०८ मोहादि-पराजयः

विश्वास-प्रस्तुतिः - १

मिश्र विष्कम्भः

(ततः प्रविशत्यभिनिवेशः ),

अभिनिवेशः – (स्वसामर्थ्यं बहुमत्य)

हृष्यन्ति व्यसनेषु सप्तसु मुधारब्धेषु मत्प्रेरिताः1

प्रारब्धं न परित्यजन्ति च मुहुः प्रत्यूहवात्याहताः ।

नानादुःखभयानकेऽपि न जहत्यर्थे पुमर्थे रतिं

मोहस्याभिनिवेश एकदृगहं कोशाधिकारे स्थितः ॥ १ ॥

मूलम् - १

प्रभावली - १

अभिनिवेशः ; विषयासक्तिः । स्वसामर्थ्याक्तिपूर्वकं स्वाधिकारं वर्णयति-हृष्यन्तीति । मत्प्रेरिताः; अभिनिवेशग्रस्ताः पुरुषाः । मुधा; व्यर्थमेव । आरब्धेषु क्रियमाणेषु । सप्तसु व्यसनेषु स्त्रीद्यूतपानमृगयावाक्पारुष्यदण्डपारुष्यादिषु । हृष्यन्ति ; सज्जन्ते । मुहुर्मुहुः प्रत्यूहा एव वात्याः, ताभिः आहता अपि प्रारब्धं कार्य न परित्यजन्ति । चस्त्वपिशब्दार्थः । नानादुःखैः ;" राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यम् '

X६६५
“ अर्थानामार्जने दुःखम् ” इत्याद्युक्तैः । भयङ्करेऽप्यर्थपुरुषार्थे रतिं प्रीतिं न जहति । एकदृक् ; एकत्रैव दृष्टिः यस्य; अन्यत्र काण इत्यर्थः ; " एकेन हीनः काणः स्यात्" इत्युक्तेः । अभिनिवेशोऽहं महामोहस्य कोशगृहरक्षणे अधिकारे स्थितः ॥ १ ॥

प्रभाविलासः - १

तत इत्यादि । अभिनिवेशः ; प्राप्तैश्वर्यभङ्गभीतिः । हृष्यन्तीति ।

सप्तसु व्यसनेषु ;

स्त्रीद्यूतमृगयामद्य वाक्पारुष्योग्रदण्डताः ।

अनुपायव्ययश्चेति राज्ञां व्यसनसप्तकम् ॥
इत्युक्तलक्षणेषु । नानेति ; आर्जनरक्षणादिषु । तदुक्तम्-

" अर्थस्य साधने सिद्धावुत्कर्षे रक्षणे व्यये ।

नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ।

स्तेयं हिंसानृतं दम्भः कामक्रोधौ स्मयो मदः ।

खेदो वैरमविश्वास एतानि व्यसनानि च ।

एते पञ्चदशानर्था अर्थमूला मता नृणाम् ।

तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ "

इति । एकदृक्; एकत्र दत्तदृष्टिः । एकनेत्र इति च व्यज्यते ॥ १ ॥

विश्वास-प्रस्तुतिः - २

अपि च, लोभोऽपि महामोहसर्वस्वभूतो मामेव दर्शितसौभ्रात्रं सहायीकृत्य सर्वत्र विजयते । यतः,

अवसादप्रसङ्गेषु स्वयमुत्तम्भनोद्यतः ।

अहमार्यस्य लोभस्य भ्राता चरमसम्भवः ॥ २ ॥

मूलम् - २

अपि च, लोभोऽपि महामोहसर्वस्वभूतो मामेव दर्शितसौभ्रात्रं सहायीकृत्य सर्वत्र विजयते । यतः,

अवसादप्रसङ्गेषु स्वयमुत्तम्भनोद्यतः ।

अहमार्यस्य लोभस्य भ्राता चरमसम्भवः ॥ २ ॥

प्रभावली - २

लोभोऽप्यग्रजो मदवष्टम्भादेव सर्वत्र विजयीत्याह -लोभोऽपीति । सौभ्रात्रेण वर्तमानं मामेव अवष्टभ्येत्यर्थः । तत्र हेतुमाह-यत इति । अवसादेति । अहमार्यस्य ज्येष्ठस्य लोभस्य चरमसम्भवो भ्राता ; कनिष्ठ इत्यर्थः, लोभानन्तरमभिनिवेशस्योत्पत्तेः । लोभस्य अवसादप्रसङ्गेषु क्षयाव-

X६६६
सरेषु कृशताप्रसङ्गेषु स्वयमुत्तम्भने उद्यतः ; द्रव्येष्वभिनिवेशाल्लोभो वर्धत इत्यर्थः ॥ २ ॥

प्रभाविलासः - २

अवसादेति । अवसादः विपत्तिः । चरमसम्भवः; कनीयान् ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

(विचिन्त्य) अहो महत्साम्परायिकमुपस्थितमास्माकस्यान्ववायस्य ; यदिह विवेकेन प्रथममध्यात्मविद्यामशिक्ष्यत पुरुषः ; यच्चासौ मतान्तरदौर्बल्यप्रकाशनेन परब्रह्मप्रकाशके शास्त्रे प्रशमितश्रद्धावैकल्यः यदपि च सपरिकरे मोक्षोपाये सम्मुखीकृतः ; विमुखीकृताश्च कामक्रोधादयः ; विमृष्टं च किमपि संयमस्थानम् ; अवधारितं च धारणायाः शुभमालम्बनम् ; प्रारिप्सितश्च2 शमदमवैराग्यादिपरिकर्मितः सालम्बनो महायोगः ।

(दीर्घं निश्वस्य सविषादम् )
विजिग्ये यैरिदं स्त्रीभिर्विजिताभिर्जगत्त्रयम् ।

त एव सुभटाः ख्याताः स्त्रीभिरेव जिगीषिताः ॥ ३ ॥

मूलम् - ३

प्रभावली - ३

साम्परायिकम् ; युद्धम् । उपस्थितम् ; सन्निहितम् । आस्माकस्य ; अस्मत्सम्बन्धिनः कुलस्य । तदेव दर्शयति-यदिहेत्यादिना । अत्र प्रथमाङ्कात् प्रभृत्येतदङ्कपर्यन्तमनूद्यते । तत्र यदिहेत्यनेन प्रथमाङ्कार्थः । यच्चासाविति द्वितीयाङ्कार्थः । यदपि चेति तृतीयाङ्कार्थः । विमुखीकृता इति चतुर्थपञ्चमाङ्कार्थः । विमृष्टमिति षष्ठाङ्कार्थः । अवधारितं चेति सप्तमाङ्कार्थः । प्रारिप्सितश्चेति सप्तमाङ्कान्तिमवाक्यार्थः । मतान्तराणाम् ; वेदान्तव्यतिरिक्तानाम् ।

X६६७
शास्त्रे ; वेदान्ते । प्रशमितं श्रद्धाया आदरस्य वैकल्यं यस्य सः । सम्मुखीकृतः ; अभिमुखीकृतः । विमृष्टम् ; विचारितं निर्णीतमित्यर्थः । शुभमालम्बनम् ; शुभाश्रयः । प्रारिप्सित; प्रारब्धुमिष्टश्च । सालम्बनः; शुभाश्रयविशिष्टः । निरालम्बनाद्योगात् सालम्बनस्य श्रैष्ठयमुक्तम् " सालम्बनो महायोगः " इति । तदप्यनेन समभिव्याहारेण सूचितम् । वक्ष्यमाणचिन्तया विषादः । चिन्तामेव दर्शयति विजिग्य इति । कामक्रोधादिभिः स्त्रीभिः इदं जगत्त्रयं विजितम् । त एव सुभटाः ; सुभटत्वेन प्रख्याताः कामक्रोधादयः । स्त्रीभिः ; जुगुप्साक्षान्त्यादिभिः स्त्रीभिरेव । जिगीषिताः ; जेतुमिष्टा इति ॥ ३ ॥

प्रभाविलासः - ३

साम्परायिकम् ; व्यसनम् । आस्माकस्य ; अस्मत्सम्बन्धिनः ।

धारणाया इति । तल्लक्षणमाह शौनकः -

" शुभे ह्येकत्र विषये चेतसो यत्तु धारणम् । निश्चलत्वाच्च सा सद्भिर्धारणेत्यभिधीयते ॥”;

इति । सैव धारणा निरन्तरस्मृतिसन्तानात्मिका योग उच्यते, " पौनःपुन्येन तत्रैव विषये सैव धारणा । ध्यानाख्यां लभते राजन् " इति स्मरणात् ।
योगो ध्यानमिति पर्यायः । विजिग्ये यैरिति । यैः कामादिभिः कर्तृभिः स्वविजिताभिः स्त्रीभिः साधनभूताभिः इदं जगत्त्रयं विजिग्ये जितं, त एव सुभटाः स्त्रीभिर्विजिगीषिताः । अत्र “ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया " इति मन्दोदरीवचनं व्यञ्जितम् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

(नेपथ्ये)

अलिअम् एव्व भणइ भावो, जम् इत्थिआहिं निईसिआ महामोहसेणिअ3 ‘धुरन्धरेत्ति ।

( अलीकमेव भणति भावः यत् स्त्रीभिरेव जिगीषिता महामोहसैनिकधुरन्धरा इति । )
अभिनिवेशः -(कर्णे दत्वा सरोषहासम् ) कासौ रण्डा ?

या मामप्यलीकवादिनं मन्यते ।

(पुनर्नेपथ्ये)

एदेण वि तुह अलिअभासिअं पडिट्ठाविअं; जम् उअरग्गिसक्खिअं तुए गहिअपाणि परपुरिसदंसणविमुर्हि मं रण्डेति भणसि ।

( एतेनापि तवालीकभाषितं प्रतिष्ठापितम् ; यत्पुनरुद्राग्निसाक्षिकं त्वया गृहीतपाणिं परपुरुषदर्शनविमुखीं मां रण्डेति भणसि ।

अभिनिवेशः– किमसावस्मद्गेहिनी दुर्वासना ? शान्तं पापम्, शान्तं पापम् । अद्य पुनरियमुपसृत्य4 क्षान्तपरिवादा सत्यवादिनं मां सम्भावयतु ।

(ततः प्रविशति दुर्वासना )

दुर्वासना -अय्यउत्त, इअम्हि । अहअं दुम्मइचलणसेवा-
रसपरवसहिअआ अण्णाअलोअवृत्तन्दा पुच्छम्मि — के पुरिसा काहि इत्थिआहिं जिईसिआ ?

(आर्यपुत्र, इयमस्मि । अहं दुर्मतिचरणसेवारसपरवशहृदया अज्ञातलोकवृत्तान्ता पृच्छामि – के पुरुषाः काभिः स्त्रीभिर्जिङ्गीषिताः ? )

अभिनिवेशः– प्रिये, कामो जुगुप्सया, कोपस्तितिक्षया, लोभस्तुष्ट्या, अहङ्कार आत्मविद्यया । एवमन्येऽपि ।

दुर्वासनाः – किम् उच्चाहमेत्तेण कजं सङ्घडइ ? हदासा खु एदा सलहीओ’ विअ अप्पविणासणे सअं पउत्ता ।

( किमुत्साहमात्रेण कार्यं सङ्घटते ? हताशाः खल्वेताः शलभ्य इवात्मविनाशने स्वयं प्रवृत्ताः । )

अभिनिवेशः – अहमप्येवमध्यवस्यामि । अथापि यदृच्छा-

देवी किमाचरेदिति दुरवधरम् । शलभीनिपाते प्रदीपोऽपि कदाचिद्विनाशमधिगच्छति ।

दुर्वासनाः– (सविषादम् ) जइ एव्वं महामोहपरन्ताणम् अम्हपहूणं विणासो होज्ज ।

(यद्येवं महामोहपर्यन्तानामस्मत्प्रभूणां विनाशो भवेत् । )

अभिनिवेशःः ( सभ्रूक्षेपं विचिन्त्य) प्रिये, मया तु जीवितव्यमेव सर्वथा । अत्र चोपायमेवमुत्पश्यामि । भोगसञ्चयरूपान्महामोहकोशगृहान्निर्गत्य मुमुक्षापुरस्कारेण विवेकमाश्रितः5 समाध्यभिनिवेश इति सविशेषणगृहीतनामकश्विरं जीविष्यामि ।

दुर्वासना :– णाह, अहम् उण तुम्ह पिआ कहं होम्मि ?

( नाथ, अहं पुनस्तव प्रिया कथं भवामि ? )

अभिनिवेशः – प्रिये किं भीरुरसि ? त्वमपि दुरन्वयं परित्यज्य मामेव परिचरन्ती सुसङ्गता चिरं जीविष्यसि ।
दुर्वासनाः– -महन्तो पसादो अय्यउत्तस्स; जं चिरसेविअस्स रण्णो महामोहस्स विणासे वि सअं जीविऊण जीविअसमं मं वि रक्खिदुम् अहिणिविससि ।

( महान् प्रसाद आर्यपुत्रस्य ; यच्चिरसेवितस्य राज्ञो महामोहस्य विनाशेऽपि स्वयं जीवित्वा जीवितसमां मामपि रक्षितुम भिनिविशसे ।)

अभिनिवेशः– न केवलं मे जीवितसमा त्वम् ; जीवितेश्वरीखल्वसि6

दुर्वासनाः– घण्णिआ खु एसा संवृत्तम्हि ; जम् एवंसम्भावेसि ।

( धन्या खल्वेषा संवृत्तास्मि ; यदेवं सम्भावयसि । )
अभिनिवेशः — (सर्वतोऽलोक्य विचिन्त्य

साशङ्कम् )

पश्यामि दारुणान् दिव्यान्तरिक्षभौमानुत्पातान्

गृध्रास्तोरणशैल7 शृङ्गमभितोऽगृह्णन्नभोमण्डलं

वात्यामण्डलखण्डितध्वजपटीशून्यानि सैन्यानि नः ।

शूलप्रासकृपाणमुद्गरधनुः क्रूरैर्मुहुः किङ्करै-

र्दृश्यन्ते परिवारिता इव दिशः संवर्तसंवर्तकैः ॥ ४ ॥

मूलम् - ४

प्रभावली - ४

नेपथ्ये अलिअमित्यादि; अभिनिवेशभार्याया दुर्वासनाया वचनम् । अलिअम् एव्व अलीकमेव । भावो भणइ भावो भणतिम् । जं यत् । इत्थिआहिंस्त्रीभिः । जिईसिआ जिगीषिताः । महामोहसेणिअधुरन्धरा इत्ति महामोह सैनिक-

X६६८
धुरन्धरा इति । रण्डा; विधवा, व्यभिचारिणी । मामपि ; सत्यवादिनमपीति भावः । अलीकम् ; अनृतम् । एदेण वि-अनेन वचनेनापि । तुह-ते । अलिअभासिअम् अलीकभाषितम् । पडिट्ठा विअं प्रतिष्ठापितम् । जं यत् । उअरग्गिसक्खिअम् उदराग्निसाक्षिकम् । तुए त्वया । गहिअपाणिगृहीतपाणिम् । परपुरिसदंसण विमुहिम्परपुरुषदर्शनविमुखीम् । मं माम् । रण्डेत्ति रण्डेति । भणसि भणसि । इयम्; दुर्वासना । मत्समीपमागत्य मदीयः परिवादः क्षान्तो यया सा सती । सम्भावयतु पूजयतु । इअह्नि; इयमस्मि । अहअम् अहम् ।

X६६९

दुम्मइचलणसेवारसपरवसहिअ आ दुर्मतिचरणसेवारसपरवशहृदया । अण्णाअलोअवुत्तन्दा अज्ञातलोकवृत्तान्ता । पुच्छम्मि पृच्छामि । के पुरिसा के पुरुषाः । काहि-काभिः । इत्थिआहिं स्त्रीभिः । जिईसिआ जिगीषिता इति । जुगुप्सा ; कुत्सा । तितिक्षा ; क्षान्तिः । अनहमि देहादावहम्बुद्धिः अहङ्कारः । आत्मविद्या; आत्मज्ञानम् । अन्येऽपि ; दर्पादयः, अधिकदृष्ट्यादिभिरित्यर्थः । किम् उच्चाहमेत्तेण किमुत्साहमात्रेण । कज्जं सङ्घडइ कार्य सङ्घटते । हदासा खुहताशाः खलु । एदा एताः । सलहीओ8 विअ शलभ्य9 इव । अप्पविणासणे-

X६७०
आत्मविनाशने । सअं पवृत्ता स्वयं प्रवृत्ताः । एवम; त्वयोक्तप्रकारेण । यदृच्छादेवी; कर्मानुगुणा भगवल्लीला । कदाचित्प्रतीपमपि फलतीत्याह – शलभीति । प्रदीप स्थानीयाः कामादयः । जइ एव्वं यद्येवम् । महामोहप्रेरन्ताणं; महामोहपर्यन्तानाम् । अम्हपहूणम् अस्मत्प्रभूणाम् । विणासो विनाशः । होज्ज-भवेत् । क्षेपः ; चलनम् । जीवनोपायः द्रव्यम् । तत् उत्पश्यामि ; उत्प्रेक्षे । भोगाः ; ऐहिक सुखदुःखसाधनानि । मुमुक्षापुरस्कारेण ; मोक्षेच्छां पुरस्कृत्य । समाधौ

X६७१
अभिनिवेशः । सविशेषणं यथा तथा । णाह नाथ । अहम् उण अहं पुनः तुम्ह तव । पिआ प्रिया । कहं कथम् । होम्मि भविष्यामि । भीरुरसि ; बिभेषीत्यर्थः । दुरन्वयम् ; दुष्टसम्बन्धमित्येकोऽर्थः, दुरित्युपसर्गान्वयं च । परिचरन्ती; अनुवर्तमाना । सुसङ्गता सुष्ठु मया सङ्गतेत्येकोऽर्थः । सु इत्युपसर्गसङ्गता च; सुवासना सतीत्यर्थः । महन्तो पसादो अय्यउत्तस्समहान् प्रसाद आर्यपुत्रस्य । जं यत् । चिरसेविअस्सचिरसेवितस्य । रण्णोराज्ञः । महामोहस्स महामोहस्य । विणासे विविनाशेऽपि । सअं स्वयम् । जीवि -

। असमं जीवितसमाम् । मं वि-मामपि । रक्खिदुं रक्षितुम् । अहिणिविससिअभिनिविशसे । धण्णिआ खु-धन्याः खलु । एसा- एषा । संवृत्तम्हि -संवृत्तास्मि ।

X६७२
जं-यत् । एव्वम् एवम् । सम्भावेसि सम्भावयसि । मामिति शेषः । दारुणान्; क्रूरान् । दिव्यान्तरिक्ष भौमानुत्पातान् दुर्निमित्तानि । तदेव दर्शयति —– गृधा इति । तोरणशैलशृङ्गम् ; तोरणस्य बहिर्द्वारस्थापितदारुविशेषस्य यत् शृङ्खलशृङ्गम् । तदभिमतः नभोमण्डलं गृध्रा आवत्रुरित्यर्थः । नः सैन्यानि वात्या वातसमूहः, तस्य मण्डलेन आवर्तनेन खण्डिताभिः ध्वजपटीभिः शून्यानि जातानि । शूलाद्यायुधैः ये क्रूराः, तैः यमकिङ्करैः संवर्तस्य प्रलयस्य प्रवर्तकैः दिशः परिवारिता इव मुहुः दृश्यन्ते ॥ ४ ॥

प्रभाविलासः - ४

अलीकवादिनम् ; असत्यवादिनम् । परपुरुषः; सर्वेश्वर इति व्यज्यते । अस्मद्वेहिनी ; मम भार्या । तितिक्षया क्षान्त्या । आत्म-
विद्यया; आत्मज्ञानेन । दुरवधरम् ; दुर्निर्धरम् । उत्पश्यामि ; उत्प्रेक्षे ।
कोशगृहात् ; धनगृहात् । मुमुक्षा; मोक्षेच्छा । दुरन्वयम् ; दुरित्युप-
सर्गान्वयम् । सुसङ्गता; सु इत्युपसर्गसङ्गता । जीवितेश्वरी ; प्राणेश्वरी ।
गृध्रा इति । प्रासः ; कुन्तः ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

आः कष्टम् ;

निवृत्तिधर्मः पर्येति नाम्ना लोकेषु नारदः ।

अयं च तुम्बुरुस्तौ च प्रणिधी मोहवैरिणः ॥ ५ ॥

मूलम् - ५

आः कष्टम् ;

निवृत्तिधर्मः पर्येति नाम्ना लोकेषु नारदः ।

अयं च तुम्बुरुस्तौ च प्रणिधी मोहवैरिणः ॥ ५ ॥

प्रभावली - ५

निवृत्तिधर्मः ; मोक्षधर्मः । नाम्ना नारद इत्युक्तः । नारदरूपेण लोके परिभ्रमति । अयं नारदः तुम्बुरुच तावुभौ । मोहवैरिणः ; विवेकस्य । प्रणिधी ; चारौ । अत एव तयोः परिक्रमणं विवेकप्रयुक्तमिति भावः ॥ ५ ॥

प्रभाविलासः - ५

निवृत्तीति । पर्येति; परिक्रामति । प्रणिधी चरौ ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

तयोरपि प्रविष्टश्चायं त्रिभुवनविदूषको नारदः श्वेतवायस इव राजधानीम् । कलहकुतूहलं चास्य10 स्वलक्षणम् । विप्रलम्भवशंवदश्च वीराभिमानी देवो महामोहः । न जाने भवितव्यतावैभवेन किं भविष्यतीति11 । अथवा यदेव भविष्यति तदेव तथा । आत्मच्छायेव खलु नियतिरलङ्घनीया । अहह महामोहविजयलक्ष्मि, नूनमिदानीं संशयमापन्नासि ।

(नेपथ्ये)

छत्रैरुत्तभ्यतां द्यौर्दश झटिति दिशश्चामरैराव्रियन्तां

संवर्तोदन्वदूर्मिध्वनिमुखरमुखस्ताड्यतां वाद्यवर्गः ।

काल्यन्तां लोकपालाः क्षणरुचिपटलीविभ्रमैर्हेमवेत्रैः12

क्रुद्धः सन्नह्यतेऽसौ घटयितुमचिरादाहवं मोहवीरः ॥ ६ ॥

मूलम् - ६

प्रभावली - ६

X६७३
तयोरपि मध्ये त्रिभुवन परिहासकः श्वेतवायसः अनर्थसूचकः । महामोहस्य राजधानी प्रकृतिमण्डलीम् । कलहाभिलाषः तस्य स्वलक्षणं स्वरूपम् । विप्रलम्भपरवशश्च । भवितव्यता; विधिः । यदेव भविष्यति तत्तथैव ; तथाविधमेव । छत्रैरिति महामोहसौविदल्लवचनम् । द्यौः ; आकाशः । छत्रैः उत्तभ्यताम ; उत्क्षिप्य ध्रियताम् । झटिति दश दिशः चामरैः आव्रियन्ताम् ; आवृताः क्रियन्ताम् । संवर्तोदन्वान् ; प्रलयसमुद्रः । तदूर्मिध्वनिवत् मुखरमुखः वाद्यवर्गः वाद्यताम् । क्षणरुचयः ; विद्युतः । तत्पटलविभ्रम इव विभ्रमो येषां तैः स्वर्णवेत्रैः सम्मर्दाभावाय लोकपालाः अपसार्यन्ताम् । इदं सर्वं किमर्थमित्यत

X६७४
आह क्रुद्ध इति । विवेकादिभ्यः क्रुद्धो मोहवीरः तैः अचिरात् आहवं घटयितुं कर्तुं सन्नह्यते ॥ ६ ॥

प्रभाविलासः - ६

.
श्वेतवायसो महोत्पात इति शाकुनाः । स्वलक्षणम् ; स्वरूपम् । छत्रैरिति । संवर्तः ; प्रलयः । उदन्वान्; समुद्रः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

अभिनिवेशः – (कर्ण दत्त्वा ) किं देवो महामोहः स्वयमेव समराय सन्नह्यति ? ( सभयविषादम् ) प्रिये, महदत्याहितम् ।

अमुष्मन्दिवसे श्वो वा नूनं नियतिवैभवात् ।

अमोहमविवेकं वा जगदेतद्भविष्यति ॥ ७ ॥

मूलम् - ७

अभिनिवेशः – (कर्ण दत्त्वा ) किं देवो महामोहः स्वयमेव समराय सन्नह्यति ? ( सभयविषादम् ) प्रिये, महदत्याहितम् ।

अमुष्मन्दिवसे श्वो वा नूनं नियतिवैभवात् ।

अमोहमविवेकं वा जगदेतद्भविष्यति ॥ ७ ॥

प्रभावली - ७

मोहादीनां किं भविष्यतीति चिन्तया विषादः । अत्याहितम् ; महाभीतिः; वर्तत इति शेषः । अमुष्मिन्निति । अद्य वा श्वो वा विधिवशात् अवश्यमिदं जगत् मोहरहितं विवेकरहितं वा भविष्यति ॥ ७ ॥

प्रभाविलासः - ७

सभयेति । उत्पातदर्शन विनाशस्मरणाभ्यां भयविषादौ । अमुष्मिन्निति । अमोहमविवेकं वेति ; " अरावणमरामं वा " इति समाधिः ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

तदसावस्माकमवधानस्य प्रधानावसरः । अद्य खलु विविधभोगभाण्डागारलुण्टाकानां

संसारकण्टकानां विवेकसैन्यनासीरवीराणामतिधीराणां शमदमादीनां प्रचारमुपरोद्धुं पदवीषु प्रतिपदमयः शङ्कवः प्रतिष्ठापनीयाः । अन्यदपि चैवं समयोचितं सर्वमनुष्ठातव्यम् ।

( इति समयसम्भ्रमं सभार्यो निष्क्रान्तः)

मिश्रविष्कम्भः
(ततः प्रविशति महामोहो दुर्मतिर्नारदश्च )

महामोहः — भगवन्, धन्याः खलु वयमिदानीं संवृत्ताः ; यद्भगवतः पितामहस्य प्रियसुतेन चतुर्दशभुवनवैचित्र्यदर्शिना सकललोकपालमौलिमालोपलालितपादपङ्कजेन भगवता सम्भावितेयं13 मायाभिधाना मदीया राजधानी ।

नारदः — राजन्, अनितरसाधारणं भावत्कमाश्चर्यमनुभावमनुभवितारो वयमेव धन्याः ।

महामोहः — देवि, दीयतामस्मै देवर्षये पाद्यमर्घ्यं मधुपर्कश्व ।

दुर्मतिः — ( सविनयमुपसृत्य14 ) भअवं, इदं पज्जं ; एदम् अग्घं ; इमो महुपको ।

( भगवन्, इदं पाद्यम् एतदर्घ्यम्; अयं मधुपर्कः)
नारदः — (हस्तेन वारयन् ) सम्पन्नो ममासौ सत्कारः । अद्य खल्वौपवस्तं मया व्रतमङ्गीकृतम् । यावदिह तुलसीवनवासिनीं द्वादशीं सम्भावयामि, तावन्न किञ्चित्कुतश्चित्प्रतिगृह्णामि ।

महामोहः —भगवन्, अत्यद्भुतमनोहरोऽयं भवत्स्वभावः ।

तथा हि–

लास्यान्विता च ललिता च गतिस्त्वदीया

मञ्जुखना बहुगुणा च विभाति वीणा ।

देहश्च दर्शयति चान्द्रमसीमभिख्यां

प्राप्तोऽसि नस्त्वमिह भोगसमृद्धिहेतुः ॥ ८ ॥

मूलम् - ८

प्रभावली - ८

असौ; कालः । स्वकृत्यमाह अद्य खल्वित्यादिना ।

भाण्डागारम् ; कोशगृहम् । तस्य लुण्टाकाः ; चोराः । कण्टका ; विरोधिनः । नासीरो-

X६७५
ऽग्रभागः । नासीरवीराः ; अग्रगामिनः । सञ्चारं निवर्तयितुं, पदव्यः वर्णाश्रमधर्माः पदे पदे अयः शङ्कवः आयसकीलाः, तत्तद्देवतामात्रविषयत्वदेवतान्तरविषयत्वादिबुद्धयः प्रक्षेप्तव्याः ।

मिश्रविष्कम्भः

धन्याः ; भाग्यवन्तः । संवृत्ताः ; सञ्जाताः । मायाभिधाना; प्रकृतिनामिका । असाधारणं भवदीयमाश्वर्यस्वभावम् अनुभवितारः अनुभवन्तः । भभवं भगवन् । इदं पजम् इदं पाद्यम् । एदम् अग्वम् एतदर्घ्यम् । इमो महुपको -:

X६७६
मधुपर्कः । सपन्नः ; सञ्जात एव । अद्य ; एकादश्याम् । औपवस्तं व्रतम् ; उपवासव्रतम् । तुलसीवनवासिनीम् ; तुलसी अभिमानिदेवता द्वादश्याः । अतः तद्वनवासिनीत्युच्यते । द्वादशीसम्भावनं द्वादश्यां तुलसीभिर्हरिसमर्चनम् । क्वचित् कुतश्चित् किमपि न प्रतिगृह्णामि । स्वतः सात्त्विकं नारदं स्वयं तामसो राजा सम्भोगहेतुत्वेन वर्णयति-लास्यान्वितेति । भगवन्, त्वदीया गतिः सुभगा नृत्तवती मनोहरा च भवति । वीणा च बहुगुणत्वात् मन्जुस्वना भवति । देहः चान्द्रमसीमभिख्यां प्रकाशयति । एवं त्वं नः भोगसमृद्धिहेतुः सन् इह प्राप्तोऽसि ॥ ८ ॥

प्रभाविलासः - ८

अयःशङ्कवः ; कालायसशल्यानि ।

मिश्रविष्कम्भः
अथगर्भसन्धेर्नवममङ्गमसंरब्धवचनात्मकमधिवलं निरूपयति

धन्याः खल्वित्यादि । तदुक्तम् …" त्रोटकस्यान्यथाभावं ब्रुवतेऽधिवलं
बुधाः " इति । अद्य खल्विति । औपवस्तम् ; उपवासः । अत्रोपवासेनास्पृश्य तोपगूहनप्रतीतेः मीलनं नामालङ्कारो व्यज्यते, " मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् " इति लक्षणात् । लास्येति । शृङ्गाररसोद्दीपननृत्तगीतादिसमाधिना स्तुतेर्भगवद्गुणानुभवविपरीतं कलयसीत्युक्तम् ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

नारदः (स्वगतम् ) मूढस्वभावोऽसौ विश्वमपि विपरीतं कल्पयति । हन्त, विजितमस्मन्मनोरथेन । ( प्रकाशम्) महाराज, त्वमेव खल्वत्यद्भुतः । यदुत पुष्कर ‘पलाशवन्निर्लेपस्वभावं15 पुरुषमनन्तान् भोगाननुभावयसि । अपि च,

प्रत्यूढोत्सेकनम्र प्रतिभटमकुटीपादपीठीसनाथं

दुर्दान्तद्वेषिदन्तावलरदनपदं भाति भद्रासनं ते ।

त्वत्सन्नाहप्रसङ्गप्रथमदुहितरं भीतिमेवाद्रियन्ते16

लोकालोकोपरोधप्रतिहतगतयो लोकपालावरोधाः ॥ ९ ॥

मूलम् - ९

प्रभावली - ९

X६७७.
मूढस्वभावत्वादिति हेतुगर्भमिदम् । लोकं विपरीतत्वेन भावयति ; सात्त्विकं मां राजसत्वेन भावयति । हन्तेति हर्षे । मूढत्वादस्य मम मनोरथः सफलो भविष्यतीत्यर्थः । अहं यद्वदामि तत्सर्वं श्रोष्यतीति भावः । अत्यद्भुतत्वमुपपादयति-यदुतेति । अबाश्लेषरहितपुष्करपलाशवत् स्वतोऽलेपस्वभावं प्रकृतिभोगाननुभावयसि । कार्यार्थ महामोहं प्रशंसति अपिचेत्यादिना । भो राजन्, भद्रासनम् ; सिंहासनम् । प्रत्यूढोत्सेकाः ; अवरोपितगर्वाः । सेवने नम्राश्च प्रतिभटाः, तेषां मकुट्य एव पादपीठ्यः, ताभिः संहितम् । तन्मकुटान्येव ते सिंहासनपादपीठानीत्यर्थः । दुर्दान्ता ये द्वेषिणां दन्तावलाः, तद्दन्तानामास्पदं,

। तैरेव कृतत्वात् । किञ्च, लोकपालानामवरोधा महिष्यः, त्वत्सन्नाहप्रसङ्गेन लोकालोकपर्वतस्य उपरोधेन ततो बहिर्गन्तुमशक्यत्वात् प्रतिहतगतयः सन्तः सन्नाहप्रसङ्गस्य प्रथमपुत्रीम् प्रथमं भयं जायते, पश्चात्पलायनोद्योगादिकमिति प्रथमजातां भीतिमेवाद्रियन्ते । सदा भीतिं न परित्यजतीत्यर्थः ॥ ९ ॥

प्रभाविलासः - ९

प्रत्यूढेति । प्रत्यूढोत्सेकाः ; निरस्तगर्वाः । अत एव नम्राः, ते ते प्रतिभटाश्च तेषां मकुटयः किरीटानि, तान्येव पादपीठी, तया सनाथं सहितम् । दुर्दान्ताः ; मत्ताः । रदनाः दन्ताः । प्रथमदुहितरम् ; प्रथमोत्पन्नाम् । लोकालोकः ; चक्रवालः । उपरोधः ; प्रतिबन्धः ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

(नेपथ्ये)

भो भोः प्रतिहारिन्, अयमहमागतो देवस्य महामोहद्रुहो

विवेकस्य दृष्टप्रत्ययो नाम दूतः । आवेद्यतां महाराजाय ।

(प्रविश्य)

प्रतिहारीः — देव, प्रतिरुद्धप्रवेशस्तिष्ठति बाह्यद्वारे विवेकदूतः ।

महामोहः — प्रवेश्यताम् ।

प्रतिहारीः— यदादिशति देवः ।

(इति निष्क्रान्तः )

(ततः प्रविशति दूतः )

दूतः — ( मोहसमीपेनारदमवलोक्य स्वगतम्) अयमसौचण्डालसदनवापिकायां चन्द्र इव प्रतिबिम्बितः समीक्ष्यते देवर्षि विप्रलम्भचक्रवर्ती । अस्तु; असावपि साहायकमाचरिष्यति ।

नारदः — ( दूरतो दूतं निर्दिशन् ) महाराज,.

चलघुरुघुरुमालाश्लेषवाचालजङ्घः17

शर इव निरपायश्चारुचण्डातकश्रीः ।

अयमिह रुचिराभिः स्रग्भिरुन्नद्धमौलि-

स्त्वरितमुपसमेति स्वेदभिन्नः सुगन्धिः ॥ १० ॥

मूलम् - १०

प्रभावली - १०

X६७८
अथ विवेकदूतागमनं प्रस्तौति— नेपथ्ये भो भो इत्यादि । प्रतिहारिन् ; कञ्चुकिन् । दृष्टप्रत्ययः ; दृष्टविषयप्रत्ययः । प्रतिबिम्बितश्चन्द्र इव समीक्ष्यते । विप्रलम्भचक्रवर्ती; वञ्चनायामद्वितीयः । साहायकम् ; सहायकृत्यं चरिष्यति । दूत आगच्छतीत्याह— चलेति । द्रुतगमनवशात् चलायाः घुरुघुरुमालायाः

X६७९
जङ्घादेशे दूतैर्बध्यमानायाः आश्लेषेण वाचाले शब्दायमाने जङ्घे यस्य सः । निरपायः ; अपायो गतिमान्यम् । बाण इव शीघ्रगतिः । चण्डातकम् ; अर्धोरुकम् । चार्वी चण्डातकस्य श्रीर्यस्य । स्वेदैः सम्बद्धः । ऊर्ध्वमालित्वात् सुगन्धिः । उपसमेति; आगच्छति ॥ १० ॥

प्रभाविलासः - १०

चलेति । घुरुघुरवः; सूक्ष्मघण्टाः । चण्डातकम् ; अर्धोरुकम् ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

तदयं कोऽसाविति विचारणीयः, उपचरणीयश्च ।

महामोहः — आस्तामुपचारः ; विचारणीयस्तावत् । दूतः ( उपसृत्य ) इदं महाराजविवेकस्य शासनम् । ( इति भूर्जपत्रं दर्शयति )

महामोहः — ( अपवार्य) किं महामोहोऽपि केन चिच्छासनीयः ?

नारदः– -महाराज, किं परीक्षया परिजनोपचाराणाम् ?

महामोहः – भद्र, तत्स्वयमेव वाचय ।असंस्तुतयुष्मद्दीपलिपयो वयम्

दूतः ( उद्घाट्य वाचयति) ’ स्वस्ति श्रीश्वेतद्वीपविहारमण्डपकामातस्थुषा विबुधमहितवृत्तिना महाराजविवेकेन महामोहाय सन्दिश्यते । प्रसिद्धं खल्विदम् ." नीचाः कलहमिच्छन्ति सन्धिमिच्छन्ति साधवः" इति ।

महामोहः – किमतः ? स्वनैच्यमेवैतेन सूचयति ।
दुर्मतिः — भद्द, तो दो ।

( भद्र, ततस्ततः । )

दूतः -( वाचयति ) ’ ततश्च ;

दीयन्तामिह दक्षिणापथभुवो यावत्कलेरत्यय-

स्तत्र स्थावरतिर्यगंशमखिलं भुङ्क्ष्व त्वमप्यक्षतः ।

इत्थं नाम कुलक्षयोपशमनापाये त्वया तस्थुषा

सन्धिः सत्यगिरामतुच्छमनसामच्छात्मनामस्तु नः ’ ॥ ११ ॥

मूलम् - ११

प्रभावली - ११

भूर्जपत्रम् ; भूर्जी नाम तरुः, तस्य पत्रे काकदवत् मध्या शासनानि लिखन्ति । अपवार्य; अनादृत्य । परिजनाः ; भृत्याः । ते स्वामिन्युपचारवाचं प्रयुञ्जते । तत्र किं परीक्षया ? असंस्तुताः ; अपरिचिताः । युष्मद्वीपशब्देन श्वेतद्वीपादय उच्यन्ते । उद्धाट्य; कोशात् भूर्जपत्रमुद्धृत्य । श्वेतद्वीप एव विहारमण्डपिका, परमपदस्य विवेकराजधानीत्वात् । विबुधैः देवैः पूजितवृत्तिना । महाराजश्चासौ विवेकश्च तेन आज्ञाप्यते । इदम् ; वक्ष्यमाणम् । कलहो नीचाभिमतः । त्वमपि कलहमिच्छसि । साधूनामयं मार्गो न भवतीति । किमतः ; किमनेन । एतेन ; ‘नीचाः कलह मिच्छन्ति’ इत्यनेन । स्वस्यैव नीचत्वं

X६८०
प्रकाशते । स्वयमेव नीचत्वात् कलहमिच्छति । भद्द-भद्र । तदो तदोततस्ततः । उपरि वाचयेत्यर्थः । दीयन्तामिति । इह; भूमौ । यावत् कलेरत्ययः ; कलियुगावमानपर्यन्तम् । दक्षिण पथभुवः भृशब्देन तत्स्था जना लक्ष्यन्ते । मम दीयन्ताम् । तत्र; दक्षिणापथे । तिर्यक्स्थावर रूपमंशमखिलं कलियुगेऽपि अक्षतस्त्वं भुङ्क्ष्व । मनुष्यरूपमंशं मम विसृज । कृतयुगादिषु सर्वे मदीयमेव कलियुगे त्वमाकम्यानुभवसि । इत्थम् ; मयोक्तप्रकारेण । अस्मत्कुलक्षयोपशमनोपाये मयोक्ते तस्थुषा त्वया सलवाचां नः सन्धिरस्तु । अन्यथा तत्फलं त्वमेवानुभविष्यसीति भावः ॥ ११ ॥

प्रभाविलासः - ११

टीका नास्ति
असंस्तुताः ; अपरिचिताः । दीयन्तामिति । सन्धेः प्रत्यावृत्ति परिहाराय सत्यगिगमित्युक्तम् । वाक्सत्यतामात्रव्यावृत्तये अतुच्छमनसामित्युक्तिः । उभयत्र हेतुमाह अतुच्छात्मनामिति ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

महामोहः – (सहस्तास्फालनं विहस्य) तदिदं सहस्रकिरणस्य तेजोवरदानं वैश्रवणस्य वा किमप्यैश्वर्यप्रदानम्; यदाजानसिद्ध-
निरवधिकवैभवस्य मे विक्लवेन विवेकेन विभूतिविभागभोगलेशाभ्यनु-

ज्ञानम् ।

नारदः — ( सान्तर्हासं स्वगतम्) हन्त, समापतिता मम चक्षुषोः पारणा । सर्वथा चाहं विवेकमहामोहयोः सन्धिं प्रतिरोत्स्यामि । (मूर्धानमान्दोलयित्वा विषादमभिनयन् प्रकाशम् ) अहह,

भ्रूभङ्गेषु पृथग्विधेषु बलिनो यस्यायतन्ते जग-

न्त्यासंसारमलङ्घ्यशासनगतेराजन्म धीरात्मनः ।

ब्रह्मस्तम्बभटस्य मुक्तजनकद्रोहस्य मोहस्य ते

तस्यासीदितरेण सन्धिवचनं किं कस्य वा कथ्यते ॥ १२ ॥

मूलम् - १२

प्रभावली - १२

तदिदम; मद्राज्यभूतदक्षिणापथे तिर्यक्स्थावररूपांशदानम् । सूर्यस्य तेजोवरदानवदपहास्यम् । सर्वधनाध्यक्षस्य कुबेरस्य कतिपयधनांशप्रदानवदिदं,

X६८१
यन्निरवधिकेश्वर्यस्य मे विक्लबेन कातरेण विभूतिविभागे स्थावरतिर्यगंशे मम भोगाभ्यनुज्ञानम् । चक्षुषोः पारणा; समरसम्भ्रमः । प्रतिरोत्स्यामि ; विहनिष्यामि । आन्दोलयित्वा ; चालयित्वा । अहहेति शुचमनुकुर्वन् सन्धिं विहन्तुमुपक्रमते भ्रूभङ्गेष्विति । बलिनः ; बलवतः । यस्य ; तव । पृथग्विधेषु ; नानाविधेषु । भ्रूभङ्गेषु ; भ्रूविक्षेपेषु । जगन्ति ; ब्रह्मादयः । आयतन्तेअधीना भवन्ति। संसरणपर्यन्तम् अलध्या शासनस्य गतिर्यस्य । जन्मनः प्रभृतिधीरमनस्कस्य । ब्रह्मस्तम्बः ; जगत्त्रयम्; तत्र भटशब्दवाच्यस्य । अन्येषां भटशब्दवाच्यत्वमौपचारिकमिति भावः । ब्रह्मा प्रजापतिः स्तम्ब स्थानीयो यस्य जगतः, तत् ब्रह्मस्तम्बम् । जनकस्य पुरुषस्य विषये द्रोहः जिघांसा ऐश्वर्यनिरोधः, स मुक्तो येन सः । अनेन विवेकात् व्यावृत्तिः । विवेकस्य पितुः पुरुषस्यैश्वर्यानुभवविरोधित्वात् । मोहवीरस्य भ्रूभङ्गेष्वायतन्त इत्यन्वयः । तस्य ; तादृशस्य ते । इतरेण; केनचित् विवेकेनेत्यर्थः । सन्धिवचनम् ; समाधान विषयं वचः । अभूत् । एवं सति कस्य किं वा कथ्यते ॥ १२ ॥

प्रभाविलासः - १२

पारणा ; तृप्तिः । भ्रूभङ्गेष्विति । पृथग्विधेषु विकृतेषु । आयतन्ते ; अधीना भवन्ति ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

दुर्मतिः अय्यउत्त, एव्वं मे राअङ्कज्जं पडिभाइ -सन्धिव्ववदेसेण अम्हसआसम् आसाइज्जउ18 विवेओ । ता19 जीवग्गाहं गहिऊण दिढपीडणिज्जो होज्ज ।

( आर्यपुत्र, एवं मे राजकार्य प्रतिभाति सन्धिव्यपदेशेनास्मत्सकाशमासाद्यतां विवेकः । तत् जीवग्राहं गृहीत्वा दृढपीडनीयो भवेत् ।)

महामोहः ( सोच्चैर्हासम् ) मुग्धे, स्वप्नेऽप्येवंविधं कातरवचनं20 मा वोचः । नन्वहं महामोहः । किमिदानीमन्यमेव मामभिमन्यसे21 । अथवा न हि कदाचिदपि परिस्फुरन्ति प्रमदाजनानां राजकार्यगतयः । प्रिये, शृणु चैतन्महामोहस्य वीरव्रतम् -

क्रकचैः कृत्तदेहोऽपि दीपितोऽपि दवाग्निना ।

न सूच्यग्रं प्रदास्यामि न सन्धास्यामि केनचित् ॥ १३ ॥

मूलम् - १३

प्रभावली - १३

X६८२
एव्वम् एवम् । मे मे । राअकज्जं राजकार्यम् । पडिभाइ प्रतिभाति । सन्धिव्ववदेसेण सन्धिव्यपदेशेन । अम्हसआसम् अस्मत्सकाशम् । आसाइज्जरः आसाद्यताम् । विवेओ-विवेकः । ता-तत् । जीवग्गाहं जीवग्राहम् । गहिऊण गृहीत्वा । दिढपीडणिज्जो दृढपीडनीयः । होज्ज-भवेत् । कातरवचनम् ; ननु तस्य मे कुतो भीतिरिति भावः । अन्यमेव ; महामोहादन्यं पुरुषमेव । गतयः ; प्रवृत्तयः । एतत् ; वक्ष्यमाणम् । क्रकचैरिति । सूच्यग्रम् ; सूच्यग्रमात्रं वस्तु क्षेत्रं वा । केनचिदपि न सन्धि करिष्यामि ॥ १३ ॥

प्रभाविलासः - १३

क्रकचैरिति । अत्र दुर्योधनसमाधिः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अथवा,

नाहमस्मि महामोहो न च विश्वं जितं मया ।

विभूतिरमिता यस्य विभक्तव्यपदास्पदम् ॥ १४ ॥

मूलम् - १४

अथवा,

नाहमस्मि महामोहो न च विश्वं जितं मया ।

विभूतिरमिता यस्य विभक्तव्यपदास्पदम् ॥ १४ ॥

प्रभावली - १४

X.६८३
स्वात्मानं निन्दति — नाहमिति । यस्य; मम । अमिता विभूतिः ; ब्रह्माण्डम् । विभक्तव्यमिति पदस्य वाच्यमभवत् । यद्वा विभक्तव्यस्थानस्यास्पदमाश्रयः अभवत् । सोऽहमिदानीं महामोह एव न भवामि । विश्वं च मया जितमपि न । कृछ्रे जातोऽस्मीति भावः ॥ १४ ॥

प्रभाविलासः - १४

नाहमिति । विभूतिः; ऐश्वर्यम् ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

नारदः (स्वगतम्) कलह कौतुकिनामस्माकं तपांसि परिणमन्ति । ननु स्वात्मावधिरियं महामोहस्य शवमुष्टिवद् गृहीत ग्राहिता । ( प्रकाशम्) देवि दुर्मते, परमकृत्यमध्यवसितं प्रियतमेन ते । अथ तु निर्धारणीयः सन्देशवाक्यशेषः ।

महामोहः —— ( अनादरातिशयं नाटयन् ) किं नश्छिन्नम् ?

शृणुमस्तावत् । दूत, ततस्ततः ।

दूतः ( वाचयति ) ’ ततश्च यदि नः सन्धिः यथास्थानं पुनरवस्थास्यामहे । यदि विग्रहः, तदा तु
निष्कामक्रोधलोभं निपतितकुहनादम्भदर्पाभिमानं

निर्धूतेर्ष्याभ्यसूयामदविहृति जहन्मत्सरस्तम्भजाढ्यम् ।

अद्य श्वो वा विदध्यादपि चरमयुगे विश्वमक्षुद्रसत्त्वं

वेलातीत प्रसर्पन्मधुमथनदयादत्तसेको विवेकः ’ ॥ १५ ॥

मूलम् - १५

प्रभावली - १५

I

स्वात्मावधिः; स्वरूपावस्थितिपर्यन्ता । प्रियतमेन ; महामोहेन । परमकृत्यम; श्रेष्ठमेव कृत्यं निश्चितम् । परम् अकृत्यमिति गूढोऽर्थः । का नो हानिः ? तावदिति वाक्यालङ्कारे । जगदमोहवर्गं करिष्यति विवेक इत्याह-

X६८४
निष्कामेति । वेलातीतं यथा तथा प्रसर्पन्ती या मधुमथनस्य दया, तया दत्ताभिषेको विवेकः चरमयुगेऽपि इदं विश्वं कामक्रोधलोभकुहनादर्पदम्भाभिमानेर्ष्याभ्यसूयामत्सरादिरहितं विदध्यात् । नात्र संशयइति भावः । निर्धूता ईर्ष्याभ्यसूययोर्मदेन विहृतिः यस्मात् । जहत् मत्सरः स्तम्भः जाड्यं च यस्मिन् । अक्षुद्रसत्वम्; मिश्रसत्त्वरहितम् ॥ १५ ॥

प्रभाविलासः - १५

निष्कामेति । जाडयस्तम्भयोरवस्थाभेदेन भेदः,

“हर्षाद्रागाद्भयाद् दुःखाद् द्वेषादेर्विस्मयाद्रुषः ।

विक्षेपाच्च भवेत् स्तम्भोऽनुभावाज्जाड्यमुच्यते ॥”

इत्युक्तत्वात् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

महामोहः — ( सरोषसंरम्भं दन्तान् कटकटापयन् ) भगवन्, आः कष्टम् । अश्रुतपूर्वमिदं श्रुतम् । वाचिकशेषस्तु भवतु वा, मा वा । कः कोऽत्र भोः ! हन्यतामयं वार्ताहरः ।

नारदः — राजन् दूतः किल ।

महामोहः — तर्हि व्यङ्गीकृत्य निष्कास्यताम्22
दूतः :—स्वयमहमपसर्पामि । ( इति तिरस्करिणीमास्थाय स्वगतम्) विदितवृत्तान्तशेषः प्रतिगमिष्यामि ।

X६८५

नारदः — ( अनाहतदृष्टिरवलोकयन् इङ्गितेन दूतमभिनन्दति )

महामोहः ( सक्रोधनिर्वेदं समधिकताम्राक्षः पादेन पादपीठीमाहत्य दन्तेनाधरमापीडयन् )

धिग्ब्रह्माण्डकरण्डगह्वरकुटी कर्पूरपूरं यशो

धिक्प्रह्नत्रिदशेन्द्रफालफलकस्पष्टोपसृष्टं पदम् ।

धिग्दोर्विक्रममद्भुतं मम पुनर्धिग्वादमेवास्तु धिक्

सोढा वैरिकथामपि स्वयमहं नीचाय मह्यं नमः ॥ १६ ॥

मूलम् - १६

प्रभावली - १६

कटकटापयन्; कटकटारवविशिष्टान् कुर्वन् । पूर्वमश्रुतम् । वार्ताहरः ;
दूतः । तर्हि व्यङ्गीकृत्यापसार्यताम् ; विद्राव्यताम् । तिरस्करिण्यामन्तर्धाय अप्रतिहतदृष्टिः अवलोकयन् । इङ्गितेन ; नयनादिचेष्टया । निर्वेदः ; वैराग्यम् । धिगिति । ब्रह्माण्डमेव करण्डम् दन्तादिनिर्मित चिरण्टी, तस्य गह्वरम् अन्तःप्रदेशः, स एव कुटी गृहं तत्र कर्पूराख्यं यत्पूरणद्रव्यं मम यशः, तत् धिक् । प्रह्नानां त्रिदशेन्द्राणां यानि फालफलकानि, तैः स्पष्टं यथा तथा। उपसृष्टम् अपगतरजः क्रियमाणं मम पादकमलं धिक् । अद्भुतं दोर्विक्रमं च धिक् । मम पुनः योऽद्य धिगिति वादः, तमपि धिक् । तद्वादस्यापि नाहमर्ह इत्यर्थः । अहमपि ; किमप्यसहमानोऽपि । स्वयं वैरिकथां विवेकप्रसङ्गं सोढास्मि । अतो नीचाय मह्यं नमः ॥ १६ ॥

प्रभाविलासः - १६

दन्तानिति ; रावणसमाधिः ।दन्तान् कटकटाय्य च " इति .
युक्तम् । व्यङ्गीकृत्येति; आञ्जनेयसमाधिः । धिगिति । करण्डम् ; दन्तादिनिर्मितं कर्पूरपूरकं वस्तु । कुटी ; क्षुद्रग्रहम् । उपसृष्टम् ; स्पृष्टम् । धिग्वादः ; धिगिति वचनम् ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

( विचिन्त्य सनिश्वासम् ) प्रिये, विपक्षप्रतार्यमाणं पितर-

मनुचिन्त्य भृशं दूये ।

गतजलसेतुबन्धगजयूथपशौचकथा-

गगनतलानुलेपगणिकापरिणीतिनिभैः ।

व्यथितमतिर्विवेकहतकस्य विचारशतैः

कुलपतिरद्य नः कथमसौ भविता पुरुषः ॥ १७ ॥

मूलम् - १७

प्रभावली - १७

X६८६
विपक्षैः; विवेकादिभिः । प्रतार्यमाणम् ; वञ्च्यमानम् । गतजलेति । गते जले सेतुबन्धः । गजयूथपविषयशौचस्य प्रसङ्गः । गगनतले योऽनुलेपः, तस्य गणिकाविवाहस्य च सदृशैः । निष्प्रयोजनैरित्यर्थः । विवेकहतकस्य विचार शतैः; निष्प्रयोजनैः आलोचनैः । व्यथितमतिः नः कुलपतिः पुरुषः अद्य कथं भविता ; कामवस्थां गमिष्यति ॥ १७ ॥

प्रभाविलासः - १७

गतजलेति । बहुलतरव्यसनाभिभवात्पूर्वमेव मोचनीयः पुरुषः । अतिक्रान्तकाले त्वयमारम्भो निरर्थक इत्याशयेनाह गतजलेति । अनभिसंहितकर्मादिना मनसो नैर्मल्येऽपि कर्मशक्तिमहिम्ना पुनर्दुरितधूसरितमेव मनो भवेदित्याशयेनाह गजयूथपेति । अनादिभोगवासनावशेन भोगनिवृत्तौ रुचिरप्यसम्भावितेत्याशयेनाह – गगनतलेति । चिरं विविधविषयगुणाकृष्टचेतसः सर्वव्यावृत्त्यैकत्र नियमनं हासास्पदमित्याह – गणिकेति । कथं भविताः भोगमोक्षपरिभ्रष्टः स्यादित्यर्थः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

नारदः — महाराज, किमत्र चिन्त्यते ? न कुतश्चिदव्ययमन्यथा भविष्यति ।
महामोहः — (सक्रोधकम्पम् ) भगवन्, पापीयान् खल्वसावशेष 23 भोगनिर्मूलनोद्यतो विवेकहतकः । ( आकाशे लक्ष्यं बद्धा) आः पाप दुराचार विश्वविद्वेषदूषित मूढ विवेकापशद,

मोघारम्भक्षपितमनसा24 मोहवीरस्त्रिलोकी-

वेलाभेदस्वरसरसिको25 विभ्रमप्राणमित्रम् ।

ब्रह्मस्तम्वप्रसृत निगमस्तोमशाखाविभङ्ग-

क्रीडाचण्डः कृपण भवता किं न दृष्टः श्रुतो वा ॥ १८ ॥

मूलम् - १८

प्रभावली - १८

अयं पुरुषः ; न कुतश्चिदप्यन्यथा भविष्यति ; अन्यप्रकारो न भवति ।

X६८७
त्वत्तोऽप्ययं प्रतारयितुं न शक्यत इति भावः । अतिपापिष्ठः पुरुषस्याशेषभोगनिर्मूलने उद्युक्तः । हृतकः ; अपशदः । लक्ष्यं बद्धा; विवेकस्थाने किमपि परिकल्प्य तृणमन्तरतः कृत्वेति यावत् । सर्वेभ्यो विद्वेषेण दूषित । त्रिलोक्याः या वेला वेदोक्तविधिनिषेधव्यवस्था, तस्या भङ्गे स्वत एव रसिकः प्रीतिमान् । विभ्रमः विशेषभ्रमः विपरीतभ्रमः, तस्य प्राणप्रदमित्रम् । ब्रह्मस्तम्बे जगति प्रसृताः व्याप्ताः ये वेदाः, तेषां स्तोमस्य याः शाखाः ; तासां विभङ्ग एव क्रीडा ; तत्र चण्डः । महामोहवीरः मोघारम्भक्षपितमनसा भवता किं न दृष्टः श्रुतो वा । वेदशाखाभङ्गो नाम तदप्रामाण्यबुद्धिजननम् । न दृष्टः, न श्रुतश्चः अतस्त्वया हीनेन सन्धिप्रसङ्गः क्रियत इति भावः ॥ १८ ॥

प्रभाविलासः - १८

मोघेति । त्रिलोक्या वेला ; वर्णाश्रमादिमर्यादा, तस्या भेदे भङ्गे स्वरसरसिकः । विभ्रमः अन्यथाख्यातिः । ब्रह्मस्तम्बे चतुर्मुखे प्रसृतानान्नारायणोपदिष्टानाम्, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्चप्रहिणोति तस्मै ” इतिश्रुतेः।निगमस्तोमानां वेदजालानामेव शाखानां विभङ्गक्रीडायां चण्डः ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

नारदः — महाराज, न श्रुतं न दृष्टं वा केन भवदपदानम् ? आसंसारं प्रसिद्धवैभवः खल्वसि ।

महामोहः — ( सक्रोधम् ) भगवन्, इदमपि भवन्तमनुस्मारयामि–

पुरा किल निराकृतस्वपरभेदनिर्धारणे

रणे विहरता मया रदनयन्त्रितश्चन्द्रमाः ।

अपर्वणि सुपर्वणामधिपतेः समक्षं क्षणा-

दरुन्तुदविधुन्तुदग्रसनवेद नामन्वभूत् ॥ १९ ॥

मूलम् - १९

प्रभावली - १९

'

"

X६८८
आसंसारम्; आप्रकृतिमण्डलम् । पुरेति । स्वेषां परेभ्यो भेदः स्वपरभेदः, तस्य निर्धारणं निराकृतं यस्मिन् तस्मिन् रणे । पुरा मया रदनयन्त्रितः रदनशब्देन कामो द्योत्यते; तेन यन्त्रितः बद्धः चन्द्रमाः । सुपर्वणामधिपतिः इन्द्रः । तत्समक्षम् । विधुन्तुदस्तु इन्द्रसन्निधौ बिभेतीति भावः । अरुन्तुदः

X६८९
पीडाकरः यो राहुः ; तस्य ग्रसने या वेदना तामन्वभूत् । चन्द्रो मदान्धो बृहस्पतेर्भार्यामभिससारेति भावः ॥ १९ ॥

प्रभाविलासः - १९

पुरेति । निराकृतं स्वपरयोः योधप्रतिरोधयोः भेदनिर्धारणं भेदनिर्णयः यत्र तत्र । रणे; युद्धे । शूर्पणखापतिहनने रावणसमाधिः । रदनयन्त्रितः ; दन्तखादितः । अपर्वणि; अपूर्णमासे । सुपर्वणां देवानाम्, अधिपतेः इन्द्रस्य । समक्षम् सोऽप्यकिञ्चित्कर इति भावः । अरुन्तुदेति ग्रसनविशेषणम् । एवं च योजना द्रष्टव्या पुरा किल कृतयुगे निराकृतं स्वपरयोः इन्द्राहल्ययोः भेदनिर्धारणं यस्मिन् । अनेन सुखपारवश्योक्तिः । रणे सम्भोगे, " त्यजति युगलचिन्तामङ्गयोरन्तरात्मा” इत्युक्तत्वात् । मयेति सुपर्वणामधिपतेः समक्षमिति च मामुपास्स्व इत्यादिना तत्त्वज्ञानितया प्रसिद्धस्य शतक्रतोरनिष्टोदर्के पारदार्यकर्मणि प्रवृत्तेर्मोहकार्यतया मोहस्य प्राधान्येनेन्द्रस्य साक्षितया निर्देशः । चन्द्रमा
इति मुखचन्द्रो लक्ष्यते तत्राप्यधरमेवौचित्यात् । अपर्वणीति ऋत्वादिविशेषानादरेण कालमात्रमुच्यते । मुनिवेषधारिणेन्द्रेणाहल्यां प्रति " ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते " इत्यभिधानात् । अरुन्तुदेति गाढपीडनं लक्षितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

नारदः — ( सान्तर्हासं स्वगतम्) किमसावुन्मत्तदशां प्राप्तः ? यदयं जरद्गवादिवाक्यवदपार्थं किमपि जल्पति ; उपस्थितमहाविपत्तिरपि दुर्मतिमेव पुरस्कृत्य शृङ्गारगर्ते निमज्जति । ( प्रकाशम् ) महाराज, सोऽयमिदानीं पश्चिमे पारावारे सान्ध्यमिव नियमविधि चिकीर्षुरम्बर तलादवलम्बते मयूखमाली । तदहं साधयामि कालोचितकर्मणे ।

( इति निष्क्रान्तः)
महामोहः — प्रिये, सम्प्रति संसारसन्ततिनिदानभूतसम्भोगारम्भसमयसूचिका प्रजापतिपरिभुक्तपूर्वा प्रवर्तते पितृप्रसूरियमपरा सन्ध्या । इह हि -

क्षीयन्ते सवितुः क्षणं क्षितिधरैरुत्तंसिता दीप्तयः

श्रूयन्ते यजतां तृतीयसवनब्रह्मप्रणादोर्मयः ।

लीयन्ते पतगाः कुलायतरुषु प्रत्युद्वजत्पोतकाः

स्त्यायन्ते च तमश्छटास्तत इतः श्रीकण्ठकण्ठत्विषः ॥ २० ॥

मूलम् - २०

प्रभावली - २०

उपस्थिता विपत्तिर्यस्य सः । शृङ्गारगर्ते; जलगर्ते । पारावारे; समुद्रे । सान्ध्यनियमविधिः ; सन्ध्योपासनम् । कालोचितकर्मणे ; सान्ध्यं कर्म

X६९०
कर्तुमित्यर्थः । साधयामि ; गच्छामि । पूर्वं प्रजापतिना परिभुक्ता स्वीकृता।” यास्य सा तनूरासीत् । तामपाहत । सोऽहोरात्रयोः सन्धिरभवत्" इत्यादेः । पितृप्रसूः; सायं सन्ध्या । " सोऽसुरान् दृष्ट्वा पितेवामन्यत । तदनु पितॄनसृजत " इत्यादेः । सन्ध्यां वर्णयति — इह हीति । क्षणमात्रं पर्वतैः शिरोभूषणीकृताः सवितृरश्मयः क्षीयन्ते । क्रमेण यजतां यज्वनां तृतीयसवनसम्बन्धिनः वेदघोषोर्मयः ; ऊर्मिशब्देन घोषस्योच्चैस्तरत्वं लक्ष्यते । श्रूयन्ते । कुलायतरुषु ; नीडवृक्षेषु । प्रत्युद्व्रजत्पोतकाः ; प्रत्युद्व्रजन्तः अर्भकाः येषां ते । पतगाः लीयन्ते । श्रीकण्ठस्य रुद्रस्य कण्ठवत् त्विषो यासां ताः । तमश्छटा इतस्ततः स्त्यायन्ते च ; सान्द्रा भवन्ति ॥ २० ॥

प्रभाविलासः - २०

जरद्गवादीति । अत्र पूर्वयोजनायां मोहेन चन्द्रग्रहणस्याप्रामाणिकतयातिशयोक्त्यादावनन्तर्भावात् जरद्गवादिवाक्यवदनर्थकत्वम् । योजनायां शृङ्गारप्रधानत्वात् तन्निमज्जनं चेति विवेकः । जरद्भवपदेन

“जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मद्रकाणि ।

तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ "

इति श्लोक उपात्तः । आदिपदेन “शङ्खः कदल्यां कदली च भेर्या भेर्यो महच्चाविरभूद्विमानम् " इति ग्राह्यम् । प्रजापतिपरिभुक्तपूर्वेति ;
इदमत्र स्मारितम् -

“सृष्ट्वा पितृनुत्ससर्ज तनुं तामपि स प्रभुः ।

सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थिता ॥”

इति । क्षीयन्त इति । उत्तंसिताः; शिरोऽवतंसीकृताः । ब्रह्म वेदमातृकाः । कुलायः ; नीडः । प्रत्युद्व्रजत्पोतकाः ;

प्रत्युद्गच्छदर्भकाः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

X६९१

कादम्बन्ति जलाशयेषु वितताः कालाम्बुदन्त्यम्बरे

मातङ्गन्ति महीधरेषु मधुपस्तोमन्ति मल्लीषु च ।

स्पृष्ट्वा निश्चिनु पाणिना कुवलयापीडन्ति ते कुन्तले

धम्मिल्लन्ति दिशामुखेषु26 सुमुखि स्त्यानास्तमः पङ्क्तयः ॥ २१ ॥

मूलम् - २१

प्रभावली - २१

अपि च,
पुनर्भङ्गयन्तरेण तमश्छटां वर्णयति कादम्बन्तीति । जलाशयेषु ; तटाकेषु । वितताः कलहंसवदाचरन्ति " कादम्बः कलहंसः स्यात् ” इत्यमरः । अम्बरे वितताः कालाम्बुदवदाचरन्ति । महीधरेषु वितताः गजवदाचरन्ति । मल्लीकुसुमेषु वितताः मधुपस्तोमः भृङ्गसमूहः, स इवाचरन्ति । तव केशपाशे नीलोत्पलस्रजन्ति । तत्पाणिना स्पृष्ट्रा निश्चिनु; अवधारय । निशामुखे ; प्रदोषे; निशाख्यस्त्रीमुख इत्यर्थान्तरम् । कबरीवाचरन्ति । हे सुमुखि, स्त्यानाः सान्द्राः तमः पङ्क्तयः तमोविततयः ॥ २१ ॥

प्रभाविलासः - २१

कादम्बन्तीति । कादम्बः कलहंसः । कादम्बा इवाचरन्ति । स्त्यानाः ; संहताः । स्त्यै ष्टयै शब्दसङ्घातयोः " इति धातुः । अत्र प्रत्ययद्योत्योपमाभेदः ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

दुर्मतिः — अय्यउत्त, पबतमेहिं विवेअप्पमुहेहिं पक्कन्दजुद्धस्स तुह सम्भोअसम अवण्णणं किम् अणरण पवृत्तं ? अह्न वा अइवीरत्तणेण ?

(आर्युपुत्र, प्रबलतमैर्विवेकप्रमुखैः प्रक्रान्तयुद्धस्य तव सम्भोगसमयवर्णनं किमनयेन प्रवृत्तम् ! अथवा अतिधीरत्वेन ?)
महामोहःअयि महामोहपति,27 किं बिभेति भवती कृपणाद्विवेकहतकात् ? किं न वेद ?

वश्यं तिष्ठति षड़िधं मम बलं मायाविनः सैनिका

मोहः सोऽहमभङ्गुरो मुनिमनःप्रक्षोभदक्षोदयः ।

आस्तामन्यदनङ्गतन्त्र निपुणैरङ्गीकृतः साम्प्रतं

सेतुर्घोरविवेकसिन्धुतरणे शृङ्गारदेवार्चनम् ॥ २२ ॥

मूलम् - २२

प्रभावली - २२

पबलत मेहिं प्रबलतमैः । विवेअप्पमुहे हिंविवेकप्रमुखैः । पक्कन्तजुद्धस्सप्रक्रान्तयुद्धस्य । तुह तव । सम्भोअसम अवण्णणं सम्भोग समयवर्णनम् । अणएण पवृत्तम् अनयेन प्रमादतः प्रवृत्तम् । अहवा अथवा अइधीरत्तणेण अतिधीर-

X६९२
त्वेन । वश्यमिति । वश्यम्; वशीभूतम् । षड्विधम् ; षट्प्रकारं मौलादिकं बलम् । सैनिकाः; सेनायां समवेताः पुरुषाः कामादयः । मायाविनः ; माया कापट्यं वञ्चनं, तत्र समर्थाः । अभङ्गुरः ; भङ्गमप्राप्तः । प्रक्षोभे दक्षः उदयः यस्य सः । अन्यत् सर्वं तिष्ठतु । अनङ्गतन्त्रम् ; कामशास्त्रम् । शृङ्गारदेवः ; कामः । तदर्चनम् ; सम्भोगः । घोरः विवेक एव सिन्धुः समुद्रः, तस्य तरणे सेतुः उपायः ॥ २२ ॥

प्रभाविलासः - २२

वश्यमिति । षड़िधम्; मौलादि । तदुक्तं सोमेश्वरेण -

“मौलं भृत्यं तथा मैत्रं तार्णमाटविकं बलम् ।

आमित्रमपरं षष्ठं सप्तमं नोपलभ्यते ॥ "

इति । शृङ्गारदेवः कामः । तदुक्तम् " शृङ्गारदेवतामाहुरपरे मकरध्वजम् " इति ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

अथवा किमिहान्येन दैवतेनार्चितेन मे ।

त्वामेव शरणं यामि कामतन्त्राधिदेवताम् ॥ २३ ॥

मूलम् - २३

अथवा किमिहान्येन दैवतेनार्चितेन मे ।

त्वामेव शरणं यामि कामतन्त्राधिदेवताम् ॥ २३ ॥

प्रभावली - २३

उपायान्तरमवलम्बते — अथवेति । किं प्रयोजनम् ? कामशास्त्रस्याधिदेवतामिव स्थितां त्वां शरणं यामि; विवेकसिन्धुतरणे प्रधानोपायत्वेन परिगृह्णामि ॥ २३ ॥

प्रभाविलासः - २३

उपरितनटीकायामन्तर्गता ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

तदेतां रात्रिं वासगृहे त्वया सह निर्वेष्टव्यमखिलं निर्विश्य प्रभाते संयतिष्ये शत्रुविजयाय ।

(इति सभार्यो निष्क्रान्तः)

(ततः प्रविशति नभोयानेन तन्त्रीविनोदतरलकरपल्लवो नारद-

स्तुम्बुरुश्च)

नारदः — सखे, सुप्रभातं त्रैलोक्यस्य, यन्महामोहविजिगीषया सत्यसन्धो विवेकः सपदि संयतिष्यते । अहह, सूच्यते सम्प्रति विवेकाभ्युदयः । यतः,
इदं पुरः स्वयमुदयक्षमाभृति प्रबोधनं प्रबलतमोविमोचनम् ।

विवेचितस्थिरचरभेदमद्भुतं त्रयीमयं किमपि महो विजृम्भते ॥ २४ ॥

मूलम् - २४

प्रभावली - २४

X६९३’.
एतां रात्रिम् ; अत्यन्तसंयोगे द्वितीया । शय्यागृहे निर्वेष्टव्यम् उपभोक्तव्यमखिलं भोगं निर्विश्य संयतिष्ये यत्नं करिष्ये । नभोयानम् ; विमानम् । वीणातन्त्रीणामास्फालनात् चञ्चलकरपल्लवः । सुप्रभातम् ; शोभनं प्रभातम् । सपदि ; अद्य । संयतिष्यते ; सम्यक् यत्नं करिष्यते । तत्र हेतुमाह-यत इति ।

X६९४
अत्र सूर्योदयवर्णनेन वेदाख्यतेजोविजृम्भणं सूच्यते । पुरः ; पुरस्तात् । अन्यत्र प्रथमम् । पुरुषस्य विद्यान्तराधिगमात् प्राक् गर्भाष्टमे उपनीयाध्यापनं तत्र विधीयत इति भावः । उदयक्षमाभृति; उदयपर्वते । अन्यत्र स्वयमुदयक्षमाभृतीत्येकं पदम् । स्वयमुदयो यस्याः । सा चासौ क्षमा क्षान्तिः । इदं शमादीनामप्युपलक्षणम् । तद्भूति क्षान्तिमति पुरुषे । प्रबोधनम् ; प्रबोधो निद्राक्षयः, ज्ञानं च । तमःशब्दश्चान्धकाराज्ञानयोर्वाचकः । प्रबोधयतीति प्रबोधनम् । अन्यत्र प्रबोध एव । विमोचयतीति विमोचनम् । त्रयीमयं महः ; सूर्यरूपं वेदरूपं च तेजः ॥ २४ ॥

प्रभाविलासः - २४

अथ विवेकादीनां मोहादीनां च युद्धस्य साक्षादभिनेतुमनर्हतया तत् कथारूपेण कथयितुं नारदतुम्बुरुसंवादं प्रस्तोति सखे सुप्रभात मित्यादिना । तदुक्तं सरस्वतीविलासे-

“विरसोऽनुचितश्चेति सूच्यःस्याद्वस्तु विस्तरः”

इति । विरसो नाम प्रधानरसपोषको विभावशून्यःकथासङ्घटनमात्रप्रयोजनो विष्कम्भादिरुच्यते । अनुचितो नाम रङ्गप्रयोगानर्हयुद्धवधबन्धादिकमुच्यते । तथा चोक्तम्

“युद्धाध्ववधबन्धांश्च राज्यदेशादिविप्लवान् ।

संरोधं सुरतं स्नानं भोजनं चानुलेपनम् ।

अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।

एतान्युद्वेगकारित्वात्प्रयोगानुचितानि यत् ॥ "
इति । इदमिति । क्षमाभृति; गिरौ पुरुषे च । तमः अन्धकारम्, अज्ञानं च । त्रयीमयमिति ; " वेदैरशून्य स्त्रिभिरेति सूर्यः सैषा त्रय्येव विद्या तपति" इति श्रुतिरभिप्रेता ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

तुम्बुरुः — भगवन्, वयमिव नूनं महासमरसन्दर्शनकुतूहली त्वरितमुत्तिष्ठते मयूखमाली । अद्य हि,

प्राचीनाचलतुङ्गशृङ्गनिकटप्रक्रीडदैरावण-

क्षोभोदीरितधातुधूलिपटलीपर्यायधुर्योदयाः ।

व्योमारण्यतमालबीथिमलिनामुन्मूलयन्तस्तमी-

मुन्मीलन्त्यरविन्दगर्भसुहृदो भानोरमी भावनः ॥ २५ ॥

मूलम् - २५

प्रभावली - २५

अथ सूर्यकिरणोत्थितिं वर्णयति – प्राचीनेति । प्राचीनाचलः उदयगिरिः, तस्य धातोः धूलीपटल्याः गैरिकरजःपुञ्जस्य यः पर्यायः साम्यं

X६९५
तस्य धुर्यो धूर्वहः उदयो येषां ते । व्योमाख्यारण्यस्य तमालपङ्क्तिवत् मलिनां तमीं तमः पङ्क्तिम् । यद्वा रात्रिम्, “रजनी यामिनी तमी” इत्युक्तेः । उन्मूलयन्तः ; उत्पाटनं कुर्वन्तः । उन्मीलयन्ति ; उद्गच्छन्ति । अरविन्द केसरवर्णाः भानोः सूर्यस्य भानवः रश्मयः ॥ २५ ॥

प्रभाविलासः - २५

प्राचीनेति । उदीरिता; उत्थिता । पर्यायः प्रकारः । " पर्यायः क्रम निर्माणप्रकारावसरेष्वपि । एकार्थवाचिशब्दे च " इति निघण्टुः ।
व्योमैवारण्यं तत्र तमालवीथीवत् मलिनाम् । तमीम्; अन्धकारम् । उन्मूलयन्तः ; नाशयन्तः ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

नारदः — सखे, व्यक्तमिव विवेक वैभवं सूच्यते । तथा हि-

दिवि च भुवि च विष्वग्दृष्टिरोधे निसृष्टं

मुकुलितनिखिलाशामण्डलं मोहवृत्त्या ।

मलिनमिह28 महीयो मङ्क्ष्वमोघैः करौघैः

कवलयति तमिस्राकश्मलं रश्मिमाली ॥ २६ ॥

मूलम् - २६

प्रभावली - २६

तदेवोपपादयति-तथाहीति29 । दिवीति । दिवि च भुवि च विष्वक् सर्वत्र । दृष्टिरोधे; दृष्टितिरस्कारे । निसृष्टम् ; निर्मितम् । मोहवृत्त्या; मोहव्यापारेण । मुकुलितम् अप्रकाशितं निखिलानामाशानां मण्डलं येन तथा । मलिनम् ; नीलम् । अतिमहीयः ; अन्त्यन्तमहत् । तमिस्रा कश्मलम् ; तमिस्रा

त्रयीमयं किमपि महो विजृम्भते

X६९६
तम एव कश्मलम् । रश्मिमाली अमोघैः करौघैः मङ्क्षु सहसा कलयति नाशयति ॥ २६ ॥

प्रभाविलासः - २६

दिवीति । दृष्टिरोधे ; दर्शननिरोधे, ज्ञाननिरोधे च । मुकुलितनिखिलाशामण्डलम् ; अप्रकाशितसकलदिङ्मण्डलम् ; अन्यत्र निखिले निरस्तखिले परिपूर्णे ईश्वरे मुकुलिताभिलाषमण्डलम् । तमिस्राकश्मलम् ; कश्मलसदृशतमिस्रां तमिस्रासदृशकश्मलं च । करौघैः ; किरणौघैः, तेजोविशेषैश्च । अंशुमाली; सूर्यः, ज्ञानी च । मलिनम् ; नीलं, पापं च ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

तदिह रामरावणरणावलोकनरसश्चिरातिवृत्तोऽपि30 नियतिवृत्त्या पुनरिदानीमस्माकं प्रादुर्भविष्यति । यदिह महामोहदम्भदर्पादयो विवेकव्यवसायादिभिर्योत्स्यन्ते । अद्य चातिगाढवैर मूलस्याहवानोकहस्य फलं हस्तापचेयं भविष्यति विवेकस्य । तथा हि-

देवा कल्पित देवदानवचमूनासीरमासीदतो-

रारब्धे तु विवेकमोहनृपयोरायोधनैकोत्सवे

वैलक्षण्यनिरूपणप्रहरणो बिभ्रत्प्रमाकङ्कटं

जेतासौ जगदन्धकारमितरं देवो विवेकेश्वरः ॥ २७ ॥

मूलम् - २७

प्रभावली - २७

आदि-

चिरातिवृत्तः ; चिरातिक्रान्तः । रामरावणयोः प्रवृत्तं युद्धं, तदवलोकनजनितो रसः रामरावणरणावलोकनरसः । नियतेः दैवस्य वृत्त्या व्यापारेण । इदानीं पुनः प्रादुर्भविष्यति । यत्; यस्मात् । महामोहदम्भदर्पादयः ; शब्देन कामक्रोधादयो गृह्यन्ते । विवेकव्यवसायादिभिः ; अत्रादिशब्दः शमदमादीनां ग्राहकः । योत्स्यन्ते; युद्धं करिष्यन्ति । अतिगाढं वैरमेव मूलं यस्य तस्य । आहव एव अनोकहः । तस्य फलं जयः । विवेकस्य हस्तापचेयं भविष्यति । अस्मिन् युद्धे विवेकस्यैव जयो भविष्यतीति भावः । तदुपपादयति द्वेधेत्यादि । द्वेधा; द्विप्रकारेण । कल्पितयोः इयं देवानाम्, इयं दानवानामिति विभक्तयोः चम्वोः । नासीरम् ; अग्रम् । आसीदतोः; आगच्छतोः । अनयोर्देवदानंवचमूत्वं विवेकादीनां देवप्रकृतित्वात् महामोहादीनामसुर प्रकृतित्वाच्च । विवेकमोहरूपयोः

X६९७
नृपयोः, आयोधनमेव एकः मुख्यः उत्सवः तस्मिन् आरब्धे सति । वैलक्षण्यस्य चिदचिदीश्वराणां परस्परवैलक्षण्यस्य निरूपणमेव प्रहरणम् आयुधं यस्य तथा । प्रमा; समीचीनं ज्ञानम् । तदेव कङ्कटं वर्म बिभ्रत् विवेको वीरः । जगदन्धकारम्; जगतामज्ञानजनकम् । इतरम्; मोहम् । जेता; जेष्यति ॥ २७ ॥

प्रभाविलासः - २७

अनोकहः ; वृक्षः । द्वेधेति । आसीदतोः ; प्राप्तवतोः । वैलक्षण्यस्य भेदस्य निरूपणमेव प्रहरणं यस्य स तथोक्तः । प्रमैव कङ्कटं कवचं यस्य सः ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

ततश्च,

विद्याभेदैरुपचयवतां वेदकल्पद्रुमाणां

व्यक्तोल्लासद्विजपरिबृढव्याप्तशाखाशतानाम्31

श्रेयोमार्गप्रतिभयजितः32 श्रीविवेकस्य मौलौ

भूयो भूयः सपदि भविता भूयसी पुष्पवृष्टिः ॥ २८ ॥

मूलम् - २८

ततश्च,

विद्याभेदैरुपचयवतां वेदकल्पद्रुमाणां

व्यक्तोल्लासद्विजपरिबृढव्याप्तशाखाशतानाम्31

श्रेयोमार्गप्रतिभयजितः32 श्रीविवेकस्य मौलौ

भूयो भूयः सपदि भविता भूयसी पुष्पवृष्टिः ॥ २८ ॥

प्रभावली - २८

ततः; महामोहजयानन्तरम् । विद्यानां सद्विद्यादीनां भेदेः । उपचयवताम् ; वृद्धिमताम् । व्यक्त उल्लासः सन्तोषो येषां ते व्यक्तोल्लासाःः ते च ते द्विजपरिवृढाश्च तैः व्याप्तानि शाखाशतानि येषां तेषाम् । वेदा एव कल्पद्रुमाः, तेषाम् । द्विजाः ; ब्राह्मणाः पक्षिणश्च । श्रेयसो मार्गः, तस्य यत्प्रतिभयं, तज्जितः तदपहन्तुः श्रीविवेकस्य मौलौ मूर्ध्नि भूयसी अधिका पुष्पाणां वृष्टिः भूयो भूयः पुनः पुनः भविता भविष्यति ॥ २८ ॥

प्रभाविलासः - २८

विद्येति । विद्याभेदाः; दहरवैश्वानरादयः । व्यक्तोल्लासेन स्फुटमनः प्रसादेन द्विजपरिबृढेन व्यासेन व्याप्ताभिः विस्तृताभिः व्यस्ताभिः । यथोक्तम्——

" ततोऽत्र मत्सुतो व्यासस्त्वष्टाविंशतिमे युगे ।

वेदमेकं चतुष्पादं चतुर्धा व्यभजद्विभुः ॥ "

इति । अन्यत्र द्विजपरिवृढैः पक्षिश्रेष्ठैः व्याप्तानि शाखाशतानि येषां ते प्रतिभयं भीतिं जयतीति तथोक्तः, तस्य ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

तुम्बुरुः–भगवन्, अव्यवस्थिता हि युद्धसिद्धिः । तत्कथमेवं सम्प्रधार्यते ?

नारदः — ( सहर्षम् ) सखे,

कथ्यते न मया मिथ्या किं वा सन्द्रक्ष्यसे स्वयम् ।

दर्पणं किमपेक्षन्ते कङ्कणस्य निरीक्षणे ॥ २९ ॥

मूलम् - २९

तुम्बुरुः–भगवन्, अव्यवस्थिता हि युद्धसिद्धिः । तत्कथमेवं सम्प्रधार्यते ?

नारदः — ( सहर्षम् ) सखे,

कथ्यते न मया मिथ्या किं वा सन्द्रक्ष्यसे स्वयम् ।

दर्पणं किमपेक्षन्ते कङ्कणस्य निरीक्षणे ॥ २९ ॥

प्रभावली - २९

X६९८
युद्धसिद्धिः ; युद्धे जयसिद्धिरित्यर्थः । अव्यवस्थिता ; एकत्रैव व्यवस्थिता न भवति । तत्; तस्मात् । कथमेवं सम्प्रधार्यते ; निश्चीयते । कथ्यत इति । मया मिथ्या न कथ्यते ; सत्यमेवोच्यत इत्यर्थः । किं वा ; वक्तव्यमिति शेषः । कुतः ? सन्द्रक्ष्यसे स्वयम् ; त्वं स्वयमेव द्रक्ष्यसि । उक्तार्थे दृष्टान्तमाह — कङ्कणेति ! कङ्कणस्य, हस्ते बद्धस्य । निरीक्षणे ; अवलोकने । दर्पणमपेक्षन्ते किम् ? पुरुषा इति शेषः । यथा कङ्कणनिरीक्षणे दर्पणापेक्षा नास्ति, तथा त्वयापि स्वयमेव द्रष्टुं शक्ये विवेकविजये मद्वचनापेक्षा नास्तीति भावः ॥ २९ ॥

प्रभाविलासः - २९

उपरितनटीकायामन्तर्गता॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

(नेपथ्ये महान् कलकलः ; उभौ सचमत्कार33 कौतुकमाकर्णयतः )

नारदः ( सहर्षम् ) सखे, आगतोऽयमनेकधा कर्णास्वादः ।यदुत,

पणवमड्डुकमद्दलजर्झरीमुरखडिण्डिमदुन्दुभिसम्भवः ।

त्रिदिवगोपुरसन्धिविभेदनः प्रसभमुत्पतति ध्वनिरद्भुतः ॥ ३० ॥

मूलम् - ३०

प्रभावली - ३०

अथ विवेकमहामोहयोः समरं प्रस्तौति नेपथ्य इत्यादिना । कोलाहलः ; अभवदिति शेषः । उभौ ; तुम्बुरुनारदौ । कर्णास्वादः ; ध्वनिविशेषः । तद्दर्शयति — पणवेति । पणवादयो वाद्यविशेषाः । त्रिदिवः ; स्वर्गः, तस्य यद्गोपुरं नगरद्वारं, तस्य सन्धिविभेदनः । प्रसभम् ; बलात्कृत्य ॥ ३० ॥

प्रभाविलासः - ३०

पणवेति । पणवादयो वाद्यभेदाः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

तुम्बुरुः –( सहर्ष कौतुकम् ) अहो, समरारम्भस्य सन्दर्शनीयता । अत्र हि -

नीरन्धं व्योमरन्ध्रं भवति कुलगिरिस्तोमतुङ्गैः शताङ्गै-

र्जाघट्यन्ते मदान्धा दिशि दिशि करिणः कल्पजीमूतकल्पाः ।

घोराणां घोटकानां खुरपुटरटितैस्त्रुट्यतीव त्रिलोकी

प्रत्युड्डीयन्त एते प्रतिगतिषु34 मिथः पत्तयस्त्यक्तदेहाः35 ॥ ३१ ॥

मूलम् - ३१

प्रभावली - ३१

X६९९
दर्शनीयतां दर्शयति — नीग्न्धमिति । कुलपर्वतवदुन्नतैः शताङ्गैः रथैः व्योमरन्ध्रम् आकाशावकाशः निबिडं व्याप्तं भवति । मदान्धाः करिणः दिशि दिशि जाघट्यन्ते; युद्धाय गच्छन्तः सम्मर्दात् भृशं घटन्ते, सान्द्रा भवन्ति । घोटकानां वाजिनां खुरपुटशब्देः त्रिलोकी त्रुट्यतीव; छिद्यत इवेति भावः । पत्तयः सुभटाः उपेक्षितदेहाः सन्तः प्रतिगतिषु शत्रूणां प्रतिगमनेषु प्रत्युड्डीयन्ते ; उत्प्लुत्य वेगादाकाशे सञ्चरन्ति । यद्वा प्रतिगतिषु शत्रुषु उत्प्लुत्य निपतन्ति ॥ ३१ ॥

प्रभाविलासः - ३१

नीरन्ध्रमिति । शताङ्गैः; रथैः । जाघट्यन्ते ; घटिताः क्रियन्ते ।कल्पः ; प्रलयः । घोटकानाम् ; तुरगाणाम् । रटितानि शब्दाः । त्रुट्यतीव; स्फुटतीव । पत्तयः ; भटाः । प्रतिगतिषु ; अभिमुखगमनेषु ।

प्रत्युड्डीयन्ते ; प्रत्युत्थिता भवन्ति ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

अपि च महानयं प्रवृत्तः शस्त्रसम्पातः । एकीभूते इव च मिथः प्रतिरोधाद्विवेकमोहवाहिन्यौ । निर्वर्त्यते चायमाकालिको निशीथः36 । यतः,
सूचिभेद्यतिमिरोपलम्भने मेदिनीरजसि मेघमेदुरे ।

श्रूयते कलकलं37 महीयसी वाहिनी रणखलापवाहिनी ॥ ३२ ॥

मूलम् - ३२

प्रभावली - ३२

शस्त्राणां बाणादीनां सम्पातः । मिथः प्रतिरोधात्; अन्योन्योपरोधात् । वहिन्यौ ; चम्वौ । आकालिकः ; अकालसम्भवः । निशीथः ; अर्धरात्र-

X७००
समयः । सूचीति । मेघसान्द्रे युद्धभूमिरजसि सूच्या भेद्यस्य सान्द्रस्य तिमिरस्य उपलम्भने सम्पादके सति । रण एव खलं, तस्यापवाहिनी तिरोधायिनी महीयसी वाहिनी कलकलं यथा तथा श्रूयते । न दृश्यत इति भावः ॥ ३२ ॥

प्रभाविलासः - ३२

सूचिभेद्येति । सूचिभेद्यतिमिरोपलम्भने सान्द्रतमः प्रापके ।

। ; मेघमेदुरे; मेघवत् मेदुरे । रणखलापवाहिनी; रणे खलानपवाहयति नाशयतीति तथा । वाहिनी ; सेना । कलकलं यथा तथा श्रूयते । यद्वा कलकलं कर्तृ श्रूयते । वाहिनी महीयसीति वाक्यभेदेन योजना ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

किञ्च,

क्षतजमधु रणस्थैर्दत्तमुत्तम्भिताभ्रध्वजपटपुनरुक्तस्वर्धुनीकैरनीकैः38

पलभुज इह जाग्रन्नन्दथूनां वधूनां पृथुकरटिकरोटीकर्परैरर्पयन्ति ॥ ३३ ॥

मूलम् - ३३

किञ्च,

क्षतजमधु रणस्थैर्दत्तमुत्तम्भिताभ्रध्वजपटपुनरुक्तस्वर्धुनीकैरनीकैः38

पलभुज इह जाग्रन्नन्दथूनां वधूनां पृथुकरटिकरोटीकर्परैरर्पयन्ति ॥ ३३ ॥

प्रभावली - ३३

रक्षः पिशाचादयः स्ववधूभ्यो रक्तमधु शिरः कपालैरर्पयन्तीत्याहक्षतजेति । इह पलभुजः; रक्षः पिशाचाः । उत्तम्भितेत्यादि । उत्क्षिप्तानि अग्राणि येषां तैः ध्वजपटैः पुनरुक्ता तिरस्कृता स्वर्नदी आकाशगङ्गा यैस्तैः । अनीकैः दत्तम् ; तेभ्यः प्रसृतमित्यर्थः । विकसदानन्दानां स्ववधूनां पृथवः करटिनां गजानां करोट्यः शिरोऽस्थीन्येव कर्पराः कपालाः तैः । अर्पयन्ति ; ददति ॥ ३३ ॥

प्रभाविलासः - ३३

क्षतजेति । क्षतजं रुधिरमेव मधु मद्यम् । उत्तम्भिताभ्रैः उत्क्षिप्तमेघैः ध्वजपटैः पुनरुक्ता स्वर्धुनी आकाशगङ्गा यैस्तैः । अनीकैः; सैन्यैः । पलभुजः; मांसभुजः राक्षसाः । जायन्नन्दथूनाम् ; उद्बुध्यमानानन्दानाम् । वधूनाम् स्त्रीणाम् । पृथुकरटिकरोटीकर्परैः ; विशालगजशिरोऽस्थिकपालैः । अत्र वीररसो व्यङ्ग्यः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

नारदः — सखे, न तृप्यत्यद्य मे किमिदमिति कुतूहलोल्लसितं चक्षुः । इह हि-

पत्तीनुद्यद्विपत्तींस्त्रुटितपृथुशिरःकन्धरान्सिन्धुरेन्द्रान्

वाहानाकीर्णदेहान् व्यतिहनन मिथः खण्डिताङ्गाञ्शताङ्गान् ।

शस्त्राशस्त्रिप्रसङ्गप्रभवचटचटारावघोरप्रचाराः

कुर्वन्त्युद्दामगर्वाः कृतिन इह रणे विक्रमैरक्रमेण ॥ ३४ ॥

मूलम् - ३४

प्रभावली - ३४

X७०१
अथ सङ्कीर्णयुद्धं वर्णयति पत्तीनिति । इहोद्दामगर्वाः ; अभङ्गुरगर्वाः । कतिचन कृतिनः ; समर्थाः । शस्त्रैः शस्त्रैः प्रतिहत्य योधनं शस्त्राशस्त्रि, तस्य प्रकर्षेण सङ्गः, तत्प्रभवचटचटाशब्देन घोरः भयङ्करः प्रचारो येषाम् । अक्रमेण विक्रमैः पत्तीन् उद्यद्विपत्तीन् प्राप्तविपदः । सिन्धुरेन्द्रान् ; गजेन्द्रान् । त्रुटितं छिन्नं पृथुशिरश्च कन्धरा च पृथुशिरः कन्धरं येषां तान् । वाहान् ; अश्वान् । समन्तात् विप्रकीर्णदेहान् । शताङ्गान् ; रथान् । प्रतिहननेन अन्योन्याभिघातात् मिथः खण्डिताङ्गान् परस्परं खण्डितचक्राद्यवयवान् कुर्वन्ति ॥ ३४ ॥

प्रभाविलासः - ३४

पत्तीनिति । उद्यद्विपत्तीन; प्राप्तव्यसनानित्यर्थः । चटचटेति

तुकारशब्दः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

अपि च,

एतस्य सम्भृतविवेकविमोहभूम्नः

सेनायुगस्य समराङ्कणसम्भ्रमेण ।

प्रायेण सम्प्रति विकल्पितया स्ववृत्त्या

दोलाधिरोहणरसं लभते जयश्रीः ॥ ३५ ॥

मूलम् - ३५

अपि च,

एतस्य सम्भृतविवेकविमोहभूम्नः

सेनायुगस्य समराङ्कणसम्भ्रमेण ।

प्रायेण सम्प्रति विकल्पितया स्ववृत्त्या

दोलाधिरोहणरसं लभते जयश्रीः ॥ ३५ ॥

प्रभावली - ३५

सैन्ययोः पर्यायेण जयश्रीर्दृश्यत इत्याह-एतस्येति । समराङ्कणे यः

X७०२
सम्भ्रमः तेन । सम्भृत विवेकविमोहभूनः ; सम्पादितं विवेकविमोहयोर्महत्वं येन तस्य । सेनाद्वयस्य जयश्रीः विकल्पितया स्ववृत्त्या कदाचित् जयश्रीर्विवेकसैन्ये, कदाचिन्मोह सैन्य इति स्वस्या वृत्तिविकल्पनेन । प्रायेण डोलारोहणरसं लभते ; नैकत्र जयो निश्चेतुं शक्य इति भावः ॥ ३५ ॥

प्रभाविलासः - ३५

एतस्येति । सम्भृतविवेकविमोहभूम्नः ; सम्पादितविवेक विमोह-
विभवस्य । प्रायेण; बाहुल्येन । विकल्पितया; विवेके विमोहे वेति विकल्पवत्त्या । स्ववृत्त्या ; स्वस्थित्या ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

तुम्बुरुः – (सबीभत्सम् ) अयमिह कश्चित् क्रव्यादडिम्भो डिम्भमाकर्षन्नित्थं भाषते -

शोहर शुभ शहाए एलिशलोहाइमालणशमत्थे39

एशे अशुलहशोलहल हिलशुहाशालशीअले शङ्खे’

इति ।

(शोभते सुमतिसहाय ईदृशलोभादिमारणसमर्थः । एषोऽसुलभ सौरभरुधिरसुधासारशीतले सङ्ख्ये ॥ ) ॥ ३६ ॥

मूलम् - ३६

प्रभावली - ३६

बीभत्सः ; जुगुप्सा । क्रव्यादडिम्भः ; पिशाचार्भकः । डिम्भम् ; मृतबालशरीरम् । शोहइ शोभते । शुमशहाए सुमतिसहायः । एलिशलोहाइमालणशमत्थे ईदृशलोभादिमारणसमर्थः । एशे एषः । अशुलहशोलह असुलभसौरभ । लुहिलशुहाशालशी अलेरुधिरसुधासारशीतले । शङ्खेसङ्ख्ये । असुलभं सौरभं परिमलो यस्याः सा रुधिरसुधा, तस्या आसारेण शीतले रणे ईदृशाः महापराक्रमिणः ये लोभादयः, तेषां नाशनसमर्थ एष विवेकः सुमतिसहायः सन् शोभत इत्यर्थः ॥ ३६ ॥

प्रभाविलासः - ३६

डिम्भः; शिशुः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

.
इयं च काचन पिशाची सन्तोषादेवमाह40 -

’ पणममि विवेअदेव्वं पकुविदपडिपक्खपडिमहणप्पहणम् ।

सोणिअणवमहुपत्र हे सुज्जं व समग्गलग्गपडिमाणम् ’ ॥

इति ।

(प्रणमामि विवेकदेवं प्रकुपितप्रतिपक्षप्रतिमथनप्रधनम् ।

शोणितवमधुप्रवाहे सूर्यमिव समग्र प्रतिमानम् ॥ )॥ ३७ ॥

मूलम् - ३७

प्रभावली - ३७

X७०३
पणममि-प्रणमामि । विवेअदेव्वं विकेकदेवम् । पकुविद पडिपक्खप्रकुपितप्रतिपक्ष । पडिमहणप्पहृणं प्रतिमथनप्रधनम् । सोणिअणवमहुपवहे शोणितनवमधुप्रवाहे । सुज्जं व सूर्यमिव । समग्गलग्गपडिमाणंसमग्रलग्न प्रतिमानम् । प्रकुपित प्रतिपक्षस्य प्रतिमथनं नाशकं प्रधनं युद्धं यस्य । शोणितनवमधुप्रवाहे समग्रलग्न प्रतिबिम्बं सूर्यमिव स्थितं देवं विवेकं प्रणमामीत्यर्थः ॥ ३७ ॥

प्रभाविलासः - ३७

ससन्तोषम् ; सन्तोषेण सहितं यथा तथा । एवम् ; वक्ष्यमाण-

प्रकारेण ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

नारदः –( दूरतो निर्दिशन् ) सखे, द्वन्द्वयुद्धमिह नूनमुप-

क्रम्यते । अत्र हि -

अभिलाषरथारूढः सुभटो लोभलुब्धकः ।

एकस्त्वरितमाधावत्येकलव्य इवापरः ॥ ३८ ॥

मूलम् - ३८

नारदः –( दूरतो निर्दिशन् ) सखे, द्वन्द्वयुद्धमिह नूनमुप-

क्रम्यते । अत्र हि -

अभिलाषरथारूढः सुभटो लोभलुब्धकः ।

एकस्त्वरितमाधावत्येकलव्य इवापरः ॥ ३८ ॥

प्रभावली - ३८

अथ द्वन्द्वयुद्धं वर्णयन् प्रथमं लोभस्य युद्धागमनं वर्णयति — अभिलाषेति । अभिलाषः ; मनोरथः । लोभलुब्धकः ; लोभव्याधः । एकलव्यः ; महाभारते प्रसिद्धो व्याधः ॥ ३८ ॥

प्रभाविलासः - ३८

अभिलाषेति । दुर्जयत्वव्यञ्जनार्थम् एकलव्य इवेत्युक्तम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

तुम्बुरुः अहह,

दुरध्वविहृतिक्षमो दुरपनोददुर्वासना-

सहस्रपृतनौघवानभिनिवेश सत्सारथिः ।

विरुद्धमतिशस्त्रिकाविषमदत्तमूर्च्छादशा-

लुठत्प्रतिभटः परिभ्रमति लोभवीरो युधि ॥ ३९ ॥

मूलम् - ३९

तुम्बुरुः अहह,

दुरध्वविहृतिक्षमो दुरपनोददुर्वासना-

सहस्रपृतनौघवानभिनिवेश सत्सारथिः ।

विरुद्धमतिशस्त्रिकाविषमदत्तमूर्च्छादशा-

लुठत्प्रतिभटः परिभ्रमति लोभवीरो युधि ॥ ३९ ॥

प्रभावली - ३९

X७०४
लोभस्य सैन्यसारथिशस्त्राणि दर्शयति-दुरध्वेति । असन्मार्गविहारसमर्थः । दुरुच्छेदाया दुर्वासनायाः सहस्रैः सैन्यवान् । अभिनिवेश एव सत्सारथिर्यस्य सः । विरुद्धमतिः; विपरीतज्ञानम् । तदेव शस्त्रं तेन विषमं यथा तथा दत्तया मूर्च्छादशया भूमौ विपरिवर्तमानाः प्रतिभटाः यस्य । लोभवीरः युधि परिभ्रमति ॥ ३९ ॥

प्रभाविलासः - ३९

दुरध्वेति । विरुद्धमतिः; विपरीतज्ञानम्, तदेव शस्त्रिका, तया विषमं यथा तथा दत्तया मूर्च्छया दशया लुठन्तः प्रतिभटा यस्य सः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

नारदः (सान्तसम्)

द्रविणपरिणामरूपं जगदिदमविभज्य लब्धमप्येषः ।

बनन् कुसीदकुहनां बहुगुणयितुमीहते भूयः ॥ ४० ॥

मूलम् - ४०

नारदः (सान्तसम्)

द्रविणपरिणामरूपं जगदिदमविभज्य लब्धमप्येषः ।

बनन् कुसीदकुहनां बहुगुणयितुमीहते भूयः ॥ ४० ॥

प्रभावली - ४०

द्रविणेति । अर्थपरिणामात्मकं जगत् अविभज्य कस्याप्यंशमदत्वा स्वस्यैव लब्धमपि । एषः ; लोभः । कुसीदम ; वृद्धयै प्रदानम् । तदपि कुहनारूपम् । तत् कुर्वन् भूयोऽपि बहुगुणीकर्तुमीहते । अपर्याप्तोदर इत्यर्थः ॥ ४० ॥

प्रभाविलासः - ४०

द्रविणेति । अविभज्य ; ग्राह्यगुणदोषविचारमन्तरेण । लब्धम् ; आर्जितम् । कुसीदम्; वृद्धिः ; तस्य कुहनाम्; मध्याह्नवारमासादिना वृद्धिबहुत्वपरिभाषाम् ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

तुम्बुरुः — भगवन्, दृष्टमिदानीमप्यस्य दुःशकदुरन्तविषय-

विजिगीषोद्योगेन ।

नारदः -सखे, आश्चर्यमाश्चर्यम् । अदोषागमसमयेऽप्यमृतकिरणसन्दोहेन सम्प्लुतमिव त्रिभुवनमखिलमवलोक्यते । नूनं कयाचिदवदातप्रकाशया देवतया प्रादुर्भूतया भवितव्यम् । (सूक्ष्मं निर्वर्ण्य) आलक्षितोऽयमाश्चर्यसम्भवः । यथा—

सैषा पञ्चमुखी तुष्टिः शेषसृष्टिरिवापरा ।

अतर्कितमुपस्थाय ग्रसते लोभमूषकम् ॥ ४१ ॥

मूलम् - ४१

प्रभावली - ४१

X७०५
दृष्टम् ;अपर्याप्ताशत्वम् । केन दृष्टमित्यत्राह -दुःशकेनेत्यादि । दुःशकः ; कर्तुमशक्यः । दुरन्तः ; दुरवसानः । यः विषयः, तद्विजिगीषोद्योगेन । अध लोभनिरासिकायास्तुष्ट्या आगमनं वर्णयितुमुपक्रमते आश्चर्यमिति । तेजोविशेषदर्शनादाश्चर्यम् । अदोषेति; प्रदोषागमसमग्राभावेऽपि । इदमाश्चर्यमूलम् । सैषेति । पञ्चमुखी; शब्दादिविषयपञ्चकजनितत्वात् पञ्चसङ्ख्याविशिष्टमुखयुक्ता । अत एवापरा शेषसृष्टिरिव स्थिता । शेषस्य सहस्रशीर्षत्वादियं पञ्चमुख्यपरा सृष्टिः । अतर्कितम् ; सहसा । सर्पो मूषकमिव तुष्टिर्लोभं ग्रसते ॥ ४१ ॥

प्रभाविलासः - ४१

दोषा; रात्रिः । सैषेति । पञ्चेन्द्रियगोचरोपाधिना पञ्चमुख-

त्वम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

तुम्बुरुः — ( सहर्षम् ) भगवन् सम्प्रति लोभविध्वंसनेन लुप्तलोकायतमिव लोकमवलोकयामि । अद्य हि,
प्रशस्तिं विन्दन्ति प्रशमसुखदिव्यामृतरस-

प्रलीनोदन्यानां परिषदि न सम्पत्तिसरितः ।

अमित्रोपक्षेपक्षणविगलदात्मीयपृतना-

दृढामर्दत्रस्यद्द्रमिडभटजङ्घाजवभृतः ॥ ४२ ॥

मूलम् - ४२

प्रभावली - ४२

लुप्तलोकायतमिव ; चार्वाकमतस्य लोभमूलकत्वात् लोभध्वंसेन चार्वाकमतभङ्गो जात इति भावः । लोभविनाशे मुमुक्षूणां फलसिद्धिं वर्णयति–

X७०६
प्रशस्तिमिति । सम्पत्तय एव सरितः; शीघ्रगामित्वात् सरित्वेन रूपणम् । प्रशमजनितसुखमेव दिव्यामृतरसः, तेन प्रशान्तपिपासानां विरक्तानां गोष्टीषु प्राशस्त्यं न गच्छन्ति । कीदृश्य इत्यत्राह अमित्रेति । अमित्राणां समीपोपसर्पणसमये पलायमानायाः स्वसेनायाः दृढामर्देन त्रस्यतां द्रमिडभटानां जङ्घायाः यो जवः तं बिभ्रतीत्यर्थः । लोभशमनस्य वैराग्योत्पत्तिः फलमिति भावः ॥ ४२ ॥

प्रभाविलासः - ४२

प्रशस्तिमिति । प्रशमसुखम् ; शान्तरसानुभवः । उदन्या ; विषयाभिलाषः । क्षीरोदनलाभात्कणस्त्यज्यते ’ इति न्यायेनामृतरसलाभे केवलजलपानं न रोचत इति निःसारत्वादिति वक्तुं सम्पदां सरित्त्वरूपणम् । अमित्रैरुपक्षेपेण भञ्जनेन क्षणे क्षणमात्रे विगलन्त्याः पलायमानायाः आत्मीयपृतनायाः दृढामर्देन अधिकसम्मर्देन त्रस्यतां द्रविडभटानां जङ्घाजवं विभ्रतीति तथोक्ताः । अनेन सम्पदामाशुतरविनाशित्वमुक्तम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

अपि च,

प्रशमितलोभ मिदानीं प्रौढविवेकप्रयुक्तया तुष्ट्या।

धनमनघनीतिसिद्धं जातं सर्वत्र दत्तभुक्तफलम् ॥ ४३ ॥

मूलम् - ४३

अपि च,

प्रशमितलोभ मिदानीं प्रौढविवेकप्रयुक्तया तुष्ट्या।

धनमनघनीतिसिद्धं जातं सर्वत्र दत्तभुक्तफलम् ॥ ४३ ॥

प्रभावली - ४३

लोभशमने बुभुक्षूणां फलमाह — अपिचेति । प्रौढविवेकप्रयुक्तया तुष्ट्या

X७०७
प्रशमितलोभं धनम् अपगतदोषेण न्यायेनार्जितं सत् सर्वत्र जने दत्तं भुक्तं च फलं यस्य तत् जातम् ॥ ४३ ॥

प्रभाविलासः - ४३

प्रशमितेति । अनघनीतिसिद्धम् ; निर्दोषन्यायार्जितम् । दत्तभुक्तफलमिति ; अनेन
“अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।

रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥”

इति व्यञ्जितम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

नारदः –नन्वसावपरीक्षितलोकवृत्तान्तानामविवेकिनामेव लुप्तसर्वगुणो लोभः ।

ब्रह्मायुतायुतविभूतिरपि ह्यपूर्णः41

कल्पायुतायुतशतायुरपि व्यतीयात् ।

नागायुतायुतसहस्रवलोsपि बाध्यः

किं तद्भवेद्यदिह किञ्चन लोभयोग्यम् ॥ ४४ ॥

मूलम् - ४४

प्रभावली - ४४

पुनरपि लोभं दूषयितुं पीठिकामाह नन्यसाविति । अविवेकिन एव लोभं परिगृह्णन्ति, न तु विवेकिन इत्यर्थः । विवेकिनां लोभोऽपरिग्राह्य इत्याहब्रह्मेति । ब्रह्मणामयुतायुतस्य विभूतिरिव विभूतिर्यस्य सोऽपि लोभाक्रान्तः अपूर्णः दरिद्रो भवति । कल्पायुतायुतस्य शतमायुर्यस्य सोऽपि व्यतीयात् नाशं प्राप्नुयात् । एतावतायुषापि तृप्तिर्नास्तीत्यर्थः । नागाः गजाः, तेषामयुतायुतसहस्रवलोsपि केनचित् बाध्यो भवति । एतावता बलेनापि तृप्तिर्नास्तीत्यर्थः । अत इह जगति लोभयोग्यम् ’ इदं भवतु’ इति काङ्क्षितुं योग्यं यत् तत् किम् ? किमपि नास्तीत्यर्थः ॥ ४४ ॥

प्रभाविलासः - ४४

ब्रह्मेति । " स एकः प्रजापतेरानन्दः " इत्यादिना सर्वातिशायित्वं व्यञ्जयितुं ब्रह्मेत्युक्तिः । नागः ; गजः ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

अद्य तु लोभविध्वंसादवधीरितलाभान्तरा परिहृतप्रत्यूहा बुद्धिः परमपुरुषपदकमलपरिचरणमेव परं धनमभिनिविशते ।

अपि च,

नलनहुषमुखानां नाकलोकेश्वराणा-

मपि नलिनभवानामस्मदग्राह्यभून्नाम् ।

अगणितमुपनन्त्रीमापदं प्रेक्ष्य विभ्यत्

कचिदिह न विधत्ते कौतुकं जातु कश्चित् ॥ ४५ ॥

मूलम् - ४५

प्रभावली - ४५

X७०८
अवधीरितलाभान्तरा ; व्यक्तेतरलाभा । अत एव परिहृतसर्वविघ्ना पुरुषस्य बुद्धिः । अभिनिविशते ; दृढमाकाङ्क्षते । विषयेषु सतृष्णानां सर्वेषां बह्वापद्दर्शनात् विषयतृष्णा हेतुभूतलोभत्याग एव श्रेयानित्यभिप्रायेणाह नलेति । अस्माभिर्ज्ञातुमशक्यमहिम्नाम् अगणितम् अतर्कितं यथा तथा स्वयमापतन्तीं विपदं प्रेक्ष्य बिभ्यत् कश्चित् पुमान् मुमुक्षुः इह जगति कचित् वस्तुनि अभिलाषं न विधत्ते ॥ ४५ ॥

प्रभाविलासः - ४५

नलेति । दमयन्तीवियोगादिकमभिप्रेत्य नलग्रहणम् । बहुवित्तव्ययायासचिरकालक्लेश कृतफलभोगसमये क्षणमात्रेणागस्त्यशापेन भोगभङ्गमभि प्रेत्य नहुषपदोपादानम् । मुखपदेनेन्द्रादयः । स हि ब्रह्महत्याहल्या स्वैरादिषु बहुविपदमन्वभूत् । मधुकैटभ सोमका दिभिर्वेदापहारादिपीडामभिप्रेत्य नलिनभवग्रहणम् । तत्रापि पूर्वपूर्वचतुर्मुखनाश एवोत्तरोत्तर चतुर्मुखोत्पत्तिरिति बहुवचनोपादानम् । क्वचिदिति ;

नातिस्नेहः प्रसङ्गो वा कर्तव्यः कापि केनचित् । कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥

इति स्मारितम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

किञ्च,

अपैति पुरुषायुषं निमिषनिर्विशेषं नृणां

तृणाग्रजलविन्दुवत्प्रतिकलं गलन्ति श्रियः ।

तथापि नृपमन्दिरप्रघणसीम्नि सङ्क्षीयते

महानहह देहिनां द्रविणमोहदाहज्वरः ॥ ४६ ॥

मूलम् - ४६

किञ्च,

अपैति पुरुषायुषं निमिषनिर्विशेषं नृणां

तृणाग्रजलविन्दुवत्प्रतिकलं गलन्ति श्रियः ।

तथापि नृपमन्दिरप्रघणसीम्नि सङ्क्षीयते

महानहह देहिनां द्रविणमोहदाहज्वरः ॥ ४६ ॥

प्रभावली - ४६

X७०९
वैराग्यजननार्थं पुनरपि लोभं निन्दति अपैतीति । पुरुषायुषम् ; शतवर्षम् । निमिषनिर्विशेषम् ; निमिषो यथा शीघ्रं गच्छति तद्वत् । सम्पदश्च प्रतिकलम् अनुक्षणं नश्यन्ति । एवं सत्यपि राजमन्दिर बहिर्भागसीम्नि पुरुषः सङ्क्षीयते । अनेन फलसिद्धौ संशयः, सङ्क्षयस्तु निश्चित इति गम्यते । देहिनां द्रविणमोहः द्रविणलोभः, स एव तापज्वरः, महान् । अहहेति खेदे ॥ ४६ ॥

प्रभाविलासः - ४६

अपैतीति । पुरुषायुषम्; शतमायुः,“शतायुः पुरुषः " इतिश्रुतेः ।

तृणाति सत्ताक्षणेऽपि पतनभीत्यनुवृत्तिर्दर्शिता । सङ्क्षीयते ;

जनैरिति शेषः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

तद्वयं च नैराश्यमेव परमं सुखमुपतिष्ठामः42 । ततश्च,

उत्ताल द्विपकर्णतालतरलप्रस्थानदुःस्थासिका-

नित्यातङ्कतरङ्गितं विजहतस्त्रैविष्टपानां पदम् ।

प्रत्यूढापद नन्तसम्पदुदयं पद्मापतेस्तत्पदं

प्रत्यादिष्टपुनर्भवं परिहृतावद्यं प्रपद्येमहि ॥ ४७ ॥

मूलम् - ४७

प्रभावली - ४७

नैराश्यफलमाह — उत्तालेति । उत्तालः उन्नतः स चासौ द्विपश्च, तस्य कर्णतालयोः उपरि तरलं प्रस्थानं, तस्य दुःस्थासिकया दुष्प्रतिष्ठया आसि-

X७१०
. कया जातो यो नित्यातङ्कः सार्वकालिकं भयं तेन तरङ्गितं परिपूर्णम् । त्रैविष्टपानां पदम् देवानां स्थानं ब्रह्मलोकादिकम् । परश्रीदर्शनतापेन पातभिया च विजहतः वयम् । प्रत्यूढापत्; निर्गतापत् । अनन्ताः सम्पदुदया यत्र । प्रत्याख्यात पुनर्भवम्ः पुनर्जन्मरहितम् । श्रियः पत्युः तत् परमं पदं चरणारविन्दं शरणं गच्छेम । यद्वा परमं परं पदं लोकं श्रीवैकुण्ठं प्राप्नुयाम ॥ ४७ ॥

प्रभाविलासः - ४७

नैराश्यमेवेति ; " आशा हि परमं दुःखं नैराश्यं परमं सुखम्” इति स्मारितम् । उत्तालेति । उत्तालद्विपकर्णतालवत् तरलेन प्रस्थानेन,
गतागताभ्यामित्यर्थः ; दुःस्थासिकया दुष्प्रतिष्ठया जातेन नित्यातङ्केन तरङ्गितम् । प्रत्यूढापत्; निरस्तविपत् ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

तुम्बुरुः — ( ससम्भ्रममवलोक्य) भगवन्, अयमिह पुनः कश्चिदसह्यवेगो महावीरः प्रशिथिलसङ्घटितपलायमानां लोभवाहिनीं मुखरितहरिता घोषेण मुहुर्मुहुः प्रत्याश्वासयन् मुग्धामध्याप्रगल्भाभिवरूथिनीभिरनुगतो’43 विवेकाभिमुख उपसर्पति । कतमः कीदृशो ऽयमिति न विजानामि ।

नारदः — सखे,

महितमधुप्रदिष्टमधुदिग्धविचित्रशरः

परभृतवन्दिमान् भ्रमरसंहतिगीतगुणः ।

मलयमरुत्सखो मकरलक्षण केतुरसौ

धृतधनुरभ्युपैति44 मदनः प्रमदापृतनः ॥ ४८ ॥

मूलम् - ४८

प्रभावली - ४८

प्रशिथिलां, पुनः समाश्वसिताम्, अथापि पलायमानां लोभस्य सेनां

X७११.
शब्दायमानदशदिशा घोषेण समाश्वासयन् मुग्धाः आरब्धयौवनाः, मध्यमाः यौवनमध्यस्थाः प्रगल्भाः पूर्णयौवनाश्च ताभिः स्त्रीभिः वरूथिनीभिः सैन्यैः उपगतः काम आयात इत्याहमहितेति । महितो यो मधुः चैत्रमासः, तेन दत्तं यन्मधु पुष्परसः तेन दिग्धाः विशित्राः शराः यस्य ; पुष्पत्राण इत्यर्थः । परभृताः कोकिलाः, वन्दिन इव, तद्वान् । भ्रमरसंहतिरेव गीतः शब्दायमानो गुणः मौर्वी यस्य । मलयमरुतः सखा मकरलक्षणकेतुः ; मकरलाञ्छनः केतुर्यस्य सः । काम अभ्युपेति ॥ ४८ ॥

प्रभाविलासः - ४८

मुग्धेति । मौग्ध्यादयो नायिकावस्थाभेदाः । तल्लक्षणमुक्तम्-

" उदयद्यौवना मुग्धा लज्जाविजितमन्मथा ।

लज्जामन्मथमध्यस्था मध्यमोदितयौवना ।

स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना ॥ "

इति । महितेति । मधुः वसन्तः । परभृतवन्दिमानिति कामशास्त्र
प्रसिध्योक्तम्," परिजनपदे भृङ्गश्रेणी पिकाः पटुवन्दिनः" इत्युक्तत्वात् ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

पश्य पश्य सखे, प्रसूनत्राणस्य पारिपार्श्विकसमृद्धिम् ।

काचित्क्रीडति पद्मिनीह पुरतः काप्यन्यतश्चित्रिणी

शङ्खिन्यप्यपरत्र काचिदितरा हस्तिन्यसावन्यतः ।

तस्यैतस्य समृद्धिमेति सरसप्रेक्षा निरूढोदयं

चित्रं मन्त्रिचतुष्टयं त्रिभुवनावस्कन्दिनो धन्विनः ॥ ४९ ॥

मूलम् - ४९

प्रभावली - ४९

पारिपार्श्विकाः परिजनाः । काचिदिति । इह कामस्य पुरतः पद्मिनी; पद्मगन्धिन्यः स्त्रियः; जातावेकवचनम् । अन्यत्र पार्श्वे चित्रिणी, अपरत्र शङ्खिनी, अन्यतः पार्श्वे हस्तिनी । पद्मिन्यादीनां लक्षणं मदनशास्त्रे द्रष्टव्यम् । तस्य कामस्य । सरसा या प्रेक्षा शृङ्गारवीक्षणं, तन्मात्रेण निरूढः प्राप्तः उदयः लोकविजयरूपो यस्य । अत एव आश्चर्यम् । मन्त्रिचतुष्टयम् लोके मन्त्रिभिः षाड्गुण्यादिप्रयोगादुदयः प्राप्यते । अनेन मन्त्रिचतुष्टयेनापाङ्गवीक्षणमात्रेण विजय प्राप्यत इति भावः । मन्त्रिचतुष्टयं समृद्धिमेति ।

X७१२

अपि च,
त्रिभुवनं पराभवितुं शीलमस्येति त्रिभुवनावस्कन्दिनः । धन्विनः ; कामस्य ॥ ४९ ॥

प्रभाविलासः - ४९

काचिदिति । पद्मिन्यादयो जातिविशेषाः । तल्लक्षणं रतिरहस्ये-

“पद्मिनी पद्मगन्धा च मधुगन्धा च चित्रिणी ।

शङ्खिनी क्षारगन्धा च निम्बगन्धा च हस्तिनी ॥ "
इति । " कमलमुकुलमृद्वी" इत्यादिना विशेषेण तासां लक्षणमुक्तम् । विस्तरभयान्न लिख्यते ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

तुम्बुरुः -भगवन्, अत्यासन्नवृत्तिरयमसौ विवेकरथस्य ।

ऋतुस्नाता नृत्तम्लपिततनुरध्वश्रमवती

मदक्षीवा क्रुद्धप्रसदनवती भिन्नघटिता

इदम्पूर्वेत्येवंविधयुवतियूथेन सहितो

युयुत्सत्युन्मत्तः45 स्मर इह विवेकेन महता ॥ ५० ॥

मूलम् - ५०

प्रभावली - ५०

आगत्य विवेकेन योद्धुमिच्छतीत्याह अपिचेति । ऋतौ चतुर्थदिवसे स्नाता । नृत्तेन क्लान्ततनुः । मार्गश्रमखिन्ना । मदेन मत्ता । पूर्व क्रुद्धा पश्चात्प्रसादिता । पूर्वं कलहान्तरिता, अनन्तरं समाहिता । इदम्प्रथमा च । एताः सर्वा

X७१३
वशीकर्त्रा दुर्जया इति भावः । इत्येवङ्कारयुवतिबृन्दैः सहितः विवेकेन योद्धुमिच्छति । उन्मत्त इव किमपि न जानातीत्यर्थः ॥ ५० ॥

प्रभाविलासः - ५०

ऋतुस्नातेति । मदक्षीवा मद्यपानोन्मत्ता । क्रुद्धप्रसदनवती ; प्रणयकलहानन्तरं प्रसन्ना । भिन्नघटिता; वियोगानन्तरं सङ्गता । इदं पूर्वा ; नूतनसम्भोगा । एवंविधयुवतिपदेन एकदिनज्वरिता, एकमासप्रसूता, षण्मासगर्भा उक्ताः । एवमृतुस्नातादीनामुपादानं समरतेन सुखप्रदत्वज्ञापनार्थम् । तदुक्तं कामशास्त्रे -

“अध्वक्लान्ततनुर्नवज्वरवती नृत्तश्लथाङ्गी तथा

मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् ।

विख्याता विरहय्य सङ्गमविधौ क्रुद्धप्रसन्ना ऋतु-

स्नाता नूतनसङ्गमे मधुमदे रागास्पदं योषिताम् ॥

इति ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

नारदः ( सहासम्’46 ) किमस्यानेन दुर्भेदयुवतियूथव्यूहकल्पनेन ?

स्वायत्तसिद्धिविभवस्य47 समग्रशक्तेः

स्वच्छन्दचेष्टितभृतः स्वयमेव योद्धुः ।

किं मुग्धया किमिह मध्यमयात्मयोनेः

किं प्रौढया च जरठापि हि जैत्रमस्त्रम् ॥ ५१ ॥

मूलम् - ५१

प्रभावली - ५१

कामं प्रशंसति— किमस्येति । किं प्रयोजनं युवतियूथैर्व्यूह कल्पनेन ? एतावान् प्रयासो मास्तु; स्वयमसहायशूर इति कामं प्रशंसतिस्वायत्तेति । व्यूहकल्पनं मास्तु । मुग्धादयश्च तिष्ठन्तु । स्वायत्तसिद्धैश्वर्यस्य ; स्वाधीनव्यापारवतः । स्वयमेव युद्धं कुर्वतोऽस्य आत्मयोनेः जरठापि जैत्रमस्त्रं भवति ॥ ५१ ॥

प्रभाविलासः - ५१

स्वायत्तेति । जरठेति पञ्चपञ्चाशदधिकवत्सरा गृह्यते । तदुक्तम्-

बाला स्यात् षोडशाब्दा तदुपरि युवतिर्विशतेर्यावदुर्ध्वं

प्रौढा स्यात्पञ्चपञ्चाशदवधि परतो वृद्धतामेति नारी । " इति ।

अपिपदेन जरठाया अगम्यत्वं स्फोर्यते । तदुक्तं रतिरहस्ये -

“निदाघशरदोर्बाला योग्या विषयिणां भवेत् ।

हेमन्ते तरुणी योग्या. प्रौढा वर्षावसन्तयोः ।

सततं सेव्यमानापि बाला वर्धयते बलम् ।

क्षयं नयत्ययोग्या स्त्री वृद्धा तु कुरुते ज्वरम् ॥ "

इति । जैत्रम् ; जयशीलम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

(नेपथ्ये)

विवेकपरिषत्पुरस्कृतविरक्तिवाराङ्गना-

कचग्रहविचक्षणप्रथितगर्वदोर्विक्रमः ।

रतिप्रियतमः स्वयं रणविहारमारिप्सते

विमुक्तिपुरवर्तनी विपरिवर्तिनीतिस्थितिः48 ॥ ५२ ॥

मूलम् - ५२

(नेपथ्ये)

विवेकपरिषत्पुरस्कृतविरक्तिवाराङ्गना-

कचग्रहविचक्षणप्रथितगर्वदोर्विक्रमः ।

रतिप्रियतमः स्वयं रणविहारमारिप्सते

विमुक्तिपुरवर्तनी विपरिवर्तिनीतिस्थितिः48 ॥ ५२ ॥

प्रभावली - ५२

X७१४
ईदृशः कामः स्वयमेव युयुत्सतीत्याह विवेकेति। विवेकपरिषद्भिः पुरस्कृता या विरक्तिः, सैव वाराङ्गना, तस्याः कचग्र हे विषये विचक्षणः । प्रथितो गर्वेण दोर्विक्रमो यस्य सः । रतिप्रियः रणविहारम् आरब्धुमिच्छति । कीदृशः ? तत्राह विमुक्तीति । विमुक्तिपुरं वैकुण्ठलोकः, तस्य वर्तनी एकपदी भक्त्याद्युपायपरिग्रह, तस्या विघट्टने स्थितः जागरूकः ॥ ५२ ॥

प्रभाविलासः - ५२

विवेकेत्याद्यर्धमेकं पदम् । विमुक्तिपुरस्य परमपदस्य वर्तन्याः एकपद्या मार्गस्य विपरिवर्तिनीतौ विपर्यासन्यायें स्थितः ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

उभौः— (कर्णे दत्त्वा ) विकत्थनमिदं युयुत्सतो49 विषमास्त्रस्य ।

(पुनर्नेपथ्ये)

स्वभर्तव्यं भार्यादुहितृपितृपुत्रमभृतिकं

विसृज्य प्रव्रज्यामुपनिहितवत्यै भवभृतः50

अमुष्ये किं कुर्मो निरवधिकनैर्घृण्यवपुषे

नियत्यै भूयिष्ठं भवतु भगवत्यै नम इदम् ॥ ५३ ॥

मूलम् - ५३

प्रभावली - ५३

विकत्थनम; आत्मश्लाघा वचनम् । कामो विरक्तिं विनिन्दति – स्वभर्तव्यमिति । स्वभर्तव्यम् ; स्वस्यावश्यरक्षणीयं भार्यापुत्रादिकम् । विसृज्य ; त्याज-

.
यित्वा । भवभृतः; संसारिणः । प्रव्रज्याम; सन्न्यासाश्रमम् । दत्तवत्यै । निरवधिक नैर्घृण्यवपुषे ; अतिनैर्घृण्यरूपायै । अमुष्यै; विरक्त्यै । किं कुर्म ; न किमपीति भावः । तामेवं प्रेरितवत्यै नियत्यै नमस्कुर्म इति भावः ॥ ५३ ॥

प्रभाविलासः - ५३

स्वभर्तव्यमिति ।

“वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।

अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥”

इति वचनेन स्वभर्तव्यमित्युक्तम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

X७१५

नारदः -सखे, विडम्बयति चासौ विपयरसवैमुख्यकारिणीं

भगवतीं51 नियतिम् ।

तुम्बुरुः —भगवन् पश्य पश्य । मुषितव्यवसाय इवासौ सम्प्रति समीक्ष्यते52 मुखवैमुख्येन । परिजनश्चास्य साङ्ग्रामिक्यां सिद्धौ साशङ्क इवाभाति । यदुत,

मधुसमयावरोधवदनासवदोहलिनां

वकुलमहीरुद्दामलघुभिः सुमनोभिरिमाः ।

मदनधनुष्प्रकाण्डगुणनिस्त्रुटनावसर-

प्रतिनिधिशिञ्जिनीं53 प्रजनयन्त्यभितः प्रमदाः ॥ ५४ ॥

मूलम् - ५४

प्रभावली - ५४

विडम्बयति ; निन्दति । पुंसः विषयरसवैमुख्यकारिणीम् । अथ कामस्य वैमुख्यं प्रस्तौति – पश्येत्यादिना । मुखवैमुख्येन वैवर्ण्येन । परिजनः; स्त्रीजनः । युद्धसिद्धौ साशङ्क इव । साशङ्कत्वमेव दर्शयति-

·. 3fafunt:-,

.

X७१६
मधुसमयेति । मधुसमये वसन्तकाले, अवरोधस्य उत्तमस्त्रीजनस्य, वदनासवः मुखमधुगण्डूषः, स एव दोहलं पुष्पोद्गमाय क्रियमाणः संस्कारविशेषः, तद्वतां वकुलवृक्षाणां पुष्पैः मदनधनुः श्रेष्ठस्य यो गुणः भृङ्गमालारूपा मौर्वी, तस्याः त्रुटनावसरे विच्छेदकाले, प्रतिनिधिभूतां मौर्वीम् अभितः प्रजनयन्ति । वकुलमहीरुहाः सुवदनावदनासव दोहलसञ्जातपुष्पमालया कामस्य त्रुटितज्यासदृशीमन्यां ज्यां जनयन्तीत्यर्थः ॥ ५४ ॥

प्रभाविलासः - ५४

मधुसमयेति । मधुसमये अवरोधानां स्त्रीणां वदनासवेन गण्डूषमद्येन दोहलिनां दोहलवताम् । वदनासववकुलशब्दावुपलक्षकौ । तदुक्तं वृक्षरक्षामणौ-

“प्रमदावदनामोदिमदिरासवसेकतः ।

मुकुलाकुलतां याति वकुलोऽलिकुलप्रियः ॥

सम्भावितो नखपदैर्विदग्धवनिताजनैः ।

धत्ते सद्यः प्रसूनानि रागिताग्रेण पाटलः ॥”
“मञ्जुमञ्जीरशिञ्जानतरुणीचरणाहतेः ।

आशुव्याकोचपुष्पश्रीरशोकः शोभते सदा ॥

आवेदितमनोभावैराराधितमनोभवैः ।

विलासलास्यरसिकैराद्रितो लोचनाञ्चलैः ।

सानुरागरसोल्लासैर्मन्दाक्षमसृणीकृतैः ।

हासैश्च हरिणाक्षीणां धत्ते पुष्पाणि चम्पकः ।

तरुण्या मण्डलीभूतसमुन्नतपयोधरम् ।

आलिङ्गितः कुरवको धत्ते कोरकित श्रियम् ।

अङ्गनाजनसङ्गीतरागामृत निषेवणैः ।

प्रियालाः प्रियतां यान्ति पुष्पैः पुलकिता इव ॥”

इति । एवमुद्वेगाख्यं गर्भसङ्घेरङ्गमुक्तम्, बाणोत्पादनेन भयनिमित्तकथनात् ।

तल्लक्षणं तु — " भीरुद्वेगो नृपादिजा “ इति ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

नारदः सखे, प्रहसन विनोदनमात्र प्रस्तावकमिदमखिलं प्रायशः प्रभूतव्यवसायसम्पदो विवेकस्य । अपि च महतो विवेकाद्विभ्यदप्ययमपरावर्ती मन्मथः प्रवर्तते । तथा हि-
जगत्क्षिपति चापले ललितचापलेखाधरो

युनक्त्यपथि वाहयन्युगलदेहयन्त्रद्वयम् ।

द्विगर्भबडिशामिषग्रसनवेधतो54 बाधते

स एष दृढसाहसः सकलजन्तुचिन्ताभटः ॥ ५५ ॥

मूलम् - ५५

प्रभावली - ५५

इदमखिलम् ; कामविकत्थनादिकम् । प्रभूता व्यवसायस्य सम्पत् यस्य ।

X७१७
अपरावर्ती; अपरावर्तनशीलः । कामस्य जगत्पीडनमाह – जगदिति । सकलजन्तुचिन्ताभटः ; सकलजन्तुचिन्तया जातो भटः, मनोभव इत्यर्थः । ललितस्वापयष्टिधरः सन् जगत् चापले रत्यभिलाषे क्षिपति । अथ च युगलदेहयन्त्रद्वयम् अपथे दुर्मार्गे प्रवर्तयन् । द्विवर्गः कामार्थों, तावेव बडिशामिषं, तस्य ग्रहणे यो वेधः जिल्हाभेदनं, तस्माच्च जगद्बाधते ॥ ॥ ५५ ॥

प्रभाविलासः - ५५

प्रस्तावकम् ; जनकम् । मदनं मत्स्यग्राहिजालिकतया निरूप-
यति जगदिति । ललितचापलेखा; वंशादिसूक्ष्मशलाका, तस्याः धरः । सकलजन्तुचिन्ताभटः ; मनोभवः । चापले जगत् क्षिपति ; चापलयुक्तं करोति । किञ्च अपथि वाहयन्; अमार्गे प्रवर्तयितुम् । युगलदेहयन्त्रद्वयम् ; स्त्रीपुंसलक्षणयुगलयन्त्रद्वयम् । युनक्ति ; योजयति । योजयित्वा किमकरोदित्यत आह-द्विगर्भेति । द्विगर्भ बडिशामिषस्य अर्धनारीरूपमत्स्यबन्धनस्य ग्रसनवेधतः बाधते । कामो जगत् विषयचपलं कृत्वा अमार्गे प्रवर्त्य स्त्रीपुंसरूपेण योजयन् अर्धनारीदर्शनेन वञ्चयतीत्यर्थः । लोके जालिकोsपि प्रथममन्नादिप्रक्षेपेण मत्स्यजालं चपलं कृत्वा अन्यत्र नीत्वा योजयन् वक्रसूचीद्वय निर्मितं बडिशं सामिषं कृत्वा आविध्य बाधते । तद्वत् ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

अद्य च निरन्तरपरिणमदविद्यया कयाचन शिल्पविद्यया दुर्निरूपघटनया विवेकयूथविघटनमसौ विधातुमभिलषति । ततश्च,
रथवारणवाजिभिः55 प्रहृष्यन्महिलारत्नसमूहनेन सिद्धैः ।

मकरध्वज एष पुष्पधन्वा रणमभ्येति रतिप्रियापदानः ॥ ५६ ॥

मूलम् - ५६

प्रभावली - ५६

इन्द्रजालविद्ययेव युवतिरूपशिल्पविद्यया विवेकयूयमथनमभिलषतीत्याहनिरन्तरेति । यौवतरूपशिल्पविद्ययेति विवक्षा । रणेति । महिलारत्नानां समूहनेन

X७१८
सम्भारेण सिद्वैः रणार्थवारणवाजिभिः प्रहृष्यन् रतिप्रियम् अपदानं पौरुषं यस्य सः ॥ ५६ ॥

प्रभाविलासः - ५६

रथेति । महिलारत्नसमूहनेन ; नारीश्रेष्ठसन्निवेशविशेषेण । सिद्धैः रथवारणवाजिभिः ; रथगजतुरगादिभिः । प्रसिद्धं च चित्रपटादिषु नवनारीकुञ्जरादिकम् । अपदानम् ; कर्म वृत्तम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

तुम्बुरुः — भगवन्, असहायशूरोऽयं विभ्रममात्रबलाभिरबलाभिरेव संहतान् महाबलान् विवेकव्यवसायशमदमादीन् विजेतुमभिलषति । अपि च,

अङ्कुरत्स्मितमकेवलेक्षणं भङ्गुरभ्रु वदनं नतभ्रुवाम् ।

अञ्चिताघरमवञ्चितादरः पञ्चवाणसुभटः समीक्षते ॥ ५७ ॥

मूलम् - ५७

प्रभावली - ५७

विभ्रममात्रम् ; विलासमात्रम् । अबलाभिः ; स्त्रीभिः । संहतान्, एककण्ठान् विवेकादीन् विजेतुकामः स्वसहायत्वेन स्त्रीमुखं पश्यतीत्याहअङ्कुरदिति । अङ्कुरत् ई दुगतं स्मितं यस्य । अकेवलेक्षणम् ; साभि-

.

X७१९
प्रायावलोकनयुक्तम् । भङ्गुग्भ्रु; भ्रूभङ्गयुक्तम् । अञ्चितं समीचीनम् अधरं यस्य । स्त्रीणां मुखमखण्डितादरः कामः समीक्षते ; अस्त्ररूपतया प्रयोक्तुमिति भावः ॥ ५७ ॥

प्रभाविलासः - ५७

अङकुरदिति । स्मितलक्षणमुक्तम्-

ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः ।

अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ "

इति । अकेवलक्षणमिति ; भ्रूभङ्गपदसमभिव्याहारेण कान्ताख्यदृष्टिविशेष उक्तः । तल्लक्षणं तु-

" आपिबन्तीव दृश्यं या सविकासातिनिर्मला ।

सभ्रूक्षेपकटाक्षा सा कान्ता मन्मथवर्धनी॥”
इति । अवञ्चितादरः ; अतिशयितादरः । अत्रादरपदसमभिव्याहारेण समीक्षत इति स्निग्धाख्या दृष्टिरुक्ता ।

" विकासि स्निग्धमधुरा चतुरे बिभ्रती भ्रुवौ ।

कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते ॥ "

इति लक्षणात् । अत्र सुभट इति वीररसो व्यज्यते । तस्य गुणतया शृङ्गाररस इत्युभयोः सङ्करः ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

नारदः -सखे तथैव56 खल्वेतमपि विजेतुं विश्वजिद्विवेको विरक्तिनामानं57 स्त्रियमेव प्रत्यस्त्रतया प्रयुङ्क्ते ।

(नेपथ्ये)

भोगेषु यौवतानां योगेषु लभेत सारमर्थानाम् ।

कन्देषु कन्दलीनां स्तम्भेषु च क इव राजरम्भाणाम् ॥ ५८ ॥

मूलम् - ५८

प्रभावली - ५८

अथ विरक्त्यागमनं प्रस्तुत्रन् विरक्तेगलापं दर्शयति भोगेष्विति । यौनानाम् ; युवतिसमूहानां भोगेषु । अर्थानां धनानां योगेषु प्राप्तिषु । कन्दलीनां कन्देष्विव राजरम्भाणां स्तम्भेष्विव कः स. रं स्थिरांशं लभेत ॥ ५८ ॥

प्रभाविलासः - ५८

भोगेष्विति । भोगेषु ; प्राप्तेषु । कन्दलीनाम् ; क्षुद्रकन्दलीनाम् । कन्देषु मूलेषु । राजरम्भाणां स्तम्भेषु च क इव सारं लभेत । इयञ्चाक्षेपिकी ध्रुवा,”प्रसङ्गमध्येऽन्यार्थस्याक्षेपादाक्षेपिकी ध्रुवा" इति लक्षणात् ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

(उभौ सादरमाकर्णयतः )

(पुनर्नेपथ्ये)

अदभ्रजघनस्तनप्रभृतिमांसविस्फूर्जित-

प्रसक्तविकटव्रणप्रतिपदज्ञया प्रज्ञया ।

स्त्रियस्त्रिगुणवीचिमद्गरलवीचिकाश्चिन्तय-

नसभ्यपरिपाटिकां पठति गाढमूढो जनः ॥ ५९ ॥

मूलम् - ५९

(उभौ सादरमाकर्णयतः )

(पुनर्नेपथ्ये)

अदभ्रजघनस्तनप्रभृतिमांसविस्फूर्जित-

प्रसक्तविकटव्रणप्रतिपदज्ञया प्रज्ञया ।

स्त्रियस्त्रिगुणवीचिमद्गरलवीचिकाश्चिन्तय-

नसभ्यपरिपाटिकां पठति गाढमूढो जनः ॥ ५९ ॥

प्रभावली - ५९

X७२०
अदभ्रेति । अदभ्रं स्थूलं यज्जघनस्तनप्रभृतीनां मांसं तस्य विस्फूर्जितम् उच्छूनता, तस्मिन् प्रसक्तम् उद्भूतं यद्विकटव्रणम् उत्कटग्रन्थिः, तस्य प्रतिपदं पर्यायः तं जानातीति तज्ज्ञया प्रज्ञया स्त्रियः त्रिगुणवीचिमतः प्रकृतिसमुद्रस्य गरलवीचिकाः विषोर्मयः इति जानन्नपि गाढमूढः गाढमूढत्वादिति हेतुगर्भमिदम् । असभ्यपरिपाटिकां साधुसभानर्हं किमपि पठति ॥ ५९॥

प्रभाविलासः - ५९

अदभ्रेति । अदभ्रजघनस्तनं प्रभृति येषां तानि च तानि मांसविस्फूर्जितानि दुर्भासानि तेषु प्रसक्तविकटव्रणानि अस्थिपर्यन्तलग्नपिटकानि । प्रतिपदः ज्ञप्तेः अज्ञया प्रज्ञया विवेकशून्यया त्रिगुणवीचिमति संसारसागरे गरलवीचिकाः स्त्रियः चिन्तयन् भोग्यतयानुसन्दधानः असभ्यपरिपाटिकां सभ्यानर्हवचनपरिपार्टी पठति ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

नारदः — सखे, श्रूयते किलायमायोधनाभिमुखहृदयाया विरक्तेरालापः ।

तुम्बुरुः -( सभयसम्भ्रमम् ) भगवन्, अभिपतति चासौ विरक्तिम् हस्तयितुकामः कामः । (क्षणमिव निर्वर्ण्य) अहह,
स्वमित्रमुपधात्रयप्रथितशुद्धि लोभात्मकं

झटित्य लघुतुष्टिकुक्ष्यनलदग्धमित्याकुलः ।

विरक्तिरणदेवताविपुलदृष्टिवैश्वानरं

प्रविश्य मकरध्वजः पुनरनङ्गतामागतः ॥ ६० ॥

मूलम् - ६०

प्रभावली - ६०

X७२१
अपहस्तयितुकामः ; विह्वलीकर्तुकामः । स्वमित्रमिति । इह स्वशब्देन कामः ; तस्य मित्रं लोभः । स च उपधात्रयप्रथितशुद्धिर्भवति । उपधात्रयम; उपाधित्रयम् । धर्मादिभिः परीक्षणमुपधात्रयमित्युक्तम् । धर्माद्यैर्यत्परीक्षणं तेन प्रथिता शुद्धिर्यस्य । एतदुक्तं भवति परीक्षा हेतुत्रैविध्यात्तन्निश्चितस्वरूपत्रैविध्यमिति । प्रथितशुद्धिश्चासौ लोभश्च तदात्मकं मित्रम् । झटिति अलघुतुष्टेः महासन्तोषस्य कुक्ष्यनलेन जाठराग्निना । अलघुपदमनलस्य विशेषणं वा । दुग्धमिति श्रुत्वा आकुलः विरक्त्या सह यद्रणं, तम्य देवताया विपुलदृष्टिरूपाग्निम् । रुद्रलोचनाग्निमिवेति शेषः । प्रविश्य पुनरप्यनङ्गत्वमाप ॥ ६० ॥

प्रभाविलासः - ६०

अपहस्तयितुकामः; अपवाहयितुमिच्छन् । स्वमित्रमिति । उपधा; धर्मार्थकामैः राज्ञामात्यानां परीक्षणम् । धर्मार्थकामभयोपन्यासेनाशयान्वेषणमिति यावत् । " उपधा धर्माद्यैर्यत्परीक्षणम्" इति निघण्टुः । हेतुत्रैविध्यादुपधात्रैविध्यम् । यथाह कौटिल्यः" उपधिभिः शौचाशौचपरिज्ञानममात्यानाम् " इति । उपधात्रयेण प्रथिता शुद्धिर्यस्य तत् । लोभात्मकं स्वमित्रमित्यन्वयः ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

अपि च, शृङ्गारोऽप्ययमनङ्गसमर नासीरयोधी58 सर्वतो भङ्गमनुभवन्नभङ्गुरम् हिमशालिना विरक्तिवैभवेन विलय मधिगच्छति ।

इह च,
निःसम्बोधमशेषतो वितनुते देवासुरान्तःपुरं

कर्णेषु प्रचिनोति कामपि सुधां कामागमद्रोहिणाम् ।

क्षिप्रक्षोभितचक्रवाल शिखरिप्राकार रिङ्खारट-

59 च्छृङ्गाघातनिरोधपिण्डितपटुः शृङ्गारभङ्गारवः ॥ ६१ ॥

मूलम् - ६१

प्रभावली - ६१

अनङ्गसैन्यनासीरयोधी शृङ्गाररसोऽपि विरक्तिवभवेन विलयमधि-

X७२२
गच्छतीत्याह — शृङ्गारोऽपीति । निः सम्बोधमिति । शृङ्गारस्य भङ्गे य आरवः सः देवासुरान्तःपुरं यत्, तत् निः सम्बोधं वितनुते । कामागमद्रोहिणां विरक्तानां कर्णेषु कामपि सुधां वर्धयति । कीदृशो रव इत्यत्राह क्षिप्रेति । क्षिप्रक्षोभितः चक्रवालशिखर्येव प्राकारः, तत्र रिङ्खा रिङ्खणं, तेन आरटत्सु समन्तात् शब्दायमानेषु शृङ्गेषु आघातेन आहल्या यो निरोधः, तेन पिण्डितःसङ्घीभूतः, अत एव पटुः सर्वजगद्बधिरीकरणसमर्थः ॥ ६१ ॥

प्रभाविलासः - ६१

शृङ्गारोऽपि शृङ्गाररसोऽपि । निः सम्बोधमिति । निः सम्बोधम् ; मूर्छितम् । क्षिप्रक्षोभिते चक्रवालशिखरिप्राकारे; पृथ्वीवेष्टनात् प्राकारत्वम् । रिङ्खया स्खलनेन रटन्ति स्वनन्ति यानि शृङ्गाणि तेप्वाघातनिरोधेन पिण्डितः सङ्घीभूतः, अत एव पटुः । शृङ्गारभङ्गारवः ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२

नारदः — हन्त, जुगुप्सनीयाः सम्प्रति योषितः संवृत्ताः ।

तुम्बुरुः —60 उचितमेवैतत् ।

ब्रह्मेन्द्रपतिनन्द्यानां61 वपुरप्सरसामपि ।

त्वगसृङ्मांसमेदोऽस्थिमज्जा शुक्लमयं न किम् ॥ ६२ ॥

मूलम् - ६२

नारदः — हन्त, जुगुप्सनीयाः सम्प्रति योषितः संवृत्ताः ।

तुम्बुरुः —60 उचितमेवैतत् ।

ब्रह्मेन्द्रपतिनन्द्यानां61 वपुरप्सरसामपि ।

त्वगसृङ्मांसमेदोऽस्थिमज्जा शुक्लमयं न किम् ॥ ६२ ॥

प्रभावली - ६२

X७२३
वर्मेति । इदम् ; शरीरम् । सप्तधातवः मांसादयो यस्मिन् । त्रिविधमलं यत् नयननासिकोदरजं मलं त्रिविधं, तन्मयम् । स्त्रीपुंसयोः योनियुग्मप्रसूतम् । चातुर्विध्यं लेह्यचूष्यपेयखाद्यत्वेन । स्थिरचरात्मकत्वेन विविधस्य आहारस्ययःसारः, तदात्मकम् । इत्थन्त्वे सति तदुपर्यनेकदोषाकर इति कथिता योषिदाख्या चर्मभस्त्रा मांसादिनिर्मिता भस्त्रा । मीमांस्या; विचारणीया । विचार्यमाणे जुगुप्सावहेति भावः ॥ ६२ ॥

प्रभाविलासः - ६२

ब्रह्मेति । मानुषदेहापेक्षया किञ्चित्सारवत्ताप्रतीतावपि सप्तधातुमयत्वमविशिष्टमिति भावः ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

किञ्च,

वर्ष्मेदं सप्तधातु त्रिविधमलमयं योनियुग्मप्रसूतं

चातुर्विध्योपपन्नस्थिरचर विविधाहारसारात्मकं च ।

62 इत्थं त्वेऽनन्तदोषाकर इति मुनिभिर्घोषिता योषिदाख्या

मीमांस्या मांसरेतोरुधिर कफवसा निर्मिता चर्मभस्त्रा ॥ ६३ ॥

मूलम् - ६३

प्रभावली - ६३

उपरितनटीकायाम् अन्तर्गता ॥ ६३ ॥

प्रभाविलासः - ६३

वर्मेति । धातवः मांसादयः । त्रिविधमलम् ; नासिकानेत्रश्रोत्रमलम् । योनियुग्मम् ; गुह्यद्वयम् । भक्ष्यभोज्य लेह्यचूप्यभेदेन चातुर्विध्यम् । स्थिरम्; अन्नादि । चरम् ; कुक्कुटादि ।

भक्ष्याभक्ष्य विचारशून्यत्वाय सामान्य निर्देशः ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

ततश्च,

गर्हणीय बहुदोषगर्भिते63 योषितां वपुषि तोषितात्मनः ।

नारकेऽप्यमितदुःखकारके रौरवे भवतु गौरवेण धीः ॥ ६४ ॥

मूलम् - ६४

ततश्च,

गर्हणीय बहुदोषगर्भिते63 योषितां वपुषि तोषितात्मनः ।

नारकेऽप्यमितदुःखकारके रौरवे भवतु गौरवेण धीः ॥ ६४ ॥

प्रभावली - ६४

अतिहेयस्त्रीशरीरे आसक्तचित्तस्यामितदोषाकरे नरकेऽपि रतिः स्यादित्याह

X७२४
गर्हणीयेति । नारके; नरके । तदुक्तम् – “देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः " इति ॥ ६४ ॥

प्रभाविलासः - ६४

गर्हणीयेति । अत्र

" मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।

देहे चेत्प्रीतिमान्मूढो भविता नरकेऽपि सः ॥

इति स्मारितम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

भगवन्, एतावन्तं कालमत्यन्तबहुमतिपदं स एवेदानीमत्यन्तजुगुप्सनीयः संवृत्तः सर्वलोकमौलिवार्यसायकः सयूथो मन्मथः । (सनिर्वेदमिव निश्वस्य )

परिचरति तवासौ पार्श्ववर्ती वसन्तः

किमपि मधुकरीभिर्गीयते नाम64 जैत्रम् ।

तदपि मदन दैन्यं प्रापितस्त्वं नियत्या

क इव कथय दैवं पौरुषेणोपरुन्ध्यात् ॥ ६५ ॥

मूलम् - ६५

प्रभावली - ६५

कामं सम्बोध्य तुम्बुरुराह परिचरतीति । भो मदन तव वसन्तः पार्श्ववर्ती सन् परिचरति । जैत्रं ते धाम तेजः मधुकरीभिः गीयते । तदपि ; तथापि । त्वं नियत्या दैन्यं प्रापितोऽसि । तथा हि को वा दैवं सामर्थ्येन लङ्घयति ॥ ६५ ॥

प्रभाविलासः - ६५

परिचरतीति । " दैवमेव परं मन्ये पौरुषं तु निरर्थकम् " इति स्मारितम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

भगवन्, अभङ्गुरा खलु देवी नियतिः ;

सम्भोगैकान्त्यवादी निरयभयकथाभङ्गसङ्गी निकामं

शस्त्रच्छिन्नार्घदेहद्वयघटनभवद्दिव्यदाम्पत्यशिल्पी65

प्रख्यातातिक्रमोऽसौ परपुरुषवशैर्र्गोपकन्यासहस्रै-

रेकस्त्रैलोक्यवीरः स्मर इह मृदितः क्वावतिष्ठेत कोपः ॥ ६६ ॥

मूलम् - ६६

प्रभावली - ६६

कामे ईदृशीमवस्थां प्राप्ते कोपः क वर्तेतेत्याह — सम्भोगेति । सम्भोग
एकमेव वस्तु, नान्यदिति वादी । निरयभयप्रसङ्गस्य भङ्ग एव सङ्गी । शस्त्रेति । शस्त्रेण कुसुमरूपेण छिन्नौ अर्धदहौ यस्य तच्च तत् द्वयं च स्त्रीपुंसयुग्मं, तस्य घटनेन भवत् दिव्यदम्पतिविषयम् अर्धनारीश्वर विषयं शिल्पकरणनैपुण्यं यस्य । परपुरुषवश्यैः गोपकन्यासहस्त्रैः प्रख्यातः अतिक्रमः अपनीतिः यस्य सः, मृदितः । एवं सति कोपः क वर्तेत ; न कापीत्यर्थः॥ ६६ ॥

प्रभाविलासः - ६६

सम्भोगेति । निरयभयकथाभङ्गसङ्गी; परलोकनास्तिक्येन नरकभयमपह्नुवान इत्यर्थः । परपुरुषः ; इतरजनः, पुरुषोत्तमश्च ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

X७२५

नारदः -सखे, मा नाम सहसा कोपमेवमवमंस्थाः66 । अयं किल पुरस्ताल्लोभस्य कामस्य च विनिपातमसहमानः समुत्पत्य विश्वलोकप्रथितकीर्तिं विवेकमास्कन्दितुमीहते । तथा हि-

क्षुदिन्धनवसुन्धराधरधुरन्धरः किं मृषा-

तृषारभसचूषणक्षपितपञ्चषाम्भोनिधिः67

हठत्रुटितहाटकाचलतटीबृहत्कुण्डलः68

प्रसर्पति रणाङ्कणं प्रथित एष कोपासुरः ॥ ६७ ॥

मूलम् - ६७

प्रभावली - ६७

क्षुदिति । क्षुध इन्धनानि दाह्यानि, वसुन्धराधरधुरन्धराः हिमवदादयो यस्य । अनेन पर्वतपक्षच्छेदहेतुरिन्द्रस्य कोप उक्तः । अथवा जामदग्न्यस्य कोपः । तदा वसुन्धराधरधुरन्धराः राजश्रेष्ठाः । तृषायाः पिपासायाः वेगेन यच्चूषणं पानं, तेन क्षपिताः पञ्चषाम्भोनिधयो यस्य सः । हठात् त्रुटितस्य

X७२६
हाटकाचलस्य कैलासस्य मेरोर्वातटी, सैव बृहत्कुण्डलं यस्य सः । अनेनरावणस्य रुद्रस्य वा कोप उक्तः॥ ६७ ॥

प्रभाविलासः - ६७

क्षुदिति । क्षुत्पदेन जाठराग्निरुच्यते । तस्या इन्धनं काष्ठनिचयभूतो वसुन्धराधरधुरन्धरः हिमवान् यस्य सः तथोक्तः । अनेन क्षुत्कालकोपवशात् सर्वे ग्रसितुं मतिरुत्पद्यते इत्युक्तम् । अत्र कुम्भकर्णभीमसेनगरुत्मन्तो निदर्शनम् । तृषेति । तृनिमित्तकोपवशात् सागरचूषणमपीषत्करमिति भावः ।

अत्र कुम्भयोनिरुदाहरणम् । हठेति । हाटकाचलः ; मेरुः । कोपवशेनासंहार्यमपि संहरतीति भावः । वज्रपाणिरुदाहरणम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

तुम्बुरुः :—(समयसम्भ्रमम् ) अतिघोरचेष्टितः खल्वसावशेषविध्वंसनतर्षवानमर्षः । तथा हि-

अपि वैरिवरूथिनीमशेषामपि शैलानपि सागरानपि क्षमाम् ।

ग्रसितुं प्रभवत्ययं प्रदीप्तः प्रथितः कोपतनूनपादनूनः ॥ ६८ ॥

मूलम् - ६८

तुम्बुरुः :—(समयसम्भ्रमम् ) अतिघोरचेष्टितः खल्वसावशेषविध्वंसनतर्षवानमर्षः । तथा हि-

अपि वैरिवरूथिनीमशेषामपि शैलानपि सागरानपि क्षमाम् ।

ग्रसितुं प्रभवत्ययं प्रदीप्तः प्रथितः कोपतनूनपादनूनः ॥ ६८ ॥

प्रभावली - ६८

कोपतनूनपात; कोपाग्निः ॥ ६८ ॥

प्रभाविलासः - ६८

अपीति । तनूनपात्; अग्निः ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

नारदः — सखे, पश्य पश्य ;

जिघांसाजानिनानेन स्थिरत्रसमिदं जगत् ।

वध्यघातकभावेन विभज्य विनियुज्यते ॥ ६९ ॥

मूलम् - ६९

नारदः — सखे, पश्य पश्य ;

जिघांसाजानिनानेन स्थिरत्रसमिदं जगत् ।

वध्यघातकभावेन विभज्य विनियुज्यते ॥ ६९ ॥

प्रभावली - ६९

अनेन सर्वं जगत् स्ववशवर्ति क्रियत इत्याह-जिवांसेति । जिघांसा जाया यस्य सः । स्थिरत्रसम्; स्थावरजङ्गमात्मकम् । तत्र केचन वध्याः, केचन घातकाः ; तेषां भावेन विभज्य उपभुज्यते ॥ ६९ ॥

प्रभाविलासः - ६९

जिघांसेति । जिघांसा जाया यस्य स जिघांसाजानिः ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

अपि च,

करचरणनखरदन्तप्रभृतिकमपि जगति सहजमितरदपि ।.

प्रतिघसुभटस्य विश्वं प्रहरणमथवा विहर्तुमुपकरणम् ॥ ७० ॥

मूलम् - ७०

अपि च,

करचरणनखरदन्तप्रभृतिकमपि जगति सहजमितरदपि ।.

प्रतिघसुभटस्य विश्वं प्रहरणमथवा विहर्तुमुपकरणम् ॥ ७० ॥

प्रभावली - ७०

अथास्य कोपस्य हन्तुः करचरणादिरूपं सहजं वस्तु, काष्ठपाषाणादिकमसहजं च वस्तु, सर्व प्रहरणं भवति, विहर्तुमुपकरणं च भवतीत्याहकरचरणेति ॥ ७० ॥

प्रभाविलासः - ७०

करेति । इतरदपि ; मुद्गरादिकमपि ॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

अत्र पुनरप्रसह्योत्थानममर्षमुपशमयितुमप्रधृष्योदयां क्षान्तिं पुरस्कृत्य निस्तरङ्गजलधिरिव निरूढधैर्यस्तिष्ठति विवेकः । इह च,

रुन्धानः सिन्धुघोष69 प्रथनमनिभृतं क्रन्दयन्क्ष्माधरेन्द्रान्

भिन्दानः स्कन्धभेदान्सुरपथरथिनां शुष्मणः सारथीनाम् ।

शुद्धालोकेन सद्यः क्षयमुपगमितः क्षान्तिमन्दस्मितेन

क्षुभ्यद्वैधात्र सौधध्वनिगुणितरवः कोऽपि कोपाट्टहासः ॥ ७१ ॥

मूलम् - ७१

प्रभावली - ७१

X७२७
कोपाट्टहासः क्षान्तिमन्दस्मितेनोपशमं नीत इत्याह रुन्धान इति । अनिभृतम् ; उद्धतम् । सिन्धुघोषप्रथनम् ; समुद्ररवप्रथाम् अभिभवन् । सुरपथे गगने, रथिनां तत्र सञ्चरतां, शुष्मणः वह्नेः सारथयः वायवः तेषां, स्कन्धभेदान् व्यूह भेदान् भिन्दानः । वैधात्रः ब्रह्मसम्बन्धी यः सौधः ; क्षुभ्यतो वैधातृसौधस्य ध्वनिना गुणितः प्रगुणीकृतो रवो यस्य सः । कोपस्य अट्टहासः शुद्धालोकेन धवलप्रभेण क्षान्तेः मन्त्रस्मितेन शाम्यतीति भावः ॥ ७१ ॥

प्रभाविलासः - ७१

रुन्धान इति । प्रथनम् ; प्रसिद्धिम् । सुरपथरथिनाम् ; आकाशमार्गरथिकानाम् । शुष्मणः सारथीनाम् ; वायूनाम् । स्कन्धभेदान्; वायुमार्गानित्यर्थः । अट्टहास इति ; अतिहसितमुच्यते,

" संरब्धं साश्रुनेत्रं च विसृष्टस्वनमुद्धतम् ।

करोपगूढपार्श्वे च तच्चातिहसितं भवेत् ॥ "

इति लक्षणात् ॥ ७१ ॥

विश्वास-प्रस्तुतिः - ७२

अमी च,

कुलशिखरिगरिष्ठाः क्षोणिधृत्यर्हकुम्भाः

कुलिशकठिनदन्ताः क्ष्वेलसङ्घातघोराः ।

कतिचन रणरङ्गे कन्तुकीकृत्य मुक्ता

न जहति भयमस्मादन्तिमं दन्तिमल्लाः ॥ ७२ ॥

मूलम् - ७२

अमी च,

कुलशिखरिगरिष्ठाः क्षोणिधृत्यर्हकुम्भाः

कुलिशकठिनदन्ताः क्ष्वेलसङ्घातघोराः ।

कतिचन रणरङ्गे कन्तुकीकृत्य मुक्ता

न जहति भयमस्मादन्तिमं दन्तिमल्लाः ॥ ७२ ॥

प्रभावली - ७२

पुनरपि कोपवैभवं वर्णयति — कुलशिखरीति । कुटशिखरिवत् गुरुतराः ।

X७२८
क्षोणीभरग्णयोग्यकुम्भाः । गर्जितसङ्घातेन कूराः ; यद्वा विषसङ्घातवत् घोराः । लीलाकन्तुकमिव केनाप्युत्क्षिप्यमाणाः दन्तिमल्लाः गजश्रेष्ठाः अस्मात् कोपात् अन्तिमं भयं मरणभीतिं न जहति ॥ ७२ ॥

प्रभाविलासः - ७२

कुलेति । क्ष्वेलसङ्घातवत् गरलराशिवत् घोराः ॥ ७२ ॥

विश्वास-प्रस्तुतिः - ७३

तुम्बुरुः — भगवन्,

अपि विश्वमिदं दिधक्षतोऽस्य त्रिपुरारातिमुखेषु70 लब्धभूम्नः ।

मदहस्तिघटावमर्दलीलां मशकामर्शनमात्रमित्यवैमि ॥ ७३ ॥

मूलम् - ७३

तुम्बुरुः — भगवन्,

अपि विश्वमिदं दिधक्षतोऽस्य त्रिपुरारातिमुखेषु70 लब्धभूम्नः ।

मदहस्तिघटावमर्दलीलां मशकामर्शनमात्रमित्यवैमि ॥ ७३ ॥

प्रभावली - ७३

दिधक्षतः दग्धुमिच्छतः । त्रिपुरागतिमुखेषु लब्धभूम्नः प्राप्तवैभवस्य । मदहस्तिघटाया विमर्दलीला । मशकामर्शनमात्रम् ; मशकापनयनमात्रमिति जानामि ॥ ७३ ॥

प्रभाविलासः - ७३

अपीति । दिधक्षतः ; दग्धुमिच्छतः ॥ ७३ ॥

विश्वास-प्रस्तुतिः - ७४

भगवन्, अयमसाविदानीममर्षस्य सम्प्रति संवर्तधारावरगर्जितगम्भीर भैरवप्रसृतिस्त्रिभुवनमपि बधिरयति कुलगिरिकुहरभरितप्रतिनिवृत्तसंहताकृतिः सिंहनादः । तदाकर्णनसमसमयसमुत्थितया निष्प्रतिक्षेपया क्षमया निरुध्यमानः स्तब्धवृत्तिरयं71 सन्दृश्यते कोपः । तथा हि-

अयमिह क्षमया दलितः72 क्षणात्प्रतिमुखेऽपि पराङ्मुखवद्भवन् ।

न खलु याति न तिष्ठति च ह्रिया भवति सप्रतिघः प्रतिघः परः73 ॥ ७४ ॥

मूलम् - ७४

प्रभावली - ७४

कोपस्य सिंहनादं वर्णयति — भगवन्निति । इदानीं क्रियमाणः संवर्तमेघगर्जितवत् भैरवप्रसरः । भरितः पूर्णश्चासौ प्रतिनिवृत्तः । अत एव संहताकृतिः । समसमये समानकाले निःप्रतिक्षेपया क्षमया निरुद्धप्रवृत्तिरिव दृश्यते । क्षमया दमितस्य विह्वलत्वं वर्णयति अयमिति । दमितः ; प्रशमितः । पराङ्मुखो

X७२९
मुखो भवन् न चापयाति । न च तत्रैव तिष्ठति । ह्रिया विशिष्टो भवन् परं केवलं प्रतिघः कोपः सप्रतिघः सकोपो भवति

॥ ७४ ॥

प्रभाविलासः - ७४

अयमिति । समतिघः ; सविघ्नः ॥ ७४ ॥

विश्वास-प्रस्तुतिः - ७५

( क्षणं निर्वर्ण्य) हन्त भगवन् पश्य पश्य ;

अपरावर्त्यपि कोपः पश्चादाकृष्टपाद इव भाति ।

नारदः — ( सान्तर्हासम् )

क्वचिदतिसङ्कटविषये सुभटानां सम्मतोऽयमपसर्पः ॥ ७५ ॥

मूलम् - ७५

( क्षणं निर्वर्ण्य) हन्त भगवन् पश्य पश्य ;

अपरावर्त्यपि कोपः पश्चादाकृष्टपाद इव भाति ।

नारदः — ( सान्तर्हासम् )

क्वचिदतिसङ्कटविषये सुभटानां सम्मतोऽयमपसर्पः ॥ ७५ ॥

प्रभावली - ७५

उपरितनटीकायाम् अन्तर्गता॥ ७५ ॥

प्रभाविलासः - ७५

अपरावर्तीति । हासः ; हसितम् । तल्लक्षणं तु,

" प्रफुल्लनयनं यत्तु गण्डैर्विकसितैरपि ।

किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ "

इति । सुभटानाम् ; रामादीनाम् । तदुक्तम् – “ परावर्तत वेगेन किञ्चित् त्वरितविक्रमः" इति । अतिसङ्कटविषय इति त्वरितविक्रम इति पदं विवृतम् । अस्य श्लोकस्योक्तिप्रत्युक्तिरूपतया वाकोवाक्यमलङ्कारः, " उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमुदाहृतम् " इति लक्षणात् ॥ ७५ ॥

विश्वास-प्रस्तुतिः - ७६

तुम्बुरुः -( सहर्षसम्भ्रमम् )

यस्य त्रासनतर्जनप्रभृतयः क्रूरोद्धता वृत्तयो

यस्योन्मेषनिमेषयोस्त्रिभुवनं निद्राति जागर्ति च ।

आबध्यैनमवैध हिंसनमहासंरम्भसम्भावित-

क्रीडोड्डामरबाहुदण्डलडहं74 क्रोधं निहन्ति क्षमा ॥ ७६ ॥

मूलम् - ७६

प्रभावली - ७६

अवैधहिंसनमहासंरम्भेण व्यर्थहिंसामहोद्योगेन । सम्भावितया; सञ्जातया । क्रीडया उड्डामरः गर्वितः । बाहुदण्डरूपो लगुडो यस्य । तमेनं कोपमावार्य क्षमा निहन्ति ॥ ७६ ॥

प्रभाविलासः - ७६

यस्येति । क्रूराश्च ता उद्धताश्चेति समासः । अवैधहिंसनम् ; व्यर्थहिंसा । उड्डामरम् ; उच्छृङ्खलम् । लडहः ; शब्दः

॥ ७६ ॥

विश्वास-प्रस्तुतिः - ७७

अपि च,

गुरुवधमुखक्रूरक्रीडाकठोरपराक्रमः

प्रथितमहितध्वंसो दक्षाध्वरप्रभृतिष्वसौ ।

स्वयमिह सुखारातिः स्वर्गापवर्गविघातकः

क्षणरुचिपदं क्षान्त्या गच्छत्यमर्षहुताशनः ॥ ७७ ॥

मूलम् - ७७

अपि च,

गुरुवधमुखक्रूरक्रीडाकठोरपराक्रमः

प्रथितमहितध्वंसो दक्षाध्वरप्रभृतिष्वसौ ।

स्वयमिह सुखारातिः स्वर्गापवर्गविघातकः

क्षणरुचिपदं क्षान्त्या गच्छत्यमर्षहुताशनः ॥ ७७ ॥

प्रभावली - ७७

X७३०
गुरुवधेति । गुरोर्वधः ; रुद्रस्य ब्रह्मा गुरुः पिता च, तस्य वधः मुखमादिर्यस्याः सा च क्रूरक्रीडा च तयोः कठोरः पराक्रमो यस्य । रुद्रस्य चतुर्मुखशिरः कृन्तने तत्कपालस्य करे लग्नतया कपालीति प्रसिद्धिः । कपालस्य विष्णुना मोक्षणं च पुराणेषु प्रसिद्धतमम् । दक्षाध्वरप्रभृतिषु प्रसिद्धस्य पूज्यस्य दक्षादेर्ध्वसो वधो यस्य सः । सुखस्य भौमस्य शत्रुः । स्वर्गसुखस्य अपवर्गसुखस्यापि विघातकः । क्रुद्धस्य कोपाग्निः क्षान्त्या क्षणरुचेः विद्युतः पदं शीघ्रनाशं गच्छति ॥ ७७ ॥

प्रभाविलासः - ७७

गुर्विति । शिवेन स्वपितुश्चतुर्मुखस्य शिरः क्रोधेन छिन्नम् । मुखपदेन जामदग्न्यादयः । तेन हि मातुः शिरश्छिन्नम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः - ७८

नारदः — सर्वगुणातिशायिनी खल्वियं क्षान्तिः । यन्न किञ्चिदपि खावष्टब्धं केनाप्यवद्येन योजयति । तथा हि-

विबुधमहिते मेरावैरावणः करटी मुहुः

कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम्

भजतु च 75 तटाघातं क्रीडाभिसन्धिरसौ दृढं

न तु मलिनता नापि क्षोभः76 क्षमाभृति सम्भृतः ॥ ७८ ॥

मूलम् - ७८

प्रभावली - ७८

सर्वगुणेभ्यः अतिशयवती खलु । यत्; यस्मात् । स्वपरिगृहीतं पुरुषं केनाप्यवद्येन किञ्चिदपि न योजयति । इममर्थमुपपादयति — विबुधेति ।

2

.
विबुधैः महिते महामेरौ ऐरावणाख्यो गजः क्षरन्मदकर्दमम्, अत एव कण्डूतियुक्तं स्वं करटं कपोलं कण्डूत्या मुहुः कर्षतु । असौ ऐरावणः क्रीडायामभिसन्धिमान् सन् तटाघातं भजतु च । अथापि क्षमाभृति तस्मिन् पर्वते न च मलिनता, नैव क्षोभः । क्षमाभृतीत्ययमर्थो द्योत्यते –क्षमावतः पुरुषस्य परपरिभवेऽपि नैव क्षोभ इति ॥ ७८ ॥

प्रभाविलासः - ७८

विबुधेति । ऐरावणः करटीति ; गोबलीवर्दन्यायोऽभिप्रेतः । करटम् ;
गण्डस्थलम् । पीडाभिसन्धिः पीडयामीति तात्पर्यवान् । क्षमाभृति; पर्वते ॥ ७८ ॥

विश्वास-प्रस्तुतिः - ७९

X७३१

तुम्बुरुः -भगवन्, दुर्जयोऽसौ कोपः कथं नाम निर्जित इति विस्मयाविद्धं मामकं चेतः ।

नारदः

न वयमिह विस्मयामहे । यतः,

न शापो नाभिचरणं न वह्निर्न विषं तथा ।

नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥ ७९ ॥

मूलम् - ७९

प्रभावली - ७९

कथं नाम; केन प्रकारेण । विस्मयाकुलितम् । नारदस्तु स्वस्य विस्मयो नास्तीत्याह-न वयमिति । तत्र हेतुमाह —यत इति । यथा क्षमा तीक्ष्णतमा, न तथा शापाभिचारवह्निविषशस्त्राणीत्यर्थः । एतत्सर्वं प्रहलादादिषु द्रष्टव्यमिति तात्पर्यम् ॥ ७९ ॥

प्रभाविलासः - ७९

न शाप इति । अभिचरणम् ; मारणकर्म ॥ ७९ ॥

विश्वास-प्रस्तुतिः - ८०

ततश्च,

अहार्येण कदाप्यन्यैरसंहार्येण कैरपि77

तितिक्षाकवचेनैव78 सर्वं जयति संवृतः ॥ ८० ॥

मूलम् - ८०

ततश्च,

अहार्येण कदाप्यन्यैरसंहार्येण कैरपि77

तितिक्षाकवचेनैव78 सर्वं जयति संवृतः ॥ ८० ॥

प्रभावली - ८०

अतोऽद्यापि तितिक्षाकवचेनैव शापादिसर्वविजयः स्यादित्याह — ततश्चेति । कदाचिदप्यन्यैः अहार्येण क्षमाकवचेन संवृतः पुमान् शापादिकं सर्व जयति ॥ ८० ॥

प्रभाविलासः - ८०

अहार्येण; हर्तुमशक्येन । असंहार्येण; संहर्तुमशक्येन ॥ ८० ॥

विश्वास-प्रस्तुतिः - ८१

प्रतिघोऽयमसह्यविस्फुलिङ्गः79 प्रलयोदीर्णहुताशनप्रकाशः । अमृतोदधिसम्प्लुतिप्रथिन्ना क्षमया क्षिममभूदसावलक्ष्यः

॥ ८१ ॥

मूलम् - ८१

प्रतिघोऽयमसह्यविस्फुलिङ्गः79 प्रलयोदीर्णहुताशनप्रकाशः । अमृतोदधिसम्प्लुतिप्रथिन्ना क्षमया क्षिममभूदसावलक्ष्यः

॥ ८१ ॥

प्रभावली - ८१

X७३२

तथा हि-80
॥ ८१ ॥

प्रभाविलासः - ८१

मदनेति । कुम्भकर्णेन्द्रजित्प्रहस्तादिवधे रावणसमाधिः ॥ ८१ ॥

विश्वास-प्रस्तुतिः - ८२

(विचिन्त्य) कथमिह विवेकभूभृतः साङ्ग्रामिकविहारशेषः

सम्पत्स्यते ? अथवा,

मदनक्रोधलोभानां निपाते मोहभूपतिः ।

योधयिष्यति यं कञ्चित्स्वयं वा योद्धुमर्हति81 ॥ ८२ ॥

मूलम् - ८२

(विचिन्त्य) कथमिह विवेकभूभृतः साङ्ग्रामिकविहारशेषः

सम्पत्स्यते ? अथवा,

मदनक्रोधलोभानां निपाते मोहभूपतिः ।

योधयिष्यति यं कञ्चित्स्वयं वा योद्धुमर्हति81 ॥ ८२ ॥

प्रभावली - ८२

उपरितनटीकायामन्तर्गता ॥ ८२ ॥

प्रभाविलासः - ८२

उपरितनटीकायामन्तर्गता ॥ ८२ ॥

विश्वास-प्रस्तुतिः - ८३

तुम्बुरुः — भगवन्, अलङ्घनीयस्वभावः खल्वभिनिवेशः, येन प्रत्यक्षितबलपराक्रमेऽपि विवेके प्रतिहतमनोरथस्यापि महामोहस्य पुनः पुनर्विजिगीषा विजृम्भते । श्रुतं किल महाभारते “ हते भीष्मे" इत्यादि । (अन्यतो निर्वर्ण्य ) ।

कामादिनिधने दृष्टे कैमुत्यमपरामृशन् ।

क इवासीदति क्षुद्रः कश्चिदेष रणाङ्कणम् ॥ ८३ ॥

मूलम् - ८३

प्रभावली - ८३

अथ82 दर्पस्य युद्धाभिगमनं प्रस्तौति–अन्यत इति । कामादीनां निधने

X७३३
दृष्टेऽपि ’ अहं तत्र किमु ’ इति कैमुतिकन्यायः परामर्शयितव्यः ।

तदकुर्वन् अतिक्षुद्रः कश्चिद्रणाङ्कणमभियाति ॥ ८३ ॥

प्रभाविलासः - ८३

पुनः पुनर्विजिगीषेति " द्वाविमौ पुरुषौ ” इत्युक्तमूर्खता व्यञ्जिता । हते भीष्मे इत्यादीति ;

" हते भीष्मे हते द्रोणे कर्णे च निधनं गते ।

आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् ॥ "

इति प्रतीकशेषः ॥ ८३ ॥

विश्वास-प्रस्तुतिः - ८४

नारदः — सखे, प्रख्यातनामा खल्वसावगणितपरहृदय83 शल्यः शल्य इव सन्नह्यति । तथा हि-

अवधीरयिता महत्तराणामवलेपोऽयमयन्त्रितस्वभावः ।

परकीर्तिवधूवशी चिकीर्षासुभगं भाबुकबाहुरुज्जिहीते ॥ ८४ ॥

मूलम् - ८४

नारदः — सखे, प्रख्यातनामा खल्वसावगणितपरहृदय83 शल्यः शल्य इव सन्नह्यति । तथा हि-

अवधीरयिता महत्तराणामवलेपोऽयमयन्त्रितस्वभावः ।

परकीर्तिवधूवशी चिकीर्षासुभगं भाबुकबाहुरुज्जिहीते ॥ ८४ ॥

प्रभावली - ८४

अगणितम् अविचारितं परेषां हृदयशल्यं पीडावहमिदमिति येन सः । अन्यत्र परशब्देन कर्णो विवक्षितः । कर्णस्य सारथ्यं कुर्वन् शल्यस्तस्य हृदय शल्यरूपाणि वचांसि व्याहृतवानिति महाभारतकथा सूचिता । अयं दर्प इत्याह — अवधीरयितेति । अभिजनवृत्तादिभिः महत्तराणां तिरस्कर्ता । अयन्त्रितस्वभावः ; विजृम्भितस्वभावः । परकीर्तिवधूवशीकरणेच्छया सुभगं भावुकं सुभगीभवितुं शीलवान् बाहुः यस्य सः । उज्जिहीते ; उद्गच्छति ॥ ८४ ॥

प्रभाविलासः - ८४

अवधीरयितेति । सुभगं शोभनं भावयतीति सुभगम्भावुकः ॥ ८४ ॥

विश्वास-प्रस्तुतिः - ८५

सर्वथा तावन्मोघोद्योग एव भविष्यत्ययमपि मोहसचिवः ।

तथा हि-

दर्पस्येहदृढप्रतिष्ठितमदोदग्रैर्विवेकाग्रतो

डिम्भक्षोभकडम्वरस्थपुटितारम्भैरलं सम्भ्रमैः ।

मृग्यं केसरिणो विधित्सितरणे रङ्कौ परं कौतुकं

क्रीडाखण्डितचण्डवारणघटातन्त्र स्वतन्त्रश्रियः ॥ ८५ ॥

मूलम् - ८५

प्रभावली - ८५

दर्पस्य सम्भ्रमाः विवेकस्य विस्मयावहा न भवन्तीत्याह – दर्पस्येति । रणे । दृढं यथा तथा प्रतिष्ठितेन मदेन उदः उन्नतैः । डिम्भानां शिशूनां क्षोभकेण डम्बरेण सम्भ्रमेण स्थपुटितः विषमितः आरम्भो येषां तैः

इह ;

X७३४
सम्भ्रमैः विवेकस्याग्रतः अलम् । विवेकस्याग्रे एभिः किं प्रयोजनम् ? न किमपीत्यर्थः । तत्र दृष्टान्तमाह — मृग्यमिति । क्रीडया खण्डितायाः चण्डवारणघटायाः अधीना स्वतन्त्रश्रीः स्वातन्त्र्यलक्ष्मीः यस्य तस्य केसरिणः विधित्सितरणे रङ्कौ युद्धोद्युक्ते हरिणे कौतुकं मृग्यं न दृष्टमित्यर्थः ॥ ८५ ॥

प्रभाविलासः - ८५

दर्पस्येति । डिम्भक्षोभकेण डम्बरेण गर्जितेन " आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते " इत्यमरः । स्थपुटितः आरम्भो येषां तैः ।
रङ्कौ ; कृष्णसारे । क्रीडाखण्डितण्डवारणानां घटातन्त्रे समूहपरिच्छदे " तन्त्रं प्रधाने सिद्धान्ते तन्तुवाये परिच्छदे " इत्यमरः । स्वतन्त्रा श्रीः यस्य तस्य ॥ ८५ ॥

विश्वास-प्रस्तुतिः - ८६

तुम्बुरुः — (साश्चर्यम्) भगवन् किमयमिदानीं मेघनाद इव तिरस्करणीं विद्यामास्थितः ? यदसाविदानीमेवास्माभिर्दृष्टः क्षणान्तरे न दृश्यते ।

नारदः — ( सहर्ष विहस्य) तस्यैव मेघनादस्य लक्ष्मणेनेव परप्रयुक्ता खल्वियमस्य तिरस्करणी । तथा हि-

अभिजनधन विद्यावृत्तदाक्ष्यादिरूपै-

रुपधिभिरयमेकोऽनेकधा जृम्भमाणः ।

पृथुमहिमविवेकप्रेक्षणादुत्पतन्त्या

प्रसभमधिकदृष्ट्या प्रापितो वीरशय्याम् ॥ ८६ ॥

मूलम् - ८६

प्रभावली - ८६

दर्पस्य भङ्कं प्रस्तौति -किमयमित्यादिना । मेघनादः ; इन्द्रजित् । तिरस्करणी विद्या न भवति । अधिकदृष्ट्याख्यस्त्रिया संहृतत्वान्न दृश्यत -तस्येति । इन्द्रजितो लक्ष्मणेनादृश्यता प्रयुक्ता । तथा दर्पस्यापीयमइत्याहदृश्यता अधिकदृष्टिरूपया शत्रुप्रयुक्तया । तदुपपादयतिअभिजनेति । अभिजनम् ; कुलम् । वृत्तम् ; आचारः । दाक्ष्यम् ; दक्षत्वम् । आदिशब्देन ज्ञानादिसङ्ग्रहः । एवंरूपैः उपाधिभिः हेतुभिः दर्पः स्वयमेकोऽप्यनेकधा जृम्भमाणः

[[७३५]] पृथुमहिम्नो विवेकस्य प्रेक्षणमात्रात् उद्गच्छन्त्या अधिकदृष्ट्या ; ’ अहं कियान् मत्तोऽप्यधिकाः परंशतं पुरुषा लोके सन्ति’ इति ज्ञानमधिकदृष्टिः, तया प्रसह्य बलात्कृत्य वीरशय्यां निधनं प्रापितः ॥ ८६ ॥

प्रभाविलासः - ८६

अभिजनेति । दाक्ष्यम्; सामर्थ्यम् । आदिपदेन वितरणादिकमुच्यते । उपधिभिः; व्यावर्तकैः । उत्पतन्त्या; उत्तिष्ठन्त्या । अधिकदृष्ट्या ’ मत्तोऽयमधिकः’ इति ज्ञानेन ॥ ८६ ॥

विश्वास-प्रस्तुतिः - ८७

तुम्बुरुः -(ससम्भ्रमाद्भुतम् )

का चैषा कलियुगताटकेव भीमा धिक्कष्टं कृतकलहेयमभ्यसूया84

आसीदत्यभिपतति स्वयं विवेकं तामेतां द्यति मुदिता समग्रभूमा ॥ ८७ ॥

मूलम् - ८७

तुम्बुरुः -(ससम्भ्रमाद्भुतम् )

का चैषा कलियुगताटकेव भीमा धिक्कष्टं कृतकलहेयमभ्यसूया84

आसीदत्यभिपतति स्वयं विवेकं तामेतां द्यति मुदिता समग्रभूमा ॥ ८७ ॥

प्रभावली - ८७

अथासूयाया युद्धाभिगमनं मुदिताख्यया स्त्रिया तस्याः संहरणं चाह—का चेत्यादिना । कलियुगताटकेव भीमा एषा केति प्रथमं संशय्य स्वयमेव निश्चिनोति धिक्कष्टमिति । इयं धृतकलहा कलहहेतुः असूया भवति । एनां धिक् । कष्टं जातम् ; लोकस्येति शेषः । अथेयमसूया पतिनिधनमसहमाना सती मूर्तिमती भैमरथीव स्थिता विवेकसमीपमागत्य दोषादर्शनापरनाम्न्या मुदिताख्यया विवेकप्रयुक्तया मरणं प्रापितेत्याह आसीदतीत्यादिना दीर्घनिद्रामासादितेत्यन्तेन ॥ ८७ ॥

प्रभाविलासः - ८७

का चेति । द्यति ; खण्डयति ॥ ८७ ॥

विश्वास-प्रस्तुतिः - ८८

नारदः — ( सहर्षम् ) दर्पनिधनमसहमानेयमसूया राक्षसी देहिनीव भैमरथी रणमुखमागत्य दैवयोगेन दीर्घनिद्रामासादिता ।

तुम्बुरुः — अहो, दुर्निरोधा खलु भगवती भवितव्यता । यतः,

आत्यन्तिकीमभिजनादिभिरप्रधृष्या-

मीर्ष्यादिभिः85 प्रियतमाभिरिहोपगूढाः ।

दर्पादयः क्षितितले दधति प्रसुप्तिं

वीराः स्वयं विधिवशादुपशान्तवैराः ॥ ८८ ॥

मूलम् - ८८

प्रभावली - ८८

अथ नियतेर्दुर्निवारतां दर्शयति — आत्यन्तिकीमिति । यतः कारणात्

"

X७३६XYZ
दर्पादयो वीराः विधिवशादुपशान्तवैराः ईर्ष्यादिभिः प्रियतमाभिः स्वस्त्रीभिः उपगूढाः आलिङ्गिताः सन्तः इह क्षितितले स्वयमेव अभिजनादिभिः अप्रधृष्याम् अभिजनविद्यावृत्तादिभिः अनपहरणीयाम् आत्यन्तिकीं प्रसुप्तिं मरणं दधति ॥ ८८ ॥

प्रभाविलासः - ८८

आत्यन्तिकीमिति । उपशान्तवैरा इति ; " मरणान्तानि वैराणि ‘इति स्मारितम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः - ८९

नारदः —-सखे, न खल्विदमद्भुतम्, यन्निरवधिकपौरुषाणामप्यनतिक्रमणीया नियतिरिति । एतस्यैव खल्वियमुदाहृतिः

इतरेतराभ्यधिकभीमविक्रमाः पुनरुच्यमानमधुकैटभादयः ।

प्रविशन्त्युदग्रविगलन्मद86 ग्रहास्त इमे विपत्तिमिह मोहमन्त्रिणः ॥ ८९ ॥

मूलम् - ८९

प्रभावली - ८९

निरवधिकशौर्याणामप्यलङ्घनीया नियतिरिति यत्तदद्भुतं न भवति । अस्यार्थस्येयं कामक्रोधादिमृतिः उदाहृतिः दृष्टान्तः । इदमेवाह — इतरेतरेति । परस्परम् अत्यधिकपराक्रमाः । मधुकैटभादयः पुनरुक्तयो येषां ते । इमे मोहमन्त्रिणः ; कामादयः । उदग्रं यथा तथा विलगन् विलग्नो मद एव ग्रहः पिशाचः येषां ते । विपत्तिं प्रविशन्तीतीयमुदाहृतिः ॥ ८९ ॥

प्रभाविलासः - ८९

इतरेतरेति । पुनरुच्यमानाः पश्चादुच्यमानाः मधुकैटभादयः येभ्यस्ते । मधुकैटभादिभ्यो ऽप्यधिकबला इत्यर्थः । विलगन्; संसृजन् ॥ ८९ ॥

विश्वास-प्रस्तुतिः - ९०

( अन्यतोऽवलोक्य) अहो, महदिदमापतितमिदानीमप्रतिद्वन्द्वं द्वन्द्वयुद्धम् । इह हि,

अतिबलेन विवेकमहीभृता निरवशेषितमन्त्रिगणः क्षणात् ।

अहह मोहमहीपतिराहवे सपदि राघवशत्रुरिवोत्थितः ॥ ९० ॥

मूलम् - ९०

( अन्यतोऽवलोक्य) अहो, महदिदमापतितमिदानीमप्रतिद्वन्द्वं द्वन्द्वयुद्धम् । इह हि,

अतिबलेन विवेकमहीभृता निरवशेषितमन्त्रिगणः क्षणात् ।

अहह मोहमहीपतिराहवे सपदि राघवशत्रुरिवोत्थितः ॥ ९० ॥

प्रभावली - ९०

अथ महामोहस्य युद्धागमनं वर्णयति अन्यत इति । आपतितम् ; प्राप्तम् । अप्रतिद्वन्द्वम्; दृष्टान्तरहितम् । अतिबलेनेति ; स्वस्मात् अधिकबलेन । निरवशेषितः ; निःशेषं संहृतः । राघवशत्रुवि; रावण इव ॥ ९० ॥

प्रभाविलासः - ९०

अतिबलेनेति । राघवशत्रुः ; रावणः ॥ ९० ॥

विश्वास-प्रस्तुतिः - ९१

अत्र चायमहितबल निर्मूलनसमुन्मीलितसमरसंरम्भः स्वयमिह समायाति सुरगणसंस्तूयमानवैभवः सुमतिवल्लभः । अयं हि-

मर्यादातीतवादद्विरदमृगपतिर्वक्रतर्काद्रिवज्रः

प्रत्यग्वैमुख्यतूलप्रलयदिनमरुद् भ्रान्तिवीरुद्दवाग्निः ।

कामक्रोधाहितार्क्ष्यः कलिकलुषकथाकालरात्रिप्रभातं

मोहावश्यायभानुर्विहरति समितौ व्यक्तवेगो87 विवेकः ॥ ९१ ॥

मूलम् - ९१

प्रभावली - ९१

X७३७’
अथ विवेकं वर्णयन्नयं समरे विहरतीत्याह -मर्यादेति । मर्यादा; विधिनिषेधव्यवस्था । सा अतीता यस्मिन् । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः88 । मर्यादातीतो वादो येषां ते, बाह्या इत्यर्थः । त एव द्विरदाः । तेषां सिंहः । वक्रः तर्कः येषां ते वैशेषिकादयः । त एव पर्वताः । तेषां विदारकः । प्रत्यग्वस्तुनि ब्रह्मणि वैमुख्यं येषां ते । श्रुत्यादिसिद्धकल्याणगुणानङ्गीकारात् यथावस्थितब्रह्मणि वैमुख्यम् । ते मृषावादिनः । त एव तूलं तस्य प्रलयकालवायुः । भ्रान्तयः देहात्मबुद्धयादयः, ता एव वीरुधः, तासां दवाग्निः । अत्र भ्रान्तेर्धर्ममात्रस्योक्तत्वात् पूर्वत्र सर्वत्रापि तत्पुरुषाश्रयणेन वादादिमात्रपरत्वं ग्राह्यमिति वदन्ति । कामक्रोधावेव अही, तयोः तार्क्ष्यः । कलिकलुषप्रसङ्ग एव कालरात्रिः, तस्याः प्रभातं तन्निवर्तकम् । मोहः अज्ञानमेव अवश्यायः तुहिनं, तस्य भानुः निरासकः । विवेकः समितौ रणे स्पष्ट वेगः सन् विहरति ॥ ९१ ॥

प्रभाविलासः - ९१

मर्यादेति । मर्यादां श्रुतिस्मृत्युदीरिताम् अतीतो वाद एव द्विरदः गजः, तस्य मृगपतिः सिंहः । वीरुत्; लता । अवश्यायः ; नीहारः ॥ ९१ ॥

विश्वास-प्रस्तुतिः - ९२

तुम्बुरुः ( सहर्षाद्भुतम् ) भगवन्, इदं पुनरिह महामोहस्य

मौलिताडनम् । अत्र हि—

निरुद्धरिपुडम्बरो89 निगमघोषनिष्पादित-90

प्रतिश्रुतिरनुद्धृतप्रलय सिन्धुधीरध्वनिः ।

त्रिवर्गपुटभेदनप्रथमकम्पकर्णेजपो

विवेकसुभटाग्रतो विजयदुन्दुभिस्ताड्यते ॥ ९२ ॥

मूलम् - ९२

प्रभावली - ९२

1

;

"

93

X७३८
इदं वक्ष्यमाणं महामोहस्य मौलिताडनमिवाभातीत्याह इदं पुनरित्यादि । निरुद्धेति । निरुद्धः रिपूणां डम्बरः येन । निगमघोषेण सम्पादिता प्रतिध्वनिर्यस्य । अनुद्रुतः अनुसृतः प्रलय सिन्धोः धीरध्वनिर्येन । त्रिवर्ग एव पुटभेदनं पत्तनं, तत्प्रथमकम्पस्य सूचकः । विजयदुन्दुभिः ताड्यते ॥ ९२ ॥

प्रभाविलासः - ९२

निरुद्धेति । निगमजातनिष्पादितप्रतिश्रुतिः; वेदसमूह निर्वर्तितप्रतिध्वनिः । कर्णेजपः ; सूचकः ॥ ९२ ॥

विश्वास-प्रस्तुतिः - ९३

नारदः — सखे, नूनमिदानीमत्यासन्नो विवेकस्य मनोरथ-

लाभः । अत्र हि-

दुराशादुर्मानच्छलनमदमात्सर्य कुहना-

परीवादद्रोहप्रभृतिपरिवार स्तुतगतिः ।

मनीषासारथ्यप्रमुदितविवेकप्रतिमुखं

महामोहः क्रूरः स्वयमुपसमायाति समरम् ॥ ९३ ॥

मूलम् - ९३

प्रभावली - ९३

मनोरथः ; मोहविजयविषयः । अत्र विवेकसमीपं प्रति महामोहः स्वयमुपयातीत्याह दुराशेति । अलभ्याशा दुराशा । अल्पविद्यया महागर्वो दुर्मानः । छलनम् ; वञ्चनम् । मदः; गर्वः । मात्सर्यम्; अन्यानुभवद्वेषः । कुहना ; कापट्यम् । परीवादः ; निन्दा । द्रोहः ; वधः । प्रभृतिशब्देन दम्भादय उक्ताः ।

X७३९
एभिः परिवारैः परिजनैः स्तुतपदक्रमः । मनीषा ; सम्यग्ज्ञानम् । तत्कृतसारथ्येन प्रमुदितस्य विवेकस्य अभिमुखं समरमुपसमायाति ॥ ९३ ॥

प्रभाविलासः - ९३

दुराशेति । मनीषा ; सुमतिः ॥ ९३ ॥

विश्वास-प्रस्तुतिः - ९४

अपि च,

प्रत्यासन्नं प्रतिभटमिह प्रत्युदेता विधत्ते

गाढामर्षस्फुरणकुटिलान् कार्मुके दृष्टिपातान् ।

दूरोद्भूतस्वपरनियतिं91 दुर्मतिं प्रेक्षमाणो

रागाभिख्यं दुरितजलधिं गाहते मोहवीरः ॥ ९४ ॥

मूलम् - ९४

अपि च,

प्रत्यासन्नं प्रतिभटमिह प्रत्युदेता विधत्ते

गाढामर्षस्फुरणकुटिलान् कार्मुके दृष्टिपातान् ।

दूरोद्भूतस्वपरनियतिं91 दुर्मतिं प्रेक्षमाणो

रागाभिख्यं दुरितजलधिं गाहते मोहवीरः ॥ ९४ ॥

प्रभावली - ९४

प्रतिभटं विवेकं प्रत्यासन्नं प्रत्युद्गच्छन् । किञ्च दूरोद्भूता निराकृता स्वपर नियतिः यया तां दुर्मतिं प्रेक्षमाणः रागाख्यं दुरितजलधिमवगाहते । दुर्मत्यां रागं कुरुत इत्यर्थः । अनेनासन्नेऽपि रिपौ स्ववीर्यातिशयान्महामोहस्यानादरो द्योत्यते ॥ ९४ ॥

प्रभाविलासः - ९४

प्रत्यासन्नेति । प्रत्यासन्नं प्रतिभटम् ; समीपस्थितं शत्रुम् । प्रत्युदेता; प्रत्युद्गन्ता ।

स्वपर नियतिम् ; स्वायत्तभाग्याम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः - ९५

तुम्बुरुः — (सभयसम्भ्रमाद्भुतम् ) भगवन्, अतिघोरप्रवृत्तिरसौ रथयूथवीथिकापथेन रणाङ्गणमवतीर्णः ।

उद्भटकवन्धताण्डवमुन्मदभारुण्डतुण्डहृतमुण्डम्’92

रणभूमिमण्डलमसौ मण्डलमिह चरति मोहदण्डेशः ॥ ९५ ॥

मूलम् - ९५

तुम्बुरुः — (सभयसम्भ्रमाद्भुतम् ) भगवन्, अतिघोरप्रवृत्तिरसौ रथयूथवीथिकापथेन रणाङ्गणमवतीर्णः ।

उद्भटकवन्धताण्डवमुन्मदभारुण्डतुण्डहृतमुण्डम्’92

रणभूमिमण्डलमसौ मण्डलमिह चरति मोहदण्डेशः ॥ ९५ ॥

प्रभावली - ९५

किं भविष्यतीति भयम् । भयाच्च सम्भ्रमः । अपूर्वदर्शनात् अद्भुतम् । असौ ;

महामोहः । उभयतो रथेषु पक्तिशःस्तिष्ठत्सु तन्मध्यवीथिकापथेन रणस्थलं मण्डलं यथा तथा महामोहश्चरतीत्याह — उद्भटेति । उद्भटम् उद्धतं

X७४०
कबन्धानां ताण्डवं यस्मिन् । उन्मदा ये भारुण्डाः पक्षिविशेषाः तेषां मुखैः उद्धृत्यापहृतानि मुण्डानि छिन्नशिरांसि यस्मिंस्तत् रणभूमिमण्डलम् । असौ मोहपार्थिवः । दण्डस्य सेनाया ईशः दण्डेशो राजा । इह मण्डलं चरति ॥ ९५ ॥

प्रभाविलासः - ९५

उद्भटेति । कबन्धः; कृत्तशीर्षदेहः । भारुण्डाः ; गृध्रादिशकुनाः । तेषां तुण्डैः चञ्चुभिः हृतानि मुण्डानि छिन्नार्धशीर्षाणि यस्मिंस्तथोक्तम् ।
मण्डलम् ; वर्तुलाकारम् । दण्डेशः ; राजा ॥ ९५ ॥

विश्वास-प्रस्तुतिः - ९६

अपि च,

पातालक्षिप्तसिन्धुः प्रशकलितकुलक्ष्माभृदुत्कीलभूमि-93

र्निर्धूतादित्यचन्द्रद्युतिगणनिविडध्वान्तनीरन्ध्रदिक्कः ।

वेधः सौधप्रभेदी विघटितपवनस्कन्धपर्यस्ततारः

प्रारब्धोऽसौ विवेकप्रतिरथिनि महानाहवे मोहवेगः ॥ ९६ ॥

मूलम् - ९६

प्रभावली - ९६

वेगं वर्णयति — अपिचेति । पाताले क्षिप्ताः सिन्धवः समुद्रा येन । प्रशकलिताः शिथिलीकृताः कुलपर्वता येन । उत्कीला उद्धृतकीला भूमिः येन । भूमेः कुलपर्वताः कीलाः । निर्धूतः आदित्यचन्द्रयोः द्युतिगणो येन । अत एव निबिडध्वान्तेन नीरन्ध्रदिशः कृता येन । वेधः सौधस्य ब्रह्मलोकहर्म्यस्य प्रकर्षेण भेदी । विघटिताः विध्वस्ताः पवनस्य स्कन्धाः तेभ्यः पर्यस्ताः पातिताः ताराः येन । असौ महामोहस्य वेगः । विवेकप्रतिरथिनि विवेकः प्रतिरथी प्रतिरधिको यस्मिन् । तस्मिन् आहवे । आरब्धः ; उपक्रान्तः ॥ ९६ ॥

प्रभाविलासः - ९६

पातालेति । उत्कीला; उत्क्षिप्त सन्धिबन्धा भूमिर्येन सः । द्युतिगणः; शुक्रादिः ॥ ९६॥

विश्वास-प्रस्तुतिः - ९७

नारदः —( सहर्षसम्भ्रमम् ) सखे, दिष्ट्या वर्धसे । पश्य पश्य ;

अप्रत्यूढचरः सुरासुरगणैरक्षोभितो राक्षसै-

रद्यप्रत्यवरुद्धवैरिसमरोत्सेकेविवेकेश्वरे ।

स्वःस्थप्रत्ययितव्यदोषमलिनस्वर्वासदुर्वासना-

मूलच्छेदविलीयमानमहिमा मोहस्य मोघः स्यदः ॥ ९७ ॥

मूलम् - ९७

प्रभावली - ९७

दिष्टधा वर्धसे इति सन्तोषातिशयोक्तिः । एतादृशरणदर्शनभाग्येन वर्धसे । अद्य विवेकेन मोहवेगो मोघो जात इत्याहअप्रत्यूढेति । विवेकेश्वरे प्रत्यवरुद्धो

X७४१
रुद्धः वैरिणां समरोत्सेको गर्वो येन । तस्मिन् विवेकेश्वरे विषये सुरासुरगणैः अक्षोभितपूर्वः । स्वर्गे तिष्ठन्तीति स्वःस्थाः तैः प्रत्ययितव्याः प्रत्यक्षेण ज्ञातुं योग्याः ये दोषाः पातभीतिस्वसमाधिकसम्पद्दर्शनजाः दुःखादयश्च तेन मलिना या स्वर्वासदुर्वासना, तस्या मूलच्छेदेन क्षीयमाणो महिमा यस्य सः । मोहस्य स्यदो वेगः मोघो भवति ॥ ९७ ॥

प्रभाविलासः - ९७

अप्रत्यूढचर इति । अमत्यूढचरः ; अप्रतिहतगतिः । स्यदः ;
वेगः । अद्य ; इदानीम् । विवेकेश्वरे प्रत्यवरुद्धवैरिसमरोत्सेके ; निरस्तरिपुयुद्धगर्वे सति । स्वः स्थैः; स्वर्गस्थैः । प्रत्ययितव्यैः ; ज्ञापयितव्यैः । दोषैर्मलिनायाः स्वर्वासदुर्वासनायाः मूलच्छेदेन विलीयमानः महिमा यस्य सः, तथोक्तः सन् । मोघः ; व्यर्थः ॥ ९७ ॥

विश्वास-प्रस्तुतिः - ९८

अहह,

विवेकाशनिवेगेन महामोहविषद्रुमः ।

पातितः क्ष्मातले दिष्ट्या द्वितीय इव कैटभः ॥ ९८ ॥

मूलम् - ९८

अहह,

विवेकाशनिवेगेन महामोहविषद्रुमः ।

पातितः क्ष्मातले दिष्ट्या द्वितीय इव कैटभः ॥ ९८ ॥

प्रभावली - ९८

अथ महामोहो भूतले पातित इत्याह विवेकेति । विवेक एव अशनिः, तस्य वेगेन ।

मोहाख्यो विषद्रुमः पातितः ॥ ९८ ॥

प्रभाविलासः - ९८

विवेकेति । अशनिः ; दम्भोलिः ॥ ९८ ॥

विश्वास-प्रस्तुतिः - ९९

तुम्बुरुः — हन्त,

जागर्त्यद्भुतमुद्भटं यदधुना वीरव्रतैकव्रती

विष्वग्वृत्तिविवेकदेवविशिखस्कन्धैरवस्कन्दितः ।

मोहः प्रापितमूर्च्छनो मुनिगणप्रद्विष्टदैत्यप्रियो

धिक्कष्टश्रुतिघट्टितश्रुतिरसौ बुद्ध्वा पुनर्युध्यते ॥ ९९ ॥

मूलम् - ९९

प्रभावली - ९९

मूच्छितोऽसौ पुनर्बुद्धा विवेकेन युध्यत इत्याह-जागर्तीति । इदमुत्कटमद्भुतं जागर्ति; दृश्यत इत्यर्थः । तत्किमित्यत्राह यदधुनेति । वीरव्रते विक्रमे

X७४२
मुख्यव्रती । विष्वक् समन्ततः वृत्तयः येषां ते च ते विवेकदेव विशिखाश्च, तेषां स्कन्धैः शल्यैः अवस्कन्दितः शोषणं प्रापितः । अत एव प्रापितमूर्च्छनः । मुनिगणप्रद्विष्टानां दैत्यानां प्रियः मोहः । धिक्कष्टश्रुतिघट्टितश्रुतिः ; स्वभृत्यैरुच्चरितस्य धिक्कष्टमिति शब्दस्य श्रुत्या श्रवणेन घट्टिते आहते श्रुती श्रोत्रे यस्य सः । बुद्ध्वा सञ्ज्ञां प्राप्य पुनर्युध्यते इति यत् तदिदमद्भुतं जागर्तीत्यन्वयः ॥ ९९ ॥

प्रभाविलासः - ९९

जागतति । अद्भुतं जागर्ति; वक्ष्यमाणमित्यर्थः । स्कन्धैः ; गुणैः । मुनिगणप्रद्विष्टानां दैत्यानां प्रियः । धिक्कष्टश्रुतिघट्टितश्रुतिः ;
धिक्कष्टमिति मोहप्रयुक्तया श्रुत्या शब्देन ताडितकर्णः । उद्भटं यथा तथा पुनर्युध्यते । तस्मादद्भुतं जागर्तीति सिंहावलोकनम् ॥ ९९ ॥

विश्वास-प्रस्तुतिः - १००

अहह,

नारदः — -(सहर्षसम्भ्रममुत्तरीयाजिनमवधून्वन् )94 निपातितः पुनरसौ निष्प्रतिघवृत्तिना महामोहः सुमतिवल्लभेन ।

जितं कार्तयुगैर्धर्मैर्जितं शमदमादिभिः ।

महता यद्विवेकेन महामोहः पराहतः95 ॥ १०० ॥

मूलम् - १००

अहह,

नारदः — -(सहर्षसम्भ्रममुत्तरीयाजिनमवधून्वन् )94 निपातितः पुनरसौ निष्प्रतिघवृत्तिना महामोहः सुमतिवल्लभेन ।

जितं कार्तयुगैर्धर्मैर्जितं शमदमादिभिः ।

महता यद्विवेकेन महामोहः पराहतः95 ॥ १०० ॥

प्रभावली - १००

उपरितनटीकायामन्तर्गता ॥ १०० ॥

प्रभाविलासः - १००

जितमिति । कार्तयुगैः; कृतयुगुसम्बन्धिभिः ॥ १०० ॥

विश्वास-प्रस्तुतिः - १०१

भवतु सब्रह्मता भवतु सब्रह्मता ।

( सर्वतः परिक्रामति)

तुम्बुरुः – (सहर्षम् )

निखिलसुभटश्लाघारेखाविलङ्घनजाङ्घिको

निरवधिबलो मोहः क्रीडन्ननुत्तरणे रणे ।

विविधनिगमग्रामस्थेयाद्विवेकमहीभृतो

विपदमधुना वीरादस्मादिदम्प्रथमां गतः ॥ १०१ ॥

मूलम् - १०१

प्रभावली - १०१

पुनरपि मोहवीरे विवेकेन निपातिते

तुम्बुरुर्विस्मयते — निखिलेति ।

X७४३
निखिलानां सुभटानां या श्लाघारेखा ; निखिलानां सुभटानां मध्ये अयं श्लाघ्य इति श्लाघायाः परा काष्ठा । तस्या विलङ्घने जाङ्घिकः ; निखिलसुभटेश्व श्लाघ्य इत्यर्थः । न विद्यते उत्तरणं यस्मात् । तस्मिन् रणे क्रीडन् । परस्परविरुद्धानां विविधानां निगमानाम् उपनिषदां ग्रामस्य स्थेयात् विवादपदनिर्णायकात् इदं प्रथमाम् अपूर्वा विपदं गतः ॥ १०१ ॥

प्रभाविलासः - १०१

भवतु सब्रह्मता; एतदवधि मोहवशेन ब्रह्म नास्तीति ज्ञानादब्रह्मता ।
इदानीं मोहविध्वंसने ब्रह्मज्ञानं निष्पन्नमिति सब्रह्मता । अनेन मोहविजयेन पुरुषमोचनरूपबीजस्य पुनर्योजनात् आक्षेपो नाम गर्भसन्धेर्द्वादशमङ्गमुक्तम् “आक्षेपो बीजयोजनम्" इति लक्षणात् । निखिलेति । स्थेयात्; विवापद निर्णेतुः ॥ १०१ ॥

विश्वास-प्रस्तुतिः - १०२

अपि च,

दिनकर इव दीव्यन्दृष्टशक्तिस्तथासौ

मुनिपरिषदभीष्टे मोहभङ्गे विवेकः ।

समतनुत यथैकः साधुपीडोद्यतानां

रजनिचरपतीनां राघवो दीर्घनिद्राम् ॥ १०२ ॥

मूलम् - १०२

अपि च,

दिनकर इव दीव्यन्दृष्टशक्तिस्तथासौ

मुनिपरिषदभीष्टे मोहभङ्गे विवेकः ।

समतनुत यथैकः साधुपीडोद्यतानां

रजनिचरपतीनां राघवो दीर्घनिद्राम् ॥ १०२ ॥

प्रभावली - १०२

दीव्यन् भ्राजमानः । मुनिपरिषदामभीष्टे मोहभङ्गे दिनकर इव दृष्टशक्तिः । यथैको राघवो रावणादीनपातयत्, तथैवैको विवेकः साधुपीडोद्यतान् महामोहादीन् ॥ १०२ ॥

प्रभाविलासः - १०२

दिनकर इति । दृष्टशक्तिः ; प्रत्यक्षसामर्थ्य इत्यर्थः ॥ १०२ ॥

विश्वास-प्रस्तुतिः - १०३

(नेपथ्ये)

हा महाराअ, हा दुम्मइजीविएसर, हा णिहिलजण सम्मोहण, कर्हि गओसि ?
बन्दिग्गाहं गहिआहिं णूणं सम्भरिअगुरुवेराहिम् ।

बन्दरगाहं गहिदो मम णाहो ताहिं तिअसमहिलाहिम् ॥

(हा महाराज, हा दुर्मतिजीवितेश्वर, हा निखिलजनमोहन,

कुत्र गतोऽसि ?

बन्दिग्राहं गृहीताभिर्नूनं सम्भृतगुरुवैराभिः ।

बन्दिग्राहं गृहीतो मम नाथस्ताभिस्त्रिदशमहिलाभिः ॥ )॥ १०३ ॥

मूलम् - १०३

प्रभावली - १०३

विलापं प्रस्तौति नेपथ्य इति । हा दुम्मइजीवि एसर हा दुर्मतिजीवितेश्वर । हा णिहिलजणमोहण हा निखिलजनमोहन । कहि-

X७४४
कथम् । गओसि गतोऽसि । बदिग्गाहं बन्दिग्राहम् । गहिआहिं गृहीताभिः । णूणं-नूनम् । सम्भरिअ-सम्भृत; गुरुवेरा हिःगुरुवैराभिः । बन्दिग्गाहं-बन्दिग्राहम् । गहिदो गृहीतः । मम मम । णाहो नाथः । ताहिं ताभिः । तिअसमहिलाहिन्त्रिदशमहिलाभिः, वनिताभिः ॥ १०३ ॥

प्रभाविलासः - १०३

अथ विषादनिमित्तामान्तराख्यां96 ध्रुवामाह बन्दिङ्गाहमिति

॥ १०३ ॥

विश्वास-प्रस्तुतिः - १०४

नारदः सखे, हन्त हन्त, प्रतिबुद्धा दुर्मतिः सोरस्ताडं स्वयं विलपति ।

(पुनर्नेपथ्ये)

बाहिअजणेहिं सत्थं दिहमगं तुए पकन्तेण ।

दीदसा सन्ततो दइअजणो णाह किन्ति सञ्चतो ॥

( बाह्यजनैः सार्धं दीर्घमार्ग त्वया प्रकान्तेन ।

दीनदशा सन्तप्तो दयितजनो नाथ किमिति सन्त्यक्तः ।)॥ १०४ ॥

मूलम् - १०४

प्रभावली - १०४

प्रतिबुद्धा ; महामोहनिधनं जानती । बाहिअजणेहिं बाह्यजनैः । सत्थंसार्धं, यमभटैरिति भावः । दिहमग्गं दीर्घमार्गम् । तुए त्वया । पक्कन्तेण प्रक्रान्तेन ;

X७४५
प्रस्थितेन । दीणदसा सन्तत्तोदीन-दशासन्तप्तः । दइअजणो-दयितजनः । णाहो-नाथः । किन्ति- किमिति । सञ्चत्तो-सन्त्यक्तः ॥ १०४ ॥

प्रभाविलासः - १०४

टीका उपरितनटीकायामन्तर्गता ॥ १०४ ॥

विश्वास-प्रस्तुतिः - १०५

नारदः – सखे, अश्रुतपूर्वमिदमद्भुतमाकर्णितम्।-

तुम्बुरुः — भगवन्, अयं खलु सुरासुरसमरनाटकसूत्रधारस्य भगवतः सूत्ररचनापरिपाकः ।

नारदः —

हतजीवजीवितेशां विषादमूर्च्छादिलुप्तनिश्वासाम् ।

तृष्णादयः सकुल्या दुर्मतिमभितो निपत्य विलपन्ति ॥ १०५ ॥

मूलम् - १०५

प्रभावली - १०५

इदमाकर्णनं कर्मानुगुणजगद्रक्षकस्य भगवतः कृपापरिपाक इत्याह-अयं खल्विति । अयम् ; अश्रुतपूर्वाकर्णनम् । विधेयापेक्षया पुंलिङ्गत्वम् । सुरासुरसमरनाटकसूत्रधारस्य सूत्ररचनापरिपाकः ; सूत्रशब्देन भगवतः सङ्कल्पो लक्ष्यते । एवं सूत्ररचनां कृतवानित्यर्थः । अथ दुर्मतिमभितो निपत्य तृष्णादयः प्रलपन्तीत्याह हतजीवेति । सकुल्याः; समानकुलप्रसूताः । निष्प्रतिघातः ; प्रतिहतिरहितः । नियतिपरिणामः ; विधिपरिपाकः ॥ १०५ ॥

प्रभाविलासः - १०५

हतेति । जीवाः ; प्राणाः । सकुल्याः ; समानकुलप्रसूताः ॥ १०५ ॥

विश्वास-प्रस्तुतिः - १०६

दुष्प्रतिघातः खल्वयं दारुणो नियतिपरिणामः ।

यतः,

आकर्ण्य चामरभृताममराङ्गनानां

मञ्जूनि तानि’मणिकङ्कणशिञ्जितानि97

शृण्वन्नसौ विलपितानि निजप्रियाणां

मोहः प्रयात्यपुनरुन्मिषिताय निद्राम् ॥ १०६ ॥

मूलम् - १०६

दुष्प्रतिघातः खल्वयं दारुणो नियतिपरिणामः ।

यतः,

आकर्ण्य चामरभृताममराङ्गनानां

मञ्जूनि तानि’मणिकङ्कणशिञ्जितानि97

शृण्वन्नसौ विलपितानि निजप्रियाणां

मोहः प्रयात्यपुनरुन्मिषिताय निद्राम् ॥ १०६ ॥

प्रभावली - १०६

तत्र हेतुमाह आकर्ण्येति । असौ ; मोहः । पूर्व चामरभृताम् ; स्वसेवार्थ

X७४६
चामरग्राहिणीनाम्, अप्सरसाम् । मञ्जुनि मणिकङ्कगशिञ्जितानि आकर्ण्य अद्य निजप्रियाणां विलपितानि शृण्वन् अपुनरुन्मिषिताय पुनरुद्बोधजननाभावाय निद्रां प्रयाति । अतो नियतिपरिपाको दुष्परिहर इति भावः ॥ १०६ ॥

प्रभाविलासः - १०६

आकर्ण्येति । अत्र करुणशृङ्गारयोः समावेशेऽपि वीररसस्यामराङ्गनादिपदैद्योन्तितत्वेनान्तरितत्वान्न विरोधः ॥ १०६ ॥

विश्वास-प्रस्तुतिः - १०७

तुम्बुरुः — भगवन्, महाप्राणोऽसावद्यापि निद्राति मूर्च्छति निमिषति98 वेति संशयडोलामधिरूढोऽस्मि ।

नारदः — भवतु दृष्टं तावदेतावत् । शिष्टमपि यथागमं द्रक्ष्यामः । अयं पुनरत्र मधुकैटभादिमहासुरनिरसनप्रकाशितप्रभावो महापुरुष इव विजितमहामोहो विबुधपतिभिरभिष्टूयते सुमतिपतिः’।99

तुम्बुरुः – भगवन्, इदमस्य विक्रमप्रीणितवियच्चरगणप्रयुक्तं वीराभिषेकमङ्गलम् । यदेतत्

अमुष्य दृढविक्रमद्रुत निपीतमोहाम्बुधे-

र्विवेकनृपतेरसौ विनयसन्नते मूर्धनि ।

परप्रणिधिपक्त्रिम स्थिरसुखापवादोद्गति-

प्रतिप्रसवसौरभा पतति पुष्पवृष्टिर्दिवः ॥
नारदः — सखे, सम्प्रति चिरप्रार्थितमहासमरसन्दर्शनेन सन्तोषितं चक्षुः । तदिह भवता परिविवाहयिषितहर्षप्रकर्षेण विश्वेषु भुवनेषु विवेकविजयो विश्रावयितव्यः । अहं तु प्रशमितप्रतिपक्षं स्ववशीकृतहृषीकगणं सुमतिसहायं महाराजं समयोपनतसार्वभौमपदाभिषेकं सौस्नातिकवृत्त्या सम्भाव्य समाधिसप्ततन्तु साहाय्यकेन सन्तोषयितुमात्मानमिच्छामि ।

( इति निष्क्रान्तौ)

इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये मोहादिपराजयो नामाष्टमोऽङ्कः । ॥ १०७ ॥

मूलम् - १०७

प्रभावली - १०७

एतावत्; लोभनाशमारभ्य मोहनाशपर्यन्तम् । शिष्टम् ; नष्टलोभादिकस्य पुरुषस्य विवेकशमादिभिः क्रियमाणं संयमारम्भमारभ्य परमपदम्प्राप्तिपर्यन्तम् । यथागमम् ; आगमो वेदः । प्रत्यक्षीकुर्म इत्यर्थः । अथ मधुकैटभजिन्महापुरुष इव महामोहजिद्विवेको विबुधैरभिष्टूयत इत्याह-अयं पुनरिति । अमुष्येति । दृढविक्रमेण द्रुतं यथा तथा निपीतो मोहाम्बुधिर्येन । अमुष्य ; विवेकनृपतेः । विनयेन सन्नते शिरसि । परमपुरुषसमाधिना पक्कं यत् सुखं मोक्षाख्यं, तस्य अपवादोद्गतिः प्रकृतिसम्बन्धः, तस्याः प्रतिप्रसवभूतम् अपवादापवादभूतं सौरभं यस्याः सा । पुष्पवृष्टिः दिवः आकाशात् आपतति ।

X७४७
परिवाहयितुम् इष्टः हर्षप्रकर्षो यस्य, तेन भवता । परिवाहो नाम पूर्णस्य जलाशयस्य पर्यन्तप्रवाहः । स्ववशीकृतः हृषीकाणां गणः येन तम् । समयप्राप्तः सार्वभौमपदे अभिषेको यस्य तम् । सौस्नातिकवृत्त्या; सुस्नातं पृच्छतीति सौस्नातिकः पुरोहितः, तद्वृत्त्या । सम्भाव्य सम्पूज्य । समाधिरेव सप्ततन्तुः, तस्मिन् साहाय्यकेन सहायकृत्येन । विवेकसहायकृतलाभेनेत्यर्थः । आत्मानं स्वं सन्तोषयितुम् इच्छामि ॥

इति श्रीनृसिंहराजाचार्य कृत सङ्कल्पसूर्योदय व्याख्यायां प्रभावल्यां मोहादिपराजयो नामाष्टमोऽङ्कः ।॥ १०७ ॥

प्रभाविलासः - १०७

अमुष्येति । परप्रणिधेरीश्वरध्यानस्य पवित्रमस्य स्थिरसुखस्यापवा-
दोद्गतिः, तस्याः प्रतिप्रसवः प्रत्यपवादः, स एव सौरभं यस्याः सा । दिवः अन्तरिक्षात्॥

इत्यात्रेयाहोबिलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने मोहादिभङ्गो नामाष्टमोऽङ्कः ।॥ १०७ ॥

  1. मत्प्रेक्षिताः – ख. ↩︎ ↩︎

  2. ’ विज्ञातश्व -छ. ↩︎ ↩︎

  3. सेणा –– क सेण्ण —ख. छ. ↩︎ ↩︎

  4. अभिसृत्य – क. ख. ↩︎ ↩︎

  5. ‘विवेकाश्रयः - ख. ↩︎ ↩︎

  6. ईशधातोरौणादिके वरटि टित्वात् ङीपि रूपम्. ↩︎ ↩︎

  7. शूल — ग. ↩︎ ↩︎

  8. सलहाओ – छ. ↩︎

  9. शलभाः —छ. ↩︎

  10. तस्य — ग. ↩︎ ↩︎

  11. इति omitted —छ ↩︎ ↩︎

  12. वेत्रदण्डैः – क. ↩︎ ↩︎

  13. सम्मानितेयं —क ↩︎ ↩︎

  14. सरभसमुपसृत्य — -ख. ↩︎ ↩︎

  15. पलाशवदलेप — ग. ↩︎ ↩︎

  16. आश्रयन्ते — छ ↩︎ ↩︎

  17. चलदुरुखुरु — छ. ↩︎ ↩︎

  18. आसज्जउ—-क. ↩︎ ↩︎

  19. तं जीव—-क. ↩︎ ↩︎

  20. कातर्यवचनं—-क ↩︎ ↩︎

  21. अन्यमिव — क. ↩︎ ↩︎

  22. अपसार्यतामिति प्रभावलीपाठः ↩︎ ↩︎

  23. अशेषजन — ग. ↩︎ ↩︎

  24. मोहारम्भक्षुभित — ग. ↩︎ ↩︎

  25. ‘वेलाभङ्गेति प्रभावलीपाठः ↩︎ ↩︎

  26. निशामुखे च — क ↩︎ ↩︎

  27. महावीरपति — क ↩︎ ↩︎

  28. त्रयीमयं किमपि महो विजृम्भते ↩︎ ↩︎

  29. एतदारभ्य एकोनत्रिंशश्लोकपर्यन्तस्य भागस्य नृसिंहराजीयव्याख्या मातृकायां त्रुटिता । अतः प्रभावली समाख्यादज्ञात कर्तृनामकात् व्याख्यान्तरादुद्धृत्यापेक्षितो भागोऽत्र पूरितः । ↩︎

  30. चिरनिर्वृत्तोऽपि — ख ↩︎ ↩︎

  31. व्यक्तोल्लासद्विजवरगण –— ग. ↩︎ ↩︎

  32. प्रतिभटजितः — क. ↩︎ ↩︎

  33. सचमत्कारम् — ख. ↩︎ ↩︎

  34. प्रतिहतिषु — क. ↩︎ ↩︎

  35. पत्तयो. दत्तवेगाः — ग. ↩︎ ↩︎

  36. निशीथसमयः — क. ↩︎ ↩︎

  37. कलकलैः — ग ↩︎ ↩︎

  38. उत्तम्भिताग्रेति प्रभावलीपाठः ↩︎ ↩︎

  39. ईलिअ — क. ↩︎ ↩︎

  40. ससन्तोषमिति प्रभाविलासपाठः ↩︎ ↩︎

  41. पूर्णा — क ↩︎ ↩︎

  42. उपतिष्ठाम —-ख. ↩︎ ↩︎

  43. उपगतः — क; अधिगतः ― —ग. ↩︎ ↩︎

  44. समासान्तविधेरनित्यत्वान्नानङ् ↩︎ ↩︎

  45. युधधातोरनुदात्तेत्त्वलक्षणात्मनेपदस्यानित्यत्वादात्मनेपदाभावे परस्मैपदिनः सन्नन्तस्य रूपम् । ↩︎ ↩︎

  46. सहर्षम् –— ग. ↩︎ ↩︎

  47. स्वायत्तकार्यविभवस्य — ग. ↩︎ ↩︎

  48. नीतौ स्थित इति व्याख्ययोः पाठः । ↩︎ ↩︎

  49. See the footnote on the stanza 50 ↩︎ ↩︎

  50. .भवभृतां —क ↩︎ ↩︎

  51. भगवतीं omitted क ↩︎ ↩︎

  52. लक्ष्यते — क ↩︎ ↩︎

  53. शिञ्जिनीः —ग ↩︎ ↩︎

  54. द्विवर्ग —ग ↩︎ ↩︎

  55. रणवारणेति प्रभावलीपाठः ↩︎ ↩︎

  56. तत एव —ख ↩︎ ↩︎

  57. नाम्नीं —ग ↩︎ ↩︎

  58. अनङ्ग समयनासीरवीरः — छ. ↩︎ ↩︎

  59. शृङ्गाधूतक. शृङ्गाघाट —-ग ↩︎ ↩︎

  60. तुम्बुरुः omitted —ख ↩︎ ↩︎

  61. महेन्द्र —क, ख ↩︎ ↩︎

  62. इस्थं चानन्त — क ↩︎ ↩︎

  63. गर्हिते – — क. ख. ↩︎ ↩︎

  64. साम —ग; धामेति प्रभावलीपाठः, ↩︎ ↩︎

  65. शिल्पः —ग, छ ↩︎ ↩︎

  66. कोपमेवं मंस्थाः —क. ख. ↩︎ ↩︎

  67. क्षुभित — क. ↩︎ ↩︎

  68. हटात् त्रुटित. —ग ↩︎ ↩︎

  69. प्रथित — क. ↩︎ ↩︎

  70. सकलाराति — क. ↩︎ ↩︎

  71. वृत्तिरिव — ग ↩︎ ↩︎

  72. दमितःः — ख. ग. ↩︎ ↩︎

  73. परम् —-क. ग. ↩︎ ↩︎

  74. लगुडमिति प्रभावलीपाठः ↩︎ ↩︎

  75. तटक्रीडां पीडाभिसन्धिः — क. ↩︎ ↩︎

  76. क्षोदः — क ↩︎ ↩︎

  77. केनचित् — ख. ↩︎ ↩︎

  78. कवचेनैकः — ख. ↩︎ ↩︎

  79. विस्फुलिङ्गैः — क ↩︎ ↩︎

  80. ‘क omits this and the stanza following. ↩︎

  81. योधयिष्यते — क. ↩︎ ↩︎

  82. There is no Prabhāvalī Commentory for the stanzas 81 and 82. ↩︎

  83. हृदयः शल्यरूपः शल्य इव — क. ↩︎ ↩︎

  84. धृत कलह —-ग, ↩︎ ↩︎

  85. तृष्णादिभिः — ख. ↩︎ ↩︎

  86. विलगन्मदेति व्याख्ययोः पाठः ↩︎ ↩︎

  87. समितिव्यक्तवेगः — क. ↩︎ ↩︎

  88. मर्यादामतीतो मर्यादातीतः द्वितीयाश्रितातीतेत्यादिना समास इति तु सरसगतिः । ↩︎

  89. निरुद्धनिबिडाम्बरः — -ग, ↩︎ ↩︎

  90. निगमजातेति प्रभाविलासपाठः ↩︎ ↩︎

  91. नियतिः — क. ↩︎ ↩︎

  92. मृतरुण्डम् — ग. ↩︎ ↩︎

  93. उत्कीर्णभूमिः — क ↩︎ ↩︎

  94. उद्धून्वन् —क. ↩︎ ↩︎

  95. पराजितः —–ख. ग. ↩︎ ↩︎

  96. तल्लक्षणं भावप्रकाशे- " सर्वासामन्तरा वस्तुरसादिवशकल्पिता ।आन्तरा सा ध्रुवा ज्ञेया नाट्याभिनयरञ्जनी ॥ " इति । ↩︎

  97. मणिनूपुर —— ग ↩︎ ↩︎

  98. निमीलति वेति — क. ↩︎ ↩︎

  99. सुमतिपरिवृढः —-ग. ↩︎ ↩︎