९४ ॥

वायुः

निशान्ते ऽभ्युद्धृता आपः शुद्धे पात्रे यथाविधि ।
अहोरात्रोषितास् तास् तु त्याज्या मेध्या अपि स्वयम् ॥ ६.२९५ ॥

अथ ग्रासवासादिनिमित्तं भिक्षाव् आगते गृहस्थस्य कर्तव्यम् उच्यते । तत्र वृद्धजाबालिः

चतुर्वेदो ऽपि यो विप्रः सोमयाजी शतक्रतुः ।
तस्माद् अपि यतिः श्रेष्ठस् तिलमेरुवद् अन्तरम् ॥ ६.२९६ ॥
आसनं शयनं वापि यतिं दृष्ट्वा त्यजेन् न यः ।
स मूढात्मा मृतस् तस्मात् तिर्यग्योनिषु जायते ॥ ६.२९७ ॥
दुर्वृत्ते वा सुवृत्ते वा यतौ निन्दां न कारयेत् ।
यतीनां द्विष्यमाणस् तु नरकं प्रतिपद्यते ॥ ६.२९८ ॥

दत्तात्रेयः

त्रिदण्डरूपधृग् विप्रः साक्षान् नारायणात्मकः ।
यस् तं पूजयते भक्त्या विष्णुस् तेन प्रपूजितः ॥ ६.२९९ ॥
सगुणो निर्गुणो वापि व्रतज्येष्ठो युवापि सः ।
सम्पूज्यो ऽभिक्षुभिर् भिक्षुः स्वधर्मे संस्थितो यतिः ॥ ६.३०० ॥
अष्टाक्षरेण मन्त्रेण नित्यं नारायणात्मना ।
नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्डधृक् ॥ ६.३०१ ॥
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणाम् इति वेदानुशासनम् ॥ ६.३०२ ॥
काणादशाक्यपाषण्डैस् त्रयीधर्मो विलोपितः ।
त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी ॥ ६.३०३ ॥

जमदग्निः

शुष्कम् अन्नं पृथक् पाकं यतये यः प्रयच्छति ।
स मूढो नरकं याति तेन पापेन कर्मणा ॥ ६.३०४ ॥
यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नम् अदत्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ ६.३०५ ॥
यतिहस्ते जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् ।
तद् भैक्षं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥ ६.३०६ ॥
यतिर् यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते हरिः स्वयम् ।
हरिर् यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते जगत् त्रयम् ॥ ६.३०७ ॥
सञ्चितं यद् गृहस्थस्य पापम् आमरणान्तिकम् ।
निर्दहिष्यति तत् सर्वम् एकरात्रोषितो यतिः ॥ ६.३०८ ॥
अपचन्तं परित्यज्य पचन्तं यस् तु भोजयेत् ।
दैवे कर्मणि पित्र्ये च वृथा तस्य परिश्रमः ॥ ६.३०९ ॥
अदुष्टापतितं साधुं यो यतिं परिवर्जयेत् ।
स तस्य सुकृतं दत्वा दुष्कृतं प्रतिपद्यते ॥ ६.३१० ॥
दुर्वृत्तो वा सुवृत्तो वा मूर्खः पण्डित एव वा ।
काषायदण्डमात्रेण यतिः पूज्यो युधिष्ठिर ॥ ६.३११ ॥

अत्रिः

भैक्षदाता सदा भिक्षोः सलिलं दक्षिणे करे ।
दत्वा भिक्षां प्रयच्छेत पात्रे सव्ये करे स्थिते ॥ ६.३१२ ॥
तृप्त्यर्थं पितृदेवानां तत्प्रदाने ऽम्बु कल्पितम् ।
तदन्नेनैव दत्तेन भवेत् तद् उपपादितम् ॥ ६.३१३ ॥
भैक्षं संस्कृत्य यो दद्याद् विष्णुरूपाय भिक्षवे ।
कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं न तद् भवेत् ॥ ६.३१४ ॥
पात्रासनं तथा दण्डं शिक्यं जलपवित्रकम् ।
सन्न्यासिने प्रदायैव गोदानफलम् आप्नुयात् ॥ ६.३१५ ॥
व्याधितानां च भिक्षूणां कुर्याद् आश्रममण्डपम् ।
पथ्याद्यैर् वा परिचरेत् सो ऽनन्तफलम् अश्नुते ॥ ६.३१६ ॥

वृद्धजाबालिः

पृथक्कृता तु या भिक्षा घ्राता मार्जारमूषकैः ।
वातोपवाता शुष्कान्ना मधुमांससमा भवेत् ॥ ६.३१७ ॥
पर्युषिता तु या भिक्षा या च नैवेद्यकल्पिता ।
सा गृह्णतो न दोषाय दाता तु नरकं व्रजेत् ॥ ६.३१८ ॥
भिक्षोः पाणौ जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् ।
सा भिक्षा पर्वतैस् तुल्या तज् जलं सागरोपमम् ।
एवं दत्तं तु यद्ब् हैक्षं तेन तृप्यन्ति देवताः ॥ ६.३१९ ॥

जाबालिः

यतिहस्तगतं द्रव्यं यो गृह्णाति नरः क्वचित् ।
स मूढो नरकं याति तेन पापेन कर्मणा ॥ ६.३२० ॥
त्रिदण्डम् अप्पवित्रं च भैक्षभाजनम् आसनम् ।
सन्न्यासिने ददानो हि गोसहस्रफलं लभेत् ॥ ६.३२१ ॥
पात्रं चतुर्विधं युक्तं यो ददाति त्रिदण्डिने ।
पूरयित्वा हविष्यान्नैर् आत्मानं च निवेदयेत् ॥ ६.३२२ ॥
ये के च नरकस्थाने पच्यन्ते ऽप्य् अतिपापिनः ।
उद्धरंश् चात्मनात्मानं स गच्छेत् परमां गतिम् ॥ ६.३२३ ॥
यावन्ति यतिपात्राणि यावन्त्य् अन्नानि तत्र च ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ६.३२४ ॥

**इति यतिधर्मसमुच्चये अहोरात्रक्रिया नाम **

षष्ठं पर्व ॥ ६.३२५ ॥

सप्तमं पर्व

आचारः

अथाचारः । तत्र मनुः

अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् ।
उपेक्षको ऽसञ्चयिको मुनिर् भावसमन्वितः ॥ ७.१ ॥ [म्ध् ६.४३]
कपालं वृक्षमूलानि कुचेलम् असहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ७.२ ॥[म्ध् ६.४४]
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कलम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ७.३ ॥ [म्ध् ६.४५]
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ ७.४ ॥ [म्ध् ६.४६]
अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।
न चैनं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ ७.५ ॥ [म्ध् ६.४७]
क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ ७.६ ॥ [म्ध् ६.४८]
अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थं विचरेद् दिव ॥ ७.७ ॥ [म्ध् ६.४९]
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ७.८ ॥ [म्ध् ६.५०]
न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ॥ ७.९ ॥ [म्ध् ६.५१]
अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैस् तु यतिर् मुक्तो ऽपि बध्यते ॥ ७.१० ॥ [म्ध् ६.५८] अल्पान्नाभ्यवहारेण रहःस्थेनासनेन च ।
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ ७.११ ॥ [म्ध् ६.५९]
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ७.१२ ॥ [म्ध् ६.६०]
अवेक्षेत गतीर् नॄणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनां च यमक्षये ॥ ७.१३ ॥ [म्ध् ६.६१]
विप्रयोगं प्रियैश् चैव सम्प्रयोगम् अथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश् चोपपीडनम् ॥ ७.१४ ॥ [म्ध् ६.६२]
देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च सम्भवम् ।
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ ७.१५ ॥ [म्ध् ६.६३]
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ ७.१६ ॥ [म्ध् ६.६४]
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥ ७.१७ ॥ [म्ध् ६.६५]

विष्णुः

मानावमानौ याव् एतौ प्रीत्युद्वेगकरौ नृणाम् ।
ताव् एव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ ॥ ७.१८ ॥
मानावमानौ याव् एतौ ताव् एवाहुर् विषामृते ।
अवमानो ऽमृतं तत्र मानस् तु परमं विषम् ॥ ७.१९ ॥

उत्तरत्र ।

यथा चैवावमन्यन्ते जनाः परिवदन्ति च ।
तथा युक्तश् चरेद् योगी सतां धर्मम् अदूषयन् ॥ ७.२० ॥

पुनस् तत्रैव

सारभूतम् उपासीत येन मुक्तिम् अवाप्नुयात् ।
क्रियान्या बहुधा या तु योगविघ्नकरी हि सा ॥ ७.२१ ॥
काम्यानि यानि कर्माणि प्रतिषिद्धानि यानि च ।
तानि तानि परित्यज्य नित्यं कर्म समाचरेत् ॥ ७.२२ ॥

यमः

यश् चास्य दक्षिणं बाहुं चन्दनेनानुलिम्पति ।
सव्यं वास्य च यस् तक्षेत् समौ ताव् अवधारयेत् ॥ ७.२३ ॥
एवम् अस्य भवेद् भावो नित्यम् एव प्रियाप्रिये ।
इष्टे वा यदि वा द्वेष्ये समः सर्वत्र वर्तयेत् ॥ ७.२४ ॥
समः साधौ च पापे च शत्रौ मित्रे च वै समः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ ७.२५ ॥
न प्रहृष्यति सन्माने नावमाने च कुप्यति ।
रागद्वेषौ समौ यस्य स मुनिः सर्वनिःस्पृहः ॥ ७.२६ ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ७.२७ ॥
न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न च वाक्चपलश् च स्याद् इति शिष्टस्य लक्षणम् ॥ ७.२८ ॥

तथा ।

अन्नाच् छुद्धागमाच् छुद्धाद् विशेषरसवर्जितात् ।
निर्मलं जायते सत्त्वं मलिनं मलिनाद् भवेत् ॥ ७.२९ ॥
मांसशोणितसङ्घातं मेदोमज्जास्थिसञ्चयम् ।
नखरोमसमायुक्तं वसाप्रभृतिकर्दमम् ॥ ७.३० ॥
पूर्णं मूत्रपुरीषाभ्यां दुर्गन्धं चर्मबन्धनम् ।
देहो ऽनिलमयं धाम मलाधारम् असारकम् ॥ ७.३१ ॥
चित्रभित्तिप्रतीकाशम् अपां फेनोपमं परम् ।
नित्यानित्यसमायुक्तं रागद्वेषसमुच्चयम् ॥ ७.३२ ॥
एकस्तम्भं नवद्वारं त्रिस्थूणं पाञ्चभौतिकम् ।
प्रीतिप्राकारसंयुक्तं मनःप्रबलनायकम् ॥ ७.३३ ॥
दशेन्द्रियभटाकीर्णं व्याधिश्वापदसेवितम् ।
विशेषविषयाक्रान्तं चेतनाधिष्ठितं पुरम् ॥ ७.३४ ॥
जराशोकसमाविष्टं रोगायतनम् आतुरम् ।
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ ७.३५ ॥
स्नानं जपं तथा ध्यानं शौचम् आहारलाघवम् ।
य एतत् पञ्चकं कुर्यान् मुक्तो भवति नान्यथा ॥ ७.३६ ॥
पुराणश्रवणाभ्यासं भक्तितो नित्यम् आचरेत् ।
पुराणश्रवणे भक्तिर् मूर्खस्यापि प्रजायते ॥ ७.३७ ॥
भक्त्याविच्छिन्नया मुक्तिस् तस्मात्पौराणम् अभ्यसेत् ।
तदभ्यासात् परं ब्रह्मभावम् आपद्यते मुनिः इति ॥ ७.३८ ॥

वसिष्ठः

परिव्राजकः सर्वभूताभयं दत्वा प्रतिष्ठेत । [वध् १०.१]
तथाप्य् उदाहरन्ति ।
अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ ७.३९ ॥ [वध् १०.२]
अभयं सर्वभूतेभ्यो ऽदत्वा यस् तु निवर्तते ।
हन्ति जातान् अजातांश् च [द्रव्याणि प्रतिगृह्य च] ॥ ७.४० ॥ [वध् १०.३]
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
उपवासात् परं भैक्षं दया दानाद् विशिष्यते ॥ ७.४१ ॥ [वध् १०.५]

तथोत्तरत्र ।

अव्यक्तलिङ्गो ऽव्यक्ताचारो ऽनुन्मत्त उन्मत्तवेषः ।
अथाप्य् उदाहरन्ति ।
न शब्दशास्त्राभिरतस्य मोक्षो
न लोकचित्तग्रहणे रतस्य ।
न भोजनाच्छादनतत्परस्य
न चैव रम्यावसथप्रियस्य ॥ ७.४२ ॥ [वध् १०.१८–२०]
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन ।
एतैः पूर्वं सुनिष्पन्नो यतिर् भवति नान्यथा ॥ ७.४३ ॥
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा राष्ट्रात् प्रवासयेत् ॥ ७.४४ ॥

उत्तरत्र।

लाभपूजानिमित्तं हि व्याख्यानं शिष्यसङ्ग्रहः ।
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥ ७.४५ ॥
ध्यानं शौचं तथा भिक्षा नित्यम् एकान्तशीलता ।
भिक्षोश् चत्वारि कर्माणि पञ्चमं नोपपद्यते ॥ ७.४६ ॥
अत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति ।
ततः शास्त्राण्य् अधीयन्ते श्रूयते ग्रन्थविस्तरः ॥ ७.४७ ॥
अग्निं आत्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
वेदाभ्यासपरो नित्यम् आत्मविद्यापरायणः ॥ ७.४८ ॥
संसेव्य चाश्रमान् सर्वान् जितक्रोधो जितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति वेदशास्त्रार्थविद् द्विजः ।
आश्रमेषु तु सर्वेषु प्रोक्तः प्राणान्तिको विधिः ॥ ७.४९ ॥

शातातपः

आरूढो नैष्ठिकं धर्मं यस् तु प्रच्यवते यतिः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत् स आत्महा ॥ ७.५० ॥
पारिव्राज्यं गृहीत्वा तु गृहस्थो यो भवेत् पुनः ।
षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ७.५१ ॥
इह पूर्वं प्रतिज्ञाय सन्न्यासं न करोति यः ।
मिथ्यावचनदग्धो ऽसौ सो ऽन्धे तमसि मज्जति ॥ ७.५२ ॥
यस् तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् ।
षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ७.५३ ॥
शून्यागारेषु घोरेषु भवत्य् आखुः सुदारुणः ।
सो ऽचिराज् जायते गर्भे श्वा स्याद् द्वादशजन्मसु ॥ ७.५४ ॥
भासो विंशतिवर्षाणि नववर्षाणि सूकरः ।
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥ ७.५५ ॥
ततो दावाग्निना दग्धः स्थाणुर् भवति कामुकः ।
ततो वर्षशतान्य् अष्टौ द्वे च तिष्ठत्य् अचेतनः ॥ ७.५६ ॥
पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।
क्षुत्पिपासापरिश्रान्तः क्रव्यादो रुधिराशनः ।
क्रमेण लभते मोक्षं कुलस्योत्सादनेन च ॥ ७.५७ ॥
सन्न्यासं पातयेद् यस् तु पतितः सन्न्यसेच् च यः ।
सन्न्यासविघ्नकर्ता च त्रयस् ते पतिताः स्मृताः ॥ ७.५८ ॥
बिन्दुला नाम चण्डालाः परिव्राजकरूपिणः ।
तेषां जातान्य् अपत्यानि चण्डालैः सह वासयेत् ॥७.५९ ॥

हारीतः

विधिना बुद्धिपूर्वेण यः सन्न्यस्य गृही भवेत् ।
स एवारूढपतितः सर्वधर्मबहिष्कृतः ॥ ७.६० ॥
पारिव्राज्यं परित्यज्य गृहस्थो यो भवेत् पुनः ।
षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ७.६१ ॥

इत्यादिपरं शातातपेयपाठवत् ।

आरूढपतितो हन्याद् दश पूर्वान् दशापरान् ।
तान् एव तारयेद् विप्रो यतिः सम्यग् व्यवस्थितः ॥ ७.६२ ॥
तस्मात् सर्वप्रयत्नेन त्रिदण्डं धारयेद् यतिः ।
नेह भूयः स जायेत यतिधर्मस्य पालनात् ॥ ७.६३ ॥
सर्वेषाम् आश्रमाणां तु त्रिदण्डी ह्य् उत्तमाश्रमी ।
स एवास्य नमस्यः स्याद् भक्त्या सन्मार्गवर्तिनः ॥ ७.६४ ॥
त्रिदण्डरूपधृग् विप्रः साक्षान् नारायणात्मकः ।
यस् तं पूजयते भक्त्या विष्णुस् तेन प्रपूजितः ॥ ७.६५ ॥
अष्टाक्षरेण मन्त्रेण नित्यं नारायणात्मना ।
नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्डधृक् ॥ ७.६६ ॥
एवं वः कथितो विप्राः सन्मार्गो ऽयं सनातनः ।
प्राप्ते कलियुगे घोरे इतो ऽन्ये क्षुद्रलिङ्गिनः ॥ ७.६७ ॥
सम्भविष्यन्ति ते सर्वे गौतमाग्निविदीपिताः ।
वेदार्थं चान्यथा सर्वं प्रवक्ष्यन्ति कलौ युगे ॥ ७.६८ ॥
नग्नाः प्रच्छन्नबौद्धाश् च विनिन्दन्ति त्रयीमयम् ।
रात्रौ वेदरहस्यानि पठिष्यन्त्य् अल्पमेधसः ॥ ७.६९ ॥
भक्षयिष्यन्ति शूद्रान्नं वयं मुक्ता इति स्थिताः ।
अन्यान् अपि स्वधर्मस्थान् प्रेरयिष्यन्ति ते कलुअ ॥ ७.७० ॥
एकवेणुं समाश्रित्य जीवन्ति बहवो द्विजाः ।
नरके रौरवे घोरे कर्मत्यागात् पतन्ति ते ॥ ७.७१ ॥
तस्मात् तान् नालपेत् प्राज्ञो न निरीक्षेत वापि तान् ।
आलोकने च तेषां तु शुध्यते भानुदर्शनात् ॥ ७.७२ ॥
नग्नं वानुपनीतं वा यः श्राद्धे भोजयेद् द्विजम् ।
रेतोमूत्रपुरीषाणि स पितृभ्यः प्रयच्छति ॥ ७.७३ ॥
प्रेरणाद् अथ वा लोभाद् एकदण्डं समाश्रितः ।
भूयो निर्वेदम् आपन्नस् त्रिदण्डं धारयेद् बुधः ॥ ७.७४ ॥

पराशरः

द्वाव् इमौ पुरुषौ यातो भित्त्वा वै सूर्यमण्डलम् ।
परिव्राड् योगयुक्तश् च रणे चाभिमुखो हतः ॥ ७.७५ ॥
सन्न्यस्तं तं द्विजं दृष्ट्वा स्थानाच् चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥ ७.७६ ॥

कात्यायनः

कामक्रोधादिकान् दोषान् वर्जयेद् यावदायुषम् ।
एवं संवर्तयन् नित्यं ब्रह्म सम्पद्यते यतिः ॥ ७.७७ ॥

उशनाः

त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ ७.७८ ॥

व्यासः

यत् पूर्वम् अभिनिर्दिष्टम् आत्मज्ञानं मया पुरा ।
तत् सर्वं यत्नतो ऽभ्यस्येत् सर्ववित् सङ्गवर्जितः ॥ ७.७९ ॥
लोकयात्रां प्रयत्नेन वर्जयेद् आत्मचिन्तकः ।
नानोपनिषदो यत्नाद् अभ्यस्येन् मुक्तिहेतुकीः ॥ ७.८० ॥

आपस्तम्बः

अथ परिव्राजकः । अत एव ब्रह्मचर्यात् परिव्रजति । तस्योपदिशन्ति । अनग्निर् अनिकेतः स्याद् अशर्माशरणो मुनिः । स्वाध्याय एवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहो ऽनमुत्रश् चरेत् ॥ ७.८१ ॥ [अप्ध् २.२१.७–१०]

बृहस्पतिः

आत्यन्तिकं ब्रह्मचर्यम् आश्रमत्रयवासिनाम् ।
स्वदारनियमाद् एव गृहस्थो ब्रह्मचर्यवान् ॥ ७.८२ ॥

उत्तरत्र ।

न ज्ञातिपुत्रमित्रादीन् न प्रशस्तान् द्विजातिषु ।
देशान्तरे ऽपि तान् दृष्ट्वा न च तैः सह संविशेत् ।
अवश्यं भाविनी तत्र रागद्वेषादिषु स्थितिः ॥ ७.८३ ॥

तथैव ।

न तीर्थवासी नित्यं स्यान् नोपवासपरो यतिः ।
न चाध्यापनशीलः स्यान् न व्याख्यानपरो भवेत् ॥ ७.८४ ॥

शङ्खः

चन्दनेनोक्षितं बाहुं वास्यैकं वापि तक्षतः ।
कल्याणं वाप्य् अकल्याणं तयोर् अपि न चिन्तयेत् ।
सर्वभूतहितो मैत्रः समलोष्ठाश्मकाञ्चनः ॥ ७.८५ ॥

लिखितः

नानध्यात्मग्रन्थरतिर् न च ज्यौतिषिको भवेत् ।
न व्याधिविषवेतालांश् चिकित्सेद् धर्मतो ऽपि च ॥ ७.८६ ॥
न शिष्यसङ्ग्रहं कुर्यान् न स्वविद्यां प्रकाशयेत् ।
संस्कृतां न वदेद् वाणीं बालवन् मूकवच् चरेत् ॥ ७.८७ ॥

उत्तरत्र ।

सन्न्यस्य यतिधर्मांश् च कुर्वाणो वत्सरत्रयम् ।
योगनिष्ठः सदा भूत्वा मोक्षं प्रेत्य स विन्दति ॥ ७.८८ ॥
तस्माद् ऐश्वर्यम् आकाङ्क्षेत् तद् विष्णोः परमं पदम् ।
कैवल्याश्रमम् आसाद्य चरेद् दिनम् अपि द्विजः ॥ ७.८९ ॥

शङ्खलिखितौ

भैक्षवृत्तिर् असंविभागरुचिर् अभिशस्तपतितवर्जं निन्दकोपहतान्नजीवी कौपीनाच्छादनमात्रावरणपरितुष्टः परिपक्वकषायः कालकाङ्क्षी सदायुक्त आत्मरतिर् असन्निधानशीलः कुहककल्कदम्भवर्जितः सदा नैकग्रामवासी सङ्गदोषान् परित्यज्य पर्यटनशीलः स्यात् । आत्मज्ञानविवेकार्थकुशल ऊर्ध्वं वार्षिकाभ्यां नैकस्थानवासाभिरुचिर् उद्धृताभिर् अद्भिर् मूत्रपुरीषशौचाचमनादि कुर्यात्
॥ ७.९० ॥

तथा ।

वाग्बाणान् दुर्जनैर् मुक्तान् सहते यो न कुप्यति ।
भावेन च सुसंहृष्टः स दमस् तस्य बुद्धिजः ॥ ७.९१ ॥
शीतोष्णादीनि च द्वन्द्वान् दुर्जनप्रहितानि च ।
यथा धारयते बुद्ध्या सा तितिक्षा क्षमा स्मृता ॥ ७.९२ ॥
इष्टानिष्टेषु भूतेषु व्यसनाभ्युदयेषु च ।
उपशान्तः परां प्रज्ञां प्राप्तः शमदमात्मकः ॥ ७.९३ ॥
तपोज्ञानदमैश्वर्यैः सर्वदा यो न कुप्यति ।
वाग्बाणाभिहतस् तीक्ष्णैर् धीरः सो ऽत्र न मुह्यति ॥ ७.९४ ॥
यो यतिर् मृदुभावेन मोक्षधर्मं चरेद् इह ।
भवबन्धं विहायाशु सो ऽमृतत्वाय कल्पते ॥ ७.९५ ॥

तथैव ।

चातुर्वर्ण्यं चरेद् भैक्षं पतितेषु च वर्जयेत् ।
नियतेन्द्रियवाक्चक्षुः पूर्वं पूर्वं विवर्जयेत् ॥ ७.९६ ॥

वृद्धदक्षः

वाग्दण्डो ऽथ मनोदण्डः कर्मदण्डस् तथापरः ।
एतैर् दण्डैस् तु दण्डी स्यान् न तु वैणवधारणात् ॥ ७.९७ ॥
वाग्दण्डो मौनसंयोगः कर्मदण्डस् त्व् अहिंसनम् ।
मनसः स तु दण्डः स्यात् प्राणायमस्य धारणम् ॥ ७.९८ ॥

कपिलः

स्वस्त्याशिषं वर्जयेत् । शरणं न कुर्यान् न कारयेत् । कृतं प्रविशेत् । अथ ब्रह्मोपासीत । तच्चित्त एव शयीत । अनिन्दके देवगृहे वा प्रविष्टो यथा कथञ्चिच् छर्वरीं नयेत् जाग्रद् एव सुषुप्तः । आसीनो ऽथाचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् । काष्ठारोपितकमण्डलुना रात्राव् आचामेत् दिवा स्रवन्त्या । अभिरुचितं प्रभूतोदकं पुण्यस्थानं न त्यजेत् । न लोलुपो नेतिहासपुराणव्याख्यानपरः ॥ ७.९९ ॥

उत्तरत्र ।

निर्जन्तुकैः स्वपतितैर् इन्धनैर् असहिष्णुर् अग्निम् इन्धीत । बीजशून्यमूलफलभक्षणे न दोषः । चेतनाचेतनम् अल्पप्रयोजनाय न द्रुह्येत् । कमण्डलुजलपवित्रकुसीद-तैजसादिसङ्ग्रहे न दोषः । कोपितो ऽपि न कुप्येत् । तोषितो ऽपि न तुष्येत् । मर्तुं नेच्छेन् न जीवितुं वा । अदग्धं पात्रं न त्यजेत् । शौचार्थं पूतिकाकरणात् क्षणम् अपि सद्यः सन्निहितोदके जपनीयं जपेत् । ततश् चतुर्भुजं चिन्तयेत् । नैकदेवतापक्षपातित्वं दर्शयेत् । सन्निकृष्टं साश्रयं शरणं सन्त्यजेत् । सुरूपां स्त्रियं दृष्ट्वा न क्वचित् प्रेक्षेत । सङ्कोचयेद् अक्षिणी । ॐ इति नैव कम्पयेत् ॥ ७.१०० ॥

तथैव ।

सर्वेन्द्रियाणां सङ्कोचो दृष्टादृष्टकरो यतेः ।
अप्रमत्तेन कर्तव्यः सुखम् अत्यन्तम् इच्छता ॥ ७.१०१ ॥
गीतानां गानशीलस्य प्राणायामपरस्य च ।
नैवोक्षन्ति च पापानि जन्मान्तरकृतान्य् अपि ॥ ७.१०२ ॥

क्रतुः

बीजघ्नं तैजसं पात्रं शुक्लोत्सर्गः सिताम्बरम् ।
दिवास्वापो वृथाजल्पो यतीनां पतनानि षट् ॥ ७.१०३ ॥
चिरस्थितानि द्रव्याणि सञ्चयादीनि सर्वदा ।
तृणमृद्दारुतोयाश्मपत्रमूलफलानि च ।
अप्रयुक्तं न गृह्णीत प्रयुक्तं न च सञ्चयेत् ॥ ७.१०४ ॥
दासीदासं गृहं यानं गोभूधान्यधनं रसम् ।
प्रतिगृह्याप्रतिग्राह्यं हन्यात् कुलशतद्वयम् ॥ ७.१०५ ॥

वृद्धजाबालिः

आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवादिषु ।
कुतूहलेषु सर्वेषु न गच्छेद् यतिर् आत्मवान् ॥ ७.१०६ ॥

उत्तरत्र ।

यस् तु दानपरो भिक्षुर् वस्त्रादीनां च सङ्ग्रही ।
उभौ तौ मन्दबुद्धित्वात् पूतीनरकपातिनौ ॥ ७.१०७ ॥

दत्तात्रेयः

आदाय वैष्णवं लिङ्गं यस् तु त्यजति मूढधीः ।
स याति नरकं घोरं तीव्रं सङ्कटदारुणम् ॥ ७.१०८ ॥

देवलः

तुल्यारिमित्रो निष्परिग्रहो ब्रह्मचारी मङ्गल्यव्यवहारो संस्कारो जीवशिक्षारत्नधनधान्यविषयोपभोगसम्पर्केर्ष्यादर्पमायामोहहर्ष-विरोधविस्मयविवादत्रासवितर्कादिवर्जनम् इति यतिधर्माः ॥ ७.१०९ ॥
आहारम् औषधं चैव सद्गृहस्थगृहे यतिः ।
प्रत्यहं चैव भिक्षेत यथा शेषं न तिष्ठति ॥ ७.११० ॥
आहारम् औषधं चैव तत्कालार्थाधिकं यतिः ।
आत्मार्थं धारयेन् मोहान् नरकं प्रतिपद्यते ॥ ७.१११ ॥
आददीत प्रवृत्तेभ्यः साधुभ्यो धर्मसाधनम् ।
नाददीत निवृत्तेभ्यः प्रमादाद् अपि किञ्चन ॥ ७.११२ ॥

गर्गः

सर्वधर्मान् परित्यज्य यतिधर्मं समाश्रयेत् ।
यतिधर्मात् परिभ्रष्टो न धर्मफलम् अश्नुते ॥ ७.११३ ॥

वृद्धवसिष्ठः

पुष्पमूलफलपाटनाग्रच्छेदनमधुमांसदानादानानि वर्जयेत् ॥ ७.११४ ॥

मेधातिथिः

त्रिदण्डं कुण्डिकां शिक्यं भैक्षभाजनम् आसनम् ।
कौपीनाच्छादनं वासः षड् एतानि परिग्रहः ॥ ७.११५ ॥
स्थावरं जङ्गमं बीजं तैजसं विषम् आयुधम् ।
षड् एतानि न गृह्णीयाद् यतिर् मूत्रपुरीषवत् ॥ ७.११६ ॥
भिक्षाटनं जपः स्नानं ध्यानं शौचं सुरार्चनम् ।
कर्तव्यानि षड् एतानि सर्वदा नृपदण्डवत् ॥ ७.११७ ॥
रसज्ञानं क्रियावादो ज्योतिषं क्रयविक्रयौ ।
विविधानि च शिल्पानि वर्जयेत् परदारवत् ॥ ७.११८ ॥
नटादिप्रेक्षणं द्यूतं प्रमदां सुहृदस् तथा ।
भक्ष्यभोज्यम् उदक्यां च षण् ण पश्येत् पुरीषवत् ॥ ७.११९ ॥
स्कन्धावारे पुरे सार्थे खले गोष्ठे तथा गृहे ।
न वसेत यतिः षट्सु स्थानेष्व् एतेषु कर्हिचित् ॥ ७.१२० ॥
रात्र्यध्वानं च यानं च स्त्रीकथा लौल्यम् एव च ।
मञ्चकं शुक्लवस्त्रं च यतीनां पतनानि षट् ॥ ७.१२१ ॥
रागद्वेषौ मदं मानं दम्भं द्रोहं परात्मसु ।
षड् एतानि यतिर् नित्यं मनसापि न चिन्तयेत् ॥ ७.१२२ ॥
आसनं पात्रलोपश् च सञ्चयः शिष्यसङ्ग्रहः ।
दिवास्वापो वृथाजल्पो यतेर् बन्धकराणि षट् ॥ ७.१२३ ॥
एकाहात् परतो ग्रामे पञ्चाहात् परतः पुरे ।
वर्षाभ्यो ऽन्यत्र यत् स्थानम् उक्तं तद् दुष्टम् आसनम् ॥ ७.१२४ ॥
उक्तानां यतिपात्राणाम् एकस्यापि न सङ्ग्रहः ।
भिक्षोर् भैक्षभुजश् चापि पात्रलोपः स उच्यते ॥ ७.१२५ ॥
पात्रस्यापि त्रिदण्डादेर् द्वितीयस्य परिग्रहः ।
कालान्तरोपभोगार्थं सो ऽपि स्याद् द्रव्यसञ्चयः ॥ ७.१२६ ॥
शुश्रूषालाभपूजार्थं यशो ऽर्थं वा परिग्रहः ।
शिष्याणां न तु कारुण्यात् स ज्ञेयः शिष्यसङ्ग्रहः ॥ ७.१२७ ॥
विद्या दिवा प्रकाशत्वाद् अविद्या रात्रिर् उच्यते ।
विद्याभ्यासप्रमादो यः स दिवास्वाप उच्यते ॥ ७.१२८ ॥
आध्यात्मिकां कथां मुक्त्वा भिक्षायात्रां सुरस्तुतिम् ।
अनुग्रहं पथिप्रश्नं वृथाजल्पो ऽन्य उच्यते ॥ ७.१२९ ॥
अजिह्वः षण्ढकः पङ्गुर् अन्धो बधिर एव च ।
मुग्धः स उच्यते भिक्षुः षड्भिर् एतैर् न संशयः ॥ ७.१३० ॥
इदं मृष्टम् इदं नेति यो ऽश्नन्न् अपि न सज्जते ।
इदं तीक्ष्णम् इदं स्वादु तम् अजिह्वं प्रचक्षते ॥ ७.१३१ ॥
अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् ।
शतवर्षां च यो दृष्ट्वा निर्विकारः स षण्ढकः ॥ ७.१३२ ॥
भिक्षार्थम् अटनं यस्य विण्मूत्रकरणाय च ।
योजनान् न परं याति य सदा पङ्गुर् एव सः ॥ ७.१३३ ॥
तिष्ठतो व्रजतो वापि यस्य चक्षुर् न दूरगम् ।
चतुर्युगाद् भयं मुक्त्वा परिव्राट् सो ऽन्ध उच्यते ॥ ७.१३४ ॥
हिताहितं मनोरामं वचः शोकावहं च यत् ।
श्रुत्वा यो न शृणोतीव बधिरः स तु कीर्तितः ॥ ७.१३५ ॥
सन्निधौ परकीयाणां समौनो ऽविकलेन्द्रियः ।
सुप्तवद् वर्तते यो ऽपि स भिक्षुर् मुग्ध उच्यते ॥ ७.१३६ ॥
श्रद्धया परयोपेतः परमात्मपरायणः ।
स्थूलसूक्ष्मशरीराभ्यां मुच्यते दशषट्कवित् ॥ ७.१३७ ॥

जमदग्निः ।

धान्यवृक्षलतावल्लीः स्थावरं जङ्गमं तथा ।
उत्पाटयेद् यो मूढात्मा नरकं प्रतिपद्यते ॥ ७.१३८ ॥
एकान्नी द्विप्रती चैव भैक्षजीवस् त्रिसङ्ग्रही ।
चत्वारः पतिता ह्य् एते यतयो नात्र संशयः ॥ ७.१३९ ॥
ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यतिश् च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ ७.१४० ॥
द्वे एते समवीर्ये तु सुरा ताम्बूलम् एव च ।
तस्मात् सर्वप्रयत्नेन ताम्बूलं वर्जयेद् यतिः ॥ ७.१४१ ॥

शौनकः

न स्वगुणं कीर्तयेत् । त्रासितो ऽपि न कुप्येत् । पूजितो ऽपि न मुदं व्रजेत् । त्रिषवणं दण्डवत् स्नानम् आचरेत् । तथा न लङ्घयेत नदीं न बाहुभ्यां तरेत् । मृत्युं जीवितं वा न काङ्क्षेत् । रात्रौ न चरेत् सन्ध्ययोश् च । ताम्बूलभक्षणं वर्जयेत् । अभ्यङ्गं द्विरन्नं न लिप्सेत । आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु न गच्छेत् । सार्थसमवायेषु वानप्रस्थगृहस्थाभ्यां प्रीतिं च वर्जयेत् ॥ ७.१४२ ॥

पैठीनसिः

स्थूयमानो न तुष्येत । निन्द्यमानो न कुप्येत् । समम् एव वर्तेत विद्यया तपसा च तद् उभयं प्राप्येति ॥ ७.१४३ ॥

सत्यकामः

सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् ।
मोक्षधर्मात् परिभ्रष्टः संस्कारं प्रतिपद्यते ॥ ७.१४४ ॥
नादृष्टां भूमिम् आतिष्ठेन् नासूर्यं मार्गम् आव्रजेत् ।
न हिंस्यात् सर्वभूतानि कर्मणा मनसा गिरा ॥ ७.१४५ ॥

**इति यतिधर्मसमुच्चये आचारो नाम **

सप्तमं पर्व॥

अष्टमं पर्व

लिङ्गधर्मप्रायश्चित्तविधिः

अथ लिङ्गधर्मा वपनादयः सप्रायश्चित्ता उच्यन्ते । तत्र शौनकः

शिखावर्जम् ऋतुसन्धिषु वापयेत् । न रोमाणि वापयेत् ॥ ८.१ ॥

देवलः

ऊर्ध्वं सितचतुर्दश्याः प्रतिपत्तो ऽधरा तिथिः ।
ऋतुसन्धिः स विज्ञेयो वपनं तत्र कारयेत् ॥ ८.२ ॥

लिखितः

ऋतुसन्धिषु सर्वत्र चातुर्मास्यान्तरं विना ।
पौर्णमास्यां शिखावर्जं मुण्डयेत शिरो यतिः ॥ ८.३ ॥
अलाभे व्याधिपीडायां राजचोराद्युपद्रवे ।
वापयेत् पौर्णमास्यादि यावत् स्यात् कृष्णपञ्चमी ॥ ८.४ ॥

ऋतुसन्धिकालः सितचतुर्दश्या ऊर्ध्वं प्रतिपद्यधरा तिथिः या सा ज्ञेया । अपरपक्षादि-प्रतिपत्पञ्चदश्योः सन्धिमदहोरात्रं यत् तस्मिन् वपनं कुर्याद् इत्य् अर्थः ॥ ८.५ ॥

देवलः

चातुर्मास्यानन्तरं केशश्मश्रूण्य् अपनयेत् नाधोरोमाणि ॥ ८.६ ॥

मनुः

कृत्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ ८.७ ॥ [म्ध् ६.५२]

देवलः

मौण्ड्यं शिखाविकल्पो वा यदि लुम्पेत् प्रमादतः ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ ८.८ ॥

गालवः

त्रिस्थानलोमवपनं कृत्वा प्राजापत्यं कृत्वा प्राणायामशतं कुर्यात् ॥ ८.९ ॥

जमदग्निः

कक्षोपस्थादिवपने प्रायश्चित्ती भवेद् यतिः ।
प्राजापत्यत्रयं कृत्वा प्राणायामशतानि च ॥ ८.१० ॥

इदं कक्षोपस्थादिवपनसमुच्चये प्रायश्चित्तम् । मेधातिथिः

कक्षोपस्थशिखावर्जम् ऋतुसन्धिषु वापयेत् ।
न त्रैमुण्ड्यम् अतिक्रामेद् भिक्षुः संवत्सरे क्वचित् ॥ ८.११ ॥
वपनानन्तरं स्नात्वा मृद्भिर् द्वादशभिर् यतिः ।
प्राणायामत्रयं कृत्वा वारुणीभिश् च मार्जयेत् ॥ ८.१२ ॥
स्नात्वोत्तीर्य च शेषेण जङ्घाशौचं मृदम्भसा ।
अपवित्रीकृतो भिक्षुः कौपीनस्राविवारिणा ॥ ८.१३ ॥
कुर्यान् मूत्रपुरीषे चेद् द्विगुणं स्नानम् आचरेत् ।
मुहूर्तद्वयम् अस्नात्वा पिबन् खादंश् च षड्गुणम् ॥ ८.१४ ॥
गृहीतं यदि दण्डाद्यम् अविनष्टं तु न त्यजेत् ।
समुद्रं गच्छ स्वाहेति विनष्टं प्रक्षिपेज् जले ॥ ८.१५ ॥
प्रक्षिप्य चान्यद् आदद्याद् गायत्र्या प्रणवेन वा ।
तच् छं योर् इत्य् उपवीतम् अब्लिङ्गाभिः कमण्डलुम् ॥ ८.१६ ॥
कुण्डिकाम् इषुमात्रोर्ध्वां निक्षिपेच् च विहायसि ।
सोदकां रज्जुसंलग्नाम् अन्यथा दुष्यते यतिः ॥ ८.१७ ॥
अरण्ये त्रीन् इषुक्षेपान् त्रिदण्डेन विना व्रजेत् ।
न दुष्येद् दुष्यति ग्रामे गृहाद् गृहम् अपि व्रजन् ॥ ८.१८ ॥

तथा ।

प्रगृहीतान् त्रिदण्डादीन् अविनष्टान् यदि त्यजेत् ।
एकरात्रोषितः कुर्यात् प्राणायामशतानि च ॥ ८.१९ ॥

गालवः

विद्यमानेन जलपवित्रेणाचमनतर्पणोपस्थानानि न करोति यः तस्य सर्वं निष्फलं भवेत् । तस्य प्रायश्चित्तं विधीयते । प्राणायामांस् त्रिशतं कृत्वा जपेत् त्रिकशतत्रयम् इति । जलपवित्रं विनापः प्राश्य दश प्राणायामान् धारयेत् ॥ ८.२० ॥

अत्रिः

गन्धवर्णरसैर् दुष्टम् अस्वच्छं केशदूषितम् ।
विना वस्त्रं पिबन्न् अम्भः प्राणायामान् दशाचरेत् ॥ ८.२१ ॥

तत्र ।

उद्धृतासु स्रवन्तीषु ह्रदेषु विमलेषु च ।
वस्त्रपूता न कर्तव्या आपः शुद्धा इति श्रुतिः ॥

इति तेनैव पूर्वम् एव परिहृतम् [सेए ६.४४] ॥ ८.२२ ॥

गालवः

जलपवित्रादानं बन्धनं च प्रणवेन कुर्यात् । त्रिदण्डजलपवित्रवियोगं न कुर्यात् । प्रमादात् करणे आचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् । स्नानभोजनकाले तु त्रिदण्डवियोगं न कुर्यात् । प्रमादात् करणे आचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् । प्रागुदक्शिरसं विष्णोः स्थानम सीति त्रिदण्डं स्थापयेत् । अधःपतने उत्तिष्ठ ब्रह्मणस्पत इति जपेत् । अन्यदण्डेषु दण्डान् स्पृष्ट्वा विष्णोर् मनसा पूतेस्थ इति प्रक्षाल्य प्राणायामांस् त्रीन् कुर्यात् । अज्ञानात् करणे प्रणवेन प्रक्षाल्य प्रणवं दशधावर्तयेत् ॥ ८.२३ ॥

गर्गः

दण्डसङ्घर्षणं कृत्वा वनस्पते विड्वाङ्ग इति जपित्वा विष्णोर् मनसा पूतेस्थ इति प्रक्षाल्य प्राणायामांस् त्रीन् कुर्यात् । अज्ञानात् कृत्वा प्रणवेन प्रक्षालयेत् । प्रणवं दशकृत्व आवर्तयेत् ॥ ८.२४ ॥

गालवः

कमण्डलुजलपवित्रपात्रसङ्घर्षणे सद्यस् त्यागो विधीयते ॥ ८.२५ ॥

अत्रिः

पात्रस्नेहसङ्घर्षणं न कुर्यात् । अज्ञानात् कृते ऽपवित्रतां व्रजेत् ॥ ८.२६ ॥

स एवाह

अभिन्नम् अदुष्टं वा पात्रं त्रिदण्डादीन् वा त्यक्त्वा अहोरात्रम् उपोष्य गायत्र्यष्टशतं जपेत् । भिन्नपात्रं धारयित्वोपवासत्रयं चरेत् ॥ ८.२७ ॥

जमदग्निः

शौचभेदे शतं कुर्यात् पात्रभेदे तथैव च ।
भिन्ने त्व् अन्यधृते पात्रे उपवासत्रयं चरेत् ॥ ८.२८ ॥

उत्तरत्र ।

पूयशोणितमांसैस् तु विण्मूत्राभ्यां तथापि वा ।
रेतोऽश्रुश्लेष्मभिः स्पृष्टं पात्रं यदि यतिस् त्यजेत् ॥ ८.२९ ॥
श्वकाकाखुगवोष्ट्रांश् च जम्बुकं वानरं तथा ।
चण्डालं पतितं स्पृष्ट्वा हस्तस्थं पात्रम् उत्सृजेत् ॥ ८.३० ॥
मज्जामूत्रपुरीषैस् तु शुक्लकीलालशोणितैः ।
स्पृष्टं दण्डं त्यजेद् भिक्षुः शेषं संस्कारम् अर्हति ॥ ८.३१ ॥
न दण्डेन विना ग्रामे गृहाद् गृहम् अपि व्रजेत् ।
प्राणायामांस् तथा कुर्याद् वने चाध्वव्यतिक्रमे ॥ ८.३२ ॥
यद्य् अदण्डो गृहं गच्छेद् वनं वा त्रीषुमात्रतः ।
नीडं प्रतिनिवर्तेत प्राणायामांस् त्रयस्त्रयः ॥ ८.३३ ॥
त्रिदण्डासनपात्रादेर् न वियोगः कथञ्चन ।
वियोगात् पतते भिक्षुः प्रायश्चित्तं तद् उच्यते ॥ ८.३४ ॥
त्रिदण्डस्य वियोगे तु प्राणायामशतं चरेत् ।
शतार्धं कुण्डिकायाः स्यात् पात्रे वै षोडश स्मृताः ॥ ८.३५ ॥
पवित्रे चाष्ट विज्ञेयाः शिक्ये षट् च प्रकीर्तिताः ।
चत्वारश् चासने ज्ञेयाः पवित्रीकरणं त्व् इदम् ॥ ८.३६ ॥

सत्यकाम-जाबालौ

अथ भिक्षूणां प्रायश्चित्तं व्याख्यास्यामः । पात्रं क्रोशमात्रं त्यक्त्वा व्रजति चेत् प्रायश्चित्तेन युज्यते । त्रिंशत् प्राणायामान् कृत्वा जपेत् त्रिकशतत्रयम् । त्रिदण्डं पात्रासनं वा त्यक्त्वा समुद्रगाया नद्याः पारं व्रजति चेद् उपवासत्रयं कृत्वा प्राणायामशतं चरेत् ॥ ८.३७ ॥

उत्तरत्र ।

स्त्रीशूद्रे दण्डान्तरं गते प्राणायामांस् त्रीन् कुर्यात् । खरोष्ट्रे ऽन्तरं गते प्राणायामान् षड् आचरेत् । श्वानसूकरचण्डालेष्व् अन्तरं गतेषु प्राणायामान् द्वादश धारयेत् । विहितातिक्रमं कृत्वा प्राणायामान् द्वादश धारयेत् ॥ ८.३८ ॥

दक्षः

दण्डान् पात्रं परित्यज्य एकरात्रोषितो यतिः ।
दण्डान् मन्त्रेण गृह्णीयाद् भिक्षापात्रं परित्यजेत् ॥ ८.३९ ॥

अत्रिः

यदि भूमौ क्षिपेद् दण्डान् पात्रं वापि कदाचन ।
षोडशासुयमान् कुर्याद् अष्टौ षड् द्वादशापि वा ॥ ८.४० ॥

देवलः

दण्डादौ दूषिते विष्ठाक्रव्यादाद्यैर् महामुने ।
किं तत्र वद कर्तव्यं संस्कारो येन जायते ॥ ८.४१ ॥
दण्डान् मृद्भिर् द्वादशभिर् अद्भिः संशोध्य यत्नतः ।
जप्त्वाथ पौरुषं सूक्तम् अद्भिः संशोधयेद् अपि ।
इतरेषां तु राजेन्द्र सद्यस् त्यागो विधीयते ॥ ८.४२ ॥
शुक्लोच्छिष्टाश्रुविण्मूत्रश्लेष्मशूद्रगवानलैः ।
त्यजेत् पात्रपवित्रादीन् स्पृष्ट्वा वा तस्करादिभिः ॥ ८.४३ ॥
गृह्य शूद्रादिवर्णेभ्यः क्रमाद् दण्डादिकं यतिः ।
शतं शतार्धं पञ्च च प्राणायामान् दशापि च ॥ ८.४४ ॥

अत्रिः

उपानच्छत्रवस्त्रादि भिक्षायाः साधनं तथा ।
गृह्य शूद्राच् छतं कुर्याद् वैश्याद् अर्धशतं तथा ।
क्षत्रियात् पञ्चविंशच् च हीनविप्राद् दशैव तु ॥ ८.४५ ॥

वृद्धजाबालिः

त्रिदण्डम् अप्पवित्रं च त्यक्त्वा भिक्षुर् गृहान्तरे ।
जपेत् पुरुषसूक्तं च प्राणायामान् दशाचरेत् ॥ ८.४६ ॥

देवलः

गृहस्थः परपाकाशी पात्रलोपी च भिक्षुकः ।
दशवर्षसहस्राणि तिर्यग्योनिषु जायते ॥ ८.४७ ॥
पात्राभावे यतेर् नित्यं पात्रं पर्णपुटं भवेत् ।
तत् पात्रं तावद् एव स्याद् यावन् मुख्यं न लभ्यते ॥ ८.४८ ॥

कपिलः

सूचीनखनिकृन्तने जलपवित्रपात्रे अन्तर्वासोबहिर् वाससी चाशक्तौ धारयेत् ॥ ८.४९ ॥

अत्रिः

त्यक्त्वा यज्ञोपवीतं तु षट् कृच्छ्राणि समाचरेत् ।
गायत्रीसहितान्य् एव पुनश् चाप्य् उपनाययेत् ॥ ८.५० ॥

वृद्धजाबालिः

हीनो यज्ञोपवीतेन यदि स्याद् ध्यानभिक्षुकः ।
तस्य क्रिया निष्फलाः स्युः प्रायश्चित्तं विधीयते ॥ ८.५१ ॥
गायत्रीसहितान् एव प्राजापत्यान् षड् आचरेत् ।
पुनः संस्कारम् आहृत्य धार्यं यज्ञोपवीतकम् ॥ ८.५२ ॥
कुर्यात् त्रिदण्डग्रहणं कालक्षेपं न कारयेत् ।
एवं न याति नरकं सुगतिं चापि गच्छति ॥ ८.५३ ॥

इदम् एव यज्ञोपवीतत्यागात्मकं पारिव्राज्यं कृतवतां प्रायश्चित्तम् । हारीतः

विना यज्ञोपवीतेन यत् कृतं भोजनादिकम् ।
तत्पापप्रशमायालं प्रायश्चित्तं ब्रवीमि वः ॥ ८.५४ ॥
तेषां तु भोजनादीनां प्रत्यहं सुसमाहितः ।
सहस्रार्धैर् असुयमैर् विधिपूर्वकृतैः शुचिः ॥ ८.५५ ॥
योगाभ्यासरतस्येह नश्यन्ते पातकानि तु ।
तस्माद् योगरतो भूत्वा ध्यायेन् नित्यं क्रियान्तरे ॥ ८.५६ ॥

स एवाह

अज्ञानेन तु विप्रेन्द्रो विना यज्ञोपवीतकम् ।
कृत्वा मूत्रपुरीषाणि प्राणायामान् षड् आचरेत् ॥ ८.५७ ॥
नित्यं यज्ञोपवीती स्याद् ऋते त्व् आवश्यकक्रियाम् ।
कुर्वन्न् आवश्यकं कर्म निवीतं पृष्ठतः क्षिपेत् ॥ ८.५८ ॥

अथ वस्त्रम् उच्यते । तत्राह गौतमः

कौपीनाच्छादनार्थं वासो बिभृयात् । प्रहीणम् एके निर्णिज्य ॥ ८.५९ ॥ [ग्ध् ३.१८–१९]

बृहस्पतिः

कौपीनाच्छादनार्थं च बिभृयाज् जीर्णम् अम्बरम् ।
प्रहीणम् एके निर्णिज्य बहिस् त्याज्यं तु यद् भवेत् ॥ ८.६० ॥

हारीतः

कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीम् ।
पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य सङ्ग्रहम् ॥ ८.६१ ॥

जाबालिः

कार्पासं धारयेद् वस्त्रं पटं वल्कलवर्जितम्
नान्यथाचमने शुध्येत् सन्ध्योपासन एव च ।
काषायम् एव कार्पासं वासः कन्थां च धारयेत् ॥ ८.६२ ॥

शङ्खलिखितौ

त्रिदण्डपवित्रपाणिर् विपरिधानं कुशचीरवल्कलवासाः शीतत्राणार्थं कम्बलम् एके
॥ ८.६३ ॥

यद्य् अपि काषायम् इत्य् अविशेषेणोक्तं तथापि गैरिकाख्यधातुना रक्तं कर्तव्यम् । तथा हि पारिव्राज्यलिङ्गधारणं गृहस्थस्य प्रतिषेधयन्न् एतज् ज्ञापयति वृद्धजाबालिः

न धारयेद् धातुवस्त्रं शिक्यं चापि न धारयेत् ।
न धारयेत् त्रिविष्टब्धम् एतत् स्नातकलक्षणम् ॥ ८.६४ ॥

दत्तात्रेयः

मोक्षाश्रमे स्मृतं वस्त्रं रक्तं गैरिकधातुना ।
धार्यं यज्ञोपवीतं तु सितं नवगुणान्वितम् ॥ ८.६५ ॥

एतासु विहितास्व् अपि मात्रासु सङ्गो न कर्तव्यः । तथा च देवलः

सममृत्काञ्चनः स्वमात्रास्व् अप्य् असक्तो मध्यस्थः ॥ ८.६६ ॥

मनुः

मात्रासङ्गाद्विनिर्गतः इति ॥ ८.६७ ॥

वसिष्ठः

न कुट्यां नोदके सङ्गो न चेले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित् तु सः ॥ ८.६८ ॥ [वध् १०.२३]

इति यतिधर्मसमुच्चये लिङ्गधर्मप्रायश्चित्तविधिर् नाम

अष्टमं पर्व ॥ ८.६९ ॥

नवमं पर्व

गतिस्थितिनिरूपणम्

अथ यतीनां गतिस्थितिर् निरूप्यते । तत्र गौतमः

ऊर्ध्वरेता ध्रुवशीलो वर्षासु ॥ ९.१ ॥ [ग्ध् ३.११–१२]

मेधातिथिः

उदिते ऽन्यत्र मध्याह्ने अन्यत्रास्तमिते रवौ ।
दृश्यते त्व् अनिकेतः स्यात् सूर्यवत् सङ्गवर्जितः ॥ ९.२ ॥
देवालयाग्न्यागारेषु त्व् एकदेशे निशां नयेत् ।
अन्यत्र मरणत्रासान् महतश् चाप्य् उपद्रवात् ॥ ९.३ ॥
वार्षिकांश् चतुरो मासान् बहिर्ग्रामात् समापयेत् ।
तत्राप्य् उपक्रमे हेतू पूर्वोक्ताव् अनिवारितौ ॥ ९.४ ॥

अत्र वर्षास्व् एकत्र वस्तव्यम् अन्यथा न वस्तव्यम् इति प्रतीयते । तत्राल्पानुग्रहं मनुर् आह ।

ग्रैष्महैमन्तिकान् मासान् अष्टौ प्रायेण पर्यटेत् ।
दयार्थं सर्वभूतानां वर्षास्व् एकत्र संवसेत् ॥ ९.५ ॥

अत्र प्रायेणेति सूचितम् अनुग्रहं क्रतुर् विशिनष्टि ।

ग्रामे दिनं पुरे त्रीणि नगरे पञ्च सप्त वा ।
तिष्ठेद् एकत्र वर्षासु व्रजेत् सूर्योदिते पथि ॥ ९.६ ॥

लिखितः

परे ब्रह्मणि सन्न्यस्य कुर्वन् कर्माणि शक्तितः ।
योगाभ्यासप्रधानस् तु जपशीलः क्षमापरः ॥ ९.७ ॥
पर्यटेत् पुण्यतीर्थानि देवतायतनानि च ।
कृच्छ्रचान्द्रायणादीनि कुर्याच् छुद्ध्यर्थम् आत्मनः ॥ ९.८ ॥
अनन्धो ऽव्याधितो ऽपङ्गुः षड्रात्रं न वसेत् क्वचित् ।
धर्मधीर् अन्यदेशाच् चेद् वसेद् वा सार्वकालिकम् ॥ ९.९ ॥
श्रावणं मासम् आरभ्य यावन् मासचतुष्टयम् ।
वसेयुः सर्वयतय एकत्रैवेति निश्चयः ॥ ९.१० ॥

देवलः

न चिरम् एकत्र वसेद् अन्यत्र वार्षिकात् । श्रावणादिचतुर्मासिको वार्षिकः । तस्मिन् न यायी स्यात् ॥ ९.११ ॥

गालवः

शून्यागारे वृक्षमूले वा वर्षास्व् एकत्र निवसेत् ॥ ९.१२ ॥

विश्वामित्रः

वर्षाभ्यो ऽन्यत्राप्य् एकत्र वसेद् एव ॥ ९.१३ ॥

वृद्धमनुः

धर्मवृद्धो त्व् आ मरणाद् एकत्रापि वसेत् । अन्यत्र व्रजनशीलः स्याद् इत्य् आचार्याः ॥ ९.१४ ॥

प्रकारं देशं यम आह ।

ग्रामैकरात्रवासी स्यान् नगरे पञ्चरात्रिकः ।
एकत्र निवसेन् मासांश् चतुरो वार्षिकान् मुनिः ॥ ९.१५ ॥
जले जीवाः स्थले जीवा आकाशे जीवमालिका ।
जीवमालिकाकुले लोके वर्षास्व् एकत्र संवसेत् ॥ ९.१६ ॥
अध्वा सूर्यस्य निर्दिष्टः कीटवच् च चरेन् महीम् ।
अश्वस्तननिधानस् तु सुमतिः सुसमाहितः ॥ ९.१७ ॥
भयं प्राणान्तिकं त्यक्त्वा विण्मूत्रोत्सर्गम् एव च ।
नान्यत्र विचरेद् रात्रौ न मध्याह्ने न सन्ध्ययोः ॥ ९.१८ ॥
एकाकी विचरेन् नित्यं मुक्तात्मा त्व् असहायकः ।
एकस्य हि समः पन्था जायते ऽन्यत्र जीयते ॥ ९.१९ ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सूनृताम् ईरयेद् वाचं सर्वसत्त्वहितं चरेत् ॥ ९.२० ॥
एकशाट्य् एकभक्तश् च एकपात्री च भिक्षुकः ।
एकैकं विचरेद् ग्रामं तत् पुराणम् ऋषिव्रतम् ॥ ९.२१ ॥
नित्यं स्थण्डिलशायी स्याद् अनित्यां वसतिं वसेत् ।
अरण्यनित्यो मुण्डी स्यान् मनसा ध्यानम् अभ्यसेत् ॥ ९.२२ ॥
भैक्षदेशं नृपज्ञातिपुत्रमित्रादियोषितः ।
उपकारकथाश् चैव मनसापि न चिन्तयेत् ॥ ९.२३ ॥
आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदं प्रति ।
सम्मानम् अपि न ब्रूयान् मुनिर् मोक्षपरायणः ॥ ९.२४ ॥
यतीनां व्रतवृद्धानां स्वधर्मम् अनुवर्तिनाम् ।
विष्णुरूपेण वै कुर्यान् नमस्कारं दिने दिने ॥ ९.२५ ॥
यो भवेत् पूर्वसन्न्यासी तुल्यो वा धर्मतो यतिः ।
नमस्कारार्चनादीनि कुर्यान् नान्यस्य कस्यचित् ॥ ९.२६ ॥
स्वधर्मस्थान् यतीन् वृद्धान् देवांश् च प्रणमेद् यतिः ।
नान्यम् आश्रमिणं कञ्चित् प्रशस्तम् अपि तं नमेत् ॥ ९.२७ ॥
सायं प्रातर् न तृप्येत न प्रसज्जेत भोजने ।
नेन्द्रियार्थेषु सज्जेत कदाचिद् अपि कामतः ॥ ९.२८ ॥
पन्थानम् अपि पृच्छेच् च भिक्षां देहीति च द्वयम् ।
तावद् एव व्याहरणं शेषम् अन्यन् निषिध्यते ॥ ९.२९ ॥

अत्रिः

गूढधर्माश्रितो विद्वान् अज्ञानचरणे स्थितः ।
अमूढो मूढरूपेण चरेद् धर्मम् अदूषयन् ॥ ९.३० ॥

कपिलः

वृद्धातुरवद् यथाकथञ्चित् स्थितिं सम्पादयेत् ॥ ९.३१ ॥

बृहस्पतिः

नैवाददीत पाथेयं यतिर् वै यद् अनापदि ।
पक्वम् आपत्सु गृह्णीयाद् यावद् अह्नोपयुज्यते ॥ ९.३२ ॥

जमदग्निः

अरण्ये निर्जने देशे चोरव्याघ्राकुले पथि ।
कृत्वा मूत्रपुरीषं च द्रव्यहस्तो न दुष्यति ॥ ९.३३ ॥
भूमौ निधाय तद् द्रव्यं शौचं कृत्वा यथाविधि ।
उत्सङ्गे गृह्य तद् द्रव्यम् आचान्तः प्रयतः शुचिः ॥ ९.३४ ॥

गालवः

योजनाधिकगमने द्वादश प्राणायामान् धारयेत् ॥ ९.३५ ॥

अथ चातुर्मास्यकाल उच्यते । आषाढ्यां पौर्णमास्याम् आरभ्य कार्त्तिक्याम् उत्थानम् । अथ वा श्रावण्याम् आरभ्य मार्गशीर्ष्याम् । अन्ये त्व् एवम् आहुः । वर्षासु ध्रुवशील इत्य् अनेन ऋतुविधानात् मासद्वयेन व्रतसमाप्तिर् इति ॥ ९.३६ ॥ जाबालिः

ग्रैष्महैमन्तिकान् मासान् अष्टौ भिक्षुर् विपर्यटेत् ।
दयार्थं सर्वभूतानां वर्षास्व् एकत्र संवसेत् ॥ ९.३७ ॥
चातुर्मास्यान् वसेद् ग्रामे श्रद्धाभक्तिसमन्वितः ।
स्थितिभङ्गम् अकुर्वन् हि शाश्वतं पदम् आप्नुयात् ॥ ९.३८ ॥
यावद् वर्षत्य् अकाले ऽपि यावत् क्लिन्ना च मेदिनी ।
ग्रामे सीमाधिकं नेयाद् विस्तीर्णे क्रोशतः परम् ॥ ९.३९ ॥

मेधातिथिः

प्रशस्तां मृत्तिकां शुष्कां गृह्णीयाच् छुचिशुक्रयोः ।
द्वादश्यां मृदम् आदाय शुभां किञ्चिद् अपीडयन् ॥ ९.४० ॥
यावद् वर्षत्य् अकाले ऽपि यावत् क्लिन्ना च मेदिनी ।
तावन् न विचरेद् भिक्षुः स्वधर्मम् अनुपालयन् ।
आषाढादि वसेन् मासांश् चतुरः कार्त्तिकोदयात् ॥ ९.४१ ॥

अत्रिः

चातुर्मास्यविधिं वक्ष्ये यतीनां नियतात्मनाम् ।
यम् आश्रित्य सदा मुक्तो भविष्यति न संशयः ॥ ९.४२ ॥
शुक्लमासादिकः कालो यावद् आषाढपूर्णिमा ।
तत्र पुण्ये ऽह्नि कस्मिंश्चित् सङ्कल्पदिवसे ऽपि वा ॥ ९.४३ ॥
शर्कराश्मलतावल्लीलोष्टादिरहितां शुभाम् ।
शुष्कां साधारणीं भूमिं गत्वा ससिकतां यतिः ॥ ९.४४ ॥
स्मरन् वराहरूपेण धारयन्तं महीं हरिम् ।
सर्वभूताधिवासेन वासुदेवेन पावनीम् ॥ ९.४५ ॥
अधिवासितासि देवि त्वं प्रणवेन स्वयम्भुवा ।
पवित्रत्वाय यस्मात् त्वं देवदेवेन निर्मिता ॥ ९.४६ ॥
प्रणवेन तथा पृथ्वी देवि त्वम् अधिवासिता ।
अधिवास्य क्षमाम् एवं मन्त्रैः सप्रणवैस् ततः ॥ ९.४७ ॥

अश्वक्रान्त इत्य् आरभ्य पदे पदे, उद्धृतासि, भूमिर् धेनुः, मृत्तिके हन, त्वया हतेन, मृत्तिके देहि, गन्धद्वाराम्, ईश्वरीम् ॥ ९.४८ ॥

येनोद्धृतासि देवि त्वं क्रोधरूपेण दंष्ट्रिणा ।
त्वया सह स मां पातु केशवो धरणीधरः ॥ ९.४९ ॥
आधारः सर्वभूतानां त्वं देवि वसुधे स्मृता ।
पालनी पावनी धात्री सर्वभूताभयङ्करी ॥ ९.५० ॥
विष्णुक्रान्तासि देवि त्वं विश्वक्रान्तासि मेदिनी ।
पाहि मां सर्वभूतेभ्यो विष्णुना सह माधवी ।
इति विज्ञाप्य युक्तात्मा माधवीं लोकधारिणीम् ॥ ९.५१ ॥
मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ।
मृत्तिके जहि तत् सर्वं यन् मया दुष्कृतं कृतम् ॥ ९.५२ ॥
इदं विष्णुर् इति द्वाभ्यां शुभां गृह्णीत मृत्तिकाम् ।
अथ दर्भकरस् तेषु चासीनः प्राङ्मुखो यतिः ।
वार्षिकं व्रतम् एतत् तु चातुर्मासिकम् आहरेत् ॥ ९.५३ ॥
माधवश् चतुरो मासान् सर्वभूतहिताय वै ।
स्वापं यास्यति शेषाङ्के लक्ष्म्या सह जगत्पतिः ॥ ९.५४ ॥
सुप्तश् चैवोत्थितो यावन् न भवेत् स सनातनः ।
अहं तावन् निवत्स्यामि सर्वभूतहिताय वै ॥ ९.५५ ॥
ध्रुवा द्यौर् इत्य् ऋचं जप्त्वा ततो भूमिं च संस्पृशेत् ।
अनेनैव विधानेन आषाढे मासि भिक्षुकः ॥ ९.५६ ॥
द्वादश्यां शुक्लपक्षस्य पौर्णमास्याम् अथापि वा ।
उत्तराषाढयुक्तायां यदि खण्डा तु पूर्णिमा ॥ ९.५७ ॥
मृदं गृहीत्वेदं विष्णुर् इति ताम् आनयेन् मृदम् ।
अनेनैव तु मन्त्रेण तीर्थान् सम्पूजयेत् ततः ॥ ९.५८ ॥
नमस्कृत्य विधानेन वृद्धानुक्रमतो यतीन् ।
ज्यायसे यतये दद्याद् यवीयान् मृत्तिकां यतिः ॥ ९.५९ ॥
पिण्डम् एकम् अथ द्वौ वा मन्त्रेणानेन पूजयेत् ।
गृहाण मृत्तिकां भिक्षो सर्वपापहरां शिवाम् ॥ ९.६० ॥
युष्मान् अस्मान् इयं देवी विष्णुना सह रक्षतु ।
मृदम् इत्थं गृहीत्वा तां तया स्नानादि साधयेत् ॥ ९.६१ ॥
आहृत्य मृत्तिकाम् एवं तत्कालहृतया मृदा ।
कुर्यान् मृच्छौचकर्माणि यावन् मासचतुष्टयम् ॥ ९.६२ ॥
श्वोभाविनीं प्रतिपदम् आरभ्य श्रावणीं यतिः ।
न प्रयायाच् चतुर्मासान् वपनं कारयेन् न च ॥ ९.६३ ॥
आरम्भोत्थानदिनयोर् वापयेद् वपने ऽपि तु ।
अधःकण्ठशिखाक्षिभ्रूरोमाणि न हि जातुचित् ॥ ९.६४ ॥
द्वादश्यां पौर्णमास्यां वानारम्भो विघ्नतो यदि ।
स्थानाभावाद् व्रजेत् तावद् यावत् स्यात् कृष्णपञ्चमी ॥ ९.६५ ॥
प्रायश्चित्तेन युज्येत तदूर्ध्वं हि व्रजन् यतिः ।
कृच्छ्रम् एकं चरेद् भिक्षुर् यदि व्याजेन गच्छति ॥ ९.६६ ॥
विस्तीर्णे ग्रामसीमान्ते क्रोशाद् ऊर्ध्वं व्रजेद् यदि ।
त्रिंशत् प्राणायामान् कृत्वा जपेत् त्रिकशतत्रयम् ॥ ९.६७ ॥

इदं प्रायश्चित्तं तस्मिन्न् एवाहनि पुनः प्रत्यागतस्य । तत्रैव रात्रिम् अध्युषितस्य तु प्रायश्चित्तं वृद्धजाबालिर् आह ।

ग्रामे सीमाधिकं नेयाद् विस्तीर्णे क्रोशतः परम् ।
यदि कश्चित् प्रमादेन क्रोशमात्राधिकं व्रजेत् ।
प्राजापत्येन शुध्येत षोडशासुयमैस् तथा ॥ ९.६८॥

वायुः

वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः ।
तप्तकृच्छ्रेण शुद्धात्मा विरजा जायते पुनः ॥ ९.६९ ॥
शारीरं दृश्यते यत्र भयं कस्यांश्चिद् आपदि ।
दुर्भिक्षे राष्ट्रभङ्गे वा वर्षास्व् अपि तम् उत्सृजेत् ॥ ९.७० ॥
चोरैर् उपद्रुतं देशं दुर्भिक्षव्याधिपीडितम् ।
चक्रेणान्येन वाक्रान्तं वर्षास्व् अप्य् आशु तं त्यजेत् ॥ ९.७१ ॥

अत्रिः

वर्षर्तौ तु विना विघ्नं शरणं सन्त्यजेद् यदि ।
जपेत् त्रिकसहस्रं वै प्राणायामशतं तथा ॥ ९.७२ ॥
वर्षाकाले विना विघ्नं विशेत् स्थानान्तरं यदि ।
जपेत् त्रिकसहस्रं वै प्राणायामशतत्रयम् ॥ ९.७३ ॥
स्थितियोग्यान् बहून् ग्रामान् यदि वर्षासु लङ्घयेत् ।
प्रत्येकं तु चरेत् कृच्छ्रं ततः पापात् प्रमुच्यते ॥ ९.७४ ॥
समुद्रज्येष्ठादिभिर् मन्त्रैश् चतुर्भिः शिरसोदकम् ।
चतुर्दिशं जलैर् वापः सं नः शिशीहि मन्त्रतः ॥ ९.७५ ॥
क्षुराभिमन्त्रणं कुर्याद् व्याधितस्यातुरस्य च ।
आपञ्चम्याः प्रशस्ताः स्युर् यतेः क्षौरादिकाः क्रियाः ॥ ९.७६ ॥
द्वादश्यां कार्त्तिके मासि पौर्णमास्याम् अथापि वा ।
कृतवापो मृदं शिष्टाम् उर्व् इति प्रक्षिपेज् जले ॥ ९.७७ ॥
श्वोभूते ऽथ त्रयोदश्यां प्रतिपद्य् अपि वा क्वचित् ।
उत्थायेष्टं व्रजेद् देशं तदा त्रीणि पदेत्य् ऋचा ॥ ९.७८ ॥
महि त्रीणाम् ऋचस् तिस्रो ये ते पन्थान इत्य् अपि ।
जपित्वैता ऋचो गच्छेद् आरभ्य प्राग् उदक् च वा ॥ ९.७९ ॥

गौतमः

न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥ ९.८० ॥ [ग्ध् ३.२१]

अपगते ऋतौ द्वितीयां रात्रिं ग्रामे न वसेत् । एकस्मिन् ग्रामे दिनद्वयं न वसेद् इत्य् अर्थः । ग्रामग्रहणाद् अरण्ये न दोष इति मस्करी । न द्वितीयाम् अपर्तु रात्रिम् इति यद्य् अपि ऋतुर् अविशेषितः तथापि वार्षिको ग्राह्यः । ऊर्ध्वं वार्षिकाभ्यां नैकस्थानं विधीयत इति शङ्खः । यौ च श्रावणभाद्रपदौ अशक्तस्य तौ । चत्वारो मासाः देवलः

न चिरम् एकत्र वसेद् अन्यत्र वार्षिकात् । श्रावणादयश् चत्वारो मासा वार्षिकाः [सेए ६.११] ।

इति विश्वरूपः ॥ ९.८२ ॥

सत्यकाम-जाबालौ

ग्रामे नगरे पुरे वा प्राप्ते वर्षाकाले स्थितिम् एव करोति भिक्षुस् तस्मिन्न् एव स्थाने ऊर्ध्वकालं क्षणम् अपि स्थितिं न कुर्यात् । अज्ञानात् स्थितिं कृत्वा प्राजापत्यं समाचरेत्
॥ ९.८३ ॥

पुनर् अत्रिः

जपित्वैता ऋचो गच्छेद् आरभ्य प्राग् उदक् च वा ।
ग्रामैकरात्रं विहरेद् दीर्घम् आसीत वा क्वचित् ।
अन्धवज् जडवच् चापि बधिरोन्मत्तमूकवत् ॥ ९.८४ ॥
नामगोत्रादिचरणं देशं वंशं श्रुतं कुलम् ।
वयो वृत्तं व्रतं शीलं ख्यापयन् नैव सिद्ध्यति ।
प्रख्यापनाद् यतेर् हानिः पुण्यस्य स्यान् न संशयः ॥ ९.८५ ॥
गूढधर्माश्रितो विद्वान् अज्ञातचरिते स्थितः ।
अमूढो मूढरूपेण चरेद् धर्मम् अदूषयन् ॥ ९.८६ ॥

इति यतिधर्मसमुच्चये गतिस्थितिनिरूपणं नाम

नवमं पर्व ॥ ९.८७ ॥

दशमं पर्व

प्रायश्चित्तविधिः

अथ प्रायश्चित्तान्य् उच्यन्ते । तत्र वायुः

प्रायश्चित्तानि कार्याणि यान्य् अकामकृतानि च ।
कृतानि कामतश् चापि तत्र चेत्य् अपरे विदुः ॥ १०.१ ॥
पापं तु त्रिविधं ज्ञेयं वाङ्मनःकायसम्भवम् ।
सन्ततं स्याद् अहोरात्रं येनेदं दह्यते जनः ॥ १०.२ ॥
न कर्माणि न चाप्य् आयुस् तिष्ठतीति परा श्रुतिः ।
प्रायश्चित्तं क्षणेनाथ प्रयुञ्ज्याद् आयुषि स्थिते ॥ १०.३ ॥
अभ्यासाद् रमते पापे वर्धते दिनसङ्ख्यया ।
अभ्यासे बुद्धिपूर्वे च प्रायश्चित्तेन शोधयेत् ।
शोधयेत् तावद् आत्मानं यावच् चित्तं प्रसीदति ॥ १०.४ ॥
यदि स्यात् पातकं किञ्चिद् योगी कुर्यात् प्रमादतः ।
योगम् एव निषेवेत नान्यां कुर्वीत निष्कृतिम् ॥ १०.५ ॥
प्राणायामप्रत्याहारध्यानयोगसमन्वितः ।
नश्येत् प्रमादजो दोषो व्रतैर् नान्यैर् अनुष्ठितैः ॥ १०.६ ॥

अभ्यासे बुद्धिपूर्वे च व्रतानुष्ठानं प्रमादकृते योग इत्य् उक्तम् । तद् आह हारीतः

योगाभ्यासरतस्येह नश्यन्ते पातकानि तु ॥ १०.७ ॥ [सेए ८.५६]

अत्रिः

चान्द्रायणं पराकं वा कृच्छ्रं सान्तपनादि वा ।
न शक्नोति यतिः कर्तुं स कुर्यात् प्राणसंयमम् ॥ १०.८ ॥
यत् पापं नश्यते पुंसाम् एकाह्नो ऽभोजनेन तु ।
जपात् त्रिकसहस्रस्य तत् पापं नश्यति ध्रुवम् ॥ १०.९ ॥
जपात् त्रिकसहस्रस्य यत् पापं नाशयेद् द्विजः ।
प्राणायामशतेनैव तत् पापं नश्यते ऽखिलम् ॥ १०.१० ॥
प्राणायामसहस्रेण यत् पापं नश्यते द्विजैः ।
क्षणमात्रेण तत् सम्यग् घरेर् ध्यानात् प्रणश्यति ॥ १०.११ ॥
प्राणायामाज् जपाद् ध्यानान् नान्यद् भिक्षोर् विशोधनम् ।
तस्मात् तान्य् एव कुर्वीत यतिः शुद्ध्यर्थम् आत्मनः ॥ १०.१२ ॥
प्राणायामशतं भिक्षुर् यः करोति दिने दिने ।
पितृमातृगुरुघ्नो ऽपि त्रिभिर् एभिर् विमुच्यते ॥ १०.१३ ॥

जमदग्निः

प्राणायामैश् च ध्यानैश् च जपैश् च सततं कृतैः ।
दह्यन्ते सर्वपापानि पावकेनेन्धनं यथा ॥ १०.१४ ॥

व्यासः

उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
रजन्याः पादम् एकं तु ब्रह्मध्यानेन शुध्यति ॥ १०.१५ ॥

गालवः

ईश्वरदर्शनं सर्वप्रायश्चित्तम् इति ॥ १०.१६ ॥

वायुः

भवेद् योगो ऽप्रमत्तस्य योगो हि परमो मतः ।
न हि योगात् परं किञ्चिन् नराणां विद्यते हितम् ॥ १०.१७ ॥
पवित्राणां पवित्रं तत् पावनानां च पावनम् ।
तस्माद् योगं प्रशंसन्ति तत् क्षमस्य मनीषिणः ॥ १०.१८ ॥

जमदग्निः

अथ वा यद् गुरुर् ब्रूयात् तत् कार्यम् अविशङ्कया ।
निग्रहे ऽनुग्रहे वापि गुरुः सर्वत्र कारणम् ॥ १०.१९ ॥

वायुः

व्यतिक्रमेत् तु यः कश्चिद् वाङ्मनःकायकर्मभिः ।
सभ्याः सर्वे विनिश्चित्य यद् ब्रूयुस् तत् समाचरेत् ॥ १०.२० ॥

अत्रिः

उपपातकिनो भिक्षोस् तथा लघ्वशनं जपः ।
मौनं कालत्रयस्नानं विहितानि विशेषतः ॥ १०.२१ ॥
सहस्रासुयमान् कृत्वा प्रणवस्यायुतं जपेत् ।
ततस् त्रिकसहस्राणां विधिना पञ्चविंशतिः ।
अरण्ये व्रतम् एतत् तु कृत्वा भिक्षुर् विशुध्यति ॥ १०.२२ ॥

अथ सन्ध्यातिक्रमप्रायश्चित्तम् उच्यते । तत्र देवलः

सन्ध्यालोपो ऽनातुरस्य यदि जातः प्रमादतः ।
जपात् त्रिकसहस्रस्य शुध्यते नात्र संशयः ॥ १०.२३ ॥

गर्गः

भिक्षुः सन्ध्याम् अतिक्रम्य प्रायश्चित्तेन युज्यते ।
जपेत् त्रिकसहस्रं तु प्राणायामशतं तथा ॥ १०.२४ ॥

गालवः

अर्धोदित उपस्थानं कुर्यात् । कालातिक्रमं कृत्वा प्राणायामान् द्वादशैव तु धारयेत्
॥ १०.२५ ॥

अथ भिक्षाटनप्रायश्चित्तम् । तत्र देवलः

उपस्थानं कृत्वा चिरकालं न तिष्ठेत् । चिरकालं स्थित्वा प्राणायामान् षोडशाचरेत् । उपस्थानं कृत्वा देवतावृद्धादीनां नमस्कारं न कुर्यात् । अज्ञानात् कृत्वा षोडश प्राणायामान् धारयेत् । उपस्थानं कृत्वा भिक्षाग्रहं न व्यतिक्रमेत् । व्यतिक्रमं कृत्वा प्राणायामांस् त्रिंशच् चरेत् । उपस्थानं कृत्वा एकभिक्षां न समाचरेत् । यदि समाचरेत् प्राजापत्यं समाचरेत् ॥ १०.२६ ॥

भरद्वाजः

सम्भाषणादीन् परिहरेत् । अज्ञानात् कृत्वा प्राणायामत्रयं कुर्यात् । सव्येनादाय पात्रं त्रिदण्डं दक्षिणे न क्वचिद् अपि परिवर्तयेत् । अज्ञानात् परिवर्तनं कृत्वा त्रीन् प्राणायामांश् चरेत् । सव्येनादाय पात्रं दक्षिणस्थत्रिदण्डे न संश्लेषयेत् । संश्लेषणं यदा करोति तदा प्राणायामान् षड् आचरेत् । भिक्षार्थं चोपस्थानं कृत्वा प्रविश्य नोपविशेत् । क्वचिद् उपविशन् प्राणायामान् द्वादश धारयेत् । यदि भिक्षुः प्रमादेन शूद्रोदक्याचोदितं गृह्णाति भैक्षं प्राणायामान् षोडश धारयेत् । त्रिदण्डं बहिः स्थाप्य भिक्षां न याचयेत् न च गृह्णीयात् । यदि गृह्णीयात् प्राणायामान् षोडश धारयेत् । त्रिदण्डं कराद् विहाय भिक्षां न याचयेत् न गृह्णीयात् । अज्ञानात् कृत्वा प्राणायामशतं चरेत् ॥ १०.२७ ॥

देवल-काश्यपौ

श्वखरोष्ट्राखुमार्जारभासवानरसूकरान् ।
नीलीकाष्ठाग्निचयने नरास्थि ग्रामकुक्कुटम् ॥ १०.२८ ॥
सृगालं च कृतघ्नं च शूद्रं मद्यपम् एव च ।
त्यक्तोपवीतं नग्नं च पाषण्डानुगतं द्विजम् ॥ १०.२९ ॥
विश्रम्भघातिनं चैव देवब्राह्मणनिन्दकम् ।
अगारदाहिनं चैव धर्मविक्रयिणं तथा ॥ १०.३० ॥
अमेध्यनिचयं षण्ढं स्पृष्ट्वा देवलकं यतिः ।
स्थाप्य पात्रं शुचौ देशे शुभं गच्छेज् जलाशयम् ॥ १०.३१ ॥
शौचं कृत्वा यथान्यायं क्षालयेच् च मृदम्भसा ।
यत् स्याद् उपहतं चाङ्गं मृद्भिर् द्वादशभिर् यतिः ॥ १०.३२ ॥
अद्भिः संशोध्य तत् सर्वं तथा स्नानं समाचरेत् ।
आचम्य प्रयतो भुक्त्वा प्राणायामान् षड् आचरेत् ॥ १०.३३ ॥
आपो हि ष्ठेति तिसृभिर् मार्जयित्वा पुनः पुनः ।
जले ऽघमर्षणं कृत्वा पुनः स्नानं समाचरेत् ॥ १०.३४ ॥
भिक्षाधारं समादद्यात् त्रिकेणाभ्युक्ष्य वारिणा ।
निमज्जयेत् पुनस् तोये शुद्ध्यर्थं सकरे तथा ॥ १०.३५ ॥
एवम् एषां तु संस्पर्शे भिक्षा भिक्षोर् विशुद्ध्यति ।
यदि पात्रे ऽन्यसंसर्गस् तदा शुध्यति नान्यथा ॥ १०.३६ ॥
यदि पात्रे ऽन्यसंस्पृष्टिः श्वकाकादिभिर् अन्त्यजैः ।
यदा च चरते तत्र तदा चान्द्रायणं चरेत् ॥ १०.३७ ॥

जमदग्निः

श्वकाकक्रोडवेश्याविट्खरोष्ट्रस्पर्शने यतिः ।
सभैक्षस् तु जले मग्नः शुध्येज् जप्त्वाघमर्षणम् ॥ १०.३८ ॥

वृद्धजाबालिः

भिक्षाम् अटन् यः सन्न्यासी शुनो ऽमेध्यं च वा स्पृशेत् ।
भिक्षां गृहीत्वा स्नात्वा च प्राणायामान् षड् आचरेत् ॥ १०.३९ ॥
भिक्षां पवित्रां कुर्वीत गायत्र्या प्रणवेन च ।
वारुणेन तु मन्त्रेण प्रोक्षितं तु ततः शुचिः ॥ १०.४० ॥

गर्गः

पतिते पात्रे भिक्षां गृहीत्वा प्राणायामांस् त्रिंशच् चरेत् ॥ १०.४१ ॥

गालवः

मत्स्यमांसं यद् गृहे पच्यते तद् गृहं वर्जयेत् । तत्र गृहीत्वा प्राणायामान् द्वादश धारयेत् ॥ १०.४२ ॥

देवलः

ग्रामाद् बहिस् तथा ग्रामे यदि भिक्षां समाचरेत् ।
उभयत्र च गृह्णानश् चरेत् सान्तपनव्रतम् ॥ १०.४३ ॥

जमदग्निः

ग्रामे प्रविष्टे भिक्षार्थं यदि भिक्षा न लभ्यते ।
ग्रामे द्वितीये भिक्षित्वा तप्तकृच्छ्रं समाचरेत् ॥ १०.४४ ॥
पात्रे तु पतिते भैक्षे एकभिक्षां समाचरेत् ।
प्राणायामशतं कुर्याच् छुध्यर्थं यतिर् आत्मनः ॥ १०.४५ ॥
भिक्षां माधूकरीम् अश्नन् नैवेद्यम् अपि वर्जयेत् ।
प्राजापत्येन कृच्छ्रेण शुध्यते नात्र संशयः ॥ १०.४६ ॥
भिक्षां माधूकरीम् अश्नन् नैवेद्ये तु विसर्जिते ।
परतो ऽन्नम् अभुञ्जानस् त्रिरात्रेणैव शुध्यति ॥ १०.४७ ॥

गालवः

परान्नं भिक्षान्नं चैकस्मिन्न् अह्नि भुक्त्वा गायत्रीम् अयुतं जपेत् ॥ १०.४८ ॥

देवलः

पात्रे कृत्वा निवेद्यं तु यदि मन्त्रं न विन्यसेत् ।
जपात् त्रिकसहस्रस्य विरजा जायते यतिः ॥ १०.४९ ॥
उदक्याशवचण्डालचोरनग्नकपालिनः ।
पतितान् पिशुनान् स्पृष्ट्वा भिक्षां भिक्षुः परित्यजेत् ॥ १०.५० ॥
पतितान्नं सकृद् भुक्त्वा प्रायश्चित्तं चरेद् यतिः ।
वज्रकृच्छ्रत्रयं कृत्वा शुध्यते नात्र संशयः ॥ १०.५१ ॥
यवप्रसृतिमात्रं तु गवां मूत्रेण सम्पचेत् ।
अमावास्यायाम् अश्नीयाद् वज्रकृच्छ्रम् इदं महत् ॥ १०.५२ ॥
प्राजापत्यं तु वा कृच्छ्रं चरेत् पतितभोजने ।
अज्ञानात् तु सकृद् भुक्त्वा प्राजापत्येन शुध्यति ॥ १०.५३ ॥
प्राणायामशतं कुर्यात् पादकृच्छ्रं समाचरेत् ।
त्रिरात्रं शङ्खपुष्पं वा पक्त्वाढ्यं पयसा पिबेत् ॥ १०.५४ ॥

हारीतः

शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यस्य सङ्करे ।
आहारशुद्धिं वक्ष्यामि तन् मे निगदतः शृणु ॥ १०.५५ ॥
अक्षारलवणां कृत्वा पिबेद् ब्रह्मसुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पं वा पयसा सह पाययेत् ॥ १०.५६ ॥
पालाशबिल्वपत्राणि कुशान् पद्मान् उदुम्बरान् ।
क्वाथयित्वा पिबेद् आपस् त्रिरात्रेण विशुध्यति ॥ १०.५७ ॥
कपिलापञ्चगव्येन विधियुक्तेन वा पुनः ।
पीत्वा शुद्धिम् अवाप्नोति अभक्ष्यान्नस्य भक्षणात् ॥ १०.५८ ॥

अत्रिः

एकान्नं मधु मांसं चाप्य् अन्नं विष्ठादिदूषितम् ।
हन्तकारम् अनैवेद्यं प्रत्यक्षलवणानि च ॥ १०.५९ ॥
एषाम् एकं यतिर् भुक्त्वा प्राजापत्यं समाचरेत् ।
मधुमांसाशनैर् भुक्त्वा पराकं तु समाचरेत् ।
त्रिकस्य च जपेल् लक्षं जपश् चेद् वत्सरं जपः ॥ १०.६० ॥
अपःप्राण्यङ्गभोक्ता यो मधुमांसस्य चापदि ।
जपेत् त्रिकसहस्रं वै प्राणायामशतं तथा ॥ १०.६१ ॥

वृद्धजाबालिः

दयापूर्वम् अदत्तं च दत्त्वा च प्रतिगृह्य च ।
दत्त्वा सौम्यं महत् कृच्छ्रं प्राजापत्यम् अथापि च ॥ १०.६२ ॥
भिक्षुर् भुङ्क्ते य एकान्नं दाक्षिण्याल् लौल्यतो ऽपि वा ।
प्राजापत्येन कृच्छ्रेण प्राणायामशतेन च ॥ १०.६३ ॥

देवलः

व्रणात् क्रिमिसमुद्भूते भक्षणे मधुमांसयोः ।
उपवासत्रयं कृत्वा प्राणायामशतं चरेत् ॥ १०.६४ ॥

गालवः

मांसं मधु वा भक्षयित्वा पराकं कुर्यात् । ताम्बूलं भक्षयित्वाहोरात्रम् उपवसेत् । बुद्धिपूर्वे प्राजापत्यं चरेत् ॥ १०.६५ ॥

जमदग्निः

एकान्नं मधु मांसं च नवश्राद्धं च सौतिकम् ।
अभोज्यानि यतीनां तु प्रत्यक्षलवणं तथा ।
एकैकातिक्रमे तेषां प्राजापत्येन शुध्यति ॥ १०.६६ ॥

क्रतुः

श्वाखुमार्जारकाकानां केशकीटास्थिवाससाम् ।
दूषितान्नं यतिर् भुक्त्वा पञ्चगव्येन शुध्यति ॥ १०.६७ ॥

भरद्वाजः

भोजनमध्ये यत् किञ्चित् सूक्ष्मकेशकीटमक्षिकाभिहतं चेत्यादि ॥ १०.६८ ॥

देवलः

क्रव्यादाशुद्धिसम्पाते भुञ्जानस्य कथञ्चन ।
पूर्वं त्यक्त्वा भोजनं तु पश्चात् स्नानं समाचरेत् ।
जपेत् त्रिकसहस्रं तु प्राणायामशतं चरेत् ॥ १०.६९ ॥

जमदग्निः

भुञ्जानस्य तु विप्रस्य कदाचित् प्रस्रवेद् गुदम् ।
उच्छिष्टताशुचित्वं च तस्य शौचं कथं भवेत् ॥ १०.७० ॥
पूर्वं कृत्वाथ शौचं तु तत्र पश्चाद् उपस्पृशेत् ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ १०.७१ ॥
भैक्षशेषं तु यत् किञ्चिद् यदि भिक्षुः समुत्सृजेत् ।
ग्रासे ग्रासे तु कर्तव्याः प्राणायामास् त्रयस् त्रयः ॥ १०.७२ ॥
सकर्दमं तु वर्षासु प्रविश्य ग्रामसङ्कटम् ।
जङ्घयोर् मृत्तिकास् तिस्रः प्रदद्यात् सप्त पादयोः ॥ १०.७३ ॥

देवलः

केशश्मश्रुगतं तोयं पात्रे तु पतितं यदि ।
त्यजेद् भिक्षां तथा पात्रं त्यक्त्वा चोपवसेद् यतिः ॥ १०.७४ ॥
विरिक्तवान्तविण्मूत्रस्कन्दनैकान्नजग्धिषु ।
स्नात्वा भिक्षाटनाद् एत्य प्राणायामास् त्रयस् त्रयः ॥ १०.७५ ॥

जमदग्निः

घ्रात्वा गन्धं सुरायाश् च तथा मूत्रपुरीषयोः ।
क्रव्यादपूतिगन्धं वा प्राणायामास् त्रयस् त्रयः ॥ १०.७६ ॥
छर्दिमूत्रपुरीषं वा दृष्ट्वा तु सहसा यतिः ।
प्राणायामेन शुध्येत कृत्वा तद्द्विगुणं चरेत् ॥ १०.७७ ॥

गालवः

पूतिविण्मूत्रक्रव्यादसुरागन्धाघ्राणं कृत्वा प्राणायामांस् त्रींस् त्रीन् कुर्यात् ॥ १०.७८ ॥
नियमांस् तु सदा कुर्याद् यमांस् तेभ्यो ऽभिपालयेत् ।
आपत्काले ऽप्य् अशक्तौ वा पने ऽपां भेषजादने ॥ १०.७९ ॥
हविषि ब्राह्मणेच्छायां पुष्पमूलफलादने ।
दध्नि दुग्धे गुरोर् वाक्ये त्वक्पत्रे दन्तधावने ।
नियमातिक्रमो नास्ति ब्राह्मणानाम् अनुज्ञया ॥ १०.८० ॥
तेषां पुण्याहघोषेण कार्यं पापापनोदनम् ।
अकामकृतपापेभ्यस् तत् कृत्वा विप्रमुच्यते ॥ १०.८१ ॥

बोधायनः

अथ यत्रोपनिषदम् आचार्या ब्रुवते तत्रोदाहरन्ति । स्थानमौनासनं सवनोपस्पर्शनं चतुर्थषष्ठाष्टमकालव्रतयुक्तत्वं कणपिण्याकयावकदधिपयोव्रतत्वं च । तत्र मौनयुक्तस् त्रैविद्यवृद्धैर् आचार्यैर् मुनिभिर् अन्यैर् वाश्रमिभिर् बहुश्रुतैर् दन्तैर् दन्तान् सन्धायान्तर्मुख एव यावदर्थं सम्भाषेत एवं न यत्र लोपो भवतीति विज्ञायते । स्थानमौनवीरासनानाम् अन्यतमेन सम्प्रयोगो न त्रयं सन्निपातयेत् । यत्र गतश् चेद् यावन् मात्रम् अनुव्रजेद् आपत्सु न यत्र लोपो भवतीति विज्ञायते । स्थानमौनवीरासनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ॥ १०.८२ ॥
अष्टौ तान्य् अव्रतघ्नानि आपो मूलं घृतं पयः ।
हविर् ब्राह्मणकामाय गुरोर् वचनम् औषधम् ॥ १०.८३ ॥ [ब्ध् २.१८.१५–१९]

देवलः

यदि कश्चित् प्रमादेन स्वापाचारं तु विस्मरेत् ।
जपेत् त्रिकसहस्रं तु शुध्यते नात्र संशयः ॥ १०.८४ ॥

अथ रात्रिजानाम् अपराधानां निष्कृतिर् उच्यते । तत्र वृद्धजाबालिः

सन्ध्याकाले तु सम्प्राप्ते निशि भुञ्जीत यो यतिः ।

 उपस्थानं च जप्यं च प्राणायामो बलिस् तथा ॥ १०.८५ ॥

सर्वे ते निष्फलास् तस्य प्रायश्चित्तं विधीयते ।
एकरात्रोपवासश् च प्राणायामाश् च षोडश ॥ १०.८६ ॥

जमदग्निः

आहारग्रहणे रात्रौ प्राणायामा दश स्मृताः ।
जलमृद्ग्रहणे चापि निशायां तद्वद् आचरेत् ॥ १०.८७ ॥
गृहीतनाशे धर्मेण स्रवन्तीषु सरित्सु च ।
सकृद् गृह्णन् न लिप्येत देवतायतनेषु च ॥ १०.८८ ॥
रात्रौ तु क्षरणे स्नात्वा द्वादशासुयमांश् चरेत् ।
प्राणायामैर् विशुद्धात्मा विरजा जायते यतिः ॥ १०.८९ ॥

शौनकः

पूर्वसम्भोगान् न स्मरेत् । प्रमादात् स्मरणे आचम्य प्राणायामत्रयं कृत्वा पुनर् आचामेत् । प्रमादात् स्त्रीदर्शने प्राणायामान् आचरेत् । स्वप्नसम्भोगे त्रिकसहस्रं जप्त्वा प्राणायामान् द्वादश धारयेत् । सम्भोगे स्वप्नक्षरणे द्वादश तु धारयेत् । मेहमानो द्वयं कृत्वा पुनर् आचामेत् ॥ १०.९० ॥

कपिलः

स्वप्नसम्भोगे स्नात्वा त्रिकसहस्रं जपेत् । कण्डूयनरुधिरक्षरणे उपवासः
॥ १०.९१ ॥

गालवः

कामाद् रेतौत्सर्गे त्रीन् पराकान् धारयेत् । अकामतः स्वप्ने स्त्रीसम्भोगे द्वादश प्राणायामान् धारयेत् । निद्रायां प्रमादात् क्षरणे द्वादश प्राणायामान् धारयेत् । प्राणायामांस् त्रींस् त्रीन् गुह्यप्रमाददर्शने धारयेत् । स्वप्ने एतद्दर्शने अघमर्षणम् । सदा चाप्रयत्नोत्सर्गं कृत्वा रेतस षोडश प्राणायामान् धारयेत् । प्रयत्नेन रेतःसेकं कृत्वा चान्द्रायणं चरेत् ॥ १०.९२ ॥

जाबालिः

शुक्लोत्सर्गं यदा कुर्यात् कामाद् अभ्यासतो ऽपि वा ।
पराकत्रयसंयुक्तं प्राणायामशतं चरेत् ॥ १०.९३ ॥
दिवा तु स्कन्दयेद् रेतः प्रायश्चित्ती प्रमादतः ।
स त्रिरात्रोपवासेन प्राणायामशतं चरेत् ॥ १०.९४ ॥
स्कन्न इन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा प्रमादतः ।
तेन धारयितव्याः स्युः प्राणायमास् तु षोडश ॥ १०.९५ ॥

वायुः

शुक्लोत्सर्गं यदा कुर्यात् क्वचिद् भिक्षुस् तु कामतः ।
प्राजापत्यत्रयं कुर्यात् प्राणायामशतानि च ॥ १०.९६ ॥

वृद्धपराशरः

वासुदेव प्रसुप्तो ऽसि यावन् नोदयते रविः ।
अहं तावन् निवत्स्यामि सर्वभूतहिताय वै ॥ १०.९७ ॥
सप्त ऋषयः प्रतिहिताः शरीरे
सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस् तत्र
जागृतो अस्वप्नजौ सत्रदौ च देवौ ॥ १०.९८ ॥ [व्स् ३४.५५]
आभ्यां मन्त्राभ्यां शयीत । यदि न कुर्यात् प्राणायामषट्कं कृत्वा पुनर् अपि मन्त्राभ्यां शयीत । उत्तिष्ठेत्य् उत्थानं प्रातःकाले कुर्यात् । यदि न कुर्यात् प्राणायामत्रयं कृत्वा पुनर् उत्तिष्ठेद् इति ॥ १०.९९ ॥

अथ नियमातिक्रमे प्रायश्चित्तानि । तत्र वायुः

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ १०.१०० ॥
उपेत्य तु स्त्रियं कामात् प्रायश्चित्ती भवेद् यतिः ।
प्राणायामसमायुक्तं कृच्छ्रम् अब्दं समाचरेत् ॥ १०.१०१ ॥
ततश् चरितनिर्वेदः कृच्छ्रध्याने समाहितः ।
भूयो निर्वेदम् आपन्नश् चरेद् भिक्षाम् अतन्द्रितः ॥ १०.१०२ ॥

कपिलः

सकृत्सम्भोगे द्वादशरात्रम् उपवासः त्रिकलक्षं जपश् च । अभ्यासे त्रिरात्रं संवत्सरं जपेत् । सकृद् अन्त्यजां गत्वारण्ये बिल्वादीनि स्वयम्पतितानि प्रक्षाल्योपयुञ्जीत ब्रह्मावर्तयन् यावत् स मृत्युतः शुद्धो भवति ॥ १०.१०३ ॥

जाबालिः

उपेत्य तु स्त्रियं कामात् प्रायश्चित्ती भवेद् यतिः ।
प्राणायामसमायुक्तम् अब्दं सान्तपनं चरेत् ॥ १०.१०४ ॥

गालवः

सकृत् साधारणीं गत्वा ब्रह्महत्याप्रायश्चित्तं चरेत् ॥ १०.१०५ ॥

अत्रिः

महापातकजाद् दोषाच् छुद्ध्यर्थं वर्तयेद् यतिः ।
त्रिकलक्षं जपेद् योगी प्राणायामायुतं तथा ।
ततः शतसहस्राणि प्रणवानां जपेद् यतिः ॥ १०.१०६ ॥
स्त्रीसम्भोगे सकृद् मोहाद् विधिनानेन शुध्यति ।
कामतो वा तथाभ्यासे प्रायश्चित्तेन शुध्यति ॥ १०.१०७ ॥

वायुः

यद् एतद् द्रविणं नाम प्राणा ह्य् एते बहिश्चराः ।
स तस्य हरति प्राणान् यो ऽस्य संहरते धनम् ॥ १०.१०८ ॥
एवं कृत्वा स दुष्टात्मा भिन्नवृत्ताश्रमो यतिः ।
ततो निर्वेदम् आपन्नश् चरेच् चान्द्रायणव्रतम् ।
विधिना शास्त्रदृष्टेन संवत्सरम् इति श्रुतिः ॥ १०.१०९ ॥
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः ।
भूयो निर्वेदम् आपन्नो भिक्षां भिक्षुः समाचरेत् ॥ १०.११० ॥

गालवः

धनगोभूमितिलादीनां बुद्धिपूर्वं परिगृह्य पतितवत् प्रायश्चित्तं कुर्यात् ॥ १०.१११ ॥

जमदग्निः

लब्धद्रव्यं परित्यज्य उपवासत्रयं चरेत् ।
गायत्रीम् अयुतं जप्त्वा मुच्यते सर्वपातकैः ॥ १०.११२ ॥

स एवाह

भूमिर् गावो हिरण्यं वा यतेर् यस्य परिग्रहः ।
तादृशं कश्मलं दृष्ट्वा सवासा जलम् आविशेत् ॥ १०.११३ ॥

वायुः

प्राणायामशतं कुर्याद् उपवासे वदन् मृषा ।
असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना ॥ १०.११४ ॥

गालवः

अनृतम् उक्त्वा त्रिरात्रम् उपवसेत् । धर्मयुक्तम् अनृतम् अनूच्याहोरात्रम् उपोष्य प्राणायामशतं कुर्यात् ॥ १०.११५ ॥

जमदग्निः

वाङ्मनःकायहिंसायां चरेषु स्थावरेषु च ।
येन येनोपरुध्येत तेन तेन विशोधयेत् ॥ १०.११६ ॥
वाक्सम्प्रयोगे वाग्दण्डः प्राणदण्डस् तु मानसे ।
कर्मदण्डः शरीरस्य बुद्ध्या निर्वेदम् आदिशेत् ॥ १०.११७ ॥
वाग्दण्डो हन्ति वै ज्ञानं मनोदण्डः परां गतिम् ।
कर्मदण्डस् तु लोकांस् त्रीन् हन्याद् अपरिरक्षितः ॥ १०.११८ ॥
वाग्दण्डं मौनम् आतिष्ठेत् कर्मदण्डस् त्व् अभोजनम् ।
मनसः स तु दण्डः स्यात् प्राणायामस्य धारणम् ॥ १०.११९ ॥
समुत्पन्नेषु दोषेषु स्याद् अनेन तु निष्कृतिः ।
अतीव चिरकाले तु द्विगुणं व्रतम् आचरेत् ॥ १०.१२० ॥

गालवः

चतुष्पदान् मृगान् हत्वा व्रतं चान्द्रायणं चरेत् ।
कर्कटचित्ररोमादीन् दशरात्राण्य् उपवसेत् ॥ १०.१२१ ॥
कामाद् एव तु हिंसीत यदि भिक्षुः पशून् मृगान् ।
कृच्छ्रातिकृच्छ्रे कुर्वीत चान्द्रायणम् अथापि वा ॥ १०.१२२ ॥

जमदग्निः

कृकलासे क्षीरगले मण्डूके गृहगोलिके ।
कुररादिषु भूतेषु दशाहं चार्धभोजनम् ॥ १०.१२३ ॥
मार्जारे मूषके सर्पे स्थूलमत्स्येषु पक्षिषु ।
नकुलादिषु भूतेषु चरेच् चान्द्रायणं व्रतम् ।
पिपीलिकायां सूक्ष्मायां प्राणायामास् त्रयस् त्रयः ॥ १०.१२४ ॥
सूक्ष्मास्थिमद्वधे भिक्षोः प्रायश्चित्तं विधीयते ।
त्रिंशत् प्राणायामान्कृत्वा एकाहं त्व् अर्धभुग् भवेत् ॥ १०.१२५ ॥

गालवः

पर्णमूलाङ्कुरपुष्पाणां छेदनं कृत्वा त्रिंशत् प्राणायामान् धारयेत् ॥ १०.१२६ ॥

दत्तात्रेयः

नग्नं वानुपनीतं वा विप्रं दृष्ट्वा प्रमादतः ।
मृद्भिर् द्वादशभिः स्नात्वा वासोभिः सह शुध्यति ॥ १०.१२७ ॥

हारीतः

नग्नं वानुपनीतं वा यः श्राद्धे भोजयेद् द्विजम् ।
रेतोमूत्रपुरीषाणि स पितृभ्यः प्रयच्छति ॥ १०.१२८ ॥
प्रेरणाद् अथ वा लोभाद् एकदण्डं समाश्रितः ।
भूयो निर्वेदम् आपन्नस् त्रिदण्डं धारयेद् बुधः ॥ १०.१२९ ॥
प्राजापत्यं चरेत् कृच्छ्रं नियतो माससङ्ख्यया ।
उपस्पृशंस् त्रिषवणं गायत्रीं च सदा जपेत् ॥ १०.१३० ॥
अथ चेत् त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ स्थित्वा जले व्युष्टः प्राजापत्यफलं लभेत् ॥ १०.१३१ ॥
गायत्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ ।
मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ १०.१३२ ॥
सर्वेषाम् एव पापानां सङ्करे समुपस्थिते ।
दशसाहस्रम् अभ्यस्य गायत्री शोधनं परम् ॥ १०.१३३ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥ १०.१३४ ॥
प्राणायामान् धारयेत् त्रीन् यथाविधि समाहितः ।
अहोरात्रकृतं पापं तत्क्षणाद् एव नश्यति ॥ १०.१३५ ॥
कर्मणा मनसा वाचा यद् अह्ना कुरुते द्विजः ।
आसीनः पश्चिमां सन्ध्यां प्राणायामेन शुध्यति ॥ १०.१३६ ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं यो जपेन् नित्यं न स पापेन लिप्यते ॥ १०.१३७ ॥
सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
अपि भ्रूणहतं मासात् पुनन्त्य् अहर् अहः कृताः ॥ १०.१३८ ॥
दुरितानां दुरिष्ठानां पापानां महतां तथा ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ १०.१३९ ॥

संवर्तः

सन्न्यासात् प्रच्युतानां तु निष्कृतिं श्रोतुम् अर्हथ ।
सन्न्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं भजेत् तु यः ॥ १०.१४० ॥
स कुर्यात् कृच्छ्रम् अश्रान्तं षण्मासात् प्रत्यनन्तरम् ।
यतेर् विपत्तौ सन्दृष्टः प्रायश्चित्तविधिक्रमः ॥ १०.१४१ ॥

स एवाह

चतुर्विद्योपपन्नस्य ब्रह्मघ्नो गुरुघातिनः ।
सेतुबन्धपथे युक्तं प्रायश्चित्तं विनिर्दिशेत् ॥ १०.१४२ ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यं समाचरेत् ।
ख्यापयंश् च स्वकर्माणि छत्रोपानहवर्जितः ॥ १०.१४३ ॥
अहं दुष्कृतात्मा वै महापातककारकः ।
वेश्मद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ १०.१४४ ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
पर्यटंश् चैव तीर्थानि पुण्यं गत्वा तु सागरम् ॥ १०.१४५ ॥
सेतुबन्धं ततः पश्येल् लङ्कामार्गं महोदधेः ।
दशयोजनविस्तीर्णं शतयोजनम् आयतम् ॥ १०.१४६ ॥
राघवस्य समादेशान् नलसञ्चयसञ्चितम् ।
सेतुबन्धं ततो दृष्ट्वा राजानं पृथिवीपतिम् ।
यजन्तम् अश्वमेधेन दृष्ट्वा सद्यः शुचिर् भवेत् ॥ १०.१४७ ॥

देवलः

रजस्वलां तु नारीं वा वेश्यां वा मद्यपां तु वा ।
शवोपस्करकाष्ठं वा स्पृष्ट्वा स्नात्वा द्वयं जपेत् ॥ १०.१४८ ॥

स एवाह

यूकोत्पत्तिः शरीरे चेत् प्रायश्चित्तं विधीयते ।
कृत्वोपवासम् एकं तु प्राणायामान् षड् आचरेत् ॥ १०.१४९ ॥

गर्गः

भिक्षवः परस्परं न गृह्णीयुः । प्रमादाद् ग्रहणे मित्रस्य चर्षणी धृत इति जपेयुः प्राणायामास् त्रयश् च ॥ १०.१५० ॥

गालवः

कण्डूयनरुधिरक्षरणे ऽहोरात्रम् उपवासः ॥ १०.१५१ ॥

जमदग्निः

मातरं पितरं पुत्रं मनसापि न चिन्तयेत् ।
यदि स्नेहो भवेत् तेषु प्राणायामास् तु षोडश ॥ १०.१५२ ॥

सत्यकाम-जाबालौ

एकवषट्कारस्वाहास्वधावषट्कारं करोति कारयेद् वा सर्वं तन् निष्फलं भवति । तस्य प्रायश्चित्तं विधीयते । स्वयम् एव प्रयुञ्जानः प्राजापत्यत्रयं कृत्वा प्राणायामान् द्वादश धारयेत् ॥ १०.१५३ ॥

अनुक्तानां सर्वेषां प्रायश्चित्तं सत्यकाम आह ।

विहितातिक्रमं कृत्वा प्राणायामान् द्वादश धारयेत् ॥ १०.१५४ ॥

अशक्तस्य देशकालाद्यपेक्षया गुरूणि लघूनि प्रायश्चित्तानि व्यवस्थापनीयान् । ऋषीणां मतभेदात् तु विकल्प इति केचित् ॥ १०.१५५ ॥ तथान्ये ऽपि धर्मास् तत्प्रायश्चित्तं च गृहस्थधर्माद् एव योजनीयम् ॥ १०.१५६ ॥

**इति यतिधर्मसमुच्चये प्रायश्चित्तविधिर् नाम **

दशमं पर्व ॥ १०.१५७ ॥

एकादशं पर्व

यतिसंस्कारविधिः

अथ यतीनां संस्कारविधिर् उच्यते । तत्र बोधायनः

यतीनां प्रेतसंस्कारविधिं वक्ष्याम्य् अशेषतः ।
स्नात्वा गृहस्थः शुद्धात्मा यतिसंस्कारम् आचरेत् ॥ ११.१ ॥
शिक्ये शरीरम् आरोप्य गन्धमाल्यैर् अलङ्कृतम् ।
घोषितं जयशब्देन दुन्दुभीनां रवेण च ।
प्राचीम् उदीचीं वा गत्वा शुद्धदेशं समाश्रयेत् ॥ ११.२ ॥
नदीतीरे ऽश्वत्थवृक्षे देवगृहे गोष्ठे ब्रह्मवृक्षस्याधस्ताद् वा व्याहृतिभिर् दण्डायामप्रमाणं देवयजनं खात्वा सप्तव्याहृतिभिः प्रोक्ष्य पुरुषसूक्तेन स्नापयित्वा गन्धादिभिर् अलङ्कृत्य विष्णो रक्षस्वेति निदधाति । इदं विष्णुर् विचक्रम इति दक्षिणहस्ते दण्डं निदधाति । हंसः शुचिषद् इत्य् ऋचा हृदयदेशे जपेत् । पुरुषसूक्तं भ्रुवोर् मध्ये जपेत् । ब्रह्म जज्ञानम् इति मूर्ध्नि देशे जपेत् । भूमिर् भूमिम् अगाद् इति मूर्धानं भेदयेत् । गायत्र्याभिमर्षणं । प्रणवेन देवयजनं पूरयेत् । पुनः पुनर् गायत्र्या देशसंस्कारः । सृगालकाकादिबाधो यदि दोषम् आपादयेत् कर्तुस् तद्देशे ऽनावृष्टिर् भविष्यति । तस्मात् पुनः पुनः पूरयेत् । तस्मिन् प्रच्छादयेत् । नाशौचं नोदकक्रिया । यतेर् वहनखननस्पर्शनाच् च सद्यो ऽवभृथस्नानं भवति । पदे पदे ऽश्वमेधफलं पुरुषः प्राप्नोति ।

इत्य् आह भगवान् बोधायनः ॥ ११.३ ॥

ब्रह्मनिष्ठे मृते पुत्रः खनेच् छिष्यो ऽथ वा गृही ।
तस्य तेनैव कर्तव्यो नारायणबलिस् तथा ॥ ११.४ ॥
न वह्निर् नोदकं श्राद्धं नापि ब्राह्मणतर्पणम् ।
सर्वं नारायणोद्दिष्टम् एकोद्दिष्टवद् आचरेत् ॥ ११.५ ॥
यतिमात्रे मृते ऽप्य् एतद् विधानं कवयो विदुः ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ॥ ११.६ ॥
सपिण्डीकरणं चैषां न कुर्वीत कदाचन ।
त्रिदण्डग्रहणाद् एव प्रेतत्वं नैव गच्छति ॥ ११.७ ॥
एतद् एव हि पर्याप्तं भिक्षोर् एकान्तशीलिनः ।
न चास्य क्रियते कश्चित् क्रियते न स कस्यचित् ॥ ११.८ ॥
अथापरो विधिर् दृष्टो व्याहृतिभिस् तु पूर्ववत् ।
ताभिर् एव निधायैनं ताभिः कृत्वा तथावटम् ॥ ११.९ ॥
सप्तव्याहृतिभिश् चैव प्रोक्ष्य तच् चावटं पुनः ।
पिष्टप्रस्कन्दमन्त्रेण देवो वः सवितादिना ॥ ११.१० ॥
दत्वा शिक्यं तु निक्षिप्य पार्श्वे दण्डं तु निक्षिपेत् ।
सखा मेत्यादिना शिक्यं हृदये ऽस्य विनिक्षिपेत् ॥ ११.११ ॥
येन देवाः पवित्रेण मुखे जलपवित्रकम् ।
त्वं नो अग्न इति न्यस्य कुण्डिकां दक्षिणे करे ॥ ११.१२ ॥
भूमिर् भूमिम् अगान् मन्त्रम् उक्त्वा पात्रं तथोदरे ।
होतृभिः समुपस्थाय प्रोक्ष्य व्याहृतिसप्तकैः ॥ ११.१३ ॥
पूरयेद् अवटं मन्त्रम् अग्निनाग्निः समिध्यते ।
यथा सृगालाः श्वानो वा नोद्धरेयुः पुनस् तथा ॥ ११.१४ ॥
प्राक्साग्निकानां भिक्षूणां निदध्याद् वा बिले क्षितौ ।
निरग्नीनां दहेद् विप्रः संसिद्धानां कलेवरम् ॥ ११.१५ ॥
एकोद्दिष्टं जलं पिण्डम् आशौचं प्रेतसंस्क्रियाः ।
एतेषां तु विधानेन कुर्याद् अब्दे सपिण्डताम् ।
न कुर्यात् पार्वणाद् अन्यद् ब्रह्मभूताय भिक्षवे ॥ ११.१६ ॥

अत्रिः

पुत्रो गृहस्थः शुद्धात्मा यतिसंस्कारम् आचरेत् ।
शिक्ये शरीरम् आरोप्य गन्धमाल्यैर् अलङ्कृतम् ॥ ११.१७ ॥
तुषाग्निम् अत्र चोत्पाद्य संस्कारार्थं यतेर् हरेत् ।
घोषितं जयशब्देन दुन्दुभीनां रवेण च ।
प्राचीम् उदीचीं वा गत्वा शुद्धदेशं समाचरेत् ॥ ११.१८ ॥
खात्वा व्याहृतिभिर् भूमिं दण्डायामप्रमाणकम् ।
सप्तव्याहृतिभिः प्रोक्ष्य तत्र दारुचितिर् भवेत् ॥ ११.१९ ॥
याज्ञीयैस् तु यथाशक्ति काष्ठैर् अन्यैर् अनिन्दितैः ।
ततः शरीरं प्रक्षाल्य सावित्र्या शुद्धमानसः ॥ ११.२० ॥
विष्णो हव्यं रक्षस्वेति दारुचित्यां निधाय तत् ।
पवित्रम् इत्य् अनेनैव पवित्रं स्थापयेन् मुखे ॥ ११.२१ ॥
त्रिदण्डं दक्षिणे पाणाव् इदं विष्णुर् इति न्यसेत् ।
सव्ये शिक्यं यद् अस्येति स्वाहान्तेन निधाय तत् ॥ ११.२२ ॥
सावित्र्या चोदरे पात्रं गुह्यस्थाने कमण्डलुम् ।
भूमिर् भूमिम् अगाद् इति स्थापयेद् विधिकोविदः ॥ ११.२३ ॥
श्वभ्रे काष्ठे ऽथ निक्षिप्तं सर्वसाधनसंयुतम् ।
शरीरं होतृभिः कर्ता अभिमन्त्र्योपतिष्ठते ।
तुषाग्निना दहेद् देहं यावद् भस्मीभविष्यति ॥ ११.२४ ॥
अथाप्य् उदाहरन्तीमं वेदार्थनिपुणा बुधाः ।
निषेकादिश्मशानान्ता विधयो ब्राह्मणे स्मृताः ।
तस्माद् यतेश् च संस्कारं मन्त्रवत् कुरुते गृही ॥ ११.२५ ॥
आत्मन्य् अग्नीन् समारोप्य यः प्रैषम् अवदद् यतिः ।
तस्य पुत्रो विधानेन ह्य् अवरोप्याग्निना दहेत् ॥ ११.२६ ॥
अपि होत्रविधानेन गायत्र्या प्रणवेन वा ।
कर्मनिष्ठे तु सन्न्यस्ते पितर्य् उपरते सुतैः ।
दहनं तस्य कर्तव्यं श्राद्धं पिण्डोदकक्रियाः ॥ ११.२७ ॥
आदाव् एव विकल्पेन ब्रह्मचारी यतिर् भवेत् ।
तस्य सर्वं गृहस्थेन कर्तव्यं सन्निधौ हरेः ॥ ११.२८ ॥
यतीन् वहन् दहन् स्पर्शन् स्नानमात्रेण शुध्यति ।
पदे पदे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ ११.२९ ॥

शौनकः

सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ।
न तस्य दहनं कार्यं नैव पिण्डोदकक्रियाः ॥ ११.३० ॥
निदध्यात् प्रणवेनैव ध्यानभिक्षोः कलेवरम् ।
प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥ ११.३१ ॥
यतीन् वहन् स्पृशन् वापि स्नानमात्रेण शुध्यति ।
अश्वमेधफलं सर्वे पृथक् पृथग् अवाप्नुयुः इति ॥ ११.३२ ॥

एतम् एवाह भगवान् वृद्धयाज्ञवल्क्यः ॥ ११.३३ ॥

**इति यादवप्रकाशीये यतिधर्मसमुच्चये यतिसंस्कारविधिर् नाम **

एकादशं पर्व ॥ ११.३४ ॥