10_niH-shreyasa-lAbhaH

विश्वास-प्रस्तुतिः - १

(ततः प्रविशति विष्णुभक्तिः)

विष्णुभक्तिः – (आलम्बनविशेषाधीनमात्मनो वैभवं निर्वर्ण्य)

अहं वैकुण्ठदास्यैकलास्यलीलाविनोदिनी ।

विश्वकिल्बिषसंहार1विभ्रमारभटीनटी ॥ १ ॥

मूलम् - १

(ततः प्रविशति विष्णुभक्तिः)

विष्णुभक्तिः – (आलम्बनविशेषाधीनमात्मनो वैभवं निर्वर्ण्य)

अहं वैकुण्ठदास्यैकलास्यलीलाविनोदिनी ।

विश्वकिल्बिषसंहार1विभ्रमारभटीनटी ॥ १ ॥

प्रभावली - १

अतीताङ्कान्ते सूचिताया विष्णुभक्तेः प्रथमं प्रवेशः । आलम्बनविशेषः ; भक्तेर्विषयभूतः परमात्मा । तदायत्तमात्मनः सामर्थ्यं विचार्य; अन्यविषयभक्तीनामेतत्सामर्थ्याभावात् । वैकुण्ठस्य ; श्रीमतो भगवतः । दास्यं दासकृत्यम्.

X७९६
एकमेव लास्यं ललितकृत्यं नर्तनम् । तया कालक्षेपवती । विश्वेषां विश्वानि वा यानि किल्बिषाणि तत्संहाररूपे विभ्रमे उद्धतनृत्ते, आरभटीनटी ॥ १ ॥

प्रभाविलासः - १

अथ निर्वहणसन्धिः प्रस्तूयते - तत इत्यादिना । निर्वहणसन्धिर्नाम मुखाद्यर्थानां बीजवतां विप्रकीर्णानामैकार्थ्ययोजनम् । तदुक्तम्-

" बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥”

इति । स च कार्यफलागमयोः सम्बन्धादुत्पद्यते । तत्र कार्यं नाम फलनिर्वाहको व्यापारः । फलागमश्च परिपूर्णफलसिद्धिः । तदुक्तम् – " समग्रफलसम्पत्तिः फलागम उदाहृतः " इति । अत्र वैकुण्ठदास्येत्यादिपर- भक्तिव्यापारेण निःश्रेयसरूपफलावाप्तेर्मुखसन्ध्यादिष्वारब्धाया निर्वाहात्
सप्रकारं निर्वहणसन्धिर्निरूप्यत इति ज्ञेयम् । अहमिति । विश्वकिल्बिषसंहार एव विभ्रमः विलासः, स एवारभटी उग्रनृत्तम् तत्र नटी ॥ १ ॥

विश्वास-प्रस्तुतिः - २

किञ्च,

अम्बा मे पुरुषस्य बुद्धिरनघा तातः स2 धर्मोत्तरः

सन्तुष्टिः सहजा क्षमा प्रियसखी सद्वृत्तिराज्ञाकरी ।

विद्यैव स्वयमस्मि विश्ववृजिनप्रध्वंसनं क्रीडितं

साहं प्राणिमि विष्णुभक्तिरचला सन्तिष्ठते संसृतिः ॥ २ ॥

मूलम् - २

किञ्च,

अम्बा मे पुरुषस्य बुद्धिरनघा तातः स2 धर्मोत्तरः

सन्तुष्टिः सहजा क्षमा प्रियसखी सद्वृत्तिराज्ञाकरी ।

विद्यैव स्वयमस्मि विश्ववृजिनप्रध्वंसनं क्रीडितं

साहं प्राणिमि विष्णुभक्तिरचला सन्तिष्ठते संसृतिः ॥ २ ॥

प्रभावली - २

अस्या अभिजनादिप्रयुक्तमाहात्म्यं कथयन्ती तस्यामधितिष्ठन्त्यां संसारो ऽवश्यं नश्यतीत्याह — अम्बेति । पुरुषस्य ; जीवात्मनः । अनघा ; सती । बुद्धिः मे माता । धर्मोत्तरः ; धर्मभूयिष्ठः । सः ; पुरुष एव तातः । तस्य सन्तुष्टिः ; यावल्लब्धेन तोषः । सा भगिनी । तस्य क्षमा अपराधिषु क्षान्तिः । मे प्रियसखी । सद्वृत्तिः; सदाचाररूपा । दासी किङ्करी । या विद्येति भक्तिरिति वेदान्ते उच्यते, सैव स्वयमस्मि । विष्णुभक्तिरेव हि अतिशयमापन्ना विद्येत्युच्यते । विश्वेषां विश्वानि वा यानि पापानि, तत्संहारो मे क्रीडितं विहरणम् । एवं महामहिमा विष्णुभक्तिरचला अचञ्चला जीवामि । संसृतिरवश्यं सन्तिष्ठते; समाप्ता भवति, नश्यतीत्यर्थः ॥ २ ॥

प्रभाविलासः - २

अम्बेति । सः पुरुषः । संसृतिः संसारः । सन्तिष्ठते; निवर्तते ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

अपि च प्रत्यक्षितपरावरतत्त्वैर्महर्षिभिर्भगवतैव च3 गीतं परमार्थभूतमन्यमप्यर्थमनुकथयामि —
निरुध्य तरसा मरुत्करणमण्डलीं कुण्डलीं

विचिन्त्य विगणय्य वा धमनिधातुमर्मादिकम् ।

किमत्र निगमत्रयस्थितिमतापि लालभ्यते4

मयि स्थितिरवस्थिता यदि किमुच्यते मुच्यते ॥ ३ ॥

मूलम् - ३

अपि च प्रत्यक्षितपरावरतत्त्वैर्महर्षिभिर्भगवतैव च3 गीतं परमार्थभूतमन्यमप्यर्थमनुकथयामि —
निरुध्य तरसा मरुत्करणमण्डलीं कुण्डलीं

विचिन्त्य विगणय्य वा धमनिधातुमर्मादिकम् ।

किमत्र निगमत्रयस्थितिमतापि लालभ्यते4

मयि स्थितिरवस्थिता यदि किमुच्यते मुच्यते ॥ ३ ॥

प्रभावली - ३

सर्वज्ञैर्मुनिभिर्भवता च निश्चितं परमार्थं रहस्यं कथयामीत्यर्थः । प्रत्यक्षि-

X७९७
तेति । अनुकथयामि; अनुस्मृत्य कथयामि । रहस्यार्थमाह - निरुध्येति । मरुतां प्राणवायूनां करणानामिन्द्रियाणां च मण्डलं समूहम् । तरसा ; बलेन निगृह्य । कुण्डलीम् ; कुण्डलाख्यनाडीम् । विचिन्त्य ; विशेषतो ध्यात्वा । धमनिधातु- मर्मादिकम् ; धमनयः सिराः, धातवस्त्वगादयः, मर्माणि प्राणस्थानानि । आदि- शब्देन रोमादिर्गृह्यते । विगणय्य ; विशेषतः सङ्ख्याय । वाशब्दश्वार्थे । अत्र ; एवं प्राणादिनिरोधे सत्यपि । निगमत्रयस्थितिमतापि; वेदत्रयोक्तानुष्ठानवतापि पुरुषेण । किं लालभ्यते ; किं प्रयोजनं भृशमवाप्यते । विष्णुभक्त्यभावे न

1

X७९८
किमपीत्यर्थः । मयि; विष्णुभक्त्याम् । स्थितिः ; निष्ठा । यद्यवस्थिता ; निश्चला चेत् । स मुच्यत इति किमुच्यते ; मुक्तो भवतीति वक्तव्यं किम् । मुच्यत एवेत्यर्थः । विष्णुभक्त्यभावे देहेन्द्रियादिनिरोधवैदिक धर्मानुष्ठानादि सर्वं व्यर्थमित्यर्थः ॥ ३ ॥

प्रभाविलासः - ३

निरुध्येति । मरुताम् ; प्राणादीनाम् । करणानाम्; इन्द्रि - याणाम् । मण्डलीम् ; समूहम् । कुण्डलीम् ; सुषुम्नानाड्याधारम् । धम- नीनाम् ; नाडीनाम् । धातूनाम् ; त्वगादीनाम् । मर्मादिकं विगणय्य ; " द्वासप्ततिसहस्रं नाड्यः " इत्यादिनेत्यर्थः । निगमत्रयस्थितिमता ॥ त्रैविद्येन । किं फलं लालभ्यते ; न किमपीत्यर्थः । योगाभ्यासवताऽपि त्रैविद्यनिष्ठेनापि भगवद्भक्तिरहितेनायास एव फलं लभ्यते, नान्यदिति

भावः । तदुक्तम् —

“श्रेयः सूतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये ।

तेषामसौ क्लेश इहावशिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥” इति । एवं स्वव्यतिरेके नैष्फल्यमुक्त्वा स्वान्वये फलाविनाभावमाह - मयीति । अत्र निर्वहणसन्धेश्चतुर्दशाङ्गानि । तदुक्तम्-
" सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् ।

प्रसादानन्दसमयाः कृतिर्भाषोपगूहनम् ।

पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश॥”

इति । तेषु सन्धिर्नामाङ्गमुच्यत इति पुरुषमोचन रूपबीजोपगमनोक्त्या निरूपितम्, “सन्धिर्बीजोपगमनम् " इति लक्षणात् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

यश्चासौ निवृत्तिधर्मकाष्ठारूपो नैःश्रेयसो योग5 उच्यते, सोऽपि मदनुवेधादेव6 महतीं सिद्धिमापादयति । अद्य च,

मुमुक्षुत्वे सिद्धेमुषितमतिमोहस्य मुरभि -

त्समाधिः संरोहन्नुपहरति सर्वाघविरतिम् ।

परस्तादास्थेयं यदिह विदुषानिष्टजनुषा

फलार्थं तत्कि वा फलमिति वितर्कः श्रमफलः ॥ ४ ॥

मूलम् - ४

यश्चासौ निवृत्तिधर्मकाष्ठारूपो नैःश्रेयसो योग5 उच्यते, सोऽपि मदनुवेधादेव6 महतीं सिद्धिमापादयति । अद्य च,

मुमुक्षुत्वे सिद्धेमुषितमतिमोहस्य मुरभि -

त्समाधिः संरोहन्नुपहरति सर्वाघविरतिम् ।

परस्तादास्थेयं यदिह विदुषानिष्टजनुषा

फलार्थं तत्कि वा फलमिति वितर्कः श्रमफलः ॥ ४ ॥

प्रभावली - ४

निवृत्तिधर्माणां सीमाभूमिः । नैःश्रेयसो योगः ; मोक्षोपाय उपासनादि- ध्यानविशेषः । मदनुवेधात्; मत्स्पर्शादेिव । एवकारेण नान्यथेत्यर्थः सूच्यते । मोक्षरूपां सिद्धिम् । अन्यथा अणिमादिसिद्धिमात्रम् । मुरभिद्विषयः समाधिरुप- क्रान्तमात्र एव सर्वपापमोक्षं जनयति । यत्समाधिरनुष्ठीयते, तत् फलस्य साधनं, किं वा फलरूपमिति विचारो व्यर्थ इत्याह-मुमुक्षुत्व इति । मुषितमति- मोहस्य ; नष्टाज्ञानस्य पुंसः । विष्णुविषयसमाधिः संरोहन उपक्रान्तमात्र एव

.

X७९९
सर्वपापविमोचनम् उपहरति जनयति । अनिष्टं जन्मान्तरं यस्य, तेन विदुषा । जनुः ; जन्म । अनिष्टस्य पापस्य जनुः उत्पत्तिः यस्माद्वा तेन । उत्तरपूर्वाघयोरश्लेषविनाशौ जानता । इह; जगति । परस्तात्; समाध्युपक्रमात् पश्चात् । यदास्थेयमनुष्ठेयम् उपासनम् । तत्फलार्थं वा; अनिष्टजनुषानुष्ठीयमानत्वात् फलप्रतिबन्धकानिष्टनिरसनद्वारेण फलस्य साधनं वा । किं वा उत्तरपूर्वाघयोरश्लेषविनाशौ जानतानुष्ठीयमानत्वात् फलं वा इति योऽयं वितर्कः विचारः पुंसां भवति, स श्रमफल एव; व्यर्थ इत्यर्थः । वितर्कफलस्य निर्णयस्य पक्षद्वयहेतोः समबलत्वेन दुःशकत्वात् । अनेन विष्णुभक्तेरनवधिकातिशयप्रीतिरूपतया मुक्तिसाम्यत्वप्रतिपादनादादरणीयतोक्तेति भावः ॥ ४ ॥

प्रभाविलासः - ४

उक्तार्थं विशदयति — यच्चासाविति । मुमुक्षुत्व इति । संरोहन; अङ्कुरन् । मतिमोहः ; बुद्धिविपर्यासः । उपहरति ; कुरुते । अनिष्ट-
जनुषा ; पुनर्भवभीतेन । परस्तात्; उपरिष्टात् । आस्थेयं यदस्ति तत् - फलार्थं फलसाधनं फलं वेति वितर्कः श्रमफलः । सर्वाघविरतेरेव पुरुषार्थतया अनन्तरभाविभगवदनुभवादिकेवलफलसाधनताबुद्धिर्न कार्येत्यर्थः । अत्र वितर्केण बीजरूपकार्यान्वेषणप्रतीते निर्वहणसन्धेर्द्वितीयमङ्गं निरोधाख्यं दर्शितम्, “ कार्यान्वेषो निरोधः स्यात् " इति लक्षणात् ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

.

(विचिन्त्य) कीदृशी पुनरिदानीं किङ्कर्तव्यता ? इयं तावत्-

अघपरिणमितैर मित्रभेदैः करणकलेबर पुत्रदारिकाद्यैः ।

ग्रहिल इह मयैव मोचनीयो मुरभिदनुग्रहलीलया मुमुक्षुः ॥ ५ ॥

मूलम् - ५

.

(विचिन्त्य) कीदृशी पुनरिदानीं किङ्कर्तव्यता ? इयं तावत्-

अघपरिणमितैर मित्रभेदैः करणकलेबर पुत्रदारिकाद्यैः ।

ग्रहिल इह मयैव मोचनीयो मुरभिदनुग्रहलीलया मुमुक्षुः ॥ ५ ॥

प्रभावली - ५

किङ्कर्तव्यता; कर्तव्यांश इति यावत् । इयं तावत्; प्रथममियमेव । इयमेवेत्युक्तं स्पष्टयति — अघेति । पापसञ्जातैः करणकलेबराद्यैः शत्रुविशेषैः,

X८००
करणानि ; इन्द्रियाणि । दारिकाः; पुत्र्यः । आद्यशब्देन दारादिग्रहणम् । महिलः ; दृढगृहीतः । मुरभिदनुग्रहलीलया ; विष्णुभक्त्या मुरभिदनुग्रहो भवति । अतोऽनुग्रहो विष्णुभक्तेः लीला ॥ ५ ॥

प्रभाविलासः - ५

अधेति । करणकलेबरादिव्यामोहस्यात्मपरिपन्थित्वात् अमित्रभेदैरित्युक्तम् । आद्यपदेन श्वशुरमातुलस्यालादिसङ्ग्रहः । अत्र,

" पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।

अनुदेहं वियन्त्येते स्वप्नो निद्रागमे यथा ॥

एवं परिमृशन् योगी गृहेष्वतिथिवद्विशन् ।

न गृहैरनुबध्येत निर्ममो निरहङ्कृतिः ॥”
“ अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः ।

अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ।

एवं गृही दयोत्क्षिप्तहृदयो मूढधीरयम् ।

अतृप्तस्ताननुध्यायन्मृतोऽन्धं विशते तमः ॥ ”

इत्यादिकमनुसन्धेयम् ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

.
अत्र चैतावदभिनिष्पन्नम्——-

भवरोगैकभिषजा विवेकेन विपश्चिता7

शमं दोषगणो नीतः शारीर इव मानसः ॥ ६ ॥

मूलम् - ६

.
अत्र चैतावदभिनिष्पन्नम्——-

भवरोगैकभिषजा विवेकेन विपश्चिता7

शमं दोषगणो नीतः शारीर इव मानसः ॥ ६ ॥

प्रभावली - ६

अत्र मुमुक्षोर्मोक्षणेऽभिनिष्पन्नांशमाह - भवेति । मानसो दोषगणः ; कामक्रोधादिः । शारीरदोषगण इव व्याध्यादिरिव शमं नीतः ॥ ६ ॥

प्रभाविलासः - ६

भवेति । शारीरःः शिरोरोगादिः । मानसः कामादिः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

तथा हि-

अयं च क्षेत्रज्ञ इदानीमपुनर्भवयोग्यामवस्थामारूढः ।

कामादिकेष्वपगतेषु8 कथावशेषं

सम्प्रत्यसौ शमदमादिगुणोपपन्नः ।

मैत्रीदयादिपरिकर्मविभूषितेन

श्रद्धाधनेन9 मनसा लभते समाधिम् ॥ ७ ॥

मूलम् - ७

तथा हि-

अयं च क्षेत्रज्ञ इदानीमपुनर्भवयोग्यामवस्थामारूढः ।

कामादिकेष्वपगतेषु8 कथावशेषं

सम्प्रत्यसौ शमदमादिगुणोपपन्नः ।

मैत्रीदयादिपरिकर्मविभूषितेन

श्रद्धाधनेन9 मनसा लभते समाधिम् ॥ ७ ॥

प्रभावली - ७

इदानीम् ; मानसदोषगणे नष्टे । मोक्षयोग्यामवस्थामारूढः । कामादि-

X८०१
केष्विति । कथावशेषम् ; कथैवावशेषो यस्मिंस्तद्यथा तथा । मैत्री सर्वभूतविषया. दया च तदादयः, ता एव परिकर्म अलङ्कारः । श्रद्धाधनेन ; श्रद्धा नाम ध्येय- विषयादरः । तदेव धनं प्रधानसाधनं यस्य । यद्वा श्रद्धायनेनेति पाठः । श्रद्धा अयनं वासो यस्य । समाधिम; समाधियोग्यतां लभते ॥ ७ ॥

प्रभाविलासः - ७

कामादिकेष्विति । शमः ; अन्तरिन्द्रियनिग्रहः । दमः ; बाह्येन्द्रिय-
निग्रहः । आदिपदेनोपरतितितिक्षादिकमुच्यते । दया; स्वार्थनिरपेक्षत्वे सति परदुःखनिराचिकीर्षा । आदिपदेन निःस्पृहत्वादि । एवं शान्तरस- विभावा उक्ताः । तदुक्तं सङ्गीतरत्नाकरे-

" संसारभीरुता दोषदर्शनं विषयेषु च ।

योगिसङ्गो मुनीनां च कृपाशमदमक्षमाः ।

अध्यात्मविषया गोष्ठी तापसास्तापसाश्रयाः ।

भूरिनिर्झर झाङ्का रिवारितीर्थानि तीर्थकाः ।

विष्णुभक्तिप्रदा विद्या विभावा यत्र सङ्गताः ॥

इति । एकादशस्कन्धे च—

“दया समस्तभूतेषु तितिक्षानभिमानिता ।

सत्त्वं शौचमनायासो मङ्गलं प्रियवादिता ।”

इत्यादि ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

अपि चास्य परःशतप्रत्यूहशालिन्यपि पश्चिमे युगे परमपुरुषचरणयुगलपातिव्रतीप्रभावेन प्रथमयुग इव परम्परितवृद्धिरिव सन्दृश्यते समाधिसिद्धिः । तथा हि-
कलया विहितोदयः कयाचित्प्रतिपच्चन्द्र इवैष विश्ववन्द्यः ।

उपयाति दिने दिने समृद्धिं पुरुषो विष्णुपदाश्रितः सितात्मा ॥ ८ ॥

मूलम् - ८

अपि चास्य परःशतप्रत्यूहशालिन्यपि पश्चिमे युगे परमपुरुषचरणयुगलपातिव्रतीप्रभावेन प्रथमयुग इव परम्परितवृद्धिरिव सन्दृश्यते समाधिसिद्धिः । तथा हि-
कलया विहितोदयः कयाचित्प्रतिपच्चन्द्र इवैष विश्ववन्द्यः ।

उपयाति दिने दिने समृद्धिं पुरुषो विष्णुपदाश्रितः सितात्मा ॥ ८ ॥

प्रभावली - ८

अद्य कलियुगत्वात् समाधेर्बहुविघ्नानाशङ्कय भगवदैकान्त्यप्रभावात् सर्वे विघ्नाः प्रतिहता भवन्तीत्याह - अपिचेति । पातिव्रती ; ऐकान्त्यम् । प्रथम- युगे; कृतयुग इव । परम्परिता सञ्जातपरम्परा वृद्धिर्यस्याः सा । उक्तमर्थ प्रतिपादयति – तथाहीति । अत्र पुरुषस्य प्रतिपञ्चन्द्रसाम्यमक्लिष्टं प्रतिपद्यते ।

X८०२
कलया ब्रह्मविद्यया । कयाचित् विहितोदयः ; प्राप्ताभ्युदयः । अन्यत्र एककलया सहोदितः । प्रतिपञ्चन्द्रोऽपि विश्ववन्द्यो भवति । ब्रह्मविद्यामधिगतोऽपि तथा । विष्णुपदम् ; हरिचरणम् । अन्यत्र आकाशः । सितः शुद्ध आत्मा मनो यस्य सः । अन्यत्र सितः शुक्लवर्णः ॥ ८ ॥

प्रभाविलासः - ८

कलयेति । कलया; विद्यया, षोडशांशेन च । विहितोदयः; कृताभ्युदयः, अन्यत्र प्राप्तवृद्धिः । विश्ववन्द्यः ; " सर्वेऽस्मै देवा बलिमावहन्ति " इति श्रुतेः । अन्यत्र सर्वजनवन्द्यः । विष्णुपदम् ; हरि चरणम्, गगनं च । सितात्मा; परिशुद्धस्वभावः, पाण्डररूपश्च ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

अपि च,10

स्वतः सिद्धस्वच्छस्थिरमधुरचिन्तासुरसरि-

त्प्रवाहोपश्लिष्टात्प्रणिधिमुखभागादवतरन् ।

चिदानन्दोदन्वत्यनघगुणरत्नौघभरिते

11निमज्जत्यन्यस्मिन्नयमपुनरुन्मज्जनमिह ॥ ९ ॥

मूलम् - ९

अपि च,10

स्वतः सिद्धस्वच्छस्थिरमधुरचिन्तासुरसरि-

त्प्रवाहोपश्लिष्टात्प्रणिधिमुखभागादवतरन् ।

चिदानन्दोदन्वत्यनघगुणरत्नौघभरिते

11निमज्जत्यन्यस्मिन्नयमपुनरुन्मज्जनमिह ॥ ९ ॥

प्रभावली - ९

स्वतः शुद्धेति । स्वतः ; स्वस्मादेव । शुद्धां ; स्वच्छा; मलप्रतिभटा । स्थिरा ; सन्ततिरूपत्वात् । मधुरा ; भोग्या । चिन्ता; ध्रुवानुस्मृतिः, सैव सुरसरित् । सुरसरिदप्येतैर्विशेषणैर्विशिष्टा । तस्याः प्रवाहेण सम्पृक्तात् । प्रणिधिमुखभागात्; समाध्यारम्भसमयात् । अन्यत्र प्रणिधिशब्देन नदीप्रवेशस्थानमुच्यते । अवतरन् अयं पुरुषः । अनघा हेयगुणासहचरिता गुणाः कल्याणगुणा एव रत्नानि तैः; अन्यत्र अनघगुणवद्भिः रत्नौघैः भरिते पूर्णे

X८०३
चिदानन्दोदन्वति ज्ञानानन्दस्वरूपे ब्रह्मणि समुद्रे । अन्यत्र अपुनरुन्मज्जनं यथा तथा; अन्यस्मिन् संसारसमुद्रे पुनरुन्मज्जनं पुनर्जन्म यथा न भवति तथा निमज्जति । यथा लवणसमुद्रे निमज्जन् कश्चित् प्रवाहोपश्लिष्टात् प्रणिधिमुखभागादवतीर्य पुनर्लवणसमुद्रे यथा निमज्जनं न भवति तथा क्षीरसागरे निमज्जति, तद्वत् ॥ ९ ॥

प्रभाविलासः - ९

स्वत इति । चिन्ता ; स्मृतिसन्ततिः । मुखभागः ; अवतरणदेश
इत्यर्थः । चिदानन्दोदन्वति ; ज्ञानानन्दस्वरूपे ब्रह्मणि । अपरिच्छिन्नत्व- कथनार्थमुदन्वन्निरूपणम् । अत्र निमज्जतीति पूर्वोक्तस्य कार्यस्य स्थापनात् ग्रथनं नाम निर्वहणसन्धेरङ्गमुक्तम्, “ ग्रथनं तन्निबन्धनम् " इति लक्षणात् ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

सम्प्रत्येतस्य सम्भृतसमाधेरुत्तरपूर्वाघाश्लेषविनाशकरणाय वि-

वेकव्यवसायादिभिरुपचिक्रंसे 12। "

(नेपथ्ये)

लुलितभुवनपद्मां लुम्पतो वासतेयी-

मुदयशिखरिमध्यादुज्जिहानस्य भानोः ।

अपतमसि पदेऽस्मिन् वैष्णवे दृश्यमारा-

दिह भवति पताकास्थानकं धाम पूर्वम् ॥ १० ॥

मूलम् - १०

सम्प्रत्येतस्य सम्भृतसमाधेरुत्तरपूर्वाघाश्लेषविनाशकरणाय वि-

वेकव्यवसायादिभिरुपचिक्रंसे 12। "

(नेपथ्ये)

लुलितभुवनपद्मां लुम्पतो वासतेयी-

मुदयशिखरिमध्यादुज्जिहानस्य भानोः ।

अपतमसि पदेऽस्मिन् वैष्णवे दृश्यमारा-

दिह भवति पताकास्थानकं धाम पूर्वम् ॥ १० ॥

प्रभावली - १०

सम्प्रति स्वकृत्यं निर्धारयति - सम्प्रतीति । एतस्य ; पुरुषस्य । उपचिकीर्षे ; उपकर्तुमिच्छामि । अथ विवेकवैतालिकः सूर्योदयं प्रस्तौति - लुलितेति । लुलितानि भुवनपद्मानि यया ताम् । वासतेयीम् ; रात्रिम् । यद्वा वसती रात्रिवेश्मनोः " इति नैघण्टुकपाठात् तत्सम्बन्धिनीं तमः संहतिम् । लुम्पतः

X८०४
उज्जिहानस्य उद्गच्छतः भानोः पूर्वं धाम प्राथमिकं तेजः वैष्णवे पदे गगने दूरात् दृश्यते । इह पदे पताकास्थानकं भवति ; ध्वजपटवद्भाति ॥ १० ॥

प्रभाविलासः - १०

उपचिक्रंसे; उपक्रमितुमिच्छामि । लुलितेति । वासतेयीम् ; रात्रिसम्बन्धिनीं तमः संहतिम् । " वसती रात्रिवेश्मनोः " इत्यमरः । पूर्वम्;
प्रथमम् । धाम ; तेजः । पताकास्थानकम् ; वैजयन्तीस्थानं भवति । पताकेव दृश्यत इत्यर्थः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

विष्णुभक्तिः - ( कर्णं दत्त्वा ) सुप्रभातं प्रख्यापयत्यसौ सुमतिपतेर्विवेकस्य वैतालिकः । अपि च निमित्तान्यपि नैःश्रेयसीं

सिद्धिं सूचयन्ति । तथा हि-

त्रिभुवनमिदं शान्तक्षोभं समाधिरनाकुलः

प्रसृमरसुधाधाराकारा प्रसीदति शेमुषी ।

स्फुरति च मुहुर्दृष्टिः सव्या तदप्युपरि स्फुटं

तदिह महतीं सिद्धिं मन्ये झटित्युपतस्थुषीम् ॥ ११ ॥

मूलम् - ११

विष्णुभक्तिः - ( कर्णं दत्त्वा ) सुप्रभातं प्रख्यापयत्यसौ सुमतिपतेर्विवेकस्य वैतालिकः । अपि च निमित्तान्यपि नैःश्रेयसीं

सिद्धिं सूचयन्ति । तथा हि-

त्रिभुवनमिदं शान्तक्षोभं समाधिरनाकुलः

प्रसृमरसुधाधाराकारा प्रसीदति शेमुषी ।

स्फुरति च मुहुर्दृष्टिः सव्या तदप्युपरि स्फुटं

तदिह महतीं सिद्धिं मन्ये झटित्युपतस्थुषीम् ॥ ११ ॥

प्रभावली - ११

त्रिभुवनमिति । शान्तक्षोभम् ; शान्तोपद्रवम् । अनाकुलः ; उपद्रव- रहितः । पुरुषस्य शेमुषी; बुद्धिः । प्रसरणशीला या सुधाधारा, तस्या आकार इवाकारो यस्याः सा । सव्या; वामा । तदपि ; स्फुरणम् । उपरि ; भागे झटित्युपतस्थुषीम् ; शीघ्रमागच्छन्तीम् ॥ ११ ॥

प्रभाविलासः - ११

त्रिभुवनमिति । प्रसीदति विशदतमा भवति । सव्या; वामा " सव्यं दक्षिणवामयोः " इत्यमरः । उपरि; उपरिष्टात् । स्फुरति ; स्पन्दते । इदं शुभनिमित्तम् । " नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजातं वामे चैतत्फलमविकलं दक्षिणे वैपरीत्यम्" इत्युक्तत्वात् । एवमनुभूतार्थकथनात् निर्णयो नाम निर्वहण सङ्घेरङ्गमुक्तम्, “अनुभूतार्थकथनं निर्णयः परिकीर्तितः" इति लक्षणात् ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

तदयमवसरः समीहितसमर्थनस्य । ततश्च,

वैकुण्ठकृपया देव्या मदभीष्टे व्यवस्थितम् ।

13प्राध्वं सङ्कल्पमार्ताण्डं प्रवर्तयितुमुत्सहे ॥ १२ ॥

मूलम् - १२

तदयमवसरः समीहितसमर्थनस्य । ततश्च,

वैकुण्ठकृपया देव्या मदभीष्टे व्यवस्थितम् ।

13प्राध्वं सङ्कल्पमार्ताण्डं प्रवर्तयितुमुत्सहे ॥ १२ ॥

प्रभावली - १२

X૮૦५
समीहितसमर्थनम् ; सङ्कल्पमार्ताण्डप्रवर्तनम् । वैकुण्ठेति । देव्या ; अतिशयेन दीप्यमानया । भगवत्कृपया नियोजयित्र्या भगवदभिमतकार्ये व्यवस्थितं नियमेन स्थितम् प्राध्वम् अनुकूलं भगवतः सङ्कल्पसूर्य पुरुषविमोचने प्रवर्तयितुं शक्नोति ॥ १२ ॥

प्रभाविलासः - १२

वैकुण्ठेति । प्राध्वम् ; अनुकूलम् ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

न च प्रभूतसंरम्भयापि मया भगवत्कृपामनालम्ब्य प्रारिप्सितपरिसमाप्तिः सुप्रापा । तथा हि-

शरणागतरक्षणैकदीक्षः समये तत्परिपन्थिनो निरुन्धन् ।

प्रभुरायतते परः कृपायां सचिवास्तस्य च सर्व एव देवाः ॥ १३ ॥

मूलम् - १३

न च प्रभूतसंरम्भयापि मया भगवत्कृपामनालम्ब्य प्रारिप्सितपरिसमाप्तिः सुप्रापा । तथा हि-

शरणागतरक्षणैकदीक्षः समये तत्परिपन्थिनो निरुन्धन् ।

प्रभुरायतते परः कृपायां सचिवास्तस्य च सर्व एव देवाः ॥ १३ ॥

प्रभावली - १३

भगवत्कृपावष्टम्भं विना समर्थयापि मया किमपि कर्तुं न शक्यत इत्याह- न चेति । प्रभूतसंरम्भयापि; भृशोद्योगयापि । अनालम्ब्य ; अनाश्रित्य । चिकीर्षितकार्यसमापनं न सुप्रापम् । शरणेति । समये ; उचितावसरे । तत्परि- पन्थिनः ; रक्षणविरोधिनः । निरस्यन्; सर्वविरोधिनिवर्तकः । सर्वेश्वरोऽपि परं केवलं कृपायामायतते ; कृपापरतन्त्रो भवति । कृपापरतन्त्रस्य तस्य सर्वे देवा ब्रह्मरुद्रादयः सचिवाः ; भगवदभिमतमनुतिष्ठन्तीत्यर्थः ॥ १३ ॥

प्रभाविलासः - १३

शरणेति । आयतते; अधीनो भवति । तस्य कृपावतः ।

सचिवाः; सहायाः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अतस्तामेव तावदुपतिष्ठे । अद्य च प्रत्यक्षितेव मे भाति पद्मापतेरनुकम्पा (साञ्जलिबन्धम् ) –
त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे

जगति गतिमिहान्यां देवि सम्मन्यते यः ।

स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां

शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ १४ ॥

मूलम् - १४

अतस्तामेव तावदुपतिष्ठे । अद्य च प्रत्यक्षितेव मे भाति पद्मापतेरनुकम्पा (साञ्जलिबन्धम् ) –
त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे

जगति गतिमिहान्यां देवि सम्मन्यते यः ।

स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां

शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ १४ ॥

प्रभावली - १४

तामेव ; तत्कृपामेव । तस्यां प्रसन्नायां भगवान् प्रसन्नो भवतीति भावः । उपतिष्ठे; स्तौमि । भगवतोऽनुकम्पा भावनाविशेषेण प्रत्यक्षदृष्टेव भातीत्याह-

X८०६
प्रत्यक्षितेवेति । त्वयीति । बहुमानबुद्धिरहितः । अन्यां गतिम् ; तद्व्यतिरिक्तोपायान्तरम् । यः सम्मन्यते स विबुधसिन्धौ सन्निकर्षे प्रवहन्त्यां सत्यामपि मृगतृष्णावीचिकाभिः मरीचिकातरङ्गैः पानेच्छां शमयति । अत्यन्तमूढ इति भावः । तदाहुः ; " वासुदेवे " इत्यादि ॥ १४ ॥

प्रभाविलासः - १४

त्वयीति । अन्यां गतिम् ; उपायम् ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

अपि च,

त्वदृष्ट्या सकृदीक्षिता दिविषदः स्वं स्वं पदं भुञ्जते

  • भोगानत्र च भूभुजामभिमतान् पुष्णासि तृष्णाधिकम् ।

किञ्चोदञ्चदनुग्रहा कृपणतामालक्ष्य वैलक्ष्यतो

नैराश्यप्रमुखानि सौति भवती निर्वाणपर्वाण्यपि 14॥ १५ ॥

मूलम् - १५

अपि च,

त्वदृष्ट्या सकृदीक्षिता दिविषदः स्वं स्वं पदं भुञ्जते

  • भोगानत्र च भूभुजामभिमतान् पुष्णासि तृष्णाधिकम् ।

किञ्चोदञ्चदनुग्रहा कृपणतामालक्ष्य वैलक्ष्यतो

नैराश्यप्रमुखानि सौति भवती निर्वाणपर्वाण्यपि 14॥ १५ ॥

प्रभावली - १५

फलान्तराशया समाश्रितानामपि क्रमेण त्वमेव वैराग्यादिमोक्षपर्वाण्यपि जनयसीत्यभिप्रायेणाह—अपिचेति । भो कृपे त्वद्दृष्टया ; त्वद्विशिष्टया भगवद्दृष्टयेत्यर्थः । दिविषदः ; ब्रह्मादयः । स्वं राज्यमनुभवन्ति । अत्र ; इह लोके च ।

X८०७
भूभुजां तृष्णया अधिकं यथा तथा भोगान्; अत्रालभ्यानिति भावः । भोगान् पुष्णासि । तेषां फलान्तराभिलाषिणां कृपणतां दुःखितां वीक्ष्य वैलक्ष्यतः ; मामाश्रित्याप्येते दुःखमेवोपभुञ्जत इति लज्जया उद्गतानुग्रहा सती । तेषां क्रमेण नैराश्यं प्राकृतविषये, तत्प्रभृतीनि । प्रमुखशब्देन भगवदाभिमुख्यग्रहः । सर्वाणि मोक्षसाधनान्यप्युत्पादयसि मातेवेति भावः ॥ १५ ॥

प्रभाविलासः - १५

त्वदिति । दिविषदः ब्रह्मेन्द्रादयः । भूभुजाम् ; मन्वादीनाम् । कृपणताम् ; दैन्यम् । वैलक्ष्यतः; संसारवैमुख्येन । नैराश्यम् ; वैराग्यम् ।
अत्र मिथो भाषणात् निर्वहणसन्धेः परिभाषाख्यमङ्गमुक्तम्,

" परिभाषामिथो जल्पः " इति लक्षणात् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

( पुरस्तादवलोक्यं सहर्षम् )

अयमसाविह विवेकमहाराजागारपूर्वभागे दनुजमथनदया- नियुक्तो नृत्तोद्यत इवावतिष्ठते निखिलनिगमनैगमिक विद्यैकराशि- विहङ्गराजः । प्रसीदति चासौ मे पन्नगरिपुः15 । ततश्च,

आनेतुमात्मरभसेन समीहमानो

रक्षोन्मुखं नतगृहेषु16 रमासहायम् । प्रायः प्रभोस्तदपृथक्स्थितिवृत्तिशक्तिं 17

सङ्कल्पमप्युपहरिष्यति तद्रथोऽसौ ॥ १६ ॥

मूलम् - १६

( पुरस्तादवलोक्यं सहर्षम् )

अयमसाविह विवेकमहाराजागारपूर्वभागे दनुजमथनदया- नियुक्तो नृत्तोद्यत इवावतिष्ठते निखिलनिगमनैगमिक विद्यैकराशि- विहङ्गराजः । प्रसीदति चासौ मे पन्नगरिपुः15 । ततश्च,

आनेतुमात्मरभसेन समीहमानो

रक्षोन्मुखं नतगृहेषु16 रमासहायम् । प्रायः प्रभोस्तदपृथक्स्थितिवृत्तिशक्तिं 17

सङ्कल्पमप्युपहरिष्यति तद्रथोऽसौ ॥ १६ ॥

प्रभावली - १६

. विवेकागारम् ; मनोमण्डपम् ; तत्पूर्वभागे । तत्रापि भगवतः सन्निधानात् भगवतः पूर्वभाग एव वैनतेयस्यावस्थानात् पूर्वभाग इत्युक्तम् । नियुक्तः प्रेरितः । नृत्तोद्यत इव; आलीढाख्यस्थानविशेषात् । ततश्चेति ; प्रसन्नत्वादित्यर्थः । आनेतुमिति । रमासहायमाश्रितसमीपमानेतुं समर्थोऽयं तत्सङ्कल्पसूर्यमप्यानेतुं शक्नोतीत्याह — आनेतुमिति । आत्मवेगेन रक्षोन्मुखं रमासहायम्

X८०८
आश्रितगृहेष्वानेतुं समीमानोऽयं तत्सङ्कल्पमप्युपहरिष्यति । कीदृशं सङ्कल्पम् ? तदपृथक्स्थितिवृत्तिशक्तिम्; तस्मात् अपृथग्भूता स्थितिर्ययोस्ते वृत्तिशक्ती यस्य तम् । प्रायः ; नूनं, निश्चितमित्यर्थः ॥ १६ ॥

प्रभाविलासः - १६

निगमाः; वेदाः । नैगमिकाः वेदान्ताः । आनेतुमिति । आत्मरभसेनः स्ववेगेन । समीहमानः ; चेष्टयन् । नतगृहेषु ; शरणा-
गतगृहेषु । तदपृथक स्थिता; तेन विष्णुना अपृथक स्थिता अविनाभूता वृत्तिर्यस्याः सा तथोक्ता शक्तिर्यस्य तम् । उपहरिष्यति ; आनेष्यति ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

तदेनमभिष्टौमि—

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।

श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ १७ ॥

मूलम् - १७

तदेनमभिष्टौमि—

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।

श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ १७ ॥

प्रभावली - १७

अभिष्टौमि ; अभितः सर्वतः स्तौमि

अभितः सर्वतः स्तौमि । पन्नगनद्धाय; भूषणभुजगैर्बद्धाय । मन्दरस्य वासुकिना बन्धः । श्रुतिसिन्धौ सुधोत्पादे ; अमृतवत्सारार्थस्योत्पादने । मन्दराय; वेदजन्यसारभूतज्ञानोत्पादकायेत्यर्थः । तस्मै नमः ॥ १७ ॥

प्रभाविलासः - १७

नम इति । पन्नगनद्धाय; सर्पभूषणाय ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

अपि च,

क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपार तिम्यद्गरुन्ति

त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।

पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्ति

ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ १८ ॥

मूलम् - १८

अपि च,

क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपार तिम्यद्गरुन्ति

त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।

पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्ति

ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ १८ ॥

प्रभावली - १८

एतस्य बालक्रीडनाद्यनुसन्धत्ते - क्षुण्णेति । क्षुण्णाः चूर्णीकृताः पर्वताः यैस्तानि । क्षुभितैः चतुःसमुद्रः तिम्यन्तः आद्रभवन्तः गरुतः पत्राणि यैः ।

X८०९
त्रुट्यन्त्यः तारामाला यैस्तैः । स्थपुटितानि विषमितानि उद्घाटितानि विबुधानां स्थानकानि यैः । क्रीडितापेक्षया अल्पत्वात् कप्रत्ययः । पातालमधस्तात् उपरिष्टात् ब्रह्मलोकसौधं च यथा अवधिः स्यात्, तथा विहितव्यर्थगतागतानि । अस्मदार्ति क्षिपेयुः ॥ १८ ॥

प्रभाविलासः - १८

क्षुण्णेति । क्षुभितेषु चतुरकूपारेषु चतुः समुद्रेषु तिम्यन्तः क्लिद्यन्तः गरुतः येषां तानि । स्थपुटितानि ; विषमस्थितानि विबुधस्थानकानि
येषां तानि । ब्रह्मसौधः; सत्यलोकः । अर्भकक्रीडितानि अस्मदार्तिं क्षिपेयुरिति सम्बन्धः ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

दण्डकेन चैनमण्डजनाथमनुनाथेय-.

गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठवैकुण्ठपीठीकृत स्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोप-

गूढस्फुरत्कण्टकत्रातवेधव्यथावेपमानद्विजिह्वाधिपाकल्पविष्फार्यमाण-
स्फटावाटिकारत्नरोचिश्छटाराजिनीराजितं कान्तिकल्लोलिनीराजितम् ।

जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पतिक्षिप्तदम्भोलिधाराकिणाकल्प कल्पान्तवातूलकल्पोदयानल्प- वीरायितोद्यच्चमत्कारदैत्यारिजैत्रध्वजारोहनिर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् ’ 18मरुत्पञ्चकाधीशसत्यादिमूर्ते न कश्चित्समस्ते नमस्ते पुनस्ते नमः ।
नम इदम जहत्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेल- पाथोधिवीचीच पेटाहतागाधपातालभाङ्कारसङ्क्रुद्ध नागेन्द्रपीडासृणीभाव- भास्वन्नखश्रेणये 19चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्य- मध्यात्मविद्या विधेया विधेया 20भवद्दास्यमापादयेथा दयेाश्च मे ।
मनुरनुगतपक्षिवक्त्रस्फुरत्तारकश्चित्रभानुप्रिया शेखरस्तावक- स्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन् बलद्वेषिदर्पज्वलद्वाल- खिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धि परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनान्तक । इदं च श्रुतमनुचिन्तयामि-
व्यक्तौ सन्नाहसङ्कल्पौ विश्वगोप्तुरिमौ हरेः ।

प्रथितावागमग्रामे पक्षीश्वरसुदर्शनौ ॥ १९ ॥

मूलम् - १९

दण्डकेन चैनमण्डजनाथमनुनाथेय-.

गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठवैकुण्ठपीठीकृत स्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोप-

गूढस्फुरत्कण्टकत्रातवेधव्यथावेपमानद्विजिह्वाधिपाकल्पविष्फार्यमाण-
स्फटावाटिकारत्नरोचिश्छटाराजिनीराजितं कान्तिकल्लोलिनीराजितम् ।

जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पतिक्षिप्तदम्भोलिधाराकिणाकल्प कल्पान्तवातूलकल्पोदयानल्प- वीरायितोद्यच्चमत्कारदैत्यारिजैत्रध्वजारोहनिर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् ’ 18मरुत्पञ्चकाधीशसत्यादिमूर्ते न कश्चित्समस्ते नमस्ते पुनस्ते नमः ।
नम इदम जहत्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेल- पाथोधिवीचीच पेटाहतागाधपातालभाङ्कारसङ्क्रुद्ध नागेन्द्रपीडासृणीभाव- भास्वन्नखश्रेणये 19चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्य- मध्यात्मविद्या विधेया विधेया 20भवद्दास्यमापादयेथा दयेाश्च मे ।
मनुरनुगतपक्षिवक्त्रस्फुरत्तारकश्चित्रभानुप्रिया शेखरस्तावक- स्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन् बलद्वेषिदर्पज्वलद्वाल- खिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धि परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनान्तक । इदं च श्रुतमनुचिन्तयामि-
व्यक्तौ सन्नाहसङ्कल्पौ विश्वगोप्तुरिमौ हरेः ।

प्रथितावागमग्रामे पक्षीश्वरसुदर्शनौ ॥ १९ ॥

प्रभावली - १९

दण्डकेन ; गरुडदण्डकेन । दण्डकं नाम प्रबन्धविशेषः । अण्डजानां नाथं राजानम् । अनुनाथेय; अनु क्रमेण अभीष्टानि प्रार्थयेय । गरुडमि- त्यादि । अखिलवेदा एव नीडं कुलायः, तदधिरूढम् ; तत्प्रतिपाद्यमित्यर्थः । द्विषतां पीडने उत्कण्ठितश्चासौ अकुण्ठवैकुण्ठश्च ; तेन पीठीकृतस्कन्धम् ईडे स्तौमि । स्वनीडम्; स्वकुलायसमीपम् । तत्र आगत्या गरुत्मदागमनेन प्रीतयोः रुद्रासुकीयः सपत्न्योः स्तनाभोगस्य स्तनवैपुल्यस्य गाढालिङ्गनेन स्फुरतामुद्भवतां कण्टकानां पुलकानां व्रातेन यो वेधः, तद्व्यथया वेपमानो यो द्विजिह्वाधिपः, स एव आकल्पः भूषणं, तस्य विष्फार्यमाणायाः विकास्य-

X८१०
मानायाः स्फटावाटिकाया फणापङ्क्तेः रत्नरोचिषां समूहेन कृतनीराजनम् । कान्तिरेव कल्लोलिनी नदी, तया राजितम् ॥

दिवौकस्पतिः इन्द्रः तेन क्षिप्ता या दम्भोलिः वज्रं तस्य धारया कृतो यः किणः, स एव आकल्पः भूषणं यस्य । कल्पान्ते वातूलः, तत्सदृशोदयमनल्पं यत् वीरायितं पराक्रमः तेन उद्यच्चमत्कारः जातविस्मयो यो दैत्यारिः, तस्य जैत्रो यो ध्वजदण्डः, तदारोहणेन सर्वैः निर्धारित उत्कर्षः निश्चितोऽतिशयः यस्य । सङ्कर्षणस्वरूप । मरुत्पञ्चकस्य अधीशाः अधिष्ठान

X८११
देवताः सत्यसुपर्णविजयतार्क्ष्यविहगेश्वरावतारा यस्य । न समस्ते; जगति ते समो न कश्चित् । तादृशाय ते नमः ॥

अजहत्सपर्याय ; सदा पूज्याय । पर्यायः ; परम्परा, तेन निर्यातस्य पक्षानिलस्य आस्फालनम् आघातः, तेन उद्वेलस्य पाथोधेः समुद्रस्य वीचय एव चपेटः विस्तृताङ्गुलिः पाणिः तेनाहतस्य अगाधस्य पातालस्य भाङ्कारेण्ण भांइतिशब्देन सङ्क्रुद्धानां नागेन्द्राणां पीडाविषये सृणीभावेन अङ्कुशभावेन भास्वन्ती नखश्रेणिर्यस्य तस्मै । चण्डतुण्डाय उग्रनासि- काय । नृत्यन्त्यौ उग्रे भुजङ्गाविव भ्रुवौ यस्य । दंष्ट्रया हेतुना वज्रवते । दंष्ट्रा स्वरूपवज्रवत इत्यर्थः । तुभ्यं नम इत्यन्वयः । अध्यात्मविद्याः सर्वा विधेया वशवर्तिन्यः । मे; ममाप्यध्यात्मविद्याविविदिषोः । भगवद्दास्यम्; भगवद्दास- भावं मम आपादयेथाः आपादय । दयेथाः ; दयां च कुरु । " अधीगर्थ " इति कर्मणि षष्ठी ।

X८१२
तव पञ्चाक्षरमन्त्रो नस्त्रायतां, तत्त्वबुद्धिं परभक्तिं च मे प्रयच्छेत्याह- मनु- रिति । अनुगतस्य पश्चात्स्थितस्य पक्षिशब्दस्य वक्त्रे अग्रभागे स्फुरन् प्रकाशमानः तारो यस्य ; पक्षिशब्दात्पुरतः प्रकाशमानप्रणव इत्यर्थः । चित्रभानुप्रियाशेखरः ; स्वाहाशब्दान्त इत्यर्थः । तावको मनुः ; गरुडपञ्चाक्षरीमन्त्रः नः त्रायताम् । कीदृशः ? त्रिवर्गस्य धर्मार्थकामानाम् अपवर्गस्य च प्रसूतिः । परव्योम परमपदं स्थानं यस्य । बलद्वेषिणः इन्द्रस्य दर्पेण ज्वलतां वालखिल्यानाम् ऋषीणां प्रतिज्ञया अवतीर्ण । अत्र भारते सुपर्णाभ्युदयकथा अनुसन्धेया21 । स्थिरां तत्त्वबुद्धिम; परावर तत्त्वयाथात्म्यविषयबुद्धिम् । जगतां मूलकन्दे ;

X८१३
जगत्कारणभूते भगवति । महानन्दस्य मोक्षस्य दोग्ध्रीम् ; मुक्तिसाधनभूता- मित्यर्थः । इदं च रहस्यं श्रुतिसिद्धम् अनुसन्दधे । व्यक्ताविति । अखिल गोप्तुः हरेः सन्नाहसङ्कल्पौ ; पक्षीश्वरः सन्नाहः ; सुदर्शनं सङ्कल्पः, इत्युपनिषत्समूहे प्रसिद्धौ ॥ १९ ॥

प्रभाविलासः - १९

अनुनाथेय; प्रार्थयेय । गरुडमित्यादि । नीडम्; कुलायः । द्विषतां पीडने उत्कण्ठितस्य; उत्साहवतः । आरूढस्य वैकुण्ठस्य पीठीकृतः स्कन्धः अंसः यस्य तम् । स्वनीडागत्या स्वकुलायागमनेन प्रीतयोः रुद्रासुकीर्ति तदाख्यभार्ययोः स्तनाभोगयोः स्तनविस्तारयोः गाढोप- गूढेन गाढालिङ्गनेन स्फुरता कण्टकव्रातेन पुलकोद्गमसमूहेन वेधेन जातया व्यथया वेपमानानां द्विजिहाधिपाकल्पानां सर्वश्रेष्ठ भूषणानां विष्फार्य-
माणानां विस्तारमीयुषीणां स्फटानां फणानां वाटिकासु पङ्क्तिषु रत्नरोचिषां छटाराजिभिः अविच्छिन्नपङ्क्तिभिः नीराजितं सञ्जातनीराजनम् । कान्तिरेव कल्लोलिनी नदी, तया राजितम् । जयेति । देवाधिपाहारः; सुधा । दिवौकस्पतिना इन्द्रेण क्षिप्तस्य दम्भोलेः वज्रस्य धारया जाताः किणा एव आकल्पः यस्य सः । कल्पान्तवातूलेन प्रलयवायुना सदृशोदयेन अनल्पेन वीरायितेन उद्यन् चमत्कारः यस्य सः । दैत्यारेः भगवतः जैत्रध्वज जयशीलध्वज । आरोह निर्धारितोत्कर्ष ; दैत्यारेरारोहेण निर्णीत- शक्त्यतिशय । मरुत्पञ्चकस्य प्राणादेः अधीशाः अधिष्ठानदेवताभूताः सत्यादयः सत्यसुपर्णविजयतार्क्ष्यविहगेश्वरा मूर्तयः विग्रहाः यस्य सः ।


नम इति । पर्यायेण निर्यातस्य पक्षानिलस्यास्फालनेन ताडनेन उद्वेलस्य पाथोधेः समुद्रस्य वीचीभिरेव चपेटैः विस्तृताङ्गुलिहस्तैः आहतस्य अगाधपातालस्य भाङ्कारेण अनुकारशब्देन सङ्क्रुद्धस्य कुपितस्य नागेन्द्रस्य दिग्गजस्य पीडायां सृणीभावेन अङ्कुशीभावेन भास्वन्त्यः नखश्रेणयः यस्य तस्मै । दंष्ट्या वज्रिणे; द्र्ष्ट्रात्मकवज्रायुधाय । अध्यात्मविद्या विधेया वशवर्तिनी विधेया कर्तव्या । दयेथाः ; दयां कुरु ।
मनुरिति । अनुगतपक्षेः ; अनुगतः पश्चादुच्चार्यमाणः पः पवर्णः यस्य तस्य क्षेः क्षिवर्णस्य । वक्त्रे ; आदौ । स्फुरन् तारकः प्रणवः यस्य सः । चित्रभानुप्रिया स्वाहा शेखरः अन्त्यपदं यस्य सः । तावकः मनुः मन्त्रः नः अस्मान् त्रायतामित्यन्वयः । एतदभिप्रायेण गरुडपञ्चाशति चोक्तम्- पक्षिव्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारम्" इत्यादि । पुरा किल महेन्द्रः अङ्गुष्ठप्रमाणदेहान् वालखिल्यानवेक्ष्य जहास । तेन ते त्वदधिक- बलेनावमतो भविष्यसीति शापेन प्रतिज्ञां चक्रुः । तदभिप्रेत्याह — बलद्वेषीत्यादिना । बलद्वेषिण इन्द्रस्य दर्पेण ज्वलतां वालखिल्यानां प्रतिज्ञा अवतीर्णा येन । दधीथाः ; निधेहि । मुधाकामहीनाम् ; विफलकाम-
हीनाम् । अहीनान्तक; सर्पश्रेष्ठनाशक । अत्र गरुडप्रसादप्रतीतेः पर्युपासनाख्यं निर्वहणसन्धेरङ्गमुक्तम् । " प्रसादः पर्युपासनम् " इति लक्षणात् । व्यक्ताविति । आगमग्रामे ; पाञ्चरात्रसंहितायाम्-

यदा देवस्य सङ्कल्पः सुदर्शनसमाह्वयः ।

आयुधादिस्वरूपेण कारकत्वं प्रपद्यते ॥

इत्यादिकायामित्यर्थः ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

( सर्वतोऽवलोक्य) अहो नु खलु विष्वक्प्रकाशा दिशो विदिशश्च । तदासीदतीव22 देवस्य दयावल्लभस्य23 सङ्कल्पः ।

(ततः प्रविशति सङ्कल्पः)

सङ्कल्पः - (आत्मानं निर्वर्ण्य )

यस्मिन्विस्मयनीयभूमनि मनागुन्मीलिते नैकधा

सिध्यन्त्यस्य सितासितस्य जगतः स्वर्गापवर्गादयः ।

ऐशः सोऽहमवासरात्ययभवन्मायामहायामिनी-

सत्ताशेषसुषुप्त24 बोधनपटुः सङ्कल्पसूर्योदयः ॥ २० ॥

मूलम् - २०

( सर्वतोऽवलोक्य) अहो नु खलु विष्वक्प्रकाशा दिशो विदिशश्च । तदासीदतीव22 देवस्य दयावल्लभस्य23 सङ्कल्पः ।

(ततः प्रविशति सङ्कल्पः)

सङ्कल्पः - (आत्मानं निर्वर्ण्य )

यस्मिन्विस्मयनीयभूमनि मनागुन्मीलिते नैकधा

सिध्यन्त्यस्य सितासितस्य जगतः स्वर्गापवर्गादयः ।

ऐशः सोऽहमवासरात्ययभवन्मायामहायामिनी-

सत्ताशेषसुषुप्त24 बोधनपटुः सङ्कल्पसूर्योदयः ॥ २० ॥

प्रभावली - २०

अथ सङ्कल्पागमनं प्रस्तौति - सर्वत इति । विष्वक्प्रकाशाः; सर्वतः प्रकाशाः । तस्मादागच्छतीव दयापरतन्त्रस्य देवस्य सङ्कल्पः । अथ सङ्कल्पः स्वं दृष्ट्वा अयमहं भगवतः सङ्कल्पसूर्योदय इत्याह-यस्मिन्निति । विस्मयनीयो भूमा

X८१४
महिमा यस्य तस्मिन् । मनाक् उन्मीलिते ; ईषत्प्रादुर्भूते सति । सितासितस्य अस्य जगतः ; गुणभेदात् शुद्धाशुद्धस्य स्वर्गापवर्गादयः अनेकधा फलन्ति । ऐशः ; ईश्वरसम्बन्धी । सोऽयं सङ्कल्पसूर्योदयः । कीदृशः ? अवासरात्यय- भवन्मायामहायामिनी; सर्वदा विद्यमानमायाख्या रात्रिः । तस्यां सत्ताशेषं स्वरूपसत्तैव अवशेषो यस्मिन् तथा ज्ञानशून्यानां सुषुप्तकल्पानां जीवानां बोधने उज्जीवने पटुः ॥ २० ॥

प्रभाविलासः - २०

यस्मिन्निति । सत्त्वादिगुणमिश्रत्वात् सितासितत्वम् । अवासरा-
त्यये दिनान्तर हिते, अनादितयेत्यर्थः । भवन्त्या महायामिन्या सत्ता- शेषाः; स्वरूपसत्तामात्रशेषाः । सुषुप्ताः; तिरोहितज्ञानानन्दादयः ये जनाः, तेषां प्रबोधने पटुः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

आदिष्टः सोऽहमिदानीमनघपरविद्याप्रसादितया प्रदित्सित- पारितोषिकया सकलगुण सेव्यया देव्या भगवदनुकम्पया । यथा- मदधीनवृत्तिना मोहादिविजयिना विवेकेन जनितभूमा विनिष्पन्न- समाधिः पुरुषस्त्वयैव मोचनीय इति । अहं च सर्वथा निखिलजगदम्बायास्तदनुकम्पायाः प्रियमाचरामि । न च मया तदनुरोधि - परित्राणे25 तद्विरोधिनिरसने च दुष्करं किञ्चित् । अहं हि,
अचरन्मधुकैटभान्पयोघीन हिरण्याक्ष हिरण्यविप्लुतां द्याम् ।

अदशाननकुम्भकर्णघोषां पुनरुर्वीमपि विक्रमैरकार्षम् ॥ २१ ॥

मूलम् - २१

आदिष्टः सोऽहमिदानीमनघपरविद्याप्रसादितया प्रदित्सित- पारितोषिकया सकलगुण सेव्यया देव्या भगवदनुकम्पया । यथा- मदधीनवृत्तिना मोहादिविजयिना विवेकेन जनितभूमा विनिष्पन्न- समाधिः पुरुषस्त्वयैव मोचनीय इति । अहं च सर्वथा निखिलजगदम्बायास्तदनुकम्पायाः प्रियमाचरामि । न च मया तदनुरोधि - परित्राणे25 तद्विरोधिनिरसने च दुष्करं किञ्चित् । अहं हि,
अचरन्मधुकैटभान्पयोघीन हिरण्याक्ष हिरण्यविप्लुतां द्याम् ।

अदशाननकुम्भकर्णघोषां पुनरुर्वीमपि विक्रमैरकार्षम् ॥ २१ ॥

प्रभावली - २१

अथ सङ्कल्पः स्वकृत्यमाह - आदिष्ट इति । सोऽहम् ; तादृशसामर्थ्य - बानहम् । परविद्याया अनघत्वं मोक्षैकप्रयोजनतया, " अथ परा यया तदक्षर मधिगम्यते " इत्युक्तेः । प्रदित्सितं प्रदातुमिष्टं पारितोषिकं यया । ज्ञानशक्त्यादि- सकलगुणसेव्यया भगवत्कृपया । किमित्यादिष्टः ? तत्राह – मदधीनेति । समर्थो ऽप्यहं तस्याः प्रियमेवाचरामीत्याह — अहमिति । भगवदनुकम्पायाः प्रियं दुष्करं

    X८१५  

चेत्, कथं कर्तुं शक्यत इत्यत्राह - न मयेति । तदेवोपपादयति -अचर दिति । अहं मद्विक्रमैः पयोधीन् अविद्यमानमधुकैटभान, द्यां हिरण्याक्ष हिरण्यविप्लवरहितां च अकार्षम् । उर्वीं च रावणकुम्भकर्णादिपीडारहिताम- कार्षम् ॥ २१ ॥

प्रभाविलासः - २१

परविद्या; परभक्तिः । सकलगुणसेव्यया; वात्सल्यादिगुणोपजीव्यया, “दोषा भवेयुरेते यदि नाम दये त्वया विना भूताः "
इत्युक्तत्वात् । अचरन्निति । अचरन्तौ मधुकैटभौ येषु तान् । सर्वस्यापि सङ्कल्पमात्रायत्तत्वेनाकार्षमित्युक्तिः । तदुक्तम्- " सङ्कल्पेनैव संहर्तुं शक्तो ऽहमपि वैरिणः " इति " इच्छन् हरिगणेश्वर " इति च ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

आस्तामेतत् । अद्य तु,

अनिदम्प्रथमां निद्रामपावर्त्य26’ क्षणादहम् ।

अनिदम्पश्चिमां पुंसो जनयिष्यामि जागराम् ॥ २२ ॥

मूलम् - २२

आस्तामेतत् । अद्य तु,

अनिदम्प्रथमां निद्रामपावर्त्य26’ क्षणादहम् ।

अनिदम्पश्चिमां पुंसो जनयिष्यामि जागराम् ॥ २२ ॥

प्रभावली - २२

पूर्ववृत्तान्तकथनमेतदास्ताम् ; अद्य कर्तव्यं शृण्वत्यभिप्रायेणाह — अद्य त्विति । अनिदम्प्रथमाम् ; अनादिकालादनुवर्तमानाम् । निद्राम् ; अज्ञानरूपाम् ।तां क्षणमात्रेण निवर्त्य । अनिदम्पश्चिमां नित्यां जागराम्; नित्यप्रबोधरूपं मोक्षमित्यर्थः । जनयिष्यामि ॥ २२ ॥

प्रभाविलासः - २२

अनिदम्प्रथमामिति । अनिदम्प्रथमाम् ; अनादिभूताम् । निद्राम् ; अविद्याम् । अपवर्त्य ; निवर्त्य । अनिदम्पश्चिमाम् ; इदं पश्चिमं न विद्यते यस्मात्, अनुत्तरावधिमित्यर्थः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

तदर्थमपि तावदिदमिदानीमाददीय; यदुत-
मयि विनिहितभारं मध्यमे वृत्तिभेदे

स्थिरमनसमुपायापायरथ्यानिवृत्तम् ।

मुरमथनसमीक्षाशेखरेण स्वभूम्ना

मुषितनिखिलदोषं मोचयिष्यामि जीवम् ॥ २३ ॥

मूलम् - २३

तदर्थमपि तावदिदमिदानीमाददीय; यदुत-
मयि विनिहितभारं मध्यमे वृत्तिभेदे

स्थिरमनसमुपायापायरथ्यानिवृत्तम् ।

मुरमथनसमीक्षाशेखरेण स्वभूम्ना

मुषितनिखिलदोषं मोचयिष्यामि जीवम् ॥ २३ ॥

प्रभावली - २३

तदर्थम् ; नित्यजागराजननार्थम् । तावत् प्रथमम् । आददीय ;

X८१६
आदास्ये । आदास्यमानमेव दर्शयति-मयीति । मयि मध्यमे वृत्तिभेदे ; नित्यनैमित्तिकनिर्वर्तने । स्थिरमनसम् । उपायापायरथ्यानिवृत्तम्; उपायाः काम्यकर्माणि; अपायाः निषिद्धकर्माणि तान्येव रथ्या, अपरीक्षकैराश्रितत्वात्, तया रहितम् । निषिद्धकाम्यरहितमित्यर्थः । मुरमथनसमीक्षा ; भगवत्कृपा । सैव यस्य शिरोभूषणं तेन स्वभूम्ना मोक्षितसर्वपापमेनं जीवं संसारबन्धान्मोक्षयिष्यामि ॥ २३ ॥

प्रभाविलासः - २३

मयीति । मध्यमे वृत्तिभेद इति ।

“एषा सा वैदिकी निष्ठाह्युपायापायमध्यमा” इति सङ्गृहीतम् । रथ्या; मार्गः ।

मुरमथनसमीक्षाशेखरेण ; भगवदवलोकनोत्तंसितेन ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

( परिक्रम्य ) क्व पुनरिदानीं मत्समर्थनीय27 साध्यसाकाङ्क्षा महाभागा निखिलपापनिराकरिष्णुर्विष्णुभक्तिः, यत्प्रीणनार्थोऽयमस्माकमारम्भः ? ( पुरस्तादवलोक्य) इयं सा -

नियतपुलकिताङ्गी निर्भरानन्दवाष्पा

गलितनिखिलसङ्गा28 गद्गदस्तोत्रगीतिः29

अमृतलहरिवर्णा हर्षनृत्तोपपन्ना

विगतनरकभीतिर्विष्णुभक्तिर्विभाति ॥ २४ ॥

मूलम् - २४

( परिक्रम्य ) क्व पुनरिदानीं मत्समर्थनीय27 साध्यसाकाङ्क्षा महाभागा निखिलपापनिराकरिष्णुर्विष्णुभक्तिः, यत्प्रीणनार्थोऽयमस्माकमारम्भः ? ( पुरस्तादवलोक्य) इयं सा -

नियतपुलकिताङ्गी निर्भरानन्दवाष्पा

गलितनिखिलसङ्गा28 गद्गदस्तोत्रगीतिः29

अमृतलहरिवर्णा हर्षनृत्तोपपन्ना

विगतनरकभीतिर्विष्णुभक्तिर्विभाति ॥ २४ ॥

प्रभावली - २४

अथ विष्णुभक्तिसद्भावं प्रस्तौति - परिक्रम्येति । क्व तिष्ठतीति शेषः ।

X८१७
विष्णुभक्तिं वर्णयति - नियतेति । अमृतलहरिवत् स्वादुवचना ॥ २४ ॥

प्रभाविलासः - २४

अथ शान्तरसानुभावानाह - नियतेति । तदुक्तं भरतेन –
“ मन्दस्पन्दं बहिश्चित्तमानन्दाश्रुप्लुते दृशौ ।

रोमाञ्चकञ्चुका मूर्तिर्मोक्षशास्त्रार्थचिन्तनम् ॥

ब्रह्मविद्योपदेशश्च सङ्गमस्तत्त्वगोचरः ।

नासाग्रमागते नेत्रे ज्ञानमुद्राप्रदर्शनम् ॥

इत्यादयोऽनुभावाः स्युः " इति । भगवता चोक्तम् - " मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया” इत्यादि ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

अपि च,

नियताक्षहयं सैषा स्फुरत्प्रशमपत्तिकम् ।

मनोरथमधिष्ठाय विष्णुभक्तिरिह स्थिता30 ॥ २५ ॥

मूलम् - २५

अपि च,

नियताक्षहयं सैषा स्फुरत्प्रशमपत्तिकम् ।

मनोरथमधिष्ठाय विष्णुभक्तिरिह स्थिता30 ॥ २५ ॥

प्रभावली - २५

नियताक्षेति । नियताः नियमिताः अक्षाण्येव हयाः यस्य तम् । स्फुरन्त्यः, प्रकृष्टः शमः; शमशब्देन दमादयोऽप्युपलक्षिताः; शमदमादयः पदातयो यस्य तम् । मन एव रथमधिष्ठाय विष्णुभक्तिरिह तिष्ठति ॥ २५ ॥

प्रभाविलासः - २५

नियताक्षेति । प्रशमः शान्तिः ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

विष्णुभक्तिःः— - ( सहर्षसाध्वसम् ) देव, इयमहमस्मि ।

( इति गद्गदुस्वरा दूरतः साष्टाङ्गपातं31 प्रणमति )

सङ्कल्पःः— – ( सत्वरधीरोदारगतिरुपसृत्य सहस्तावलम्बमुत्थापयति)

विष्णुभक्तिः : —- देव, नन्तव्योऽसि मया त्वं नाथसङ्कल्पः ।

( इति पुनः पुनः प्रणमति)
सङ्कल्पःः— भद्रे, अलमलमेतावता । महायोगेश्वरे32, ’ महाप्रभावा खल्वसि ।

तदिह नामयति भवती मामप्यनेन नमसा33

विष्णुभक्तिःः— देव,

धन्येयं34 खल्विदानीमहमस्मि,

याहमिह निरङ्कुशैश्वर्यशालिना भवतैवं सम्भाव्ये ।

सङ्कल्पःः— भद्रे, परावरनिखिल35 तत्त्वान्तरात्मना भगवतापि सम्भावनीयां त्वामहं सम्भावयामीति

किमत्र चित्रमवगच्छसि ? यदीदृशी भवती—–

शमधननिधिः संविद्वल्लीसमग्रफलोदयः

श्रुतपरिणतिः शुद्धिस्थेमा सुखप्रतिभूरसि ।

भवभयतमः प्रातः सन्ध्या परावरदीपिका

भगवति हरौ भक्तिर्दिव्या परिष्कृतिरात्मनः ॥ २६ ॥

मूलम् - २६

विष्णुभक्तिःः— - ( सहर्षसाध्वसम् ) देव, इयमहमस्मि ।

( इति गद्गदुस्वरा दूरतः साष्टाङ्गपातं31 प्रणमति )

सङ्कल्पःः— – ( सत्वरधीरोदारगतिरुपसृत्य सहस्तावलम्बमुत्थापयति)

विष्णुभक्तिः : —- देव, नन्तव्योऽसि मया त्वं नाथसङ्कल्पः ।

( इति पुनः पुनः प्रणमति)
सङ्कल्पःः— भद्रे, अलमलमेतावता । महायोगेश्वरे32, ’ महाप्रभावा खल्वसि ।

तदिह नामयति भवती मामप्यनेन नमसा33

विष्णुभक्तिःः— देव,

धन्येयं34 खल्विदानीमहमस्मि,

याहमिह निरङ्कुशैश्वर्यशालिना भवतैवं सम्भाव्ये ।

सङ्कल्पःः— भद्रे, परावरनिखिल35 तत्त्वान्तरात्मना भगवतापि सम्भावनीयां त्वामहं सम्भावयामीति

किमत्र चित्रमवगच्छसि ? यदीदृशी भवती—–

शमधननिधिः संविद्वल्लीसमग्रफलोदयः

श्रुतपरिणतिः शुद्धिस्थेमा सुखप्रतिभूरसि ।

भवभयतमः प्रातः सन्ध्या परावरदीपिका

भगवति हरौ भक्तिर्दिव्या परिष्कृतिरात्मनः ॥ २६ ॥

प्रभावली - २६

हर्षः सङ्कल्पदर्शनात् । तस्य गौरवात् केत्यन्वेषणात् साध्वसम् । सहस्ता-

X८१८
वलम्बम् हस्तमालम्ब्येत्यर्थः । महान्तो ये योगा उपायाः, तेषाम् ईश्वरे;

; । प्रधानभूते ; विष्णुभक्तेरुपायप्रवर्तकत्वादिति भावः । सङ्कल्पो विष्णुभक्तिं स्तौति — शमधनेति । शमधनानां योगिनां निधिः ; अवश्यसम्पादनीया ।

। संवित्; तत्त्वज्ञानम् । सैव वल्ली । तस्याः समग्रफलोदयः । आत्मनः ; जीवस्य । परिष्कृतिः; अलङ्कारः ॥ २६ ॥

प्रभाविलासः - २६

शमेति । स्थेमा; स्थैर्यम् । परावरयोः ; परमात्मजीवात्मनोः दीपिका । भगवतीति सम्बोधनम् ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

अपि च,

जनन्या सर्वलोकानां विष्णुवल्लभया तया ।

कृपया कल्पितः सोऽहं त्वद्भ्रूविभ्रमकिङ्करः ॥ २७ ॥

मूलम् - २७

अपि च,

जनन्या सर्वलोकानां विष्णुवल्लभया तया ।

कृपया कल्पितः सोऽहं त्वद्भ्रूविभ्रमकिङ्करः ॥ २७ ॥

प्रभावली - २७

सोऽहं भगवत्कृपया त्वत्किङ्करत्वेननियमितोऽस्मीत्याह – जनन्येति ॥ २७ ॥

प्रभाविलासः - २७

जनन्येति । " तुष्टा तेन जनार्दनस्य करुणा कुर्वीत तत्किङ्करम् " इति प्रत्यभिज्ञातम् ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

तदादिशतु भवती मामभिमतप्रसाधनाय ।

विष्णुभक्तिःः—- अहो देव, पारतन्त्र्यपरिग्रहोऽपि36 स्वातन्त्रकाष्ठैव भवतः । तदहमिदानीं भवतैव भावनीयं37 प्रहर्षपरवशा प्रत्यभिज्ञापयामि । अद्य हि,

प्रकृतः क्रियया धिया च योगः परमैकान्त्यपरिष्कृतस्य पुंसः ।

निधिदर्शनवन्निरूढहर्ष प्रणिधत्ते विशदं परप्रकाशम् ॥ २८ ॥

मूलम् - २८

तदादिशतु भवती मामभिमतप्रसाधनाय ।

विष्णुभक्तिःः—- अहो देव, पारतन्त्र्यपरिग्रहोऽपि36 स्वातन्त्रकाष्ठैव भवतः । तदहमिदानीं भवतैव भावनीयं37 प्रहर्षपरवशा प्रत्यभिज्ञापयामि । अद्य हि,

प्रकृतः क्रियया धिया च योगः परमैकान्त्यपरिष्कृतस्य पुंसः ।

निधिदर्शनवन्निरूढहर्ष प्रणिधत्ते विशदं परप्रकाशम् ॥ २८ ॥

प्रभावली - २८

X८१९
परमैकान्तिना पुंसा साङ्गमनुष्ठीयमानो योगो भगवत्साक्षात्कारं विधत्त इत्याह – प्रकृत इति । ज्ञानयोगभक्तियोग परिकर्मित इत्यर्थः । निधिदर्शनवत्; अन्तर्यामिणो निधिरूपत्वेन वेदान्तेषु वर्णनात् । निरूढः प्रकृष्टो हर्षो यत्र तम् । विशदं परप्रकाशं प्रत्यक्षसमानाकारं साक्षात्कारं विधत्ते ॥ २८ ॥

प्रभाविलासः - २८

प्रकृत इति । एकः अन्तः निश्चयः यस्य, तस्य भाव ऐकान्त्यम् । परमं च तदैकान्त्यं चेति परमैकान्त्यम् । परप्रकाशम् ; परस्य भगवतः प्रकाशम् । अत्र निधिदर्शनवदितीष्टार्थप्राप्तिप्रतीतेः आनन्दो नाम निर्वहणसन्धेरङ्गमुक्तम्, “इष्टार्थप्राप्तिरानन्दः " इति लक्षणात् ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

अयं तावदिदानीमान्तरस्य योगस्य परिपाकः । बाह्यस्य चैतादृशीं38 दशामनुभवति पुरुषः । यथासौ-

सिद्धे महति पाण्डित्ये सनिर्वेदधतुर्विधे ।

प्रणवद्विचतुष्काद्यैः प्रशान्तैरेव मोदते ॥ २९ ॥

मूलम् - २९

अयं तावदिदानीमान्तरस्य योगस्य परिपाकः । बाह्यस्य चैतादृशीं38 दशामनुभवति पुरुषः । यथासौ-

सिद्धे महति पाण्डित्ये सनिर्वेदधतुर्विधे ।

प्रणवद्विचतुष्काद्यैः प्रशान्तैरेव मोदते ॥ २९ ॥

प्रभावली - २९

एवमान्तरसिद्धिरुक्ता । अथ बाह्यसिद्धिं प्रतिपादयति - सिद्ध इति । पाण्डित्यम् ; वैदुष्यम् । तस्य चातुर्विध्यं बहुशास्त्रप्रवचनश्रवणकथाकविता-

X८२०
रूपम् । एवं चतुर्विधे पाण्डित्ये सिद्धे निर्वेदवान् गर्वरहितः । प्रणवः ; तारः । द्विचतुष्कः ; मूलमन्त्रः । तैर्मोदते ॥ २९ ॥

प्रभाविलासः - २९

सिद्ध इति । चतुर्विधे श्रुतिस्मृतीतिहासपुराणज्ञानरूपे । द्वि-
तुष्कः; अष्टाक्षरमन्त्रः । आद्यपदेन मन्त्ररत्नद्वादशर्णषडर्णादय उच्यन्ते ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

सङ्कल्पः- अहो वैभवम कम्पनीय भगवदनुकम्पासम्भृतमहिनो विवेकस्य ; यदयमिह कर्मशृङ्खलैर्निगलितः कलेवरकारागृहे निरुद्ध- गतिरन्तर्लुठन्नपि निर्मोचितमोहमहाग्रहो निवृत्तिधर्मकाष्ठां प्रापितः । अथवा भवत्या एवायं प्रभावः ।

विष्णुभक्तिः-देव, विश्ववेदिना भवतापि विवेके मयि च किमिति वैभवमारोप्यते ! पश्यतु भवानेतत् -

स्वमायाशैलूषी विहरणपरिभ्रान्ततनुभृ-

त्परित्राणोद्योगप्रवणकरुणावेशविवशः ।

39प्रतिक्षेप्तुं तापान् प्रभुरयमपर्यन्तमहिमा

हिमानीमानीय स्वपदनतिमेनः प्रणुदति ॥ ३० ॥

मूलम् - ३०

सङ्कल्पः- अहो वैभवम कम्पनीय भगवदनुकम्पासम्भृतमहिनो विवेकस्य ; यदयमिह कर्मशृङ्खलैर्निगलितः कलेवरकारागृहे निरुद्ध- गतिरन्तर्लुठन्नपि निर्मोचितमोहमहाग्रहो निवृत्तिधर्मकाष्ठां प्रापितः । अथवा भवत्या एवायं प्रभावः ।

विष्णुभक्तिः-देव, विश्ववेदिना भवतापि विवेके मयि च किमिति वैभवमारोप्यते ! पश्यतु भवानेतत् -

स्वमायाशैलूषी विहरणपरिभ्रान्ततनुभृ-

त्परित्राणोद्योगप्रवणकरुणावेशविवशः ।

39प्रतिक्षेप्तुं तापान् प्रभुरयमपर्यन्तमहिमा

हिमानीमानीय स्वपदनतिमेनः प्रणुदति ॥ ३० ॥

प्रभावली - ३०

ईदृशपरिपाकस्य मूलं विवेकं प्रशंसति — अहो इति । पूर्वोक्तोऽयं भवत्या एव प्रभावः । विष्णुभक्त्यभावे केवलविवेकस्य व्यर्थत्वादित्याह - अथवेति । उक्तस्य सर्वस्य परिपाकस्य भगवानेव हेतुरित्याह — स्वमायेति । स्वमाया ; प्रकृतिः । सैव शैलुषी; नटी । तस्याः विहरणं नर्तनं, तेन परिभ्रान्तस्य जीवस्य, परित्राणोद्योगे रक्षणसन्नाहे प्रवणा या करुणा, तया परतन्त्रः । अपर्यन्तमहिमा ; निःसमाभ्यधिकमहिमा । प्रभुः ; सर्वेश्वरः । तनुभृतः तापान्; तापत्रयम् । प्रतिक्षेप्तुम् ; शमयितुम् । स्वपदनतिं हिमानी

X८२१
-मानीय हिमसन्ततिं प्रापय्य स्वचरणारविन्दसमाश्रयणमुत्पाद्य, एनः तापत्रयहेतुभूतं पापं प्रणुदति ॥ ३० ॥

प्रभाविलासः - ३०

स्वमायेति । शैलूषी; नटी । स्वपदनतिं शरणागतिमेव हिमानीम् । तापशमनात् हिमानी निर्देशः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

ततश्च,

उपायः स्वप्राप्तेरुपनिषदधीतः स भगवान्

प्रसत्त्यै तस्योक्ते प्रपदननिदिध्यासनगती ।

तदारोहः पुंसः सुकृतपरिपाकेन महता

निदानं तत्रापि स्वयमखिल निर्माणनिपुणः ॥ ३१ ॥

मूलम् - ३१

ततश्च,

उपायः स्वप्राप्तेरुपनिषदधीतः स भगवान्

प्रसत्त्यै तस्योक्ते प्रपदननिदिध्यासनगती ।

तदारोहः पुंसः सुकृतपरिपाकेन महता

निदानं तत्रापि स्वयमखिल निर्माणनिपुणः ॥ ३१ ॥

प्रभावली - ३१

अनेन किमुक्तं भवतीत्यत आह- उपाय इति । उपनिषदधीतः ; " अमृतस्यैष सेतुः " " उतामृतत्वस्येशानः" इत्याद्युपनिषद्भिः स्वप्राप्त्युपायतया अधीतः भगवानेव स्वप्राप्तेः प्रधानोपायः । भक्तिप्रपत्ती तद्वशीकरणाय । तयोः वशीकरणोपाययोः आरोहः महता सुकृतपरिपाकेन ।

तद्धेतुरपि सर्वेषां करणकलेवरप्रदाता भगवानेवेति भावः ॥ ३१ ॥

प्रभाविलासः - ३१

उपाय इति । स्वप्राप्तेरुपाय इति ; " अमृतस्यैष सेतुः " इति श्रुत्यर्थोऽभिप्रेतः । उपनिषदधीत इति ; " तं त्वौपनिषदं पुरुषं पृच्छामि” इति श्रुत्यर्थोऽभिप्रेतः । प्रसत्त्यै; प्रसादाय । तदारोहः ; प्रपत्तिभक्त्युपाययोरधिकारः । तत्रापि सुकृतपरिपाकेऽपि । स्वयं निदानम्; आदिकारणम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

अपि च,

यस्ते पित्तेन चित्ते गलकुहरमुखे सन्निरुद्धे कफेन

व्याप्ते वातेन गात्रे विलपति लपने कान्दिशीके हृषीके ।

जङ्घाले जीवितांशे जिगमिपति बले जन्तुमुद्भ्रान्तबन्धुं

कस्त्रातुं चक्रहस्तादपर इह 40दयादत्तदृष्टिः क्षमेत ॥ ३२ ॥

मूलम् - ३२

अपि च,

यस्ते पित्तेन चित्ते गलकुहरमुखे सन्निरुद्धे कफेन

व्याप्ते वातेन गात्रे विलपति लपने कान्दिशीके हृषीके ।

जङ्घाले जीवितांशे जिगमिपति बले जन्तुमुद्भ्रान्तबन्धुं

कस्त्रातुं चक्रहस्तादपर इह 40दयादत्तदृष्टिः क्षमेत ॥ ३२ ॥

प्रभावली - ३२

चक्रहस्त एव रक्षणे पटुः, नान्य इत्याह– ग्रस्तेति । चित्ते पित्तेन ग्रस्ते

X૮૨૨
मोहिते । गलकुहरस्य कण्ठरन्ध्रस्य मुखे अग्रभागे कफेन श्लेष्मणा पिहिते । गात्रे वातेन व्याप्ते आक्रान्ते । आस्ये विलपति । हृषीके इन्द्रियगणे भयद्रुते । जीवितांशे ; जीवित इत्यर्थः । जङ्घाले ; गन्तुमुद्युक्ते । बले सत्त्वे गच्छति सति । एवम्भूतापदि उद्भान्ताः वियोगभीत्या विलपन्तः बन्धवो यस्य तम् । जन्तुं रक्षितुं चक्रहस्तादपरः कृपया दत्तदृष्टिः कः क्षमेत ॥ ३२ ॥

प्रभाविलासः - ३२

;

ग्रस्त इति । गलकुहरमुखे ; कण्ठरन्धमुखे । कफेन श्लेप्मणा ।
लपने ; मुखे । हृषीके; इन्द्रिये । उद्भ्रान्तबन्धुम् ; बन्धुभिरावृत्य शोच्यमानम् । अत्र

" ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।

अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥ "

इति श्रीवाराहवचनं द्रष्टव्यम् । गजेन्द्रमोक्षणं च ध्वनितम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

संवेद्मि च भगवद्दृष्टस्य सर्वविद्भिरपि दुरूहां साम्परायिकीं

सम्पदम् । यथा-

कालोपयातकमलापतिदृष्टिपाताद्

41दूरापनीतदुरितादिपरिप्लवोऽसौ ।

सुप्तोऽपि जागरमुपैत्यपुनर्निमेषं

स्वान्तेन निष्प्रतिघमुक्तिमनोरथेन ॥ ३३ ॥

मूलम् - ३३

संवेद्मि च भगवद्दृष्टस्य सर्वविद्भिरपि दुरूहां साम्परायिकीं

सम्पदम् । यथा-

कालोपयातकमलापतिदृष्टिपाताद्

41दूरापनीतदुरितादिपरिप्लवोऽसौ ।

सुप्तोऽपि जागरमुपैत्यपुनर्निमेषं

स्वान्तेन निष्प्रतिघमुक्तिमनोरथेन ॥ ३३ ॥

प्रभावली - ३३

भगवता कटाक्षितस्यान्यैरूहितुमशक्यामुत्तरकालभाविनीं सम्पदं वेद्मीत्याह- समिति । तामेव दर्शयति — काल इति । काले आपत्काले उपनीतात् कमलापतिदृष्टिपातात् दूरापनीतः दुरिताद्युपद्रवः यस्य सः । निष्प्रतिघः निरर्गलः मुक्तिमनोरथः यस्य तेन । स्वान्तेन हृदयेन उपलक्षितः अनादिमायया

    X८२३  

सुप्तोऽपि अपुनर्निमेषं पुनर्निमीलनरहितं जागरमुपैति । मोक्षयोग्यो भवतीति

भावः ॥ ३३ ॥

प्रभाविलासः - ३३

कालेति । अपिः विरोधे । जागरमिति; ज्ञानानन्दादिविकासः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

अत्यद्भुतप्रेक्षणीयमिदं त्वदनुग्रहसुधासारचातकव्रतिनः पुरुषस्येदानीमवस्थानम् । अयं हि-

कलत्रसुतसोदरप्रभृतिकल्पनाबर्बरै

  • रशक्यविनिवर्तनैरहितशृङ्खलैर्यन्त्रितः ।

निसर्गसुहृदि प्रभौ निहितगुप्तिभारः पुमा-

नुपस्थितमुपस्थितं42 हितमशेषमुद्वीक्षते ॥ ३४ ॥

मूलम् - ३४

अत्यद्भुतप्रेक्षणीयमिदं त्वदनुग्रहसुधासारचातकव्रतिनः पुरुषस्येदानीमवस्थानम् । अयं हि-

कलत्रसुतसोदरप्रभृतिकल्पनाबर्बरै

  • रशक्यविनिवर्तनैरहितशृङ्खलैर्यन्त्रितः ।

निसर्गसुहृदि प्रभौ निहितगुप्तिभारः पुमा-

नुपस्थितमुपस्थितं42 हितमशेषमुद्वीक्षते ॥ ३४ ॥

प्रभावली - ३४

कलत्रसुतसोदरादीनां कल्पनया आरोपेण बर्बरैः परुषैः स्वेन परैश्च अशक्यनिवर्तनैः । अहितानि पापान्येव शृङ्खला ; तैर्बद्धः । अयमिदानीं निसर्गसुहृदि सर्वेश्वरे न्यस्तरक्षाभरः सन् उपस्थितं सुखं वा दुःखं वा तदशेषं हितमेवोद्वीक्षते ; प्रारब्धविरहात् हृष्टो भवतीत्यर्थः ॥ ३४ ॥

प्रभाविलासः - ३४

कलत्रेति । गुप्तिः; रक्षणम् । उद्वीक्षते ; न त्वाशास्त इत्यर्थः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

अतः परं तु भगवन्निविष्टमेव भव्यमवधारयामि ।

सङ्कल्पःः—

यदिह भवत्या प्रख्याप्यते प्रत्यक्षयामि तावदेतदखिलम् ।

दुरितजलधिद्वीपप्राये सुखे विगतस्पृहा

पुरुषविषये यच्वं ब्रूषे पुरस्कृत गौरवम् ।

हिततमतया दुर्लङ्घेऽस्मिन् क्रिया परमुत्तरं

तदपि किमपि प्रत्युक्तं नः प्रतीक्षणमर्हति ॥ ३५ ॥

मूलम् - ३५

अतः परं तु भगवन्निविष्टमेव भव्यमवधारयामि ।

सङ्कल्पःः—

यदिह भवत्या प्रख्याप्यते प्रत्यक्षयामि तावदेतदखिलम् ।

दुरितजलधिद्वीपप्राये सुखे विगतस्पृहा

पुरुषविषये यच्वं ब्रूषे पुरस्कृत गौरवम् ।

हिततमतया दुर्लङ्घेऽस्मिन् क्रिया परमुत्तरं

तदपि किमपि प्रत्युक्तं नः प्रतीक्षणमर्हति ॥ ३५ ॥

प्रभावली - ३५

प्रख्याप्यते ; ज्ञाप्यते । पुरुषमुद्दिश्य ब्रह्मादिपदसुखे विगतस्पृहा सती त्वं यद् ब्रूषे, तस्य तस्य हिततमतया शीघ्रक्रियैव केवलमुत्तरं दातव्यम् ; अथापि कञ्चित्कालं प्रतीक्षस्वेत्याह–दुरितेति । दुरितजलधिद्वीपस्थानीये

1 X८२४
सुखे ; ब्रह्मेन्द्रादिलोकसुखे । निराशा त्वं गौरवं पुरस्कृत्य यन्मां ब्रूषे, इदं पुरुषस्य हिततमतया दुर्लङ्घम् । तत्र क्रिया केवलमुत्तरं भवति । तदपि ; तथापि । किमपि प्रत्युक्तम; प्रत्युत्तरम् । प्रतीक्षणम् ; प्रतिपालनम् । अर्हति ; मदुक्तं प्रतीक्षस्वेत्यर्थः । तद्विषये मम किमपि प्रत्युत्तरं वक्तव्यमस्ति ; तच्छृण्वि- त्यर्थः ॥ ३५ ॥

प्रभाविलासः - ३५

दुरितेति । दुःखमपरिच्छिन्नं सुखं तु स्वरूपमिति वक्तुं जलधि-द्वीपग्रहणम् । सुखे विगतस्पृहा निःस्पृहा त्वं पुरुषविषये पुरस्कृत गौरवं
यथा तथा यत् ब्रूषे पुरुषो मोचनीय इति, हिततमतया दुर्लङ्घे अनुपेक्ष्ये अस्मिन् पुरुषमोचनकर्मणि । क्रिया परमुत्तरम् ; क्रिया

1 । केवलमुत्तरम् । नः अस्माकम् । किमपि प्रत्युक्तम् ; मोचयामीति प्रति- वचनम् । प्रतीक्षणमर्हति ; परिपालन मर्हति । युष्मदुक्तं परिपाल्य तिष्ठाम

इत्यर्थः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

यद्यसावनादिभवरसभोगवासनापरवशः पुरुषः सत्यलोकप्रभृतिषु संसारमरुकान्तारपथिकपानीयशालासु विश्रममभिकाङ्क्षेत्, तदा कथमहमे नमस्थाने सपदि मोक्षयेयम् ?

विष्णुभक्तिः - ( कर्णौ पिधाय करकमले धन्वाना) मा मैवमाशङ्कनीयं मदेकसाक्षिकमनोरथे महात्मनि पुरुषे भूतभावि - समस्तवस्तुसाक्षात्कारिणा भवता । इदं च विज्ञापयामि -..
अपि पद्मयोनिरवशो भजते मधुकैटभादिजनिता विपदः43’ ।

इति दृष्टदोषनिवहः पुरुषो न वहेत नाकनरकेषु रतिम् ॥ ३६ ॥

मूलम् - ३६

यद्यसावनादिभवरसभोगवासनापरवशः पुरुषः सत्यलोकप्रभृतिषु संसारमरुकान्तारपथिकपानीयशालासु विश्रममभिकाङ्क्षेत्, तदा कथमहमे नमस्थाने सपदि मोक्षयेयम् ?

विष्णुभक्तिः - ( कर्णौ पिधाय करकमले धन्वाना) मा मैवमाशङ्कनीयं मदेकसाक्षिकमनोरथे महात्मनि पुरुषे भूतभावि - समस्तवस्तुसाक्षात्कारिणा भवता । इदं च विज्ञापयामि -..
अपि पद्मयोनिरवशो भजते मधुकैटभादिजनिता विपदः43’ ।

इति दृष्टदोषनिवहः पुरुषो न वहेत नाकनरकेषु रतिम् ॥ ३६ ॥

प्रभावली - ३६

प्रत्युत्तरं दर्शयति — यद्यसाविति । अनादिः या भवरसभोगभावना, सैव पाशः तत्परवशः सन् संसार एव मरुकान्तारं तत्र पथिकानां श्रान्तानां प्रपारूपासु ब्रह्मलोकादिषु विश्रमम् अभिकाङ्क्षत् यदि, तदा अस्थाने सपदि एनं कथं मोचयेयम् । मा मा एवम् एवं मा शङ्किष्ठाः । भवता एवं मा शङ्कनीयमिति सम्बन्धः । इदं च मद्विज्ञापनं शृण्वत्यभिप्रायेणाह -

    X८२५  

इदं चेति । अयं तावद्विवेकित्वात् स्वर्गादिषु रतिं न करोतीत्याह- अपीति ।

अण्डाधिपो ब्रह्मापि परवशः सन् मधुकैटभाद्यसुरजनिता विपदो भजत इति ब्रह्मलोकादिषु दृष्टदोषसमूहः पुरुषः स्वर्गीयाख्यनरकभेदेषु रतिं न वहेत ॥ ३६ ॥

प्रभाविलासः - ३६

;

अतस्त्वया पुरुषो मोक्ष्यत इत्युक्ते तद्विसम्भवशात् मया परिपाल्य स्थीयते । परं त्वस्माकं मनसि मोक्ष्यत इति न विश्वास इत्याह–
यदीत्यादिना । अपीति । अवशः ; अस्वतन्त्रः । अत्र,

" कर्मणां परिपाकत्वादा विरिञ्चादमङ्गलम् ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥”

इत्यनुसन्धेयम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

44अपि च,

अमृतस्यन्दिनं 45कश्चित्कृष्णमेघं द्विजः स्मरन् ।

उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ ३७ ॥

मूलम् - ३७

44अपि च,

अमृतस्यन्दिनं 45कश्चित्कृष्णमेघं द्विजः स्मरन् ।

उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ ३७ ॥

प्रभावली - ३७

किं च कृष्ण एव मोक्षप्रद इति जानन् स्वर्गे ब्रह्मलोकं वा तत्फलप्रददेवतान्तरं वा न वीक्षत इत्याह- अमृतेति । द्विजः ; पक्षी ब्राह्मणश्च । यथा .

X८२६
पिपासया पीडितोऽपि चातकद्विजः पल्वलं वा समुद्रं वा न वीक्षते, कृष्ण- मेघमेवाभिवाञ्छति,

तद्वदयमपीत्यर्थः ॥ ३७ ॥

प्रभाविलासः - ३७

अमृतेति । कश्चित द्विजः ; विद्यया द्वितीयजन्मा, " स हि विद्या - तस्तं जनयति । तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः इत्यापस्तम्बोक्तेः ;

“: उत्पादक ब्रह्म पित्रोर्गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥”

इति मनूक्तेश्च । ननूपनयन संस्कारमात्रस्य द्विजत्वापादकत्वेन कथं विद्यायास्तदापादकत्वमिति चेत् — नैष दोषः ; द्विपदं हि द्रव्यविशिष्टात्मवाचकम् ।


तत उपनयन संस्कारः शरीरशुद्धिकरः । ब्रह्मविद्या तु आत्मशुद्धकरीति द्विजत्वप्रतीतिरिति । तदुक्तं श्रीशुकैः-

" कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया ।

शुध्यन्ति दानैः सन्तुष्टया द्रव्याण्यात्मात्मविद्यया ॥”

इति । अन्यत्र द्विजश्चातकः । " दन्तविप्राण्डजा द्विजाः " इति निघण्टुः । कृष्ण एव कृष्णमेघः तोयपूर्ण मेघः, “ शरद्घनं नार्दति चातकोऽपि” इत्यभिधानात् । अनेनाकारत्रयसम्पत्तिः फलिता । स्मरन्; शरण्यतया जानन् । वेशन्तम् ; स्वाराज्यादिक्षुद्रसुखम् । उदन्वन्तम् ; कैवल्यपारमेष्ठ्चादिसुखं वा । अन्यत्र प्रसिद्धम् । न वीक्षते न स्मरति । नापेक्षत इति किमुतेति भावः । अत्र निदर्शनम् —

“एक एव खगो मानी चिरं जीवतु चातकः । पिपासया वा म्रियते याचते वा पुरन्दरम् ॥”

इति द्रष्टव्यम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

तदसौ झटिति निस्त्रुटितनिगलयुगलस्त्वया विधातव्यः46

अहं त्विदानीमभिनिर्वर्तिताभिगमननियतिरहिंसादिमयीमष्टपुष्पी -
मुपादाय त्वत्प्रभावनष्टाश्लिष्टपूर्वोत्तरपुण्यपापराशिमनन्ययाजिनम- नन्यध्यायिनं च पुरुषमासन्नमुक्तिला भव्यवसायजनितनिरवधिक- प्रमोदमनुमोदितुं त्वदेकान्तिना विवेकेन सह त्वरितमागमिष्यामि । ( इति निष्क्रान्ता)

सङ्कल्पः —- ( परितोऽवलोक्य) अयमसावनवधिकस्वमाहात्म्य- गोपन प्रदर्शित बालभावः प्रशान्तमधुरगम्भीराकृतिः परब्रह्मसमाधि - प्रारम्भभावितममन्दमानन्दमनुभवन् पुलकित निखिलगात्र विडम्बित- कदम्बगोलकमलनालः पुण्यतमदर्शनः पुरुषः । अहो महदिद - माश्चर्यम् -
शृङ्गारवीरकरुणाद्भुतहास्यभीति-

बीभत्सरौद्रविषयानतिवर्तमानः ।

तत्त्वावलोकन विभावसमेधितात्मा

शान्तो रसः स्फुरति मूर्त इवैष धन्यः ॥ ३८ ॥

मूलम् - ३८

तदसौ झटिति निस्त्रुटितनिगलयुगलस्त्वया विधातव्यः46

अहं त्विदानीमभिनिर्वर्तिताभिगमननियतिरहिंसादिमयीमष्टपुष्पी -
मुपादाय त्वत्प्रभावनष्टाश्लिष्टपूर्वोत्तरपुण्यपापराशिमनन्ययाजिनम- नन्यध्यायिनं च पुरुषमासन्नमुक्तिला भव्यवसायजनितनिरवधिक- प्रमोदमनुमोदितुं त्वदेकान्तिना विवेकेन सह त्वरितमागमिष्यामि । ( इति निष्क्रान्ता)

सङ्कल्पः —- ( परितोऽवलोक्य) अयमसावनवधिकस्वमाहात्म्य- गोपन प्रदर्शित बालभावः प्रशान्तमधुरगम्भीराकृतिः परब्रह्मसमाधि - प्रारम्भभावितममन्दमानन्दमनुभवन् पुलकित निखिलगात्र विडम्बित- कदम्बगोलकमलनालः पुण्यतमदर्शनः पुरुषः । अहो महदिद - माश्चर्यम् -
शृङ्गारवीरकरुणाद्भुतहास्यभीति-

बीभत्सरौद्रविषयानतिवर्तमानः ।

तत्त्वावलोकन विभावसमेधितात्मा

शान्तो रसः स्फुरति मूर्त इवैष धन्यः ॥ ३८ ॥

प्रभावली - ३८

अहं त्विदानीम् ; प्रातःकाले निर्वर्तिताभिगमननियमः अहिंसादिमयीमष्टपुष्पीम् ; अहिंसा, इन्द्रियनिग्रहः, सर्वभूतदया, क्षमा, ज्ञानं, तपः,

    X૮૨७  

ध्यानं, सत्यमित्येतान्यष्टपुष्पाणि । उपादाय ; उपादानमपि कृत्वा । अनन्ययाजकं पुरुषं देहावसान एवावश्यं मुक्तिर्भविष्यतीति तल्ला भव्यवसायजातनिरतिशयप्रीति- युक्तमनुमोदितुं त्वय्येव न्यस्तभरेण विवेकेन सह त्वरितमागमिष्यामि । अथ समाधिमत्पुरुषदर्शनं प्रस्तौति — परितोऽवलोक्येति । अनवधिकस्वमाहात्म्य- गोपनेन लौकिकेषु प्रदर्शित बालभावः ; बालभावोऽज्ञत्वम् । प्रशान्ता औद्धत्य- रहिता मधुरा मनोहरा गम्भीरा परैः दुरवगाहा आकृतिर्यस्य । समाधिप्रारम्भे सम्भृतम् अमन्दम् अधिकम् आनन्दमनुभवन् पुलकितेन निखिलगात्रेण विडम्बितः अनुकृतः कदम्बगोलः कदम्बवृक्षसंस्थानं कमलनालश्च येन सः ।

X८२८
अयमसौ; दृश्यत इति शेषः । मूर्तिमान् शान्तिरस इवायं स्फुरति । सम्प्रतीदं महाश्चर्यमित्याह - अहो इति । शृङ्गारादिरसविषयानतीत्य वर्तमानः; तदगोचरो भूत्वेत्यर्थः । तत्रावलोकनं विभावः सहकारी शान्तिरसस्य विभावैः स्थायिभावादिभिः संवर्धितरूपः धन्य एषः शान्तो रस इव परिस्फुरतीत्यन्वयः ॥ ३८॥

प्रभाविलासः - ३८

तदसावित्यादि । निस्त्रुटितेति दुःखनिवृत्तिप्रतीतेः समयो नाम निर्वहणसन्धेरङ्गमुक्तम्, “समयो दुःखनिर्गमः" इति लक्षणात् । निगल- युगलम्म् ; पुण्यपापरूपशृङ्खलाद्वयम् । अभिनिर्वर्तिताभिगमननियतिः; कृत-
भगवदाराधनयोग्यतुलसीकल्हारादिपुष्पाद्याहरणनियमा । अष्टपुष्पी ; अष्ट-

पुष्प समाहारः । तदुक्तम्-

“अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः । ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च । सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् ॥ "
इति । गोपनम् ; संवरणम् । शृङ्गारेति । विभावः ; प्रभावः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

अपि च,

अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं मानसं

चिन्ता च द्रुतशर्करा प्रतिनिधिः शीताश्रुणी लोचने ।

मायासारथिगीतयोपनिषदा दृष्टक्रमं द्रागसौ

मन्ये याति मनोरथेन पुरुषो वैकुण्डघण्टापथम् ॥ ३९ ॥

मूलम् - ३९

अपि च,

अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं मानसं

चिन्ता च द्रुतशर्करा प्रतिनिधिः शीताश्रुणी लोचने ।

मायासारथिगीतयोपनिषदा दृष्टक्रमं द्रागसौ

मन्ये याति मनोरथेन पुरुषो वैकुण्डघण्टापथम् ॥ ३९ ॥

प्रभावली - ३९

अत्र बाह्याबाह्यानाकारान्वर्णयति — अङ्गानीति । अवयवाः पुलकिताः । मनस्त्वन्तर्मुखम् ; स्वात्मशरीरकपरमात्मध्यानपरमित्यर्थः । चिन्ता ; ध्यानरूपानुस्मृतिः विलीनशर्करावत्स्वादुभूता । लोचने आनन्दबाष्पवर्षिणी । माया-

    X८२९  

सारथिना कृष्णेन गीतया उपनिषदा गीतोपनिषदा प्रतिपादितस्वभावं वैकुण्ठघण्टापथम् अर्चिरादिमार्गं मनोरथेन यातीति मन्ये । तत्समीपं गच्छतीति मन्य इत्यर्थः ॥ ३९ ॥

प्रभाविलासः - ३९

अङ्गानीति । मायासारथिः ; श्रीकृष्णः । गीतया ; श्रीगीतया । उपनिषदा दृष्टक्रमः ; विदितक्रमः । यथोक्तम् -

“अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥”

इति । वैकुण्ठस्य परमपदस्य, " वैकुण्ठे तु परे लोके " इत्यभिधानात् । मनोरथेन ; कामेन ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

तमेतं सर्वधर्मक्षेत्र गिरिनगरतीर्थाश्रमारण्यसारसमाहारमिवैकत्र. सम्भृतमस्मदागमनप्रतीक्षमकालक्षेपेणोपसर्पामि । अथवा अन्तर्हितःक्षणमस्याभिप्रायमवधारयामि ।

(ततः प्रविशति श्रद्धादत्तहस्तः47 प्रशान्तमधुरवेषः पुरुषः)

पुरुषः- ( स्वावस्थां परामृश्य सनिर्वेदम् ) हन्त, निरन्तरदुरन्तदुरितकान्तारजाङ्घिकस्य मम दुःसहदुःखजालजटिला 48जन्म- सन्ततिरनन्तातिक्रान्ता । अतः परमपि पूर्वावस्थानिर्विशेष पुनर्भव- परम्परा हेतुभिरपरिमितैः कर्मसञ्चयैरावृतोऽहमवसर प्रतीक्षया भगवदनु- कम्पया कथञ्चिन्निवृत्तिधर्मे निवेशितः प्रबलतम विवेक वैभवप्रतिक्षिप्त- मोहपक्षोऽपि परप्राप्तिविरहादवसीदामि । (दीर्घं निश्वस्य )
चिरपरिचितदेहाद्यर्थचिन्तानुवृत्त्या

नियतिमनुसरन्त्या नित्यडोलायितात्मा ।

अयमहमिह मन्दोद्योतखद्योतकल्पः

कति कति दिवसानि क्षीणशक्तिः क्षिपेयम् ॥ ४० ॥

मूलम् - ४०

तमेतं सर्वधर्मक्षेत्र गिरिनगरतीर्थाश्रमारण्यसारसमाहारमिवैकत्र. सम्भृतमस्मदागमनप्रतीक्षमकालक्षेपेणोपसर्पामि । अथवा अन्तर्हितःक्षणमस्याभिप्रायमवधारयामि ।

(ततः प्रविशति श्रद्धादत्तहस्तः47 प्रशान्तमधुरवेषः पुरुषः)

पुरुषः- ( स्वावस्थां परामृश्य सनिर्वेदम् ) हन्त, निरन्तरदुरन्तदुरितकान्तारजाङ्घिकस्य मम दुःसहदुःखजालजटिला 48जन्म- सन्ततिरनन्तातिक्रान्ता । अतः परमपि पूर्वावस्थानिर्विशेष पुनर्भव- परम्परा हेतुभिरपरिमितैः कर्मसञ्चयैरावृतोऽहमवसर प्रतीक्षया भगवदनु- कम्पया कथञ्चिन्निवृत्तिधर्मे निवेशितः प्रबलतम विवेक वैभवप्रतिक्षिप्त- मोहपक्षोऽपि परप्राप्तिविरहादवसीदामि । (दीर्घं निश्वस्य )
चिरपरिचितदेहाद्यर्थचिन्तानुवृत्त्या

नियतिमनुसरन्त्या नित्यडोलायितात्मा ।

अयमहमिह मन्दोद्योतखद्योतकल्पः

कति कति दिवसानि क्षीणशक्तिः क्षिपेयम् ॥ ४० ॥

प्रभावली - ४०

तमेतमिति । सर्वधर्मशब्दः सर्वत्रान्वेति । धर्मक्षेत्रं कुरुक्षेत्रम् । गिरयः ; वेङ्कटाद्रयादयः । नगराणि; काञ्च्यादयः । आश्रमाः ; बदरिकाश्रमादयः । तेषां सारांशस्य समाहारः । एकत्रैव सम्भृतं समाहारमिव स्थितम् । एतद्दर्शनेन सर्वधर्म- क्षेत्रादिदर्शनफलं लभ्यत इति भावः । अकालक्षेपेण ; कालक्षेपमकृत्वेत्यर्थः । विवेकवैभवेन निरस्तमोहादिकोऽपि परप्राप्त्यभावेनावसीदामीत्याह - प्रबलतमेति ।

X८३०
इतः परमस्मिन् देहे कति कति दिनानि कालं क्षिपामीत्याह - चिरेति । नियतिव- शात् आपतन्त्या देहाद्यर्थचिन्तया तदनुवृत्त्या च चञ्चलचित्तोऽहं मन्दप्रकाशखद्योतसदृशः, अज्ञ इत्यर्थः । अल्पशक्तिः सन् कति दिनानि स्थास्यामीति । क्षेपणीयदिवसानामन्तं न पश्यामीति भावः ॥ ४० ॥

प्रभाविलासः - ४०

सर्वधर्मेत्यादिना

“तत्रैव गङ्गा यमुना च तत्र गोदावरी सिन्धुसरस्वती च । सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥ “.
इति स्मारितम् । जटिला; बद्धजटा । पिच्छादित्वादिलच् । चिरेति । मन्दोद्द्योतः ; मन्दालोकः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

अपि च,

न मुक्तो न च बद्धोऽहं यथा पश्चाद्यथा पुरा ।

कृपणः किं करिष्यामि न करिष्यामि वा स्वयम् ॥ ४१ ॥

मूलम् - ४१

अपि च,

न मुक्तो न च बद्धोऽहं यथा पश्चाद्यथा पुरा ।

कृपणः किं करिष्यामि न करिष्यामि वा स्वयम् ॥ ४१ ॥

प्रभावली - ४१

न मुक्त इति । यथा पश्चात् देहपातानन्तरं मुक्तो भविष्यामि यथा वा आचार्योपसदनात्पूर्वं बद्धः, न तथेदानीम् । एवं कृपणोऽहं किं करिष्यामि । पथ्यकरणे अपथ्यनिवर्तने च नाहं समर्थ इति भावः ॥ ४१ ॥

प्रभाविलासः - ४१

न मुक्त इति । यथा पश्चात्, तथा न मुक्तः । यथा पुरा, तथान बद्धः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

अस्ति वा कश्चिदनिदम्प्रथमनिरवधिककारुण्यराशिरभङ्गुरस्वातन्त्र्यः

पथ्यप्रवृत्तावपथ्यपरिहारे च प्रभुरेकः प्रमाणम् ।
तदाहितमतिस्तदेकाधीन प्रवृत्तिश्चाहं49 प्रतिबुद्धोऽस्मि । (विचिन्त्य

मुहूर्तमिव स्थित्वा )

अमतिविहितै50 रंहः स्तोमैर्झटित्यहमुज्झितः

शमितविपथैः सत्त्वोदग्रैः शमादिभिराश्रितः ।

परमपुरुषध्यानस्तोत्रप्रणाममुखैर्मखैः

परिहृतमुधाकालक्षेपः फलोदयमाद्रिये ॥ ४२ ॥

मूलम् - ४२

अस्ति वा कश्चिदनिदम्प्रथमनिरवधिककारुण्यराशिरभङ्गुरस्वातन्त्र्यः

पथ्यप्रवृत्तावपथ्यपरिहारे च प्रभुरेकः प्रमाणम् ।
तदाहितमतिस्तदेकाधीन प्रवृत्तिश्चाहं49 प्रतिबुद्धोऽस्मि । (विचिन्त्य

मुहूर्तमिव स्थित्वा )

अमतिविहितै50 रंहः स्तोमैर्झटित्यहमुज्झितः

शमितविपथैः सत्त्वोदग्रैः शमादिभिराश्रितः ।

परमपुरुषध्यानस्तोत्रप्रणाममुखैर्मखैः

परिहृतमुधाकालक्षेपः फलोदयमाद्रिये ॥ ४२ ॥

प्रभावली - ४२

एवं चिन्तयितुमपि नाहमधिकारीत्याह-अस्ति वेति । वाशब्दो ह्यर्थे । अनिदम्प्रथमम् ; अनादिसिद्धम् । कारुणिको यः स्वतन्त्रः, स एव श्रियः पतिः पथ्यप्रवृत्त्यादौ प्रमाणनिर्णायकः समयः । यत् स्वस्येष्टं तत्करोतु । अहं च स एव

X८३१
प्रवर्तकोऽपीति ज्ञानवानस्मीत्याह तदाहितेति । मुहूर्त क्षणमिव स्थित्वा । भगवति न्यस्तभरत्वानुसन्धानेन मुहूर्त क्षणमिव भावयित्वेत्यर्थः । चिन्तां विहाय अभिगमनादिभिः कालं क्षिपन् फलसिद्धिं प्रतीक्ष इत्याह- अमतीति । अबुद्धि-

X८३२
पूर्वकृतैः पापराशिभिः । परमपुरुषध्यानस्तोत्रादिभिः परिहृतव्यर्थ कालक्षेपः सन् फलसिद्धिं प्रतिपालयामि ॥ ४२ ॥

प्रभाविलासः - ४२

अमतीति । अंहः स्तोमैः; पापसमूहैः । प्रणाममुखैरिति ; मुखपदेन कथाश्रवणादिकमुच्यते । यथोक्तमेकादशे-

“ श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ।

आदरः परिचर्यायां सर्वाङ्गैर भिवन्दनम् ।

मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ।

मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् ।

मय्यर्पणं च मनसः सर्वकाम विवर्जनम् ।

मदर्थेऽर्थपरित्यागो भोग्यस्य च सुखस्य च ।

इष्टं दत्तं हुतं भुक्तं मदर्थं मद्व्रतं तथा ।

एवं धर्मो मनुष्याणामुद्भवात्मनिवेदनम् ।

मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥

इति ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

श्रद्धा - मट्टा, 51अण्णा अपरमत्था इत्थिआ वि किं वि विष्णवेमि । पहरिसजोग्गे वि समए किम् उणो अप्पा अवमाणिज्जइ । णम् अच्चासण्णा खुं तुम्हाणं मोक्खसिद्धी ।

(भर्तः, अज्ञातपरमार्था स्त्र्यपि किमपि विज्ञापयापि । प्रहर्ष- योग्येऽपि समये किं पुनरात्मा अवमन्यते । नन्वत्यासन्ना खलु युष्माकं मोक्षसिद्धिः ।)

पुरुषः- मद्रे, भविष्यत्यपि परमपुरुषार्थे दृष्टिं प्रतिरुणद्धि

मे दुर्वारासौ दोषानुवृत्तिः । तथा हि-

सकृदपि विनतानां सर्वदे सर्वदेहि-

न्युपनिषदभिधेये52 भागधेये विधेये ।

विरमति न कदाचिन्मोहतो हा हतोऽहं

विषमविषयचिन्तामेदुरा मे दुराशा ॥ ४३ ॥

मूलम् - ४३

श्रद्धा - मट्टा, 51अण्णा अपरमत्था इत्थिआ वि किं वि विष्णवेमि । पहरिसजोग्गे वि समए किम् उणो अप्पा अवमाणिज्जइ । णम् अच्चासण्णा खुं तुम्हाणं मोक्खसिद्धी ।

(भर्तः, अज्ञातपरमार्था स्त्र्यपि किमपि विज्ञापयापि । प्रहर्ष- योग्येऽपि समये किं पुनरात्मा अवमन्यते । नन्वत्यासन्ना खलु युष्माकं मोक्षसिद्धिः ।)

पुरुषः- मद्रे, भविष्यत्यपि परमपुरुषार्थे दृष्टिं प्रतिरुणद्धि

मे दुर्वारासौ दोषानुवृत्तिः । तथा हि-

सकृदपि विनतानां सर्वदे सर्वदेहि-

न्युपनिषदभिधेये52 भागधेये विधेये ।

विरमति न कदाचिन्मोहतो हा हतोऽहं

विषमविषयचिन्तामेदुरा मे दुराशा ॥ ४३ ॥

प्रभावली - ४३

भट्ट - भर्तः । अण्णाअपरमत्था - अज्ञातपरमार्था । इत्थि विस्त्रयपि । किं वि- किमपि । विष्णवेमि - विज्ञापयामि । पहरिसजोग्गे वि-प्रहर्षयोग्येऽपि । समय-समये । किं पुणो किं पुनः । अप्पा आत्मा । अवमाणिज्जइ अवमन्यते । त्वयेति शेषः । णं- नूनम् । अच्चासण्णा खु-अत्यासन्ना खलु । तुम्हाणं- युष्माकम् । मोक्खसिद्धी मोक्षसिद्धिः । दोषानुवृत्तौ ज्ञानप्रतिरोधमुपपादयति- तथाहीति । सकृत्प्रपन्नानां सर्वफलप्रदत्वेनोपनिषत्प्रसिद्धे सर्वशरीरिणि भगवति

    X८३३  

.

शरणागतपरतन्त्रे सत्यपि दुराशा विषमाणां विषयाणां चिन्तया मांसला सती कदाचिदपि न विरमति ; न निवर्तते । हा हतोऽस्मि ॥ ४३ ॥

प्रभाविलासः - ४३

सकृदिति । सर्वदे सकलपुरुषार्थ प्रदे’ । सर्वदेहिनि ; सर्वेशरीरिणि । अवधेये; ज्ञेये । भागधेये विधेये; देवे वश्ये सत्यपि । मे दुराशा
न विरमति । अत्र हेतुमाह - विषमेति । मोहतः ; मेहाद्धेतोः । हतो- ऽस्मि । हेति खेदे ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

श्रद्धा - भट्टा, बालिसबुद्धि अहअं किं वो53 पडिभणामि ? तह वि तरलसहावाए मए भणिज्जइ । चिरगअं वि उत्तन्तम् एण्हिं54 वि चिताहिम् आअड्ढिऊण भट्टिणा अप्पा विलपज्जइ ।

(भर्तः, बालिशबुद्धिरहं किं वः प्रतिभणामि ? तथापि तरल- स्वभावया मया भण्यते । चिरगतमपि वृत्तान्तमिदानीमपि चिन्ताभिराकृष्य भर्त्रा आत्मा विलप्यते ।)

पुरुषः- अयि सूनृतवादिनि श्रद्धे, कीदृशः पुनरनागतः प्रारब्धकर्मफलप्रवाहो भविष्यतीति नित्यं बिभेति मे चेतः । अथवा किमनया निरर्थकचिन्तया ? अच्छिद्रपरभजनयोगिना तु मया नित्यमवहितेन वर्तितव्यम् । तत्र च,

मृत्युरद्येति विदुषा यत्कर्तव्यं55 हितैषिणा ।

तदेव नित्यं कर्तव्यमनिर्धारितमृत्युना ॥ ४४ ॥

मूलम् - ४४

श्रद्धा - भट्टा, बालिसबुद्धि अहअं किं वो53 पडिभणामि ? तह वि तरलसहावाए मए भणिज्जइ । चिरगअं वि उत्तन्तम् एण्हिं54 वि चिताहिम् आअड्ढिऊण भट्टिणा अप्पा विलपज्जइ ।

(भर्तः, बालिशबुद्धिरहं किं वः प्रतिभणामि ? तथापि तरल- स्वभावया मया भण्यते । चिरगतमपि वृत्तान्तमिदानीमपि चिन्ताभिराकृष्य भर्त्रा आत्मा विलप्यते ।)

पुरुषः- अयि सूनृतवादिनि श्रद्धे, कीदृशः पुनरनागतः प्रारब्धकर्मफलप्रवाहो भविष्यतीति नित्यं बिभेति मे चेतः । अथवा किमनया निरर्थकचिन्तया ? अच्छिद्रपरभजनयोगिना तु मया नित्यमवहितेन वर्तितव्यम् । तत्र च,

मृत्युरद्येति विदुषा यत्कर्तव्यं55 हितैषिणा ।

तदेव नित्यं कर्तव्यमनिर्धारितमृत्युना ॥ ४४ ॥

प्रभावली - ४४

भट्टा भर्तः । बालिशबुद्धि - बालिशबुद्धिः । अहअं- अहम् । किं वो- किं वः । पडिभणामि प्रतिभणामि । तह वि- तथापि । तरलसहावाए - तरलस्वभावया । मए- मया । भणिज्जइ-भण्यते । चिरगअं वि-चिरगतमपि । उत्तन्तं - वृत्तान्तम् ।

X८३४
दाणिं वि इदानीमपि । चिन्ताहि चिन्ताभिः । आअड्ढिऊण- आकृष्य । भट्टिणा- . भर्त्रा । अप्पा - आत्मा । विलपज्जइ विलप्यते । अत्र चेति । अत्र; परभजने ।

मृत्युर्भविष्यतीति ज्ञानवता यदनुष्ठेयं, तदेवानिश्चितमृत्युनाप्यनुष्ठेयम् ॥ ४४ ॥

प्रभाविलासः - ४४

अयीत्यादि । अनागतः ; भविष्यन् । अच्छिद्रम् ; निरन्तरम् । मृत्युरिति । अद्यैव मृत्युरिति निश्चये सति तस्मिन् काले यदास्थेयं
यत्कर्तव्यं, तदेव नित्यं कर्तव्यम् । कुत इत्यत आह- अनिर्धारितेति । मृत्युकालस्य निश्चेतुमशक्यत्वादित्यर्थः ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

श्रद्धाः— एव्वं वि, पण्डिऊलचिन्ता भट्टिणा ण कादव्वा । अज्ज वा परं वा मोक्खो होहित्ति56 विस्सद्धहिअएण होदव्वम् ।

( एवमपि प्रतिकूलचिन्ता भर्त्रा न कर्तव्या । अद्य वा परं वा मोक्षो भविष्यतीति विस्रब्धहृदयेन भवितव्यम् ।)

पुरुषःः—- भद्रे, साधु भवत्या संस्मारितोऽस्मि यत्तदाम्नातम्—” 57इति यस्य स्यादद्धा न विचिकित्सास्ति " इति । तद्भवती मद्विमोक्षणैकतानमनसो विष्णुभक्त्याः सकाशं गत्वा ममेदृशीमवस्थामावेदय ।
श्रद्धा - जं भट्टा आणवेइ ।

( यद्भर्ता आज्ञापयति ।)

( इति निष्क्रान्ता)

पुरुषः - (विचिन्त्य साभिलाषमिव स्थित्वा ) नाद्यापि तावत्

पितृपथघटीयन्त्रारोहावरोहपरिभ्रमै58-

र्निरयपदवीयातायातक्रमैश्च निरन्तरैः ।

अधिगतपरिश्रान्तीनाज्ञाधरैरतिवाह्य नः

सुखयति निजच्छायादायी स्वयं हरिचन्दनः ॥ ४५ ॥

मूलम् - ४५

श्रद्धाः— एव्वं वि, पण्डिऊलचिन्ता भट्टिणा ण कादव्वा । अज्ज वा परं वा मोक्खो होहित्ति56 विस्सद्धहिअएण होदव्वम् ।

( एवमपि प्रतिकूलचिन्ता भर्त्रा न कर्तव्या । अद्य वा परं वा मोक्षो भविष्यतीति विस्रब्धहृदयेन भवितव्यम् ।)

पुरुषःः—- भद्रे, साधु भवत्या संस्मारितोऽस्मि यत्तदाम्नातम्—” 57इति यस्य स्यादद्धा न विचिकित्सास्ति " इति । तद्भवती मद्विमोक्षणैकतानमनसो विष्णुभक्त्याः सकाशं गत्वा ममेदृशीमवस्थामावेदय ।
श्रद्धा - जं भट्टा आणवेइ ।

( यद्भर्ता आज्ञापयति ।)

( इति निष्क्रान्ता)

पुरुषः - (विचिन्त्य साभिलाषमिव स्थित्वा ) नाद्यापि तावत्

पितृपथघटीयन्त्रारोहावरोहपरिभ्रमै58-

र्निरयपदवीयातायातक्रमैश्च निरन्तरैः ।

अधिगतपरिश्रान्तीनाज्ञाधरैरतिवाह्य नः

सुखयति निजच्छायादायी स्वयं हरिचन्दनः ॥ ४५ ॥

प्रभावली - ४५

एव्वं वि एवमपि । पडिऊलचिन्ता-प्रतिकूलचिन्ता । भट्टिणा भर्त्रा । ण कादव्वा न कर्तव्या । अज्ज वा अद्य वा । परं वा परं वा । मोक्खो मोक्षः । होहित्ति-भविष्यतीति । विस्सद्ध हिअएण विस्रब्धहृदयेन । होदव्वं भवितव्यम् । यत्तदानातं तत्साधु संस्मारितोऽस्मीत्यन्वयः । अम्नायं दर्शयति-यस्य स्यादिति । अयमर्थः – यस्य पुंसः अद्धा निश्चय एव । न विचिकित्सा न सन्देहः, मोक्ष संशयो नास्तीति । अथ श्रद्धायाः कर्तव्यमुपदिशति तद्भवतीति ।

X८३५
जं भट्टा आणवेइ- यद्भर्ता आज्ञापयति । मोक्ष इव नाद्यापि सुखयतीत्यन्वयः । पितृपथघटीति । पितृयानमेव घटीयन्त्रम्, तदारोहावरोहपरिभ्रमणैः निरन्तरैः

X८३६
निरयपदव्या यातायातक्रमैः ॥ ४५ ॥

प्रभाविलासः - ४५

विस्सद्धहिअएण होदव्वमिति ॥ अत्र प्रयोजन स्थिरीकरणात् कृतिर्नाम निर्वहणसन्धेरङ्गमुक्तम्, ।” स्थिरीकरणमर्थस्य लब्धस्य कृतिरुच्यते " इति लक्षणात् । भद्रे इत्यादि । " इति यस्य स्यादद्धा न विचिकित्सास्ति "
इति श्रुतिः । अस्या अयमर्थः - इति पूर्वोक्तप्रकारेण यस्य पुरुषस्य अद्धा अञ्जसा विचिकित्सा संशयः नास्तीति । पितृपथेति । पितृपथो नामागस्त्यमण्डलाजवीथ्योर्मध्यमो वैश्वानरात् बहिर्भूतो मार्गविशेषः । तदुक्तम्-

" उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् ।

पितृयानः स वै पन्था वैश्वानरपथाद्बहिः ॥ ”

इति । अयमेव धूमादिमार्ग इत्युच्यते । निरयपदवी ; नरकमार्गः । सा चोक्ताश्वमेधिके-


" अष्टाशीतिसहस्राणि योजनानां युधिष्ठिर ।

मानुषस्य च लोकस्य यमलोकस्य चान्तरम् ।

न तत्र वृक्षच्छाया वा वाप्यो वा न च दीपिका ।

न ग्रामो नाश्रमो वापि नोद्यानं काननानि वा ।”
न किञ्चिद्विश्रमस्थानं पथि तस्मिन्युधिष्ठिर । कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना ।

दह्यमानास्तु गच्छन्ति नरा दानविवर्जिताः ॥ "

इति । आज्ञाधरैः; अर्चिरादिभिः । अतिवाह्य; गमयित्वा । निजच्छाया; आत्मसाम्यम् । हरिरिति चन्दनः । वृक्षोऽपि श्रान्तानां छायादायीति प्रसिद्धिः । अत्र,

" इति संसारदुःखार्ततापतापितचेतसाम् ।

विमुक्तिपादपच्छायामृते कुत्र सुखं भवेत् ॥”

इति श्रीविष्णुपुराणवचनम्, “वासुदेवतरुच्छाया नातिशीता न घर्मदा " इत्यादि च स्मारितम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

सङ्कल्पः - ( सहर्षम् ) अवधारितस्वभावोऽय59‘मस्मत्स्वामि-

सम्मतोऽनन्यभक्तिः60

मिथ्यादृष्टिमुखैर्विवेकमुषितैरस्पृष्टधीः कश्मलै-

रुत्तीर्य प्रतिबुद्धदोषचिदचिद्भोगस्पृहाकर्दमात् ।

निध्यानस्थिरदर्पणप्रतिफलन्नैःश्रेयसश्रीरसा-

वद्य प्रत्यवपत्तुमिच्छति भवाकूपारपारस्थलीम् ॥ ४६ ॥

मूलम् - ४६

सङ्कल्पः - ( सहर्षम् ) अवधारितस्वभावोऽय59‘मस्मत्स्वामि-

सम्मतोऽनन्यभक्तिः60

मिथ्यादृष्टिमुखैर्विवेकमुषितैरस्पृष्टधीः कश्मलै-

रुत्तीर्य प्रतिबुद्धदोषचिदचिद्भोगस्पृहाकर्दमात् ।

निध्यानस्थिरदर्पणप्रतिफलन्नैःश्रेयसश्रीरसा-

वद्य प्रत्यवपत्तुमिच्छति भवाकूपारपारस्थलीम् ॥ ४६ ॥

प्रभावली - ४६

प्राप्तिरूपावस्थादर्शनात् सहर्षम् । क्रमेण योग्यतामापन्नोऽयं मोक्षं वाञ्छतीत्याह - मिथ्यादृष्टीति । विवेकसंहृतत्वात् मिथ्याज्ञानादिविरोधिभिः अस्पृष्टा अप्रतिबद्धा धीः यस्य सः । प्रतिबुद्धदोषे चिदचिद्भोगे; चिद्भोग

X८३७
आत्मानुभवः, अचिद्भोगः स्वर्गादिः । स्पृहैव कर्दमः, तस्मादुत्तीर्य निध्यानम् उपासनं ब्रह्मसाक्षात्कारः, तदेव दर्पणं, तत्र प्रतिफलन्ती मोक्षसम्पत् यस्य । उपासने ब्रह्मसाक्षात्कार सुखानुमितमोक्ष सम्पदित्यर्थः । एवं क्रमेण योग्यो भूत्वा अद्य संसारसमुद्रस्य पारस्थलीं परमपदं प्रत्यवपत्तुं प्राप्तुमिच्छति ॥ ४६ ॥

प्रभाविलासः - ४६

मिथ्येति । मिथ्यादृष्टिः ; नास्तिकता । प्रत्यवपत्तुम् ; प्राप्तुम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

अपि च,

प्रगुणवृत्तिरपथ्यपराङ्मुखः कृपणचित्तहरैर्व्यसनग्रहैः ।

अयमपत्रपते निरुपप्लवः परगतैरपि दृष्टपरावरः ॥ ४७ ॥

मूलम् - ४७

अपि च,

प्रगुणवृत्तिरपथ्यपराङ्मुखः कृपणचित्तहरैर्व्यसनग्रहैः ।

अयमपत्रपते निरुपप्लवः परगतैरपि दृष्टपरावरः ॥ ४७ ॥

प्रभावली - ४७

मोक्षयोग्यतान्तरमप्यस्य वर्णयति — प्रगुणेति । दृष्टपरावरत्वात् प्रकृष्ट- गुणा वृत्तिर्यस्य । अपथ्ये निषिद्धकाम्ये पराङ्मुखः । एवं निरुपप्लवोऽयं परपुरुषगतैरपि कृपण चित्तहरैः कृपणचित्तापहरणसमर्थैः । व्यसनान्येव ग्रहाः, तैः पिशाचैः अपत्रपते ॥ ४७ ॥

प्रभाविलासः - ४७

प्रगुणेति । अपथ्यपराङ्मुखः; स्वर्गादिकामनाविमुखः । निरुपप्लवः; अणिमादियोगान्तरायरहितः । व्यसनग्रहैः; दुर्विषयाभिलाषग्रहैः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

अहह कति कति जगति सन्ति कर्मिणो योगिनस्तपस्विनश्च ? 61न तेषु कस्यचिदेतादृशः स्वभावः -

कम्पन्ते यमकिङ्कराः स्वयमसौ कालश्च सर्वङ्कषः

शङ्कन्ते किल निर्जरा निजपदावष्टम्भनं पाक्षिकम् ।

रक्षोदानवयक्षगुह्यकमुखा धावन्त्यतो दूरतः

पद्मावल्लभपादपद्मयुगलप्रत्यर्पितस्वात्मनः ॥ ४८ ॥

मूलम् - ४८

अहह कति कति जगति सन्ति कर्मिणो योगिनस्तपस्विनश्च ? 61न तेषु कस्यचिदेतादृशः स्वभावः -

कम्पन्ते यमकिङ्कराः स्वयमसौ कालश्च सर्वङ्कषः

शङ्कन्ते किल निर्जरा निजपदावष्टम्भनं पाक्षिकम् ।

रक्षोदानवयक्षगुह्यकमुखा धावन्त्यतो दूरतः

पद्मावल्लभपादपद्मयुगलप्रत्यर्पितस्वात्मनः ॥ ४८ ॥

प्रभावली - ४८

अथास्य माहात्म्यं वक्ति-अहहेति । कति कति बहव इत्यर्थः । कर्मिणः ; ज्ञानयोगपराः । तपस्विनः ; उपासकाः । तेषु कस्यचिदप्येतादृशस्वभावो नास्ति । तदेव दर्शयति- कम्पन्त इति । सर्वकषः ; ब्रह्मरुद्रादि-

X૮३૮
सकलसंहारकः। कालः ; कालाधिष्ठानदेवता च बिभेति । पद्मावल्लभपादपद्मयुगले

न्यस्तस्वरक्षाभरस्य ॥ ४८ ॥

प्रभाविलासः - ४८

कम्पन्त इति । अत्र,
" सर्प दृष्टा यथा लोके दर्दुरा भयविह्वलाः ।

ऊर्ध्वपुण्ड्राङ्कितं तद्वत्कम्पन्ते यमकिङ्कराः ॥

इति स्मारितम् । रक्षोदानवादिभयहेतुत्वमुक्तमष्टाक्षरब्रह्मविद्यायाम् —

‘भूतवेतालरक्षांसि तथा रोगापमृत्यवः ।

अष्टाक्षरस्य संस्मृत्या विद्रवन्ति दिशो दश ॥

देवदानवगन्धर्वसिद्धविद्याधरादयः ।

प्रणमन्ति महात्मानमष्टाक्षरविदं नरम् !!

इत्यादि ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

अपि च,

यत्राप्यसौ सुकृतिभिर्विदितानुभावै-

रम्यर्चितो जनपदे निवसत्यनन्यः ।

सिद्धाश्रमप्रतिनिधाविह सर्व एते

निर्व्यायश्च विचरन्ति निराश्च ॥ ४९ ॥

मूलम् - ४९

अपि च,

यत्राप्यसौ सुकृतिभिर्विदितानुभावै-

रम्यर्चितो जनपदे निवसत्यनन्यः ।

सिद्धाश्रमप्रतिनिधाविह सर्व एते

निर्व्यायश्च विचरन्ति निराश्च ॥ ४९ ॥

प्रभावली - ४९

यत्रासौ वर्तते तत्रस्थाः सर्वे व्याध्यादिरहिताः सुखं तिष्ठन्तीत्याह- अपिचेति । यत्र ; देशे । असौ ; पुरुषः । स्वानुभाववेदिभिः सुकृतिभिः

    X८३९  

अभ्यर्चितो वसति ।

सिद्धाश्रमतुल्ये वामनाश्रमतुल्ये स्थिताः सर्वे जना निरामयाः तस्करादिपीडारहिताश्चरन्तीति ॥ ४९ ॥

प्रभाविलासः - ४९

सिद्धाश्रमः कर्मसिद्धिहेतुराश्रमविशेषः । तदुक्तं बालकाण्डे-

" अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति ।

सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥

इति । तस्य प्रतिनिधौ सदृशे । सर्वे निर्व्याधयः ; नीरोगाः । निरामयाः;

निरातङ्काः । अत्र,
“यत्राष्टाक्षरसंसिद्धो महाभागो महीयते ।

न तत्र सञ्चरिष्यन्ति व्याधिदुर्भिक्षतस्कराः ॥ ”

इति स्मारितम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

अहो नु खल्वमुष्य परमपुरुषप्रीतितोऽपि तद्भक्तप्रीतिरतिशेते62 । इत्थं किलास्य नियतमालापः-

नाथे नस्तृणमन्यदन्यदपि वा तन्नाभिनालीकिनी-

नालीकस्पृहणीयसौरभमुचा वाचा न याचामहे ।

शुद्धानां तु लभेमहि स्थिरधियां शुद्धान्तसिद्धान्तिनां

मुक्तैश्वर्यदिनप्रभातसमयासत्तिं प्रसत्तिं मुहुः ॥ ५० ॥

मूलम् - ५०

अहो नु खल्वमुष्य परमपुरुषप्रीतितोऽपि तद्भक्तप्रीतिरतिशेते62 । इत्थं किलास्य नियतमालापः-

नाथे नस्तृणमन्यदन्यदपि वा तन्नाभिनालीकिनी-

नालीकस्पृहणीयसौरभमुचा वाचा न याचामहे ।

शुद्धानां तु लभेमहि स्थिरधियां शुद्धान्तसिद्धान्तिनां

मुक्तैश्वर्यदिनप्रभातसमयासत्तिं प्रसत्तिं मुहुः ॥ ५० ॥

प्रभावली - ५०

अस्य भगवतो भागवतेषु प्रीतिरधिकेत्याह- अहो इति । तत्र लिङ्ग तदालापं दर्शयति - नाथ इति । नः नाथे ; सकलफलप्रदेऽपि । तृणम् ; तृणसमम् । भगवतोऽन्यत् वस्त्वपि वा । अथवा अन्यदपि ; ब्रह्मानुभवमपि ।

X८४०
भगवन्नाभिः सैव नालीकिनी, तत्र स्थितं यन्नालीकं पद्मं तद्याचनीयम् । किं तत्राह - शुद्धानामिति । दृढधियाम् ; दृढाध्यवसायानाम् ।

शुद्धः अन्तः निश्चयः यः, स शुद्धान्तसिद्धान्तः, तद्वताम् । यद्वा - शुद्धान्तसिद्धान्तः ; अन्तःपुरभोगः, तद्वताम्; लक्ष्मीसमानभोगानामित्यर्थः । तेषां प्रसादं मुहुर्लभेमहि । इदमेव नो मुहुर्याच्यमिति भावः । कीदृशम् ? मुक्तैश्वर्यपरिपूर्णदिनं, तस्य प्रभातसमयः, तस्यासत्ति समीपवर्तिनीं तत्सदृशीमित्यर्थः । मोक्षदिनस्य भागवत- प्रसादः प्रभातस्थानीयः ॥ ५० ॥

प्रभाविलासः - ५०

तद्भक्तप्रीतिरतिशेत इति;

" आराधनानां सर्वेषां विष्णोराराधनं परम् ।

तस्मात्परतरं प्रोक्तं तदीयाराधनं परम् ॥ "

इति, " मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत्” इति च स्मारितम् । नाथ इति । नः अस्माकम् । नाथे स्वतः पुरुषार्थतया नाथनीये सति । अन्यत्; कैवल्यान्तं यत् तत्सर्वम् । तृणम् ; " तृणं ब्रह्मविदो विश्वम्” इति स्मरणात् । अन्यदपि ब्रह्मणः प्राध्यादिरूपम् । तन्नाभिनालिकीनीनालीकेन; पद्मनाभनाभिकमलिनीकमलेन । स्पृहणीयं
सौरभं मुञ्चतीति तथोक्तया । स्त्रनिकेतन चतुर्वदनसरस्वतीतोऽप्यतिविस्मय- नीय विद्यावत्त्वेन वाक्सौरभस्य नालीकेन स्पृहणीयत्वं साक्षाद्भगवत्सम्बन्धे सत्यपि पृथगीशमानिदेवताविशेषतया स्वस्याकारत्रय सम्पत्त्यभावात् सम्पन्न - वाक्सौरभ्यस्पृहणीयत्वं वेति द्रष्टव्यम् । अत्र,

तुलायाम लवेनापि न स्वर्गे नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥

इति प्रथमस्कन्धोक्तमनुसन्धेयम् । शुद्धानाम् ; शुद्धान्तःकरणानाम् । अत एव स्थिरधियां शुद्धान्तसिद्धान्तिनाम् ; शुद्धः अन्तो निश्चयो यस्य, स चासौ सिद्धान्तश्चेति, तद्वताम् । यद्वा शुद्धाः कामोपधापरिशुद्धाः अन्ते समीपे रक्षका यस्येति । शुद्धान्त इत्यन्तःपुरमुच्यते । सप्तमीविशेषणे बहुव्रीहौ " इति पूर्वनिपाते प्राप्ते आहितामचादित्वात् परनिपातः । तेन लक्षणया अन्तःपुरवासिनी श्रीर्लक्ष्यते । तस्याः सिद्धान्तः पारतन्त्र्यं पुरुषकारत्वं वा एषामस्तीति तथोक्तानाम् । आसत्तिम् ; आसन्नत्वम् । प्रसत्तिं मुहुर्लभेमहि । अत्र

‘सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् ।

निःसंशयस्तु तद्भक्तपरिचर्यारतात्मनाम् ॥

इत्यादिकं द्रष्टव्यम् ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

W
तदेनम तिगाढसमाधिसंश्लेषादमृतजलधिनिहितमकरन्दबिन्दुवदविभक्तमिव 63भगवत्यवस्थितमनन्ययोगिनमनन्यं बहु मन्यमानः64 स्वयमपि धन्यो भवितुमिच्छामि । ( सहर्षबहुमानमुपसृत्य ) महात्मन्, आश्चर्यचर्योऽसि धन्योऽसि परम पुरुषदास्यप्रियस्त्वम् 65

पुरुषः – ( सहर्ष सम्भ्रमसाध्वसमुत्थाय तत्प्रभावपरवशः प्रणि-

पत्य प्राञ्जलिस्तिष्ठन् ) भगवत्,

अनवधिकवैभवं त्वामवधारयितुं न पारयति चेतः ।

आद्यः स एव भगवानथवा तस्य त्वमन्तरङ्गतमः ॥ ५१ ॥

मूलम् - ५१

W
तदेनम तिगाढसमाधिसंश्लेषादमृतजलधिनिहितमकरन्दबिन्दुवदविभक्तमिव 63भगवत्यवस्थितमनन्ययोगिनमनन्यं बहु मन्यमानः64 स्वयमपि धन्यो भवितुमिच्छामि । ( सहर्षबहुमानमुपसृत्य ) महात्मन्, आश्चर्यचर्योऽसि धन्योऽसि परम पुरुषदास्यप्रियस्त्वम् 65

पुरुषः – ( सहर्ष सम्भ्रमसाध्वसमुत्थाय तत्प्रभावपरवशः प्रणि-

पत्य प्राञ्जलिस्तिष्ठन् ) भगवत्,

अनवधिकवैभवं त्वामवधारयितुं न पारयति चेतः ।

आद्यः स एव भगवानथवा तस्य त्वमन्तरङ्गतमः ॥ ५१ ॥

प्रभावली - ५१

X८४१
एवं परमपुरुषमुपस्तुत्य तं मोचयन्नहमपि धन्यो भविष्यामीत्याह - तदेन- मिति । समाधिरूपविशेषात् भगवति युक्तं सम्प्रयुक्तमिव स्थितम् । अनन्ययोग- वन्तम् । अनन्यम् ; न अन्यप्रयोजनं यस्य । अनन्यप्रयोजनं तम् ॥ ५१ ॥

प्रभाविलासः - ५१

अनन्तसुकृतेत्यादि ; अभ्युपगतप्रारब्धव्यतिरिक्त सुकृतदुष्कृत विगलनमभिप्रेतम् । अत्र सर्वत्र भगवत्कृपैव निदानमित्याह — कृपयेति ।

तदुक्तम्-

तत्तेऽनुकम्पां प्रसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् ।

हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥

इति ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

सङ्कल्पः – महाभाग, अहं किल परमपुरुष सङ्कल्पः परमैकान्तिपरिषदग्रगण्यमनन्तसुकृतदुष्कृत निगलयुगल विगलनपूर्वि -
कया परमपदपर्यङ्कपरिष्कारपरब्रह्म सेवापर्यन्तया भक्तिपरिपाक- सम्पदा सङ्घटयितुं तदेकवल्लभया कृपणजनविषयकृतपक्षपातया कृपया नियुक्तश्विरप्रार्थितदर्शनं भवन्तमुपगच्छामि । तदिह निकट- वर्तियां निःश्रेयससम्पदि निर्विशङ्केन भवता भवितव्यम् । अद्य च,

कच्चित्क्षिप्तरजस्तमस्कमधुना सच्वं समुज्जृम्भते

कच्चिन्मोचितविप्लवश्च66 करणग्रामो वशे तिष्ठति ।

कचित्सङ्घटते समाधिरनघः कच्चित्प्रसन्नं मनः

किं वा कैटभकण्टकस्य कृपया जुष्टस्य ते दुर्घटम् ॥ ५२ ॥

मूलम् - ५२

सङ्कल्पः – महाभाग, अहं किल परमपुरुष सङ्कल्पः परमैकान्तिपरिषदग्रगण्यमनन्तसुकृतदुष्कृत निगलयुगल विगलनपूर्वि -
कया परमपदपर्यङ्कपरिष्कारपरब्रह्म सेवापर्यन्तया भक्तिपरिपाक- सम्पदा सङ्घटयितुं तदेकवल्लभया कृपणजनविषयकृतपक्षपातया कृपया नियुक्तश्विरप्रार्थितदर्शनं भवन्तमुपगच्छामि । तदिह निकट- वर्तियां निःश्रेयससम्पदि निर्विशङ्केन भवता भवितव्यम् । अद्य च,

कच्चित्क्षिप्तरजस्तमस्कमधुना सच्वं समुज्जृम्भते

कच्चिन्मोचितविप्लवश्च66 करणग्रामो वशे तिष्ठति ।

कचित्सङ्घटते समाधिरनघः कच्चित्प्रसन्नं मनः

किं वा कैटभकण्टकस्य कृपया जुष्टस्य ते दुर्घटम् ॥ ५२ ॥

प्रभावली - ५२

अथ सङ्कल्पः कुशलप्रश्नपूर्वकं भगवत्प्रसादपात्रस्य ते किं दुर्लभमिति पुरुषं

X८४२
प्रशंसति — कच्चिदिति । भो सौम्य, ते सत्वगुणः निरस्तरजस्तमस्कः समुज्जृम्भते कच्चित् । विप्लवेभ्यो मोचितो यो भवतः करणग्रामः वशे तिष्ठति किमु ! अनघः विघ्नरहितः समाधिः सङ्घटते प्रतिदिनमनुवर्तते कश्चित् । मनश्च प्रसन्नं कच्चित्त् । किं पृच्छ्यते । कैटभजितः कृपया जुष्टस्य तव दुर्लभं किं वा; न किमपीति भावः । किं तु प्रयोजनं मोक्ष इति भावः ॥ ५२ ॥

प्रभाविलासः - ५२

कच्चिदिति । अनभिसंहितफलकर्मानुष्ठानाविच्छेदं फलेन पृच्छति -

क्षिप्तेति । तदुक्तम्

“धर्मो रजस्तमो हन्यात्सत्त्ववृद्भिरनुत्तमा ।

आशु नश्यति तन्मूलो धर्म उभये हते ॥ "

इति ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

पुरुषः - ( सहर्षगद्गदम् ) अहो नु खलु धन्योऽयमनन्य- शरणो जनः, यमेनमनिदम्प्रथमसम्पदा भगवदनुकम्पया प्रचोदितस्तत्र-
भवान् प्रसीदन् प्रेक्षते । कश्च त्वदीक्षितः समीहितसिद्धौ सन्दिग्धे ! निर्धारितश्च निगमान्तनिरूढबुद्धिभिस्त्वदनुभावः-

यस्याज्ञा विबुधेन्द्रमौलिवलभीवास्तव्यपारावती

यद्भ्रूविभ्रमकिङ्करी विधिशिवस्वस्थानसुस्थासिका ।

ब्रह्मस्तम्बधुरन्धरेण मुरभित्सङ्कल्पभून्ना त्वया

कस्मिन्किं नु न जाघटीति न च किं कस्मिन्न जाघट्यते ॥ ५३ ॥

मूलम् - ५३

पुरुषः - ( सहर्षगद्गदम् ) अहो नु खलु धन्योऽयमनन्य- शरणो जनः, यमेनमनिदम्प्रथमसम्पदा भगवदनुकम्पया प्रचोदितस्तत्र-
भवान् प्रसीदन् प्रेक्षते । कश्च त्वदीक्षितः समीहितसिद्धौ सन्दिग्धे ! निर्धारितश्च निगमान्तनिरूढबुद्धिभिस्त्वदनुभावः-

यस्याज्ञा विबुधेन्द्रमौलिवलभीवास्तव्यपारावती

यद्भ्रूविभ्रमकिङ्करी विधिशिवस्वस्थानसुस्थासिका ।

ब्रह्मस्तम्बधुरन्धरेण मुरभित्सङ्कल्पभून्ना त्वया

कस्मिन्किं नु न जाघटीति न च किं कस्मिन्न जाघट्यते ॥ ५३ ॥

प्रभावली - ५३

X८४३

निर्विशङ्केन भवता भवितव्यमित्यस्योत्तरमाह- कश्चेति । त्वया कटाक्षितः ; त्वद्विशिष्टभगवत्कटाक्षवीक्षित इति भावः । सङ्कल्पप्रभावं प्रकाशयति — यस्या- ज्ञेति । विबुधेन्द्राः ; ब्रह्मादयः । तन्मौलिरेव वलभिः, तत्र वतुं शीला पारावती । विधिशिवयोः स्वस्थानं, सत्यलोककैलासादिः ; तत्र या सुस्था आसिका सुखेन स्थितिः, सा यस्य ते भ्रकुटीक्षेपप्रेक्षा । आब्रह्मस्तम्बस्य जगतः रक्षणधूर्वहेन, मुरभित्सङ्कल्पभूम्ना महामहिमवता त्वया हेतुना, कस्मिन् पुरुषे ; अतिकृपणेऽपीति भावः । किं नु ; किं प्रयोजनम्, मोक्षोऽपीति भावः । न जाघति । यदभिलषितं तत्सर्वं सम्पत्स्यत एवेति भावः । न चेति । तव

X८४४
हेतुत्वाभावे इति शेषः । कस्मिन् पुरुषे गुणवत्यपि । किम प्रयोजनम्, न किमपीति भावः । न न जावट्यते ; न किमपि घटत इति भावः ॥ ५३ ॥

प्रभाविलासः - ५३

यस्येति । पारावती ; पक्षिविशेषः । यभ्रूविभ्रमेति । ब्रह्मादीनां भ्रूविभ्रमाधीनत्वं भागवत उक्तम्-

“त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव

आत्मात्मदश्च जगतामिति मे वृतोऽसि ।

हित्वा भवद्भुव उदीरितकालवेग-

ध्वस्ता शिषोऽब्जभवनाङ्कपतीन् कुतोऽन्ये ॥”

इति । ब्रह्मस्तम्बः ; देवमनुष्यादिबहुप्ररोह हेतुः । कस्मिन् पुरुषे किं वस्तु न जाघटयते ; न सङ्घटते ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

सङ्कल्पः – (स्वगतम्) प्रष्टव्यः पुनरसौ विशेषतः सांयमिकीं सिद्धिम् । (प्रकाशम्) भद्र, कीदृशी भवत इदानीं कृपण- जनदवीयसी कृतमुखसम्मुखी समाधिसम्पत्तिः ?

पुरुषः- देव, प्रस्पष्टमनुभूयमानाप्यसौ विशेषतो निर्देष्टुं न शक्यते । तथापि किञ्चिदावेदयामि-

" 67निरूढ-निगम-त्रये निखिल-लोक–चिन्ता-मणौ
प्रसत्तिम् अधिजग्मुषि प्रणिदधान+++(-योगि)+++-भावास्पदे ।
रतिं भजति भावना, लयम् इवोपयाति द्रुतं
रमा-वसुमती-सहाचरित-+++(शरणागत-रक्षादि-)+++धर्मणि ब्रह्मणि ॥ ५४ ॥

मूलम् - ५४

सङ्कल्पः – (स्वगतम्) प्रष्टव्यः पुनरसौ विशेषतः सांयमिकीं सिद्धिम् । (प्रकाशम्) भद्र, कीदृशी भवत इदानीं कृपण- जनदवीयसी कृतमुखसम्मुखी समाधिसम्पत्तिः ?

पुरुषः- देव, प्रस्पष्टमनुभूयमानाप्यसौ विशेषतो निर्देष्टुं न शक्यते । तथापि किञ्चिदावेदयामि-

" 67निरूढनिगमत्रये निखिललोक चिन्तामणौ

प्रसत्तिमधिजग्मुषि प्रणिदधानभावास्पदे ।

रतिं भजति भावना लयमिवोपयाति द्रुतं

रमावसुमतीसहाचरितधर्मणि ब्रह्मणि ॥ ५४ ॥

प्रभावली - ५४

संयमः ; समाधिः । तत्सम्बन्धिनीं सिद्धिम् । पुनरयं विशेषतः प्रष्टव्यः । कृपणजनदुर्लभा कुशलजनसुलभा समाधिसिद्धिः । असौ समाधिसम्पत्तिः विशेषतः इत्थमिति वक्तुं न शक्यते ।

निरूढेति । निगम-त्रय-शब्देन सर्वोपनिषदो विवक्षिताः । तत्र प्रसिद्धे।
सकल-लोकानां सर्व-फलप्रदे ।
प्रणिदधानानां युञ्जानानां भावस्य आश्रय-भूते ।
रमा-वसुमतीभ्यां सहानुष्ठित-शरणा-गत-रक्षण-धर्मणि ।
भूम्याः शरणागत-रक्षणे सहोक्तिर् उपचारात् ।
तस्मिन् ब्रह्मणि प्रसादं प्राप्तवति सति
भावना रतिं प्रीतिं प्रथमतो भजति
ततः तस्मिन् सक्तं लीनं तथा तथा लयमुपयातीव ; एकतामापन्नेव ॥ ५४ ॥

प्रभाविलासः - ५४

सांयमिकम् ; योगसम्बन्धिनीम् । निरूढेति । निरूढनिगमत्रये ; निगमत्रयनिरूढे । प्रणिदधानस्य पुरुषस्य भावास्पदे ; ध्यानविषयभूते । लयम् ; लीनताम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

सङ्कल्पः - (सहर्षम् ) महात्मन् अनन्यलम्या तवेय-

मवस्था विस्मयावेधविह्वलं विदधाति मामकं मानसम् । इयं हि-

निवृत्तिरसवासनानिरवशेषितोपप्लवा

परप्रणिधिपद्धतौ धृतिमुपेयुषी शेमुषी ।

द्रुतप्रवरशर्कराभरितदुग्धधाराकृति-

प्रतिक्षणविकल्पनाकलहलङ्घनी वर्तते ॥ ५५ ॥

मूलम् - ५५

सङ्कल्पः - (सहर्षम् ) महात्मन् अनन्यलम्या तवेय-

मवस्था विस्मयावेधविह्वलं विदधाति मामकं मानसम् । इयं हि-

निवृत्तिरसवासनानिरवशेषितोपप्लवा

परप्रणिधिपद्धतौ धृतिमुपेयुषी शेमुषी ।

द्रुतप्रवरशर्कराभरितदुग्धधाराकृति-

प्रतिक्षणविकल्पनाकलहलङ्घनी वर्तते ॥ ५५ ॥

प्रभावली - ५५

X८४५
इयमवस्था श्रुता मम विस्मयं जनयतीत्याह–अनन्यलभ्येति । अन्यैः अनुपक्रान्तयोगः अलभ्या । विस्मयावेधेन व्याकुलितं मामकमपि मानसम् । तत्र हेतुं दर्शयति- इयं हीति । यत इयं तव शेमुषी एवं वर्तते, तत इति भावः । निवृत्तिधर्मे रसः प्रीतिः, तद्वासनया निःशेषनष्टोपद्रवा परमात्मविषयसमाधिमार्गे सन्तोषं धैर्यं वा प्राप्तवती तवेयं बुद्धिः द्रुता विलीना प्रकृष्टा शर्करा तया पूर्णा या दुग्धधारा, तस्या आकृतेः प्रतिक्षणविकल्पनाकलहम् ; विकल्पनाशब्देन साम्यं लक्ष्यते, समयोरेव प्रायेण विकल्पदर्शनात, यथा ब्रीहियवयोः । लङ्घनी ; परिभावयित्री । द्रुतप्रवरशर्करा । पूर्णक्षीरधाराया अपि परिभावयित्रीत्यर्थः ॥ ५५ ॥

प्रभाविलासः - ५५

निवृत्तीति । निवृत्तिरसे; शान्तरसे वासनया निरवशेषिताः उपप्लवाः विषयतृष्णादयः यस्याः सा । विकल्पनाकलहः ; इदं स्वादुतमम्, इदमितोऽपि स्वादुतममित्येवंरूपः ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

अपि च,

कवित्वमदकश्मलं कथकदर्पतिग्मज्वरं

विकत्थन मिलद्बहुप्रलपनाभिमानग्रहम् ।

परप्रतिपदर्पणप्रथनयातनां च स्वयं

निवर्त्य निरवग्रहां निभृतवृत्तिमातिष्ठसि ॥ ५६ ॥

मूलम् - ५६

अपि च,

कवित्वमदकश्मलं कथकदर्पतिग्मज्वरं

विकत्थन मिलद्बहुप्रलपनाभिमानग्रहम् ।

परप्रतिपदर्पणप्रथनयातनां च स्वयं

निवर्त्य निरवग्रहां निभृतवृत्तिमातिष्ठसि ॥ ५६ ॥

प्रभावली - ५६

त्वयीदमप्यन्यदस्तीत्याह - अपिचेति । कवित्वेति । कवितया यो मदः ।

X८४६
कथकाः ; वादिनः । तेषां दर्प एव तापज्वरः । विकत्थनेन आत्मश्लाघनेन मित् मिश्रितं यत् बहुप्रलपनम् असम्बद्धप्रलापः, तत्र यः अभिमानः ‘अत्र मया सदृशो नास्तीति ’ अहङ्कारः । स एव ग्रहः पिशाचः तं च । परस्य शिष्यादेः प्रतिपदः बुद्धेः प्रतिपादनम्, व्याख्यानमित्यर्थः तस्मिन् प्रथनं प्रसिद्धिः, सैव यातना पीडा । तां च परित्यज्य निरवग्रहाम्; निरुपद्रवाम् । निभृतां वृत्तिम् ; पाञ्चकालिकी मित्यर्थः । आतिष्ठसि ; अनुतिष्ठसि ॥ ५६ ॥

प्रभाविलासः - ५६

कवित्वेति । पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकी भूतपरपक्ष निरासादिज्ञानाय
स्वमत संरक्षणाद्यर्थे च कवितावादाद्यनुमतिः । इदानीमत्यन्तनिभृतावस्थायां तन्निवृत्तिरिति विशेषः । तदुक्तम्-

" वेदवादरतो न स्यान्न पाषण्डी न हैतुकः ।

शुष्कवादविवादेन न किञ्चित्पक्षमाश्रयेत् ॥ "

इति । विकत्थनम् ; आत्मश्लाघा । परप्रतिपदर्पणम् ; परेभ्यः शिष्येभ्यः प्रतिपदो ज्ञानस्यार्पणम् उपदेशः । तत्र प्रथनं प्रसिद्धिरेव यातना तीव्र - वेदना । यावत्प्रतिपत्त्युपदेशक्लेशस्य दुःसहतया यातनेत्युक्तिः । अनेन गुणवति शिष्ये सम्प्रदाय गोपनार्थमुपदेशातिरिक्तव्याख्यानप्रसिद्धिर्निरस्ता ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

पुरुषः- देव, ‘68भवत्प्रभावसम्भवेयं पराङ्मुखस्वभावस्य मे प्रत्यङ्मुखी बुद्धिवृत्तिः । अचिन्त्यप्रभावश्च भवानागमेषु जोघुष्यते-

क्रियाशक्तिं केचिद्दनुजमथनीं69 हेतिमपरे

मनस्तत्त्वं चान्ये मधुविजयिनस्त्वामभिदधुः ।

तमेवैके तत्तत्पदविषयजुष्टं तदिह नः

सदोत्तुङ्गः70 प्रादुर्भवसि भवसिन्धुप्रमथनः71 ॥ ५७ ॥

मूलम् - ५७

पुरुषः- देव, ‘68भवत्प्रभावसम्भवेयं पराङ्मुखस्वभावस्य मे प्रत्यङ्मुखी बुद्धिवृत्तिः । अचिन्त्यप्रभावश्च भवानागमेषु जोघुष्यते-

क्रियाशक्तिं केचिद्दनुजमथनीं69 हेतिमपरे

मनस्तत्त्वं चान्ये मधुविजयिनस्त्वामभिदधुः ।

तमेवैके तत्तत्पदविषयजुष्टं तदिह नः

सदोत्तुङ्गः70 प्रादुर्भवसि भवसिन्धुप्रमथनः71 ॥ ५७ ॥

प्रभावली - ५७

परम् अञ्चतीति पराक् अचित्; तत्रैव मुखम् आभिमुख्यं यस्य तस्य मे ।

      X८४७  

इयं प्रत्यङ्मुखी आत्मपरमात्माभिमुखी बुद्धेर्वृत्तिः भवत्प्रसादसम्भवा ; न त्वन्यायत्तसाध्या । अचिन्त्यप्रभावतया आगमेषु श्रीपाञ्चरात्रादिषु वेदान्तेषु वा “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह " इत्यादिभिः प्रख्याप्यते । तदेव दर्शयति - क्रियाशक्तिमिति । क्रियाशक्तिं केचित् संहिताप्रणेतारः भगवतो जगत्सृष्ट्यादिसामर्थ्यं त्वाम् अभिदधुः । अन्ये तु मनस्तत्त्वम् । तत्तत्पदविषयजुष्टम् ; तत्तत्पदार्थेन क्रियाशक्त्यादिना जुष्टं विशिष्टम् तमेव ; मधुविजयिनमेव आहुः । हे सदोत्तुङ्ग, त्वं नः भवसिन्धुप्रमथनः ॥ ५७ ॥

प्रभाविलासः - ५७

क्रियेति । केचित् ; पाञ्चरात्रप्रवर्तकेषु केचिदहिर्बुध्न्यादयः । तत्तत्पद-
विषयजुष्टम् ; तत्तत्पदप्रवृत्तिनिमित्तयुक्तम् । तमेव ; मधुविजयिनमेव ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

सङ्कल्पः - भद्र, अप्रत्यूहस्त्वयि भगवत इदानीमनघः प्रसादः । अहमपि तदनुप्लवः । ततश्च,

निरपायमुख्यरागं निजपक्ष निविष्टनित्यहरितत्त्वम् ।

गुणपञ्जरस्थितं त्वां शुकमिव मोक्ष्यामि दिव्यगतियोग्यम् ॥ ५८ ॥

मूलम् - ५८

सङ्कल्पः - भद्र, अप्रत्यूहस्त्वयि भगवत इदानीमनघः प्रसादः । अहमपि तदनुप्लवः । ततश्च,

निरपायमुख्यरागं निजपक्ष निविष्टनित्यहरितत्त्वम् ।

गुणपञ्जरस्थितं त्वां शुकमिव मोक्ष्यामि दिव्यगतियोग्यम् ॥ ५८ ॥

प्रभावली - ५८

तदनुप्लवः ; तदनुचरः । पञ्जरस्थशुकमिव त्वां संसारान्मोचयिष्यामी- त्याह — निरपायेति । निरपायो जगन्मुख्ये रागो यस्य । अन्यत्र मुख्यः मुखसम्बन्धी निरपायो रक्तिमा यस्य । निजपक्षेषु भागवतेषु निविष्टम् अभिनिविष्टं हरिरूपतत्त्वं यस्य । अन्यत्र स्वपत्रे प्रविष्टं हरितवर्णत्वं यस्य । गुणाः ;

X८४८
सत्त्वरजस्तमांसि । तेन त्रिगुणं प्रधानं लक्ष्यते । प्रकृतिपञ्जरस्थितम् । अन्यत्र पाशमयपञ्जरस्थितं शुकमिव दिव्यगतियोग्यं यथा तथा मोक्ष्यामि ॥ ५८ ॥

प्रभाविलासः - ५८

निरपायेति । निरपायः मुख्ये पुरुषोत्तमे रागः प्रीतिर्यस्य सः । पुरुषे व्याससुते च समानमेतत् । कीरे तु — मुखे भवो मुख्यः । रागः रक्तिमा । निजपक्षे ; स्वपक्षे । निविष्टं नित्यहरितत्वम् ; हरिरिति तत्त्वम् । तुल्यमुभयत्रं, “हरिर्देवं शिवो दैवं भास्करो दैवमित्यपि " इति बहुपक्षव्याकुलितं परीक्षितं प्रति हरिरेव तत्त्वमिति निर्णयात् । कीरे तु- निजपक्षयोर्निविष्टं हरितत्त्वं पलाशवर्णत्वम् । गुणाः शमदमादय एव पञ्जरः । यद्वा गुणाः सत्त्वादयः तैः कृतः पञ्जरः शरीरं, तत्र स्थितम् । अन्यत्र गुणाः तन्तवः, तद्रचितः पञ्जरः । दिव्यगतिः ; दिव्या अपुनरावृत्तिर्गतिः
अर्चिरादिः, तस्याः योग्यम् । अन्यत्राकाशगमनम् । शुकमिव व्याससुतमिव, " शुको मुक्तो वामदेवो वा " इति श्रुतेः । अन्यत्र कीरमिव । शुकः कीरे व्याससुते रावणस्य च मन्त्रिणि " इति निघण्टुः ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

शृणु चेदानीमागामिनीमनन्यलभ्यामपवर्गसिद्धिम् -

निर्णिक्तत्रिगुणाञ्जनस्य परमब्रह्मोपसम्पत्तितः

प्रादुर्भूतगुणाष्टकस्य च परं72 साधर्म्यमभ्येयुषः ।

पारावर्यविभागलक्षणपरित्यागप्रसङ्गोज्झिता

शेषादेरिव शेषवृत्तिरपि ते सत्तावधिः सेत्स्यति ॥ ५९ ॥

मूलम् - ५९

शृणु चेदानीमागामिनीमनन्यलभ्यामपवर्गसिद्धिम् -

निर्णिक्तत्रिगुणाञ्जनस्य परमब्रह्मोपसम्पत्तितः

प्रादुर्भूतगुणाष्टकस्य च परं72 साधर्म्यमभ्येयुषः ।

पारावर्यविभागलक्षणपरित्यागप्रसङ्गोज्झिता

शेषादेरिव शेषवृत्तिरपि ते सत्तावधिः सेत्स्यति ॥ ५९ ॥

प्रभावली - ५९

आगामिनीम; चिरभाविनीम् । अपवर्गसिद्धिं विविच्य दर्शयति- निर्णिक्तेति । निर्णिक्तम् ; क्षालितम् । त्रिगुणा ; प्रकृतिः । सैवाञ्जनम् । निर्धूतसूक्ष्मशरीरस्येत्यर्थः । परब्रह्मणः; श्रीवैकुण्ठनिलयस्य उपसम्पत्त्या । प्रादुर्भूतगुणाष्टकस्य ; गुणाः अपहतपाप्मत्वादयः । अत्र " स एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपं सम्पद्य स्वेन रूपेणाभिनिष्पद्यते " इति श्रुत्यर्थो


X८४९
दर्शितः । परमं साधर्म्यम्; " निरञ्जनः परं साम्यमुपैति ” इत्युक्तम् । अभ्ये-

" । युषः ; प्राप्तस्य । जगद्व्यापारवर्जमिति सूत्रितत्वात् परमं साम्यं ज्ञानभोगाभ्यामेवेत्यभिप्रायेणाह - पारावर्येति । पारावर्यविभागः परावरतत्त्वविभागः, स एव लक्षणम् । विभागस्य वा लक्षणं चिह्नं जगद्व्यापारभावाभावौ, तत्परित्याग- प्रसङ्गरहिता । शेषगरुडविष्वक्सेनादीनामिव ते तवापि शेषवृत्तिः कैङ्कर्यं, सत्ता आत्मसत्तेति यावत् यावदात्मसत्तं सेत्स्यति सम्पत्स्यते । यावदात्मभाविनीतिभावः ॥ ५९ ॥

प्रभाविलासः - ५९

निर्णिक्तेति । निर्णिक्तम्; मृष्टम् । त्रिगुणा ; प्रकृतिः । सैव अञ्जनं यस्य । अनेन " निरञ्जनम्” इति श्रुतिप्रतीको विवृतः । परमं साधर्म्यमिति ; " शरवत्तन्मयो भवेत् " " ब्रह्मैव भवति " “ब्रह्मणो महिमानमाप्नोति” “ब्रह्मणः सायुज्यं गच्छति " “परमं साम्यमुपैति " इत्यादिप्रतीका व्याख्याताः । साधर्म्यमेवाह - प्रादुर्भूतेति । गुणाष्टकम् ; अपहतपाप्मत्वादिकम् । आविर्भावःः अभिव्यक्तिः, “स्वेन रूपेणाभिनिष्पद्यते " इति श्रुतेः । प्रादुर्भावे हेतुमाह - परमब्रह्मेति । तेन " परं
ब्रह्मोपसम्पद्य " इत्यवयवो व्याख्यातः । अनेन नैयायिकाद्यभिमतपाषाणकल्पनादिमुक्तिव्यावृत्तिः । पारावर्यविभागस्य परावरभेदस्य यत लक्षणं श्रियः पतित्वशेषित्वशेषत्वादिकं, तस्य परित्यागप्रसङ्गोज्झिता । अनेन शिवसाम्यं स्वातन्त्र्ययुक्तमुक्तिरित्यादिव्यावृत्तिः । शेषादेरिति ; " तद्विप्रासो विपन्यवो जागृवाम्मः समिन्धते " इति श्रुतिविवरणम् । सत्तावधिरिति " सदा पश्यन्ति " इति विवृतम् । अनेन स्वर्गादिव्यावृत्तिः । शेषवृत्तिः; शेषस्य परार्थस्य, परगतातिशयाधानेच्छयोपादेयस्येत्यर्थः । वृत्तिः ; वर्तनम् । " शेषः परार्थत्वात् " इति सूत्रितत्वात् । अनेन कैवल्यव्यावृत्तिः, केवलस्य स्वतन्त्रोपासकत्वात् ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

अपि च,

सुहृदस्तवाददीरन सुकृतफलं यत्त्वया परित्यक्तम् ।

दुष्कृतफलं73 द्विपन्तः प्रारब्धान्ते परं पदं विशतः ॥ ६० ॥

मूलम् - ६०

अपि च,

सुहृदस्तवाददीरन सुकृतफलं यत्त्वया परित्यक्तम् ।

दुष्कृतफलं73 द्विपन्तः प्रारब्धान्ते परं पदं विशतः ॥ ६० ॥

प्रभावली - ६०

किञ्च प्रारब्धान्ते परमपदं प्रविशतस्तव सुहृदः सुकृतस्य फलमाद-

X८५०
दीरन् । द्विषन्तस्तु दुष्कृतस्य फलम् ।

“तत्सुकृतदुष्कृते धूनुते सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्” इति श्रुत्यर्थो दर्शितः ॥ ६० ॥

प्रभाविलासः - ६०

सुहृद इति । " सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् ” इति श्रुतिः ।
अत्र ब्रह्मवित्सुकृतदुष्कृतयोर्निवृत्तिरेव " तत्सुकृतदुष्कृते विधूनुते " इति श्रुतेः । परं तु तत्सौहार्दविद्वेषजनिततत्तुल्यपापाद्युक्तिरभिप्रेता । अन्यथा " शास्त्रफलं प्रयोक्तरि” इति न्यायो भज्येतेति सम्प्रदायः ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

पुरुषःः—- देव, भवत्प्रसादलभ्यां भाविनीमवस्थां प्रतिबुध्य निरूढहर्षा मुक्तकलिर्नृत्यतीव मे बुद्धिः । 74अपुनर्भवस्तु भविष्यति न वेति सन्दिहानमानसो75 भृशं दूये कथं कल्पितोऽहमिति ।

वितमसि पदे लक्ष्मीकान्तं विचित्रविभूतिकं

सचिवगमितः सम्पद्याविर्भवत्सहजाकृतिः । स्फुटतदपृथक्सिद्धिः सिध्यद्गुणाष्टक तत्फलो

रभिप्रेता ।

भजति परमं साम्यं भोगे निवृत्तिकथोज्झितम् ॥ ६१ ॥

मूलम् - ६१

पुरुषःः—- देव, भवत्प्रसादलभ्यां भाविनीमवस्थां प्रतिबुध्य निरूढहर्षा मुक्तकलिर्नृत्यतीव मे बुद्धिः । 74अपुनर्भवस्तु भविष्यति न वेति सन्दिहानमानसो75 भृशं दूये कथं कल्पितोऽहमिति ।

वितमसि पदे लक्ष्मीकान्तं विचित्रविभूतिकं

सचिवगमितः सम्पद्याविर्भवत्सहजाकृतिः । स्फुटतदपृथक्सिद्धिः सिध्यद्गुणाष्टक तत्फलो

रभिप्रेता ।

भजति परमं साम्यं भोगे निवृत्तिकथोज्झितम् ॥ ६१ ॥

प्रभावली - ६१

त्वयोक्तां भाविनीं दिव्यावस्थां ज्ञात्वा मच्चेतोवृत्तिर्नृत्यन्तीव भातीत्याह - भवदिति । निरूढहर्षा ; प्राप्तहर्षा । कलिशब्देन कलिधर्माः कामादय उच्यन्ते । मुक्तः कलिः यया सा । अपुनर्भवस्तु; पुनर्भवाभावस्तु । दूये; परितपामि । इह ; पुनर्जन्माभावे । कथं कल्पितः ; पुनर्जन्मरहितत्वेन कल्पितो वा पुनर्जन्म- सहितत्वेन वेति । वित्तमसीति । रजस्तमोभ्यां रहिते पदे वैकुण्ठे । विचित्राः विभूतयो यस्य तं लक्ष्मीकान्तं सचिवैः आतिवाहिकैः गमितः सम्पद्य परं ज्योतिरुपेत्य प्रकाशमानसहजाकृतिः स्फुटः करतलामलकवत् प्रत्यक्षितः

.

X८५१
तदविनाभावो येन सः । सिध्यत् प्रादुर्भवत् गुणाष्टकम् अपहतपाप्मत्वादिकं तदात्मकं तत्फलं तदपृथक्सिद्धिदर्शनेन तत्फलत्वेन गुणाष्टकमपि सिध्यत्येवेत्यर्थः । भोगे; परिपूर्णब्रह्मानुभवरूपे । परमात्मना परमं साम्यम् । कीदृशम् ? निवृत्तिकथा ; पुनर्जन्मप्रसङ्गः । तद्रहितं नित्यमित्यर्थः ॥ ६१ ॥

प्रभाविलासः - ६१

कलिः ; पापम् । वितमसीति । सचिवगमितः ; अचिराद्यति-

वाहितः ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२


ततश्च यद्यहमभिज्ञातुमर्हामि तदा ज्ञापयितुमभिवाञ्छामि ।

सङ्कल्पःः— भद्र, कथं नु भवते प्रदित्सितस्वाराज्याय सिद्धं

न संवेद्यते76 ?-

अवताररहस्यतत्त्ववेदी विबुधग्रामटिकासु77 वीतरागः ।

अपुनर्भवनेन निर्व्यपायं78 प्रतिगन्तासि परं पदं त्रिधाम्नः ॥ ६२ ॥

मूलम् - ६२


ततश्च यद्यहमभिज्ञातुमर्हामि तदा ज्ञापयितुमभिवाञ्छामि ।

सङ्कल्पःः— भद्र, कथं नु भवते प्रदित्सितस्वाराज्याय सिद्धं

न संवेद्यते76 ?-

अवताररहस्यतत्त्ववेदी विबुधग्रामटिकासु77 वीतरागः ।

अपुनर्भवनेन निर्व्यपायं78 प्रतिगन्तासि परं पदं त्रिधाम्नः ॥ ६२ ॥

प्रभावली - ६२

एवमुक्तपुनर्जन्माभावेऽहं कथं कल्पित इत्येतदर्थज्ञापने मम योग्यतास्ति चेत् मत्पक्षे ज्ञापयितुमिच्छामि । त्वया ज्ञापयितव्योऽहम् । प्रदित्सितस्वाराज्याय भवते सिद्धिः कथं न संवेद्या ? संवेद्यैव । अपुनर्भवे ते सन्देहो मास्त्वित्याह । पृष्टमर्थं संवेदयितुमुपक्रमते - अवतारेति । अवताररहस्यतत्त्वम् ; अवतारस्य सत्यत्वम्, अजहत्स्वभावता, शुद्धत्वं, सनिदानता, धर्मग्लानिनिवृत्त्यर्थता, इत्येवमादितत्त्ववेदी । विबुधानां ब्रह्मरुद्रादिदेवानां ग्रामेषु वीतरागः सन्

X८५२
पुनर्जन्माभावेन निर्व्यपायं त्रिधाम्नः भगवतः परमं पदम् एतद्देहावसान एवावश्यं गमिष्यसि ॥ ६२ ॥

प्रभाविलासः - ६२

अवतारेति । रहस्यतत्ववेदी ; " यो जातमस्य महतो महि ब्रवात् " जन्म कर्म च मे दिव्यम् " इति महिदिव्यशब्दौ विवृतौ । विबुधग्रामटिकासु ; पारमेष्ठ्यादिषु । तदुक्तम्-

“न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीर पुनर्भवं वा मय्यर्पितात्मेच्छति मां विनान्यत् ॥” इति । त्रिधाम्नः; त्रीणि क्षीरोदभानुमण्डलौपेन्द्राणि धामानि यस्य तस्य । तदुक्तम्—
“ क्षीरोदो मण्डलं भानोरौपेन्द्रं च तथा दिवि ।

त्रीणि धामानि मे सन्ति त्रिधामाहमिति स्मृतः ॥ "

इति ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

श्रद्धस्व चैनमपि सत्यवाचो मे सशपथं व्याहारम्

स्वसेवा सार्वभौमत्वं भवते परमात्मना ।

विवेकस्य च वीरस्य यौवराज्यं प्रदित्सितम् ॥ ६३ ॥

मूलम् - ६३

श्रद्धस्व चैनमपि सत्यवाचो मे सशपथं व्याहारम्

स्वसेवा सार्वभौमत्वं भवते परमात्मना ।

विवेकस्य च वीरस्य यौवराज्यं प्रदित्सितम् ॥ ६३ ॥

प्रभावली - ६३

इदमन्यदपि मे भाषितं श्रद्वत्स्वेत्याह- श्रद्धत्स्वेति । श्रद्धत्स्व ; विश्वसिहि । एनं शपथसहितं व्याहारम् ; वचनम् । तत्किमित्यत्राह - स्वसेवेति । परमात्मना स्वसेवायाः सार्वभौमत्वम् एकाधिपत्यं तुभ्यं प्रदित्सितम् । महामोहविजयिनो विवेकस्य च स्वसेवाविषयं यौवराज्यं प्रदित्सितम् । परमपदे निवेकमहितस्त्वं भगवत्सेवाम्प्राप्स्यसीति भाव ॥ ६३ ॥

प्रभाविलासः - ६३

स्व सेवेति । अत्र पुरुषविवेकयोर्बहुमानप्रतीतेर्भाषाख्यं निर्वहणसन्धेरङ्गमुक्तम, " बहुमानादिसम्प्राप्तिर्भाषेति परिकीर्तिता” इति लक्षणात् ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

अपि च,

मुक्तस्त्वं सकृदेव साम्प्रतमितः प्रागुत्तरैः कर्मभिः

प्रत्यक्षाल्परसं परित्यज न वा प्रारब्धभोगं प्रियम् ।

अस्माभिः पुनरादिपूरुषदया देवी कृतप्रेक्षणै79-

स्त्वद्वृत्तान्तसतत्त्वविज्ञपनतः सिद्धोत्सवा सेव्यते ॥ ६४ ॥

मूलम् - ६४

अपि च,

मुक्तस्त्वं सकृदेव साम्प्रतमितः प्रागुत्तरैः कर्मभिः

प्रत्यक्षाल्परसं परित्यज न वा प्रारब्धभोगं प्रियम् ।

अस्माभिः पुनरादिपूरुषदया देवी कृतप्रेक्षणै79-

स्त्वद्वृत्तान्तसतत्त्वविज्ञपनतः सिद्धोत्सवा सेव्यते ॥ ६४ ॥

प्रभावली - ६४

सञ्चितानां कर्मणामानन्त्यात् कथं सशपथं व्याहृतवानसीत्यत्राह- अपिचेत्यादिना । मुक्त इति । इतः प्रागुत्तरैः कर्मभिः प्राक्कर्मभिः पूर्वाघैः,

X८५३
उत्तरकर्मभिः उत्तराघैः सकृदेव ; एककाल एव । त्वं साम्प्रतं मुक्तः । एवं सर्वपापविमोकात् मया सशपथं व्याह्रियत इति भावः । अनेन " अश्व इव रोमाणि विधूय पापम्” इति श्रुत्यर्थो दर्शितः । प्रत्यक्षतः अल्परसम् । अथापि पूर्ववासनया आपाततः प्रियम् । प्रारब्धभोगम् ; प्रारब्धकर्मप्रयुक्त फल- भोगं, सुखानुभवमित्यर्थः, दुःखानुभवस्य प्रियत्वाभावात् । तं परित्यज्य वा न वा प्राग्भोगानामपरित्यागेऽपि न दोष इति भावः । एवं पुरुषस्य हितोपदेशं स्वकर्तत्र्यं दर्शयति - अस्माभिरिति । पुनः शब्दत्वर्थः । देवी; आश्रित- संरक्षणेन क्रीडन्ती आदिपुरुपस्य दया । कृतप्रेषणैः; अनुशासनैः । त्वद्वृत्तान्त सतन्त्र विज्ञपनतः; त्वद्वृत्तान्तस्य सतत्त्वं याथात्म्यं तद्विज्ञापनात् यथार्थविज्ञापनात् । एवं पुरुषस्य मोक्षो जात इति निवेदनात् सिद्धोत्सवा ; सम्पन्नहर्षेत्यर्थः । अस्माभिः सेव्यते । देव्याः सेवार्थमस्माभिर्गम्यत इत्यर्थः ॥ ६४ ॥

प्रभाविलासः - ६४

मुक्त इति । परित्यज न वेति ; आर्तदृप्तविभागादेवमुक्तिः ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

तदामन्त्रयामि भवन्तम् (इति द्वित्रिपदमतिकम्य) विद्यासन्तत्यविच्छेदाय

जगति 80विख्यापयामि किञ्चित् -

भगवति निहितात्मा भागधेये श्रुतीनां

पुरुष इह महात्मा वर्तते भूतधात्र्याम् ।

तदयमवदधानैः सर्वमन्तेवसद्भिः

पृथुमतिभिरभीष्टं पृच्छयतां विश्वदशीम् ॥ ६५ ॥

मूलम् - ६५

तदामन्त्रयामि भवन्तम् (इति द्वित्रिपदमतिकम्य) विद्यासन्तत्यविच्छेदाय

जगति 80विख्यापयामि किञ्चित् -

भगवति निहितात्मा भागधेये श्रुतीनां

पुरुष इह महात्मा वर्तते भूतधात्र्याम् ।

तदयमवदधानैः सर्वमन्तेवसद्भिः

पृथुमतिभिरभीष्टं पृच्छयतां विश्वदशीम् ॥ ६५ ॥

प्रभावली - ६५

प्रभावली तस्मात् । अयं विश्वदर्शी अवदधानैः अन्तेवसद्भिः शिष्यैः पृच्छ्यतां प्रष्टव्यः ॥ ६५ ॥

प्रभाविलासः - ६५

भगवतीति । श्रुतीनां भागधेये भगवति निहितात्मा न्यस्तमनाः पुरुषः इह भूतधात्र्यां वर्तते । अभीष्टं वेदान्तरहस्यं पृच्छयताम् । अन्यथा वेदान्तसम्प्रदायविच्छेदः स्यादित्यर्थः ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

(इति पुरुषं परिवृत्य पश्यन्निष्क्रान्तः )
पुरुषः - ( सहर्षम् ) प्रत्यक्षितप्रभावा मयीदानीं विश्रुतपूर्वा विश्वकर्तुरघटितघटनाशक्तिः, यदहमनन्तापराध81 सन्ततोऽप्यपवर्गहेतुना प्रसादेन परिगृहीतोऽस्मि । किञ्च,

यदि पुरा पुराणपुरुषेण बहिष्करणात्

प्रमितविरुद्धवृत्ति विषमं प्रचचार बहिः ।

तदिदमही तमेकमनुभूय रसातिशयात्

स्वपिति मनो मदीयमवलिम्पति मुह्यति वा ॥ ६६ ॥

मूलम् - ६६

(इति पुरुषं परिवृत्य पश्यन्निष्क्रान्तः )
पुरुषः - ( सहर्षम् ) प्रत्यक्षितप्रभावा मयीदानीं विश्रुतपूर्वा विश्वकर्तुरघटितघटनाशक्तिः, यदहमनन्तापराध81 सन्ततोऽप्यपवर्गहेतुना प्रसादेन परिगृहीतोऽस्मि । किञ्च,

यदि पुरा पुराणपुरुषेण बहिष्करणात्

प्रमितविरुद्धवृत्ति विषमं प्रचचार बहिः ।

तदिदमही तमेकमनुभूय रसातिशयात्

स्वपिति मनो मदीयमवलिम्पति मुह्यति वा ॥ ६६ ॥

प्रभावली - ६६

स्वस्य सिद्धिविशेषदर्शनात् सहर्षम् । विश्रुतपूर्वा ; पूर्व विश्रुता । प्रत्यक्षितत्वे लिङ्गान्तरमप्याह - यदिति । इह ; जगति । यदिदं मनो मदीयं पुरा पूर्वकाले सर्वत्र । पुराणपुरुषेण बहिष्कृतत्वात् प्रमितविरुद्धवृत्ति; भगवत्स्वरूपादिषु यत्प्रमितं प्रमाणविषयं तद्विरुद्वबहिर्विषये वृत्तिर्यस्य तत् । विषमं दुष्टं सत् विपरीतं यथा तथा । बहिर्विषय एव प्रचचार । तदिदं मनः तं पुराणपुरुषम् एकमेवानुभूय रसातिशयात् स्वपिति वा ; परवशतया स्थितत्वात् । अवलिम्पति ; गर्वायते वा औद्धत्यात् । मुह्यति वा ; अनिश्चेष्टत्वात् । मया न ज्ञायत इति भावः ॥ ६६ ॥

प्रभाविलासः - ६६

अवरोधाःः विघ्नाः । यदिहेति । यत्; मनः । इह ; भुवि ।

; पुरा पूर्वम् । पुराणपुरुषेण बहिष्करणात् प्रमितविरुद्धवृत्ति; शास्त्र- निषिद्धाचारवत् । विषमं यथा तथा बहिः विषयेषु प्रचचार । तदिदम् ; मनः । एकम् ; समाभ्यधिकरहितम् । तम् ; पुराणपुरुषम् । अनुभूय रसातिशयात् ; आनन्दातिशयपारवश्यादित्यर्थः । अवलिम्पति ; गर्वमुपयाति ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

अपरमपि विचित्रमेतदनुभवामि —

अन्येषामजहत्त्रिवर्गमनसामायुः क्षयत्रासदै-

रप्रत्यूहगतिक्रमैरवितथव्यापारधन्यस्य मे ।

भ्रश्यद्भिर्दिवसैः 82प्रवृद्धवृजिनाकूपारपारीभवन्

प्रत्यासीदति मुक्तिवासर इति प्रीतिः प्रतिष्ठाप्यते ॥ ६७ ॥

मूलम् - ६७

अपरमपि विचित्रमेतदनुभवामि —

अन्येषामजहत्त्रिवर्गमनसामायुः क्षयत्रासदै-

रप्रत्यूहगतिक्रमैरवितथव्यापारधन्यस्य मे ।

भ्रश्यद्भिर्दिवसैः 82प्रवृद्धवृजिनाकूपारपारीभवन्

प्रत्यासीदति मुक्तिवासर इति प्रीतिः प्रतिष्ठाप्यते ॥ ६७ ॥

प्रभावली - ६७

विद्यायाः सन्ततिः; सम्प्रदायः । तदविच्छेदाय । जगति ; जगद्विषये निवेदयामि । भगवतीति । श्रुतीनां भागधेये; प्रतिपाद्ये इत्यर्थः । एतत्प्रतिपादनाभावे तासामपार्थत्वापत्तेर्भागधेयत्वोक्तिः । निहितात्मा; न्यस्तात्मभरः । अत एव महात्मा पुरुषोऽयमिह समीपे भूतधात्र्यां भूम्यां वर्तते । तत्;

X८५४
अन्येषामिति । अवितथव्यापारैः पाञ्चकालिकधर्मैः क्रियमाणैः धन्यस्य मे । भ्रश्यद्भिः दिनैः । कीदृशैः ? अजहत्त्रिवर्गमनसाम् अन्येषाम्, आयुः क्षीयते, मरणानन्तरं किं भविष्यतीति भीतिं वर्धयद्भिः । निष्प्रत्यूहः अपरिहार्यो गतिक्रमो येषां तैः । गतिक्रमैः हेतुभिः प्रवृद्धः संसारः, तेन जातं यद्वृजिनं पापं तद्रूपस्य अकूपारस्य तीरायमाणो मुक्तिवासरः प्रत्यासीदतीति प्रीतिः प्रतिष्ठाप्यते ॥ ६७ ॥

प्रभाविलासः - ६७

X८५५

अन्येषामिति । अवितथव्यापारः । अभिगमनादिव्यापारः । प्रीतिः

सन्तोषः प्रतिष्ठाप्यते । अत्र

" प्रायशः पापकारित्वान्मृत्योरुद्विजते जनः ।

कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥

इत्यादिकमनुसन्धेयम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

इदमपि च महत्तरं प्रीतिकारणम् ; यदेतत् —

दहरकुहरे देवस्तिष्ठन्निषद्वरदीर्घिका-

निपतितनिजापत्यादित्सावतीर्णपितृक्रमात् ।

धमनिमिह नस्तस्मिन्काले स एव शताधिका-

मकृतकपुरप्रस्थानार्थ प्रवेशयति प्रभुः ॥ ६८ ॥

मूलम् - ६८

इदमपि च महत्तरं प्रीतिकारणम् ; यदेतत् —

दहरकुहरे देवस्तिष्ठन्निषद्वरदीर्घिका-

निपतितनिजापत्यादित्सावतीर्णपितृक्रमात् ।

धमनिमिह नस्तस्मिन्काले स एव शताधिका-

मकृतकपुरप्रस्थानार्थ प्रवेशयति प्रभुः ॥ ६८ ॥

प्रभावली - ६८

इदमपि महत्तरं प्रीतिकारणम् । तत्किमित्यत्राह - यदेतदिति । दहर-

X८५६
कुहरे ; हृदयगुहायाम् । निषद्वरदीर्घिका ; पङ्कह्रदः । तत्र निपतितस्य निजपुत्रस्य आदित्सार्थम् उद्धरणार्थम् अवतीर्णो यः पिता, तन्न्यायेन ।

कुम्भकोणस्थ कृष्णाचार्य प्रकाशिते महाभारतपुस्तके १६४ तमोऽध्यायः ।

    X८५७  

दहरकुहरे तिष्ठन् देवः तस्मिन् काले अकृतकपुर प्रस्थानार्थम् इह शरीरे शताधिकां धमनीम् एकशततमीं सुषुम्नाख्यनाडीं नः प्रवेशयति ॥ ६८ ॥

प्रभाविलासः - ६८

" तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया” इति सूत्रार्थमनुसन्धत्ते - दहरेति ।
दहरकुहरे ; दहराख्यहृदयगुहायाम् । अनेन ’ तदोकः’ इति प्रतीको विवृतः । देव इति हार्दपदं विवृतम् । तिष्ठन्निति उपासकेनोपास्तिः । अनेन विद्यासामर्थ्यादिति पदं विवृतम् । निषद्वरेत्यादिना तत्प्रकाशितद्वार इति पदं विवृतम् । निषद्वरस्तु जम्बालः । धमनिम् ; नार्डी सुषुम्नाम् । शताधिकां प्रवेशयतीति अनुगृहीतपदं विवृतम् । अत्र

" शतं चैका च हृदयस्य नाड्य -

स्तासां मूर्धानमभि निःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति

विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥”

इति श्रुतिर्भाव्या। अकृतकपुरेति त्रिगुणवहिर्भूतमक्षरादिपदवाच्यं स्थानमुच्यते । तदुक्तमारण्यके पर्वणि त्रिषष्टितमेऽध्याये83

“यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं पराम् ।

अनादिनिधनं देवं प्रभुं नारायणं परम् ॥

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।

अपि देवा न गच्छन्ति दिवि तेजोमयं शुभम् ॥

अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।

स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥

तद्वै ज्योतींषि सर्वाणि प्राप्य नो भान्ति तेजसा ।

स्वयम्प्रभुरदीनात्मा यत्र ह्यतिविराजते ॥”
यतयस्तत्र गच्छन्ति भक्ता नारायणं हरिम् । परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥ योगसिद्धो महात्मानस्त मोमोहविवर्जिताः । तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥ स्थानमेतन्महाभाग ध्रुवमक्षरमव्ययम् । ईश्वरस्य सदा तत्प्राणिकर्तुर्युधिष्ठिर ॥

इति ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

अधिगतं च महदिदानीमस्माभिरैश्वर्यम् । तथा हि-

प्रत्यूहानवधीद्विवेकसुभटो युद्धेषु बद्धेषुधि-

स्तद्भूम्नैव हता धियस्तरलता सम्भूय सा भूयसा ।

प्रत्यक्षागमयुक्तिभिः प्रणिहितत्रित्वेषु तत्त्वेष्वमी

लक्ष्यालक्ष्यगुणेषु 84लब्धधिषणोत्सेधाः समेधामहे ॥ ६९ ॥

मूलम् - ६९

अधिगतं च महदिदानीमस्माभिरैश्वर्यम् । तथा हि-

प्रत्यूहानवधीद्विवेकसुभटो युद्धेषु बद्धेषुधि-

स्तद्भूम्नैव हता धियस्तरलता सम्भूय सा भूयसा ।

प्रत्यक्षागमयुक्तिभिः प्रणिहितत्रित्वेषु तत्त्वेष्वमी

लक्ष्यालक्ष्यगुणेषु 84लब्धधिषणोत्सेधाः समेधामहे ॥ ६९ ॥

प्रभावली - ६९

अथ पुरुषः स्वस्यैहिकमैश्वर्य सिद्धमित्याह - प्रत्यूहानिति । विवेकवीरः प्रत्यूहान् हतवान् । कथम् ? युद्धेषु पृष्ठे बद्धनिषङ्गः सन् । भूयसा तद्भूम्ना ; विवेकमहिम्ना । बुद्धेः तरलता सम्भूय हता; निवर्तिता । प्रत्यक्षश्रुत्यनुमानैः यथा- सम्भवं प्रणिहितत्रित्वेषु साधितं त्रित्वं येषां तेषु । ’ इदमहं जानामि ’ इति

X८५८
प्रत्यक्षेण “भोक्ता भोग्यम्” इति श्रुत्या च चिदचित्तत्त्वे साधिते । ईश्वरतत्त्वं त्वागमेनैवेति भावः । युक्तिभिः; प्रमाणानुग्राहकैस्तत्त्वमुक्ताकलापादिषु प्रपञ्चितै- स्तर्कैः । लक्ष्यालक्ष्यगुणेषु चिदचितोर्गुणा लक्ष्याः ; ईश्वरस्य गुणास्त्वलक्ष्याः । लब्धः धिषणाया उत्सेध औन्नत्यं सर्वविषयता येषां ते ।

अमी वयं समेधामहे ; वृद्धिं प्राप्ताः स्मः ॥ ६९ ॥

प्रभाविलासः - ६९

प्रत्यूहानिति । प्रत्यूहान् ; योगान्तरायान् कामादीन् । इषुधिः ;

निषङ्गः । तरलता ; चाञ्चल्यम् । भूयसा बहुलेन । प्रत्यक्षम् ; घटमहं

जानामीति । आगमः ;

“भोक्ता भोग्यं प्रेरितारं च मत्वा” इत्यादि । युक्तिः ; भोक्त्रनङ्गीकारेऽचेतनस्य शरीरस्य भोक्तृत्वानुपपत्तिरित्यादिका ।
प्रणिहितत्रित्वेषु निश्चित त्रित्वसङ्ख्यावत्सु । तत्त्वेषु ; चिदचिदीश्वरेषु । धिषणोत्सेधः ; ज्ञानौन्नत्यम् । समेधामहे; वर्षामहे ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

अपि च निरन्तरमन्तरात्मानुभवरसमीश्वराज्ञानुवर्तनप्रीतिं च यावज्जीवमनुपालयतो मे नित्यसन्निहितैव नैःश्रेयसी सिद्धिः । तदेतद्- खिलं यन्मुखेन मया समधिगतं तमसहायवीरं विवेकं विचित्रमहिमशालिनीं85 विष्णुभक्तिं चामोघवाञ्छितः सन्द्रष्टुमिच्छामि । अत्र चैतौ तुलसीवननिवासिनीं द्वादशीमुपसेवमानौ नूनमुपस्थास्येते । यावदिमावुपसर्पामि ।

(ततः प्रविशति विवेकः सुमतिर्विष्णुभक्तिश्व )

विष्णुभक्तिः - महाराज, दिष्ट्या त्वया जिताः शत्रवः । पुरुषश्चाशेषविकृतिप्रसूत्या प्रकृत्या अनिदम्प्रथमबम्भ्रम्यमाणगर्भजन्म-
जरामरणादिचक्रयन्त्रमारोप्य क्रीडन्त्या निपीड्यमानो निवृत्तिधर्मप्रभृतिनिश्रेणिकाक्रमेण निःश्रेयसप्रासादसमारोहणाय नियोजितः । अहो नु खलु भवन्तमनवधिक86वैभवमवधारयामि ।

महासत्त्वोदारस्थिरमधुरगम्भीरहृदयः

कृपोत्साहोत्तुङ्गः कृतविदभिगम्यः प्रणयिनाम् ।

श्रुतप्रज्ञामेधास्मृतिजलधिरक्षुद्रचरित-

स्त्वमेकः सर्वासामनघभणितीनामभिमतः ॥ ७० ॥

मूलम् - ७०

अपि च निरन्तरमन्तरात्मानुभवरसमीश्वराज्ञानुवर्तनप्रीतिं च यावज्जीवमनुपालयतो मे नित्यसन्निहितैव नैःश्रेयसी सिद्धिः । तदेतद्- खिलं यन्मुखेन मया समधिगतं तमसहायवीरं विवेकं विचित्रमहिमशालिनीं85 विष्णुभक्तिं चामोघवाञ्छितः सन्द्रष्टुमिच्छामि । अत्र चैतौ तुलसीवननिवासिनीं द्वादशीमुपसेवमानौ नूनमुपस्थास्येते । यावदिमावुपसर्पामि ।

(ततः प्रविशति विवेकः सुमतिर्विष्णुभक्तिश्व )

विष्णुभक्तिः - महाराज, दिष्ट्या त्वया जिताः शत्रवः । पुरुषश्चाशेषविकृतिप्रसूत्या प्रकृत्या अनिदम्प्रथमबम्भ्रम्यमाणगर्भजन्म-
जरामरणादिचक्रयन्त्रमारोप्य क्रीडन्त्या निपीड्यमानो निवृत्तिधर्मप्रभृतिनिश्रेणिकाक्रमेण निःश्रेयसप्रासादसमारोहणाय नियोजितः । अहो नु खलु भवन्तमनवधिक86वैभवमवधारयामि ।

महासत्त्वोदारस्थिरमधुरगम्भीरहृदयः

कृपोत्साहोत्तुङ्गः कृतविदभिगम्यः प्रणयिनाम् ।

श्रुतप्रज्ञामेधास्मृतिजलधिरक्षुद्रचरित-

स्त्वमेकः सर्वासामनघभणितीनामभिमतः ॥ ७० ॥

प्रभावली - ७०

ममात्रैव नैःश्रेयसी सिद्धिः सिद्धेत्याह - निरन्तरमिति । निरन्तरपरमात्मानुभवरसं तदाज्ञानुवर्तनप्रीतिं च । यन्मुखेन ; यद्द्वारेण । अमोघवाञ्छितः अहम् । तुलसीवनवासिनीं द्वादशीम् ; तुलसीवनप्रिया द्वादशी, तुलस्यां द्वादश्याः स्थितत्वेन तुलसीमाहात्म्ये दर्शनात् । उपस्थास्येते; आगमिष्यतः; सेविष्येते वा ; मयेति शेषः । इमौ ; विष्णुभक्तिविवेकौ । उपसर्पामीति यावद्वदति तावत् । ततः प्रविशतीत्यादि । विवेकं प्रशंसति - दिष्ट्येति । अशेषा विकृतयः महदादयः ।

     X८५९  

अनिदम्प्रथमम् ; अनादिकालमारभ्य । निश्रेणिकान्यायेन मोक्षसौधसमारोहणाय प्रेरितः । अनवधिकवैभवमेव दर्शयति– महासत्वेति । महत् सत्त्वं सत्त्वगुणः यस्य तत् । उदारम्; विपुलम् । स्थिरम् ; अचञ्चलम् । मधुरम्; मनोहरम् । गम्भीरं हृदयं यस्य । कृपया उत्साहेन च उन्नतः । कृतवित्; कृतज्ञः । प्रणयिनां स्निग्धानां सुप्रापः । श्रुतम् ; शास्त्रश्रवणम् । प्रज्ञा ; तज्जनितं ज्ञानम् । मेधा ; धारणा । स्मृतिः; स्मरणम् । एतासां जलधिः । अक्षुद्रचरितः ; उज्जीवकसमाचार इति । अनघभणितीनाम्; श्रुतिस्मृतिवचसाम् । अभिमतः ; प्रतिपाद्य इत्यर्थः ॥ ७० ॥

प्रभाविलासः - ७०

महासत्त्वेति । श्रुतम् ; श्रवणम् । अनघभणितीनाम् ; श्रुती-

नाम् ॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

अपि च,

धीरोदात्तानुकूलोत्तमगुणमहिमा नायकेष्वग्रणीस्त्वं

स्वाधीनत्वत्सनाथा सुमतिरभिमता धर्मपत्नी तवासौ ।

स्वायत्ता चाद्य सिद्धिः समजनि भवतः87 स्वामिनिःश्रेयसार्था

रामस्त्वं च त्रिलोक्यां ‘88रणविहृतिमुखैरप्रधृष्यानुभावौ ॥ ७१ ॥

मूलम् - ७१

अपि च,

धीरोदात्तानुकूलोत्तमगुणमहिमा नायकेष्वग्रणीस्त्वं

स्वाधीनत्वत्सनाथा सुमतिरभिमता धर्मपत्नी तवासौ ।

स्वायत्ता चाद्य सिद्धिः समजनि भवतः87 स्वामिनिःश्रेयसार्था

रामस्त्वं च त्रिलोक्यां ‘88रणविहृतिमुखैरप्रधृष्यानुभावौ ॥ ७१ ॥

प्रभावली - ७१

पुनः स्तौति — धीरेति । धीरः ; अनुद्विग्नः । उदात्तः; गम्भीरः ः । '

X८६०
अनुकूलः हितकारी । उत्तमः गुणमहिमा यस्य सः । धीरोदात्तादिनायकेष्वग्रणीः त्वम् । धीरोदात्तः धीरोद्धतः धीरशान्तः धीरललितश्चेति चत्वारो नायकाः । तवाभिमता धर्मपत्नयसौ सुमतिः स्वाधीनेन त्वया सनाथा । स्वामिनिः श्रेयसार्था; स्वामी पुरुषः, तन्मोक्षप्रयोजना । समाधिसिद्धिः अद्य भवतः स्वाधीना । स्वशब्देन पुरुषो गृह्यते । समजनि; जाता । अतो दशरथ- रामस्त्वं च रणविहाराग्रभागेषु परैः अधृष्यपराक्रमौ । रामोऽपि धीरोदात्ततया प्रसिद्धः चतुर्विधेषु नायकेष्वग्रणीश्च । धर्मपत्नी सीता च स्वाधीना तदेकसनाथा । स्वामी पिता । तस्य निःश्रेयसार्था सिद्धिः । तेन स्वाधीना कृता च ॥ ७१ ॥

प्रभाविलासः - ७१

धीरेति । धीरत्वम् ; व्यसनेष्वनुद्विग्नत्वम् । उदात्तत्वम् ; विभूत्या-
शय महत्त्वम्आशयस्य विभूतेर्वा यन्महत्त्वमनुत्तमम् । उदात्तं नाम तं प्राहुः " इत्युक्तत्वात् । नायकाः ; धीरोदात्तधीरोद्धतधीरललितधीर- शान्तादयः । तल्लक्षणं विद्यानाथेनोक्तम्-

" “महासत्त्वोऽतिमम्भीरः कृपावानविकत्थनः ।

धीरो निगूढाहङ्कारो धीरोदात्तः स उच्यते ॥

दर्पसामर्थ्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः ।

मायावी सुलभक्रोधः स धीरोद्धत उच्यते ।

निश्चिन्तो धीरललितः कलासक्तः सुखैकभूः ।

धीरशान्तः प्रसन्नात्मा धीरः शान्तो द्विजोत्तमः ।

एकायत्तोऽनुकूलः स्यात्तुल्योऽनेकत्र दक्षिणः ।

दृष्टापचारो धृष्टः स्याद् गूढ विप्रियकृच्छठः ॥”

इत्यादिना । तेष्वग्रणीरिति ; धीरोदात्तः । तस्याग्रणीत्वं प्रबन्धव्यापि फलभागित्वात् । तदुक्तं रत्नापणे - " नयति प्राप्नोतीति नायक इति व्युत्पत्त्या प्रबन्धव्यापिफलवानिति विशेषो द्रष्टव्यः " इति । अत एव धीरोदात्त नायकमुद्धताद्युपनायकं नाटकम् " इति चन्द्रिकायामुक्तम् । स्वामिनः पुरुषस्य निःश्रेयसम् अर्थः प्रयोजनं यस्याः सा ॥ ७१ ॥

विश्वास-प्रस्तुतिः - ७२

X८६१

राजा - महाप्रभावे, सर्वमिदं त्वत्प्रसादप्रसूतमेव ।" भक्त्यात्वनन्यया" इति भगवतैव गीयते । (विचिन्त्य) अद्यापि न

प्रकृत्या पुरुषः परित्यक्तः । नापि चासौ,

ज्वलन दिवसज्योत्स्नापक्षोत्तरायणवत्सरान्

पवनतपनप्रालेयांशून्क्रमादचिरद्युतिम् ।

89जलचरपतिं देवाधीशं प्रजापतिमागत-

स्तरति विरजां दूरे वाचस्ततः परमद्भुतम् ॥ ७२ ॥

मूलम् - ७२

X८६१

राजा - महाप्रभावे, सर्वमिदं त्वत्प्रसादप्रसूतमेव ।" भक्त्यात्वनन्यया" इति भगवतैव गीयते । (विचिन्त्य) अद्यापि न

प्रकृत्या पुरुषः परित्यक्तः । नापि चासौ,

ज्वलन दिवसज्योत्स्नापक्षोत्तरायणवत्सरान्

पवनतपनप्रालेयांशून्क्रमादचिरद्युतिम् ।

89जलचरपतिं देवाधीशं प्रजापतिमागत-

स्तरति विरजां दूरे वाचस्ततः परमद्भुतम् ॥ ७२ ॥

प्रभावली - ७२

अद्यापि प्रकृत्या न परित्यक्तः । नाप्यचिरादिना प्राप्तश्चेत्याह –

जलचर-

X८६२

पतिम् ; वरुणम् । देवाधीशम्; इन्द्रम् । विरजां न तरति । ततः वाचां दूरे

X८६३
स्थितं परमपदमपि न प्राप्नोति । नापीत्रत्यनञ् इह सम्बन्धः ॥ ७२ ॥

प्रभाविलासः - ७२

ज्वलनेति । ज्वलनः ; अर्चिः । दिवसः ; अहः । ज्योत्स्नापक्षः ; शुक्लपक्षः । अत्रेयं श्रुतिः - “ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदु च

। नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडु- दङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्यतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तेनावर्तन्ते " इति । नन्वत्र श्रुतावनुपात्तस्य वायोः लोके कथमुपादानमिति चेत्; उच्यते - " यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति " इति बृहदारण्यकोक्तस्य वायोरुपसंहारस्य न्यायप्राप्तत्वादुपादानमिति । नन्वथापि वत्सरानन्तरमुपादाने किं निमित्तमिति चेत्, उच्यते - " स वायुमागच्छति तस्मै स विजिहीर्षते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति " इत्यादित्यात्पूर्वं निवेशितत्वात् । ननु तर्हि ‘संवत्सरादादित्यम्’ इत्यादित्यात्पूर्वं संवत्सरनिवेशो युक्त इति चेत्; सत्यम् – उभयोः
प्राप्तावपि पूर्वत्र शुक्लपक्षप्रभृतीनां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात् संवत्सरस्यैव मासानन्तरं बुद्धयारोहेण संवत्सर निवेशे आदित्यस्याव्यवधानेन वायोर्निवेश इति । " अथ य एतं देवयानं पन्थानमापद्याग्नेर्लोकमागच्छति स वायुलोकम्" इत्यग्निलोकशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयस्त्वादादि- त्यात्पूर्वं प्रवेशो निश्चीयत इति शारीरकभाष्य एव व्यक्तम् । ननु " मासेभ्यो देवलोकं देवलोकादादित्यम्" इति बृहदारण्यकोक्तस्य देवलोकस्यापि श्लोके किमिति नोपादानमिति चेत्; न - देवानां लोक इति व्युत्पत्त्या देवलोकशब्देन सामान्येन वायुरेवाभिधीयते । यथा वायुलोक इत्यत्र वायुश्वासौ लोक इति वायुलोकशब्देन वायुरेवाभिधीयत इति । यथाह

“वायुशब्दाद विशेष विशेषाभ्याम्" इति । अथ

" तटितो- ऽधिवरुणः " इति सूत्रोक्तमभिप्रेत्याह- अचिरद्युतिमित्यादिना । अचिरद्युतिः ; विद्युत्पुरुषः । जलचरपतिम् ; वरुणम् । देवाधीशम् ; इन्द्रम् । प्रजापतिम् ; चतुर्मुखम् । अत्रेयं श्रुतिः - " स तं देवयानं पन्थानमापद्या -ग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स प्रजापतिलोकम्" इति । तत्रादित्यपर्यन्तं क्रमनियमः पूर्वमेवोक्तः । पूर्वोपात्तवाक्ये श्रुतानां वरुणेन्द्रप्रजापतिपर्यन्तानां श्रुताद्विद्युत्पुरुषादनन्तरं निवेशो युक्तः । विद्युत्पुरुषादनन्तरं वरुणनिवेशः । तदनन्तरमिन्द्र प्रजापत्योः । अवशिष्टयोरन्ते प्रवेश इत्यलम् । आगतः ; एतमातिवाहिकगणं प्राप्तः । " स एनान् ब्रह्म गमयति" इत्यमानवपर्याय विद्युत्पुरुषस्य गमयितृत्वश्रुतेः । स इति तच्छब्देन विद्युत्पुरुषामानवपरामर्शेन सर्वेषामविशेषश्रुतानां तेनैवान्वयार्हत्वात् । उक्तं हि सूत्रकारैः

-" आतिवाहिकस्तल्लिङ्गात् " इति । अत्र
विद्युत्पुरुषामानवयोरैक्यमेव, न भेदः, " तत्पुरुषोऽमानवः" इत्युक्तत्वात् । विद्युतोऽमानवो नेता परमात्मानमेव हि " इति पुरुषोत्तमतन्त्रोपबृंहणाच्च । विरजां तरतीति अण्डावृतिभेदादेरपि प्रदर्शनम् । तदुक्तं ब्रह्माण्डे -

" अण्डमावृतिभेदांश्च समतीत्य मुमुक्षवः ।

वैकुण्ठसीम्नि विरजां स्यन्दमानां नदीमपि ।

प्राप्यावगाह्य तीर्त्वैतां त्यक्त्वा स्वीयां जरामपि ॥”

इति । अद्भुतम् ; आश्चर्यभूतं परमपदमित्यर्थः । अत्रोपगूहनं नाम निर्वहणसन्धेरङ्गमुक्तम्, अद्भुतार्थस्य सम्प्राप्तिरुपगूहनमुच्यते " इतिलक्षणात् ॥ ७२ ॥

विश्वास-प्रस्तुतिः - ७३

अयं हि,

मलिनिमदशामातन्वानैर्मलीमसवस्तुभि-

र्मणिरिव 90महानन्तज्योतिर्निरुद्ध निजप्रभः ।

शुभतररुचिप्रत्यासेधस्वकर्मफलच्छला-

ज्जडपरिषदि यस्तो दैव्या91 न दीव्यति मायया ॥ ७३ ॥

मूलम् - ७३

अयं हि,

मलिनिमदशामातन्वानैर्मलीमसवस्तुभि-

र्मणिरिव 90महानन्तज्योतिर्निरुद्ध निजप्रभः ।

शुभतररुचिप्रत्यासेधस्वकर्मफलच्छला-

ज्जडपरिषदि यस्तो दैव्या91 न दीव्यति मायया ॥ ७३ ॥

प्रभावली - ७३

अयं पुरुषो दैव्या मायया जडपरिषदि न्यस्तो न शोभत इत्याह-

अयमिति । मलिनिमेति । मलिनां दशाम्आपादयद्भिः मलिनवस्तुभिः

X८६४
निरुद्ध निजप्रभः महान् मणिरिव अन्तर्ज्योतिः अयमपि प्राकृतैः देहेन्द्रियादिभिः निरुद्धनिजप्रभः शुभतराया रुचेः आत्मप्रकाशस्य प्रत्यासेधः प्रतिबन्धकं यत् स्वकर्मफलम; कर्मफलानुभव इत्यर्थः । तद्व्याजात् । अज्ञपरिषदि देव्या मायया न्यस्तः न प्रकाशते ॥ ७३ ॥

प्रभाविलासः - ७३

मलिनिमेति । मलिनिमदशाम् ; मालिन्यदशाम् । आतन्वानैः ; कुर्वद्भिः । मलीमसवस्तुभिः ; मलिनद्रव्यैः । निरुद्ध निजप्रभः ; तिरोहितज्ञानादिधर्मकः । अत एव अन्तर्ज्योतिःः अन्तः प्रकाशमानज्ञानादि- स्वरूपः । अनेन ज्ञानादीनां स्वरूप नित्यत्वं तद्गतप्रसराख्यधर्मस्य तिरोधान-
विषयत्वं चोक्तम् । मणिरिव । शुभतररुचेः ; विशुद्धज्ञानादिप्रसराख्यधर्मस्य । प्रत्यासेधस्य ; तिरोधायकस्य । स्वकर्मफलस्य छलात्; व्याजात् । उपाधेरिति यावत् । जडपरिषदि ; ज्ञानशून्यसभायाम् । न्यस्तः न दीव्यति ; न प्रकाशते ॥ ७३ ॥

विश्वास-प्रस्तुतिः - ७४

सुमतिःः— - अय्यउत्त, अविच्चिण्णप्पवत्त केवल92 पर सन्तवण- केलिसालिणीए माआए किं फलं लद्ध93 लहिज्जइ94 वा ?

(आर्यपुत्र, अविच्छिन्नप्रवृत्तकेवलपरसन्तपनकेलिशालिन्या मायया किं फलं लब्धं लभ्यते वा ? )

राजा :—- न किञ्चिदपि । ( सनिश्वासम् )

विषतरुफलपाकदर्शनीयैर्विषयरसैः पुरुषं निरुद्धदृष्टिम् ।

अलभत किमसौ फलं विचेता विषमगुणा गुणिनं विलोभ्य माया ॥ ७४ ॥

मूलम् - ७४

सुमतिःः— - अय्यउत्त, अविच्चिण्णप्पवत्त केवल92 पर सन्तवण- केलिसालिणीए माआए किं फलं लद्ध93 लहिज्जइ94 वा ?

(आर्यपुत्र, अविच्छिन्नप्रवृत्तकेवलपरसन्तपनकेलिशालिन्या मायया किं फलं लब्धं लभ्यते वा ? )

राजा :—- न किञ्चिदपि । ( सनिश्वासम् )

विषतरुफलपाकदर्शनीयैर्विषयरसैः पुरुषं निरुद्धदृष्टिम् ।

अलभत किमसौ फलं विचेता विषमगुणा गुणिनं विलोभ्य माया ॥ ७४ ॥

प्रभावली - ७४

अविचिण्णप्पवृत्त अविच्छिन्नप्रवृत्त । केवलपर सन्तवण- केवलपर सन्तपन । केलिसा लिणीए-केलिशालिन्या । माआए मायया । किं फलं लद्धं किं फलं लब्धम् । लहिज्जइ वा लभ्यते वा । स्वयमपि परितुष्टिनिरुद्धब्रह्मज्ञानं कृत्वा । विचेताः ; दुर्बुद्धिः । गुणिनम् ; ज्ञानानन्दादिगुणवन्तम् एनं विलोभ्य किं फलम् अलभत । न किमपीति भावः ॥ ७४ ॥

प्रभाविलासः - ७४

विषेति । विचेताः ; अचेतना । असमगुणा ; त्रिगुणा ॥ ७४ ॥

विश्वास-प्रस्तुतिः - ७५

विष्णुभक्तिःः— - नासौ महाराजस्य निर्वेदावसरः । अद्य हि परसङ्कल्पकल्पान्तपावकेन प्रारब्धकर्मलेशपरिशेष’95 उपशोषितः पुरुषस्य दुरितार्णवः । प्रकृतिरपि निर्मोककल्पा शेषपरिशुद्धस्वभावं पुरुषमायुषः पारे तमसः पारे निर्मोक्ष्यति ।

राजा :—- (परिक्रम्य सहर्षम् ) भगवति96, तर्हि सफलप्रयासोऽस्मि ।

सुमतिः - अय्यउत्त,

अय्यउत्त, किम् एदं भअवईए भासणम् अम्हाणम् उवच्चन्दणं, अहवा अणलीअं ति 97डोलाअन्तमाणसम्हि ।

( आर्यपुत्र, किमेतत् भगवत्या भाषणमस्माकमुपच्छन्दनम्, अथवा अनलीकमिति दोलायमानमानसास्मि ।)

राजा :—- प्रिये, मैवं मन्वीथाः98 । सत्यवादिनी खल्वेषा सनकसनन्दनादिभिर्महनीया99’ महातपस्विनी । श्रद्धत्स्व चैतत्

निर्जरीभिरपि नित्यदुर्लभे जातु काचिदिह जातकौतुका ।

लप्स्यसे ललितकाङ्क्षिणी स्वयं मत्प्रिया त्वमनघं मनोरथम् ॥ ७५ ॥

मूलम् - ७५

विष्णुभक्तिःः— - नासौ महाराजस्य निर्वेदावसरः । अद्य हि परसङ्कल्पकल्पान्तपावकेन प्रारब्धकर्मलेशपरिशेष’95 उपशोषितः पुरुषस्य दुरितार्णवः । प्रकृतिरपि निर्मोककल्पा शेषपरिशुद्धस्वभावं पुरुषमायुषः पारे तमसः पारे निर्मोक्ष्यति ।

राजा :—- (परिक्रम्य सहर्षम् ) भगवति96, तर्हि सफलप्रयासोऽस्मि ।

सुमतिः - अय्यउत्त,

अय्यउत्त, किम् एदं भअवईए भासणम् अम्हाणम् उवच्चन्दणं, अहवा अणलीअं ति 97डोलाअन्तमाणसम्हि ।

( आर्यपुत्र, किमेतत् भगवत्या भाषणमस्माकमुपच्छन्दनम्, अथवा अनलीकमिति दोलायमानमानसास्मि ।)

राजा :—- प्रिये, मैवं मन्वीथाः98 । सत्यवादिनी खल्वेषा सनकसनन्दनादिभिर्महनीया99’ महातपस्विनी । श्रद्धत्स्व चैतत्

निर्जरीभिरपि नित्यदुर्लभे जातु काचिदिह जातकौतुका ।

लप्स्यसे ललितकाङ्क्षिणी स्वयं मत्प्रिया त्वमनघं मनोरथम् ॥ ७५ ॥

प्रभावली - ७५

X८६५
निर्वेदानवसरत्त्वे हेतुं दर्शयति-अद्य हीति । परसङ्कल्प एव कल्पान्तपावकः, तेन । प्रारब्धो यः कमलेशः, स एव परिशेषो यस्य सः । परिशेषिततया उपशोषितः दुरितार्णवः । शरीररूपा प्रकृतिरपि सर्पनिर्मोकसदृशी शेषवत् परितः शुद्धस्वभावं पुरुषम् आयुषः पारे देहावसाने सूक्ष्मशरीरावसाने निर्मोक्ष्यति ; गलिता भवति । किम् एदं किमेतत् । भभवईए भासणं- भगवत्या भाषणम् । अम्हाणं - अस्माकम् । उवचन्दणम् उपच्छन्दनम् । अहवा-

X८६६
अथवा । अणलीअं ति अनलीकमिति । डोलायन्त माणसम्हि - डोलायमानमानसास्मि । एषा विष्णुभक्तिः महातपस्विनी । श्रद्धत्स्व ; निश्चिनु । भो सुमते । निर्जरीभिः; अमरीभिरपि । नित्यदुर्लभे इह ; पुरुषस्य प्रकृतिविमोक्षणे । जातकौतुका त्वम् इमम् अनघं मनोरथं मङ्गलकाङ्क्षित्वात् मत्प्रियत्वाच्च स्वयमेव लप्स्यसे ॥ ७५ ॥

प्रभाविलासः - ७५

निर्जरीभिरिति । निर्जरीभिः ; शचीप्रभृतिभिः । नित्यदुर्लभे ;
पुरुषमोचने । काचित् त्वं जातु कदाचित् अनघं मनोरथं प्राप्स्यसि ॥ ७५ ॥

विश्वास-प्रस्तुतिः - ७६

सुमतिः - महन्तो खु एसो पसाओ सहवम्म आरिणींविसए

महाराअस्स ।

(महान् खल्वेष प्रसादः सहधर्मचारिणीविषये महाराजस्य ।)

राजा - (परिक्रम्य ) इदमहमिदानीं मदेकार्थेभ्यश्चिरपरिचर्यापरिश्रान्तेभ्यः प्रहर्षकारणं प्रख्यापयामि —-

विद्याभिः स्वविपक्षभङ्गपटुषु स्थानेष्ववस्थीयतां

सिद्धार्थैरनुमन्यतां शमदमस्वाध्यायतोषादिभिः ।

मत्सूतस्य मनोरथस्य रथिना दृष्टाध्वना सम्प्रति

प्रत्यावृत्तिकथोज्झितेन परमं ब्रह्म प्रतिष्ठास्यते ॥ ७६ ॥

मूलम् - ७६

सुमतिः - महन्तो खु एसो पसाओ सहवम्म आरिणींविसए

महाराअस्स ।

(महान् खल्वेष प्रसादः सहधर्मचारिणीविषये महाराजस्य ।)

राजा - (परिक्रम्य ) इदमहमिदानीं मदेकार्थेभ्यश्चिरपरिचर्यापरिश्रान्तेभ्यः प्रहर्षकारणं प्रख्यापयामि —-

विद्याभिः स्वविपक्षभङ्गपटुषु स्थानेष्ववस्थीयतां

सिद्धार्थैरनुमन्यतां शमदमस्वाध्यायतोषादिभिः ।

मत्सूतस्य मनोरथस्य रथिना दृष्टाध्वना सम्प्रति

प्रत्यावृत्तिकथोज्झितेन परमं ब्रह्म प्रतिष्ठास्यते ॥ ७६ ॥

प्रभावली - ७६

महन्तो खु- महान् खलु । एसो पसाओ - एष प्रसादः । सहम आरिणी - विसए - सहधर्मचारिणीविषये । महाराअस्स महाराजस्य । इदान मत्पक्षीयेभ्यः सन्तोषकारणं किमपि प्रख्यापयामीत्याह — इदमहमिति । मदेकार्थेभ्यः ; मदेक- प्रयोजनेभ्यः चिरशुश्रूषापरिश्रान्तेभ्यः । विद्याभिरिति । पुरुषगतचतुर्दश- विद्याभिः । ये स्वविपक्षभङ्गपटवः शत्रुमतभङ्गे समर्थाः पुमांसः तेषां स्थानेषु अवस्थीयताम् । सिद्धार्थैः; सिद्धप्रयोजनैः । शमदमादिभिः पुरुषस्य प्रस्थानमनु-

X८६७
मन्यताम् । मत्सूतस्य ; अहमेव सूतो यस्य तस्य, मनोरथस्य । रथिना; पुरुषेण । दुष्टाध्वना; प्रतिदिनमनुचिन्तितेनार्चिरादिमार्गेण करणेन । प्रत्यावृत्तिकथा ; पुनरावृत्तिप्रसङ्गः, तद्रहितेन । सम्प्रति परमं ब्रह्म ; परमपदनिलयं प्रति । प्रतिष्ठास्यते ; प्रस्थास्यते, गम्यत इत्यर्थः । प्रतिपूर्वोऽपि ष्ठाधातुरत्र प्रस्थानवाची, प्रस्थानप्रकरणात् ॥ ७६ ॥

प्रभाविलासः - ७६

विद्याभिरिति ! विद्यास्थानान्युक्तानि । अनुमन्यताम् ; ब्रह्मप्रतिष्ठानंसम्मन्यताम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः - ७७

अपि च,

प्राचीमेकपदीं त्यक्त्वा प्रतीचीमास्थितः प्रभुः । उदीचीमेव गन्तासौ न त्ववाचीं कथञ्चन ॥ ७७ ॥

मूलम् - ७७

अपि च,

प्राचीमेकपदीं त्यक्त्वा प्रतीचीमास्थितः प्रभुः । उदीचीमेव गन्तासौ न त्ववाचीं कथञ्चन ॥ ७७ ॥

प्रभावली - ७७

उत्तरत्र प्रस्थानं विशेष्यते - प्राचीमिति । प्राचीम्; प्राक्तनीम् ; प्राक्कालानुगताम् । एकपदीम् ; वर्तनीम्, स्वर्गादिगमनपद्धतिम् त्यक्त्वा ॥ प्रतीचीम् ; प्रत्यक् ब्रह्म, तद्विषयाम् । आस्थितः प्रभुः ; गन्तुं समर्थः । उदीचीम् ; उदीचीशब्देन ऊर्ध्वा दिगुच्यते । असौ ; प्रस्थितः । उदीचीम् ऊर्ध्वा दिशमेव गन्ता । अवाचीम् ; अधोदिशम् । कथञ्चन; केनापि प्रकारेण । न त्वेव गन्ता ॥ ७७ ॥

प्रभाविलासः - ७७

प्राचीमिति । प्राचीम् ; पूर्वी स्वर्गादिपद्धतिं त्यक्त्वा । प्रतीचीम् ; पश्चिमाम् । एकपदीम् ; अर्चिषम् । प्रभुः ; पुरुषः । उदीचीम् ; उत्तरां दिशम् । गन्ता ; गमिष्यति । अवाचीम् ; अधोगतिं तु । कथञ्चन नगन्ता ॥ ७७ ॥

विश्वास-प्रस्तुतिः - ७८

( आकाशे डिण्डिमध्वनिः)

(सर्वे समाकर्ण्याद्भुतकौतुकं नाटयन्ति)

विष्णुभक्तिः - श्रूयतामिदं महाराजेन—
निवृत्तमतिकश्मलो निभृतबुद्ध्य बुद्धीन्द्रियः

परप्रणिधिवैभवत्रुटितकर्मबन्धः कृती ।

विमुक्तिपथमद्भुतं द्रुतमुपैति विद्वानिति

100त्रिवर्गरसघस्मरस्त्रिदशडिण्डिमस्ताड्यते ॥ ७८ ॥

मूलम् - ७८

( आकाशे डिण्डिमध्वनिः)

(सर्वे समाकर्ण्याद्भुतकौतुकं नाटयन्ति)

विष्णुभक्तिः - श्रूयतामिदं महाराजेन—
निवृत्तमतिकश्मलो निभृतबुद्ध्य बुद्धीन्द्रियः

परप्रणिधिवैभवत्रुटितकर्मबन्धः कृती ।

विमुक्तिपथमद्भुतं द्रुतमुपैति विद्वानिति

100त्रिवर्गरसघस्मरस्त्रिदशडिण्डिमस्ताड्यते ॥ ७८ ॥

प्रभावली - ७८

अथ त्रुटितकर्मबन्धोऽयं विद्वान् पुरुषः विमुक्तिपथं शीघ्रमुपैष्यतीति वदन् देवदुन्दुभिताडनं प्रस्तौति – आकाश इति । डिण्डिमध्वनिः; जात इति शेषः । सर्वे अद्भुतोत्सवमनुकुर्वन्ति । एवं दुन्दुभिस्ताड्यत इत्याह—-

X८६८
निवृत्तेति । मतिकश्मलं मोहादि निवृत्तं यस्य सः । बुद्धीन्द्रियाणि; ज्ञानेन्द्रियाणि । अबुद्धीन्द्रियाणि कर्मेन्द्रियाणि । निभृतानि बुद्धयबुद्धीन्द्रियाणि येन सः । परब्रह्मसमाधिवैभवेन छिन्नकर्मबन्धः कृती अयं विद्वान् सर्वज्ञः द्रुतम् अचिरादेव अद्भुतं विमुक्तिपथम् आश्चर्यरूपम् अचिरादिमार्गम् उपैति उपैष्यति । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । इति; एवं प्रकारेण । त्रिवर्ग- रसघस्मरः । त्रिवर्गाः; अमुमुक्षवो देवाः । यद्वा वसुरुद्रादित्यस्वरूपेण त्रिवर्गाः । तेषां पुरुषविषये रुचितिरोधायक इत्यर्थः । देवदुन्दुभिस्ताड्यते ; त्रिदशैरिति शेषः ॥ ७८ ॥

प्रभाविलासः - ७८

निवृत्तेति । अबुद्धिपदेन कर्मेन्द्रियाण्युच्यन्ते । त्रिवर्गाणाम् ; धर्मादीनाम् । स्वस्य ; शब्दस्य ।घस्मरः; भक्षकः ॥ ७८ ॥

विश्वास-प्रस्तुतिः - ७९

पुरुषः - ( सहर्षम् ) अस्मन्महोदयसन्तुष्टोऽयं वत्सो विवेकः सुमतिविष्णुभक्तिभ्यां सहेत एवाभिवर्तते । तदहमेतान् प्रत्युद्गच्छामि ।

राजा :—- ( पुरस्तान्निर्दिश्य ) प्रिये, एष कुलपतिरस्माकमतर्कितोपस्थित परसङ्कल्प निवृत्त पूर्वापरपुण्यपापराशिरस्मद्दिदृक्षया समायाति । तदयमस्माभिः समाहितैरभिगम्योपसर्तव्यः ।101
(सर्वे सप्रश्रयं त्वरितमुपसृत्य प्रयतबुद्धयः प्रणिपतन्ति)

पुरुषःः—- सर्वे दीर्घायुषो भूयास्त । भद्रे विष्णुभक्ते, अनन्य- साधारणावगतप्रभावनिर्धूर्त निखिलपरपक्षेण जितकाशिना वत्सेन विवे- केन दिष्ट्या समागतोऽस्मि । ( विवेकमुपगुह्य सस्नेहबहुमानम् ) वत्स विवेक महावीर, अनादिनिजकर्मसन्ततिप्रवृत्तया निद्रया निर्भरप्रसु- तोऽहं त्वयैव स्वल्वस्मत्प्रतिकूलसकुल्यघातिना प्रतिबुद्धदशां प्रापितः । अनया च परित्यक्तफलान्तरया विष्णुभक्त्या पुनरस्मद्धितैकनिरतया दुःसहानन्तदुःखसन्तत्यनुवृत्तिनिदानभूतदुरितराशिरुपसंहृतः ।

राजा :—- (स्वगतम्) हन्त कुलक्षयहेतुरयमिति 102कुलपति- रक्षकं मां कुटिलमतयः 103केचिदपवदितुमिच्छन्ति ।

गतद्रविणदोहदं गलितमाननागौरवं

यशस्यनभिसन्धिकं यमिनमप्यनुद्गृह्णति ।

तिरस्करण कौतुकग्रहगृहीतचित्ते जने

गुणग्रहणलालसो न खलु कश्चिदालक्ष्यते ॥ ७९ ॥

मूलम् - ७९

पुरुषः - ( सहर्षम् ) अस्मन्महोदयसन्तुष्टोऽयं वत्सो विवेकः सुमतिविष्णुभक्तिभ्यां सहेत एवाभिवर्तते । तदहमेतान् प्रत्युद्गच्छामि ।

राजा :—- ( पुरस्तान्निर्दिश्य ) प्रिये, एष कुलपतिरस्माकमतर्कितोपस्थित परसङ्कल्प निवृत्त पूर्वापरपुण्यपापराशिरस्मद्दिदृक्षया समायाति । तदयमस्माभिः समाहितैरभिगम्योपसर्तव्यः ।101
(सर्वे सप्रश्रयं त्वरितमुपसृत्य प्रयतबुद्धयः प्रणिपतन्ति)

पुरुषःः—- सर्वे दीर्घायुषो भूयास्त । भद्रे विष्णुभक्ते, अनन्य- साधारणावगतप्रभावनिर्धूर्त निखिलपरपक्षेण जितकाशिना वत्सेन विवे- केन दिष्ट्या समागतोऽस्मि । ( विवेकमुपगुह्य सस्नेहबहुमानम् ) वत्स विवेक महावीर, अनादिनिजकर्मसन्ततिप्रवृत्तया निद्रया निर्भरप्रसु- तोऽहं त्वयैव स्वल्वस्मत्प्रतिकूलसकुल्यघातिना प्रतिबुद्धदशां प्रापितः । अनया च परित्यक्तफलान्तरया विष्णुभक्त्या पुनरस्मद्धितैकनिरतया दुःसहानन्तदुःखसन्तत्यनुवृत्तिनिदानभूतदुरितराशिरुपसंहृतः ।

राजा :—- (स्वगतम्) हन्त कुलक्षयहेतुरयमिति 102कुलपति- रक्षकं मां कुटिलमतयः 103केचिदपवदितुमिच्छन्ति ।

गतद्रविणदोहदं गलितमाननागौरवं

यशस्यनभिसन्धिकं यमिनमप्यनुद्गृह्णति ।

तिरस्करण कौतुकग्रहगृहीतचित्ते जने

गुणग्रहणलालसो न खलु कश्चिदालक्ष्यते ॥ ७९ ॥

प्रभावली - ७९

विवेकादिदर्शनात् हर्षः । महोदयः ; महोत्सवः । इत एव अस्मत्स- मीपं प्रति आगच्छति । निर्दिश्य ; अङ्गुल्येति शेषः । अस्माकं कुलपति- '

1

X८६९
रेषः अतर्कितं यथा तथा प्राप्तपरमपुरुषसङ्कल्पेन । समाहितैः; सावधानैः । उपसत्तयः ; उपसदनं कर्तव्यः । प्रयता; परिशुद्धा । अनन्यसाधारणत्वेन अवगतो यः प्रभावः, तेन निर्धूतः निखिलपरपक्षः येन । जितकाशी ; जयशीलः । जितेन जयेन काशितुं शीलमस्यास्तीति जितकाशी । दिष्टया ; दैवेन । अनादि- निजकर्म सन्तत्या प्रवृत्तया निद्रया ; अनादिनिद्रया । निर्भरं यथा तथा प्रकर्षेण सुप्तः स्वपरज्ञानरहितः अहम् । अस्माकं प्रतिकूलाः तत्सकुल्याः मोहादयः,

X८७०
तद्धातिना । प्रतिबुद्धाः ; ज्ञानिनः । विष्णुभक्त्या मम पापराशिरुपसंहृत इत्याह– अनया चेति । अनया च परित्यक्तप्रयोजनान्तरया; विष्णुभक्तौ सत्यां प्रयोजनान्तरं व्यक्तं भवतीति सूच्यते । स्वार्थं स्वप्रयोजनं च परित्यक्तमिति च गम्यते । प्रतिकूलसकुल्यघातिनेत्युक्त्या केचिन्मामेवमपवदितुमिच्छन्तीत्याह– हन्तेति । कुलपतिरक्षकं मां कुटिलमतयः केचित् कुलक्षयहेतुरयमित्यपवदितुमिच्छन्ति । लोके सर्वे दोषग्राहिणः, गुणग्राहिणो न भवन्तीत्याह — गतेति । द्रविणे दोहदम् अभिलाषः ; स गतो यस्य तम् । माननायां पूजायां गौरवं गौरवबुद्धिः ; सा गलिता यस्य तम् । यशसि अभिसन्धिः अभिलाषः यस्य नास्ति तम् ; कीर्तिपराङ्मुखमित्यर्थः । एवम्भूतं यमिनं विरक्त सन्न्यासिनमपि अनुद्गृह्वति अनङ्गीकुर्वाणे परतिरस्करणे यत् कौतुकं तदेव ग्रहः पिशाचः, तेन गृहीतचित्ते जने लौकिके परेषां गुणग्रहणे लालसः अत्यभिलाषवान् कश्चिदपि नखल्वालक्ष्यते ॥ ७९ ॥

प्रभाविलासः - ७९

गतेति । उक्तलक्षणं यमिनमपि अनुद्गृह्णति ; अनङ्गीकुर्वति जने ।
गुणग्रहणलालसः ; अमानित्वादिगुणग्रहणलोलुपः । कश्चित् नालक्ष्यते खलु; न दृश्यते खलु ॥ ७९ ॥

विश्वास-प्रस्तुतिः - ८०

अलमलमनेन । (प्रकाशम्) तात,

(इत्यर्धोक्ते सवैलक्ष्यमवनतमुखस्तिष्ठति )

विष्णुभक्तिः- भगवन्, महाराजस्य विवेकस्य विवक्षितं

विज्ञापयामि-

कुल्यत्वेन परिग्रहेऽपि कुटिलप्रस्थानभागिष्वसौ

कूटस्थप्रतिकूलवृत्तिषु कृपादाक्षिण्यलेशोज्झितः ।

कामादेः स्वयमौर्ध्वदेहिक विधिं कृत्वा यथार्हं कृती

द्रष्टुं त्वां त्रुटितस्वकर्मनिगलं प्राप्तो विवेकः प्रभुः ॥ ८० ॥

मूलम् - ८०

अलमलमनेन । (प्रकाशम्) तात,

(इत्यर्धोक्ते सवैलक्ष्यमवनतमुखस्तिष्ठति )

विष्णुभक्तिः- भगवन्, महाराजस्य विवेकस्य विवक्षितं

विज्ञापयामि-

कुल्यत्वेन परिग्रहेऽपि कुटिलप्रस्थानभागिष्वसौ

कूटस्थप्रतिकूलवृत्तिषु कृपादाक्षिण्यलेशोज्झितः ।

कामादेः स्वयमौर्ध्वदेहिक विधिं कृत्वा यथार्हं कृती

द्रष्टुं त्वां त्रुटितस्वकर्मनिगलं प्राप्तो विवेकः प्रभुः ॥ ८० ॥

प्रभावली - ८०

तात इत्यर्धोक्तवचने सति सवैलक्ष्यं सलज्जमवनतमुखस्तिष्ठति । विवेकस्य विवक्षितमर्थमहं विज्ञापयामि । विवक्षितमर्थ दर्शयति– कुल्यत्वेनेति । स्वकुल्य-

X८७१
त्वेन मोहादीनां परिग्रहो यद्यप्यस्ति तथापि कुटिलप्रस्थानभागिषु; अस्मन्मार्गप्रतिकूलमार्गगामिषु । तदेव दर्शयति — कूटस्थप्रतिकूलवृत्तिष्विति । कूटस्थः ; स्वेषां तेषां च कूटस्थः साधारणपुरुषः । तस्मिन् पुरुषे प्रतिकूला परमात्म- भोगप्रतिकूला संसारापादिका वृत्तिः येषां तेषु । एवमपथप्रवृत्तत्वात् कृपादाक्षिण्यलेशोज्झितः ; कृपा स्वत उत्थिता साध्वी मतिः । दाक्षिण्यं स्वतोऽभावेऽपि लोकोऽन्यथा क्रोशतीति जनिता साध्वी बुद्धिः । तयोः लेशेन लवेनाप्युज्झितः । तेष्वत्यन्तनिष्ठुर बुद्धिरित्यर्थः । अनेन तत्संहर्तृत्वमुक्तं भवति । अथ कामादेः स्वकुलवर्गस्य स्वयमेव यथार्ह स्वनियममनतिक्रम्यार्थानुसारेण और्ध्वदेहिक विधि देहादूर्ध्वं कर्तव्यं कर्म प्रेतकार्यादि कृत्वा कृती कृतकृत्यः त्रुटितस्वकर्म निगलं विच्छिन्नस्वकर्मशृङ्खलं त्वां द्रष्टुं विवेकः प्रभुः प्राप्तः ॥ ८० ॥

प्रभाविलासः - ८०

सवैलक्ष्यम् ;’ सवैमुख्यम् । कुल्यत्वेनेति । कुल्यत्वेन ; एक-
कुलोद्भवत्वेन । परिग्रहेऽपि कुटिलमस्थानभागिषु कुटिलमार्गवर्तिषु । कूटस्थस्य प्रतिकूलवर्तिषु मोहादिषु कृपया दाक्षिण्यलेशेन चोज्झितः । त्वां द्रष्टुं प्राप्त इति इष्टकार्यदर्शनप्रतीतेः पूर्वभावो नाम निर्वहणसन्धेरङ्गमुक्तम्,

“इष्टकार्यदर्शनं पूर्वभावः " इति लक्षणात् ॥ ८० ॥

विश्वास-प्रस्तुतिः - ८१

पुरुषः - ( सहर्षबहुमानम् ) भद्रे, परमयोगिबहुमतप्रभावे विष्णुभक्ते, परित्यक्तस्वप्रयोजनम सम्भवत्प्रत्युपकारमेवमुपकृतवद्भ्यो भवद्भयः परितोषानुगुणं कमपि वरं प्रयच्छामि –

विवेकोऽयं तत्त्वेष्ववितथविशेषग्रहतनु-

र्भवादन्वद्दोषप्रतिगमनिकात्मा च सुमतिः ।

परप्रेमाकारा त्वमिति समवेतास्त्रय इमे

तमःपारे104 त्यक्तत्रिगुणमपि च त्यक्ष्यथ न माम् ॥ ८१ ॥

मूलम् - ८१

पुरुषः - ( सहर्षबहुमानम् ) भद्रे, परमयोगिबहुमतप्रभावे विष्णुभक्ते, परित्यक्तस्वप्रयोजनम सम्भवत्प्रत्युपकारमेवमुपकृतवद्भ्यो भवद्भयः परितोषानुगुणं कमपि वरं प्रयच्छामि –

विवेकोऽयं तत्त्वेष्ववितथविशेषग्रहतनु-

र्भवादन्वद्दोषप्रतिगमनिकात्मा च सुमतिः ।

परप्रेमाकारा त्वमिति समवेतास्त्रय इमे

तमःपारे104 त्यक्तत्रिगुणमपि च त्यक्ष्यथ न माम् ॥ ८१ ॥

प्रभावली - ८१

स्वकार्यं विहायैव मामुपकृतवद्भयो हर्षानुगुणं कमपि वरं प्रयच्छामी-

X८७२
त्याह-भद्र इत्यादिना । भद्रे; मङ्गलरूपे । परम योगिभिरपि बहुमतप्रभावे भो विष्णुभक्ते । स्वप्रयोजनं परित्यज्य प्रत्युपकाररहितमेवमुपकृतवद्भयः । वरप्रकारं दर्शयति– विवेक इति । विवेकः सुमतिः विष्णुभक्तिरिति त्रयोऽपि यूयं त्रिगुणमतीत्य परमपदगतमपि मां न त्यक्ष्यथ; तत्रापि मामाश्रयध्वमित्याह- विवेक इति । तत्त्वेषु तत्त्वत्रये । अवितथविशेषग्रहतनुः ; अवितथः यथार्थो यो विशेषग्रहः असाधारणधर्मग्रहणं, सः तनुः स्वरूपं यस्य । तत्स्वरूपोऽयं विवेकश्च । भवोदन्वतः संसारसमुद्रस्य ये दोषाः तेषां प्रतिगमनिका परिहारः; तत्स्वरूपा च सुमतिः । संसारे दोषदृष्टिः सुमतिः । संसारदोषः परिहर्तव्य इति मतिरित्यर्थः । परविषयपरमप्रीतिरूपा त्वमित्येवं समवेतास्त्रयोऽपि यूयम् । तमः पारम् ; तमोगुणेनास्पृष्टम् । त्यक्तत्रिगुणम् ; अतिक्रान्तत्रिगुणम् । आभ्यां पदाभ्यां परमपदगतमपीति लक्ष्यते । व्यक्तद्विविधशरीरं मामिति वा । मां न त्यक्ष्यथ ; परमपदेऽपि भवद्भिः सहैव वर्तेयेति भावः ॥ ८१ ॥

प्रभाविलासः - ८१

विवेक इति । तत्त्वेषु चिदचिदीश्वरेषु । अवितथः ; अबाधितः ।
विशेषग्रह एव तनुः स्वरूपं यस्य सः । प्रतिगमनिकात्मा; विरोधि -

स्वरूपा ॥ ८१ ॥

विश्वास-प्रस्तुतिः - ८२

राजा विष्णुभक्तिश्व — (साञ्जलिबन्धम् ) अनन्यलभ्यः प्रसादोऽयमस्मास्वत्रभवतः ।

सुमतिःः— - ( सहर्षम् ) 105महन्तो हि एसो वरो महणिज्जो, जम् अय्यउत्तस्स सहवम्म आरिणी होम्मि ।

( महान्ह्येष वरो महनीयः, यदार्यपुत्रस्य सहधर्मचारिणी भवामि ।)

विष्णुभक्तिःः—- भगवन्, अद्य खल्वासन्नसिद्धिरेव स भवानिति देशिकप्रसादलब्धदिव्यचक्षुषो106 मे हृदयमेव कथयति । तथाच सिद्धपूर्वैः सुनिमित्तैरपि सूच्यते । इह हि -
दिव्यः सम्प्रति दुन्दुभिर्दिशि दिशि ध्वानैर्मुहुः श्रूयते

देवानामपि हावुहावुलहरी 107विक्षोभयत्यम्बरम् ।

आरब्धप्रतिसंस्कृतैः108 कृतमुखैरर्चिर्मुखैः श्रीपते-

राज्ञाधारिभिरातिवाहिकगणैरादिश्यते109 पद्धतिः ॥ ८२ ॥

मूलम् - ८२

राजा विष्णुभक्तिश्व — (साञ्जलिबन्धम् ) अनन्यलभ्यः प्रसादोऽयमस्मास्वत्रभवतः ।

सुमतिःः— - ( सहर्षम् ) 105महन्तो हि एसो वरो महणिज्जो, जम् अय्यउत्तस्स सहवम्म आरिणी होम्मि ।

( महान्ह्येष वरो महनीयः, यदार्यपुत्रस्य सहधर्मचारिणी भवामि ।)

विष्णुभक्तिःः—- भगवन्, अद्य खल्वासन्नसिद्धिरेव स भवानिति देशिकप्रसादलब्धदिव्यचक्षुषो106 मे हृदयमेव कथयति । तथाच सिद्धपूर्वैः सुनिमित्तैरपि सूच्यते । इह हि -
दिव्यः सम्प्रति दुन्दुभिर्दिशि दिशि ध्वानैर्मुहुः श्रूयते

देवानामपि हावुहावुलहरी 107विक्षोभयत्यम्बरम् ।

आरब्धप्रतिसंस्कृतैः108 कृतमुखैरर्चिर्मुखैः श्रीपते-

राज्ञाधारिभिरातिवाहिकगणैरादिश्यते109 पद्धतिः ॥ ८२ ॥

प्रभावली - ८२

अत्रभवतः ; पूज्यस्य । महन्तो महान् । एसो - एषः । वरो वरः । महणिज्जो - महनीयः । जं यत् । अय्यउत्तस्स - आर्यपुत्रस्य । सहधम्मआरिणी-

X८७३
सहधर्मचारिणी होम्मि भवामि । स भवान् अद्य आसन्नसिद्धिरेवेति लब्धं दिव्यं चक्षुर्यस्याः, तस्याः । पूर्वं सिद्धैः सिद्धफलैः शोभनैर्निमित्तैरपि सूच्यते ।

। तानि निमित्तानि दर्शयति - दिव्य इति । सम्प्रति दिव्यो दुन्दुभिः दिशि दिशि

। मुहुर्मुहुः श्रूयते । देवानां हावुहावुलहरी; हा वु हा वु इति सामध्वनिवीचिः । अम्बरं विक्षोभयन्ती सती मुहुः श्रूयते । आरब्धा प्रतिसंस्कृतिः प्रसाधनम् अलङ्करणं यस्याः सा । पद्धतिः; वैकुण्ठमार्गः । श्रीपतेः आज्ञाधरैः कृतमुखैः सत्कारादिषु चतुरैः अर्चिर्मुखैः आतिवाहिकगणैः आदिश्यते ; स्वामिन् इत इत एहीत्युपदिश्यते ।

एतानि सुनिमित्तानि ॥ ८२ ॥

प्रभाविलासः - ८२

दिव्य इति । देवानाम्; मुक्तानाम् ।

एतत्साम गायन्नास्ते "

इत्यादिश्रुत्यर्थमाह - देवानामिति । प्रतिसंस्कृतिः;

मार्जनसेचनपुष्पोपक्षेपध्वजपताकादिकरणम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः - ८३

पुरुषः- ( सहर्षोल्लासम् ) अतस्तर्हि कृतकृत्यान् भवतः

कृतार्थोऽहमामन्त्रये110

अलं कालप्रहाणेन प्रतीक्षे पश्चिमं दिनम् ।

अस्मदेकहितैषिभ्यः स्वस्ति वः साधयाम्यहम् ॥ ८३ ॥

मूलम् - ८३

पुरुषः- ( सहर्षोल्लासम् ) अतस्तर्हि कृतकृत्यान् भवतः

कृतार्थोऽहमामन्त्रये110

अलं कालप्रहाणेन प्रतीक्षे पश्चिमं दिनम् ।

अस्मदेकहितैषिभ्यः स्वस्ति वः साधयाम्यहम् ॥ ८३ ॥

प्रभावली - ८३

उल्लासः ; विजृम्भणम् । तहीति । तर्हि कृतकृत्यान् कृतोपकारान् युष्मान् कृतप्रयोजनोऽहम् आमन्त्रये गमनाय आपृच्छे । अयं पुरुषः परमपदगमनाय देहावसानदिनमाकाङ्क्षन् यावच्छरीरपातं पुण्यक्षेत्रपुण्यतीर्थाचरणाय जिगमिषुस्तदभ्यनुज्ञां प्रार्थयते - अलमिति । कालक्षेपणेन अलम् ।

X८७४
शीघ्रमेव पुण्यक्षेत्र निवासाय गमिष्यामि । कुत इत्यत आह-पश्चिमं दिनम् ; शरीरावसानदिनम् । प्रतीक्षे; प्रतिपालयामि । तावत्कालं पुण्यक्षेत्रनिवासाय गच्छामीत्यर्थः । तदर्थम् अस्मदेकहितैषिभ्यः वः स्वस्ति । अहं साधयामि ; पुण्यक्षेत्रसञ्चाराय गच्छामि ॥ ८३ ॥

प्रभाविलासः - ८३

अलमिति । प्राणम् ; क्षेपः ॥ ८३ ॥

विश्वास-प्रस्तुतिः - ८४

अपि च,

ग्रहस्वप्ननिमित्तादिमोघ 111चिन्तापराङ्मुखः ।

प्राप्तं प्राप्तमुपासीनः प्रवेक्ष्यामि परं पदम् ॥ ८४ ॥

मूलम् - ८४

अपि च,

ग्रहस्वप्ननिमित्तादिमोघ 111चिन्तापराङ्मुखः ।

प्राप्तं प्राप्तमुपासीनः प्रवेक्ष्यामि परं पदम् ॥ ८४ ॥

प्रभावली - ८४

यावद्देहपातं स्वं कृत्यं दर्शयति — अपिचेत्यादि । ग्रहचिन्ता ; ग्रहस्थितिचिन्ता । स्वप्नचिन्ता; सुखमेन भवितव्यमिति चिन्ता । निमित्तचिन्ता ; शोभनैर्निमित्तैर्भवितव्यमिति चिन्ता । आदिशब्देन सभ्यानुमतिर्गृह्यते । एवमादिषु मोघचिन्तासु व्यर्थचिन्तासु पराङ्मुखोऽहं प्राप्तं सुखं दुःखं वा प्रीतिपूर्वमनुभवन् अन्ते परमपदं प्रवेक्ष्यामि ॥ ८४ ॥

प्रभाविलासः - ८४

ग्रहेति । अनेन योगिनो निमित्त स्वप्नादिदर्शनपरिपालनमप्यनिष्पन्नदशायामेवेति व्यञ्जितम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः - ८५

अहह, रसरुधिरपिशितमेदःकीकसमज्जाशुक्लमयकलेबरकारागारा112निष्क्रान्तः 113शबरकुटीरकोटरात्सार्वभौमपितृसदनसौधाधिरोहणाय सत्वरमाण इव राजकुमारस्तत्तद्देशाधिकारिभिरातिवाहिकै रनितरसुलभेन देवयानेन त्रिगुणमरुकान्तारमतिवाहितस्तमः पारभूतं परमपदमधिरोक्ष्यामि । यत्र च,
सव्यं पादं 114प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा

जानुन्याधाय सव्येतरभुजमितरं115 नागभोगे निधाय ।

पश्चाद्वाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे

देवीभूषादिजुष्टो जनयति जगतां शर्म चैकुण्ठनाथः ॥ ८५ ॥

मूलम् - ८५

अहह, रसरुधिरपिशितमेदःकीकसमज्जाशुक्लमयकलेबरकारागारा112निष्क्रान्तः 113शबरकुटीरकोटरात्सार्वभौमपितृसदनसौधाधिरोहणाय सत्वरमाण इव राजकुमारस्तत्तद्देशाधिकारिभिरातिवाहिकै रनितरसुलभेन देवयानेन त्रिगुणमरुकान्तारमतिवाहितस्तमः पारभूतं परमपदमधिरोक्ष्यामि । यत्र च,
सव्यं पादं 114प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा

जानुन्याधाय सव्येतरभुजमितरं115 नागभोगे निधाय ।

पश्चाद्वाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे

देवीभूषादिजुष्टो जनयति जगतां शर्म चैकुण्ठनाथः ॥ ८५ ॥

प्रभावली - ८५

अथ भाविपरमपदाधिरोहणं विचिन्त्य सन्तुष्यति - अहहेत्यादिना । रसादिशब्दैः सप्त धातव उच्यन्ते । रसः ; जलरूपः । पिशितम् ; मांसम् । मेदः; वपा । कीकसम्; अस्थि मज्जा; अस्थिगतरस विशेषः । शुक्लम् ; रेतः । सप्तधातुमयं कलेबरम; तस्मात् कारागृहात् निष्क्रान्तोऽहम् निषादगृह कोणात् । आतिवाहिकैः ; अतिवहनाधिकारिभिः । अनितरः ; मुमुक्षुः । तत्सुलभेन

X८७५
अमुमुक्षुदुर्लभेनेत्यर्थः । देवयानेन ; अर्चिरादिमार्गेण । प्रकृतिमरुकान्तारम् । तमसः पारभूतम् । यत्र; परमपदे । दक्षिणं पादं कुञ्चयित्वा सङ्कोच्य । दक्षिणभुजं जानुनि दक्षिणे निधाय । इतरं वामं भुजं नागस्य शेषस्य भोगे शरीरे आधार- भूते । अस्य पश्चात्स्थितेन बाहुद्वयेन आश्रित प्रतिभटदमने शङ्खचक्रे धारयन् । देवीभिः लक्ष्म्यादिभिः भूषणादिभिश्व । आदिशब्देनात्रपरिजनादि गृह्यते । तैः सेवितः प्रीतश्च । श्रीवैकुण्ठलोकनाथः जगतां शर्म जनयति । तत्रैव स्थितः सन् तत्तदनुरूपं जगतामुभयविभूतिगतानां शर्म सुखं महत् क्षुद्रं च जनयति ॥ ८५ ॥

प्रभाविलासः - ८५

सव्यमिति । श्रितदुरितहरम् ; आश्रितपापहरम् । सव्येतरभुजम् ; दक्षिणभुजम् । नागभोगे; शेषशरीरे । देव्यः ; लक्ष्मीनीलाद्याः । भूषा ; कौस्तुभादिका । आदिपदेन वैजयन्त्यादि ॥ ८५ ॥

विश्वास-प्रस्तुतिः - ८६

(परिक्रम्य सविनयमञ्जलिं बद्धा)

दिवि भुवि च निविष्टान् देशिकान्दिव्यभूम्नः

प्रणतिनियतिवृत्तिः प्रार्थये कञ्चिदर्थम् ।

अधिजिगमिषुराद्यं धाम युष्मत्प्रभावात्

प्रियगतिरनुगृह्य प्रेक्ष्यतां भृत्य एषः ॥ ८६ ॥

मूलम् - ८६

(परिक्रम्य सविनयमञ्जलिं बद्धा)

दिवि भुवि च निविष्टान् देशिकान्दिव्यभूम्नः

प्रणतिनियतिवृत्तिः प्रार्थये कञ्चिदर्थम् ।

अधिजिगमिषुराद्यं धाम युष्मत्प्रभावात्

प्रियगतिरनुगृह्य प्रेक्ष्यतां भृत्य एषः ॥ ८६ ॥

प्रभावली - ८६

अथ परमं पदं जिगमिषुरुभयविधानाचार्यान् प्रणम्य प्रार्थयते - दिवीति ।

X८७६
दिवि; परमपदे ब्रह्मलोकादिषु च । भुवि ; भूलोके च । निवसतो देशिकान् । दिव्यो भूमा महिमा येषां तान् । प्रणतौ प्रणामे नियतवृत्तिः अहं कञ्चिदर्थं वक्ष्यमाणं प्रार्थये । युष्मत्प्रभावात् आद्यं धाम श्रीवैकुण्ठम् अधिजिगमिषुः अधिगन्तुमिच्छुः । प्रिया इष्टा गतिः वैकुण्ठगमनं यस्य सः । एष भृत्यः ; एष दासजानः, अहमित्यर्थः । अनुग्रहेण प्रेक्ष्यताम् । यद्वा अनुग्राह्यः कटाक्ष- विषयीक्रियताम् ॥ ८६ ॥

प्रभाविलासः - ८६

दिवीति । दिवि; परमपदे । प्रियगतिः; प्रियार्चिरादिगतिः ॥ ८६ ॥

विश्वास-प्रस्तुतिः - ८७

अपि च,

एते मह्यमपोढमन्मथशरोन्माथाय नाथादय-

स्त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।

श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः

स्पर्धाविप्लवविप्रलम्भपदवीवैदेशिका देशिकाः ॥ ८७ ॥

मूलम् - ८७

अपि च,

एते मह्यमपोढमन्मथशरोन्माथाय नाथादय-

स्त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।

श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः

स्पर्धाविप्लवविप्रलम्भपदवीवैदेशिका देशिकाः ॥ ८७ ॥

प्रभावली - ८७

देशिकेषु विशिष्यासाधारणोपकारिषु श्रीनाथयामुनयतिवरादिषु मे प्रीतिर्व- तामित्याह – एते इति । एते नाथादयः । कीदृशाः ? त्रय्यन्तेन वेदान्तेन श्लाघनीया विविधाः उदन्ताः येषां ते । पुनस्तान् विशिनष्टि -श्रद्धातव्येति । श्रद्धातव्या विश्वसनीया शरण्यदिव्यदम्पत्योः दया, सैव दिव्यापगा तद्व्यापारः, तां लोके व्यापयन्तीति व्यापकाः । स्पर्धेत्यादि । स्पर्धा ;

X८७७
ईर्ष्या । विप्लवः ; परपीडा धर्मविप्लवो वा । विप्रलम्भः; वञ्चनम् । एता एव पदव्यः, ताभ्यः वैदेशिकाः विदेशस्थाः । नाथादयो देशिकाः आचार्याः । अपोढमन्मथशरोन्माथाय मह्यम्; अपोढः अपवाहितः, त्याजित इत्यर्थः । मन्मथशराणाम् उन्माथः यस्य । परित्याजितमन्मथशरबाधाय मन्मथशरबाधामपि मत्तोऽपोह्येति भावः । मह्यम् इह ; अस्मिन् देह एव ; स्वदन्ताम् । अतिप्रीतिविषया भवन्तु ॥ ८७ ॥

प्रभाविलासः - ८७

एत इति । त्रय्यन्तैः वेदान्तैः प्रतिनन्दनीयाः सन्तोष्टव्याः विविधोदन्ताः नानाविधवृत्तान्ता येषां ते । श्रद्धातव्ययोः रक्षकतया विश्वसनीययोः शरण्ययोः दम्पत्योः श्री श्रीशयोर्दयैव दिव्यापगा वियद्गङ्गा, तस्याः व्यापकाः व्यापयितारः । स्पर्धायाः कलहस्य विप्लवस्य उपद्रवस्य विप्रलम्भस्य वञ्चनायाश्च वैदेशिकाः । नाथादयः नाथमुनि- प्रभृतयः आरोहेणावरोहेण च तदवधिकाः देशिकाः । अपोढः अपास्तः मन्मथशरैः अनङ्गबाणैः उन्माथः मथनं येन तस्मै मह्यं दासभूताय स्वदन्तां रोचयन्तु ॥ ८७ ॥

विश्वास-प्रस्तुतिः - ८८

(इति विवेकसुमतिविष्णुभक्तिभिः116 सप्रसादबहुमानं समीक्ष्यमाणः117 सिषाधयिषितोत्तरकृत्यो निष्क्रान्तः)

सुमतिःः— - अय्यउत्त, अह किं पडिवालिअमोक्खदिअसस्स अम्हकुलवणो अहिलसिअलाहो विलंवेज्ज118 ?

( आर्यपुत्र, अथ किं प्रतिपालितमोक्ष दिवसस्यास्मत्कुलपतेरभिलषितलाभो विलम्बेत १)

राजाः— - देवि, अस्माभिरनया च महाप्रभावया विष्णुभक्त्या नित्यप्रत्यूढनिखिलान्तरायस्य तातस्य किं नाम सम्प्रति काङ्क्षितविलम्बकारणम् ? पश्य पश्य ;

नन्वहं सुमतिजानिरेकधीस्त्वं विवेकसहधर्मचारिणी ।

आवयोर्मतमनन्यभावयोरर्थ्यमेतदचिरेण सेत्स्यति ॥ ८८ ॥

मूलम् - ८८

(इति विवेकसुमतिविष्णुभक्तिभिः116 सप्रसादबहुमानं समीक्ष्यमाणः117 सिषाधयिषितोत्तरकृत्यो निष्क्रान्तः)

सुमतिःः— - अय्यउत्त, अह किं पडिवालिअमोक्खदिअसस्स अम्हकुलवणो अहिलसिअलाहो विलंवेज्ज118 ?

( आर्यपुत्र, अथ किं प्रतिपालितमोक्ष दिवसस्यास्मत्कुलपतेरभिलषितलाभो विलम्बेत १)

राजाः— - देवि, अस्माभिरनया च महाप्रभावया विष्णुभक्त्या नित्यप्रत्यूढनिखिलान्तरायस्य तातस्य किं नाम सम्प्रति काङ्क्षितविलम्बकारणम् ? पश्य पश्य ;

नन्वहं सुमतिजानिरेकधीस्त्वं विवेकसहधर्मचारिणी ।

आवयोर्मतमनन्यभावयोरर्थ्यमेतदचिरेण सेत्स्यति ॥ ८८ ॥

प्रभावली - ८८

सिषाधयिषितम् ; साधयितुमिष्टम् उत्तरकृत्यम् पुण्यक्षेत्राभिगमनादि यस्य सः । अय्यउत्त - आर्यपुत्र । अह किम् अथ किम् । पण्डिवालिअमोक्ख- दिअसस्स-प्रतिपालितमोक्षदिवसस्य । अम्हकुलवइणो- अस्मत्कुलपतेः, पुरुषस्ये- त्यर्थः । अहिलसिअलाहो-अभिलषितलाभः । विलम्बेज्ज - विलम्बेत । नित्यनिरस्त-

X८७८
निखिलविघ्नस्य पुरुषस्य । किं नाम; न किमपीत्यर्थः । विलम्बाभावादस्मासु तदर्थं नित्यं मङ्गलप्रार्थनाकारिषु सत्सु फलसिद्धिः शीघ्रभाविनीति सादरमाह- पश्य पश्येत्यादिना । नन्विति । सुमत्याः तव पतिरहं सिद्धौ एकधीर्ननु । विवेकस्य मम सहधर्मचारिणी त्वं च तत्रैकताना । इत्थमनन्यभावयोर्मतमस्य प्रार्थनीयम् । इदम् अचिरेण शीघ्रं सेत्स्यति । न सन्देह इति शेषः ॥ ८८ ॥

प्रभाविलासः - ८८

नन्विति । एकधीः ; एकबुद्धिः ॥ ८८ ॥

विश्वास-प्रस्तुतिः - ८९

सुमतिःः— - अय्यउत्त, 119एहि कहिं गओ एसो कअकज्जो महापुरसो ?

( आर्यपुत्र, इदानीं कुत्र गत एष कृतकृत्यो महापुरुषः ? )

राजा :—- प्रिये, प्रतिवक्तव्यमेतत् भूतभाविसमस्तवस्तुवेदिन्या भगवत्या विष्णुभक्त्या ।

विष्णुभक्तिः - (निमीलितदृष्टिः प्रणिधानमभिनीय ) नून- मनिकेतो 120 यत्र सायं गृहत्वमास्थितो यथालब्धवृत्तिर्योगी । अथवा ;

श्रीरङ्गं वृषभाचलं करिगिरिं श्रीमद्यदुक्ष्माधरं

साकेतं मधुरामुपैष्यति हरिक्षेत्रं बदर्याश्रमम् ।

अन्तः सम्भृतसप्ततन्त्ववभृथादा देहपातोदया-

द्यद्वा सम्प्रति यत्र कुत्रचिदसौ यत्रैकतानं मनः ॥ ८९ ॥

मूलम् - ८९

सुमतिःः— - अय्यउत्त, 119एहि कहिं गओ एसो कअकज्जो महापुरसो ?

( आर्यपुत्र, इदानीं कुत्र गत एष कृतकृत्यो महापुरुषः ? )

राजा :—- प्रिये, प्रतिवक्तव्यमेतत् भूतभाविसमस्तवस्तुवेदिन्या भगवत्या विष्णुभक्त्या ।

विष्णुभक्तिः - (निमीलितदृष्टिः प्रणिधानमभिनीय ) नून- मनिकेतो 120 यत्र सायं गृहत्वमास्थितो यथालब्धवृत्तिर्योगी । अथवा ;

श्रीरङ्गं वृषभाचलं करिगिरिं श्रीमद्यदुक्ष्माधरं

साकेतं मधुरामुपैष्यति हरिक्षेत्रं बदर्याश्रमम् ।

अन्तः सम्भृतसप्ततन्त्ववभृथादा देहपातोदया-

द्यद्वा सम्प्रति यत्र कुत्रचिदसौ यत्रैकतानं मनः ॥ ८९ ॥

प्रभावली - ८९

दाणि - इदानीम् । कुत्थ गओ कुत्र गतः । एसो - एषः । किअकज्जो - कृतकृत्यः । महापुरिसो - महापुरुषः । अस्य प्रश्नस्योत्तरं सर्वज्ञया विष्णुभक्त्या वक्तव्यमित्याह - प्रिय इत्यादिना । प्रत्युत्तरं दातव्यम् । चक्षुषी निमील्य ; समाधि-

X८७९
मभिनयेत्यर्थः । अयं पुरुषः मुक्तवेश्मा । गृहं परित्यज्य यत्र सायं भवति तत्र गृहं यस्य तस्य भावमङ्गीकृतवान् । यथालब्धेन वृत्तिर्जीवनं यस्य सः । योगी जातः, नूनम् । पक्षान्तरमाह – अथवेति । यावद्देहपातं श्रीरङ्गादिदिव्यक्षेत्र- मुपैष्यति । यद्वा यत्र मनस ऐकाग्रयं तत्र कुत्रचिद्वर्तत इत्याह- श्रीरङ्गमिति । वृषभाचलम् ; सुन्दरराजगिरि, वेङ्कटगिरिं वा । करिगिरिम् ; हस्तिगिरिम् । यदुक्ष्माधरम् ; यादवाचलम् । साकेतम् ; अयोध्याम् । मधुराम् ; कृष्णावतार- भूमिम् । हरेः श्रीमन्नारायणस्याश्रमं, बदरिकाश्रमम् । एतेष्वेकं वा सर्वं वोपैष्यति । कियत्पर्यन्तमित्यत्रादेहपातमित्याह — अन्तरिति । अन्तः सम्भृतः मनस्यनुष्ठितः यः सप्ततन्तुः मखः न्यासाख्यः, तस्यावभृथस्थानीयो वर्तमान- देहपातो यावत् तावदवधि उपैष्यति । पुनरपि पक्षान्तरमाह - यद्वेति । यत्रास्य मन एकतानम् एकाग्रम् तत्र यत्र कुत्रचित् देशे ग्रामे वा, सम्प्रति असौ पुरुषो वर्तेत ॥ ८९ ॥

प्रभाविलासः - ८९

अनिकेत इति । यत्रसायङ्गृहः ; मुनिः । अनेन " अनिकेतः स्थिरमतिः” इति विवृतम् । श्रीरङ्गमिति । सप्ततन्तुरिति ; “ “तस्यैवं
विदुषो यज्ञस्यात्मा यजमानः" इत्यादिश्रुतिर्विवृता । अवभृथादिति;“ यन्मरणं तदवभृथः " इति श्रुतिर्विवक्षिता । अवभृथो नाम यागपरिसमाप्तौ क्रियमाणः पुण्यो महोत्सवः । उक्तं हि ब्रह्मविन्मरणस्य पवित्रतमत्वम्

" यत्तु ब्रह्मविदा त्यक्तमपि तन्मङ्गलं वपुः ।

दृष्ट्वा पृष्ट्वा विमुच्येत ब्रह्महा ब्रह्महत्यया ॥”

इति

" ये वहन्ति महात्मानं दृष्ट्रा स्पृष्ट्रा द्विजातयः ।

हयमेधफलं तेषामस्तीत्येवं विदुर्बुधाः ॥ ”

इति च । उत्सव रूपत्वं चोक्तम्—

“तनुत्यजं न शोचेत्तु स्वजनं वैष्णवो जनः ।

कः शोचति प्रियं बन्धुं कारागाराद्विनिर्गतम् ॥ "

इति ॥ ८९ ॥

विश्वास-प्रस्तुतिः - ९०

W
अपि च,

स्वयं व्यक्तक्षेत्रे विपिनविषये वा विधिवशात्

प्रशस्ते दुष्टे वा क्वचन समये121 त्यक्तवपुषः ।

मुकुन्दस्त्रय्यन्तप्रथितमहिमा 122सोऽयमनघान्

प्रपन्नानुद्धृत्य स्वपदमनपायं शमयति ॥ ९० ॥

मूलम् - ९०

W
अपि च,

स्वयं व्यक्तक्षेत्रे विपिनविषये वा विधिवशात्

प्रशस्ते दुष्टे वा क्वचन समये121 त्यक्तवपुषः ।

मुकुन्दस्त्रय्यन्तप्रथितमहिमा 122सोऽयमनघान्

प्रपन्नानुद्धृत्य स्वपदमनपायं शमयति ॥ ९० ॥

प्रभावली - ९०

X८८०
ननु यत्र कुत्रचिदिति कथमुच्यते ? पुण्यक्षेत्रे देहत्यजामेव खलु पुण्यलोक- प्राप्तिरित्याशङ्कय मुमुक्षोस्तथा देशनियमो नास्तीत्याह — स्वयमिति । स्वयं व्यक्त- क्षेत्रे; श्रीरङ्गादौ वा भवतु । विपिनविषये ; कचित् मरुभूमौ वा । प्रारब्धकर्म- शेषात् प्रशस्ते वचन समये वा पुण्यकाले वा दुष्टे समये वा दक्षिणायन रात्र्यादिषु वा । त्यक्तशरीरान् अनघान् अघरहितान् अधे कृतेऽपि कृतप्रायश्चित्तान्वा ।

X८८१
मुकुन्दो मुक्तिभूमिप्रदः । प्रपन्नान् त्रय्यन्तप्रथितमहिमा सोऽयं मुकुन्दः तीर्थे श्वपचगृहे वा उद्धृत्य संसारादिति शेषः ; अनपायं पुनरावृत्त्यपायरहितं स्वं वैकुण्ठं पदं गमयति ॥ ९० ॥

प्रभाविलासः - ९०

स्वयमिति । दुष्टे वचन समय इति निशादक्षिणायनादिकं न प्रतिबन्धकमित्युक्तम् । यथाह सूत्रकारः - " निशि नेति चेन्न, सम्बन्धस्य। यावद्देहभावित्वात् । अतश्चायनेऽपि दक्षिणे" इति । यच्चोक्तम् -

" दिवा च शुक्लपक्षश्च उत्तरायणमेव च ।

मुमूर्षतां प्रशस्तानि विपरीतं विगर्हितम् ॥ "

इति, तदविद्वद्विषय मित्यभाषि । अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छति " इति ब्रह्मविदश्वन्द्रप्राप्तिस्तु चन्द्रस्य विश्रमस्थानतयातिवाहिकत्वेन चोक्ता, वाक्यशेषे " तस्माद् ब्रह्मणो महिमानमाप्नोति" इति चन्द्रं प्राप्तस्यापि विदुषो ब्रह्मप्राप्तिश्रवणात् । यच्च गीतायाम् – “ अग्निर्ज्योतिरहः शुक्लः " " " धूमो रात्रिस्तथा कृष्णः”इत्यादिनोक्तं, तस्य न कालविशेषोपपादने तात्पर्यम्, किं तु योगिनां
योगाङ्गतया स्मर्तव्यत्वे । उपसंहारे " नैते सृती पार्थ जानन् योगी मुह्यति कश्चन" इत्युक्तत्वादिति ज्ञेयम् ॥ ९० ॥

विश्वास-प्रस्तुतिः - ९१

अद्य चासौ निखिलजगदेकदेहिना नित्यनिरवद्येन देवेन निजनगरपर्यन्तमनघम पुनरावृत्तिमध्वानं निनीषितः । तेन च,

देवर्षिभूत पितृमर्त्य ऋणातिलङ्ङ्घी

दत्ताभयस्य कृपया 123दृढभक्तिशाली ।

पत्युः समस्तजगतां परमं पदं तत्

प्राप्स्यत्यसौ गुरुजनैः प्रथमाधिरूढम् ॥ ९१ ॥

मूलम् - ९१

अद्य चासौ निखिलजगदेकदेहिना नित्यनिरवद्येन देवेन निजनगरपर्यन्तमनघम पुनरावृत्तिमध्वानं निनीषितः । तेन च,

देवर्षिभूत पितृमर्त्य ऋणातिलङ्ङ्घी

दत्ताभयस्य कृपया 123दृढभक्तिशाली ।

पत्युः समस्तजगतां परमं पदं तत्

प्राप्स्यत्यसौ गुरुजनैः प्रथमाधिरूढम् ॥ ९१ ॥

प्रभावली - ९१

अद्य च भगवता स पुरुषोऽर्चिरादिमार्गेण स्वपदं प्रापयितुमिष्यत इत्याह- अद्य चेति । निखिलजगताम् एकशरीरिणा; अन्तर्यामिणा । अन्तरात्मत्वेऽपि नित्यनिरवद्येन ; तद्गतदोषैः असंस्पृष्टेन । देवेन ; कल्याणैकतानतया प्रकाशमानेन । निजनगरम् ; वैकुण्ठपुरम् । अनघम् ; इतर मार्गदोषरहितम् । निनीषितः; नेतुमिष्टः पुरुषः । सर्वेश्वरस्य भगवतः परमपदं प्राप्स्यतीत्याह - देवर्षीति । पञ्चमहा-

X८૮૨
यज्ञोद्देश्यानां देवपितृभूतमर्त्यऋषीणाम् ऋणमतिलङ्घ्य वर्तमानः दृढभक्तिशाली परमभक्तिशाली असौ “सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः” इति दत्ताभयस्य समस्तजगतां पत्युः गुरुजनैः विष्वक्सेनशठकोपमुनिप्रभृतिभिः पूर्वमेवारूढं परमं पदं शीघ्रं प्राप्स्यति ; न विलम्बते ॥ ९१ ॥

प्रभाविलासः - ९१

देवर्षीति ।" जायमानो वै ब्राह्मणस्त्रिभिर् ऋणवा जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः " इति ऋणत्रयं प्रसिद्धम् । यद्भूतेभ्यो बलिं हरति यद् ब्राह्मणेभ्योऽन्नं ददाति" इति ब्रह्मयज्ञोक्तेन मर्त्यभूतऋणद्वयम् । आत्मऋणमेकम्, “ देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः " इति चक्रवर्तिवचनात् " अनुभूतानि चेष्टानि मया चिर- सुखानि च " इत्यात्मऋणापाकरणोक्तेश्च । अनेन
“देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥ "

इति स्मारितम् ॥ ९१ ॥

विश्वास-प्रस्तुतिः - ९२

इदमपि किञ्चिदचिन्त्यमहिमशालिन्यमुष्मिन् महात्मन्यद्भुतमवलोकयामि । अद्य हि-

कृतमिह दुरितं प्रमादवृत्या

किमपि मुकुन्दकृपानिमग्नमेनम् ।

पवनतनयवालवह्निनीत्या

न दहति धक्ष्यति योजितं परेषु ॥ ९२ ॥

मूलम् - ९२

इदमपि किञ्चिदचिन्त्यमहिमशालिन्यमुष्मिन् महात्मन्यद्भुतमवलोकयामि । अद्य हि-

कृतमिह दुरितं प्रमादवृत्या

किमपि मुकुन्दकृपानिमग्नमेनम् ।

पवनतनयवालवह्निनीत्या

न दहति धक्ष्यति योजितं परेषु ॥ ९२ ॥

प्रभावली - ९२

पुरुषेऽद्भुतं दर्शयति - कृतमिति । इह ; वर्तमानदेहे । प्रमादवृत्त्या कृतम् ; प्रामादिकं दुरितं किमपि । मुकुन्दकृपासमुद्रे निमग्नम् एनम् हनुमद्वाले लङ्कायां राक्षस सन्धुक्षितवह्रिन्यायेन पुरुषं न दहति । परेषु शत्रुषु भगवता योजितं परं दहत्येव । यथा लङ्कायां हनुमद्वालवह्निः सीतायाः कृपया स्वाश्रयं हनुमन्तमदहन्नेव राक्षसानदहत्, तद्वदिति ॥ ९२ ॥

प्रभाविलासः - ९२

कृतमिति । वालवह्निः; पुच्छपावकः ॥ ९२ ॥

विश्वास-प्रस्तुतिः - ९३

राजा :— - ( सहर्षबहुमानम् ) भगवति विष्णुभक्ते, 124विष्णु-
साक्षात्कारविचक्षणायास्ते किमेतावत्125 परिमितातिशयदर्शनमाश्चर्यम् । (विचिन्त्य स्वगतम्) महाप्रभावैषा मम वन्दनीया । ( प्रकाशम्)

विधिवशनियतेन विष्णुभक्ते

प्रणिपतनेन वयःक्रमाधिकोऽपि ।

उचितमुपचरामि विश्वमान्यां

हरिपदपद्मरतिं 126परामहं त्वाम् ॥ ९३ ॥

मूलम् - ९३

राजा :— - ( सहर्षबहुमानम् ) भगवति विष्णुभक्ते, 124विष्णु-
साक्षात्कारविचक्षणायास्ते किमेतावत्125 परिमितातिशयदर्शनमाश्चर्यम् । (विचिन्त्य स्वगतम्) महाप्रभावैषा मम वन्दनीया । ( प्रकाशम्)

विधिवशनियतेन विष्णुभक्ते

प्रणिपतनेन वयःक्रमाधिकोऽपि ।

उचितमुपचरामि विश्वमान्यां

हरिपदपद्मरतिं 126परामहं त्वाम् ॥ ९३ ॥

प्रभावली - ९३

विष्णुसाक्षात्कारे विचक्षणायास्ते परिमितातिशयदर्शनमाश्चर्यं किम् ? नाश्चर्यम् । अपरिमितातिशयं भगवन्तं साक्षात्कर्तुं समर्थायास्ते पुरुषमात्र-

X८८३
साक्षात्कारः किमाश्चर्यमिति भावः । एषापि ; विष्णुभक्तिरपि । मयेति शेषः । पुरुषस्य विवेके जाते अनन्तरं विष्णुभक्तिरुत्पद्यते । अतो विवेकस्य कनीयसी विष्णुभक्तिः । तथापि वयःक्रममनपेक्ष्य भगवद्वल्लभां त्वां नमस्यामीत्याह- विधिवशेति । भो विष्णुभक्ते वयः क्रमेण अधिकोऽपि ज्येष्ठोऽपि अहं हरिपदपद्मे पतिवरां विष्णुपदपद्ममेव स्वयं वृतवतीम्, तद्वल्लभामित्यर्थः । अत एव विश्वेषां ब्रह्मादीनामपि मान्यां भगवतोऽपि मान्यां त्वां विधिवशः शास्त्रवशः शास्त्रबलात् नियति प्राप्तेन अकरणे प्रत्यवायावहेन प्रणिपतनेन साष्टाङ्गनमस्कारेण उचितं यथा तथा उपचरामि ॥ ९३ ॥

प्रभाविलासः - ९३

विधीति । विधिवशनियतेन; शास्त्रविहितेन । प्रणिपतनेन ; दण्डवत्प्रणामेन । वयः क्रमाधिकः; वर्षीयान् ॥ ९३ ॥

विश्वास-प्रस्तुतिः - ९४

( सुमतिमवलोक्य) प्रिये, त्वमप्येनामस्मत्प्रयुक्तप्रतिष्ठामप्यादिपूरुषमूर्तिमिव प्रणन्तुमर्हसि ।

विष्णुभक्तिः – (सप्रश्रयम् ) महाराज, अनादिसंसारसागरनिमग्नमस्मत्कुलपतिं पुरुषमुद्धृतवते पूर्वजाय भवते प्रतिप्रणाममभिरोचयामि ।
127राजाः— - महायोगेश्वरि भगवति, मा मैवम्,

किं विज्ञानैः किं तपोदानयज्ञैः

किं वान्यैश्च त्वत्परित्यागदीनैः ।

ज्ञातुं द्रुष्टुं तत्त्वतश्च प्रवेष्टुं

शक्यं ब्रह्मानन्यभाजा त्वयैव ॥ ९४ ॥

मूलम् - ९४

( सुमतिमवलोक्य) प्रिये, त्वमप्येनामस्मत्प्रयुक्तप्रतिष्ठामप्यादिपूरुषमूर्तिमिव प्रणन्तुमर्हसि ।

विष्णुभक्तिः – (सप्रश्रयम् ) महाराज, अनादिसंसारसागरनिमग्नमस्मत्कुलपतिं पुरुषमुद्धृतवते पूर्वजाय भवते प्रतिप्रणाममभिरोचयामि ।
127राजाः— - महायोगेश्वरि भगवति, मा मैवम्,

किं विज्ञानैः किं तपोदानयज्ञैः

किं वान्यैश्च त्वत्परित्यागदीनैः ।

ज्ञातुं द्रुष्टुं तत्त्वतश्च प्रवेष्टुं

शक्यं ब्रह्मानन्यभाजा त्वयैव ॥ ९४ ॥

प्रभावली - ९४

अस्माभिः क्रियमाणप्रतिष्ठां नारायणमूर्तिमिव । स्वेन प्रतिष्ठापितां विष्णुमूर्तिं स्वयमेव यथा नमस्यन्ति वृद्धाः । उद्धृतवते; संसारादिति शेषः । पूर्वजाय ;

X८८४
अग्रजाय । त्वया कृतप्रणामा प्रतिप्रणामं कर्तुमिच्छामि, अग्रजत्वात् कृतोपकारत्वाच्च । अप्रतिमप्रभावया त्वया नैवं वक्तव्यमित्याह — महायोगेश्वरीत्यादिना । महायोगाः ; ऋषयः । तेषामीश्वरो भगवान् । तस्य स्त्री महायोगेश्वरी । भो महायोगेश्वरि । किमिति । त्वत्परित्यागदीनैर्विज्ञानैः ; विष्णुभक्तिरहितविज्ञानैः । किम् ; केवलं विशेषज्ञानेन किं लभ्यते । केवलतपोदानयज्ञैश्च किं लभ्यते । तपः स्वधर्मानुष्ठानम् । अन्यैः; स्वाध्यायाध्ययनतीर्थयात्राव्रताचरणादिभिः किं लभ्यते न किमपीत्यर्थः । ब्रह्म ; परम्ब्रह्म । तत्त्वतो ज्ञातुं द्रष्टुं प्रवेष्टुं च अनन्यभाजा एकान्तवृत्या त्वयैव विष्णुभक्त्या शक्यम् ।

X८८५
" नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥

भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ "

इति भगवद्वचनमत्रानुसन्धेयम् ॥ ९४ ॥

प्रभाविलासः - ९४

किमिति । " तमेतं वेदानुवचनेन " इत्यादिश्रुतिविरोधपरिहाराय भक्त्यङ्गभावेन वेदानुवचनादीनामुपयोगमाह — त्वत्परित्यागेति । ज्ञातुमिति शास्त्रजन्यज्ञानं विवक्षितम् । द्रष्टुमिति साक्षात्कारः । प्रवेष्टुमिति परिपूर्ण - प्राप्तिः ; यथाविवक्षितसर्वाकारेणानुभव इति यावत् । तेन व्यूहविभवादिमात्रप्राप्तिव्यवच्छेदः । स्मर्यन्ते च साक्षात्कारान्मुक्तेरर्वाञ्चः प्राप्तिपर्वभेदाः

“लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केचिदन्ये ।

अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥” इति ।

अनन्यभाजा; अनन्यप्रयोजनया अनन्यदेवताकया वा । तच्चत इति ज्ञानादिपदेषु त्रिष्वप्यन्वेति । त्वयैव शक्यमिति ; ज्ञानदर्शनप्राप्तिषु भक्तिपर्वभेदेन नान्योन्याश्रयादिदोषः । पूर्वजन्मसुकृतमूलसात्त्विकजनसंवादा-
.

दिजनितं यथावच्छ्रवणानुगुणं किञ्चिदानुकूल्यरूपं भक्तिमात्रं शास्त्रजन्य- ज्ञानोत्पत्तौ सहकारि भवति । उत्कट दिदृक्षावहा परभक्तिः साक्षात्कारहेतुः । साक्षात्कृते तु परिपूर्णानुभवाभिनिवेशलणक्षणा परमभक्तिः प्रवेशहेतुरिति । अत्र " नाहं वेदैर्न तपसा न दानेन न चेज्यया " " न देवयज्ञाध्ययनैर्न दानैः "

" भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप " इत्यादि स्मारितम् । अत्र फलसम्पत्तेः प्रतिपाद- नात् फलप्राप्तिर्नाम प्रधानाङ्गमुक्तम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः - ९५

विष्णुभक्तिःः— - (विचिन्त्य) भवत्वेतदेवमन्यथा वा । प्रत्येमि तव मत्समक्षमेव मनीषितं साधयतः स्वयमकर्तृत्वाभिमानाभिप्रायम् । सर्वथा निस्तरति तावदयमसौ निष्प्रत्यूहभगवदनुकम्पावलम्बितः पुरुषः सर्वदोषाकरं संसारसागरम् । प्रविशति च परमं पदम् । किम्भूयः प्रियमुपहरामि ?

राजाः— - भगवति महानुभावे,
किं तत्प्रियं परमतः प्रतिपादनीयं

पद्मासहायपदपद्मजुषा भवत्या ।

पश्यामि यत्पुरुषमेवमपास्तपङ्कं

राकाशशाङ्कमिव राहुमुखाद्विमुक्तम् ॥ ९५ ॥

मूलम् - ९५

विष्णुभक्तिःः— - (विचिन्त्य) भवत्वेतदेवमन्यथा वा । प्रत्येमि तव मत्समक्षमेव मनीषितं साधयतः स्वयमकर्तृत्वाभिमानाभिप्रायम् । सर्वथा निस्तरति तावदयमसौ निष्प्रत्यूहभगवदनुकम्पावलम्बितः पुरुषः सर्वदोषाकरं संसारसागरम् । प्रविशति च परमं पदम् । किम्भूयः प्रियमुपहरामि ?

राजाः— - भगवति महानुभावे,
किं तत्प्रियं परमतः प्रतिपादनीयं

पद्मासहायपदपद्मजुषा भवत्या ।

पश्यामि यत्पुरुषमेवमपास्तपङ्कं

राकाशशाङ्कमिव राहुमुखाद्विमुक्तम् ॥ ९५ ॥

प्रभावली - ९५

भवत्वेवमेतत्; यद्विवेकेनोक्तं तपोदानादीनामप्रयोजकत्वं तदेवं भवतु । अन्यथा वा भवत्वित्यर्थः । नन्वन्यथा वेत्यनुपपन्नम्,

“न वेदयज्ञाध्ययनैः " इत्यादिविरोधादित्यत आह- प्रत्येमीति । मनीषितम् ; समाधिम् । साधयतः पुरुषस्य अकर्तृकत्वाभिमानाभिप्रायम्; वेदाध्ययनाद्यङ्गोपकृतमनीषितसाधने योऽयमकर्तृत्वाभिमानलक्षणाभिप्रायः, तम् । स्वयं प्रत्येमि ; जानामि । कर्तृत्वाभिमानविधुरकर्मानुष्ठानस्य विद्याङ्गत्वान्न विरोध इति भावः । निस्तरति संसारसमुद्रम् ; अयमसौ पुरुषः निर्विघ्नभगवत्कृपया अवलम्बितः संसारसागरं निस्तरति । सर्वथा सर्वप्रकारेण । परमं पदं प्रविशति च । इदमेव किं तव

X८८६
प्रियजातम् ? भूयः किं ते प्रियमुपहरामि ? इतः परं मे भवत्या प्रतिपादनीयं किं तत् प्रियम् ? अतः परमित्यत्रातः शब्दार्थं दर्शयति - पश्यामीति ।

अपास्तपङ्कं राहुमुखाद्विमुक्तं राकाशशाङ्कमिव स्थितं पुरुषमेवं पश्यामीति यावत् ॥ ९५ ॥

प्रभाविलासः - ९५

किं तदिति । राकाशशाङ्कमिवेति;”अश्व इव रोमाणि विधूय

पापं चन्द्र इव राहोर्मुखात्प्रमुच्यते " इति श्रुत्यर्थ उक्तः ॥ ९५ ॥

विश्वास-प्रस्तुतिः - ९६

अपि च,

अपुनरुदयो मायामोहः स्थलीमधिशायितः

स्फुरति मुरभिद्भक्तिर्भव्या भवत्यनुपप्लवा ।

सरणिमपुनः प्रत्यावृत्तिं भजत्यनघः पुमान्

किमिह बहुभिः क्रीडत्यग्रे समीहितमद्य नः ॥ ९६ ॥

मूलम् - ९६

अपि च,

अपुनरुदयो मायामोहः स्थलीमधिशायितः

स्फुरति मुरभिद्भक्तिर्भव्या भवत्यनुपप्लवा ।

सरणिमपुनः प्रत्यावृत्तिं भजत्यनघः पुमान्

किमिह बहुभिः क्रीडत्यग्रे समीहितमद्य नः ॥ ९६ ॥

प्रभावली - ९६

अतः परं किं तत्प्रियं ममाभिलषितम् ? सिद्धिरग्रे मम नृत्यतीवेत्याह– अपिचेत्यादिना । मायामोहः अपुनरुदयः अपुनरुत्पत्तिर्यथा भवति तथा स्थलीं

X८८७
रणभूमिम् अधिशायितः, निर्जित इत्यर्थः । भव्या मुरभिद्भक्तिः भवती अनुपद्रवा स्फुरति । विष्णुभक्तिस्त्वं निरुपद्रवा शोभस इत्यर्थः । पुमान् अयं पुरुषश्च अनघः पुण्यपापविनिर्मुक्तः पुनः प्रत्यावृत्तिरहितां सरणिम् अर्चिरादिं भजति ।

X८८८
परमपदं प्राप्नोति । एवं मोहनाशविष्णुभक्तिप्रकाशनपुरुषमोक्षणरूपप्रयोजनत्रयसिद्ध्या ममेष्टसिद्धिरग्रे नृत्यतीवेति । भवत्याः विष्णुभक्त्याः सकाशात्प्रार्थयामि ॥ ९६ ॥

प्रभाविलासः - ९६

अपुनरिति । भव्या; मङ्गलरूपा । इह बहुभिः किं प्रयोजनम् ? समीहितमये क्रीडतीति कार्यस्योपसंहारात् उपसंहारो नाम निर्वहणसन्धेरङ्गमुक्तम्, “ कार्यार्थोपसंहृतिरुपसंहारः " इति लक्षणात् ।

एवं साङ्गं नाटकमुदाहृतम् । इदमिह ज्ञातव्यम् - ज्ञातेतिवृत्तं धीरोदात्तनायकम् उद्धतोपनायकम् अनुल्लङ्घितौचित्यं लङ्घितानौचित्यं शृङ्गारशान्तवीररसाद्यन्यतमप्रधानम् उपसर्जनीभूतकरुणरसादिकं सन्धिपञ्चकान्वितं चतुःषष्ट्यङ्गसमेतम् उपसन्ध्युपेतम् अलङ्कारैरलङ्कृतं पताकास्थानका-
न्वितं विष्कम्भादिपञ्चकप्रपञ्चितं भारत्यादिवृत्तिपरिष्कृतं परिभाषाद्यशेषविशेषविशेषितम् अवस्थानुकृतिविलसितं नाटकमिति । यथोक्तमभिनवगुप्तपादैः-

“अर्थप्रकृत्यवस्थात्मसन्धिसन्ध्यङ्गवृत्तिमत् ।

अर्थोपक्षेपकैर्युक्तं पताकास्थानकादिभिः ।

अलङ्कारैः समायुक्तं सन्धिभिश्चोपसन्धिभिः ।

रसौचित्य विलासैश्च तदनौचित्यवर्जितम् ।

धीरोदात्ताद्यवस्थानुकृतिर्नाटकमुच्यते ॥ "

इति ।

अत्र

शान्तरसः पञ्चसन्धिव्यापितया पुनः पुनरनुसन्धीयमानः

प्राधान्यं भजते । रसान्तरैरन्तरालवर्तिभिर्यः समावेशः, स तस्य प्राधान्यन्नोपहन्ति । यथोक्तं ध्वनिकृता-

“प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।

एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥

कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते ।

तदा रसस्यापि विधौ विरोधो नैव विद्यते ॥”

इति । ननु विरुद्धरससमावेशेऽनौचित्यम् ; तत्कथं रौद्रादिविरोधिरसैः शान्तरससमावेश इति चेत्, उच्यते — विरोधेऽपि रसानां विरोधिनोर्द्वयोः प्राधान्येन वर्णन एवानौचित्यम् । अङ्गाङ्गिभावेन वर्णने तु न दोषः । यथोक्तं ध्वनिकृता-

" अविरोधे विरोधे वा रसोऽङ्गिनि रसान्तरे ।

परिपोषं न नेतव्यो यथा स्यादविरोधिता ।”
इति । अत्र परिपोषो नामान्तरालिकानां रसानां प्रधानेन सह तुल्यतया वर्णनम् । अत्राञ्जनकारस्तु विरोधाविरोधविचार एव न कर्तव्य इत्याह । अन्ये - शान्तरसः पुरुषाश्रयतया वर्णितः । रौद्रादयो विवेकमोहाद्याश्रय- तया वर्णिता इति भिन्नाश्रयतया विरोधाभावमामनन्तीत्येषा दिक् ॥ ९६ ॥

विश्वास-प्रस्तुतिः - ९७

किमन्यदहमिह भवत्याः सकाशादाशासे । तदापीदमस्तु-

(भरतवाक्यम्)

अङ्गीकुर्वन्त्वकलुषधियो नित्यमध्यात्मविद्या-

माद्यो धर्मः स्पृशतु वसुधामाशिषः पारवतीम् ।

देवः श्रीमान्निरवधिदयासिन्धुरस्मिन्प्रबन्धे128

वक्ता श्रोता वचनविषयः प्रीयतां वासुदेवः ॥

( इति निष्क्रान्ताः सर्वे)

इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये 129निःश्रेयसलाभो नाम दशमोऽङ्कः । ॥ ९७ ॥

मूलम् - ९७

किमन्यदहमिह भवत्याः सकाशादाशासे । तदापीदमस्तु-

(भरतवाक्यम्)

अङ्गीकुर्वन्त्वकलुषधियो नित्यमध्यात्मविद्या-

माद्यो धर्मः स्पृशतु वसुधामाशिषः पारवतीम् ।

देवः श्रीमान्निरवधिदयासिन्धुरस्मिन्प्रबन्धे128

वक्ता श्रोता वचनविषयः प्रीयतां वासुदेवः ॥

( इति निष्क्रान्ताः सर्वे)

इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये 129निःश्रेयसलाभो नाम दशमोऽङ्कः । ॥ ९७ ॥

प्रभावली - ९७

सर्वे अध्यात्मविद्यां परिपालयन्तु । निवृत्तिधर्मः भुवि वर्धताम् । एतत्प्रबन्धस्य प्रतिपाद्यो वक्ता श्रोता च वासुदेवो मम प्रीयतामित्याह - अङ्गीकुर्वन्त्विति । अकलुषधियः ; शुद्धबुद्धयः । सर्वे नित्यम् अध्यात्मविद्याम्

X८८९
वेदान्तशास्त्रादिरूपां परिपालयन्तु । आद्येो धर्मः ; कृतयुगधर्मः ; मोक्षधर्म इत्यर्थः । कीदृशः ? आशिषः अदृष्टवस्तूनां पारवर्ती पराकाष्ठाभूतः । वसुधां स्पृशतु ; भूमौ वर्तताम् । अस्मिन् प्रबन्धे ; सङ्कल्पसूर्योदयाख्ये नाटके । वक्ता ; प्रधानवक्ता ; स्वस्य वीणास्थानीयत्वात् । श्रोता च सर्वान्तर्यामी स एव । यः श्रुत्वा फलं प्रयच्छति, स एव श्रोता नान्यः । वचनस्य प्रबन्धस्य विषयः प्रधानप्रतिपाद्यो यः सः श्रीवासुदेवः,

“ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।

अतः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ ""

इत्युक्तः । प्रीयताम् ; प्रसन्नो भवतु । न इत्यनुक्त्या सर्वेषामिति गम्यते । श्री पराशरब्रह्मर्षिवत् जगतां भगवत्प्रसादरूपं मङ्गलं भद्रमाशास्ते । स यथा स्वप्रबन्धान्ते अपजन्मजरादिकां समृद्धिं जगतां भद्रमाशासितवान् तथा अयमपि श्रीवेदान्ताचार्यः स्वप्रबन्धान्ते जगतां भगवत्प्रसादरूपं मङ्गलमाशास्ते ।

[[८९०]]


स्वग्रन्थे मत्सरग्रस्तान् प्रत्याह — स्तोतुमिति । अस्मदुक्तं यत्किचिद्गुणे सति स्तोतुं, दोषे सति निन्दितुम्, अथवा दोषे सत्यपि सोढुं जगत्सर्वं सुतरां मूढं मुग्धम् । तेन किं नश्छिन्नम् ; अस्माकं का हानिः ? कुतः ? सुस्थे ; अपायरहिते । अनन्तस्य भगवतः चिन्तनरसे ध्यानास्वादे आनन्दे सुखं यथा तथा तस्थुषां नः । तर्हि त्वद्ग्रन्थेन किमित्यत्राह - शिष्या इति । श्रुतिपथे ; वेदमार्गे । शिक्षितबुद्धयः वयं येषां शिष्यास्ते । ये चास्मच्छिष्याः सन्ति । इदम् ; नाटकप्रबन्धरूपं वस्तु । तत्सन्तोषसमर्पणक्षमम् ; तन्मुदं परिपालयतीत्यर्थः । साडम्बरैः; अन्तर्निःसारत्वेऽपि बहिः ससम्भ्रमैः । परेः ; इतरेः किं प्रयोजनम् ॥

130श्रीमान्रामानुजेत्याद्यमलसुर नदीपाविताशेषलोको

विद्यासम्पन्निषद्या कविकथकघटामस्तकन्यस्तपादः ।

अव्याद्दिव्यप्रबन्धैः श्रुतिगहनगुहादीपमालासगन्धै-

र्वेदान्ताचार्यवर्यो गुणनिधिरिह मां सर्वतन्त्रस्वतन्त्रः ॥

ब्रह्मतन्त्रयतीन्द्रोक्तरहस्यार्थविचक्षणम् ।

श्रीशैलताततनयमनन्तार्यगुरुं भजे ॥

इति श्रीनृसिम्हराजाचार्यविरचितायां सङ्कल्पसूर्योदयव्याख्यायां प्रभावल्यां निःश्रेयसलाभो नाम दशमोऽङ्कः॥ ९७ ॥

प्रभाविलासः - ९७

भरतवाक्यम्; भरतस्य वाक्यम् । आशिषमाशास्ते - अङ्गी- कुर्वन्त्विति । अद्यो धर्मः ; कृतयुगधर्मः । अस्मिन् ; नाटके । निबन्धे;
कृतौ । श्रीमान् अनपायिलक्ष्मीसमेतः । प्रीयताम् प्रीतो भवतु । अनेन प्रशस्तिर्नाम निर्वहणसन्धेरङ्गमुक्तम्, " प्रशस्तिः शुभशंसनम् ” इति लक्षणात् ।

इत्यात्रेयगोत्रसम्भूतेन श्रीमदहोबिलनाम्ना विदुषा विरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने निःश्रेयसलाभो नाम दशमोऽङ्कः । ॥ ९७ ॥

विश्वास-प्रस्तुतिः

स्तोतुं निन्दितुमस्मदुक्तमथवा131 सोढुं 132समूढं जगत्
किं नश्छिन्नमनन्तचिन्तनरसे सुस्थे सुखं तस्थुषाम् ।
शिष्याः शिक्षितबुद्धयः श्रुतिपथे येषां वयं ये च न-
स्तत्सन्तोषसमर्पणक्षममिदं साडम्बरैः किं परैः ॥

मूलम्

स्तोतुं निन्दितुमस्मदुक्तमथवा131 सोढुं 132समूढं जगत्
किं नश्छिन्नमनन्तचिन्तनरसे सुस्थे सुखं तस्थुषाम् ।
शिष्याः शिक्षितबुद्धयः श्रुतिपथे येषां वयं ये च न-
स्तत्सन्तोषसमर्पणक्षममिदं साडम्बरैः किं परैः ॥

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

Notes


  1. संरोध —ग ↩︎ ↩︎

  2. स्वधर्मोत्तरः — क ↩︎ ↩︎

  3. भगवता च — ख. ↩︎ ↩︎

  4. फलं लभ्यते - —- ग. ↩︎ ↩︎

  5. इत्युच्यते- —-क. ↩︎ ↩︎

  6. मदनुबोधादेव — क ↩︎ ↩︎

  7. विपश्चितः —- छ. ↩︎ ↩︎

  8. केष्वधिगतेषु — ख. ↩︎ ↩︎

  9. घनेन — ग ↩︎ ↩︎

  10. स च — ग. ↩︎ ↩︎

  11. निमज्जत्येतस्मिन् —क, ↩︎ ↩︎

  12. उपचिकीर्षे इति प्रभावलीपाठः ↩︎ ↩︎

  13. प्रायः — ग. ↩︎ ↩︎

  14. मुद्रितपुस्तकेषु पञ्चदशपद्यानन्तरमधो निर्दिष्टाः पङ्क्तयो दृश्यन्ते- अद्य पुनर्मातेव स्तनन्धयानामस्माकमभिरक्षणे पक्षपातिनी भवती । फलवितरणदक्षं पक्षपातानभिज्ञं प्रगुणमनुविधेयं प्राप्य पद्मासहायम् । महति गुणसमाजे मानपूर्वं दये त्वं प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ↩︎ ↩︎

  15. नागरिपुः — क. ↩︎ ↩︎

  16. नतजनेषु — - ग. ↩︎ ↩︎

  17. शक्तिः — –क, ↩︎ ↩︎

  18. महात्मन् added after —ग ↩︎ ↩︎

  19. वज्रतुण्डाय —क ↩︎ ↩︎

  20. भगवद्दास्यमिति प्रभावलीपाठः ↩︎ ↩︎

  21. आदिपर्वणि अध्यायः ३१. ↩︎

  22. इव omitted — ग. ↩︎ ↩︎

  23. दयासखस्य —- ख. ↩︎ ↩︎

  24. सुषुप्ति —ग. छ. ↩︎ ↩︎

  25. साधुपरित्राणे — छ. ↩︎ ↩︎

  26. विनिवर्त्य ——ख, ↩︎ ↩︎

  27. साध्य omitted, —ग ↩︎ ↩︎

  28. दोषा —ख, ↩︎ ↩︎

  29. कीर्तिः — ग ↩︎ ↩︎

  30. उपस्थिता —ग. ↩︎ ↩︎

  31. साष्टाङ्ग — क. ↩︎ ↩︎

  32. योगेश्वरि —क, ख. ↩︎ ↩︎

  33. मनसा — क. ↩︎ ↩︎

  34. धन्यैव — छ. ↩︎ ↩︎

  35. निखिल omitted — - ख. ↩︎ ↩︎

  36. परिग्रहेऽपि —ग छ. ↩︎ ↩︎

  37. सम्भावनीयं —- क ↩︎ ↩︎

  38. चेदृशीम् — ग. ↩︎ ↩︎

  39. परिक्षेप्तुं — क ↩︎ ↩︎

  40. घृणा —क ↩︎ ↩︎

  41. दूरापयात ——छ. ↩︎ ↩︎

  42. उपस्थितः — ग. ↩︎ ↩︎

  43. जनितां विपदम् . —ग ↩︎ ↩︎

  44. किं च —ख ↩︎ ↩︎

  45. कञ्चित् —ख ↩︎ ↩︎

  46. निध्यातव्यः — क. ↩︎ ↩︎

  47. श्रद्धयालिङ्गितः — क. ↩︎ ↩︎

  48. निरन्तरजन्म —– ख. ↩︎ ↩︎

  49. वृत्तिश्चाहं ?– ग. ↩︎ ↩︎

  50. जनकैः — क. ग. ↩︎ ↩︎

  51. अमुणिअ — - ख. ↩︎ ↩︎

  52. अवधेये इति प्रभाविलासपाठः ↩︎ ↩︎

  53. किं वा —ग ↩︎ ↩︎

  54. दणिं —ख ↩︎ ↩︎

  55. यदास्थेयं — क. छ. ↩︎ ↩︎

  56. होत्तित्ति —- क. ↩︎ ↩︎

  57. इति omitted —क ↩︎ ↩︎

  58. परिश्रमैः — क ↩︎ ↩︎

  59. स्वभावोऽसौ — – क. ↩︎ ↩︎

  60. भक्तः —ख ↩︎ ↩︎

  61. न तेषु कश्चिदेतादृशः; —ग ↩︎ ↩︎

  62. शोभते —क. ↩︎ ↩︎

  63. भगवतावस्थितम् —क ↩︎ ↩︎

  64. अनन्यं नीयमनः — ख. छ. ↩︎ ↩︎

  65. दास्यप्रियोऽसि —क ↩︎ ↩︎

  66. विभ्रमश्च —ख ↩︎ ↩︎

  67. निगूढ —- ख. ↩︎ ↩︎

  68. भवत्प्रसाद —- छ. ↩︎ ↩︎

  69. मथितुः —- ग. ↩︎ ↩︎

  70. सदोत्तुङ्गेति सम्बुद्धयन्तः प्रभावलीपाठः ↩︎ ↩︎

  71. प्रशमनः —क. ↩︎ ↩︎

  72. परमं —ग. ↩︎ ↩︎

  73. अत्र सुहृद्भिर्द्विषद्भिश्च सुकृतदुष्कृतफलस्यादानवचनेन अश्लेषविनाशाभ्यामुत्तरपूर्वाघयोरभावात् प्रारब्धस्य चानुभाव्यत्वात् कथं श्रुतौ सुकृतदुष्कृतयोः सङ्क्रान्तिवचनमिति शङ्का प्रत्युक्ता, तत्फलस्यैव सङ्क्रान्तेरभिप्रेतत्वात् । ↩︎ ↩︎

  74. पुनर्भवस्तु —ग. ↩︎ ↩︎

  75. सन्दिहानः —- ख ↩︎ ↩︎

  76. न संवेद्येति प्रभावलीपाठः ↩︎ ↩︎

  77. ग्रामकथासु — - क, ख. ↩︎ ↩︎

  78. निर्व्यपायः ↩︎ ↩︎

  79. ‘कृतप्रेषणैः इति प्रभावलीपाठः ↩︎ ↩︎

  80. विज्ञापयामि - ख. ↩︎ ↩︎

  81. अवरोधेति प्रभाविलासपाठः ↩︎ ↩︎

  82. प्रवृत्त —छ. ↩︎ ↩︎

  83. कुम्भकोणस्थकृष्णाचार्यप्रकाशिते महाभारतपुस्तके १६४ तमोऽध्यायः ↩︎

  84. बद्ध — क्र. ↩︎ ↩︎

  85. गुणशालिनीं — क. ↩︎ ↩︎

  86. अनवधिकातिशय ——क ग. ↩︎ ↩︎

  87. भवता — ग ↩︎ ↩︎

  88. रणविहृतिमुखेषु इति प्रभाविलासपाठः, ↩︎ ↩︎

  89. जलधरपतिं —- क. ↩︎ ↩︎

  90. महानन्द — - ख. ↩︎ ↩︎

  91. देव्या – — क. छ. ↩︎ ↩︎

  92. केवल omitted ग. ↩︎ ↩︎

  93. किं लद्धं —- ग. ↩︎ ↩︎

  94. लम्भिज्जइ — – क. ↩︎ ↩︎

  95. कर्मपरिशेषः — - ख. ↩︎ ↩︎

  96. सिद्धप्रायः समीहित added after ——ग. ↩︎ ↩︎

  97. डोलायमाण - — ख. ↩︎ ↩︎

  98. वादीः — क. ↩︎ ↩︎

  99. महा omitted ——ग. ↩︎ ↩︎

  100. त्रिवर्गरवेति प्रभाविलासपाठः ↩︎ ↩︎

  101. अभिसृत्योपसर्तव्यः — क; उपगम्योपसर्तव्यः — - ग. ↩︎ ↩︎

  102. कुलरक्षकं —ग. ↩︎ ↩︎

  103. केचिदपवदेरन् —- ख ↩︎ ↩︎

  104. तमःपारं —ग छ. ↩︎ ↩︎

  105. मह वि एसो ↩︎ ↩︎

  106. दिव्यश्रुतिचक्षुषः — - क. ख. ↩︎ ↩︎

  107. विक्षोभयन्त्यम्बरम् —– ग. ↩︎ ↩︎

  108. संस्कृतिः —- ख ↩︎ ↩︎

  109. आदर्श्यते — ग. ↩︎ ↩︎

  110. आमन्त्रयामि – क. ↩︎ ↩︎

  111. मोह ↩︎ ↩︎

  112. कारागृहात् — - ख. ↩︎ ↩︎

  113. शबरकुटी — छ. ↩︎ ↩︎

  114. प्रसार्याश्रित —- क ↩︎ ↩︎

  115. सव्येतरभितरभुजं — - क ख ; यद्यप्ययमेव पाठः प्रायो लोके दृश्येते, तथापि सव्येतरभुज मितरमिति पाठे औचित्यं वर्तत इति ज्ञेयम्. ↩︎ ↩︎

  116. भक्तीः — छ. ↩︎ ↩︎

  117. समीक्षमाणः - — छ. ↩︎ ↩︎

  118. विलम्बिज्जइ —- ग. ↩︎ ↩︎

  119. दाणिं कुत्थ गओ इति प्रभावलीपाठः. ↩︎ ↩︎

  120. यत्रसायं गृहमास्थितः — - क. ↩︎ ↩︎

  121. विषये —क ↩︎ ↩︎

  122. योऽयं — क. ↩︎ ↩︎

  123. ‘भुवि ——क. ↩︎ ↩︎

  124. विश्व —क, ख, ↩︎ ↩︎

  125. परिमितातीन्द्रिय — छ ↩︎ ↩︎

  126. वरामहं —- ग. ↩︎ ↩︎

  127. विवेकः- — क. छ. ↩︎ ↩︎

  128. निबन्धे —– छ ↩︎ ↩︎

  129. विष्णुभक्तिप्रवेशो नाम —- ग. ↩︎ ↩︎

  130. अत्र—– श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कतेशाय वेदान्तगुरवे नमः॥ इति ध्यानश्लोका विवक्षिताः ।


    ॥श्रीकृष्णार्पणमस्तु ॥ ↩︎

  131. दुक्तिम् —क ↩︎ ↩︎

  132. सुमूढमिति प्रभावली पाठः ↩︎ ↩︎