०९ समाधि-सम्भवः

विश्वास-प्रस्तुतिः - १

चूलिका

(नेपथ्ये)

मोहाकूपारकुक्षिम्भरिरयमनघो मुक्तिवीरुत्प्ररोहः

प्रज्ञासौधैकदीपः प्रतिसमयकथातूलवातूलवेगः ।

दुःखद्वारोपरोधस्थिरतरपरिघो दूरतः प्रत्युपैति

क्रूरक्रोधाशुशुक्षण्युपशमनसुधासारसेको विवेकः ॥ १ ॥

मूलम् - १

चूलिका

(नेपथ्ये)

मोहाकूपारकुक्षिम्भरिरयमनघो मुक्तिवीरुत्प्ररोहः

प्रज्ञासौधैकदीपः प्रतिसमयकथातूलवातूलवेगः ।

दुःखद्वारोपरोधस्थिरतरपरिघो दूरतः प्रत्युपैति

क्रूरक्रोधाशुशुक्षण्युपशमनसुधासारसेको विवेकः ॥ १ ॥

प्रभावली - १

अथ नवमेऽङ्के पुरुषस्य समाधिसम्भवः प्रदर्श्यते । नन्वत्रादौ विवेकप्रवेश उच्यते । असूचितस्य च पात्रस्य प्रवेशायोगः । तदुक्तम् - " नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि वा " इति । असूचितपात्रस्य प्रवेशो निष्क्रान्तिश्च नास्ति । अत एव पूर्वाङ्कान्ते सूचितस्य पात्रस्योत्तराङ्कादौ प्रवेश उक्तः पूर्वत्र सर्वत्र । अतः कथमत्र प्रवेश इत्याशङ्कय चूलिकया विवेकपात्रं सूचयति - नेपथ्य इति । मोहेति । मोह एवाकूपारः अर्णवः तेन कुक्षिम्भरिः स्वोदरपूरकः ; पाता चुलिकीकर्ता संहारक इत्यर्थः । मुक्तिरेव लता, तस्याः प्ररोहः अङ्कुर-

X७४९
स्थानीयः । प्रक्षेत्र सौधः, तस्य मुख्यदीपः । प्रतिपक्षप्रसङ्ग एव तूलं, तस्य वातसमूहवेगः । वातूलः ; वातसमूहश्चलवायुश्च । दुःखद्वाराणि पापानि तेषां निवारणे दृढपरिघस्थानीयः । परिषः ; अर्गलः । क्रूरो यः क्रोधाशुशुक्षणिः कोपाग्निः, तस्य सुधासारसेकः । धारासेचनेऽग्निः प्रणश्यति । अनघः ; नृशंसत्वाख्यदोषरहितः । विवेको दूरादभ्युपैति ।

इयं चूलिकेत्युच्यते ॥ १ ॥

प्रभाविलासः - १

अथाङ्कार्थसूचिकां चूलिकामाह — मोहेति । चूलिकालक्षणं तु

“ अन्तर्यवनिकासंस्थैः सूचनार्थस्य चूलिका " इति ।

परिघः ; तिर्यग्दारुविशेषः ॥ १ ॥

विश्वास-प्रस्तुतिः - २

चूलिका
(ततः प्रविशति राजा व्यवसायश्च )

राजाः—- ( सहर्षबहुमानम् ) सेनापते, अद्य खलु मया त्वत्पुरस्कारेण निर्जितः सर्वदोषप्रसूतिर्मधुकैटभादिभिर्महासुरैर्महद्भिरपि1 देवैर्दुर्जयो महामोहः ।

व्यवसायःः— देव, वयं हि भगवतो वाहनादिवदुपकरणमात्रम् । प्राधान्यं तु सर्वत्र भवत एव । अनुस्मरतश्च ते तादृशं समरविहारकौतुकमद्यापि2 विस्मयाविद्धं मे मानसम् । तदा खलु,
न भ्रूरभज्यत न च भ्रुकुटी निबद्धा

नैवारुणं प्रकृतितो नयनाञ्चलं ते ।

कुत्राभवन्निति न वेद्मि भवत्प्रतीपा-

चण्डद्युतावुदयतीव तमः प्रबन्धाः ॥ २ ॥

मूलम् - २

चूलिका
(ततः प्रविशति राजा व्यवसायश्च )

राजाः—- ( सहर्षबहुमानम् ) सेनापते, अद्य खलु मया त्वत्पुरस्कारेण निर्जितः सर्वदोषप्रसूतिर्मधुकैटभादिभिर्महासुरैर्महद्भिरपि1 देवैर्दुर्जयो महामोहः ।

व्यवसायःः— देव, वयं हि भगवतो वाहनादिवदुपकरणमात्रम् । प्राधान्यं तु सर्वत्र भवत एव । अनुस्मरतश्च ते तादृशं समरविहारकौतुकमद्यापि2 विस्मयाविद्धं मे मानसम् । तदा खलु,
न भ्रूरभज्यत न च भ्रुकुटी निबद्धा

नैवारुणं प्रकृतितो नयनाञ्चलं ते ।

कुत्राभवन्निति न वेद्मि भवत्प्रतीपा-

चण्डद्युतावुदयतीव तमः प्रबन्धाः ॥ २ ॥

प्रभावली - २

चूलिका

त्वत्पुरस्कारेण ; त्वां पुरस्कृत्येत्यर्थः । सुरासुरैरपि दुर्जयः । उपकरणम् ; साधनम् । प्राधान्यम् ; प्रधानकर्तृत्वम् । तादृशम् ; वाचामगोचरम् । विस्मया-

X७५०
विद्धम् ; विस्मयाक्रान्तम् । तदा; समरकाले । न भ्रूरिति । भ्रूभङ्गः क्षेपः, भ्रुकुटीबन्धश्च न कृतः । भ्रूक्षेपः कोपाभावेऽपि कार्यसूचकः । भ्रुकुटीबन्धः क्रोधमूलकः । स्वभावतोऽरुणं ते चक्षुः शत्रुसंहारार्थं नारुणीकृतमित्यर्थः । नयना- श्वलम् ; अपाङ्गः । कुत्राभवन्निति न जानामि । प्रतीपाः; शत्रवः । किमिव ? चण्डद्युतावित्यादि । तमःसञ्चया इव ॥ २ ॥

प्रभाविलासः - २

चूलिका
अत्राङ्के विमर्शसन्धिः प्रस्तूयते । विमर्शो नाम गर्भसन्धावाक्षेपनामकेनाङ्गेन परामृष्टस्य बीजस्य व्यसनादिनिमित्तेन पुनः परामर्शः । तदुक्तम्–

" यत्रावमृश्यते क्रोधाद्व्यसनाद्वा विलोभनात् ।

गर्भनिर्भिन्नबीजार्थः स विमर्श इति स्मृतः ॥”

इति । अत्र व्यसनादवमृश्यत इति ध्येयम् । स च विमर्शसन्धिर्नियताप्तिप्रकर्योः सम्बन्धादुत्पद्यते । प्रकरीस्वरूपं गर्भसन्धावेव " अव्यापिनी प्रकरिका" इत्यादिना निरूपितम् । नियताप्तिर्नामापायराहित्येन बीजाप्ति-
निश्चयः । तदुक्तम्-”अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता” इति । स चात्राङ्के सुस्पष्टः । अनयोः सन्धानार्थं त्रयोदशाङ्गानि निरूपणी-

यानि । तान्यङ्गानि यथा-

“अपवादश्च सम्भेदो विद्रवद्रवशक्तयः ।

द्युतिः प्रसङ्गश्छलनं व्यवसायो निरोधनम् ।

प्ररोचना विचलनमादानं च त्रयोदश ॥ "

इति । न भ्रूरिति । अत्र विभावनोपमालङ्कारयोः सङ्करः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

किञ्च,

त्रिगुणात्मिकया तिरस्करण्या स्थगयामास शुभं य एष मोहः ।

स बभूव तदा त्वदाभिमुख्ये दिवसारोपितदीपनिष्प्रकाशः ॥ ३ ॥

मूलम् - ३

किञ्च,

त्रिगुणात्मिकया तिरस्करण्या स्थगयामास शुभं य एष मोहः ।

स बभूव तदा त्वदाभिमुख्ये दिवसारोपितदीपनिष्प्रकाशः ॥ ३ ॥

प्रभावली - ३

युद्धकाले मोहस्य निष्प्रभत्वमाह — त्रिगुणेति । त्रिगुणात्मिकया; प्रकृत्यात्मिकया । शुभम् सम्यग्ज्ञानम् । स्थगयामास आच्छादयामास । त्वदाभिमुख्ये; तव पुरतः ॥ ३ ॥

प्रभाविलासः - ३

त्रिगुणेति ; शुभम् ; ज्ञानानन्दादिस्वरूपम् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

अद्य तु,

लम्बालकैरविरलक्षरदश्रुपूरै

-र्ग्लानैरपत्र3 तिलकैर्वदनारविन्दैः ।

शंसन्ति शौर्यविभवं भुजशालिनस्ते

मोहावरोधसुदृशो मुषिताङ्गरागाः ॥ ४ ॥

मूलम् - ४

अद्य तु,

लम्बालकैरविरलक्षरदश्रुपूरै

-र्ग्लानैरपत्र3 तिलकैर्वदनारविन्दैः ।

शंसन्ति शौर्यविभवं भुजशालिनस्ते

मोहावरोधसुदृशो मुषिताङ्गरागाः ॥ ४ ॥

प्रभावली - ४

X७५१
अद्य त्विति । लम्बा अलका येषु तैः । अविच्छेदेन स्रवदश्रुप्रवाहैः । पत्र तिलकर हितवेदन महान्तः पुरस्त्रियस्तव वैभवं सूचयन्ति ॥ ४ ॥

प्रभाविलासः - ४

लम्बेति । अत्र करुणवीरयोरङ्गाङ्गिभावः ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

राजा - (सान्तस्तोषम् ) स्वयं प्रवृत्तस्वतन्त्रकृत्ये किं परतन्त्रानस्मान् प्रशंससि ? तथा हि-

वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे

तेजो जाज्वल्यते यद्यपि न जलधिर्माधवीं दोधवीति ।

भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक् च सर्वं

स्वायत्ताशेपसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ५ ॥

मूलम् - ५

राजा - (सान्तस्तोषम् ) स्वयं प्रवृत्तस्वतन्त्रकृत्ये किं परतन्त्रानस्मान् प्रशंससि ? तथा हि-

वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे

तेजो जाज्वल्यते यद्यपि न जलधिर्माधवीं दोधवीति ।

भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक् च सर्वं

स्वायत्ताशेपसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ५ ॥

प्रभावली - ५

वाय्विति । वायुः दोधूयते ; भृशं कम्पत इति यत् । यन्नक्षत्रगणः खे द्रुतं पुनः पुनः भ्रमति । जाज्वल्यते ; भृशं ज्वलति । जलधिः माधवीं

X७५२
भूमिं न दोधवीति ; आस्फालनेन न कम्पयति । यद्वेत्यत्र वाशब्दश्चार्थः । भूः स्थिरचरधृतये बोभवीति ; समर्था भवति । तच्च तादृक् च; तत्सदृशं पर्जन्यवर्षादि । स्वायत्तानि स्वाधीनानि अशेषाणां सत्तास्थितियतनानि सृष्टिस्थितिव्यापारादीनि यस्य तच्च तत् परब्रह्म च तल्लीलायाः ऊर्मिचक्रम, तरङ्गमण्डलम् ; तद्धेतुकमित्यर्थः ॥ ५ ॥

प्रभाविलासः - ५

वायुरिति । अनेन " भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादभिश्चेन्द्रश्च" इति श्रुतिर्विवक्षिता । माधवीम् ; भूमिम् । एतेन,

द्यौः सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।

वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥

इति स्मारितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

किञ्च,4

यथाधिकरणं प्रभुर्यजनदानहोमार्चना-

भरन्यसनभावनाप्रभृतिभिः समाराधितः ।

फलं दिशति देहिनामिति हि सम्प्रदायस्थितिः

श्रुतिस्मृतिगुरूक्तिभिर्नयवतीभिराभाति नः ॥ ६ ॥

मूलम् - ६

किञ्च,4

यथाधिकरणं प्रभुर्यजनदानहोमार्चना-

भरन्यसनभावनाप्रभृतिभिः समाराधितः ।

फलं दिशति देहिनामिति हि सम्प्रदायस्थितिः

श्रुतिस्मृतिगुरूक्तिभिर्नयवतीभिराभाति नः ॥ ६ ॥

प्रभावली - ६

यागादीनां फलप्रदत्वमपि तस्यैवेत्याह-यथेति । यथाधिकारं यजनादिभिः समाराधितः स्वयं च तत्तद्देवतानामन्तर्यामितया फलं दिशतीति नः सम्प्रदायस्थितिः नयवतीभिः सतर्कयुक्ताभिः श्रुतिस्मृतिगुरूक्तिभिः ; गुरूक्तयः पराशरपाराशर्यवकुलभूषणनाथयामुनयतिवरादिसूक्तयः, ताभिः आभाति ॥ ६॥

प्रभाविलासः - ६

यथाधिकरणमिति । अधिकरणम् ; अधिकारः । यजनम् ; यागः ।

भक्तिः । प्रभृतिपदेन प्रणामादयः ।

“ ध्यानार्चनप्रणामादिः इति हि वेदार्थसङ्ग्रहे उक्तम् । श्रुतिः ; " इष्टापूर्ते भहुधा जातं जाय- मानम्" इत्यादिका । स्मृतिः " ये यजन्ति पितॄन् देवान्" इत्यादिका । गुरूक्तिः ; " फलसंविभन्त्सया कर्मभिरात्मानं पिप्रीषन्ति । स प्रीतोऽलं फलाय " इत्यादिका । नयः " फलमत उपपत्तेः " इत्यादिः । आभाति ; आ समन्तात् भाति । असङ्कुचितं प्रतिभातीत्यर्थः ॥ ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

ततश्च,

प्रभुणैव सर्वजगदुद्भवस्थितिप्रलयप्रवाहपरिरब्धकेलिना ।

अहमस्त्रमन्त्रपरिमृष्टदर्भवद्गमितः स्ववध्यनिधने5 निमित्तताम् ॥ ७॥

मूलम् - ७

ततश्च,

प्रभुणैव सर्वजगदुद्भवस्थितिप्रलयप्रवाहपरिरब्धकेलिना ।

अहमस्त्रमन्त्रपरिमृष्टदर्भवद्गमितः स्ववध्यनिधने5 निमित्तताम् ॥ ७॥

प्रभावली - ७

X७५३
अतोऽत्रापि स एव प्रधानकर्ता, नान्य इत्याह- प्रभुणेति । सर्वजग- त्सृष्टिस्थितिसंहारादिप्रवाहेण प्राप्त केलिना तेन प्रभुणा प्रेरितोऽहम्, अस्रमन्त्र- परिमृष्टदुर्भवत् स्वेन वध्यानां शत्रूणां दमने निमित्ततां गमितः ॥ ७ ॥

प्रभाविलासः - ७

उपरितनटीकायामन्तर्गता। ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

व्यवसायःः— देव, विक्रमादपि गरीयांस्तवासौ विनय-

गरिमा । (साद्भुतरोमाञ्चम् ) देव,

दर्पोदग्रनियुद्धतावकभुजानिर्घातपातोदित-

स्फारासृक्परिवाहगद्गदरवो मोहः पतन्नग्रतः ।

अद्यापि स्मृतिमभ्युपैति मथनक्षोभक्षरद्वैरिक-

स्रोतः सम्प्लुतमन्दर क्षितिधरक्षेपक्षणाक्षेपकः ॥ ८ ॥

मूलम् - ८

व्यवसायःः— देव, विक्रमादपि गरीयांस्तवासौ विनय-

गरिमा । (साद्भुतरोमाञ्चम् ) देव,

दर्पोदग्रनियुद्धतावकभुजानिर्घातपातोदित-

स्फारासृक्परिवाहगद्गदरवो मोहः पतन्नग्रतः ।

अद्यापि स्मृतिमभ्युपैति मथनक्षोभक्षरद्वैरिक-

स्रोतः सम्प्लुतमन्दर क्षितिधरक्षेपक्षणाक्षेपकः ॥ ८ ॥

प्रभावली - ८

दर्पोदग्रेति । दर्पेण उदग्रं, दर्पोदग्रं नियुद्धं यस्याः ; सा चासौ तावक- भुजा च । दत्तोदग्रनियुद्धेति वा पाठः । सैव निर्घातः अशनिः, तस्य पातेन उदितो यः स्फारासृक् प्रवाहः ; स्फारः बहुः । तस्य गद्गदरवो यस्य सः । तव अग्रतः पतन् । मथनक्षोभेण क्षरन्ति यानि गैरिकस्रोतांसि तैः सम्प्लुतस्य मन्दरक्षितिधरस्य क्षेपः क्षेपणं मथनानन्तरमुत्क्षेपणं, तस्य क्षणः कालः, तस्य आक्षेपः सूचकः सन् । अद्यापि मम स्मृतिम् अभ्युपैति ॥ ८ ॥

प्रभाविलासः - ८

दर्पेति । नियुद्धम् ; बाहुयुद्धम् । निर्घातः; अशनिः । मथने कृते क्षोभः, तेन क्षरद्भिः गैरिकस्रोतोभिः सम्प्लुतस्य मन्दरक्षितिधरस्य क्षेपक्षणस्य क्षेपावसरस्य आक्षेपकः आज्ञापक इत्यर्थः ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

इह6 पुनरिदानीं विश्वविख्यातवीरायितस्य7 ते विभूतिसमुचितं किमपि मङ्गलमाचरणीयम् । अद्य तु,

युक्तायुक्तवितर्कदक्षमतिभिर्युष्मद्भटैरुद्भटै-

र्निर्धूताखिलशल्यकण्टकततिर्नैःश्रेयसी पद्धतिः ।

मोहध्वंसधुरन्धरस्य तव तु त्रय्यन्तपीठे मह-

त्यासीदत्यभिषेकमङ्गलविधेरभ्यर्हितोऽयं क्षणः ॥ ९ ॥

मूलम् - ९

इह6 पुनरिदानीं विश्वविख्यातवीरायितस्य7 ते विभूतिसमुचितं किमपि मङ्गलमाचरणीयम् । अद्य तु,

युक्तायुक्तवितर्कदक्षमतिभिर्युष्मद्भटैरुद्भटै-

र्निर्धूताखिलशल्यकण्टकततिर्नैःश्रेयसी पद्धतिः ।

मोहध्वंसधुरन्धरस्य तव तु त्रय्यन्तपीठे मह-

त्यासीदत्यभिषेकमङ्गलविधेरभ्यर्हितोऽयं क्षणः ॥ ९ ॥

प्रभावली - ९

X७५४
एवं प्रशस्यस्य तव विजयाभिषेकः कर्तव्य इत्याह- इह पुनरिति । किमपि मङ्गलम् ; विजयाभिषेक इति भावः । युक्तायुक्तविचारे समर्थबुद्धिभिः, सर्वभटेभ्यः उत्कृष्टैः । युष्मद्भटैः नैःश्रेयसी पद्धतिः मोक्षोपायः, निर्धूताखिलशल्यकण्टकततिः जाता । अतः तदधिपतेः तव मोहरूपप्रधानशल्यध्वंसकस्य वेदान्तरूपसिंहासनस्थितस्य अभिषेकमङ्गलविधेः अभिषेकरूपमङ्गलोत्सवविधानस्य, अभ्यर्हितः योग्यः कालः आसन्न इति ॥ ९ ॥

प्रभाविलासः - ९

युक्तेति । वितर्कः विचारः । शल्यकण्टकयोः स्थूलसूक्ष्मभेदेन भेदः ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

राजा - सेनापते, मैवं वादीः । अनिष्पन्नसमाधौ पुरुषे कथमहमभिषेक्तव्यः ? अद्य हि-

करणहरिणश्रेणीदूरापकर्षणदारुणां

कलुषतपनस्फायन्मायानिदाघविजृम्भिताम् ।

विषमविषयास्वादोत्कण्ठामयीं मृगतृष्णिकां

मुनिरतिपतन्मुक्तिद्वारं गवेषयते मुहुः ॥ १० ॥

मूलम् - १०

राजा - सेनापते, मैवं वादीः । अनिष्पन्नसमाधौ पुरुषे कथमहमभिषेक्तव्यः ? अद्य हि-

करणहरिणश्रेणीदूरापकर्षणदारुणां

कलुषतपनस्फायन्मायानिदाघविजृम्भिताम् ।

विषमविषयास्वादोत्कण्ठामयीं मृगतृष्णिकां

मुनिरतिपतन्मुक्तिद्वारं गवेषयते मुहुः ॥ १० ॥

प्रभावली - १०

इदानीं पुरुषो विष्वङ्मृगतृष्णिकामपक्रामन् मुक्त्युपायमपेक्षत इत्याह- करणेति । करणानि इन्द्रियाण्येव हरिणाः तेषां श्रेण्याः ब्रह्मसकाशात्

X७५५
दूरापकर्षणेन क्रूरम् । कलुषविपिनं पापाटवी, तत्र स्फायन्ती माया प्रकृतिः, सैव निदाघः ग्रीष्मसमयः, तेन विजृम्भितां विस्तृताम् । विषमाः अनेकरूपाः शब्दादिविषयाः, तेषाम् आस्वादः आस्वादनम्, तत्र उत्कण्ठा स्पृहा तन्मयीम् । मरीचिकाम् अतिक्रामन् पुरुषः मुक्त्युपायं गवेषयते अन्विच्छति । परित्यक्त- विषयस्पृहो मुक्त्यपेक्षो भवतीत्यर्थः ॥ १० ॥

प्रभाविलासः - १०

करणेति । करणानि ; इन्द्रियाणि । हरिणाः ; कृष्णसाराः । कलुषमेव तपनः । तेन स्फायन्ती वर्धमाना माया कर्मरूपाविद्या, सैव
निदाघः, तेन विजृम्भिताम् । अत्र विषयास्वादाभिलाषस्य मृगतृष्णिकात्वकथनेन दोषप्रख्यापनात् अपवादो नाम विमर्शसन्धेः प्रथममङ्गमुक्तम् ।

“अपवादस्तु विज्ञेयो दोषप्रख्यापनात्मकः " इति लक्षणात्॥ १० ॥

विश्वास-प्रस्तुतिः - ११

अतः प्रक्रान्तमात्रा खल्विदानीं परब्रह्मोपलब्धिः । परि-

निष्पत्तिस्तु दुर्लभेति पश्यामि । तथा हि-

कथमद्य निरालम्बं कर्मशृङ्खलितः पुमान् ।

आरोहतु दुरारोहं समाधिगगनस्थलम् ॥ ११ ॥

मूलम् - ११

अतः प्रक्रान्तमात्रा खल्विदानीं परब्रह्मोपलब्धिः । परि-

निष्पत्तिस्तु दुर्लभेति पश्यामि । तथा हि-

कथमद्य निरालम्बं कर्मशृङ्खलितः पुमान् ।

आरोहतु दुरारोहं समाधिगगनस्थलम् ॥ ११ ॥

प्रभावली - ११

परब्रह्मोपलब्धिः; परब्रह्मोपलब्धिसाधनभूतपरमात्मयोग इत्यर्थः । कथमद्येति । कर्मभिः निगलितः । निरालम्बम् ; अवष्टम्भरहितम् । तत्र शुभाश्रयोऽवष्टम्भः, तद्रहितम् । अत एव गगनस्थलत्वेन रूपणम् । शुभाश्रयशून्या समाधिर्बुद्धौ नारोहतीति भावः । शृङ्खलितत्वे किमुतेति भावः ॥ ११ ॥

प्रभाविलासः - ११

कथमिति । समाधिगगनस्थलम् ; निरालम्बध्यानम् ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

(विचिन्त्य) अस्त्वेवं तावत् -

सच्चोदग्रसमग्रनन्दथुभुवः सालम्बनध्यानतः

शुद्धे चेतसि यद्यपि प्रभुरिहादृश्यो दरीदृश्यते ।

प्रत्यग्वस्तुविशेष्यवर्ष्मणि पुनस्तस्मिन्दृढप्रेक्षिते

नाथः सोsहमहं स इत्यपि गिरो नाध्यासमध्यासताम् ॥ १२ ॥

मूलम् - १२

(विचिन्त्य) अस्त्वेवं तावत् -

सच्चोदग्रसमग्रनन्दथुभुवः सालम्बनध्यानतः

शुद्धे चेतसि यद्यपि प्रभुरिहादृश्यो दरीदृश्यते ।

प्रत्यग्वस्तुविशेष्यवर्ष्मणि पुनस्तस्मिन्दृढप्रेक्षिते

नाथः सोsहमहं स इत्यपि गिरो नाध्यासमध्यासताम् ॥ १२ ॥

प्रभावली - १२

ननु सालम्बनस्यापि पुंसः कथं समाध्यारोह इत्याशङ्कय, एवं समाध्यारोहः शक्य इत्याह- अस्त्वेवमित्यादिना । सत्त्वेति । सत्त्वगुणभरितस्य समग्रस्थ

X७५६
अनवधिकातिशयस्य नन्दयोः आनन्दस्य भूः उत्पत्तिस्थानं, तस्मात् । सालम्बनध्यानतः ; शुभाश्रयविषयस्थानात् । शुद्धे चेतसि ; यद्यपि प्रभुः

“न चक्षुषा पश्यति कश्चनैनम्” इति न्यायेन चक्षुषा साक्षात्कर्तुमशक्यः, तथापि “मनसा तु विशुद्धेन ” इति श्रवणात् दर्शनसमानाकारध्रुवानुस्मृतिविषयो भवतीत्यर्थः । ननु " त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते ” इत्याद्यैक्योपासनविषयवचनानि तर्हि भ्रान्तजल्पितानि भवन्तीत्यत्राह – प्रत्यगिति । पुनः शब्दः शङ्काव्यावर्तकः । प्रत्यग्वस्तु विशेष्यवर्ष्मणि; प्रत्यग्वस्तु; जीवः । सः स्वस्य विशेषणं, शरीराद्यपेक्षया विशेष्यं च भवति । स्वशरीरस्य जीवस्य ब्रह्मणो विशेषणत्वात् विशेष्यत्वं गौणम्, अथापि स्वशरीरादीन् प्रति विशेष्यत्वं

X७५७
"

मुख्यमित्यदोषः । तस्मिन् प्रभावन्तर्यामिणि दृढं प्रेक्षिते सति, शरीरशरीरिभावेन स्वरूपभेदे तयोः स्फुटं दृष्टे सति, “त्वं वा अहमस्मि भगवो देवते " इत्यादि वाक्यानामध्यासं नाध्यासताम् ; स्वरूपैक्यरूपमध्यासं नाश्रयन्ताम् ; स्वरूपैक्यभ्रान्ति नाधितिष्ठन्तु ; तेषां वाक्यानां " यः पृथिव्यां तिष्ठन् ” इत्यादिघटकश्रुतिसिद्धशरीरशरीरिभावविषयत्वात् । नाथः सोऽहमिति ; " त्वं वाहमस्मि " इत्यस्यानुवादः । अहं स इति ; " अहं वै त्वमसि " इत्यस्यानुवादः ॥ १२ ॥

प्रभाविलासः - १२

सत्त्वेति । सच्वोदयस्य समग्रस्य नन्दयोः आनन्दस्य भुवः भूमेः ।
सालम्बनध्यानतः; शुभाश्रयध्यानात् । चेतसि शुद्धे; निष्कल्मषे,

" यथानिरुद्धतशिखः कक्षं दहति सानिलः ।

तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥

इति स्मरणात् । प्रभुः ; ईश्वरः । यद्यप्यदृश्यः ; चर्मचक्षुर्भिरग्राह्यः ! सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् " " न चक्षुषा गृह्यते नापि वाचा " इति श्रुतेः । तथापि दरीदृश्यते, " मनसा तु विशुद्धेन ” इति स्मृतेः । प्रत्यग्वस्तुविशेष्यवर्ष्मणि प्रत्यग्वस्त्वेव विशेष्यं विशेषयितुं योग्यं वर्ष्म शरीरं यस्य तस्मिन् । एवम् " अहं वै त्वमसि भगवो देवते " इति वाक्यं विवृतम् । अस्मच्छरीरकस्त्वमसीति हि तस्यार्थः । तस्यैव पदस्यावृत्त्या योजनायां प्रत्यग्वस्तु विशेष्यं वर्ष्म यस्येति योजनायां प्रकारभूतस्यैव विशेष्यतयान्वयः । तेन " त्वं वा अहमस्मि भगवो देवते " इति वाक्यार्थोऽभिप्रेतः । त्वं वाहमिति ; तव शरीरभूतो- ऽहमित्यर्थः । उभयत्र विशेषणविशेष्यभावव्यत्यासप्रतीतावपि ईश्वरस्य शरीरित्वं चेतनस्य शरीरत्वं चाविशिष्टम्, शब्दस्वभावकृतत्वात् व्यत्यास - प्रतीतेः । उपनिषदन्तरे च ऐतदात्म्यमिदं सर्वं स आत्मा

" इति प्रतीतौ व्यत्यासोऽस्त्येव । अत एवाभियुक्तैः " रामानुजं लक्ष्मणपूर्वजं च "
इति प्रयोजकवाक्यमुक्तम् । दृढमेक्षिते ; अहमित्यस्यार्थस्य प्रकारतया शरीरभूतस्य परमात्मपर्यन्ततया सम्यग्दृष्टे । एवमर्थस्य तत्पर्यन्तत्वेनार्थवाचकपदानामपि तत्पर्यन्तत्वं सुव्यक्तम्; प्रकारवाचकानां पदानां प्रकारिपर्यन्तत्वस्य देवदत्तादिशब्देषु दर्शनादित्यभिप्रेत्याह - नाथ इति । सकलशाखा- गतसामानाधिकरण्यवाक्यसङ्ग्रहार्थे गिर इति बहुवचननिर्देशः । जीवब्रह्मणोः स्वरूपैक्यं देहात्मस्वरूपैक्यवदयोग्य मित्याह - नाध्यासमिति । तदुक्तम् -

मिथ्यैतदन्यद् द्रव्यं हि नैति तद्द्द्रव्यतां यतः " इति ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

W
व्यवसायः - देव, अद्यापि कथमध्यासः ? पुरुषः खल्विदानीं स्वशरीरे स्वात्मबुद्धिं विहाय स्वात्मनि परशरीरत्वबुद्धिमनुरुन्धे ।

राजा :— हन्त, सिद्धप्रायमपि सर्वं सान्तः शल्यमिवाद्य

सन्दृश्यते । तथा हि-

तत्वज्ञाने विशुद्धे शमयति दुरितारम्भमात्मावधाने

व्यक्ताकृष्टेतराक्षे विरमति च मनोवानरे चापलात्स्वात् ।

भस्मच्छन्नाभिकल्पः परपरिभवनाद्यागमे दीप्यमानः

श्लक्ष्णः संस्कारसारस्तरलयति8 शनैरुज्जिहानं समाधिम् ॥ १३ ॥

मूलम् - १३

W
व्यवसायः - देव, अद्यापि कथमध्यासः ? पुरुषः खल्विदानीं स्वशरीरे स्वात्मबुद्धिं विहाय स्वात्मनि परशरीरत्वबुद्धिमनुरुन्धे ।

राजा :— हन्त, सिद्धप्रायमपि सर्वं सान्तः शल्यमिवाद्य

सन्दृश्यते । तथा हि-

तत्वज्ञाने विशुद्धे शमयति दुरितारम्भमात्मावधाने

व्यक्ताकृष्टेतराक्षे विरमति च मनोवानरे चापलात्स्वात् ।

भस्मच्छन्नाभिकल्पः परपरिभवनाद्यागमे दीप्यमानः

श्लक्ष्णः संस्कारसारस्तरलयति8 शनैरुज्जिहानं समाधिम् ॥ १३ ॥

प्रभावली - १३

अनुरुन्धे; अनुवर्तते । पुरुषस्याद्यापि सूक्ष्मवासनासद्भावशङ्कयाह- हन्तेति । तत्त्वेति । विशुद्धे तत्वज्ञाने; विशुद्धत्वं नाम प्रतिपक्षप्रतिहतिरहित-

X७५८
त्वम् । दुरितारम्भं शमयति सति; परावरतत्त्वस्वरूपज्ञाने देहात्मभ्रमनाशात् स्वस्वातन्त्र्यभ्रमनाशाच्च तन्मूलपुण्यपापरूपदुरितारम्भः शाम्यतीत्यर्थः । आत्मावधान इति मनोविशेषणम् ; आत्मनि अवधानं सावधानता यस्य तस्मिन् । व्यक्ताकृष्टेतराक्षे; व्यक्तं यथा तथा आकृष्टानि इतराक्षाणि स्वव्यतिरिक्तानीन्द्रियाणि यस्मिंस्तस्मिन् । मनोवानरे स्वात् चापलात् विरमति सत्यपि । भस्मच्छन्नाग्निकल्पः; अन्तः सूक्ष्मरूपेण वर्तमानः । अत एव ऋणः ; सूक्ष्मः, अदीप्यमान इत्यर्थः । परैरवमानाद्यागमे प्रज्वलन् संस्कारेषु सारः भावनाख्यः, अविद्याजनितप्रकृतिवासनेत्यर्थः । शनैः उज्जिहानम् उद्गच्छन्तं समाधिं तरलयति चालयति । तत्त्वज्ञानकथनेन विद्यायाः कर्माङ्गसम्पत्तिरप्युक्ता भवति ॥ १३ ॥

प्रभाविलासः - १३

तत्वज्ञान इति । विशुद्धे तत्त्वज्ञाने दुरितारम्भं शमयति । आत्मा-
वधाने मनः समवधाने । व्यक्ताकृष्टेतराक्षे ; स्पष्टवशीकृतचक्षुरादिके । परिभवनम् ; तिरस्क्रिया । दीप्यमानः ; प्रबुध्यमानः । यथा वह्निः परावस्कन्दे भस्मापनयेन प्रदीप्तो भवति, तद्वत् संस्कारः वासनाबलम् उज्जिहानम् अहन्यहन्युत्तिष्ठन्तं समाधिं तरलयति शिथिलयतीत्यन्वयः । अनेनावमानाद्यसहने समाधिर्गलतीत्युक्तं भवति । अत्र विद्वत्परिभवोक्त्या द्रवो नाम विमर्शसन्धेश्चतुर्थमङ्गमुक्तम्, “द्रव इत्युच्यते प्राज्ञैर्विदुषां च तिरस्क्रिया " इति लक्षणात् ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अपि च,

क्रमपवित्रमकर्मजागरूक स्थिरसंस्कारनिरुध्यमानचित्तः ।

स्मरति प्रणिधातुमेकतानो बहिरर्थान्विवशः पितामहोsपि ॥ १४ ॥

मूलम् - १४

अपि च,

क्रमपवित्रमकर्मजागरूक स्थिरसंस्कारनिरुध्यमानचित्तः ।

स्मरति प्रणिधातुमेकतानो बहिरर्थान्विवशः पितामहोsपि ॥ १४ ॥

प्रभावली - १४

वासनायाः समाधिचालकत्वं कुत इत्यत आह — क्रमेति । प्रणिधातुमेकतानोऽपि पुरुषः क्रमपक्त्रिमेषु क्रमेण फलोन्मुखेषु कर्मसु जागरूकः

X७५९
नियतसम्बन्धः यः स्थिरसंस्कारः फलाद्यविनाश्यः धर्माधर्मादिलक्षणसंस्कारः, तेन निरुध्यमानचित्तः भगवद्विषयात् निवर्त्यमानचित्तः सन् पितामहोऽपि विवशः बहिरर्थान् बाह्यविषयान् स्मरति । तत्त्वज्ञानेन नाविद्या विनाशः । उत्तराघाश्लेषेऽपि पूर्वाघमध्ये प्रारब्धस्य भोगविनाश्यत्वात् तत्त्वज्ञानेन कर्माख्याविद्या विनाशाभावात् तया चित्तनिरोध उपपद्यत इति भावः ॥ १४ ॥

प्रभाविलासः - १४

वासनाबलमेव विशिनष्टि —क्रमेति । जागरूकः ; उद्बुद्धः ।

स्वतन्त्रः ; ईश्वरः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

तथापि स्वतन्त्रानुग्रहदत्तहस्तेन मया कदाचिदपि न

स्खलितव्यम् । सम्भावितस्खलितं च सिषाधयिषितम् 9

बहुरपि लघुः प्रत्यक्चिन्ता बहिर्विषयाटवी -

विहृतिचटुलं चेतो रोद्धुं कथं प्रभविष्यति ।

अनिभृततटक्रीडोत्कण्ठाविजृम्भितसम्भ्रमे

कलभचरणे लूतातन्तुः कथं निगलायते ॥ १५ ॥

मूलम् - १५

तथापि स्वतन्त्रानुग्रहदत्तहस्तेन मया कदाचिदपि न

स्खलितव्यम् । सम्भावितस्खलितं च सिषाधयिषितम् 9

बहुरपि लघुः प्रत्यक्चिन्ता बहिर्विषयाटवी -

विहृतिचटुलं चेतो रोद्धुं कथं प्रभविष्यति ।

अनिभृततटक्रीडोत्कण्ठाविजृम्भितसम्भ्रमे

कलभचरणे लूतातन्तुः कथं निगलायते ॥ १५ ॥

प्रभावली - १५

बहुरिति । बहुःः सन्तन्यमानापि । प्रत्यक चिन्ता; आत्मज्ञानम् । लघुः ; परचिन्तापेक्षया अल्पीयसी । बहिर्विषयाः शब्दादयः, त एवाटवी, तस्या विहारे चटुलं चञ्चलं चेतः कथं रोद्धुं समर्था भविष्यति । भगवत्कृपां विना केवल प्रत्यक्चिन्तामात्रं रोद्धुं न प्रभवति । तत्र दृष्टान्तमाह-अनिभृतेति । अनिभृता असङ्कुचिता तटक्रीडा, तस्यामुत्कण्ठया विजृम्भितः सम्भ्रमो यस्य तस्मिन् कलभचरणे लूतातन्तुः कथं निगलायते; बन्धकं न भवतीति यावत् ॥ १५ ॥

प्रभाविलासः - १५

ध्यान संस्कारबलेन वासनाबलनिरोधः किं न स्यादित्यत आह- बहुरपीति । अन्तःसारवत्तया धीरोऽपि । लघुः अनन्तपूर्वजन्म कृतपापराश्यपेक्षयाल्पः । प्रत्यचिन्ता कर्त्री । लूता ; ऊर्णनाभिः ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

व्यवसायः - महाराज, किमिह पुनः प्रत्यूहशङ्कया ?

स्वयमिह विपदो वा स्वप्नवत्सम्पदो वा

नियतिविपरिवृत्तौ नेमिवृत्या भवन्त्याम् ।

शतमपि विशयानां शस्त्रवच्छातयन्ती

नयनिगमसमीची न व्यतिस्ते मतिस्ते ॥ १६ ॥

मूलम् - १६

व्यवसायः - महाराज, किमिह पुनः प्रत्यूहशङ्कया ?

स्वयमिह विपदो वा स्वप्नवत्सम्पदो वा

नियतिविपरिवृत्तौ नेमिवृत्या भवन्त्याम् ।

शतमपि विशयानां शस्त्रवच्छातयन्ती

नयनिगमसमीची न व्यतिस्ते मतिस्ते ॥ १६ ॥

प्रभावली - १६

X७६०
विघ्नचिन्तया किम् ? अलमित्यर्थः । ननु सम्पद्विपदोः सुखदुःखहेतुत्वात् तयोश्च समाधिविरोधित्वात् कथं संशयाभावः ? तत्राह - स्वयमिति । नियति- विपरिवृत्तौ नेमिवत् सम्भवन्त्याम् इह जगति सम्पदो विपदो वा स्वयं कर्माधीनत्वात् स्वप्नवदस्थिरा इत्यर्थः । किमतः ? तत्राह - शतमपीति । विशयानां संशयानां शतमपि शस्त्रवत् शातयन्ती खण्डयन्ती नयनिगमसमीची सत्तर्क- प्रमाणानुगुणा ते मतिः न व्यतिस्ते व्यत्यासं न प्राप्नोति । त्वयैवं संशयो न कार्यः । सम्पदां विपदां च कर्माधीनत्वात् कर्मणां च " यथैषीकतूलम् " इत्यादिभिर्विद्याविनाश्यत्वश्रवणान्न समाधिविघ्नसम्भव इति भावः ॥ १६ ॥

प्रभाविलासः - १६

स्वयमिति । शातयन्ती ; छिन्न्दती । नयेन निगमैश्व समीचीना । तव मतिः । इह ; संसारे । नियतेः ; दैवस्य । विपरिवृत्तौ विपर्यासे । नेमिवृत्त्या; चक्रधारावर्तनेन । भवन्त्याम् ; सत्याम् । स्वप्नवत् ; स्वप्न इव । सम्पदो वा विपदो वेति पञ्चमी । न व्यतिस्ते ; व्यत्यासं न प्राप्नोति ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

राजा - सेनापते, सिद्धमपि सर्वं साध्यशेषावमर्शेना-

सत्कल्पमिवाभाति । अद्य हि,

अपि निर्मुक्तजीवानां कामादीनां बलीयसाम् ।

अविद्या कर्मसञ्ज्ञा तु मृतसञ्जीवनी स्थिता ॥ १७ ॥

मूलम् - १७

राजा - सेनापते, सिद्धमपि सर्वं साध्यशेषावमर्शेना-

सत्कल्पमिवाभाति । अद्य हि,

अपि निर्मुक्तजीवानां कामादीनां बलीयसाम् ।

अविद्या कर्मसञ्ज्ञा तु मृतसञ्जीवनी स्थिता ॥ १७ ॥

प्रभावली - १७

सिद्धमपि सर्वम् ; लोभविजयादिकम् । साध्यो यः शेषः, तस्य विचारेण । कामादिजयेऽपि कर्मसञ्ज्ञया अविद्यया पुनस्तेषामुद्भवो भविष्यतीत्याशङ्कते - अपीति । निर्मुक्तजीवानाम् ; मृतानामपि । यद्वा निर्मुक्तो जीवात्मा यैः तेषाम् ।

X७६१
मृतसञ्जीवनी ; मृतानामुज्जीवयित्री । स्थिता ; तिष्ठति ।

कथं समाधिः सम्पत्स्यत इति शेषः ॥ १७ ॥

प्रभाविलासः - १७

अपीति । निर्मुक्तजीवानाम् ; परित्यक्तपुरुषाणाम् । गतप्राणाना-
मिति च व्यज्यते ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८
  • । व्यवसायः - महाराज, स्वत्प्रसादादेषापि10 न स्थास्यति ।

राजा - (सानुशयम् )

अहितनिवहवन्या हन्त सन्तन्यमाना

कथमियमपचेतुं कल्पकोट्यापि शक्या ।

व्यवसायः - इत्थमेव ;

दहति निरवशेषं देवसम्भूतिरेनां

युगपदिह समिद्धो योगकल्पान्तवह्निः ॥ १८ ॥

मूलम् - १८
  • । व्यवसायः - महाराज, स्वत्प्रसादादेषापि10 न स्थास्यति ।

राजा - (सानुशयम् )

अहितनिवहवन्या हन्त सन्तन्यमाना

कथमियमपचेतुं कल्पकोट्यापि शक्या ।

व्यवसायः - इत्थमेव ;

दहति निरवशेषं देवसम्भूतिरेनां

युगपदिह समिद्धो योगकल्पान्तवह्निः ॥ १८ ॥

प्रभावली - १८

एषा; कर्मसञ्ज्ञा अविद्या । सानुशयम् ; सपश्चात्तापम् । अनुशये हेतुमाह — अहितेति । अहितानि पापानि तेषां समूह एव वन्या महाटवी, पुनः पुनः सन्तन्यमाना । यद्वा सन्ततिरूपेण क्रियमाणा । अपचेतुम् क्षपयितुम् । इत्थमेवेत्युक्तमाह — दहतीति । एनाम् ; कर्मसञ्ज्ञाविद्याम् । देवात् सम्भूतिः उत्पत्तिर्यस्य । योग एव कल्पान्तवह्निः ॥ १८ ॥

प्रभाविलासः - १८

अहितेति । अहितानि पापानि । वन्या वनसमूहः । देवसम्भूतिः; ईश्वरादुत्पन्नः । निरवशेषं दहतीति सरोषवचनात् सम्मेदो नाम विमर्शसंवेर्द्वितीयमङ्गमुक्तम्, “ रोषसम्भाषणं सम्भेदः " इति लक्षणात् ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

न च तदुत्पत्तिरपि कथं भवित्रीति शङ्कनीयम्; यत

ईदृगवस्थः पुरुषः —
सत्कारकालकूटं तरुणीकुणपं सभाभुजङ्गीं च ।

परिहरति राजधानीकुम्भीपाकं च गुप्तमाहात्म्यः ॥ १९ ॥

मूलम् - १९

न च तदुत्पत्तिरपि कथं भवित्रीति शङ्कनीयम्; यत

ईदृगवस्थः पुरुषः —
सत्कारकालकूटं तरुणीकुणपं सभाभुजङ्गीं च ।

परिहरति राजधानीकुम्भीपाकं च गुप्तमाहात्म्यः ॥ १९ ॥

प्रभावली - १९

तदुत्पत्तिरपि ; योगोत्पत्तिरपि । ईदृगवस्थः ; वक्ष्यमाणावस्थः

X७६२
सत्कारेति । अयं पुरुषः गुप्तमाहात्म्यः सन् सत्कारादीन् नापेक्षते । सत्कारं कालकूटमिव तरुणीं कुणपमिव सभां लौकिकगोष्ठीं भुजङ्गीमिव च पश्यति ॥ १९॥

प्रभाविलासः - १९

सत्कारेति । कालकूटमिति " सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव " इति मनूक्तिः स्मारिता ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

अपि च,

मुकुन्दे निक्षिप्य स्वभरमनघो मुक्तवदसौ

स्वतन्त्राज्ञासिद्धां स्वयमविदितस्वामिहृदयः ।

परित्यागे सद्यः स्वपरविविधानर्थजनना-

दलङ्घ्यामा मोक्षादनुसरति शास्त्रीयसरणिम् ॥ २० ॥

मूलम् - २०

अपि च,

मुकुन्दे निक्षिप्य स्वभरमनघो मुक्तवदसौ

स्वतन्त्राज्ञासिद्धां स्वयमविदितस्वामिहृदयः ।

परित्यागे सद्यः स्वपरविविधानर्थजनना-

दलङ्घ्यामा मोक्षादनुसरति शास्त्रीयसरणिम् ॥ २० ॥

प्रभावली - २०

इदमपि योगसंवर्धकमस्तीत्याह — अपिचेत्यादि । अथ चरमश्लोकोक्त- प्रपदनाङ्गसम्पत्तिमाह– मुकुन्द इति । स्वभरं स्वरक्षाभरं मुकुन्दे मुक्तिप्रदे विन्यस्य । अनघः ; भगवतैव सर्वपापेभ्यो मोचितत्वात् अनघः । मुक्तवदिति व्यतिरेकदृष्टान्तः । अविदितस्वामिहृदयः ; हेतुगर्भमिदं पदम्; मुक्तवत् स्वाम्यभिप्रायज्ञानाभावेऽपि । स्वेनैवावगन्तुं शक्यत इत्यभिप्रायेणाह - परित्याग इति ।

X७६३
विहितस्य परित्यागे स्वस्य परेषां च विविधानर्थजननाद्धेतोः आ मोक्षात् अलङ्घ्याम् । तत्र हेतुमाह - स्वतन्त्राज्ञासिद्धामिति । आज्ञा ; श्रुतिस्मृती । शास्त्रीयसरणिमनुसरति ॥ २० ॥

प्रभाविलासः - २०

मुकुन्द इति । स्वतन्त्रस्य ; ईश्वरस्य । आज्ञा ; “ श्रुतिस्मृती ममैवाज्ञा” इत्युक्तरूपा । ननु स्वतन्त्रेणैव सर्वधर्मपरित्यागोऽप्याज्ञप्त इति चेत्, नेत्याह — स्वयमिति । तद्वचनस्य तात्पर्यं न विज्ञातमाचार्योपदेशे नेति भावः । कुत इत्यत आह - परित्याग इति । स्वस्य; त्यागकर्तुः । परेषाम् ; शिष्टाग्रणीरयमेव कर्मत्यागं कृतवानिति तमनुतिष्ठताम् । तदुक्तम्-

" यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥”
इति । विविधानर्थेति ; “वीरहा वा एष देवानां योऽग्निमुद्वासयते

। " सङ्करो नरकायैव " इत्यादिकमुक्तम् । तत्रापि शिष्टगर्हण बहिष्कार- ब्रह्मवर्चसहानिप्रभृतिदृष्टानर्थानां त्यागतुल्यकालिकतया सद्य इत्युक्तम् । अलङ्घ्यामिति ;

" एवं विलङ्घयन्मर्त्यो मर्यादां वेदनिर्मिताम् ।

प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ॥ "

इति भगवद्वचनं स्मारितम् । आ मोक्षादिति ; “आ प्रायणात्तत्रापि हि दृष्टम् " इति सूत्रं विवृतम् । अत्राविदितस्वामिहृदय इति विरोधशमनात् विमर्शसन्धेः पञ्चममङ्गं शक्त्याख्यमुक्तम्, विरोधशमनं शक्तिः " इतिलक्षणात् ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

ततश्च,

अनघमतिरनुज्झन्नाश्रमादिव्यवस्थां

हरिचरणसपर्यास्वादतुष्टो मनीषी

अवतरति विरक्त्या गाढमालिङ्गितोऽसौ

मुषितनिखिलखेदे11 मुक्तिघण्टापथेऽस्मिन् ॥ २१ ॥

मूलम् - २१

ततश्च,

अनघमतिरनुज्झन्नाश्रमादिव्यवस्थां

हरिचरणसपर्यास्वादतुष्टो मनीषी

अवतरति विरक्त्या गाढमालिङ्गितोऽसौ

मुषितनिखिलखेदे11 मुक्तिघण्टापथेऽस्मिन् ॥ २१ ॥

प्रभावली - २१

ईदृगवस्थापन्नत्वफलमाह–अनघेति । अघं नामात्र क्रियमाणेषु कर्मसु

X७६४
तत्तद्देवतामात्रविषयत्वम्, देवतान्तरविषयत्वं वा । तत्र मतिर्यस्य नास्ति स अनघमतिः । अवतरति ; प्रविशति ॥ २१ ॥

प्रभाविलासः - २१

अनघेति । आश्रमादीत्यादिपदेन वर्णादय उच्यन्ते । मनीषीत्यनेन " मनीषी वैदिकाचारं मनसापि न लङ्घयेत्” इति स्मारितम् ।
घण्टापथः ; दशधन्वन्तरो राजमार्गः ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

इदमपि यथावत्प्रतिसङ्घातव्यम्

संसाराख्यज्वलनभसितीभूतसञ्जीवनार्हा

धर्मोत्पत्तिप्रथितविभवा धार्यमाणा गिरीशैः ।

गम्भीरत्वादकलुषगतिर्गम्यतीर्थोपपन्ना

गङ्गेवान्या पुरुषजलधिं गाहते विष्णुभक्तिः ॥ २२ ॥

मूलम् - २२

इदमपि यथावत्प्रतिसङ्घातव्यम्

संसाराख्यज्वलनभसितीभूतसञ्जीवनार्हा

धर्मोत्पत्तिप्रथितविभवा धार्यमाणा गिरीशैः ।

गम्भीरत्वादकलुषगतिर्गम्यतीर्थोपपन्ना

गङ्गेवान्या पुरुषजलधिं गाहते विष्णुभक्तिः ॥ २२ ॥

प्रभावली - २२

विरक्तस्यास्य क्रमेण विष्णुभक्तिर्भवतीत्याह – इदमपीति । संसारेति । संसाराग्निज्वालाभस्मीभूतानां सञ्जीवने समर्था । अन्यत्र भस्मीभूतानां सागराणां स्वर्गदानेन सञ्जीवनार्हा। निवृत्तिधर्मोत्पत्तौ; अन्यत्र पापनोदनवमौत्पत्तौ ; प्रसिद्धवैभवा । गिरि वाग्विषये ईशः समर्थः विद्वद्भिः । अन्यत्र रुद्रैः । कल्प- भेदेन बहुत्वात् पूज्यतया वा बहुवचनम् । गम्भीरत्वात्; सर्वोत्कृष्टत्वात् । अकलुषगतिः ; उपायान्तरवत् केवलसांसारिकप्रदत्वदोषरहिता गतिः, सत्फलोपायरूपा । अन्यत्र बहुव्रीहिः । अभिगम्यैः तीर्थेः आचार्यैराश्रिता । अन्यत्र तीर्थानि अवताराः, सरोविशेषा वा ॥ २२ ॥

प्रभाविलासः - २२

संसारेति । भसितीभूताः ; अत्यन्ततापिताः । अन्यत्र सागराः । सञ्जीवनम् ; सद्गतिप्रापणम् । धर्मः ; वेदोक्तमनभिसंहितफलकं कर्म । तस्मादुत्पत्त्या प्रथितमहिमा । तदुक्तम् -

“वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥”

धर्मो मद्भक्तिकृत्प्रोक्तः” इति । अन्यत्र धर्मः युधिष्ठिरः । गिरीशैः ; विद्वद्भिः, रुद्रैश्च । पूजायां बहुवचनम् । कलुषम् ; पापं पङ्कश्च । गम्यतीर्थः ; अभिगम्यार्चार्थः । गमनयोग्यावतरणदेशश्च ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

अपि च शान्तमेव रसमेकं शरणयतो12 मनीषिणः पुनरपि

सम्प्रति रसान्तराण्यपि पुष्णातीव विष्णुभक्तिः । तथा हि-

जुगुप्सां देहादौ विषयरसभोगेषु हसनं

प्रकोपं निद्रादौ परपरुषवादादिषु भयम् ।

शुचं योगालाभे फलपरिणतौ विस्मयमपि

प्रयच्छत्युत्साहं दुरितविरतौ ब्रह्मणि रतिम् ॥ २३ ॥

मूलम् - २३

अपि च शान्तमेव रसमेकं शरणयतो12 मनीषिणः पुनरपि

सम्प्रति रसान्तराण्यपि पुष्णातीव विष्णुभक्तिः । तथा हि-

जुगुप्सां देहादौ विषयरसभोगेषु हसनं

प्रकोपं निद्रादौ परपरुषवादादिषु भयम् ।

शुचं योगालाभे फलपरिणतौ विस्मयमपि

प्रयच्छत्युत्साहं दुरितविरतौ ब्रह्मणि रतिम् ॥ २३ ॥

प्रभावली - २३

X७६५
अथ शृङ्गारादिरसान्तरविरक्तस्यास्यासौ पुनः शृङ्गारादिरसं पुष्णातीति निन्दास्तुल्या प्रशंसति — अपिचेत्यादिना । शृङ्गारादिरसं परित्यज्य शान्त- मेकमेव रसमाश्रयतो मनीषिणः स्वसद्भावकाले शृङ्गारादिरसान्तराण्यपि वर्धय- तीव । इदमेवोपपादयति - तथाहीति । देहदेहानुबन्धिषु जुगुप्साम् । विषयरसभोगेषु हासम् । प्रमादालस्यादौ कोपम् । परुषोक्त्यादिषु भीतिम् । समाध्यलाभे शोकम् । आनुषङ्गिकफलसिद्धौ विस्मयम् । पापानामपनोदने उद्योगम् । ब्रह्मणि रतिं शृङ्गाररसमियं प्रयच्छति ॥ २३ ॥

प्रभाविलासः - २३

जुगुप्सामिति । परपरुषवादादिष्वित्यादिना पैशुन्यादिकं गृह्यते ।

तदुक्तम्-

" परापवादं पैशुन्यमनृतं च न भाषते ।

अन्योद्वेगकरं वापि तोष्यते तेन केशवः ॥”

इति । अत्र बीभत्सादिव्याजेन शान्तरसस्यैव वर्णनात् छलं नाम विमर्श - सन्धेरष्टममङ्गमुक्तम्, “ छलनं व्याजकल्पना" इति लक्षणात् ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

न चात्र महाराजेन संस्कारशेषतः समाधिप्रत्यूहः शङ्क-

नीयः । यतः,
पृथुक तरुणप्रायावस्थाव्यवस्थितसञ्चया

बहुलनिगमप्रत्यादिष्टा बहिर्मुखवासना ।

पटुतरदृढप्रत्याहारक्रियापरिपक्त्रिमा

ज्वलति महति ज्योतिष्यन्तर्लयं प्रतिपत्स्यते ॥ २४ ॥

मूलम् - २४

न चात्र महाराजेन संस्कारशेषतः समाधिप्रत्यूहः शङ्क-

नीयः । यतः,
पृथुक तरुणप्रायावस्थाव्यवस्थितसञ्चया

बहुलनिगमप्रत्यादिष्टा बहिर्मुखवासना ।

पटुतरदृढप्रत्याहारक्रियापरिपक्त्रिमा

ज्वलति महति ज्योतिष्यन्तर्लयं प्रतिपत्स्यते ॥ २४ ॥

प्रभावली - २४

अत्र ; विष्णुभक्तिसद्भावे सति । संस्कारशेषतः ; सूक्ष्मवासनातः

X७६६
समाधिविघ्नो न शङ्कनीयः । तत्र हेतुमाह - पृथुकेति । पृथुकावस्था तरुणावस्था च यस्याः सा । व्यवस्थितः स्थिरः सञ्चयो राशिः यस्याः सा । बहुभिः निगमैः वेदान्तैः प्रत्यादिष्टा निराकरणीयत्वेनोक्ता । बहिर्विषयवासना । पटुतरेति । पटुतरा ; विषयान्तरञ्चपलं चेतः प्रत्याहर्तुं क्षमा । दृढा ; अचञ्चला । प्रत्याहरणविषये सावधानेत्यर्थः । या प्रत्याहारक्रिया, तया परिपक्त्रिमा परिपक्वा शुष्केत्यर्थः । अन्तः ज्योतिः अन्तस्थितं ब्रह्म । तत्र नाशं प्राप्स्यति । अतः समाधिप्रत्यूहो न शङ्कनीय इति सम्बन्धः ॥ २४ ॥

प्रभाविलासः - २४

पृथुकेति । प्रथुकतरुणप्रायाभिः बाल्ययौवनप्रचुराभिः अवस्थाभिः

व्यवस्थितसञ्चया ।

" बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञानं यान्त्यशक्त्या च वार्धके समुपस्थिते ॥”

इत्युक्तप्रकारेण प्रतिनियतसङ्ग्रहा । निगमप्रत्यादिष्टा ; निषेधशास्त्रोल्लङ्- घनी । बहिर्मुखवासना ; शब्दादिविषयवासना । पटुतरस्य प्रत्याहारस्य ; बाह्य विषय निवर्तनस्य । क्रियया; अभ्यासेन । परिपक्त्रिमा परिपाकं प्राप्ता । नाशौन्मुख्यं गतेति यावत्,

" प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये ।

वशीकृते ततः कुर्यात् स्थितं चेतः शुभाश्रये ॥ "

इति स्मरणात् । ज्योतिषि ; नारायणे, “नारायणः परं ज्योतिः " इति स्मरणात् । अत्र प्रत्याहारसामर्थ्यकथनेन विमर्शसंवेर्व्यवसायो नाम नवममङ्गमुक्तम् । व्यवसायः स्वशक्त्युक्तिः " इति लक्षणात् ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

प्रत्यक्तत्त्वसतत्त्ववेदनसुखप्रत्यूहसिद्धिप्रदैः

क्षुद्रैः केवलकालयापनपरैरन्यैरनाकृष्टधीः ।

मुक्तिद्वारक वाटिका विघटनध्वानप्रतिश्रुन्निभै

‘रध्यक्षीकृतसत्पथैर्मुनिरसौ13 मन्त्रैर्धृतिं विन्दति ॥ २५ ॥

मूलम् - २५

प्रत्यक्तत्त्वसतत्त्ववेदनसुखप्रत्यूहसिद्धिप्रदैः

क्षुद्रैः केवलकालयापनपरैरन्यैरनाकृष्टधीः ।

मुक्तिद्वारक वाटिका विघटनध्वानप्रतिश्रुन्निभै

‘रध्यक्षीकृतसत्पथैर्मुनिरसौ13 मन्त्रैर्धृतिं विन्दति ॥ २५ ॥

प्रभावली - २५

अद्य च,

X७६७
क्षुद्रमन्त्रान् विहाय मुख्यमन्त्रैः सन्तोषं दधातीत्ययमप्यतिशयोऽस्या- स्तीत्याह – प्रत्यक्तवेति । प्रत्यक्तत्त्वं च सतत्त्वं चेति द्वन्द्वः । प्रत्यक्तत्वं ब्रह्मतत्त्वम् । प्रत्यक्तत्त्वसमानतत्त्वं निष्कृष्टात्मा, तस्यापहतपाप्मत्वादिभिर्ब्रह्मणा समानत्त्वात् । प्रत्यक्तत्त्वसतत्त्वयोः वेदनेन साक्षात्कारेण यत् सुखं, तस्य विघ्नायमान सिद्धिप्रदैः क्षुद्रैः क्षुद्रफलप्रदः अन्यैः मन्त्रैः अनाकृष्टधीः सन् सुनिः मुक्तिद्वारक वाटिकायाः विघटने यो ध्वनिः, तस्य प्रतिध्वनिसन्निभः, प्रत्यक्षितः सत्पथः मनः शुद्धिसन्तोषादिर्यैस्तैः मूलमन्त्रादिभिः धृतिं सन्तोषं विन्दति लभते ॥ २५ ॥

प्रभाविलासः - २५

प्रत्यगिति । प्रत्यक्तत्वस्य सतत्त्ववेदनं तत्त्वज्ञानसहितं यत् सुखं, तस्य प्रत्यूहसिद्धिप्रदैः । अन्यैः ; चिन्तामणिप्रभृतिभिः । प्रतिश्रुन्निभैः; प्रतिध्वनिसदृशैः । मन्त्रैः; भगवन्मन्त्रैः । धृतिम् ; सन्तोषम् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

राजा : —- सेनापते, सम्प्रधारयतापि त्वदुक्तं त्वराधिक्यात्प्रचलितेनेव मया नानुभूयते । यावदिह पुरुषस्य निःश्रेयसोपायमविकलं न निष्पादयामि, यावद्वा प्रियाप्रियेषु सुकृतदुष्कृते न सङ्क्रमयामि न तावन्निद्रामाद्रिये । अद्य तु,
कामातङ्कमतीत्य कोपदहनं निर्वाप्य वित्तस्पृहा-

वेतालीं व्यवधूय बान्धवकथागर्तं समुत्तीर्य च ।

सङ्गोत्तंसितवासनासहचरः संसारकाराकुटी-

निष्क्रान्तिकमपादुकां तनुमनुद्विप्रो मुनिः क्षाम्यति ॥ २६ ॥

मूलम् - २६

राजा : —- सेनापते, सम्प्रधारयतापि त्वदुक्तं त्वराधिक्यात्प्रचलितेनेव मया नानुभूयते । यावदिह पुरुषस्य निःश्रेयसोपायमविकलं न निष्पादयामि, यावद्वा प्रियाप्रियेषु सुकृतदुष्कृते न सङ्क्रमयामि न तावन्निद्रामाद्रिये । अद्य तु,
कामातङ्कमतीत्य कोपदहनं निर्वाप्य वित्तस्पृहा-

वेतालीं व्यवधूय बान्धवकथागर्तं समुत्तीर्य च ।

सङ्गोत्तंसितवासनासहचरः संसारकाराकुटी-

निष्क्रान्तिकमपादुकां तनुमनुद्विप्रो मुनिः क्षाम्यति ॥ २६ ॥

प्रभावली - २६

त्वदुक्तमर्थं निश्चिन्वतापि फले त्वराधिक्यात्प्रचलितेनेव मया न गृह्यते । फलसिद्धिपर्यन्तं मम निद्रा नास्तीत्याह — यावदिति । अविकलं परिपूर्णं निष्पादयामि सम्पादयामि । अथ पुरुषस्य साम्प्रतिकीमवस्थां वर्णयति - अद्य त्विति ।

1

X७६८
विरक्तोऽयं दुःखहेतुं शरीरं मुक्तिसाधनतया कथञ्चित्क्षाम्यतीत्याह - कामातङ्क- मिति । सत्सङ्गेन उत्तंसिता अलङ्कृता या वासना सद्विषयानुभवजनितवासना, तस्याः सहचरः सन् मुनिः तनुं स्वशरीरं संसार एव कारागृह, तस्मात् निष्क्रान्तेः । क्रमशब्देन क्रमहेतुपादतलं लक्ष्यते । तस्य पादुकाम्; हेतुगर्भमिदम् । पादुकात्वात् अनुद्विग्नः धीरः सन् सहते ॥ २६ ॥

प्रभाविलासः - २६

कामेति । सङ्गः ; सत्सङ्गतिः । तेन उत्तंसिताः प्रवर्धिताः वासनाः भगवद्विषयवासनाः, ताभिः सहचरः । संसारकाराकुटीति ; अनेन " तावत् कारागृहं गृहम् " इति वचनं स्मारितम् । तेन बन्धसूचनात् विद्रवो नाम विमर्शसंवेस्तृतीयमङ्गं निरूपितम् ।

" विद्रवः कथ्यते बन्धवधादिकम् " इति लक्षणात् । पादुकेति ; समाधिनिष्पत्तिसाध- नत्वमुक्तम्, नृदेहमाद्यं प्रतिपद्य दुर्लभम् " इति स्मरणात् । अनुद्विद्मः क्षाम्यतीति; कामाद्यतिक्रमेऽपि शरीर उद्वेगराहित्येन धारणाभिलाषो न निवर्तत इति निर्वेदः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

व्यवसायःः— महाराज, मैवमाशङ्केथाः,

स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले

कालं कञ्चिज्जगति विधिना केनचित् स्थाप्यमानाः ।

तत्रोपायप्रभृतिविषये स्वामिदत्तां स्वनिष्ठां

शेषां कृत्वा शिरसि कृतिनः शेषमायुर्नयन्ति14 ॥ २७ ॥

मूलम् - २७

व्यवसायःः— महाराज, मैवमाशङ्केथाः,

स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले

कालं कञ्चिज्जगति विधिना केनचित् स्थाप्यमानाः ।

तत्रोपायप्रभृतिविषये स्वामिदत्तां स्वनिष्ठां

शेषां कृत्वा शिरसि कृतिनः शेषमायुर्नयन्ति14 ॥ २७ ॥

प्रभावली - २७

आशङ्केथा इति । त्वराधिक्यात् प्रचलितेनेव मयेति येयमाशङ्का तां मा कृथाः । तत्र हेतुमाह – स्वापेति । स्वापोद्बोधयोः निद्राजागरयोः, सम्पर्क-

X७६९
सदृशे । मुमुक्षादशायां ज्ञानस्याज्ञानस्य च दर्शनात् निद्राजागर सम्पर्कसदृशत्वम् । भोगः ; संसारावस्था । मोक्षः; शरीरावसानभा विपरमात्मानुभवः । तयोरन्त- राले । मुमुक्षुत्वदशायां केनचिद्विधिना ; हितपरेणेश्वरेणेति भावः । जगति कञ्चित्कालं स्थाप्यमानाः मुमुक्षवो परिगृहीतोपायाः । तत्त्वम् ; स्वस्वरूप - परस्वरूपम् । उपायः ; उपासनादिः । प्रभृतिशब्देन फलसङ्ग्रहः । तद्विषये स्वतन्त्रस्वामिना दत्तां स्वनिष्ठाम् ; तत्त्वे यथार्थज्ञानम्, उपायेऽध्यवसायः, फले त्वरा च निष्ठा, ताम् । शिरसि शेषा कृत्वा ; शिरोमालां कृत्वा । शेषमायुः क्षिपन्ति । तस्मात् देहपरिग्रह एषां विनिपातहेतुर्भवतीति त्वया चिन्ता न कार्येति भावः ॥ २७ ॥

प्रभाविलासः - २७

स्वापेति । विधिना प्रारब्धकर्मणा तत्परिपाकावसरस्य निर्धारण -
शक्यतया केनचिदित्युक्तिः । तत्त्वम् ; उपेयं नारायणाख्यं ब्रह्म " तत्त्वं नारायणः परः" इति श्रुतेः । उपायः ; भक्त्यादिः । प्रभृतिपदेन पुरुषार्थ उच्यते । स्वामिदत्ताम् ; उद्धवं प्रति भगवता श्रीकृष्णेनोपदिष्टाम्–

“अर्चायां स्थण्डिले वाम सूर्येऽप्सु हृदि वा द्विजे ।

द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ।

पूर्वं स्नानं प्रकुर्वीत धौतदन्तो विशुद्धये ॥”

इत्यारभ्य " इति शेषां मया दत्तां शिरसादाय सादरम् " इत्यन्तेनोक्ताम् । स्वनिष्ठाम् ; स्वेतिकर्तव्यताम् । शेषाम् ; शिरसि धार्याम् । अत्र भगवद्वचनेन भाविपुरुषार्थदर्शनात् प्ररोचना नाम विमर्शसन्धेरेकादशमङ्गमुक्तम्,यथाप्तवचनाद्भाविदर्शनं सा प्ररोचना " इति लक्षणात् ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

ततश्च,

सिद्धप्रायसमीहितस्य वितथोदकों वितर्कःपुनः

स्थूलाभ्यूहविसंस्थुलस्थितिमतामत्के15 चमत्कारिणः ।

दूरीकृत्य बलात्त्वया रिपुचमूदुर्वीरदर्वीकरान्

किञ्चिन्न्यूनमनोरथेन कृतिना किं नाम सञ्चिन्त्यते ॥ २८ ॥

मूलम् - २८

ततश्च,

सिद्धप्रायसमीहितस्य वितथोदकों वितर्कःपुनः

स्थूलाभ्यूहविसंस्थुलस्थितिमतामत्के15 चमत्कारिणः ।

दूरीकृत्य बलात्त्वया रिपुचमूदुर्वीरदर्वीकरान्

किञ्चिन्न्यूनमनोरथेन कृतिना किं नाम सञ्चिन्त्यते ॥ २८ ॥

प्रभावली - २८

एवमध्यवसाये फलमाह – ततश्चेति । सिद्धप्रायसमीहितस्य पुरुषस्य

X७७०
पुनर्वितर्कः संशयः वितथोदर्कः व्यर्थोत्तरफलकः । संशयो नोदेतीति यावत् । अतस्त्वया चिन्ता न कार्येत्याह — स्थूलेति । स्थूलाभ्यूहेन ; स्थूलविचारेण । विसंस्थलस्थितिमताम्; चञ्चलनिष्ठावताम् । अत्के; समीपे । चमत्कारिणः ; सामर्थ्यवतः, शत्रुसेनासु दुर्वीरा एव दवकराः, तान् बलात् दूरीकृत्य स्थितिमता किञ्चिन्न्यूनमनोरथेन, अत एव कृतिना कृतकृत्यप्रायेण किं नाम सञ्चिन्त्यते । किमपि न चिन्तनीयमित्यर्थः ॥ २८ ॥

प्रभाविलासः - २८

सिद्धेति । वितथोदर्कः विफल इत्यर्थः । स्थूलाभ्यूहेन स्थूल-
विचारेण विसंस्थुला दन्तुरा स्थितिर्येषां तेषाम् । अत्के; निकटे । चमत्कारिणः ; निपुणाभासान् । दुर्वीराः महामोहादय एव दर्वीकराः सर्पाः तान् । किञ्चिदिति ; प्रारब्धदेहावसानमेव विलम्ब इत्यर्थः । अत्र दुर्वीरदर्वीकरान् दूरीकृत्येति संरम्भप्रतीतेर्विरोधनाख्यं विमर्शसन्धैर्दशममङ्गमुक्तम् । " संरब्धा वाग्विरोधनम् " इति लक्षणात् ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

राजा - :—(विचिन्त्य) अस्तु तावदेवम्

विमुक्तिपथदेशिकैर्वितथवृत्तिवैदेशिकै-

र्विमृष्टशुकशौनकप्रभृतिभाषितैरुज्झितम् ।

भिषज्यति भवं प्रभौ16 पितरि शेषिणि श्रीपता-

वपथ्यविनिवर्तकं किमपि भद्रमभ्यर्थये ॥ २९ ॥

मूलम् - २९

राजा - :—(विचिन्त्य) अस्तु तावदेवम्

विमुक्तिपथदेशिकैर्वितथवृत्तिवैदेशिकै-

र्विमृष्टशुकशौनकप्रभृतिभाषितैरुज्झितम् ।

भिषज्यति भवं प्रभौ16 पितरि शेषिणि श्रीपता-

वपथ्यविनिवर्तकं किमपि भद्रमभ्यर्थये ॥ २९ ॥

प्रभावली - २९

अस्तु तावदेवम्; त्वदुक्तं सत्यमस्तु । चिन्ता च व्यक्ता । तर्हि भगवतः सकाशादस्यापथ्यविनिवर्तकं किमपि मङ्गलमाशास इत्याह-विमुक्तीति मुक्ति-

X७७१
मार्गोपदेष्टृभिः व्यर्थाचारपराङ्मुखैः सम्यङ्निर्धारितशुकादिप्रबन्धैः उज्झितम् उज्झितव्यत्वेन प्रतिपादितं भवं संसारं भिषज्यति तस्य भेषजं कुर्वति प्रभौ अभिलषितदानसमर्थे अपथ्यस्य भागवतापचारादेः विनिवर्तकं किमपि भद्रं तदनुग्रहरूपं प्रार्थये ॥ २९ ॥

प्रभाविलासः - २९

विमुक्तीति । वितथवृत्तिः; लौकिकव्यवहारः, “न लोकवृत्तिं वर्तेत वृत्तिहेतोः कदाचन” इति स्मरणात् । भिषज्यतीति ; वैद्यो नारायणः स्वयम् इति स्मरणात् । विभाविति ; अपथ्यनिवारणे सामर्थ्यमुक्तम् । पितरीति; अनेन,
" हरिर्दुःखानि भक्तेभ्यो हितबुद्धया करोति हि ।

शस्त्रक्षाराग्निकर्माणि स्वपुत्राय यथा पिता ॥ "

इति वचनं स्मारितम् । शेषिणीति ; शेषस्य परार्थतया शेषारक्षणे शेषिण एव प्रयोजनहानिरिति व्यञ्जितम् । किमपि भद्रमिति ; भगवत्प्राप्तिरूपमित्यर्थः । तदुक्तं वैष्णवे-

“निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ "

इति ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

.अद्य च-

जननविलयवृत्या जाङ्घिकस्यास्य जन्तोः

समयमवमृशन् यस्तिष्ठति श्रीसहायः ।

प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः

प्रजनयतु17 समाधिं स्वात्मनैव स्वलक्षम् ॥ ३० ॥

मूलम् - ३०

.अद्य च-

जननविलयवृत्या जाङ्घिकस्यास्य जन्तोः

समयमवमृशन् यस्तिष्ठति श्रीसहायः ।

प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः

प्रजनयतु17 समाधिं स्वात्मनैव स्वलक्षम् ॥ ३० ॥

प्रभावली - ३०

मङ्गलाशासनं दर्शयति – जननेति । जननमरणयोरावृत्त्या जाङ्घिक-

X७७२
स्यास्य जन्तोः रक्षणावसरं प्रतीच्छन् यः श्रियःपतिस्तिष्ठति । प्रभुः ; स्वतन्त्रः । अनुकम्पा निघ्ननिर्विघ्नलीलः ; अनेन लीला स्वतो निर्विघ्नापि कृपया क्वचिद्विहन्यत इति सूच्यते । स्वात्मनैव; स्वयमेव । स्वलक्षम् ; स्वविषयम् । समाधिं प्रजनयतु ॥ ३० ॥

प्रभाविलासः - ३०

जननेति । जननविलयपदे अवस्थानवकस्योपलक्षके । तदुक्तम् -

“निषेकगर्भजन्मादिबाल्यकौमारयौवनम् ।

वयो मध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥”

इति ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

तद्वयमत्यासन्नेन महोदयेन पुरुषमभिनन्दयितुं प्रतिष्ठेमहि । ( नूपुररवमाकर्ण्य ) का पुनरिहेदानीं चरणकमलकलहंसायमानमणिनूपुररवेणामृतं18 शृण्वतां कर्णेष्वभिवर्षति ?

(नेपथ्ये)

भट्टिणि, दिट्ठिआ वड्ढसि । मोहं जेऊण पडिणिवृत्तो महाराओ । ता इदो इदो भट्टिणी ।

(भर्त्रि, दिष्ट्या वर्धसे । मोहं जित्वा प्रतिनिवृत्तो महाराजः । तदित इतो भर्त्री ।

(कर्णं दत्वा ) सेनापते, तदिदं प्रणिधानसिद्ध्या पुरुषमभिनन्दयितुं प्रतिष्ठमानानां नः प्रथमोपस्थितं मङ्गलम् ; यदसावभिमुखमायाति मङ्गलदेवतेव महागुणा देवी ।
(ततः प्रविशति सुमतिश्चेटी च )

चेटीः—- भट्टिणि, एसो महाराओ सेणावइणा सह इदो भट्टिणीए आजमणं पडिपार्लेतो ठाइ । ता तुवरिअम् एव उवसप्पउ भट्टिणी ।

(भर्त्रि, एष महाराजः सेनापतिना सहेतो भर्त्र्या आगमनं प्रतिपालयंस्तिष्ठति । तत्त्वरितमुपसर्पतु भर्त्री । )

सुमतिः - ( उपसृत्य ) जेदु महाराओ ।

गअणम्मि अच्चराणं जरण तुह्माण जणिअतोसाणम् ।

वीणावेडिअमहुरं19 पहरिसगीअं सुणावे ॥

( जयतु महाराजः ।

गगनेऽप्सरसां जयेन युष्माकं जनिततोषाणाम् ।

वीणावादनमधुरं प्रहर्षगीतं श्रूयते ॥)॥ ३१ ॥

मूलम् - ३१

तद्वयमत्यासन्नेन महोदयेन पुरुषमभिनन्दयितुं प्रतिष्ठेमहि । ( नूपुररवमाकर्ण्य ) का पुनरिहेदानीं चरणकमलकलहंसायमानमणिनूपुररवेणामृतं18 शृण्वतां कर्णेष्वभिवर्षति ?

(नेपथ्ये)

भट्टिणि, दिट्ठिआ वड्ढसि । मोहं जेऊण पडिणिवृत्तो महाराओ । ता इदो इदो भट्टिणी ।

(भर्त्रि, दिष्ट्या वर्धसे । मोहं जित्वा प्रतिनिवृत्तो महाराजः । तदित इतो भर्त्री ।

(कर्णं दत्वा ) सेनापते, तदिदं प्रणिधानसिद्ध्या पुरुषमभिनन्दयितुं प्रतिष्ठमानानां नः प्रथमोपस्थितं मङ्गलम् ; यदसावभिमुखमायाति मङ्गलदेवतेव महागुणा देवी ।
(ततः प्रविशति सुमतिश्चेटी च )

चेटीः—- भट्टिणि, एसो महाराओ सेणावइणा सह इदो भट्टिणीए आजमणं पडिपार्लेतो ठाइ । ता तुवरिअम् एव उवसप्पउ भट्टिणी ।

(भर्त्रि, एष महाराजः सेनापतिना सहेतो भर्त्र्या आगमनं प्रतिपालयंस्तिष्ठति । तत्त्वरितमुपसर्पतु भर्त्री । )

सुमतिः - ( उपसृत्य ) जेदु महाराओ ।

गअणम्मि अच्चराणं जरण तुह्माण जणिअतोसाणम् ।

वीणावेडिअमहुरं19 पहरिसगीअं सुणावे ॥

( जयतु महाराजः ।

गगनेऽप्सरसां जयेन युष्माकं जनिततोषाणाम् ।

वीणावादनमधुरं प्रहर्षगीतं श्रूयते ॥)॥ ३१ ॥

प्रभावली - ३१

अथ स्वोत्तरकृत्यं दर्शयति तद्वयमिति । महोदयेन; महोत्सवेन । सुमत्या सह विवेकविषयं चेटीवचनं दर्शयति- नेपथ्य इत्यादिना । भट्टिणि भर्त्रि । दिट्ठिआ दिष्ट्या । वड्ढसि - वर्धसे । इदं मङ्गलाशासनम् । अथ विवेकवृत्तान्तं वदति — मोहं जेऊण-मोह जित्वा । पडिणित्तो महराओ प्रतिनिवृत्तो महाराजः । ता तस्मात् । इदो इदो इत इतः । आगच्छत्विति शेषः । महाराजः भर्त्र्या आगमनं प्रतिपालयंस्तिष्ठति । तस्मात् त्वरितमुपसर्पतु भर्त्री । जेदु

X७७३
महाराओ - जयतु महाराजः । अद्य आकाशे गायन्तीनामप्सरसां वीणा त्वद्विजयं सूचयतीत्याह — गअणमीति । गअणम्मि गगने । अञ्चराणं- अप्सरसाम् । जएण- जयेन । तुह्माण- तव । जणि अतोसाणं जनिततोषाणाम् । वीणा मे पिअमहुरं- प्रियमधुरम् । पहरिसगीअं-प्रहर्षगीतम् । सुणावेइ - श्रावयति ॥ ३१ ॥

प्रभाविलासः - ३१

प्रणिधानसिद्धया ;समाधिसिद्धया ।

पुरुषम् ; जीवम् ।
अभिनन्दयितुम् ; सन्तोषयितुम् । नः अस्माकम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

राजा - देवि, जितं मया, यस्य भवत्या जयशब्दः प्रयुज्यते ।

व्यवसायः – देवि, किमत्राश्चर्यं यत् त्वत्प्रियेण जितं जेष्यते चेति ? कस्तावदतः परं निस्तार इति तु निर्धारणीयम् ।
सुमतिः - सेणावइ, कज्जसेसणिव्वहणम्मि वि णिव्वूडसमर- कज्जो महाराओ एव्व पमाणम् ।

(सेनापते, कार्यशेषनिर्वहणेऽपि निर्व्यूढसमर कार्यो महाराज

एव प्रमाणम् । )

राजा —- देवि, मैवं मय्येव भारमारोपयेथाः । अस्ति खलु सर्वधुरीणः कश्चित्सर्वजगदन्तर्यामी पुरुषः । तथा हि-

आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरं

सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् ।

विश्वं पश्यन्निति भगवति व्यापकादर्शदृष्टे

गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥ ३२ ॥

मूलम् - ३२

राजा - देवि, जितं मया, यस्य भवत्या जयशब्दः प्रयुज्यते ।

व्यवसायः – देवि, किमत्राश्चर्यं यत् त्वत्प्रियेण जितं जेष्यते चेति ? कस्तावदतः परं निस्तार इति तु निर्धारणीयम् ।
सुमतिः - सेणावइ, कज्जसेसणिव्वहणम्मि वि णिव्वूडसमर- कज्जो महाराओ एव्व पमाणम् ।

(सेनापते, कार्यशेषनिर्वहणेऽपि निर्व्यूढसमर कार्यो महाराज

एव प्रमाणम् । )

राजा —- देवि, मैवं मय्येव भारमारोपयेथाः । अस्ति खलु सर्वधुरीणः कश्चित्सर्वजगदन्तर्यामी पुरुषः । तथा हि-

आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरं

सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् ।

विश्वं पश्यन्निति भगवति व्यापकादर्शदृष्टे

गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥ ३२ ॥

प्रभावली - ३२

'

X७७४
इतः परमस्माकं को वा कार्यशेषस्य निस्तार इति निश्चेतव्यम् । सेप्णावइ- सेनापते । `कज्जसेसनिव्वहणम्मि - कार्यशेषनिर्वहणे । णिव्वूडसमरकज्जो - निर्व्यूढ- समर कार्यः । समरनिर्वाहक इति यावत् । महाराओ एव्व महाराज एव । पमाण- प्रमाणम् । निर्णायक इत्यर्थः । आधेयत्वेति । आधेयत्वविधेयत्वशेषत्वानां

X७७५
नियमैः एतत् विश्वम् आदिकर्तुः शरीरं भवति । सत्तास्थेमप्रयतनफलेषु ; सृष्टिस्थितिसंहारमोक्षेषु एतदायत्तं च भवति । व्यापकमन्त्र एवादर्शः, तस्मिन् दृष्टे भगवत्येवं पश्यन् पुरुषः पूर्वोक्तप्रकारेण गम्भीराणां वेदवाचां भेदाभेदघटकश्रुतीनाम् अभिप्रायं जानाति । नान्य इत्यर्थः ॥ ३२ ॥

प्रभाविलासः - ३२

निर्व्यूढः ; निष्पन्नः । आधेयत्वेति । प्रभृतिपदेन नियाम्यत्वशेषत्वे कथिते । नियमपदेन यावद्भावभावित्वमुक्तम् । अनेन श्रीभाष्यकारोक्तशरीरलक्षणं सङ्गृहीतम् । यदाहुः - " सर्वात्मना आधेयतया शेषतया चापृथक्सिद्धप्रकारभूतमाकारः शरीरमिति चोच्यते " इति । नियमेति परकायप्रविष्टस्य परकायशरीरत्वव्यावृत्तिः । लोके शरीरसत्तादयो न शरीर्य- धीनाः, कर्मादितन्त्रत्वात् । ईश्वरस्य शरीरभूत विश्वसत्तादयः स्वाधीना एवेति विशेषमाह – सत्तेति । स्थेमा; स्थितिः, “ को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् " इति श्रुतेः । व्यापकादर्श -
यस्यात्मा शरीरम्" इत्याद्यपरिच्छिन्नवेदान्तशास्त्रवेद्ये भगवति । इति पश्यन् एवं पश्यन् । विश्वं जगत् भगवच्छरीरभूतं तदधीनसत्ता कं चेति जानन्निति यावत् । गम्भीराणाम् ; शरीरशरीरिभावसमर्पकघटकश्रुतिस्मृत्यनुग्रहमन्तरेणाशक्यनिर्णयानाम् । अकृतकगिराम् ; " तत्त्वमसि " “अयमात्मा ब्रह्म " सर्वं खल्विदं ब्रह्म "

" तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति "

" भोक्ता भोग्यं प्रेरितारं च मत्वा" इत्यादि- भेदाभेदश्रुतीनाम् । चित्तवृत्तिम् ; तात्पर्यम् । गाहते; जानाति ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

व्यवसायःः – एतदेव तत्त्वम् । तथापि तन्निबन्धनं किञ्चिदहमध्यवस्यामि । कर्मनिगलयन्त्रितस्य हि पुरुषस्य कालक्षेपरहितकल्याणनिर्वहणाय कश्चित् समाधिकदरिद्रः समाधिराधातव्यः20 । तदुपसम्पत्तये चासौ समयनियतसाधिष्ठसूक्ष्मसन्मन्त्र रहस्यवेदिना पुनरपि दिव्येन केनचित् देशिकेन दत्तदृष्टिर्भावयितव्यः ।

राजा :—- एतदेव ममापि हृदये वर्तते । सम्पत्तिस्तु परस्मिन्नेव

समायतते ।
सुमतिः - ( अग्रतोऽवलोक्य) अय्यउत्त, अअम् अअण्ड- चन्दोदओ विअ अइविसओ कोवि पआसो अग्गदो दीसइ ।

(आर्यपुत्र, अयमखण्डचन्द्रोदय इवातिविशदः कोऽपि प्रकाशोऽग्रतो दृश्यते । )

राजा - सेनापते, किमिदमैन्द्रजालिकमिव किमप्यतर्कितोपस्थितम्, अनिर्धारितकारणम्, अमृतपारावारपूरपर्यायप्रसरम्, आप्लावितदशदिशावकाशम्, अवदातमनोहरम्,21 अदृष्टपूर्वं धाम ।

व्यवसायः - नूनं नारदेन भगवता समागतेन भवितव्यम् । न ह्यन्यस्य कस्यचित् आम्रेडितश्वेतद्वीपदेवताद्वैतमेतादृशं22 तेजः ।

(नेपथ्ये)

अधराहितचारुवंशनाला मकुटालम्बिमयूरपिच्छमालाः ।

हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ ३३ ॥

मूलम् - ३३

व्यवसायःः – एतदेव तत्त्वम् । तथापि तन्निबन्धनं किञ्चिदहमध्यवस्यामि । कर्मनिगलयन्त्रितस्य हि पुरुषस्य कालक्षेपरहितकल्याणनिर्वहणाय कश्चित् समाधिकदरिद्रः समाधिराधातव्यः20 । तदुपसम्पत्तये चासौ समयनियतसाधिष्ठसूक्ष्मसन्मन्त्र रहस्यवेदिना पुनरपि दिव्येन केनचित् देशिकेन दत्तदृष्टिर्भावयितव्यः ।

राजा :—- एतदेव ममापि हृदये वर्तते । सम्पत्तिस्तु परस्मिन्नेव

समायतते ।
सुमतिः - ( अग्रतोऽवलोक्य) अय्यउत्त, अअम् अअण्ड- चन्दोदओ विअ अइविसओ कोवि पआसो अग्गदो दीसइ ।

(आर्यपुत्र, अयमखण्डचन्द्रोदय इवातिविशदः कोऽपि प्रकाशोऽग्रतो दृश्यते । )

राजा - सेनापते, किमिदमैन्द्रजालिकमिव किमप्यतर्कितोपस्थितम्, अनिर्धारितकारणम्, अमृतपारावारपूरपर्यायप्रसरम्, आप्लावितदशदिशावकाशम्, अवदातमनोहरम्,21 अदृष्टपूर्वं धाम ।

व्यवसायः - नूनं नारदेन भगवता समागतेन भवितव्यम् । न ह्यन्यस्य कस्यचित् आम्रेडितश्वेतद्वीपदेवताद्वैतमेतादृशं22 तेजः ।

(नेपथ्ये)

अधराहितचारुवंशनाला मकुटालम्बिमयूरपिच्छमालाः ।

हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ ३३ ॥

प्रभावली - ३३

एतदेव तत्त्वम्; परमार्थः । समयेति । समयनियतम् ; सिद्धान्ताव्यभिचारि । साधिष्ठं सूक्ष्मम् उपदेशेन विना ज्ञातुमशक्यं यन्मन्त्ररहस्यं तद्वेदिना दिव्येन भूमावसुलभेन देशिकेन योगरहस्यविदेति यावत् । पुनरपि दत्तदृष्टिः

X७७६
भावयितव्यः ; आचार्येण यथा दत्तदृष्टिर्भवति तथाचार्योपसदनं कारयितव्यः । सम्पत्तिस्तु ; आचार्यकटाक्षलाभादिः । परस्मिन्नेव समायतते; परमपुरुषाधीना; नास्माभिः सम्पादयितुं शक्येत्यर्थः । अथ नारदागमनं वक्तुं सुमत्यास्तेजोविशेषदर्शनं प्रस्तौति — अग्रत इति । आस्थितश्वेताद्वैतम् ; स्वीकृतश्वैत्यैकरूपम् अखण्डश्वेतमित्यर्थः । अथ नारदगीति दर्शयति - अधरेति । अधरे अर्पितः

'

X७७७
चारुः वंशनालः यासां ताः । मकुटालम्बिनी मयूरपिच्छमाला यासां ताः । तद्विषया इत्यर्थः । हरिनीलशिलाविभङ्गवत् नीलाः । तद्विषया इत्यर्थः । प्रतिभाः ; श्रीकृष्णविषयिण्यो बुद्धयः । मम अन्तिमप्रयाणे मरणकाले सन्तु ॥ ३३ ॥

प्रभाविलासः - ३३

समयेति । समयनियतस्य सिद्धान्तनियतस्य । साधिष्ठस्य ; अभीष्टनिर्वाहकस्येति यावत् । सूक्ष्मस्य अविज्ञाततात्पर्यस्य मन्त्रस्य
रहस्यं वेत्तीति तथोक्तः ; तेनात्र गुरूपदेशकथनात् प्रसङ्गो नाम विमर्शसन्धेरङ्गमुक्तम् । गुरूपदेशकीर्तनं प्रसङ्गः " इति लक्षणात् । अधरेति । वंशनालः ; वेणुवाद्यम् । अतिस्निग्धत्वकथनाय विभङ्गोक्तिः । प्रतिभाः ; तेजःपुञ्जाः ; श्रीकृष्णविग्रहा इत्यर्थः । अन्तिमप्रयाण इति अन्तिमस्मृते-
रावश्यकत्वमुक्तम् । यत्तु कैश्चिदन्तिमस्मृतेरनपेक्षत्वमुक्तं तेषां तस्या- श्वेतनयत्नसाध्यत्वनिषेधे तात्पर्यम्, न तु स्वरूपनिषेधे ; " स्मरयसि बहुलीलम् ” इतीश्वरयत्नसाध्यत्वकथनात् । सन्तु; साक्षाद्भवन्तु । षोडशसहस्रस्त्रीणां मन्दिरेष्वेकदैव बहुविग्रहसाक्षात्कारात् तत्प्रत्यभिज्ञया बहुवचन- स्वीकारः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

राजा - अहो तु खलु भगवतो महामुनेः प्रपञ्चितपरमपुरुषभावनाविशेषा विपञ्चिकानिनादकर्बुरा विभ्रमगीतिः ।

सुमतिः - अय्यउत्त, एदेण खु आअदेण इसिणा तुझ जाव संवादो होज्ज । अहअं दाव सहीअणसहिदा संलवन्ती तुह्म समीहिदे तुरम्म ।

( आर्यपुत्र, एतेन खल्वागतेन ऋषिणा युष्माकं यावत्संवादो भवेत् । अहं तावत्सखीजनसहिता संलपन्ती युष्माकं समीहिते

त्वरे ।)

(इति सचेटी निष्क्रान्ता )
(ततः प्रविशति नारदः)

नारदः- अहो नु खलु महाराजोऽयमनादिसंसारसागरनिमग्नं पुरुषमाध्यात्मिक विज्ञानपोतमारोप्य बहुधैव बाह्यकुदृष्टि जलजन्तुभिरनुपप्लुतेन सुपथा समाधिपारसन्निकर्षमानीय साध्यशेषे सन्त्वरमाणस्तिष्ठति । अद्य खलु,

सुमतिबहुमतेन स्वात्मना सत्त्वधाम्ना

बहिरबहिरुदीर्णे वारिते वैरिवगेम् ।

जनयति पुरुषस्य ज्यायसीं चित्तवृत्तिं

समविषमविभेदी सार्वभौमो विवेकः ॥ ३४ ॥

मूलम् - ३४

राजा - अहो तु खलु भगवतो महामुनेः प्रपञ्चितपरमपुरुषभावनाविशेषा विपञ्चिकानिनादकर्बुरा विभ्रमगीतिः ।

सुमतिः - अय्यउत्त, एदेण खु आअदेण इसिणा तुझ जाव संवादो होज्ज । अहअं दाव सहीअणसहिदा संलवन्ती तुह्म समीहिदे तुरम्म ।

( आर्यपुत्र, एतेन खल्वागतेन ऋषिणा युष्माकं यावत्संवादो भवेत् । अहं तावत्सखीजनसहिता संलपन्ती युष्माकं समीहिते

त्वरे ।)

(इति सचेटी निष्क्रान्ता )
(ततः प्रविशति नारदः)

नारदः- अहो नु खलु महाराजोऽयमनादिसंसारसागरनिमग्नं पुरुषमाध्यात्मिक विज्ञानपोतमारोप्य बहुधैव बाह्यकुदृष्टि जलजन्तुभिरनुपप्लुतेन सुपथा समाधिपारसन्निकर्षमानीय साध्यशेषे सन्त्वरमाणस्तिष्ठति । अद्य खलु,

सुमतिबहुमतेन स्वात्मना सत्त्वधाम्ना

बहिरबहिरुदीर्णे वारिते वैरिवगेम् ।

जनयति पुरुषस्य ज्यायसीं चित्तवृत्तिं

समविषमविभेदी सार्वभौमो विवेकः ॥ ३४ ॥

प्रभावली - ३४

प्रपञ्चितः परमपुरुषस्य भावनाविशेषः यया सा । विपञ्चीनिनादेन शबला विलासगतिः । अय्यउत्त आर्यपुत्र । एदेण खु - एतेन खलु । आअदेन- आगतेन । इसिणा - ऋषिणा । तुह्म तव । जाव- यावत् । संवादो - संवादः । होज्ज - भवेत् । अहअं - अहम् । दाव-तावत् । सहीअणसहिदा सखीजनसहिता । संलवन्ती - संलपन्ती । तुह समीहिदे तव समीहिते, पुरुषसमाध्यारम्भे ।

X७७८
तुरम्मि-त्वरे । सचेटी; दासीसहिता । दूरतो विवेकं प्रशंसति- अहो नु खल्विति । अथाद्य विवेकः पुरुषस्य प्रशस्तां चित्तवृत्तिं जनयतीत्याह — अद्य किलेति । सत्त्वधाम्ना ; सत्त्वगुणनिलयेन । स्वात्मना ; स्वयमेव । उदीर्णे ; उत्कटे । बहिर्वैरिवर्गः कामाद्यधिष्ठानदेवतारूपः । अबहिरन्तर्वैरिवर्गः आत्मधर्मरूपाः कामक्रोधादयः । वारिते; निरस्ते सति । स्वात्मनैवारिवर्गे वारित इत्यर्थः । समविषम विभेदी ; साध्यसाधक विवेचनसमर्थः । पुरुषस्य विलक्षणां चित्तवृत्तिं जनयति ॥ ३४ ॥

प्रभाविलासः - ३४


सुमतीति । स्वात्मना ; स्वस्वरूपेण । ज्यायसीम् ; श्रेष्ठतमाम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

ततश्च,

तितिक्षुर्द्वन्द्वानि द्रुतमतिरयत्नोपनतभुक्-

परित्याज्यत्यागी भ्रमर इव सारग्रहरुचिः ।

कृतज्ञः प्राप्तव्ये नियतधृतिरेकान्तरसिको

मुमुक्षुः सन्धत्ते मुनिरनिभृतं ब्रह्मणि मनः ॥ ३५ ॥

मूलम् - ३५

ततश्च,

तितिक्षुर्द्वन्द्वानि द्रुतमतिरयत्नोपनतभुक्-

परित्याज्यत्यागी भ्रमर इव सारग्रहरुचिः ।

कृतज्ञः प्राप्तव्ये नियतधृतिरेकान्तरसिको

मुमुक्षुः सन्धत्ते मुनिरनिभृतं ब्रह्मणि मनः ॥ ३५ ॥

प्रभावली - ३५

अथ चित्तवृत्तिजननफलमाह - ततश्चेति । द्वन्द्वानि ; सुखदुःखादीनि ।

X७७९
तितिक्षुः ; सहनशीलः । “न लोक" इत्यादिना कुद्योगषष्ठीप्रतिषेधः । द्रुता शीघ्रग्राहिणी मतिर्यस्य सः । अयत्नोपनतभुक् ; स्वयम्प्राप्तभोजी । अजगरवृत्तिरिति यावत् । प्राप्तव्ये ; सुखदुःखे । नियतवृत्तिः ; नियतसन्तोषः ॥ ३५ ॥

प्रभाविलासः - ३५

तितिक्षुरिति । द्वन्द्वानि ; सुखदुःखादीनि । द्रुतमतिरिति ;
" कथं विना रोमहर्षं द्रवता चेतसा विना ।

विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥”

""

इति स्मारितम् । परित्याज्यानि; परोद्वेजनादीनि । तदुक्तम्

“नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु ।

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

देहमुद्दिश्य पशुवद्वैरं कार्यं न केनचित् ॥”

इति । भ्रमर इवेति;

“अणुभ्यश्च महद्भयश्च शास्त्रेभ्यः कुशलो नरः ।

सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥”

इति स्मारितम् । एकान्तरसिक इति ;

“वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि ।

एक एव चरेत्तस्मात् कुमार्या इव कङ्कणम् ॥”

इति स्मारितम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

राजा - ( त्वरितमुपसृत्य ) भगवन्, अद्य खलु धन्या वय-

मनुगृहीताः स्मः ।

अयमहमभिवादये भवन्तं

सकलसुरासुरवृन्दवन्दनीयम्23

विधिवशपरिभूतमोहपक्षो

विनयपरिष्कृतसन्नतिर्विवेकः ॥ ३६ ॥

मूलम् - ३६

राजा - ( त्वरितमुपसृत्य ) भगवन्, अद्य खलु धन्या वय-

मनुगृहीताः स्मः ।

अयमहमभिवादये भवन्तं

सकलसुरासुरवृन्दवन्दनीयम्23

विधिवशपरिभूतमोहपक्षो

विनयपरिष्कृतसन्नतिर्विवेकः ॥ ३६ ॥

प्रभावली - ३६

उपरितनटीकायामन्तर्गता॥ ३६ ॥

प्रभाविलासः - ३६

अयमिति । विधिः ; दैवम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

नारदः - आयुष्मन्, अप्रतिहतमनोरथः पुरुषमपवर्गे स्थापयेथाः । अवधूतमहामोहेन भवता नूनमन्तरितोऽयमन्तिमयु- गारम्भः । किन्तु,

वीरश्रीरतिवेलविक्रमभवद्दोः शृङ्गनिःशृङ्खल-

क्रीडादत्तकृतार्थतापरवती न त्वत्परं प्रेक्षते ।

अद्यत्वे पुनरद्भुतप्रणयिनी दृष्टिस्त्वया पात्यता-

मन्तर्द्रष्टुमनन्यदृष्टमनघं त्यक्तावधिं शेवधिम् ॥ ३७ ॥

मूलम् - ३७

नारदः - आयुष्मन्, अप्रतिहतमनोरथः पुरुषमपवर्गे स्थापयेथाः । अवधूतमहामोहेन भवता नूनमन्तरितोऽयमन्तिमयु- गारम्भः । किन्तु,

वीरश्रीरतिवेलविक्रमभवद्दोः शृङ्गनिःशृङ्खल-

क्रीडादत्तकृतार्थतापरवती न त्वत्परं प्रेक्षते ।

अद्यत्वे पुनरद्भुतप्रणयिनी दृष्टिस्त्वया पात्यता-

मन्तर्द्रष्टुमनन्यदृष्टमनघं त्यक्तावधिं शेवधिम् ॥ ३७ ॥

प्रभावली - ३७

X७८०
अथ विवेकनमस्कृतो नारदो विवेकम् ’ अयं पुरुषः साक्षात्कृत परब्रह्म- रूपस्त्वया कार्यः’ इति प्रार्थयते - वीरश्रीरिति । अतिवेलः विक्रमः यस्य तस्य भवतः दोः शृङ्गे निरर्गलं यथा तथा क्रीडया दत्तायाः कृतार्थतायाः परवती सती त्वत्परं त्वत्तोऽन्यं कञ्चन न प्रेक्षते । त्वदनन्यसाधरणेत्यर्थः । अथापि किञ्चित्कर्तव्य मस्तीत्याह — अद्यत्व इति । अद्य त्वया अद्भुतरसे प्रीतिमती दृष्टिः पुनः पुनः पाल्यताम् । किमर्थमित्यत्राह – अन्तरिति । अनन्यैः दृष्टम् । अनघम् ; अखिलहेयप्रत्यनीकम् । त्यक्तावधिम् ; अनन्तम् । अन्तः; अन्तर्वर्त - मानम् । शेवधिम् ; निधिम् ।

अन्तर्यामिणं पुरुषं साक्षात्कर्तुं यथायं प्रभवति तथेत्यर्थः ॥ ३७ ॥

प्रभाविलासः - ३७

वीरश्रीरिति । अतिवेलविक्रमस्य अतिशयितपराक्रमस्य भवतः देः शृङ्गस्य शृङ्गतुल्यभुजस्य निःशृङ्खलक्रीडादत्तया कृतार्थतया परवती नाथवती ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

राजा :—- भगवन्, किमस्ति कश्चिच्छत्रुशेषः, यत्रास्माभिः सावधानैर्यतितव्यम् ?

नारदः – न कश्चिदस्ति । तथापि ‘नीतिप्रधानेन24 भवता नित्यं विमृश्यते । अद्य तु-
समग्रबलयोगेन समरे पातितास्त्वया ।

कामक्रोधादयो वीराः स्वर्गस्त्रीभिः स्वयं वृताः ॥ ३८ ॥

मूलम् - ३८

राजा :—- भगवन्, किमस्ति कश्चिच्छत्रुशेषः, यत्रास्माभिः सावधानैर्यतितव्यम् ?

नारदः – न कश्चिदस्ति । तथापि ‘नीतिप्रधानेन24 भवता नित्यं विमृश्यते । अद्य तु-
समग्रबलयोगेन समरे पातितास्त्वया ।

कामक्रोधादयो वीराः स्वर्गस्त्रीभिः स्वयं वृताः ॥ ३८ ॥

प्रभावली - ३८

उपरितनटीकायामन्तर्गता ॥ ३८ ॥

प्रभाविलासः - ३८

समयेति । अत्र वीरशृङ्गारः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

किञ्च,

तत्वबोधजनके25 तवाहवे मोहवीरविजयेन मोहिताः ।

अप्रविष्टसमराः प्रदुद्रुवुर्हर्षशोकभयचापलादयः ॥ ३९ ॥

मूलम् - ३९

किञ्च,

तत्वबोधजनके25 तवाहवे मोहवीरविजयेन मोहिताः ।

अप्रविष्टसमराः प्रदुद्रुवुर्हर्षशोकभयचापलादयः ॥ ३९ ॥

प्रभावली - ३९

उपरितनटीकायामन्तर्गता॥ ३९ ॥

प्रभाविलासः - ३९

तत्त्वेति । अत्र भयानकरसः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

तथापि किञ्चिदिह चिन्तनीयम् । इह हि –

त्रैगुण्याम्भोधिवेलावनतृणविषयग्रासदुर्वासनोद्य-

द्भोगैदं पर्यपर्याकुलितमनुयुगोत्कण्ठितोदग्रवृत्तिम् ।

भूयो भूयः स्वचक्रे भ्रमयति नृपशुं गाढबन्धोपरुद्धं26

कालोऽसौ कर्ममालाघटितभवघटीयन्त्रतन्त्रस्वतन्त्रः ॥ ४० ॥

मूलम् - ४०

तथापि किञ्चिदिह चिन्तनीयम् । इह हि –

त्रैगुण्याम्भोधिवेलावनतृणविषयग्रासदुर्वासनोद्य-

द्भोगैदं पर्यपर्याकुलितमनुयुगोत्कण्ठितोदग्रवृत्तिम् ।

भूयो भूयः स्वचक्रे भ्रमयति नृपशुं गाढबन्धोपरुद्धं26

कालोऽसौ कर्ममालाघटितभवघटीयन्त्रतन्त्रस्वतन्त्रः ॥ ४० ॥

प्रभावली - ४०

X७८१
कलियुगाख्यः कश्चित् शत्रुर्वर्तते । स पुनः कामादीनुज्जीवयिष्यतीत्याह- त्रैगुण्येति । त्रैगुण्यं प्रकृतिमण्डलमेव अम्भोधिः, तस्य वेलावनतृणानि तटवन- शष्फस्थानीया ये विषयाः शब्दादयः, तद्प्रासेन जाता या दुर्वासना, तया उद्यत् जातं यत् भोगेपर्य विषयभोगे तात्पर्यम् ; तेन पर्याकुलितम् ; परवश-

X७८२
मिति यावत् । अनुयुगम् अनुक्षणम् उत्कण्ठिता सञ्जातोत्कण्ठा उदग्रा वृत्तिः यस्य सः । गाढेन दृढेन बन्धेन निरुद्धं नृपशुं पुरुषपशुं कर्ममालया पाशेन घटितं संयोजितम् । भवम् एव घटीयन्त्रं तस्य तन्त्रे प्रवर्तनरूपव्यापारे स्वतन्त्रः कालः भूयो भूयः स्वचक्रे परिवृत्तिरूपे चक्रे कालचक्रे भ्रमयति आवर्तयतीति भावः । अयं विशिष्टः शत्रुरिति भावः ॥ ४० ॥

प्रभाविलासः - ४०

त्रैगुप्येति । त्रैगुण्यं संसार एवाम्बुधिः, तस्य वेलावने तीरवने । समुद्रजलोपसेकवर्धिततयातिमृदुतरुणस्वादुतृणाश्रयत्वकथनाय वेलावनोक्तिः । तृणविषयाः; शब्दादिविषयतृणानीत्यर्थः । तेषां ग्रासेन भक्षणेन जातया दुर्वासनया उद्यतः जातस्य भोगस्य सुखानुभवस्य ऐदम्पर्येण इदमेव परमित्यभिलाषेण पर्याकुलितम् । अनुयुगे कृतादिपरिवृत्तौ ‘उत्कण्ठिता
उदग्रा वृत्तिः यस्य तम् । अन्यत्र अनुयुगं यानाङ्गमनु उत्कण्ठिता

उद्धृत- कण्ठा उदग्रा वृत्तिर्यस्य तम् । " यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु " इति निघण्टुः । स्वचक्रे ; दिनपक्षमासऋत्वयनसंवत्सरभेदेन परिवर्तने । गाढबद्धम् ; उपरुद्धं च । कर्ममालया घटितस्य भवाख्यस्य घटीयन्त्रस्य उद्घाटनाद्यपरपर्याययन्त्र विशेषस्य तन्त्रे प्रवर्तने स्वतन्त्रः, कर्तेत्यर्थः । अनेन,

“ ततः संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत् ।

कदाचित् स्वर्गमाप्नोति कदाचिन्नरकं नरः ॥ ”

इति स्मारितम् । अत्रोद्वेजनप्रतीतेर्द्युतिर्नाम विमर्शसन्धेरङ्गमुक्तम् " द्युतिरुद्वे- जनं मतम् " इति लक्षणात् ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

राजा - अत एव खल्वहमनेहश्चक्रभ्रमणादह्नाय27 बहिर्भाव यितुमभिवाञ्छामि । तथा हि-

कालावर्तान्प्रकृतिविकृतीः कामभोगेषु दोषा-

ज्ज्वालागर्तप्रतिमदुरितोदर्कदुःखानुभूतिम् ।

याथातथ्यं स्वपरनियतं यच्च दिव्यं पदं तत्

काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥ ४१ ॥

मूलम् - ४१

राजा - अत एव खल्वहमनेहश्चक्रभ्रमणादह्नाय27 बहिर्भाव यितुमभिवाञ्छामि । तथा हि-

कालावर्तान्प्रकृतिविकृतीः कामभोगेषु दोषा-

ज्ज्वालागर्तप्रतिमदुरितोदर्कदुःखानुभूतिम् ।

याथातथ्यं स्वपरनियतं यच्च दिव्यं पदं तत्

काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥ ४१ ॥

प्रभावली - ४१

कालचक्र परिभ्रमणात् । अह्नाय ; शीघ्रम् । पुरुषमिति शेषः । कालचक्रपरिभ्रमणं जानतः संसारो दुःसहो भवतीत्याह - कालावर्तानिति । कालस्यावर्तः;

X७८३
कालस्य पुनःपुनरावर्तनानि । प्रकृतिविकृतीः ; चतुर्विंशतितत्त्वानि । ज्वाला- रूपगर्तप्रतिमं यत् दुरितं, तस्य उदर्कम् उत्तरफलरूपं नरकादिदुःखानुभवम् । स्वपर नियतम् ; स्वात्मपरात्मनोः स्वतः सिद्धम् । याथातथ्यम् ; स्वाभाविकं रूपम् । दिव्यं पदम् ; परमं पदम् । तत्; विलक्षणम् । कारागृह सदृशं प्राकृतमयं स्वशरीरं च जानन् पुरुषः को वा संसारबन्धं सहेत ॥ ४१ ॥

प्रभाविलासः - ४१

कालेति । प्रकृतिविकृतीः ; प्रकृतिविकारान् अहङ्कारादीन् ।
ज्वालागर्तः ; ज्वालाभिरावृतगर्तः । स्वपरनियतम् ; आत्मेश्वरासाधारणं शेषत्वशेषित्वादिकम् । द्वितीयान्तपदेषु कालावर्तानित्यादिषु सर्वत्र विदन्निति पदमावृत्त्या योजनीयम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

अत्र तु भगवता निःसमाभ्यधिकनिवृत्तिधर्मात्मना निपुणमस्मन्मनीषिते साहाय्यकमाचरणीयम् । निजदुरितनिदाघनिष्टप्तजन्तुसञ्जीवनी खलु भव्यवृत्तीनां भवादृशां वागमृतवृष्टिः ।

लुप्तदृष्टिभिरलब्धदेशिकैर्लोकवेदपदवी दुरत्यया ।

तत्प्रसीद भगवन्मदीक्षितं पुण्डरीकमिव पाहि मन्त्रतः ॥ ४२ ॥

मूलम् - ४२

अत्र तु भगवता निःसमाभ्यधिकनिवृत्तिधर्मात्मना निपुणमस्मन्मनीषिते साहाय्यकमाचरणीयम् । निजदुरितनिदाघनिष्टप्तजन्तुसञ्जीवनी खलु भव्यवृत्तीनां भवादृशां वागमृतवृष्टिः ।

लुप्तदृष्टिभिरलब्धदेशिकैर्लोकवेदपदवी दुरत्यया ।

तत्प्रसीद भगवन्मदीक्षितं पुण्डरीकमिव पाहि मन्त्रतः ॥ ४२ ॥

प्रभावली - ४२

अत्र; अस्मदारब्धे पुरुषस्य मोक्षे । निःसमाभ्यधिकः यो निवृत्तिधर्मः, स आत्मा स्वरूपं यस्य तेन । निपुणं यथा तथा । साहाय्यकविशेषणं वा । साहाय्यकं मन्त्रोपदेश इति सूचयति - निजेति । दुरितमेव निदाघः तेन निष्टप्ताः नितरां तप्ताः, ये जन्तवः, तेषां सञ्जीवनी । भव्यवृत्तीनाम् कुशलचरितानाम् । भवद्विधानामुपदेशवृष्टिः । आचार्योपदेशरहितानामैहिकामुष्मिक-

X७८४
सिद्धयो न सम्पत्स्यन्ते । अत इमं मन्त्रोपदेशतः पाहीत्याह-लुप्तेति । अलब्धाचार्योपदेशः, अत एव नष्टज्ञानः लोकपदव्यः ऐहिकसिद्धयः दुष्प्रापाः । यथा लोकपदवीं तत्तद्देशज्ञः पुरुषो वेद, तथा वेदपदवीमपीति भावः । तत् तस्मात् मदीक्षितं मत्परिगृहीतमिमं पुरुषं पुण्डरीकमिव यथा पुरा बदरिकाश्रमे पुण्डरीकमुनिमष्टाक्षरोपदेशेन त्वं रक्षितवान्, तथा पाहि मन्त्रोपदेशतः ॥ ४२ ॥

प्रभाविलासः - ४२

लुप्तेति ।

" पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् ।

आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत् ॥ "

इतीममर्थमभिप्रेत्य पुण्डरीकमिवेत्युक्तिः । पुण्डरीको नाम कश्चित्

ब्राह्मणः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

व्यवसायः - स्वधर्म एव भगवता श्रुतिशिरसि गीतः

सूचितोऽसौ देवेन ।

नारदः - अस्मदभिमतमेव समादिष्टं महाराजेन । यतिष्ये

चाहं यथासारम् ।
अधिकमिह मुमुक्षोरागमग्राह्यवर्गात्

स्वयमिह गुरुभक्त्या दर्शितं स्वानुभूतौ ।

प्रथयति मयि सौम्य त्वन्निदेशेन मन्ये

सपदि भवति लग्ने28 गाढलग्नः समाधिः ॥ ४३ ॥

मूलम् - ४३

व्यवसायः - स्वधर्म एव भगवता श्रुतिशिरसि गीतः

सूचितोऽसौ देवेन ।

नारदः - अस्मदभिमतमेव समादिष्टं महाराजेन । यतिष्ये

चाहं यथासारम् ।
अधिकमिह मुमुक्षोरागमग्राह्यवर्गात्

स्वयमिह गुरुभक्त्या दर्शितं स्वानुभूतौ ।

प्रथयति मयि सौम्य त्वन्निदेशेन मन्ये

सपदि भवति लग्ने28 गाढलग्नः समाधिः ॥ ४३ ॥

प्रभावली - ४३

भगवता श्रुतिशिरसि गीतः ; उपनिषदि गीतः । स्वधर्म एव; आचार्य-

धर्म एव ;

" तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ”

X७८५
इति गीतः । देवेन विवेकेन सूचितः ; नान्यः । यतिष्ये ; उपदेक्ष्यामीत्यर्थः । सारमनतिक्रम्य यथासारम् । सारांशं सङ्ग्रहेणोपदेक्ष्यामीति यावत् । त्वदाज्ञया मया मन्त्रे उपदिष्टे अस्य मनसि समाधिर्दृढलग्नो भवतीत्याह — अधिकमिति । हे सौम्य, आगमग्राह्यवर्गात्; आगमग्राह्याः शमादयः, तद्वर्गादपि मुमुक्षोः समाधावधिकमपेक्षितं गुरुभक्त्या स्वयमेव दर्शितमर्थं त्वन्निदेशेन मयि प्रथयति सति प्रसिद्धं कुर्वति सति । सपदि ; तत्क्षणमेव । लग्ने; चित्तलग्ने । स्वानुभूतौ ; स्वेन स्वस्यानुभूतिः प्रकाशो यस्य तस्मिन् दहराकाशे ब्रह्मणीत्यर्थः । समाधिः ; ध्यानम् गाढं लग्नो भवतीति मन्ये ॥ ४३ ॥

प्रभाविलासः - ४३

भगवता श्रुतिशिरसि ; श्रीगीतास्वित्यर्थः । गीत इति;

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः । इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनस् । असक्तिरनभिष्वङ्गः पुत्रदारगृहादिपु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं तु ततोऽन्यथा ॥ "

इत्यादिनेत्यर्थः ।
अधिकमिति । आगमग्राह्यवर्गात् अधिकमिति; शास्त्रैककण्ठयोक्त्या तात्पर्यतो वा दृष्टाः सम्प्रदायैकगम्याः केचनार्थविशेषा विवक्षिताः । शास्त्रान्तरस्थैश्च सम्प्रदायोऽत्र दुर्लभ इत्युक्तम् । स्वानुभूतौ; स्वानुभवे । दर्शितं प्रथयति ; प्रकाशयति मयि । भवति ; त्वयि । लग्ने सति समाधिः गाढलग्नो भवतीति मन्य इति योजना ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

तदिह यदभ्यर्थिता वयं भवद्भयां किमपि करणीयं तत्साध-

यितुमितः साधयामः ।

(इति सहर्षनृत्तगत्या निष्क्रान्तः)
राजा सेनापते, सम्प्रति सिद्धप्रायं समाधिमुत्पश्यामि ।

अस्ति तावत् -

षडङ्गमथवाष्टाङ्गं समाधिमधिरोक्ष्यतः ।

अवलम्बनमक्षुद्रा दयैका दानवद्रुहः ॥ ४४ ॥

मूलम् - ४४

तदिह यदभ्यर्थिता वयं भवद्भयां किमपि करणीयं तत्साध-

यितुमितः साधयामः ।

(इति सहर्षनृत्तगत्या निष्क्रान्तः)
राजा सेनापते, सम्प्रति सिद्धप्रायं समाधिमुत्पश्यामि ।

अस्ति तावत् -

षडङ्गमथवाष्टाङ्गं समाधिमधिरोक्ष्यतः ।

अवलम्बनमक्षुद्रा दयैका दानवद्रुहः ॥ ४४ ॥

प्रभावली - ४४

भवद्भ्याम् ; विवेकसेनापतिभ्याम् । यत्किमपि करणीयं कार्यं वयमभ्य-

X७८६
र्थिताः, तत् साधयितुं साधयामः गच्छामः । उत्पश्यामि ; मन्ये । षडङ्गमिति । षडङ्गो योगः प्रपत्तिः । अष्टाङ्गो योगः उपासनात्मकः । उभयमपि समाधिशब्देनोच्यते । अनयोर्मध्ये यं कञ्चन समाधिम् अधिरोदु-
मिच्छतः पुरुषस्य । अवलम्बनम्; आधारः, निदानमित्यर्थः । अक्षुद्रा ;

X७८८
निःसमाभ्यधिका ।

दानवद्रुहः; सकलविरोधिनिवर्तकस्य श्रियः पत्युः दयैका, नान्यास्ति ॥ ४४ ॥

प्रभाविलासः - ४४

षडङ्गमिति । षडङ्गम् ; प्रपदनम् । अत्र पञ्चाङ्गे प्रपदने सप्ता च भजने उपचारादङ्गत्वनिर्देशः । तानि सप्ताङ्गानि यमादीनि । तत्र यमो नामाहिंसादिः । उक्तं च योगवासिष्ठे-

“अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तथा धृतिः । दयार्जवमिताहाराः शौचं चैव यमा दश ॥”

इति । नियमाः तपः सन्तोषादयस्तेनैवोक्ताः

“तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् ।

सिद्धान्तश्रवणं चैव हीर्मतिश्च जपः श्रुतम् ।

नियमो दशधा प्रोक्तस्तांश्च सर्वान्पृथक्पृथक् ॥”

इति । आसनानि स्वस्तिकादीनि पराशरोक्तानि—

" स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ।

मयूरं कुक्कुटं चैव भद्रं कूर्मासनं तथा ।

मुक्तासनं तथैतेषां पृथग्वक्ष्यामि लक्षणम् ॥”

इति । प्राणायामास्तु रेचकादयः । तदुक्तम्-

प्राणः स्याद्देहजो वायुरायामस्तन्निरोधनम् ।
तद्रेचकं पूरकं च कुम्भं चेति त्रिधोच्यते । पूरके कुम्भके चैव रेचके प्रणवं स्मरेत् ॥

इति । प्रत्याहारस्तु विषयेभ्य इन्द्रियाकर्षणम् । तदुक्तम्-

“शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।

कुर्याच्चिन्तानुसारीणि प्रत्याहारपरायणः ॥ ”

इति । शौनकेन तु प्रकारान्तरेणोक्तः

“अष्टादशसु यद्वायोर्मर्मस्थानेषु धारणम् ।

स्थानात्स्थानात्समुत्कृष्य प्रत्याहारः स चोत्तमः ॥ "

X७८७

इति । ध्यानधारणसमाधयस्त्वधस्तादुक्ताः । तत्र समाधिर्द्विविधः- सालम्बनं निरालम्बनं चेति । तत्र सालम्बनमधस्तान्निरूपितम् । निरालम्बनं तु वसिष्ठेन दर्शितम् -

" एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवद् दृढम् ।

तदप्रत्यक्षममलमादिमध्यान्तवर्जितम् ।

स्थूलं सूक्ष्ममनाकाशमसंस्पृश्य मचाक्षुषम् ।

न रसं न च गन्धाढ्यमप्रमेयमनूपमम् ।

आनन्दमक्षरं नित्यं सदसत्सर्वकारणम् । '

अदृश्यं दृश्यमध्यस्थं बहिःस्थं सर्वतोमुखम् ।

सर्व हक्सर्वतः पादं सर्वहक्सर्वतः शिरः ।

ब्रह्म ब्रह्ममयोऽहं स्यामिति यद्वेदनं भवेत् ।

तदेतन्निर्गुणध्यानं सगुणं च ब्रवीमि ते ॥”
इति । अत्र निर्गुणमिति निरालम्बनपर्यायः । इदमेव सत्त्वोदति लोके निरूपितम् । तत्र षडङ्गं समाधिमिति प्रपदनपक्षे समाधिशब्दः सम्यगाधीयते आत्मात्मीयं सर्वमिति भर समर्पणपरः । प्रपदनस्य पञ्चाङ्गान्यधस्तादेव सप्रपञ्चं निरूपितानि । अक्षुद्रा ; निरतिशया । दया अव- लम्बनम् । अत्र कार्यसङ्ग्रहकथनात् आदानं नाम विमर्शसन्धेस्त्रयोदशमङ्गमुक्तम्, " आदानं कार्यसङ्ग्रहः " इति लक्षणात् ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

W
तयैव गाढावलम्बितोऽसौ पुरुष इदानीमालक्ष्यते । तथा हि—

विषयमदिरामुग्धैस्त्यक्तः स एष पृथग्जनैः

वचन समये यत्रैकायं क्वचिच्च तथास्पदे ।

निभृतकरणग्रामस्तृप्य न्निरुद्धमरुद्गणः29

परमिह परे धानि प्रत्यङ्मुखः प्रतितिष्ठति ॥ ४५ ॥

मूलम् - ४५

W
तयैव गाढावलम्बितोऽसौ पुरुष इदानीमालक्ष्यते । तथा हि—

विषयमदिरामुग्धैस्त्यक्तः स एष पृथग्जनैः

वचन समये यत्रैकायं क्वचिच्च तथास्पदे ।

निभृतकरणग्रामस्तृप्य न्निरुद्धमरुद्गणः29

परमिह परे धानि प्रत्यङ्मुखः प्रतितिष्ठति ॥ ४५ ॥

प्रभावली - ४५

तया; दयया । इदानीं दृढम् अवलम्बित ; परिगृहीतः । असौ; पुरुषः । तत्र च क्वचन समये । तथा कचित् ; तथैव क्वचिद्देशे । उपविश्येति शेषः । निरुद्धसर्वेन्द्रियः तृप्यन् प्रीतो भवन् निरुद्वप्राणवर्गः प्रत्यङ्मुखः अन्तर्मुखः सन् इह परे धाम्नि ब्रह्मणि परं केवलं प्रतितिष्ठति निश्चलं वर्तते । ब्रह्म निश्चलं ध्यायतीति यावत् ।

आस्पदे परे धाम्नि प्रतितिष्ठतीत्यन्वयः ॥ ४५ ॥

प्रभाविलासः - ४५

विषयेति । आस्पदे ; देशे । मरुद्गणः प्राणादिपवनसमूहः । विषयेत्यादिना नियम उक्तः । निभृतेति प्रत्याहारः । निरुद्धेति प्राणायामः । परे धाम्नि तिष्ठतीति समाधिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

अपि च,

पुलकमुकुलो तुङ्गैरङ्गैरुदश्रुभिरीक्षणै-

रयमनुभवत्यन्तर्दृष्टिः समाधिरसं पुमान् ।

ध्रुवमिह महानन्दब्रह्मोपलम्भनलक्षणे

महति विभवे निष्प्रत्यूहा मनोरथपद्धतिः ॥ ४६ ॥

मूलम् - ४६

अपि च,

पुलकमुकुलो तुङ्गैरङ्गैरुदश्रुभिरीक्षणै-

रयमनुभवत्यन्तर्दृष्टिः समाधिरसं पुमान् ।

ध्रुवमिह महानन्दब्रह्मोपलम्भनलक्षणे

महति विभवे निष्प्रत्यूहा मनोरथपद्धतिः ॥ ४६ ॥

प्रभावली - ४६

X७८९
दयावलम्बितत्वे लिङ्गान्तरमाह - अपिचेति । पुलकान्येव मुकुलानि तदुच्छ्रनैः अङ्गैः । उद्गतानन्दाश्रुभिः ईक्षणैश्चोपलक्षितोऽयं पुरुषः । अन्तः- स्थिते स्वात्मशरीरके परमात्मनि दृष्टिमान्; स्वान्तर्यामिपरमात्मसाक्षात्कारवानित्यर्थः । समाधिरसमनुभवति । किञ्च महान् आनन्दो यस्य तन्महानन्दं ब्रह्म, तदनुभवरूपे महत्यैश्वर्यम् । निष्प्रत्यूहा ; निर्विघ्ना । अस्य पुरुषस्य मनोरथसन्ततिः । ध्रुवम् ; नूनम् ॥ ४६ ॥

प्रभाविलासः - ४६

पुलकेति । विभवे; ऐश्वर्ये । उपलम्भनम् ; अनुभवः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

व्यवसायः - देव, अहमप्येतदवगच्छामि ;

तृणक्षोदं क्षेप्तुं प्रलयपवनो न प्रभवति

क्षमस्तन्निर्दग्धुं यदनभिमतौ कालदहनः ।

तदर्वाचः सर्वानजहदवधिद्वन्द्वनियमान्

विदन्नासौ तृप्यत्यथ च न विषादे निपतति ॥ ४७ ॥

मूलम् - ४७

व्यवसायः - देव, अहमप्येतदवगच्छामि ;

तृणक्षोदं क्षेप्तुं प्रलयपवनो न प्रभवति

क्षमस्तन्निर्दग्धुं यदनभिमतौ कालदहनः ।

तदर्वाचः सर्वानजहदवधिद्वन्द्वनियमान्

विदन्नासौ तृप्यत्यथ च न विषादे निपतति ॥ ४७ ॥

प्रभावली - ४७

एतत् ; दयावलम्बित इत्येतत् । इदमपि दयावलम्बितत्वे लिङ्गमित्याह- तृणक्षोदमिति । यदनभिमतौ; यस्य ब्रह्मणः अनुमत्यभावे । प्रलयकालवायुरपि तृणस्य क्षोदं लवमपि चालयितुं न प्रभवति । तस्मात् परब्रह्मणः अर्वाचः अर्वाचीनान् ; तत्सृष्टानित्यर्थः । अजहदवधि अपरित्यक्तपूर्वोत्तरावधि, यत् द्वन्द्वं

X७९०
शीतोष्णसुखदुःखादि, तन्नियमो येषाम् ; द्वन्द्वव्याप्तानित्यर्थः । विदन् ; जानन् । असौ ; पुरुषः । न तृप्यति; सन्तोषं न प्राप्नोति । अथच ; अपि च । विषादे ; तदलाभदुःखे च । न निपतति । यद्वा निष्पन्नयोगः पुरुषः ब्रह्मत्रयति- रिक्तं सर्वं चिदचिद्वस्तु ब्रह्मविभूतित्वेन पश्यन् सर्वत्र तृप्यति । कदाचित् ब्रह्मविभूतितया अपश्यन् खिद्यति । अयं तु प्रक्रान्तयोगतया न तृप्यति, न खिद्यति चेति ॥ ४७ ॥

प्रभाविलासः - ४७

तृणेति । क्षोदम्; लघुतरं चूर्णम् । यदनभिमतौ यस्य सर्वेश्वर- स्यानुमत्यभावे । तदर्वाचः; तस्मात् सर्वेश्वरात् अर्वाचः अर्वाचीनान् ।
न तृप्यति न विषादे निपततीति हर्षशोकनिमित्तसम्मेलने सन्तोषविषादौ न प्राप्नोतीत्यर्थः । अत्र पुरुषस्य गुणाविष्करणप्रतीतेविचलनं नाम विमर्श- सन्धेरङ्गमुक्तम् " स्वगुणाविष्करणं विचलनम् " इति लक्षणात् ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

अपि च,

तुलायन्त्रोदन्तक्रमघटितनिम्नोन्नतिभृतौ

गुणौ मृढक्रूरौ युगपदधरीकृत्य मुदितः ।

मुनिर्मुक्तिद्वारं मुरमथनधीसन्ततिसुधा-

निधिप्रादुर्भावं भजति पुरुषः सत्त्वमनघम् ॥ ४८ ॥

मूलम् - ४८

अपि च,

तुलायन्त्रोदन्तक्रमघटितनिम्नोन्नतिभृतौ

गुणौ मृढक्रूरौ युगपदधरीकृत्य मुदितः ।

मुनिर्मुक्तिद्वारं मुरमथनधीसन्ततिसुधा-

निधिप्रादुर्भावं भजति पुरुषः सत्त्वमनघम् ॥ ४८ ॥

प्रभावली - ४८

1

पुनरप्यनिष्पन्नसमाधितामेवास्याह - अपिचेति । तुलायन्त्रं नाम कूप- जलाहरणसाधनं तुलारूपं यन्त्रम् । सद्वृत्तान्तः; निम्नोन्नतिभजनम् । तद्वत् क्रमेण वटितां निम्नोन्नति बिभ्रतौ । रजस्युन्नते तमो नीचम्; तमस्युन्नते रजो नीचं भवति । मूढक्रूरौ गुणौ ; तमोरजोरूपौ । एकदैवाधरीकृत्य ; सत्त्वगुणेनेति शेषः । मुदितः; सन्तुष्टः अयं मुनिः । अनघं सत्त्वम्; शुद्धसत्वजन्यत्वात्

X७९१
शुद्धसत्त्वमित्युच्यते । मुक्तिद्वारम् ; मुक्तिसाधनम् । मुरमथनविषया या धीः, तस्याः सन्ततिरेव सुधानिधिः चन्द्रः, तस्य प्रादुर्भावम् उपक्रमं भजति । प्रक्रान्तयोग इत्यर्थः ॥ ४८ ॥

प्रभाविलासः - ४८

तुलेति । तुलायन्त्रस्य उदन्तस्य वृत्तान्तस्य क्रमेण तारतम्येन घटिते निम्नोन्नती बिभृत इति तौ तथोक्तौ । मूढक्रूरौ ; तमोरजसी । मुनिः मननशीलः । धीसन्ततिः; स्मृतिसन्ततिः ।

" सत्त्वशुद्धौ ध्रुवा स्मृतिः " इति श्रुत्या सत्त्वस्य धीसन्ततिहेतुत्वमुक्तम् । “स्मृतिलम्भे
सर्वग्रन्थीनां विप्रमोक्षः इति घीसन्ततिद्वारा सत्त्वस्य मोक्ष हेतुत्वात् मुक्तिद्वारमित्युक्तम् । अनघम् ; तमोरजोभ्याममिश्रितमित्यर्थः ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

तदहं निष्पन्नकल्पमेवास्य समाधिमभिमन्ये । अस्य च,

स्वफलेन तुलारूढः समाधिर्मुक्तिसाधकः ।

न्यूनाधिकसमत्वेषु विकल्पायैव कल्पते ॥ ४९ ॥

मूलम् - ४९

तदहं निष्पन्नकल्पमेवास्य समाधिमभिमन्ये । अस्य च,

स्वफलेन तुलारूढः समाधिर्मुक्तिसाधकः ।

न्यूनाधिकसमत्वेषु विकल्पायैव कल्पते ॥ ४९ ॥

प्रभावली - ४९

अथ किञ्चिदूननिष्पन्न एवास्य समाधिरित्याह – तदहमिति । तत्; यत इतः पूर्वं प्रक्रान्तमात्रः, अतः । इदानीं निष्पन्नकल्पं मन्य इत्यर्थः । अस्य च ; निष्पन्नकल्पसमाधेः । स्वफलेनेति । अस्य मुक्तिसाधकः समाधिः स्वफलेन मुक्त्या सह तुलारूढः, तुलितः सदृश इति यावत् । स्वफलेन सह न्यूनत्वे अधिकत्वे समत्वे च विकल्पायैव समर्थो भवति । कदाचित्साध्यस्य न्यूनता । कदाचित्साधनस्य न्यूनता । कदाचित्साध्यस्याधिक्यम् । कदाचित्साधनस्या- धिक्यमित्येवं समत्वेऽपि विकल्पाय कल्पते ॥ ४९ ॥

प्रभाविलासः - ४९

स्वफलेनेति । स्वफलेन मोक्षेण तुलारूढः, अविशिष्ट इत्यर्थः । समाधिः न्यूनत्वे अधिकत्वे समत्वे च । भक्तेः प्रपत्त्यपेक्षयाधिक्यम्; दहराद्यपेक्षया समत्वम् ; प्रपत्तेर्न्यूनत्वम् । विकल्पायैव; न तु समुच्चयाय । अनेन " विकल्पोऽविशिष्टफलत्वात् " इति सूत्रार्थोऽभिप्रेतः । अत्र स्व- फलेन तुलारूढ इति पुरुषमोचनरूपबीज निष्पत्तेर्निर्णीतत्वान्नियताप्तिर्नाम विमर्शसन्धे प्रधानांशः सूचितः । तदुक्तम्- अपायाभावतः प्राप्ति- ‘नियताप्तिः सुनिश्चिता" इति । एवं नियताप्तिप्रकर्षो साघनात्मको विमर्शसन्धिर्निरूपितः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

राजा – सेनापते, अपावृतार्धमहमिह मुक्तिद्वारमभिमन्ये । अद्य पुनरत्यासन्नमनोरथै30 ‘रस्माभिरवहितमतिभिरेतदास्थेयम्-

अविकल बहुमत्या सेवितोऽहं सुमत्या

नियतिमनतिलङ्घ्यां निर्ममः सान्त्वयामि ।

त्वरयितुमिह31 देवीं त्वन्मते विष्णुभक्तिं

गणयितुमपि सिद्धिं गच्छ सेनापते त्वम् ॥ ५० ॥

मूलम् - ५०

राजा – सेनापते, अपावृतार्धमहमिह मुक्तिद्वारमभिमन्ये । अद्य पुनरत्यासन्नमनोरथै30 ‘रस्माभिरवहितमतिभिरेतदास्थेयम्-

अविकल बहुमत्या सेवितोऽहं सुमत्या

नियतिमनतिलङ्घ्यां निर्ममः सान्त्वयामि ।

त्वरयितुमिह31 देवीं त्वन्मते विष्णुभक्तिं

गणयितुमपि सिद्धिं गच्छ सेनापते त्वम् ॥ ५० ॥

प्रभावली - ५०

X७९२
अपावृतार्धम् ; उद्घाटितकवाटार्धम् । अत्यासन्नमनोरथफलैः सावधान- मतिभिः अस्माभिः एतत् वक्ष्यमाणमनुष्ठेयम् । स्वस्य च सेनापतेश्चानुष्ठेयं विभज्योपदिशति — अविकलेति । अविकला सम्पूर्णा बहुमतिर्यस्याः, तया सुमत्या सहेत्यर्थः । निर्ममः सन् दुर्लङ्घ्यं विधि सान्त्वयामि अनुकूलयामि । त्वदभिप्रेते पुरुषमोचने देवीं विष्णुभक्ति त्वरयितुं त्वरमाणां कर्तुं सिद्धिमपि गणयितुम् अणिमादिसिद्धिं प्रार्थयितुं च त्वं गच्छ ॥ ५० ॥

प्रभाविलासः - ५०

अपावृतार्धम् ; अर्धमपावृतमित्यर्थः । अविकलेति । नियतिः ; दैवम् ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

व्यवसायः - यदादिशति देवः ।

(इति निष्क्रान्तः)

राजा - ( पुरस्तादवलोक्य) सुमतिनिकेतनमेतत्स्वयम्प्रभमासीदामि । ( सहर्षबहुमानम् ) -

बलदर्शनमण्डपं श्रुतीनां बहुभिर्भावितवैभवं प्रमाणैः ।

अवधूतरजस्तमस्कमेतत् सुमतेस्तत्त्वमयं विभाति सौधम् ॥ ५१ ॥

मूलम् - ५१

व्यवसायः - यदादिशति देवः ।

(इति निष्क्रान्तः)

राजा - ( पुरस्तादवलोक्य) सुमतिनिकेतनमेतत्स्वयम्प्रभमासीदामि । ( सहर्षबहुमानम् ) -

बलदर्शनमण्डपं श्रुतीनां बहुभिर्भावितवैभवं प्रमाणैः ।

अवधूतरजस्तमस्कमेतत् सुमतेस्तत्त्वमयं विभाति सौधम् ॥ ५१ ॥

प्रभावली - ५१

स्वयम्प्रभम् ; स्वयम्प्रकाशम् । सुमते निवेशनं गृहम् ; मन इत्यर्थः । बलेति । श्रुतीनाम् ; उपनिषदां बलस्य प्राबल्यस्य दर्शनमण्डपम् । लोके च

X७९३
सौधः सेनानां दर्शनस्थानं भवति । बहुभिः प्रमाणैः भवितवैभवम् ; " मनसो वशे सर्वमिदं बभूव " मनसा तु विशुद्धेन ” इत्यादिप्रमाणैरनुसंहितवैभवं सत्त्वप्रचुरं मनो मनसैव प्रकाशत इति ॥ ५१ ॥

प्रभाविलासः - ५१

बलेति । बलदर्शनम् ; तात्पर्यलिङ्गादिना बलाबलनिर्णयः । अन्यत्र
सेनानिर्णयः । प्रमाणैः ; प्रत्यक्षादिभिः परिमाणैश्च । रजस्तमसी ; गुणौ ।

अन्यत्र रजः धूलिः । तमः अन्धकारः । सत्त्वमयम् सत्त्वविकारम् । श्लोषोऽलङ्कारः ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

( विलोक्य) कासाविह विशुद्धसुधासन्दोहसौम्यस्वभावा श्वेतद्वीपदेवतेव सन्दृश्यते ? (किञ्चिदुपसृत्य ) प्रत्यभिजानाम्येनाम् । परिगतिविशेषादसावन्येव भाति ।

इयमखिलपुमर्थप्रार्थनाकल्पवल्ली

सितमतिभिरनन्यैः सेविता सिद्धबृन्दैः ।

द्युतिभिरविरलाभिर्द्योतयन्ती दिगन्तान्

विशति सुमतिसौधं32 विष्णुभक्तिर्विशुद्धम् ॥
तदहमप्यत्र प्रविश्य यावत्पुरुषं कृतकृत्यं कृतार्थं च निर्धारयामि, तावदवहितः सहधर्मचारिण्या देव्या सुमत्या सह नैःश्रेयसीं नियतिमास्थाय निवत्स्यामि ।

( इति सविमर्शं निष्क्रान्तः)

इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये समाधिसम्भवो नाम नवमोऽङ्कः ॥ ५२ ॥

मूलम् - ५२

( विलोक्य) कासाविह विशुद्धसुधासन्दोहसौम्यस्वभावा श्वेतद्वीपदेवतेव सन्दृश्यते ? (किञ्चिदुपसृत्य ) प्रत्यभिजानाम्येनाम् । परिगतिविशेषादसावन्येव भाति ।

इयमखिलपुमर्थप्रार्थनाकल्पवल्ली

सितमतिभिरनन्यैः सेविता सिद्धबृन्दैः ।

द्युतिभिरविरलाभिर्द्योतयन्ती दिगन्तान्

विशति सुमतिसौधं32 विष्णुभक्तिर्विशुद्धम् ॥
तदहमप्यत्र प्रविश्य यावत्पुरुषं कृतकृत्यं कृतार्थं च निर्धारयामि, तावदवहितः सहधर्मचारिण्या देव्या सुमत्या सह नैःश्रेयसीं नियतिमास्थाय निवत्स्यामि ।

( इति सविमर्शं निष्क्रान्तः)

इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये समाधिसम्भवो नाम नवमोऽङ्कः ॥ ५२ ॥

प्रभावली - ५२

विष्णुभक्ति स्थितां दृष्ट्वा दूरात् शङ्कते - कासाविति । धवलसुधाधारावत् सौम्यस्वभावा । शुद्धश्वेतत्वात् श्वेतद्वीपदेवतेत्युत्प्रेक्षा । उपसृत्य एनां विष्णु- भक्तिरिति प्रत्यभिजानामि । परिणामः ; अभिवृद्धिः । असौ पूर्वदृष्टापि अन्येव स्फुरति । पूर्व बाला, इदानीं ‘प्रवृद्धत्वात् अन्येव भाति । इयं विष्णुभक्तिरिति प्रत्यभिजानाति — इयमिति । इयं पुरस्तात् दृश्यमाना सर्वपुरुषार्थप्रार्थनापूरयित्री शुद्धमतिभिः अनन्यैः सिद्धबृन्दैः श्वेतद्वीपवासिभिः सेव्यमाना विष्णुभक्तिः अविकलाभिः परिपूर्णाभिः कान्तिभिः दिगन्तान् भासयन्ती विशुद्धं सुमतिसौधं विशति ।

X७९४
अत्र ; सौधे । कृतकृत्यम् ; कृतोपायपरिग्रहम् । कृतार्थम् ; कृतप्रयोजनं च निश्चिनोमि । निःश्रेयससम्बन्धिनीं नियतिनियममङ्गीकृत्य सौधे निवत्स्यामीति सालोचनं निष्क्रान्तः ।

इति श्रीनृसिंहराजाचार्यकृत सङ्कल्पसूर्योदयव्याख्यायां

प्रभावल्यां समाधिसम्भवो नाम नवमोऽङ्कः ॥ ५२ ॥

प्रभाविलासः - ५२

इयमिति । सितमतिभिः; सत्त्वोत्तरमतिभिः । सिद्धबृन्दैः; सनकादिभिः ।
इत्यात्रेयाहोबिलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभा विलासाख्याने समाधिसम्भवो नाम नवमोऽङ्कः ॥ ५२ ॥


  1. सर्वदोषप्रसूतिभिः — - क. ↩︎ ↩︎

  2. विहारमद्यापि — क. ↩︎ ↩︎

  3. म्लानैरपास्त — ख. ↩︎ ↩︎

  4. ख omits this and the following stanza यथाधिकरणं etc. ↩︎ ↩︎

  5. दमने —क,ग ↩︎ ↩︎

  6. इदं — क. ↩︎ ↩︎

  7. वीरस्य — ग ↩︎ ↩︎

  8. शिथिलयति - — क. छ. ↩︎ ↩︎

  9. सिषाधयिषितव्यम् — क. ↩︎ ↩︎

  10. अविद्यापि — क. ↩︎ ↩︎

  11. दोषे — क. ↩︎ ↩︎

  12. शरणयतां मनीषिणाम् —क. ↩︎ ↩︎

  13. अध्यक्षीकृत सत्पथः — क. ↩︎ ↩︎

  14. क्षिपन्ति इति प्रभावलीपाठः ↩︎ ↩︎

  15. अङ्के —क. ↩︎ ↩︎

  16. विभौ — छ ↩︎ ↩︎

  17. प्रजनयति —- क, छ. ↩︎ ↩︎

  18. अमृतमिव —-ग, छ ↩︎ ↩︎

  19. वीणामेडिअ महुरं — ख; वीणा मे पिअमहुरम् इति प्रभावलीपाठः ↩︎ ↩︎

  20. समाराधयितव्यः — क; समाधिरारोपयितव्यः — ग. ↩︎ ↩︎

  21. मनोरमम् — ख. ↩︎ ↩︎

  22. आस्थितश्वेताद्वैतम् — क. छ. ↩︎ ↩︎

  23. ‘विविध —-क. ख. ↩︎ ↩︎

  24. विनीति —ग ↩︎ ↩︎

  25. सचिवे —ख, ग ↩︎ ↩︎

  26. बन्धं — म. ↩︎ ↩︎

  27. परिभ्रमणमह्नाय बहिर्भावयितुम् —क, ख ↩︎ ↩︎

  28. चित्ते —ख. ↩︎ ↩︎

  29. तृप्त्या — क ↩︎ ↩︎

  30. मनोरथलाभैः —-ग. ↩︎ ↩︎

  31. अपि —- ग. ↩︎ ↩︎

  32. गेहं —ग. ↩︎ ↩︎