विश्वास-प्रस्तुतिः - १
शुद्धविष्कम्भः
(ततः प्रविशति संस्कारः)
संस्कारः—अहं खल्वनुभवामुष्यायणः संस्कारनामा1 देवस्य विवेकस्य शिक्षितसर्वविद्याकलापः2 शिल्पी देवशिल्पिनं विश्वकर्माणमसुरशिल्पिनं मयं च विजित्य विश्रमाभिलाषी चिरमस्वाप्सम् । तावच्चेदमन्तरमासाद्य महामोहप्रयुक्ताभ्यां मधुकैटभाभ्यामिव महाबलाभ्यां मध्यमचरमगुणाभ्यां सत्त्वमित्रमसाविति जिघांसितः । नूनमप्रबुद्धतैव पुरुषेषु प्रतिपक्षजनस्य हस्तावलम्बः । ततश्चाहं
( विष्कम्भः)
प्रबोधितः3 सहसैव परमपुरुषदयाचोदितया देव्या सुमत्या सहदृष्टिसदृशदृष्टिसञ्ज्ञाभ्यां दासीभ्यां निरवकाशतया4 ततस्ततः पलायिते प्रतिपक्षे केनापि हेतुना विश्वचित्रं दिदृक्षमाणस्य देवस्य महाराजविवेकस्य सेनापतिना व्यवसायेन स्वामिसम्मतमादिष्टोऽस्मि । यथादिष्टं च तदाहितदृष्टिरन्वतिष्ठम् । अवसरानुकूलवृत्तीनां खल्वधिकारिणामाधिपत्यं प्रतितिष्ठति । ततश्च,
विदुषश्चिन्तनां शक्त्या चित्रभित्तिं वितन्वता ।
शुद्धाशुद्धविभागार्हं विश्वं विलिखितं मया ॥ १ ॥
मूलम् - १

प्रभावली - १
संस्कारो नाम पदार्थानुभवजनितस्तत्स्मृतिजनको भावनाख्यः । अनुभवामुष्यायणः; अनुभवस्यापत्यं पुत्रः । शिक्षितः सर्वविद्यानां कलापः समूहो येन । विवेकस्य शिल्पी ; चित्रलेखकः । शिल्पिनम् ; तक्षाणम् । शिल्पविद्यया विजित्य विश्रमाभिलाषी अस्वाप्सम् । संस्कारस्याप्रबोध एव स्वापः । तावत् ; तावता । मध्यमचरमगुणाभ्याम् ; रजस्तमोगुणाभ्याम् । असौ ; संस्कारः । सत्त्वगुणस्य मित्रमिति मत्वा हन्तुमिष्टोऽभूवम् । अप्रबुद्धता ; प्रमादः । शत्रुजनस्य
X६०९
हस्तावलम्बः । ततः ; अनन्तरम्, जिघांसनात् हेतोर्वा । सुमत्या ; प्रेषिताभ्यामिति शेषः । सहदृष्टिः ; सहदर्शनम् । सदृशदृष्टिः ; सदृशदर्शनम् । ताभ्यां सुमतीदासीभ्यां सहसैव प्रबोधितोऽस्मि । सहदर्शनेन सदृशदर्शनेन च संस्कार उद्बुद्धो भवति । अथ स्वकर्तव्यमावेदयितुं स्ववृत्तान्तमाह – निरवकाशतयेत्यादिना । प्रतिपक्षे; चार्वाकादिषु कामादिषु च विवेकसन्निधाववकाशाभावात् तत्र तत्र पलायितेषु । केनापि हेतुना ; पुरुषस्य ’ शुभाश्रयनिर्धारणायेत्यर्थः । विश्वचित्रम् ; विश्वरूपं चित्रम् । स्वामिसम्मतम् विवेकस्याभिमतं किमपीति शेषः । आदिष्टोऽस्मि ; मनोभित्तौ जगच्चित्रलेखनायेत्यर्थः । यथाज्ञप्तं तत् ; चित्र लेखनम् । आहितदृष्टिः; सावधानोऽनुष्ठितवानस्मि । अनुष्ठानेच्छायां कारणमाह -अवसरेति । अवसरे अनुकूलकृताम् । प्रतितिष्ठति ; प्रतिष्ठितं भवति । तदन्वतिष्ठमित्युक्तं विशदयन्नाह ततश्चेति । विदुषः ; उपासकस्य । चिन्तनाम्; चिन्ताम् । चित्रस्य लिख्यमानस्य जगच्चित्रस्य भित्तिं कुर्वता मया ।
X६१०
शक्त्याः यथाशक्तीत्यर्थः । शुद्धाः ; कर्मरहिताः नित्यविभूतिगताः । अशुद्धाः ; लीलाविभूतिगताः कर्मबद्धाः । शुद्धाशुद्धविभागविशिष्टमित्यर्थः । विश्वं विलिखितम् ; सर्वतश्चित्रितम् ॥ १ ॥
प्रभाविलासः - १
तत इत्यादि । आमुष्यायणः; पुत्रः । विजित्य चिरमस्वाप्समिति मुचुकुन्दसाम्यं व्यज्यते । सहदृष्टीति ; " सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य
बोधकाः” इति वचनमभिप्रेतम् । विदुष इति । शुद्धम् ; ब्रह्मस्वरूपम् । अशुद्धम् ; देवादिकम् । तदुक्तम्
“समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।
चिन्त्यमात्मविशुद्धयर्थं सर्वकिल्बिषनाशनम् ॥
इति ।
" अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ”
इति च ॥ १ ॥
विश्वास-प्रस्तुतिः - २
( सर्वतोऽवलोक्य) अहह सहस्रेष्वपि5 शिल्पकर्मसु6 किञ्चिदेव कदाचिदतिशेते । इह च,
इति ।
श्लक्ष्णं स्थानं सान्द्रलग्नो विलेपः
सूक्ष्मा रेखा सुस्थितः सूत्रपातः ।
स्निग्धो वर्णस्तत्तदर्हो विशेषः
शङ्के पक्वं शिल्पविद्याफलं नः ॥ २ ॥
मूलम् - २

प्रभावली - २
सर्वतोऽवलोक्य । अहहेति ; अद्भुते । लोके चित्रकर्मणि कदाचित् किञ्चिदेवातिशेते; सुष्ठु भवति । इह तु सर्वमप्यनुकूलं जातमित्याह — ऋणमिति । स्थानम् ; चिन्तनाख्यम् । श्लक्ष्णम; चिन्तनायाः श्लक्ष्णत्वं नाम प्रत्ययान्तरानन्तरितत्वम् । विलेपः ; वासनाप्रकर्षरूपः सान्द्रं यथा तथा लग्नः ;
X६११
वासनाप्रकर्षो मनसि लग्नो भवति । अन्यत्र सुधाविलेपनम् । रेखाशब्देन चिन्त्यमानं भगवद्विग्रहादि ध्येयवस्तूच्यते । तस्य सूक्ष्मत्वं विशुद्धमनोग्राह्यत्वम् । सूत्रपातो नाम ध्येयवस्तुबोधकावगमः । चित्रे चित्रस्थितिहेतुर्गुणपातः । वर्णः ; विग्रहश्यामलत्वादिः । स्निग्धत्वं मनोहरत्वम् । अन्यत्र नीलपीतत्वादेः रम्यता । विशेषः ; वर्णविशेषः । तत्तदहः ; लक्ष्मीतत्पतिविग्रहाहैः । अतो नः शिल्पविद्याफलं शिल्पज्ञानफलं परिपक्कं जातमिति शङ्के ॥ २ ॥
प्रभाविलासः - २
श्लक्ष्णमिति । तत्तदर्हः; तत्तत्संस्थानार्हः ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
अपि च, आजानसिद्धशक्तीनां पुरुषाणामभ्युच्चयो हि शिक्षाप्रकर्षः । वदन्ति हि ’ प्रतिनियतैव हि वस्तुशक्तिः’ इति7 । यद्वा भवतु नामैतत्साधारणं सर्वशिल्पिनाम् । मम पुनरालेखनीयानां भगवदवताराणां प्रसादादद्य यावददृष्टचरमीदृशं हस्तकौशलमुपलभ्यते । किं प्रतिपत्स्यते देवः ? निरङ्कुशाः खलु राजानः परिजनकृत्येषु यथार्ह प्रसीदेयुरुपेक्षेरन्वा । अथवा न खल्वयमसमीक्ष्यकारी नयपथनियतवृत्तिरस्मत्स्वामी । तदहं देवस्य विवेकस्य देव्याश्च सुमतेः सबहुमानप्रसादेन धन्यो भविष्यामि । अत्र च,
विश्वप्रीणन विश्वकर्मरचनाचातुर्य कातर्यदैः
शिल्पैः कल्पयतीव मण्डनमसौ चेतः स्थितेर्मण्डपः ।
रत्नस्तम्भभुवोऽपि8 रश्मय इमे सोपानगोपानसी
मध्यं यत्र गवाक्षयन्ति 9 विहितप्रत्यग्रचित्रक्रमाः ॥ ३ ॥
मूलम् - ३

प्रभावली - ३
स्वतःसिद्धशक्तीनां केषाञ्चित् शिक्षाप्रकर्षोऽभ्युच्चये हेतुः । स्वशक्तिरेव प्रधानहेतुरित्याह—-आजानेति । तत्र सम्मतिं दर्शयति वदन्ति हीति । वस्तूनां शक्तिः प्रतिनियता; प्रतिवस्तु पृथङ नियता । वस्तुशक्तिप्रयुक्तं हस्तकौशलं सर्वशिल्पिसाधारणम् । स्वस्याधिक्यमाह — मम पुनरिति । आलेखनीयानाम् ; आलेखनविषयाणाम् । अद्य यावद् एतत्पर्यन्तम् । ईदृशम् ; दृष्टसमम् । प्रत्यक्षसमानाकार कौशलं दृश्यते । किं प्रतिपत्स्यते; साध्विति वा, असाध्विति वा किं ज्ञास्यति । देवः ; विवेकः । यथार्हं साधुनि प्रसीदेरन्, असाधुन्युपेक्षेरन्वा । यथार्हं स्वगुणानुगुणं साधुन्येव प्रसीदेरन् उपेक्षेरन्वा । वेवेकस्त्वसमीक्ष्यकारी न भवतीत्याह अथवेति । नयपथे न्यायमार्गे । बहुमानं .
X६१२
पारितोषिकदानं, तत्सहितेन प्रसादेन । दहराकाशमण्डपं प्रस्तौति — विश्वेति । अयं मण्डपः विश्वेषां प्रीतिकारणं यद्विश्वकर्मणो देवशिल्पिनः शिल्पचातुर्यं, तस्य कातर्यदैः अपजयप्रदैः शिल्पैः रचनाविशेषैः चेतसि स्थितिर्यस्य तस्यान्तर्यामिणो भगवतः मण्डनं शोभां जनयतीव । यत्र मण्डपे रत्नस्तम्भसम्भवा इमे रश्मयः विहितप्रत्ययचित्रक्रमाः अपूर्वचित्रार्पणक्रमो विहितो यैस्ते सन्तः, सोपानसहितायाः गोपानस्याः वलभ्याः मध्यं गवाक्षयन्ति ॥ ३ ॥
प्रभाविलासः - ३
टीका नास्ति
विश्वेति । चैतः स्थितेः ; हृदयपुण्डरीकवर्तिनो हरेः । विहितप्रत्यग्रचित्रक्रमाः ; विहिताः कृताः प्रत्ययाः नूतनाः चित्रक्रमाः आतान वितानरूपेणाश्चर्यप्रसरपर्यायाः । अत्र भ्रान्तिमदलङ्कारो व्यज्यते ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
(नेपथ्ये)
कः कोऽत्र भोः ?
संस्कारः—-( श्रुत्वा सहर्षम् ) किमासीदति शिल्पशालां व्यवसायदत्तहस्तः सुमतिसहायो विवेकः ? तदहं यथोचित परि
कृत्ये वर्तिष्ये ।
( इति निष्क्रान्तः )
शुद्धविष्कम्भः
(ततः प्रविशति विवेकः सुमतिर्व्यवसायश्च )
व्यवसायः—— इत इतो देवः । इयं सा सर्वाश्चर्यसमुच्चयालोकनकुतूहलाहूतपुरुहूतपुरपुरन्ध्रीपरिष्कृतखलूरिकोपान्तभागा बहिरन्तश्च लम्बितामन्दमकरन्दपरिमलमन्दारदामचित्रिता चित्रशाला ; यत्र च परस्परप्रतिफलनादलिखितापि भित्तिर्लिखितेवावभासते ।
(सर्वे प्रवेशं नाटयन्ति )
व्यवसायःः —- (चित्रशालां दर्शयन्) आलोकयतु देवो देवी च ।
इह हि .
परिचयमहिमानं प्राप्य सञ्जातभूमा
दिविषदनुविधेयो दिव्यसंस्कारशिल्पी ।
व्यलिखदनघरूपं विश्वमेतद्यथाव-
च्चिरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥ ४ ॥
मूलम् - ४

प्रभावली - ४
कः कोऽत्र भोः इत्यन्तः स्थितस्य विवेकस्य वचनम् । बहिः स्थितः
X६१३
संस्कारः श्रुत्वा । आसीदति; आगच्छति । अनेनोपरि वक्ष्यमाणाङ्कप्रधानपात्रं सूच्यते ।
शुद्ध विष्कम्भः
इत इत इति ; पश्यत्विति शेषः । शालायाः सर्वाश्चर्यसमुच्चयरूपत्वात् तद्विलोकन कुतूहलेनाहूताः याः स्वर्गपुरन्ध्रयः अप्सरसः, ताभिरलङ्कृतः, खल्लूरिका मुखमण्डपं मुखशाला, तस्या उपान्तभागः उभयपार्श्वसमीपप्रदेशो यस्याः । बहिरन्तश्च लम्बितानि यानि अमन्दपरिमलमन्दारकुसुमदामानि तैः चित्रिता । शालाया अतिशयं वर्णयति — यत्रेति । भित्तीनां परस्परप्रतिफलनात् वस्तुतोऽलिखितापि । अत्र भवत्प्रीत्यै संस्कारशिल्पी विश्वचित्रं लिखितवानित्याह
.
X६१४
परिचयेति । दिविषदः ; देवाः, इन्द्रियाणि; “देवा वैकारिका दश " इत्यादेः, अनुविधेयाः अनुसरणीयाः यस्य सः । अनुभवस्येन्द्रियाधीनत्वात्तत्कार्यस्य संस्कारस्यापीन्द्रियाधीनत्वमिति भावः । यद्वा दिविषदो भगवन्मत्स्याद्यवताराः । अनेन तच्चिन्तनानि लक्ष्यन्ते । तेषां संस्काराधीनत्वात्तदनुविधेयत्वम् । दिव्यः संस्काराख्यः शिल्पी परिचयातिशयं प्राप्य सञ्जातद्रढिमा सन् अनघं रूपं यस्य तत् विश्वं चिरगतमपि यथा दृश्यं स्फुटं प्रत्यक्षं भवति, तथा चिन्तनाख्यचित्रभित्तौ यथावत् व्यलिखत् ॥ ४ ॥
प्रभाविलासः - ४
शुद्ध विष्कम्भः
तत इत्यादि । खलूरिका ; गृहपुरोभागः । यत्रेति ; अत्र भ्रान्ति
मदलङ्कारः । परिचयेति । दिविषदनुविधेयः; स्वर्गवासिनामनुसरणीयः । चिरगतमपि दृश्यमिति ; " चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्” इति वचनं व्यञ्जितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
अपि च,
प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः ।
अपि भूतानि भावीनि भवन्तीव भवन्ति10 नः ॥ ५ ॥
मूलम् - ५
अपि च,
प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः ।
अपि भूतानि भावीनि भवन्तीव भवन्ति10 नः ॥ ५ ॥
प्रभावली - ५
पुनरप्यत्रातिशयमाह–प्रमाणेति । प्रमाणप्रत्ययात्; अनुभवावेदकप्रमाणविश्वासात् । अत्र; भित्तौ । कल्पितानि ; लिखितानि । भूतानि भावीन्यपि
X६१५
चित्राणि अविकल्पतः अविशेषेण भवन्तीव वर्तमानानीव नः विभान्ति ; अतीतान्यपि प्रत्यक्षाणीव स्फुरन्तीत्यर्थः ॥ ५ ॥
प्रभाविलासः - ५
प्रमाणेति । प्रमाणप्रत्ययात् ; प्रमाणदार्थ्यादित्यर्थः । अविकल्पतः असंशयात् । भूतानि अतीतानि । भावीन्यपि ; भविष्यन्त्यपि । भवन्तीव; वर्तमानानीव भवन्ति ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
राजा (विश्वतो दृष्टि प्रसारयन् ) देवि, दृश्यतामिदमपूर्वमद्भुतम्, यस्य पुनः स्वेन विना नोपमानान्तरमुपलभामहे ।
अस्ति किञ्चित् । तथा हि—-
परिमितमपरिमितानामास्पदमेतत्प्रपञ्चचित्राणाम् ।
दहरगगनाभिधानं दिव्यं पुरुषं निदर्शयति ॥ ६ ॥
मूलम् - ६

प्रभावली - ६
दहराकाशस्योपमानान्तरं किञ्चिदस्तीत्याह — परिमितमिति । एतत् दहराकाशाभिधानम् अपरिमितानां प्रपञ्चचित्राणामास्पदं स्वस्य दिव्यं पुरुषं भगवन्तं निदर्शयति ; उपमानत्वेन दर्शयति । दहराकाशस्थितो दिव्यपुरुषोऽपि हृदयपरिमितः अपरिमितप्रपञ्चाश्रयश्च भवति ॥ ६ ॥
प्रभाविलासः - ६
परिमितमिति । दहरगगनाभिधानम् ; दहराकाशशब्दवाच्यं परं ब्रह्म " दहरोऽस्मिन्नन्तर आकाशः " इति श्रुतेः ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
(विमृश्य) अथवा, जठरविवरविन्यस्तसमस्तवस्तुजातस्य कल्पान्तबालकस्य कल्पयति कल्पनाम् । अपि च,
नैतद्वाद्यैस्तूलिकावर्णकाद्यैः क्लृप्तं चित्रं किन्तु सन्तोषलिप्ताम् ।
नानाकारां भावनामेव शिल्पी शिल्पव्याजान्नूनमत्रोज्जगार ॥ ७ ॥
मूलम् - ७

प्रभावली - ७
दिव्यपुरुषस्य यदघटितघटनासामर्थ्यं तदस्य शिल्पिनोऽप्यस्तीत्याहजठरेति । कल्पनाम् ; अघटितघटनासामर्थ्यम् । अयं शिल्पी इदं चित्रं बाह्यरुपकरणैर्न लिखितवान्, किन्तु स्वगतां भावनामेवोद्घाटितवानित्याह — अपिचेति । एतत् चित्रम् ; जगद्रूपम् । बाह्यैस्तूलिकावर्णकाद्यैः तूलिका लेखिनी, वर्णका अग्रे मृदुतन्तुबद्धं श्वेतपीतादिलेखनद्रव्यं, तदाद्यैः क्ल्प्तं चित्रं न । किन्तु सन्तोषकल्पितां
X६१६
नानाकारां भावनां चिन्तनामेव जगचित्ररूपेण उज्जगार उद्गीर्णवान् । नूनम् ; सौष्ठवदेवमुत्प्रेक्षते ॥ ७ ॥
प्रभाविलासः - ७
नैतदिति । सन्तोषः ; भगवद्विषयिणी प्रीतिः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
सुमतिः—– णाह अचितणिज्जमाहप्पाए11 ईसरस्स विअ तुह सत्तीए इअरदुघडं सव्वं सङ्घडिज्जइत्ति किम् अच्चरिअं ?
( नाथ, अचिन्तनीयमाहात्म्ययेश्वरस्येव तव शक्त्येतरदुर्घटं सर्वं सङ्घट्यत इति किमाश्चर्यम् ?)
राजाः—- अत्र किल12 विश्वतश्चित्रे विश्वचित्रे,
अशुद्धसृष्टिविषयं भागं भवभृदाश्रयम् ।
अधिकप्रतिकोटिस्थं दृष्टिस्तव दिदृक्षते ॥ ८ ॥
मूलम् - ८

प्रभावली - ८
I
नाह–नाथ । अचितणिज्जमाहप्पाए— अचिन्तनीयमाहात्म्यया । ईसरस्स, ईश्वरस्य । विअ इव । तुह तव । सत्तीए शक्त्या । इअरदुग्घडम् इतरदुर्घटम् सव्वं सर्वम् । सङ्घडिज्जइत्ति सङ्घट्यत इति । किम् अञ्चरिअं किमाश्चर्यम् । अशुद्धसृष्टेः सकाशात् शुद्धसृष्टिविषये सुमतिं निवर्तयितुं सुमल्या अशुद्धशुद्धोभयसृष्टिविषयदिदृक्षामनुवदति-अत्रेति । सर्वप्रकारेणाप्यद्भुते विश्वरूप चित्रे । अशुद्धेति । भवभृदाश्रयम; संसारिसम्बन्धिनम् । अशुद्धसृष्टिविषयम्; अशुद्धाः बद्धाः,
तेषां सृष्टिः, तद्विषयं चित्रभागम् ! अधिकप्रतिकोटिस्थम् ; जीवादधिकभूते प्रतिकोटौ व्यूहविभवादिषु तिष्ठतीति तथा । शुद्धविषयमित्यर्थः । कर्मकृतसम्बन्धाभावात् शुद्धत्वम् । भागं च ; उभयमपीत्यर्थः । तव दृष्टिः दिदृक्षते ॥ ८॥
प्रभाविलासः - ८
अशुद्धेति । अधिकप्रतिकोटिस्थम् ; निःसमाभ्यधिक हेयविरोधिभगवदाधारमिति भागविशेषणम् ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
अत्र13 च,
प्रवर्तयितुमिच्छतः प्रगुणवृत्तिमन्तर्दृशं
गुणत्रयविचित्रिता यवनिकेयमाच्छादिका ।
तदत्र भवदुर्ज्वरज्वलनजन्मभूमौ14 त्वया
दिक्षणमितः परं दृढविलक्षया त्यज्यताम् ॥ ९ ॥
मूलम् - ९
अत्र13 च,
प्रवर्तयितुमिच्छतः प्रगुणवृत्तिमन्तर्दृशं
गुणत्रयविचित्रिता यवनिकेयमाच्छादिका ।
तदत्र भवदुर्ज्वरज्वलनजन्मभूमौ14 त्वया
दिक्षणमितः परं दृढविलक्षया त्यज्यताम् ॥ ९ ॥
प्रभावली - ९
X६१७
अत्राशुद्धसृष्टिविषयदिदृक्षा त्यज्यतामित्याह—- प्रवर्तयितुमिति । प्रगुणवृत्तिम्; प्रकृष्टो गुणः सत्त्वं तत्र वृत्तिः वर्तनं यस्यास्ताम् । अन्तर्दृशं ज्ञानदृष्टि वर्तयितुमिच्छतः पुंसः इयम् अशुद्धसृष्टिः गुणत्रयविचित्रितयवनिका सती दृष्टेः आच्छादिका भवति । यवनिकापक्षे गुणत्रयं श्वेतनीलादि । तत्; तस्मात् । अत्र; उभयसृष्टिमध्ये । भव एव दुर्जरः दुःशमः अनलः, तस्य जन्मभूमौ । शुद्धसृष्टावित्यर्थः । इतः परं दिदृक्षणं दर्शनेच्छा दृढविलक्षया गाढलज्जया त्वया पुरुषं मोचयन्त्या त्यज्यताम् ॥ ९ ॥
प्रभाविलासः - ९
प्रवर्तयितुमिति । गुणत्रयम्; सत्त्वादिकम् । तत् तस्मात्, आच्छादकत्वाद्धेतोः । भवदुज्वरः; संसारतापः, स एव ज्वलनः, तस्य जन्मभूमौ । दिदृक्षणम् ; दर्शनेच्छा । दृढविलक्षया; दृढवैमुख्येन ; सुमतिविशेषणं वा । त्यज्यतामिति ; अनेन सङ्ग्रहो नाम गर्भसन्धेः षष्ठमङ्गमुक्तम्, ’ प्रस्तुतोपयोगि सामदानवचनं सङ्ग्रहः " इति लक्षणात् ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
व्यवसायः—- देवि, सम्यगिदमादिष्टं देवेन । तथा हि—
विविधविषयद्वीपारोहावरोहविसंस्थुल-
स्थितिभिरमुकैरन्योन्यस्मादुपस्थित साध्वसैः ।
कमठमकरग्राहप्रायैरबुद्धिभिराश्रित—
स्त्रिगुणजलधिर्न द्रष्टव्यः समीहितसंयमैः15 ॥ १० ॥
मूलम् - १०

प्रभावली - १०
आदिष्टम् ; उपदिष्टम् । बद्धजीवसहिता प्रकृतिर्विद्वद्भिर्न ध्येयेत्याह— विवि-
X६१८
घेति । विविधविषयाः शब्दादयः, त एव द्वीपाः, तेषाम् आरोहावरोहौ संयोगवियोगौ, ताभ्यां संस्थुला चञ्चला स्थितिः येषां तैः । प्राप्तभयैः ; प्रबलं दृष्ट्वा दुर्बलो बिभेति । समबलावन्योन्यस्मात् बिभीतः । कमठा दिसदृशैः ; दुर्बलहिंसकैरिति यावत् । अबुद्धिभिः ; कृत्याकृत्यविवेकशून्यैः । अमुकैः ; बद्धैः ब्रह्मरुद्रादिभिः । आश्रितः त्रिगुणजलधिः समीहितसंयमैः पुरुषसमाधिमिच्छद्भिरस्माभिः न द्रष्टव्यः । पुरुषसमाधौ न ध्यातव्य इति भावः । ब्रह्मविषयसन्तन्यमानज्ञानस्य ध्यानत्वेन तदितरविषयज्ञाने सति ब्रह्मज्ञानविच्छेदान्न द्रष्टव्य इति भावः । समीहितसाधनैरिति वा पाठः ॥ १० ॥
प्रभाविलासः - १०
विविधेति । विसंस्थुलम् ; दन्तुरम् । कमठः कूर्मः । मकरः ;
मत्स्यः । ग्राहः ; नक्रः । न द्रष्टव्य इत्यनेनेदं स्मारितम् ; यदाह
शौनकः—
–
" आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥
यतस्ततो न ते ध्याने ध्यायिनामुपकारकाः ।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥
तस्मादुद्भूतबोधाश्च ध्याने नैवोपकारकाः ।
नैसर्गिको न वै बोधस्तेषामेवान्यतो यतः ॥ “
इति ।
“पूर्ण वर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ।
दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्ण सहस्रं चाभिमानिकाः ॥ "
इत्यादि च ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
सुमतिः— अय्यउत्त, ठिरणिबद्धाहिं वासणाहिम् आकिट्ठा वि मह दिट्ठी ‘दाणिं16 तुह णिओएण पच्चाणिज्जइ ।
( आर्यपुत्र, स्थिरनिबद्धाभिर्वासनाभिराकृष्टापि मम दृष्टिरिदानीं तव नियोगेन प्रत्यानीयते । )
व्यवसायः— इतस्तर्हि शुद्धसृष्टिमये भगवतो विभूतिभागे
देवेन देव्या च दत्तदृष्टिभ्यां भवितव्यम् । अत्र च,
परव्यूहव्यूहान्तरपदविभक्तेषु बहुषु
त्रिधात्रो रूपेषु स्थितिमनधिगम्यापि मनसः ।
अवैजात्यं बृन्दारकनरतिरश्चामभिनय-
त्यमुष्मिन्दृष्टिस्ते भवतु विभवव्यक्तिनिवहे ॥ ११ ॥
मूलम् - ११

प्रभावली - ११
ठिरणिबद्धाहिं — स्थिरनिबद्धाभिः । वासणाहिं वासनाभिः । आकिट्ठावि
X६१९
आकृष्टापि । मह मम । दिट्ठी-दृष्टिः । दाणिं- इदानीम् । तुह- तव । णिओ[ण-नियोगेन । पञ्चाणिज्जइ- प्रत्यानीयते । शुद्धसृष्टिमये ; शुद्धसृष्टिप्रचुरे । अत्र ; शुद्धसृष्टौ च । परव्यूहव्यूहान्तराणां मनसा ध्यातुमशक्यत्वेऽपि विभवेषु दृष्टियितामित्याह परेति । परादिपदविभक्तेषु परादिपदवाच्येषु । यद्वा परः परवासुदेवः, व्यूहः व्यूहवासुदेवसङ्कर्षण प्रद्युम्नानिरुद्धाः ; व्यूहान्तरं केशवादयः, पद्यत इति पदं स्वरूपम्, एवमादिस्वरूपतो विभक्तेषु त्रिधाम्नः भगवतः रूपेषु मनसः स्थितिर्न घटते, अपरिचितरूपत्वात् । अनधिगम्यापि ; स्थित्यधिगमेऽपीत्यर्थः । बृन्दारकनरतिरश्चाम् अवैजात्यं साजात्यम् अभिनयति अमुष्मिन्भगवतो विभव्यक्तिनिवहे विभवावतारगणे ते दृष्टिः भवतु ॥ ११ ॥
प्रभाविलासः - ११
परेति । परः; परव्योम्नि स्थितः । व्यूहः ; तत्रैव सङ्कर्षणादिः । व्यूहान्तराणि; केशवादिमूर्तयः । अवैजात्यम् ; सादृश्यम् । अभिनयति ; धृतवति । दृष्टिर्भवतु अत्र,
" यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः ।
नृसिंह वामनादीनां तेष्वेकं परिचिन्तयेत् ॥ "
इति वैष्णवधर्मोक्तिः स्मारिता ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
राजा— देवि, उचितमेतदुत्प्रेक्षितं सेनापतिना । परिचितसजातीये ह्ययत्नलभ्यो भावबन्धः17 ।
व्यवसायः—देव,
अवताररहस्यतत्त्ववेदिनामपुनर्जननेन
परप्राप्तिरगीयत ‘स्वयमनघोपदेशेन18 परमपुरुषेण । अपि च,
ईक्षणध्यान19 संस्पर्शप्रमुखैः पोषयन्प्रजाः ।
मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः ॥ १२ ॥
मूलम् - १२

प्रभावली - १२
X६२०
"
यो
उत्प्रेक्षितम् ; विचारितम् । परिचितवस्तुसजातीये भावबन्धः मनसो ऽवस्थानम् । अवताररहस्यवेदिनां देहावसाने मोक्षप्राप्तिरभिधीयत इत्याहअवतारेत्यादि । ननु " कारणं तु ध्येयः" इति कारणावस्थस्यैव ध्येयत्वमुक्तम्; अवताराणां कार्यत्वात्कथं ध्येयत्वमित्यत आह—अवतारेति । मत्स्य
X६२१
कूर्मविहङ्गानां ध्येयत्वे युक्तिमाह — ईक्षणेति । ईक्षणं दर्शनं, ध्यानं मनसा चिन्तनं, संस्पर्शनं स्पर्शनम् ; प्रमुखशब्दात् तत्तदवतारसिद्धाः कण्टकोद्धरणादयोऽसाधारणोपकाराः । विहङ्गादिरूपः प्रेक्ष्यते ध्यायते । ईक्षणादिभिः पोषकत्वादय उपपत्तयः ॥ १२ ॥
प्रभाविलासः - १२
अवतारेति । अत्र “तस्य धीराः परिजानन्ति योनिम्”
“यो जातमस्य महतो महिब्रवात् "
" जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ "
इत्यादिकमनुसन्धेयम् । ईक्षणेति ।
“ईक्षणध्यानसंस्पर्शैर्मत्स्य कूर्म विहङ्गमाः ।
पुष्णन्ति स्वान्यपत्यानि तद्वत्पण्डितवृत्तयः ॥ “
इत्येतत् व्यञ्जितम् ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अत्र च,
अनासीदद्दोषो जहदवधिषाड्गुण्यजलधि-
र्विहारस्वाच्छन्द्याद्विभुरिह दधानो विभवताम् ।
तिरश्चामप्येतैः कमठकिटिपाठीनपतग
प्रकारैराकारैः परिवृढतमत्वं द्रढयति ॥ १३ ॥
मूलम् - १३
अत्र च,
अनासीदद्दोषो जहदवधिषाड्गुण्यजलधि-
र्विहारस्वाच्छन्द्याद्विभुरिह दधानो विभवताम् ।
तिरश्चामप्येतैः कमठकिटिपाठीनपतग
प्रकारैराकारैः परिवृढतमत्वं द्रढयति ॥ १३ ॥
प्रभावली - १३
ननु मत्स्यादिशरीरे भगवतस्तत्तज्जातिकृतदोषप्रसक्तिरनिवार्येत्यत आहअनासीददिति ; अप्राप्तदोषः तत्तज्जातिदोषैरसंसृष्टः, स्वेच्छावतीर्णत्वात् । जहत् अवधिः यस्य तन्निरवधि । इदमुभयलिङ्गत्वं सर्वत्रानुवृत्तमिति भावः । इह ; लीलाविभूतौ । लीलायाः स्वातन्त्र्यात् ; स्वातन्त्र्यलीलयेत्यर्थः । विभवा
X६२२
वस्थां दधानः । किटिः ; वराहः । पाठीनः ; मत्स्यः । पतगः ; पक्षी हंसः । प्रकार शब्दः प्रभृतिपरः; एवमाद्यैः । तिरश्चामाकारैरपि ईश्वरत्वं द्रढयति ; तत्र तत्र ज्ञानोपदेशजगद्रक्षणादिकृत्यैरिति भावः ॥ १३ ॥
प्रभाविलासः - १३
अनासीददिति । अनासीदन्तः अप्राप्ताः दोषाः यं सः । अनेन जन्मकृतदोषराहित्यं विवक्षितम् ; " न सा कर्मनिमित्तजा" इत्यकर्मवश्यत्वश्रवणात् । जहदवधि; अपरिच्छेद्यम् । षाड्गुण्यम्; ज्ञानादिषट्कम् । तस्य जलधिः । विहारेति ; “ लीलया दधतः कलाः" इति स्मारितम् । स्वाच्छन्द्यादिति ; " इच्छागृहीताभिमतोरुदेहः " इति स्मारितम् । दधान इति ; " अजायमानो बहुधा विजायते " इति व्यञ्जितम् । परिवृढतमत्वम्; अप्राकृततमत्वम् । द्रढयति ; अत्र
“न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः ।
" न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा ॥ "
इत्यादि द्रष्टव्यम् । अत्र परिबृढतमत्वं न केवलमप्राकृतत्वादिना । वेदगिरि भूम्युद्धरणेनालौकिकचरितैश्चेश्वरत्वमेव प्रकटयतीति व्यज्यते ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
राजा— अपारकारुण्यसम्भवोह्ययमशेषजनसंरक्षणाभिलाषिणः परमपुरुषस्यावतारगणः । तथा हि
प्रणतदुरितप्राणाकृष्टिप्रयोगपटीयसः
प्रथितविविधप्रादुर्भावात्प्रभोरनुभावतः ।
जगति बलवन्मोहद्रोहाद्यमित्रशतावृते
जनिपथमहापान्थाः सर्वे जना जितकाशिनः ॥ १४ ॥
मूलम् - १४

प्रभावली - १४
‘करुणामूलत्वादप्यवतारगण उपास्य इत्याहअपारेति । प्रणतेति । प्रणतानां दुरितस्य प्राणाकृष्टौ प्राणापहाररूपे प्रयोगे पटीयसः समर्थस्य भगवतः अनुभावतः प्रादुर्भावात्; अनुभावः प्रभावः, तद्रूपात् प्रादुर्भावात् प्रादुर्भावबलात् बलवद्भिः । यद्वा बलवदित्यव्ययं सुष्ठुवाचकम् । मोहक्रोधाद्यमित्रशतैः आवृतेऽस्मिन् जगति जनिपथमहापान्थाः संसारमार्गे नित्यपान्थाः संसारिणः । जितकाशिनः ; जितं जयः संसारजयः, तेन प्रकाशवन्तो भवन्ति ॥ १४ ॥
प्रभाविलासः - १४
प्रणतेति । प्रणतानां दुरितस्य प्राणाकृष्टिप्रयोगे पटीयसः समर्थान् । अनुभावतः ; प्रभावात् । जितकाशिनः; जयेन प्रकाशन्ते ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
अपि च,
त्रातुं जगन्ति कृपया कल्पे कल्पे भवन्ति दिव्यानि ।
चरितानि चक्रपाणेः प्रवाहवृत्त्या परस्परप्राञ्चि20 ॥ १५ ॥
मूलम् - १५
अपि च,
त्रातुं जगन्ति कृपया कल्पे कल्पे भवन्ति दिव्यानि ।
चरितानि चक्रपाणेः प्रवाहवृत्त्या परस्परप्राञ्चि20 ॥ १५ ॥
प्रभावली - १५
कृपामूलत्वं जगद्रक्षणहेतुत्वं च दर्शयत्यवताराणाम् अपि चेति ।
X६२३
चरितानि ; अवतारचरित्राणि । प्रवाहवृत्त्या प्रभाव प्रकाशनेन परस्परं प्रचीनभूतानि । सर्वाण्यपि प्रभावप्रकाशकानीत्यर्थः ॥ १५ ॥
प्रभाविलासः - १५
त्रातुमिति । परस्परप्राञ्चि; अन्योन्यं पश्चाद्भवन्त्यपि पुरोभवानि, अवतारप्रवाहस्यानादित्वात् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
व्यवसायः -( विस्मयावेशमभिनयन् )
मयस्त्वष्टान्यो वा विपुलमहिमा विश्वसृडपि
स्वशक्त्येदं चित्रं किमपि न विधातुं कृतमुखः ।
अखण्डब्रह्माण्ड प्रथमतमशिल्पी स भगवान्
स्वयं पद्माजानिर्व्यलिखदिह शिल्पं स्वविषयम् ॥ १६ ॥
मूलम् - १६

प्रभावली - १६
विस्मयावेशम् ; विस्मयस्पर्शम् । शुद्धसृष्टिवर्गविषयमिदं चित्रं भगवद्विषयमिदं चित्रं भगवद्व्यतिरिक्तेन केनापि विलेखयितुं न शक्यते ; स्वविषयं चित्रं स्वयमेव व्यलिखदित्याह मय इति । मयः ; असुरशिल्पी । त्वष्टा ; देवशिल्पी । अन्यो वा; अयं संसारशिल्पी वा । एतेभ्योऽधिकमहिमा ब्रह्मापि स्वसामर्थ्येन इदं शुद्धसृष्टिरूपं चित्रं किमपि किञ्चिदपि विधातुं लेखितुं स्रष्टुमित्यर्थः, न कृतमुखः समर्थः स्यात् । अपि तु अखिल ब्रह्माण्डस्य प्रथमतमशिल्पी ब्रह्मणः पूर्वं महदादिसृष्टिशिल्पी यः स भगवानेव स्वविषयं शिल्पं चित्रं स्वयमेव व्यलिखत् । लेखनं सृष्टिः । शुद्धसृष्टिरीश्वर कर्तृका, न ब्रह्मादिसृष्टिविषयभूतेत्यर्थः ॥ १६ ॥
प्रभाविलासः - १६
मय इति । विश्वसृट्; चतुर्मुखः । कृतमुखः ; कुशलः । पद्माकान्त इति तस्या लीलार्थं व्यलिखदिति व्यज्यते ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
अत्र च जलधिमधिकरणीकृत्य दर्शितास्त्रयोऽवताराः । तत्र 21 तावदिममवलोकयतु देवो देवी च । इदं हि,
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम्22 ।
निष्प्रत्यूहतरङ्गरिङ्गणमिथः प्रत्यूढपाथइछटा
डोलारोहसदोहलं भगवतो मात्स्यं वपुर्दृश्यते ॥ १७ ॥
मूलम् - १७

प्रभावली - १७
अधिकरणीकृत्य; आधारीकृत्य । त्रयोऽवताराः ; मत्स्यकूर्मवराहाः ।
X६२४
इमम्; मत्स्यावतारम् । इदम् ; मात्स्यं वपुः । निर्मग्नेति । निर्मग्नस्य जलधौ नितरां मनस्य श्रुतिजालस्य वीक्षणावस्थायां दत्तोत्सवैः आत्तकुतूहलैः वीक्षणैः औदन्वतीनाम् अपाम् अन्तः समुद्रमध्ये अरविन्दगहनानि सरोजकाननानि तन्वदिव सृजदिव । निष्प्रत्यूहं यथा तथा तरङ्गाणां रिङ्गणं, तेन मिथः प्रत्यूढानां परस्परप्रतिहतानां पाथसां छदैव डोला, तदारोहे सदोहलं सकौतुकं मात्स्यं मत्स्य सम्बन्धि वपुः दिव्यं शरीरं दृश्यते चित्रे ॥ १७ ॥
प्रभाविलासः - १७
निर्मग्नेति । निर्मग्नानां प्रलयार्णवे महासुरगृहीतानां श्रुतीनां जालस्य मार्गणदशायाम् अन्वेषणदशायां दत्तक्षणैः दत्तावसरैः । “ निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः इत्यमरः । औदन्वतीनाम् ; प्रलयार्णव सम्बन्धिनीनाम् । अरविन्दगहनानि; कमलषण्डानि । निष्प्रत्यूहानाम् अविच्छिन्नानां तरङ्गाणां रिङ्गणेन स्खलनेन मिथः प्रत्यूहस्य परस्परप्रतिघातवतः पाथसः जलस्य छटा समूहः, सैव डोला, तत्रारोहणे सदोहलं साभिलाषम् ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
राजा -देवि, पश्य पश्य त्वदक्षिसारूप्येणाभिव्यक्तं23 भगवतो रूपम् ।
सुमतिः ( दृष्ट्वा स्वगतम्) माणुसस जोइणो माणुस-
सरिच्छे चित्तसङ्गो सम्पाअणिज्जो ( प्रकाशम्) अय्यउत्त, एदेण विअ तुए साअरणिमग्गा वेदा विअ मोहंवआरणिमग्गा जणा उद्धरिऊण रक्खिज्जन्ति । किं णाम परमपुरिसस एआरिसाइ रूवन्तराइ वि होन्ति ?
( मानुषस्य योगिनो मानुषसदृशे चित्तसङ्गः सम्पादनीयः । आर्यपुत्र, एतेनेव त्वया सागरनिमgnaa वेदा इव मोहान्धकारनिमग्ना जना उद्धृत्य रक्ष्यन्ते । किं नाम परमपुरुषस्यैतादृशानि रूपान्तराण्यपि भवन्ति ?)
व्यवसायः भवन्त्येव । तेष्वेतदेकमवलोक्यताम् ।
आखण्डलीयमजरामरमाधिराज्यं
त्रैयम्बकं सुभगशेखरमुत्तमाङ्गम् ।
औदन्वतं प्रियतरं स्वगृहं24 यतोऽभूत्
स्वाधार एष कमठो विधृताद्रिमन्थः ॥ १८ ॥
मूलम् - १८

प्रभावली - १८
सारूप्यम् ; सादृश्यम् । माणुसस्स मानुषस्य । जोइणो-योगिनः ।
माणुससरिच्छेमानुषसदृशे । चित्तसङ्गो चित्तसङ्गः । सम्पाअणिज्जो सम्पादनीयः । एद्रेण विअ एतेनेव । तुए त्वया । साअरणिमग्गा विअ सागरनिमग्ना इव । मोहम् आरणिमग्गा-मोहान्धकारनिमग्नाः । वेदा वेदाः । उद्धरिऊण उद्धृत्य । बक्खिज्जन्ति रक्ष्यन्ते । किं णामकिं नाम । परमपुरिसस्स परमपुरुषस्य । एआरिसाइ एतादृशानि । रूवन्तराइ रूपान्तराणि । वि अपि । होन्ति भवन्ति । एतदेकं ; कूर्मरूपम् । आखण्डलीयमिति । यतः ; कूर्मात् हेतोः । आखण्डलीयमाविराज्यम्; ऐन्द्रमाधिपत्यम् । अजरामरम् ; आसीत् ; अमृतोत्पादना
X६२६
दिति भावः । त्रैयम्बकं ; त्र्यम्बकसम्बन्धि । उत्तमाङ्गं; शिरः । सुभगशेखरम् ; शोभनशिरोभूषणयुक्तमभूत्; चन्द्रोत्पादनात् । औदन्वतं च स्वगृहं वासस्थानमतिशयितप्रियमासीत्; लक्ष्मीजननादिति भावः । स्वस्य स्वयमेव आधारः । धृतो मन्दराद्रिरेव मन्थः येन स एष कमठो भाति ॥ १८ ॥
प्रभाविलासः - १८
X६२५
आखण्डलीयमिति । औदन्वतम् ; रत्नाकरभवम् । स्वगृहम् ;
स्वकलत्रम् । " दारेषु च गृहम् " इति कोशः । अत्र पादत्रयेण क्रमेणामृतचन्द्रश्रियामुत्पत्तिर्व्यज्यते ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
इयं चात्र तद्विषया शिल्पिनैव लिखिता श्लोकाक्षरावली
अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः ।
यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किका
नित्यारोहण निर्वृतो ‘विहरते25 देवः सहैव श्रिया ॥ १९ ॥
मूलम् - १९

प्रभावली - १९
शिल्पिना ; स्वेनैव लिखिता । अव्यासुरिति । अनिभृतम् ; उद्धतं यथा तथा । अद्रिणा; मन्दराचलेन । जातैः कण्डूयनैः ; कण्डूत्यपनयनैः । निद्राशीलस्य परमपुरुषस्य कूर्मरूपिणः निश्वासवातोर्मयः निश्वासवातपरम्पराः भुवनत्रयीम अव्यासुः रक्षन्तु । येषां वातोर्मीणां विक्षेपणेन नोदनेन संस्कृतं सन्ततचलितम् उदधिपय एव प्रेङ्खोलपर्यङ्कका डोलायमानपर्यङ्कः, तस्यां नित्यारोहणेन सुखितः सन् स एव कूंर्मरूपी देवः श्रिया सह रूपान्तरेण विहरते क्रीडति ॥ १९ ॥
प्रभाविलासः - १९
अव्यासुरिति । अनिभृतम् ; प्रौढं यथा तथा । अद्रिणा; मन्दराचलेन । कण्डूयनैर्निद्राणस्येति लीलया धारणं व्यज्यते । येषां निश्वासानां विक्षेपणेन नोदनेन संस्कृतस्य चलितस्य उदधेः समुद्रस्य पयांस्येव प्रेङ्खोलपर्यङ्कका डोलापर्यङ्कः, तत्र नित्यारोहणेन निर्वृतः सुखितः॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
राजाः— स्वकारणभूतमेनमप्रत्यभिजज्ञिवांसं26 प्रजापर्ति प्रति " पूर्वमेवाहमिहासम् " इति वादी सोऽयं पुरुषः ।
सुमतिः—- अय्यउत्त, लच्छीस अंवरणजोग्गतारिससोउमल्लणिहिणो27 कहम् एआरिसं कठिणत्तणम् आसि ?
(आर्यपुत्र, लक्ष्मीस्वयंवरणयोग्यतादृशसौकुमार्यनिधेः कथ
मेतादृशं कठिनत्वमासीत् ?)
इति ;
राजाः—- किं किं न कारयति कार्यगौरवम् ?
व्यवसायःदेव, अत्यद्भुतेयं भगवतः कूर्मरूपस्यामृतमथनारम्भभाविन्यवस्था । यथा
कचिद्वाहाधीशः क्वचिदमरदन्तावलपतिः
क्वचित्प्रालेयांशुः क्वचिदमृतविच्छर्दितमिति ।
अतिक्षोभे सिन्धोरयमनघनिद्रोद्धृतगिरि-28
र्विषादं लेखानां29 विघटयति वैकुण्ठकमठः ॥ २० ॥
मूलम् - २०

प्रभावली - २०
X६२७
कूर्मावतार विषयमौपनिषदं वृत्तान्तं दर्शयति–स्वकारणभूतमिति । स्वकारणत्वेन ; स्वशब्देन प्रजापतिरुच्यते, स्वोत्पादकत्वेन भूतमेनं कूर्मरूपिणम् अतथा स्वजनितत्वेन प्रत्यभिज्ञातवन्तं प्रजापतिम् ; " स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्मांसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम् । अन्तरतः कूर्म भूतं सर्पन्तम् । तमब्रवीत् । मम वै त्वमांसा । समभूत् । " इति वदन्तं प्रजापतिं प्रतीत्यर्थः । पूर्वमेवाहमिहासमिति वादी सोऽयं पुरुष इति ; “नेत्यब्रवीत् । पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम् । इति श्रुतिप्रतिपादितः सोऽयं कूर्मरूपी परमपुरुष इत्यर्थः । लच्छी सअंवरण जोगलक्ष्मीस्वयंवरणयोग्य । तारिससोमल्ल तादृशसौकुमार्य । निहिणो; निधेः । कह कथम् । आरिमम् एतादृशम् । कठिणत्तणं-कठिनत्वम् ।
X६२८
आसि- आसीत् । अमृतमथनभाविन्यवस्था । अद्भुतत्वं स्पष्टयति-यथेति । क्वचित्; कुत्रापि । वाहाधीशः ; उच्चैःश्रवा उत्पन्नः । अमरदन्तावलपतिः ; ऐरावतः ; प्रालेयांशुः ; चन्द्रः । अमृतरूपं विच्छर्दितम् ; अमृतरूपोद्गारः । अत्रोद्वारनिरूपणमन्यत्राप्युद्गाररूपत्वं द्योतयति । इत्येवम्प्रकारेण सिन्धोरतिक्षोभे ; उद्गारपर्यन्तक्षोभे जातेऽपि । अयं वैकुण्ठकमठः अयत्नेन लीलया धृतमन्दरः कण्डूयनसुखेन अक्षीणनिद्रः सन् देवानां विषादम् अमृतालाभजनितं विघटयति ॥ २० ॥
प्रभाविलासः - २०
प्रत्यभिजज्ञिवांसम्30 ; प्रत्यभिज्ञानेन निश्चिन्वानम् । सोऽयं पुरुष’ तत्पुरुषस्य पुरुषत्वम् " इत्यारभ्य पुरुषसूक्तप्रतिपाद्यतया
प्रत्यभिज्ञायमानत्वं व्यज्यते । क्वचिदिति । वाहाधीशःः उच्चैःश्रवाः । अमृतविच्छर्दितम् ; अमृतोद्वारः । अत्र विच्छर्दितमिति स्वर्गभोगनिमित्तामृतस्यहेयत्वलक्षणया शान्तरसो व्यज्यत इति न जुगुप्साश्लीलतादोषः । लेखानाम् ; देवानाम् । वैकुण्ठ एव कमठः ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
सुमतिः—अय्यउत्त, तुमम्मि विअ इमम्मि वि अमिअलाहे भारो पडिट्ठिओ ।
( आर्यपुत्र, त्वयीवास्मिन्नप्यमृतलाभे भारः प्रतिष्ठितः । )
राजाः– -प्रिये, मम खल्वीदृशभारवहने त्वमप्यर्धभागिनी ।
व्यवसायः— इतश्च दीयतां दृष्टिर्देवेन ;
आरादाकर एष कौस्तुभमणेर्वारी मरुद्दन्तिनः
क्रीडाशेखरशिल्पकृत्पुरभिदो गञ्जागृहं पाशिनः ।
प्राचीनाङ्कुरपालिका सुरतरोरालक्ष्यतामद्भुतः
स्वैराहारमहानसः सुमनसां शुद्धान्तशय्या हरेः ॥ २१ ॥
मूलम् - २१

प्रभावली - २१
तुमम्मि विअ त्वयीव । इमम्मि वि अस्मिन्नपि । अमिअलाहे अमृतलाभे ; एकत्र पीयूषलाभः । अन्यत्र मोक्षलाम्भः । तत्र यो भारः तत्र । पडिट्ठिओ
X६२९
प्रतिष्ठितः । समुद्रमपि पश्येत्याहइतश्चेति । इतश्च ; अत्रापि समुद्रेऽपि । तं वर्णयति आरादिति । आगत; समीपे। एषः; समुद्रः आलक्ष्यताम् । कीदृशः ? कौस्तुभमणेः आकरःः प्रादुर्भावस्थानम् । मरुद्दन्तिनः ; ऐरावतस्य । वारि ; गजबन्धनम् । पुरभिदः; रुद्रस्य लीलाशिरोभूषणकृत् । पाशिनः ; वरुणस्य । गञ्जागृहम् ; मदिरान्थानम् । सुरतरोः प्राचीनाङ्कुरपालिका ; प्राक्तनाङ्कुरस्य पालिका, अङ्कुरार्पणपात्रम् । सुमनसां स्वैराहारगृहम् ; महानस इत्यर्थः । हरेः शुद्धान्तशय्या; अवरोधशयनम् ॥ २१ ॥
प्रभाविलासः - २१
अमृतम् ; मोक्षः, सुधा च । आरादिति । आकरः; खनिः । वारी; गजबन्धनम् । गञ्जागृहम् ; मदिरागृहम् । पाशिनः ; वरुणस्य । प्राचीनाङ्कुरपालिका; प्राक्तनबीजावापस्थाली । महानसः ; पाकस्थानम्, अमृतोत्पत्तिस्थानत्वात् ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
राजा ( सकौतुकमवलोक्य) देवि, दृश्यतां स एष त्रिगुणपरिणतिरूपोऽपि परमपुरुषपरिग्रहात्परिशुद्धतरः पारावारः । अपि च सुरभिसुरद्रुमचिन्तामणिप्रभृतिपात्रसात्करणजनितहर्ष प्रकर्षस्ताण्डवो द्यत इवायमकूपारस्तरङ्गमण्डलेन ।
सुमतिः एव्वम् एव्व इमं पेक्खन्ताणं वि हिअअम् । ( एवमेवेमं पश्यतामपि हृदयम् ।)
व्यवसायः –निशाम्यन्तामिह ;
इतरेतर सन्निकर्षवन्तः क्रमनिम्नोन्नतयो महोर्मिभेदाः ।
परितो वितताः पयः पयोधेः स्फटिकारोहणविभ्रमं वहन्ति ॥ २२ ॥
मूलम् - २२

प्रभावली - २२
त्रिगुणस्य प्रकृतेः परिणामरूपोऽपि । तमुत्प्रेक्ष्यते अयमकूपारः तरङ्गमण्डलेन ताण्डवोद्यत इव दृश्यते । कुत इत्यत्राह सुरभीति । सुरभिः ;
X६३०
कामधेनुः । प्रभृतिशब्देनामृतादयो गृह्यन्ते । एतेषां पात्रसात्कृत्या सत्पात्रदानेन जनितहर्षप्रकर्षः । हेतुगर्भमिदम् । प्रकर्षत्वादित्यर्थः । एवमेवेमं प्रेक्षमाणानामपि ; ताण्डवोद्यतत्वमित्येतदत्राप्यनुषज्यते । निशाम्यन्ताम् ; दृश्यन्ताम् । इह; समुद्रे । अन्योन्यं सामीप्यवन्तः क्रमेण निम्नोन्नतिमन्तः पयः पयोधेः क्षीरसमुद्रस्य महोर्मयः स्फटिकसोपानविलासं वहन्ति ॥ २२ ॥
प्रभाविलासः - २२
एवमेव ; ताण्डवोद्यतमित्यर्थः । इतरेति । पयः पयोधेरित्येकं पदम् । स्फटिकारोहणविभ्रमम्; स्फटिकसोपान विलासम् ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
अपि च,
इयमत्र विश्वजननी समुत्थिता
कमला विकासिकमलोदर स्थिता ।
मुरमर्दनस्य भुजमध्यपीठिका
मधिरुह्य रक्षति जगन्ति वीक्षणैः ॥ २३ ॥
मूलम् - २३
अपि च,
इयमत्र विश्वजननी समुत्थिता
कमला विकासिकमलोदर स्थिता ।
मुरमर्दनस्य भुजमध्यपीठिका
मधिरुह्य रक्षति जगन्ति वीक्षणैः ॥ २३ ॥
प्रभावली - २३
अत्र लक्ष्मीरपि समुत्पन्नेत्याह —इयमिति । समुत्थिता ; विकासिकमलोदर स्थिता सत्याविर्भूता ॥ २३ ॥
प्रभाविलासः - २३
इयमिति । अत्र सागरे । विकासिकमलोदरस्थिता सती समुत्थिता कमला लक्ष्मीः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
राजा —( विलोक्य सानन्दम् )
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
सम्पदिव्या मधुविजयिनः सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४ ॥
मूलम् - २४
राजा —( विलोक्य सानन्दम् )
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
सम्पदिव्या मधुविजयिनः सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४ ॥
प्रभावली - २४
X६३१
तस्याः सन्निधिमाशास्ते कल्याणानामिति । अविकलनिधिः ; पूर्णमास्पदम् । कारुण्यसीमा ; कारुण्यस्य परा काष्ठा, अस्या भगवतोऽप्यतिशयितकारुण्यत्वात् । उपनिषद्वचसां नित्यपरिमला कबरीमन्दारमाला । लक्ष्म्याः प्रतिपादनादेवोपनिषदां परिमलितत्वम् । मधुजयिनः ; दिव्या सम्पत् । सैषा देवी मम सदा सन्निधत्ताम् ॥ २४ ॥
प्रभाविलासः - २४
कल्याणानामिति । " मङ्गलानां च मङ्गलम् ” इति सकलमङ्गलास्पदत्वेन प्रसिद्धस्यापि भगवतः " यस्य सा जनकात्मजा” इत्युक्तरीत्या तत्सम्बन्धवशादतिशयितमङ्गलत्वमित्यभिप्रेत्य अविकलनिधिरित्युक्तम् । प्रायेण कृपा मुक्त्यैश्वर्यहेतुः, व्याजसापेक्षा, अतिपरतन्त्रा च । इयं तूभयविभूतिहेतुत्वादिनोक्त विलक्षणेति कापीत्युक्तम् । नित्यामोदा ; नित्यहर्षा नित्यपरिमला च " आमोदो गन्धहर्षयोः " इत्युक्तत्वात् । निगमेत्यादि ; यत्सम्बन्धेन वेदान्तानां तत्त्वविचिकित्सातरणमिति भावः । दिव्येति ; लीलासम्पद्वैलक्षण्यम् । कामधेनुः कतिपय प्रार्थितप्रदात्री; इयं तु न तथेत्युक्तं सकलेति । तेन ब्रह्मादीनामीश्वरत्वं तत्कटाक्ष विशेषायत्तमित्युक्तं भवति ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
(अञ्जलि बद्ध्वा)
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २५ ॥
मूलम् - २५
(अञ्जलि बद्ध्वा)
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २५ ॥
प्रभावली - २५
आदरातिशयात्पुनरपि तां सेवते सेवे इति । त्रिदशानां महिलाः
X६३२
महिष्यः, तासां मौलिमालाभिरर्चितम् । शमितविपदाम् ; शमिता विपदो यासां तासां सम्पदां सिद्धिक्षेत्रं ते पादपद्मम् । यस्मिन् पादपद्मे । ईषन्नमितशिरसः ; प्रपन्ना इत्यर्थः । शरीरं सुसुखं गमयित्वा देहान्ते वासुदेवस्य वितमसि पदे श्रीवैकुण्ठे धन्याः सन्तो वर्तिष्यन्ते ॥ २५ ॥
प्रभाविलासः - २५
सेवे देवीति । त्रिदशमहिलाः ; वाणीशर्वाणीन्द्राणीप्रभृतयः ।
यापयित्वा ; विसृज्य ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
( सुमतिं विलोक्य) देवि, इयं सा निखिललोकजननी31 जलधिराजदुहिता जनार्दनवल्लभा देवी; दुःसहापराधभीतानामपि यत्पुरस्कारिणामसौ भगवानधिगम्यतमो भवति । अत्र च,
सैवाकृतिस्तव त एव गुणानुभावाः
स्यादेव सागरसुता लिखिता त्वमेव ।
शिञ्जानमञ्जुमणिनूपुरमेखलस्ते
सञ्चार एष चतुरो यदि नान्तरायः ॥ २६ ॥
मूलम् - २६

प्रभावली - २६
एवमुपायत्वौपयिकाकारमुक्त्वा पुरुषकारत्वोपयुक्तान् गुणान् दर्शयतिनिखिललोकजननीत्यादिना । यत्पुरस्कारिणाम; पुरुषकारत्वेन पुरस्कुर्वताम् अत्यन्तमधिगम्यो भवति । लिखितायाः श्रियस्तव च सञ्चारमात्रे भेदः ; अन्यत्समानमिति सुमति प्रशंसति सैवेति । सैवाकृतिः ; हे सुमते, तव लिखितायाः सागरसुताया या कृतिः सैव । गुणाः श्यामत्वादयः, अनुभावः प्रभावश्च । तवापि त एव गुणानुभावाः । तस्मात् लिखिता सागरसुता त्वमेव
X६३३
स्यात् सैवेत्यर्थः । किञ्चिद्भेदकं वदति शिवानेति ।क्वणन्तौ मञ्जू मणिनूपुरश्च मणिमेखला च यस्मिन् सः । एष चतुरः सञ्चारः अन्तरायः भेदकः यदि न, तदा त्वमेवेत्यर्थः ॥ २६ ॥
प्रभाविलासः - २६
सैवेति । अन्तरायः ; भेदक इत्यर्थः । अत्र नूपुरसञ्चारं विना शोभनत्वप्रतीतेः रम्यतारूपविनोक्तिरलङ्कारः ।
विना सम्बन्धि यत्किञ्चिद्यत्रान्यस्य परा भवेत् ।
रम्यतारम्यता वा स्यात्सा विनोक्तिरिति स्मृता ॥
इति लक्षणात् । यद्युपनिबन्धेनातिशयोक्त्यलङ्कारभेदश्च । उक्तं च वीरनारायणीये
“उपमानस्य निर्देशो निगीर्णे प्रकृते तु यः ।
प्रकृतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ।
कार्यकारणयोर्यश्च व्युत्क्रमस्तुल्यकालता ।
या स्यादतिशयोक्तिः सा प्रोक्तैवं पञ्चधा बुधैः ॥ "
इति ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
सुमतिः अय्यउत्त, एदेण विअड्ढवअणेण अप्पाणम् एव्व सिरिवल्लहसरिच्छं पआसेसि ।
( आर्यपुत्र, एतेन विदग्धवचनेनात्मानमेव श्रीवल्लभसदृशं
प्रकाशयसि । )
व्यवसायः— देवि, पठन्ति खल्विमं भवद्भयां प्रतिपादितमर्थं पौराणिकाः -
इति ।
" देवतिर्यङ्मनुष्येषु पुन्नामा भगवान्हरिः ।
स्त्रीनाम्नी लक्ष्मी मैत्रेय नानयोर्विद्यते परम् ॥ "
राजा— सेनापते, उभयोर्विभूतिभूतमुभयविधं जगदित्युक्तं
व्यवसायः— एवमेव ।
राजा-
साधारण्ये सत्यपि स्वेच्छयैव द्वेधा विश्वं यद्विभूतिर्व्यभाजि ।
चूडाभागे दीप्यमानौ श्रुतीनां दिव्यावेतौ दम्पती मे दयेताम् ॥ २७ ॥
मूलम् - २७

प्रभावली - २७
देवतिर्यङ्मनुष्येषु पुंवर्गविभूतिमान् हरिः । लक्ष्मीस्तु स्त्रीवर्गविभूतिपती । अनयोः हरिलक्ष्मीविभूत्योः परम् अतिरिक्तमत्र किमपि नास्तीत्यर्थः । ननु स्त्रीपुंसयोर्लक्ष्मीनारायणाभ्यामनन्यत्वमेव तद्वचनार्थः किं न स्यादित्याशङ्कय
भवति ।
X६३४
तात्पर्यार्थमाह–उभयोरिति । उभयोः ; लक्ष्मीनारायणयोः । उभयविधम् ; स्त्रीपुंसप्रकारम् । परत्वनिषेधस्तद्विभूतिभूतत्वात् न तु तदनन्यत्वादिति भावः । साधारण्ये इति । विश्वं विभूतिद्वयरूपं साधारण्ये सत्यपि शेषत्वेनोभयोर्दम्पत्योः समानत्वेऽपि, स्वेच्छयैव उभयोः सङ्कल्परूपेच्छया यद्विभूतित्वेन ययोर्विभूतित्वेन द्वेधा व्यभाजि पुरुषाः सर्वे हरेर्विभूतयः, स्त्रियस्तु श्रिय इति । एवम् ; उक्तार्थपरत्वेन श्रुतीनां चूडाभागे उपनिषदि प्रतिपाद्यमानौ तौ दम्पती मां दयाविषयं कुरुताम् । " अधीगर्थ " इत्यादिना कर्मणि षष्ठी ॥ २७ ॥
प्रभाविलासः - २७
साधारण्य इति; सर्वस्य जगतः शेषत्वस्य श्री श्रीशसाधारणत्वेऽपि, “लक्ष्म्या मम च शेषं हि विभूतिरुभयात्मिका " इति स्मरणात् । न चाद्वितीयश्रुतिहानिः अग्नाविष्ण्वोरिव द्वयधिष्ठानैकशेषित्वात् । लक्ष्म्यास्त्वेकोनशेषित्वेन सर्वशेषित्वस्येश्वर एव पर्यवसानाच्च ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
आस्तां तावदेतत् । अपरमप्यैश्वरं रूपमभिपश्येम ।
व्यवसायः— देव, प्रदर्शितमिदं लक्ष्मीधरं रूपम् । भूधर
मपि रूपं प्रदर्शयामि ।
प्रवर्धमानात्प्रलयाम्बुराशेराविर्भवन्नादिवराह एषः ।
दंष्ट्रानुषक्तां धरणीं दधानो जम्बालरेखामिव केलिलग्नाम् ॥ २८ ॥
मूलम् - २८

प्रभावली - २८
प्रदर्शितमिति । सङ्गतिः सूच्यते । लक्ष्मीधररूपदर्शनानन्तरं भूधररूपं
X६३५
द्राख्यमिति तद्दर्शयतिप्रवर्धमानादिति । अम्बुराशेः सकाशात् प्रादुर्भवन् दशकोटियां जम्वालरेखामिव स्थितां दंष्ट्रायां संसक्तां धरणि धारयन् यो बभूव स एष इत्यन्वयः ॥ २८ ॥
प्रभाविलासः - २८
प्रवर्धमानादिति । आदिवराह इति ; " पूर्वमेवाह मिहासम् " इति
श्रत्यर्थो व्यञ्जितः ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
राजा— अहो महत्तरमद्भुततरं च महीधरमिदं रूपम् ।
( अञ्जलिं बद्धा सहर्षभक्तिरोमाञ्चगद्गदम्32 )
क्वापि कल्पान्तवेशन्ते खुरदघ्ने समुद्धृताम् ।
वहते मेदिनीमुस्तां महते पोत्रिणे नमः ॥ २९ ॥
मूलम् - २९
राजा— अहो महत्तरमद्भुततरं च महीधरमिदं रूपम् ।
( अञ्जलिं बद्धा सहर्षभक्तिरोमाञ्चगद्गदम्32 )
क्वापि कल्पान्तवेशन्ते खुरदघ्ने समुद्धृताम् ।
वहते मेदिनीमुस्तां महते पोत्रिणे नमः ॥ २९ ॥
प्रभावली - २९
खुरप्रमाणे प्रलयोदधौ समुद्भूतां मेदिनीरूपां मुस्तां तृणकन्दविशेषं वहते महते पोत्रिणे महावराहाय नमः । अत्रोदधेः पल्वलत्वेन रूपणम् ॥ २९ ॥
प्रभाविलासः - २९
क्वापीति । वेशन्तः; पल्वलम् समुद्रो लक्ष्यते । खुरदघ्ने; खुरप्रमाणे ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
अपि च,
नम इदमजहत्सपर्याय पर्यायनिर्यासित33
भ्रमदमितपयोधिवेलाविलोलाय कोलाकृते ।
पृथुविकटविटङ्कनिष्कम्पविष्कम्भविश्वम्भरा
भरभरणधुरीणघोणापरीणाहकोणाय ते ॥ ३० ॥
मूलम् - ३०
अपि च,
नम इदमजहत्सपर्याय पर्यायनिर्यासित33
भ्रमदमितपयोधिवेलाविलोलाय कोलाकृते ।
पृथुविकटविटङ्कनिष्कम्पविष्कम्भविश्वम्भरा
भरभरणधुरीणघोणापरीणाहकोणाय ते ॥ ३० ॥
प्रभावली - ३०
पुनरपि तन्महत्वं वर्णयन् नमस्यति-नम इति । भो वराहरूप, ते इदं
X६३६
नमोऽस्तु । कीदृशाय ? अत्यजत्पूजाय, नित्यं पूज्यमानाय । पर्यायेण निर्यासितो व्युदस्तः, अत एव भ्रमन् अमितश्च स चासावुदधिश्च तस्य वेलायाम् अम्बुविकारे, विलोलाय । यथा वराहो गर्तजले पतित्वा तत्पर्युदस्यति, पुनश्च गर्तादुत्तिष्ठति, तथायं क्रीडतीति भावः । पृथुः ; विशालः । विकटः ; विस्तृतः । विटङ्कः कपोतपोलिका, तस्या निष्कम्पः निश्चलो यो विष्कम्भः तिर्यग्दारुविशेषः, सेव स्थिता या विश्वम्भरा, तस्याः भरस्य धारणे धुरीणः समर्थः, यो घोणापरीणाहकोणः नासिकाविस्तारैकदेशः नासिकाप्रदेशः यस्य तस्मै ॥ ३० ॥
प्रभाविलासः - ३०
नम इति । अजहत्सपर्यायः नित्यपूज्याय । पर्यायेण निर्या
सितायां व्युदस्तायाम्, अत एव भ्रमन्त्याम् अमितायां पयोधेः वेलायाम् अभिवृद्धौ विलोलाय । कोलाकृते; वराहरूप । " कोलः पोत्री किरि किटिः " इत्यमरः । पृथुनि विकटे विशाले च विटङ्के कपोतपालिकायां निष्कम्पो निश्चलो यो विष्कम्भः तिर्यग्दारुविशेषः, तेनैव स्थितायाः विश्वम्भरायाः भरणे धुरीणः घोणापरिणाहस्य प्राणविस्तारस्य कोण एकदेशो यस्य तस्मै । " विकटः पृथुले रम्ये विशालविकलार्थयोः " इत्यमरः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
अयं खलु
गोपायेदनिशं34 जगन्ति कुहनापोत्री पवित्रीकृत
ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुघुरैः ।
यद्दंष्ट्राङ्कुर कोटिगाढघटना निष्कम्पनित्यस्थिति
र्ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वम्भरा ॥ ३१ ॥
मूलम् - ३१

प्रभावली - ३१
अस्माज्जगद्रक्षणं प्रार्थयते गोपायेदिति । अनघम् ; अघानि दोषा यथा न भवन्ति तथा । जगन्ति गोपायेत् । कुहनापोत्री ; कपटवराहः, स्वेच्छावराह इत्यर्थः । प्रलयसमुद्रतरङ्गध्वनिवत् गुरुभिः घुघुरैः श्रोत्रपथपरुषैः नासिका ध्वनिभिः पवित्रीकृतो ब्रह्माण्डो येन सः । यस्य दंष्ट्राकुरकोटौ गाढं यथा
X६३७
तथा घटनया संश्लेषेण निष्कम्पा नित्या स्थितिर्यस्याः सा । भगवती क्षमादिगुणपरिपूर्णा । विश्वम्भरा मुस्तेव मुस्ताख्यतृणविशेषकन्द इव ब्रह्मस्तम्बपर्यन्तं जगत् असौत् सूतवती ॥ ३१ ॥
प्रभाविलासः - ३१
गोपायेदिति घुर्धुरैः; घुर्धुरानुकारवद्भिः घोणारवैः पवित्रीकृतब्रह्माण्ड इत्यन्वयः । यद्दंष्ट्राकुरस्य कोटावग्रे गाढघटनया दृढघटनेन
निष्कम्पा नित्या स्थितिर्यस्याः सा । जगत्कन्दतया स्तम्बतोक्तिः । " एकोऽपि च प्ररोहस्तु बहुभिः स्तम्ब इष्यते " इति युक्तम् । असौत्षूङ् " प्राणिप्रसवे " इति धातुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
(भूदेवीमवलोक्य सप्रणामम् )
पूर्व वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः मलयवारिधयस्तवास
न्नुद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ ३२ ॥
मूलम् - ३२
(भूदेवीमवलोक्य सप्रणामम् )
पूर्व वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः मलयवारिधयस्तवास
न्नुद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ ३२ ॥
प्रभावली - ३२
भूदेवीं स्तौति पूर्वमिति । भोगिसदने पाताले प्रीतेन वराहवपुषा समुदीक्षितायाः तव उद्वाहः उद्धरणं विवाहश्च, तद्रूपमङ्गलकर्मणि महावराहस्य पादैः आहताः प्रलयसमुद्राः योग्याः मृदङ्गाः आसन् ॥ ३२ ॥
प्रभाविलासः - ३२
पूर्वमिति । निरीक्षणस्यैव सुमुहूर्तकर्तव्यतया समुदीक्षिताया
इत्युक्तम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
अपि च,
सम्भावयन्मधुरिपुः प्रणयानुरोधा-
द्वक्षःस्थलेन वरुणालय राजकन्याम् ।
विश्वम्भरे बहुमुखप्रतिपन्नभोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥ ३३ ॥
मूलम् - ३३
अपि च,
सम्भावयन्मधुरिपुः प्रणयानुरोधा-
द्वक्षःस्थलेन वरुणालय राजकन्याम् ।
विश्वम्भरे बहुमुखप्रतिपन्नभोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥ ३३ ॥
प्रभावली - ३३
लक्ष्म्या अप्यस्या भगवत्सम्भावनीयत्वमाह सम्भावयन्निति । मधुरिपुः
X६३८
प्रणयानुसारात् वरुणालयराजकन्यां लक्ष्मीं वक्षःस्थलेन सम्भावयन्, भो विश्वम्भरे, भवतीं तु शेषस्वरूपेण बहुभिः मुखैः प्रतिपन्नः प्राप्तः भोगः शरीरं तथा सन् ; बहुधा प्राप्तसुखानुभवः सन्निति ध्वन्यते । शिरसा दधाति ; वहति । युवयोः प्रणयानुसारेण लक्ष्मीं वक्षःस्थले धत्ते । त्वां तु शिरसा वहति । अतस्त्वमधिकसम्भावनीयेत्यर्थः ॥ ३३ ॥
प्रभाविलासः - ३३
सम्भावयन्निति । बहुमुखाः ; अनेकविधाः प्रतिपन्ना भोगाः
स्रक्चन्दनादयो यस्य सः । अन्यत्र बहुषु मुखेषु प्रतिपन्ना भोगाः फणा येन सः । शेषात्मनेति ;
" पातालानामधश्चास्ते विष्णोर्या तामसी तनुः । शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः ॥
इति स्मारितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
सुमतिः— जह एसो महावराहो पलअण्णवणिमग्गं भूमि उद्धरइ, तह अय्यउत्तो वि संसारसाअरणिमग्गं35 पुरिसम् उद्धरिज्ज । अण्णं वि भणामि । दिढअरदाढग्गदारिअहिरण्णक्खवच्छअडकठिणकवाडसं36 पुडोट्ठिअघणसोणि अणईपवाहघणघणाअन्तघोणन्तरस्स जण्णवराहस्स37 विअ अय्यउत्तस्स जाणणेउणं दठ्ठे उक्कण्ठिअम्हि ।
( यथैष महावराहः प्रलयार्णवनिमग्नां भूमिमुद्धरति, तथार्यपुत्रोऽपि संसारसागरनिमग्नं पुरुषमुद्धरेत् । अन्यदपि भणामि । दृढतरदंष्ट्राग्रदारितहिरण्याक्षवक्षस्तटकठिन कवाटसम्पुटोत्थितघनशोणित नदी प्रवाहघणघणायमानघोणान्तरस्य यज्ञवराहस्येवार्यपुत्रस्य जन्यनैपुणं द्रष्टुमुत्कण्ठितास्मि ।)
व्यवसायः— देवि, सेत्स्यति मङ्गल्यनिधेर्भवत्या मान्यं
समीहितम् ।
राजा— सेनापते, अपरमप्येतादृशमभिपश्येमाद्भुतं रूपम् ।
व्यवसायः — अस्तु तर्ह्ययमसौ प्रह्लादपरिरक्षिता दिव्यनरसिंहो देवो दिदृक्षितव्यः । तेन चासौ जिघांसितो हिरण्याक्षानुजन्मा हिरण्यो नाम दानवेन्द्रः ।
कल्पान्तपावकनिभैस्तपसां प्रपञ्चै-
रुष्णालुरस्य समुपेत्य किल प्रसन्नः ।
दत्ते वरेऽभिलषिते प्रतिपन्नभीतिः
सौवस्तिकत्वमगमत्स्वयमेव वेधाः ॥ ३४ ॥
मूलम् - ३४

प्रभावली - ३४
1
जह यथा । एसो एषः । महावराहो महावराहः । पलअण्णवणिमग्गम्प्रलयार्णवनिमग्नाम् । भूमिम् उद्धरइ उद्धरति । तह तथा । अय्यउत्तोआर्यपुत्रः । वि-अपि । भवानित्यर्थः । संसारसाअरणिमग्गं संसारसागरनिमग्नम् । पुरिसम्पुरुषम् । उद्धरिज्ज-उद्धरतु । अण्णं वि-अन्यदपि । भणामि भणामि । दि.
X६३९
अरदाढग्गदारिअ दृढतरदंष्ट्राग्रदारित । हिरण्णक्खवक्खत्थलकठिण-हिरण्याक्षवक्षःस्थलकठिन । कवाडलम्पुडोट्ठिअ कवाटसम्पुटोत्थित। घणशोणिअणईपवाहघनशोणितनदीप्रवाह । घणघणायन्त घनघनायमान । घोणन्तरस्स घोणान्तरस्य । जण्णवराहस्स विअ यज्ञवराहस्येव । अय्यउत्तस्स आर्यपुत्रस्य भगवतः । जण्णणे उणं जन्यनैपुणम् । दट्ठे-द्रष्टुम् । उक्कण्ठिअम्हि उत्कण्ठितास्मि । सेत्स्यति ; अचिरात्सिध्यति । मङ्गलनिधेः मान्यं समीहितम् ; पूज्यमिष्टम् । दिदृक्षितव्यःद्रष्टुमेषितव्यः । जिघांसितः ; हन्तुमिष्टः । हिरण्यस्य दौष्ट्यं प्रकटयति
। कल्पान्तेति । प्रलयाग्निसदृशैः अस्य तपोविस्तारैः उष्णालुः तस्य तैक्ष्ण्यमसहमानः वेधाः प्रसन्नः किल । प्रसन्न इव ; किलेत्यपरमार्थे । समुपेत्य तदपेक्षिते वरे दत्ते तस्यौद्धत्यं दृष्ट्वा स्वयमेव तस्य सौवस्तिकत्वं प्रियवादित्वमगमत् ॥ ३४ ॥
प्रभाविलासः - ३४
जन्यम् ; युद्धम् । ‘युद्धमायोधनं जन्यम्’ इत्यमरः । कल्पान्तेति । उष्णालुः ; परितप्तः । वरे दत्ते ; स्वेनेति शेषः । सौवस्तिकः; स्वस्तिवाचनिकः ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
अपि च,
दूरे हन्त गिरां दुरासदयशा दुर्वारगर्वानल-
ज्वालालुण्ठितजम्भकण्टकबलारण्यो हिरण्योऽसुरः।38
यस्यास्थानिकपादपीठविलुठत्कोटीरकोटीरवैः
स्वच्छन्दप्रसरं स्तुवन्ति चरितं सेवासु देवासुराः ॥ ३५ ॥
मूलम् - ३५
अपि च,
दूरे हन्त गिरां दुरासदयशा दुर्वारगर्वानल-
ज्वालालुण्ठितजम्भकण्टकबलारण्यो हिरण्योऽसुरः।38
यस्यास्थानिकपादपीठविलुठत्कोटीरकोटीरवैः
स्वच्छन्दप्रसरं स्तुवन्ति चरितं सेवासु देवासुराः ॥ ३५ ॥
प्रभावली - ३५
;
X६४०
दूर इति । दुरासदयशाः; अन्यैरलभ्यकीर्तिः । दुर्वारः यः गर्वानलः, तस्य ज्वालाभिः लुण्ठितं भग्नं जम्भकण्टकलारण्यम् इन्द्रसेनारूपं वनं यस्य सः । हिरण्यासुरः गिरां दूरे, हन्त; वागगोचरदौष्टयः हन्तेति खेदे । आस्थानिके आस्थान सम्बन्धिनि पादपीठे विलुठतां कोटीगणां देवासुरसम्बन्धिकिरीटानां कोटीरवैः अग्रप्रदेशध्वनिभिः स्वच्छन्द प्रसां स्वच्छन्दगमनवत् चरितं देवा असुराश्च स्तुवन्ति । स वाचां दूर इत्यन्वयः ॥ ३५ ॥
प्रभाविलासः - ३५
दूर इति; लुण्ठितम् ; दग्धम् । जम्भकण्टकः ; इन्द्रः । कोटिः ; शतलक्षसङ्ख्या । स्वच्छन्दप्रसरम् ; स्वेच्छाप्रचारम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
अनेन च परमपुरुषप्रशंसी कुमारः प्रह्लादः सोपालम्भमधिक्षिप्तः ‘क्व नु ते पुरुषोत्तमः । इति पृष्टः ’ सर्वत्र’ इति प्रत्यवादीत् ।
राजा -ततस्ततः ।
.व्यवसायः —
किमत्र हरिरित्यथ प्रकटितोपहासक्रमं
हिरण्यकरघट्टितात्सपदि जृम्भितः स्तम्भतः ।
पुरः स्फुरति सम्भ्रमस्फुटसटाच्छटाच्छोटन
त्रुटद्धनघनध्वनिद्विगुणबृंहितः सिंहराट् ॥ ३६ ॥
मूलम् - ३६

प्रभावली - ३६
अनेन ; हिरण्यदानवेन । परमपुरुषमेव प्रशंसितुं शीलमस्यास्तीति सः, प्रहलादनामा सनिन्दं परिभूतः ‘क्व ते पुरुषोत्तमः’ इति पृष्टः ‘सर्वत्राप्यस्ति '
1
X६४१
इति प्रत्युक्तवान् । ततस्ततः ; उच्यतामिति शेषः । किमत्रेति । अथात्र स्तम्भेऽपि किं हरिरस्तीति प्रकटितः परिहासक्रमो यस्मिंस्तद्यथा तथा, हिरण्यकरेण घट्टितात् ताडितात् स्तम्भतः जृम्भितः प्रादुर्भूतः सन् पुरः स्फुरति । कथं जृम्भित इत्यत्राह — सम्भ्रमेति । स्फुटाः विकसिताः सटाः स्कन्धरोमाणि तासां छटा समूहः, तस्याः छोटनं धूननं, तेन त्रुटतां भज्यमानानां घनानां घनध्वनिभिः द्विगुणबृंहितः द्विगुणितं बृंहितं गर्जनं यस्य सः, सिंहराजः जृम्भितः स्फुरति ॥ ३६ ॥
प्रभाविलासः - ३६
क नु ते पुरुषोत्तम इत्यनेन त्रोटकं नाम गर्भसन्धेरष्टममङ्गमुक्तम् । " संरब्धवचनं यत्तु तत् त्रोटकमुदाहृतम्” इति लक्षणात । यद्यपि सप्तमाङ्गमुक्त्वा तदनन्तरमष्टमाङ्गं निरूपणीयम् तथापि “अङ्गानां च विपर्यासो रसानुगुणवर्णनम् " इति वचनानुसारेणैवं निरूपितमिति न
विरोधः । किमत्रेति । अत्र स्तम्भे किं हरिरस्तीति । अथ ; उपक्रम एव । प्रकटितोपहासक्रमं यथा तथा हिरण्यकरघट्टितात् स्तम्भतः स्तम्भात् जृम्भितः प्रादुर्भूतः । सम्भ्रमेण स्फुटानां विकसितानां सटानां स्कन्धरोम्णां छटानां समूहानाम् आच्छोटनेन धूननेन त्रुटतां भिद्यमानानां घनानां मेघानां घनेन अधिकेन ध्वनिना द्विगुणं बृंहितं गर्जनं यस्य सः । अत्र टवर्गप्रचुरतया रूक्षवर्णानां वीररसानुगुण्यम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
अयं च,
विदारयति दारुणैर्बलभिदस्त्रभङ्गोद्भटां
सटाविधुतिसम्भ्रमभ्रमितसप्तलोकस्थितिः ।
कुलाचल शिलातलद्रढिमडम्बरस्तम्भनीं
प्रभुर्द्विषदुरः स्थलीं नखरशृङ्गदम्भोलिभिः ॥ ३७ ॥
मूलम् - ३७
अयं च,
विदारयति दारुणैर्बलभिदस्त्रभङ्गोद्भटां
सटाविधुतिसम्भ्रमभ्रमितसप्तलोकस्थितिः ।
कुलाचल शिलातलद्रढिमडम्बरस्तम्भनीं
प्रभुर्द्विषदुरः स्थलीं नखरशृङ्गदम्भोलिभिः ॥ ३७ ॥
प्रभावली - ३७
अयं च हिरण्यवक्षो विदारयतीत्याह विदारयतीति । सटानां विधूननसम्भ्रमेण भ्रमिता भ्रान्तिं प्रापिता सप्तलोकानां स्थितिर्येन सः । अयं प्रभुः बलभिदः
X६४२
अस्त्राणि वज्रादीनि तेषां भञ्जनेन उद्भटाम् । कुलाचलस्य यत् शिलातलं, तस्य यो द्रढिमा दाढर्य, तस्य यत् डम्बरं गर्जनं, तस्य स्तम्भनीं निवर्तयित्रीम् ; ततोऽप्यतिकठिनामित्यर्थः । द्विषतः हिरण्याक्षस्य वक्षःस्थलीम् ॥ ३७ ॥
प्रभाविलासः - ३७
विदारयतीति । बलभिदस्त्रम् वज्रायुधम् । विधुतिः ; विधूननम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
राजा (सविस्मयम् ) अहो महानयमद्भुतनरसिंहः ।
‘दम्भोलिश्रेणिदीव्यत्खर39 नखरमुखक्षुण्णदैतेयवक्षो-
निष्ठयूतासृक्स्रवन्तीभरितदशदिशादर्शितापूर्वसन्ध्यः
स्वामिध्वंसप्रकुप्यत्सुररिपुपृतनास्तोमरूपं स एष
ब्रह्मस्तम्बैकचन्द्रो बहुभिरिह करैरन्धकारं निरुन्धे ॥ ३८ ॥
मूलम् - ३८

प्रभावली - ३८
नृसिंहं चन्द्रत्वेन रूपयति — दम्भोलीति । ब्रह्मस्तम्बं जगत्, तस्य एकचन्द्रः मुख्यचन्द्रः ; धवलत्वाच्चन्द्रत्वरूपणम् । दम्भोलिश्रेणिवत् दीव्यतां विलसतां खरनखराणां कठिननखानां मुखैः अग्रैः क्षुण्णात् दारितात् दैतेयवक्षसः सकाशात् निःसृताभिः शोणितनदीभिः पूर्णाः याः दश दिशाः, ताभिः दर्शिता अपूर्वा पूर्वमाविद्यमाना सन्ध्या येन । चन्द्रोऽपि पश्चिमसन्ध्यां दर्शयति । स्वामिनः हिरण्यस्य ध्वंसेन प्रकुप्यतां सुररिपूणां या पृतना, तत्समूहरूपमन्धकारम्, इह बहुभिः करैः चन्द्रकिरणैः, तत्स्थानीयैः सहस्रहस्तैः रुन्धे निवर्तयति ॥ ३८ ॥
प्रभाविलासः - ३८
दम्भोलीति । खरनखराः ; कठिननखाः । निष्ठ्यूतम् ; निर्गतम् । अतिधवलतया चन्द्रत्वरूपणम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
तदहमिह महामोहनिरासाय दुरितभङ्गमाशासे40 ।
विकस्वरनखस्वरूक्षत हिरण्यवक्षःस्थली
निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।
हरन्तु मदघं रमासहचरस्य लीलाहरे
रहम्प्रथमिकामिथः प्रकटिताहवा बाहवः ॥ ३९ ॥
मूलम् - ३९
तदहमिह महामोहनिरासाय दुरितभङ्गमाशासे40 ।
विकस्वरनखस्वरूक्षत हिरण्यवक्षःस्थली
निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।
हरन्तु मदघं रमासहचरस्य लीलाहरे
रहम्प्रथमिकामिथः प्रकटिताहवा बाहवः ॥ ३९ ॥
प्रभावली - ३९
दुरितभङ्गं विघ्नाभावं प्रार्थये । विकस्वरेति । विकस्वराः विकसन
X६४३
शीलाः ये नखा एव स्वरवः वज्राः तैः विदारिताया हिरण्यवक्षःस्थल्याः सकाशात् निरर्गलं यथा तथा विनिर्गलन्ती या रुधिरनदी, तया सन्ध्यावदाचरिताः । हरेः ; क्रीडानृसिंहस्य । अहम्प्रथमिकया अहम्पूर्विकया वृत्त्या मिथः प्रकटिताहवाः बाहवः सहस्रं मदघं पुरुषमोक्षणविघ्नरूपं दुरितं हरन्तु ॥ ३९ ॥
प्रभाविलासः - ३९
विकस्वरेति । स्वरुः ; वज्रम् । आहवः ; युद्धम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
‘व्यवसायः— देव, इयं पुनरस्मदभिमतमर्थमभिमुखयन्ती स्वयमेव भगवता भावनामात्रनिर्मितेव सुभगविन्यासशालिनी निखिल भयनिर्मूलनी श्लोकाक्षरपरम्परा ; यथा
‘प्रह्लादह्लादनानि प्रणतसुरगणप्राणनप्रीणनानि’
प्रत्यूढस्थेम भीमप्रलयघनघटाघोषणाडम्बराणि ।
क्षुभ्यत्सप्ताम्बुधीनि क्षुरपरुषनखक्रीडितक्षुण्णशत्रो
रस्मद्भीतिव्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि ’ ॥ ४० ॥
मूलम् - ४०

प्रभावली - ४०
अभिमुखयन्ती ; सूचयन्ती । भावनामात्रम् ; सङ्कल्पमात्रम् । शोभन
। रचनाशालिनी श्लोकस्य वर्णपरम्परा । प्रह्लादेति । प्रह्लादस्य सन्तोषकराणि ।
व्यवसायः—- देवि, पश्य पश्य ;
स्थाणुसन्ततिकूटस्थां पितामहपितामहीम् ।
नमामि काञ्चन स्थूणां नरसिंहेन पुत्रिणीम् ॥ इयं पुनः etc ग. 2 प्राणितप्रीणनानि ग.
X६४४
प्राणनं दत्वा प्रीणनानि प्रियङ्कराणि । प्रत्यूढस्थेमानः निरस्तस्थैर्याः भयङ्कर-प्रलय मेघसमूह गर्जितानामाडम्बराः यैस्तानि । क्षुरम् ; शस्त्रम्, तद्वत् परुषाणां नखानां क्रीडितेन चूर्णीकृतशत्रोः । नृहरेः अट्टहासानाम् अद्भुतानि अस्माकं महामोहात् प्राप्ताया भीतेः व्यपोहं विदधतु ॥ ४० ॥
प्रभाविलासः - ४०
भावना; सङ्कल्पः । विन्यासः ; रचनाविशेषः । प्रह्लादेति । आह्लादनानीति ; “तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या” इति प्रह्लादवचनं स्मारितम् । प्राणनप्रीणनानि ; जीवनरक्षकाणि । प्रत्यूढः प्राप्तः स्थेमा स्थितिर्यस्य स चासौ भीमप्रलयघनघटाघोषणाडम्बरः येषां तानि । " निःस्थेमानो दशाननकीर्तयः " इतिवत् प्रयोगसाधुत्वं द्रष्टव्यम् । यद्यपि " करिणां घटना घटा” इति घटा
शब्दस्य गजसमूहवाचित्वं, तथाप्यत्रौचित्यात् समूहमात्रपरत्वं ज्ञेयम् । अत्राट्टहासाद्भुतानां प्रह्लादहर्षादिहेतुत्वोक्त्या कारकहेतुर्नामालङ्कारः,
“क्रियायाः कारकं हेतुर्मुख्यो गौण इति द्विधा ।
मुख्यहेतुर्द्विधा तत्र कारकज्ञापकक्रमात् ॥”
इति लक्षणात् ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
राजा ( सहर्षमवलोकयति)
व्यवसायः देव, इयं च काचित् । यथा
-‘प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजै
रव्यात् त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा41 पितामह्यभूत् ’ ॥ ४१ ॥
मूलम् - ४१

प्रभावली - ४१
काचित्; श्लोकपरम्परेति शेषः । प्रत्यादिष्टेति । क्षणमात्रं पाणिजैः नखैः प्रत्यादिष्टः तिरस्कृतः पुरातनानि यानि प्रहरणानि तेषां ग्रामः समूहः
X६४५
येन सः । तत्स्थाने नखराण्येव स्वीकृतवानित्यर्थः । अकुण्ठमहिमा ; अप्रतिहतपराक्रमः । वैकुण्ठाख्यः कण्ठीरवः सिंहः । यस्य यादृच्छिकात् प्रादुर्भावात् अवन्ध्यजठरा सफलोदरा या काचित् महासुरग्रहस्य स्थूणा स्तम्भः सहसा अतर्कितं यथा तथा वेधसां पितामहसमूहस्य पितामह्यभूत् ॥ ४१ ॥
प्रभाविलासः - ४१
प्रत्यादिष्टेति । प्रत्यादिष्टः प्रत्याख्यातः पुरातनप्रहरणानां शङ्खचक्रादीनां ग्रामो यस्य सः । अवन्ध्यजठरा; सपुत्रा । महासुरगृहे;
हिरण्यगृहे । स्थूणा ; स्तम्भः । अनन्ताण्डस्थितचतुर्मुखापेक्षया वेधसामिति बहुवचनोक्तिः ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
सुमतिः —अय्यउत्त, एसो हिरण्णो विअ मोहमहासुरो पुरिससीहेण तुए पसमणिज्जो । ..
( आर्यपुत्र, एष हिरण्य इव महामोहासुरः पुरुषसिंहेन त्वया प्रशमनीयः । )
व्यवसायः—देव, कालोपपन्नमिह कर्तव्यं स्मारयति देवी । तदिह नातीवेदानीमत्र निहितदृष्टिभ्यां भवितव्यम्’42 । तथापि सङ्क्षेपेण तु किञ्चिद्दर्शयामि । अयमिहासुरापहृतत्रैलोक्यप्रत्यानयनेन देवगणतोषणाय प्रवृत्तो दिव्यवामनः43 । अमी च
(इत्यर्धोक्ते)
राजा—- तिष्ठ तिष्ठ सेनापते, यावदेतस्मादपि दिव्यवामनात् किमपि मङ्गलमाशासे । ( सहर्षम् )
व्रीडाविद्धवदान्यदानवयशोनासीरघाटीभट
स्त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥ ४२ ॥
मूलम् - ४२

प्रभावली - ४२
एष हिरण्य इव महामोहासुरः पुरुषसिंहेन त्वया प्रशमनीयः । कालोपपन्नम् ; कालोचितम् । युवाभ्यामिति शेषः । इतिर्वाक्यान्ते । प्रत्यानयनम् ; प्रत्याहरणम् । अर्धोक्त; अमी च भृगुरघुयदुवंश सम्भवास्त्रयो रामा इति वाक्ये
X६४६
विवक्षिते । एतस्मात्; दिव्यवामनात् । व्रीडेति । अल्पं याचितवानिति ब्रीडया विद्धः । वदान्य इति हेतुगर्भविशेषणम्, वदान्यत्वादित्यर्थः । स चासौ दानवः बलिः, तस्य यशसः नासीरधाट्यां वर्तमानो भटः । यशः प्रसरणात् पूर्वमेव त्रैलोक्यमाक्रान्तवानित्यर्थः । त्रैयक्षम् ; रुद्रसम्बन्धि । पुनन्; परिशुद्धं कुर्वन्, गङ्गास्रोतसेति भावः । त्रिविक्रमपदसम्बन्धी विक्रमः पादविक्षेपः नः अवतु । यस्य विक्रमस्य प्रस्तावे प्रारम्भे समुच्छ्रितानां ध्वजपटीनां वृत्तान्तस्य सिद्धान्तिभिः प्रतिष्ठापकैः ; ध्वजपटसदृशैरित्यर्थः ; स्रोतोभिः सुरसिन्धुः अष्टसु दिगन्तहर्म्येषु दोधूयते भृशं कम्पते ॥ ४२ ॥
प्रभाविलासः - ४२
व्रीडेति । महावदान्यस्य त्रिपदप्रदानमनुचितमिति व्रीडाविद्धेत्युक्तिः । त्रैयक्षम् ; शिवसम्बन्धि । पुनन्निति; " यच्छौच निःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विघृतेन शिवः शिवोऽभूत् " इति भागवतवचनं स्मारितम् । विक्रमः ; पादेनोत्क्रमणम् । " विक्रमः क्रमणे शौर्ये इति निघण्टुः । यस्य विक्रमस्य प्रस्तावे प्रारम्भे समुच्छ्रितध्वजपटीवृत्तान्तस्य सिद्धान्तिभिः स्थापकैः स्रोतोभिः सीतालकनन्दाप्रभृतिभिः प्रवाहैः । दोधूयते ; " धूञ् कम्पने " इति धातोर्यङि रूपम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
सुमतिः—देव, अस्स विअ तुम्ह वि पडिहअपरिपक्खस्स भाईरइव्व जसप्पवाहो पडिदिसं संवड्ढइ ।
(देव, अस्येव तवापि प्रतिहत प्रतिपक्षस्य भागीरथीव यशःप्रवाहः प्रतिदिशं संवर्धते ।)
व्यवसायः अमी च भृगुरघुयदुवंश सम्भवाः प्रबलतरदुष्टनिरसनेन परित्रातलोकत्रयास्त्रयो44 रामाः । एष पुनरेतेषु बहुमुखपुण्यजनबाधनोऽपि45 परित्रातपुण्यजनो मध्यमो रामः । अनेन किल कोसलसुताकुमारभावकञ्चुकितकारणाकारेण, कौमारकेलिगोपायितकौशिकाध्वरेण, रणाध्वरधुर्य भव्यदिव्यास्त्रशालिना, प्रणतजन विमतविमथनदुर्ललितदोर्ललितेन, मैथिलनगरसुलोचना लोचनचकोर चन्द्रेण,
दिनकर कुलकमलदिवाकरेण, खण्डपरशुकोदण्डप्रकाण्डखण्डन शौण्डभुजदण्डेन, भृगुपतिसुगति विहतिकर नतपरुडिषु परिघेण, पितृवचनपरिपालनप्रतिज्ञावज्ञातयौवराज्येन, दण्डकतपोवनजङ्गमपारिजातेन, खरतरखरतरुषण्डखण्डनचण्डपवनेन, द्विसप्तरक्षः सहस्रनलवनविलोलनमहाकलभेन, महितमहामृथदर्शनमुदितमैथिलीदृढपरिरम्भणविरोपितविकटवीरव्रणेन, मारीचमायामृगचर्मपरिकर्मित निर्भरदर्भास्तरणेन, ‘गृध्रराजदेह46 दिधक्षालक्षितभक्तजनदाक्षिण्येन, अवन्ध्यमहिममुनि
जनभजनमुषितकलुषशबरीमोक्षसाक्षिभूतेन प्रभञ्जनतनय ‘भावुकभाषितरञ्जित47 हृदयेन,48 तरणिसुतशरणागतिपरतन्त्रितस्वातन्त्र्येण, विपुलभुजमूलनिबिडनिपीडितरावणरणरणकजनकचतुरुदधिविहरणचतुरकपिपतिहृदय49 विशालशिलातलदारणदारुणशिलीमुखेन, विमतसहोदर रक्षःपरिग्रहसंरम्भविजृम्भितसर्वेश्वरभावेन, सकृत्प्रपन्नसंरक्षणदीक्षितेन,
कपिकुलकरतलतुलित गिरिनिकरसाधितसेतुपथसीम सीमन्तितसमुद्रेण,50 लङ्कावरोधवेपथुला स्यलीलोपदेशदेशिकेन, विशङ्कटविशिखविताडनविघटितम कुटविह्वलविश्रवस्तनयविश्रमसमयविश्राणनविख्यातविक्रमेण, कुम्भकर्णकुलगिरिदलनदम्भोलिना, मघवजिदभिहनन कृदनुजसाक्षिकराक्षसद्वन्द्वयुद्धेन, निखिलजगदनवरतभयजनकन्दशवदनलपनदशक-
लवनजनितकदनरजनिचरयुवतिजनविलपनवचनविख्यापितपारम्येण,
राजाः — ( सहर्षविस्फारिताक्षमवलोकयन् )
पारावारपयोविशोषणकलापारीणकालानल
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं51 धन्वी स तन्वीत नः ॥ ४३ ॥
मूलम् - ४३

प्रभावली - ४३
X६४७
एतेषु रामेषु । बहुमुखो दशमुखः यः पुण्यजनः राक्षसः रावणः, तद्बाधनः । अनेकविधा ये पुण्यजनाः सुकृतिन इत्यपि भासते । तत्र विरोधद्योतकोऽपिशब्दः । परित्राताः सुकृतिजनाः विभीषणादयः येन । मध्यमो रामः । अस्य चरित्रं सर्वमापादचूडं सङ्क्षेपतोऽनुसन्धत्ते — अनेनेति । कुमारभावेन पिहितः कारणाकारः जगत्कारणत्वरूपं परत्वं येन । कौमारकेल्या गोपायितः । रणः भावी खरादिसम्बन्धी, स एव अध्वरः, तत्र धुर्याणि निर्वाहकाणि भव्यानि अनुकूलानि । विमताः ; विरोधिनः तेषां विमथने
X६४८
उद्धतः । मैथिलः ; जनकः । लोचनान्येव चकोर पक्षिणः । खण्डपरशुः रुद्रः, तस्य कोदण्डम् । शौण्डः ; समर्थः । भृगुपतेः सुगतिः; सुकृतफलम् । नतपरुद्; नतपर्वकः । परिघः ; अर्गला । अवज्ञातम् ; अनादृतम् । जङ्गमपारिजातः ; चरः कल्पवृक्षः । खर एव तरुः । द्विसप्त चतुर्दश । नलवनम् ; नलाख्यतृणानां वनम् । कलभः ; त्रिंशद्वर्षगजः । मृथम् ; युद्धम् । परिरम्भणम् ; आश्लेषः । विरोपितम् ; चिकित्सितम् । विकटम् ; प्रकटं वीरव्रणम् । परिकर्मितम् ; अलङ्कृतम् । निर्भरम्; परिपूर्णम् । दिधक्षा; दहनेच्छा, तया लक्षितं प्रकाशितं दाक्षिण्यम् । अवन्ध्यः सफलः । मुनयः ; शबरीगुरवः ।
X६४९
प्रभञ्जनः ; वायुः । भवुकम् ; कुशलम् । रञ्जितम् ; वशीकृतम् । तरणिसुतः ; सुग्रीवः । परतन्त्रितम् ; वशीकृतम् । भुजमूलम् ; कक्षः । रणरणकम् ; भयम् । कपिपतिः ; वाली । विमतः; शत्रुः रावणः । सहोदरः ; विभीषणः । परिग्रहे यः संरम्भः तेन प्रकाशिता " सकृदेव प्रपन्नाय " इति श्लोकार्थन्निष्ठा ।
X६५०
तुलितः ; क्षिप्तः । सीमन्तितः ; विभक्तः । मघवजित्; इन्द्रजित् । दशवदनस्य ; रावणस्य । लपनदशकम् ; वदनदशकम् । लवनेन जनितं यत्कदनं
विभीषणवशंवदीकृतलङ्केश्वर्येण, पुष्पकरभसगोष्पदीकृतगगनमहार्णवेन, प्रतिज्ञार्णवतरणकृतक्षणभरतमनोरथ सिंहासनाधिरूढेन, दिव्यभौमायोध्याधिदैवतेन, जानकीसहधर्मचारिणा, सर्वधर्मसमाराधनीयेन, सनातनधर्मेण, साकेतजनपदजनिघनिकजङ्गमतदितरजन्तु जातदिव्यगतिदानदर्शितनित्यनिःसीमवैभवेन, भगवता, भक्तजन भद्रारामेण, श्रीरामभद्रेण52 विश्वमेतत्सनाथीकृतम् ।
X६५१
दुःखम् । वशंवदम् ; परवशम् । तरणेन कृतोत्सवो भरतः, तस्य मनोरथेन सम्भातं प्रार्थितं यद्राज्य सिंहासनं तदारूढः । दिव्या ; वैकुण्ठलोकगता । भौमा ; भूमिगता । या अयोध्या, तयोः अधिदैवतम् ; उभयत्रापि समप्रीतिनेति भावः । जानक्या सहैव शरणागतिधर्माचरणशीलेन । सर्वधर्माः ; प्रवृत्तिनिवृत्तिरूपाः । सनातनधर्मेण ; नित्योपायभूतेन । साकेतजनपदम् अयोध्या, तत्र जनिःजन्म, तदेव धनं येषां ते जनिधनिकाः । तदितरन्त्; स्थावरम् । जन्तुजातस्य
X६५२
दिव्यगतिदानेन । भक्तजनानां यानि भद्राणि तदास्पदेन । श्रीमता;
। सीतासमेतेन । सनाथीकृतम् । अस्मादप्यमङ्गलविरतिमाशास्ते पारावारेति । पारावारस्य पयोविशोषणकलायां पारीणः समर्थः यः कालानलः, तस्य यत् ज्वालाजालं, तस्य यो विहारः विलासः, तद्वत् हारी मनोहरः यो विशिखव्यापारः बाणक्रिया, तस्य घोरः क्रमो यस्य स तथोक्तः । सर्वावस्थायां यत्सकृत्प्रपन्नजनतासंरक्षणं, तदेव मुख्यं प्रधानं व्रतं तद्वान् । सर्वावस्थशब्दः प्रपन्न जनताविशेषणं वा । विग्रहवान् धर्म इति स्थितः । " रामो विग्रहवान् धर्मः" इत्युक्तेः । नः अधर्मात् विरतान् करोतु ॥ ४३ ॥
प्रभाविलासः - ४३
जामदग्न्यरामस्य पूर्वमेव प्रस्तुततया तमुपेक्ष्य मध्यम राममाह एष इति । बहुमुखपुण्यजनः ; दशमुखः । परित्रातपुण्यजनः ; रक्षितसाधुजनः, " निवासवृक्षः साधूनाम् " इत्युक्तत्वात् । अनेनेत्यारभ्य रामायणषट्काण्डयर्थं सङ्क्षेपेण दर्शयति । कञ्चुकितकारणाकारेण; आच्छादितपरतत्त्वस्वरूपेण ।
" स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ”
इति युक्तम् । गोपायितम् ; रक्षितम् । कौशिकः ; विश्वामित्रः । कौशिकादस्त्रप्राप्तिं सूचयति — रणेति । विमताः; सुबाहुमारीचप्रभृतयः ।
सुलोचनाः ; स्त्रियः । खण्डपरशुः ; रुद्रः । कोदण्डः ; धनुः । शौण्डः ; समर्थः । भृगुपतिः; परशुरामः । खरतरः; कठिनतरः । खरः ; राक्षसः । नलवनम् ; तृणसमूहः । कलभः ; गजशाबः ।
तं दृष्ट्रा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥
इति वचनमनुसन्धायाह –महितेति । दिधक्षा; ब्रह्ममेधसंस्कारः । लक्षित
म् ; दर्शितम् । मुनिभजनम् ; यतिशुश्रुषा । भावुकभाषितानि; अपशब्दादिदोषरहितानि वचांसि । तदुक्तम्
“बहु व्याहरतानेन न किञ्चिदपशब्दितम् ।
तस्माद्व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ॥ "
इत्यादि । तरणिसुतः; सुग्रीवः । वालिनं विशिनष्टि — विपुलेति । कपिपतिः ; वाली । दारणम् ; भेदनम् । विमतसहोदररक्षः पदैः
" रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ "
इति स्मारितम् । जृम्भितसर्वेश्वर भावेनेति ;
" पिशाचान् दानवान् यक्षान् ये चान्ये भुवि राक्षसाः ।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥ "
इति श्रीरामोक्तिः स्मारिता । सकृत्प्रपन्नेति ; “ सकृदेव प्रपन्नाय " इति विवृतम् । सर्वजनेति; “ सर्वभूतेभ्यः " इति पदं व्याख्यातम् । दीक्षितेनेति ; " व्रतं मम " इति व्याख्यातम् । साधितः ; रचितः । अत्र भयानकशृङ्गारयोः समावेशः । अवरोधः; अन्तः पुरजनः । विश्रवस्तनयस्य ; रावणस्य । विश्रमसमयविश्राणनम् ; विश्रमकालवितरणम् । तेन विख्यातविक्रमेणः प्रसिद्धपराक्रमेण । अनेन
’ गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिञ्चरराज लङ्काम् ।
आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥ " इति स्मारितम् । मघवजित्; इन्द्रजित् । लपनदशकलवनेति स्तबकवृन्तच्छेदनसाम्यं व्यज्यते । रजनिचरयुवतिः; मन्दोदरी । तया हि स्वपतिहननेन वज्रहस्तादिषु सुबहुवारं निर्जितेषु सामर्थ्याभावमनुमाय परिशेषप्रमाणेन नारायणावतार एव श्रीराम इति परतत्त्वं निर्णीतम् । तदुक्तम्
" व्यक्तमेष महायोगी महतः परमो महान् ।
तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ “.
इति । अत्र लिङ्गतोऽर्थोहनादनुमानं नाम गर्भसन्धेः सप्तममङ्गमुक्तम्, ’ अभ्यूहो लिङ्गतः सम्यगनुमानमितीरितम्” इति लक्षणात् । यद्यपि प्रधानकथानुसारेणाङ्गवर्णनं युक्तं, तथापि दशरूपके " चातुर्वर्ण्यसमाहारो वर्णसंहार इष्यते " इति वदता प्रधानकथानुसारित्वम नियतमित्यभिप्रेतमिति न दोषः । प्रतिज्ञेति भरतप्रतिज्ञा विवक्षिता । साकेतम् ;
अयोध्या । तदितरत्; स्थावरम् । भद्रारामेण ; मङ्गलावासेन । पारावारेति ; पारावारस्य समुद्रस्य पयोविशोषणमेव कला, तत्र पारीणस्य कालानलस्य ज्वालाजालविहारं हरतीति तथोक्तः । स चासौ विशिखश्च, तस्य व्यापारे घोरः भयङ्करः क्रमः सञ्चारः यस्य सः । अनेन " सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः " इति स्मारितम् । धर्मो विग्रहवानिति ; " रामो विग्रहवान् धर्मः " इति स्मारितम् । धन्वी ; प्रशस्तचापः ; " मण्डलीकृतकार्मुकः " इति ह्युक्तम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
सुमतिः—- देव्वं, णलसेतुकत्तुणा इमिणेव्व धम्मसेतुसण्ठावएण तुए वि धम्मिअजणो कअद्धीकरिज्जइ ।
(देव, नलसेतुकर्त्रानेनेव धर्मसेतु संस्थापकेन त्वयापि धार्मिकजनः कृतार्थीक्रियते ।)
–
व्यवसायः — देव, अयं पुनराप्रादुर्भावमनुगतपररूपः समस्तनिगमान्तसारगीतोपनिषदाचार्यो भगवान् वासुदेवः ।
कंसध्वंसैकवीरो दनुजभरहतक्षोणिदुर्जातबन्धु
र्गोपीनां प्राणमित्रं गुरुसुतपुनरुज्जीवनोदारकीर्तिः ।
नाथो वृष्ण्यन्धकादेर्नरकपुरवधूपत्रभङ्गापहारी
पाञ्चालीवल्लभानां प्रथनमुखसुहृत्पञ्चमाम्नायसारः ॥ ४४ ॥
मूलम् - ४४

प्रभावली - ४४
X६५३
अस्य53 श्रीरामचन्द्रस्य सम्भावनीयं दशाविशेषमनुभवति — कृपे इति । भो रामस्य कृपे, दीनजनानां सर्वाभीष्टप्रदे । रघुधुरीणयन्त्या त्वया सकृदीक्षणमात्रेण तत्क्षणे । प्रकृष्टेत्यादि । सेतुना सरित्पतिः दक्षिणसमुद्रः द्वेधा व्यभज्यत । णलसेतुकत्तुणा नलसेतुकर्त्रा । इमेणेव्व-अनेनेव । धम्मसेतुसण्ठावएण-धर्मसेतु संस्थापकेन । तुए वि त्वयापि ; धम्मिअजणो धार्मिकजनः । कअद्धीकरिज्जइ-कृतार्थीक्रियते । प्रादुर्भावमारभ्यानुवर्तमानपरत्वाकारो वासुदेवः । कंस इति । दनुजभरेण हता या क्षोणी तस्या दुर्जातम् आपत्, तत्र
X६५४
बन्धुः । गुरुसुतस्य पुनरुज्जीवनेन उदारा कीर्तिर्यस्य । वृष्णयः अन्धकाश्च यदुवंश्यभेदाः । नरकासुरस्य पुरम् । पत्रभङ्गः ; तिलकं, पत्रलेखा वा । प्रथन
X६५५
मुखे; युद्धारम्भे; सुहृत्; सारथ्यकरणात् । पञ्चमाम्नायः ; पञ्चमवेदः गीता, तस्याः सारार्थभूतः ॥ ४४ ॥
प्रभाविलासः - ४४
अनुगतपररूपः ; अनुवर्तमानशङ्खचकादिविशिष्टाप्राकृत विग्रहः । कंसेति । एकशब्दः सङ्ख्यावाची । दनुजभटैः जरासन्धादिभिः हतायाः पीडितायाः क्षोणेः भुवः दुर्जातबन्धुः आपद्बन्धुः । " दुर्जातं व्यसनं प्रोक्तम्" इति निघण्टुः । राज्ञामेव कर्मणा दनुजत्वमुक्तम्-
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः ।
आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥
इति श्रीभागवतोक्तेः । गोपीनां प्राणमित्रमिति ; गोपेष्ववियुक्तेषु सत्स्वेव यद्विश्लेषेण प्राणानपि गोप्यस्त्यजन्तीति भावः । तच्च चिन्तयन्तीप्रभृतिषु प्रसिद्धम् । गुरुः; सान्दीपनिः । तस्य सुतस्य पुनरुज्जीवनेन महती दातृत्वकीर्तिर्यस्य सः । अनेन
तत्पाञ्चजन्यमापूर्य गत्वा यमपुरं ततः । हरिर्बलश्च भगवान् जित्वा वैवस्वतं यमम् ॥ तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । प्रीत्यै प्रदत्तवान् कृष्णो बलश्च बलिनां वरः ॥ "
इति स्मारितम् । नाथो वृष्ण्यन्धकादेरिति ;
"" भगवानपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निजनाथानां योगमायां समादिशत्
99
इत्यवतारप्रयोजनं दर्शितम् । नरकः ; नरकासुरः । पत्रभङ्गापहारी ; वैधव्य सम्पादक इत्यर्थः ।
" गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ।
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥
इति कृष्णाऋणापाकरणार्थमेव धर्मादिरक्षणमिति व्यञ्जयितुं पाञ्चालीग्रहणम् । धर्मादिष्वेकस्मिन्नपि विपन्ने पाञ्चाल्या एवामङ्गलमिति सर्वरक्षण
मावश्यकमिति बहुवचननिर्देशः । पञ्चस्वस्याविशेषेण सौहार्दै दर्शयितुं वल्लभग्रहणम् । सहासनभोजनसंलापादिषु सुहृत्त्वं सर्वसुलभमिति तद्वयावृत्तिमाह – प्रथनेति । तत्राप्यनुयात्रादिव्यावृत्तये मुखसुहृदित्युक्तिः ।
पञ्चमाम्नायस्य भारतस्य, भारतः पञ्चमो वेदः " इति स्मरणात् ।
सारः; महावाक्यतात्पर्यविषयः । तदुक्तम् —
" वेदे रामायणे चैव पुराणे भारते तथा ।
आदौ च मध्ये चान्ते च विष्णुः सर्वत्र गीयते ॥"
इति । यद्वा " भारते भगवद्गीता" इति पञ्चमाम्नायसारभूतगीतोपनिषत्प्रतिपाद्य इत्यर्थः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
अमुना किल पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकादिदुष्टजनमर्दनेन गोपालकुलसंवर्धनाय
समुद्धृतो गोवर्धनः ।
राजाः ( सहर्षमवलोक्य)
निकटेषु निशामयामि नित्यं निगमान्तैरधुनापि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ॥ ४५ ॥
मूलम् - ४५

प्रभावली - ४५
एतद्व्या परस्यापरिमितत्वादतिसङ्क्षेपेण तत्र किञ्चिद्दर्शयन् गोवर्धनोद्धरणं धान्यतो दर्शयतिअमुना किलेति । अरिष्टो वृषभासुरः । धेनुकः । प्रलम्ब
X६५६
धेनुकयोर्बलदेवमर्दितत्वेऽपि कृष्णेनैव तद्द्वारा कृतमिति मत्वा तथोक्तिः । वर्धनाय ; संरक्षणाय । गोवर्धनः पर्वत इति शेषः । प्रत्यक्षत एनं द्रष्टुं महाभाग्यमासीदित्यभिप्रायेणाह — निकटेति । निकटेषु ; समीपदेशेषु । निशामयामि ; पश्यामि । अहो भाग्यमिति भावः । नित्यम् अधुनापि निगमान्तैः मृग्यमाणम् ; अन्विष्यमाणम् । यमुना साक्षिणी यद्यौवनस्य ; तत्तीर यौवनविहाराणां विहितत्वात् ॥ ४५ ॥
प्रभाविलासः - ४५
निकटेष्विति । अधुनापि मृग्यमाणमिति “ यतो वाचो निवर्तन्ते " इति वर्तमानप्रयोगो व्याख्यातः । यमलार्जुनाभ्यां दृष्टा
बालकेलिर्यस्य तम् । यमुनातीरे गोपिकाजनैः स्वैरसञ्चारेण यमुनासाक्षिकेत्युक्तम् । युवानमिति नित्ययौवनमित्यर्थः, " यः पूर्व्याय वेधसे नवीयसे " इति श्रुतेः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
व्यवसायः -इयं पुनरिह वासुदेवस्य वामतो वर्णपरम्परा’
जयति ललितवृत्तिं शिक्षितो वल्लवीनां
शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णो
रधर मणिसुधायामंशवान्वंशनालः ’ ॥ ४६ ॥
मूलम् - ४६
व्यवसायः -इयं पुनरिह वासुदेवस्य वामतो वर्णपरम्परा’
जयति ललितवृत्तिं शिक्षितो वल्लवीनां
शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णो
रधर मणिसुधायामंशवान्वंशनालः ’ ॥ ४६ ॥
प्रभावली - ४६
–
वामतः ; वामपार्श्वे । वल्लवीनां यानि शिथिलवलयानि तेषां शिञ्जाभिः ध्वनिभिर्हेतुभिः, शीतलैः सुश्रवैः हस्ततालैः ललितवृत्ति कोमलां गीतवृत्तिं शिक्षितः । अधरमणिः; कृष्णस्याधररत्नम् । तद्वक्त्रोद्भूतायां सुधायामंशवान्; गोपीभिः सहानेनापि पीतत्वादिति भावः । वंशनालः ; मुरली जयति ॥ ४६ ॥
प्रभाविलासः - ४६
जयतीति; शिथिलवलयानां स्वर्णसूक्ष्मकाचादीनां शिञ्जाभिः ध्वनिभिः शीतलैः । शिथिलेति शिञ्जासौकर्यं दर्शितम् । क्षण विश्लेषासहनं च व्यज्यते । शीतलैरिति श्रोतृजनाह्लादकत्वम् । हस्ततालैः ललितवृत्ति सुकुमाराङ्गनृत्तभेदं शिक्षितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
इयं चापरा -
‘फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्र लम्बादय
स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै
राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ’ ॥ ४७ ॥
मूलम् - ४७
इयं चापरा -
‘फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्र लम्बादय
स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै
राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ’ ॥ ४७ ॥
प्रभावली - ४७
X६५७
अपरा ; वर्णपरम्परेति शेषः । फक्कदिति । कौरवपट्टणम् ; हास्तिनपुरम् । प्रभृतिशब्दः ; तदुपवनादिग्राहकः ।
फक्क नीचैर्गतौ " इति धातुः । फक्कन्तः नीचैः पतन्तः कौरवपट्टणप्रभृतयः याभिस्ताः । प्रास्ताः निरस्ताः प्रलम्बादयः, आदिशब्देन द्विविदादयः, याभिः । तालाङ्कस्य ; बलरामस्य । तथाविधाः ; तथात्वेन पुराणप्रसिद्धाः । विहृतयः नः भद्राणि तन्वन्तु । याभिः ; विहृतिभिः । अपृथग्भूताः कृष्णस्य ताः केलयः बाललीलाः । किमिव ? शर्करया अपृथग्भूतं क्षीरमिव । प्रभूतैः गुणैः; बलदेव विहृतिसंसृष्ट्या पूर्वतोऽप्यधिकायमानगुणैः सौलम्यादिभिः । जगते ; पश्यते जनाय । अस्वदन्त ; स्वादुतमा अभूवन् । आकौमारकम् ; कृष्णस्य बाललीलामारभ्य ॥ ४७ ॥
प्रभाविलासः - ४७
[[१]] फक्कदिति । फक्कनं नीचैर्गमनम् । “ फक्क नीचैर्गतौ " इति धातुः ।
। कौरवपट्टणम् ; हास्तिनपुरम् । प्रभृतिशब्देन यमुनादिसङ्ग्रहः । तदुक्तम् —
“इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्रे विन्यस्य चकर्ष मुसलायुधः ॥
आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।
दृष्ट्वा सम्भग्नहृदयाश्चुकुशुः पौरकौरवाः ॥”
इति । प्रलम्बः ; राक्षसः । आदिपदेन द्विविदादयः । शर्करया क्षीरमिवापृथग्भूताः परस्परमेलनेनातिस्वाद्याः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
इति ।
सुमतिः—- अय्यउत्त, अवणिभारुद्धरणप्पवृत्तं जउधुरन्धरं विअ तुमं वि संसिइभअभरणीसेसधंसणसण्णद्धम् अइरा एव्व कअकज्जं पेक्खिस्सम् ।
( आर्यपुत्र, अवनिभारोद्धरणप्रवृत्तं यदुधुरन्धरमिव त्वामपि संसृतिभयभरनिःशेषध्वंसन सन्नद्धमचिरादेव कृतकार्य प्रेक्षिष्ये ।)
व्यवसायः— सत्यमेतत् । आलक्ष्यतामयं54 पुनरखिलदोष
निर्मूलनः कल्की ।
राजा ( विलोक्य)
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशःसुतः कलिकथाकालुष्यकूलङ्कषः ।
निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं
धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥ ४८ ॥
मूलम् - ४८

प्रभावली - ४८
X६५८
अय्यउत्त आर्यपुत्र । अवणिभारुद्धरणप्पवत्तम् अवनिभारोद्धरणप्रवृत्तम् । जडधुरन्धरं विअ यदुधुरन्धरमिव । तुमं वित्वामपि । संसिइभअभरणी से सधंसण सण्णद्धं-संसृतिभयभर निःशेषध्वंसनसन्नद्धम् । अइरा एव्व अचिरादेव । कअकज्जं कृतकार्यम् । पेक्खिस्सं प्रेक्षिष्ये । कल्की; कल्कः श्वेताश्वः, सोऽस्यास्तीति कल्की । अस्मादभिलषितं प्रार्थयते — भाविन्येति । भाविन्या ;
भविष्यन्त्या दशया कल्की अश्ववान् भवन् वर्तमानः कल्की नः भवध्वंसाय कल्पताम् । कीदृशः ? विष्णुयशसः शम्बलग्रामवासिनो विष्णुयशोनामक ब्राह्मणस्य सुतः । कलिकथा ; कलियुगप्रस्तावः, कलिमधिकृत्य यानि कालुष्याण्युक्तानि " अट्टशूला जनपदाः " इत्यादीनि तेषां समूलोच्छेदकः । पुनः कीदृशः ? यन्निस्त्रिंशधाराधरः ; यस्य खड्गरूपो मेघः । निःशेषं यथा तथा क्षता नाशिताः कण्टकाः, क्षुद्रशत्रवः तरुकण्टकाश्च यत्र तस्मिन् । क्षितितले खड्गधारा एव जलौघाः तैः । कार्तयुगं धर्मम्; निवृत्तिधर्मम् । ध्रुवं प्ररोहयति ; अङ्कुरयति । मेघश्च निःशेषं छिन्नशुष्कदग्ध कण्टकक्षेत्रे धारारूपैर्जलैरङ्कुरं प्रवर्तयति ॥ ४८ ॥
प्रभाविलासः - ४८
भाविन्येति । भाविन्या; भविष्यन्त्या । दशया अवस्थया, अवतारेणेति यावत् । कल्की; कल्को नामाश्वजातिविशेषः, “ताम्रत्व क्सित
केशवालतनुजः " इति तल्लक्षणम् । विष्णुयशा नाम कश्चित् ब्राह्मणः,
तस्य सुतः ;
“शम्बलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः ।
भवने विष्णुयशसः कल्की प्रादुर्भविष्यति ॥”
इति स्मरणात् । कलिकथा पापकथा । निस्त्रिंशः ; खड्गः । धारा ; खड्गाग्रम्। छिन्नकण्टकलतादिके क्षेत्रे बीजं सम्यगङ्कुरतीति प्रसिद्धिः॥ ४८॥
विश्वास-प्रस्तुतिः - ४९
X६५९
व्यवसायः—देव, इत्थं किल भगवतः कतिचिदवतारभेदा दर्शिताः । कति कति भवन्ति55 भूता भाविनश्च भगवतः स्वच्छन्दावताराः । अमीषां चातिशयवर्णने निगमान्तवन्दिनोऽपि निवृत्तव्यापाराः । अपि च,
इच्छामीन विहारकच्छप महापोत्रिन्यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।
क्रीडावल्लव कल्कवाहनदशाकल्किन्निति56 प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्योघपण्यापणाः ॥ ४९ ॥
मूलम् - ४९

प्रभावली - ४९
कति कति सन्ति; बहवः सन्ति । स्वच्छन्दावताराः; स्वेच्छावताराः । अमीषाम् ; अवताराणाम् । निवृत्तव्यापाराः ; “यतो वाचो निवर्तन्ते " इत्युक्तेः । तेषु दशावतारमात्रमपि नित्यं जल्पन्तः कृतकृत्या इत्याह
X६६०
अपिचेति । भो इच्छामीन; स्वेच्छावतीर्णमीन । विहारेणावतीर्ण महाकच्छप कूर्म । महापोत्रिन्; महावराह । यदृच्छया नृसिंहरूपं प्राप्त । लोकरक्षणायापतीर्ण रोषाविष्टराम । भो करुणाविष्टकाकुत्स्थराम । हेलयावतीर्णहलिन् यदुराम । क्रीडयावतीर्णवल्लव । कल्कः श्वेताश्वविशेषः । “ताम्रत्वक्सितवाल केशतनूजः”
X६६१
कल्कः " इति लक्षणात् । कल्को वाहनं यस्य स तथोक्तः । तस्य दशा कलियुगान्तः । तस्यामवतीर्णकल्किरूप । इति प्रत्यहं जल्पन्तः पुरुषाः पुण्यानामोघा एव पण्यानि विक्रयद्रव्याणि तेषामापणाः निषद्यास्थानानि भूत्वा स्वसञ्चारेण भुवनं पुनन्ति ॥ ४९ ॥
प्रभाविलासः - ४९
इच्छेति । मकरतादिपरिग्रहेऽपि राक्षस संहारसम्भवे स्वतन्त्रेच्छया मत्स्यतेति वक्तुम् इच्छामीनेत्युक्तम् । “कण्डूयनैरद्रिणा निद्राणस्य " इति न्यायेन मन्दरधारणस्य विहारनिमित्ततया विहारकच्छपेत्युक्तिः । " रोमान्तःस्था मुनयः स्तुवन्ति " इत्यपरिच्छिन्नविग्रहतया महापोत्रिनित्युक्तम् । नृसिंहस्याकस्मिकत्वेन यदृच्छेत्युक्तम् । स्वनिर्दिष्टेन्द्रपदाद्याक्रमणेऽपि बलेर्धार्मिकत्वेन नातिपीडामकरोदिति रक्षावामनेत्युक्तम् । एकैकशः समूलघातेऽप्यनिवृत्तरोषतया रोषरामेत्युक्तम् । आर्द्रापराधिनो रावणकाकादेर्दृष्टमात्रवध्यत्वेऽपि कारुणिकतया वधानिवृत्त इति करुणाकाकुत्स्थेत्युक्तिः । हलेन पुरोत्पाटनादिकं लीलामात्रमिति हेलाहलिनित्युक्तम् । यमुनातीरे गोपालगोपिकादिभिः क्रीडानिमित्तं वल्लभत्वम्, इच्छामात्रेणैव दुष्टनिग्रहसम्भवादिति वक्तुं क्रीडावल्लवेत्युक्तिः । कल्कवाहनदशाकल्किन्निति ; युगपदेव सकलदुर्वृत्तनिग्रहावतारस्य नातिचिरस्थायित्वं
च व्यज्यते । सर्वत्र इच्छामीनेत्यादिना कर्मनिमित्तकत्वव्यावृत्तिरभिप्रेता । प्रत्यहं जल्पन्त इति; सायं प्रातः सन्ध्यासु दशावतारस्तोत्रपठनं नित्यमिति व्यज्यते ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
तेषु चैतेषु भगवदवतारेषु निराशिषः पुरुषस्य यथाभिमतमेकमालम्बनं निर्धारणीयं महाराजेन ।
राजा सेनापते, साधीयः सञ्चिन्तितम् । तदहं सम्प्रति,
विशुद्धे विश्वरूपस्य यत्र क्वचन विग्रहे ।
समाधिजननीं पुंसः साधयिष्यामि भावनाम् ॥ ५० ॥
मूलम् - ५०

प्रभावली - ५०
1
उत्तर कृत्यं राज्ञे निवेदयति तेष्विति । यथाभिमतम् ; यत्र तवाभिरुचितं तदेकमालम्बनं निर्धारणीयं मुमुक्षोः पुरुषस्य ; भवतीति शेषः । साधीयः ; अतिसमीचीनम् । तत् ; तस्मात् । विशुद्ध इति । विश्वरूपस्य ; जगच्छरीरिणः ।
। यत्र वचन विशुद्धे विग्रहे ; विशुद्धशब्देन बुद्धादिरूपव्यावृत्तिः । समाधिहेतुभूतां भावनाम् ; समाधिः साक्षात्कारः, तज्जननीं चिन्तनां साधयिष्यामि ॥ ५० ॥
प्रभाविलासः - ५०
समाधिजननीं भावनाम् ; तत्स्वरूप साक्षात्कारजनकं ज्ञानम् ;
" तस्यैव कल्पनाहीनस्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिः साभिधीयते ॥ "
इति स्मरणात् ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
न चात्रास्माकमतिभारः । यतः,
पदकमलनतानां भासमानः प्रमाणैः
प्रणिहितरुचिभेदः प्राच्य संस्कारशक्त्या ।
प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः
परिकलयति रूपं भावनालम्बनार्हम् ॥
तदिह कृतं शिल्पदर्शनेन । दीयतां शिल्पाधिकारिणः संस्कारस्यास्मत्प्रसादोचितमभिमतं पारितोषिकम् ।
व्यवसायः –यदाज्ञापयति देवः ।
राजा — सेनापते, बलवदभियुक्ता वयं सन्त्वरेमहि सम नन्तरकरणीयाय ।
( इति निष्क्रान्ताः सर्वे )
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये शुभाश्रयनिर्धारणं नाम सप्तमोऽङ्कः । .॥ ५१ ॥
मूलम् - ५१

प्रभावली - ५१
X६६२
अत्र चाप्यस्माकमतिभारो नास्तीत्याह-न चात्रेति । तत्र हेतुमाह — यत इति । पदेति । प्रमाणैः आगमैः मनसि भासमानः प्राच्य संस्कारशक्त्या प्रणिहितरुचिभेदः ; प्रवर्तितरुचिभेदः । यस्य यस्मिन् विग्रहे पूर्ववासना, तस्य तस्मिन् रुचिविशेषं प्रवर्तयति भगवानिति भावः । अनुकम्पाया अधीना निर्विघ्ना लीला यस्य सः । रूपम् ; स्वं विग्रहम् । पदकमलनतानाम् ; आश्रितानाम् । भावनायाः ; ध्यानस्य । आलम्बनार्हम् ; विषयस्यार्हम् । परिकलयति ; चित् करोतीत्यर्थः
कृतम् ; अलं चित्रदर्शनेन । पारितोषिकम् ; परितोषप्रयुक्तं देयवस्तु । उत्कण्ठाया बलवत्तामाह बलवदिति । बलवता महामोहेन अभियुक्ताः कृतस्पर्धाः अनन्तरकृत्याय सन्त्वरेमहीति ॥
इति श्रीनृसिंहराजाचार्यकृतसङ्कल्पसूर्योदयव्याख्यायां प्रभावल्यां शुभाश्रयनिर्धारणं नाम सप्तमोऽङ्कः । सप्तमोऽङ्कः ॥ ५१ ॥
प्रभाविलासः - ५१
पदकमलेति । प्रणिहितरुचिभेद इति ; निर्दिष्टविग्रहेषु यथारुचि व्यवस्थया विकल्प उक्तः । निघ्नः; आयत्तः इत्यात्रेयाहोबिलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने शुभाश्रय निर्धारणं नाम सप्तमोऽङ्कः । ॥ ५१ ॥
Notes
-
अत्र " शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः " इति वचनमनुसन्धेयम् । ↩︎ ↩︎
-
अत्र हृदयमेव मण्डपः । तत्र रत्नस्तम्भाः ज्ञानभक्तिवैराग्यादयोऽभिप्रेताः. ↩︎ ↩︎
-
अत्र, “ईक्षणभ्यान संस्पर्शैर्मत्स्यकूर्मविहङ्गमाः । पुष्यन्ति स्वान्यपत्यानि तथाहमपि पद्मज ॥ " इति वचनमनुसन्धेयम् । ↩︎ ↩︎
-
सर्वावतारेष्वपि भगवतः पुण्डरीकाक्षत्वानपायात् मत्स्यावतारेऽपि अरविन्दगहनानीत्युक्तिः ।” मत्स्यः कमललोचनः " इति ह्युक्तम् । ↩︎ ↩︎
-
प्रत्यभिजशिवांसं ख ग ; अतथा प्रत्यभिजज्ञिवांसमिति प्रभावलीपाठः ↩︎ ↩︎
-
एतत्पाठपक्षे स्वकारणभूतमिति स्वः कारणभूतः यस्येति बहुव्रीहिः । एनं स्वकारणकं प्रत्यभिजजज्ञिवांसमित्यर्थो बोध्यः । अथवा प्रत्यभिजज्ञिवांसं प्रत्यभिजिज्ञासुमित्यर्थः। ↩︎
-
घ adds the following stanza before this. " स्थाणुसन्ततिकूटस्थां पितामहपितामहीम् । नमामि काञ्चन स्थूणां नरसिंहेन पुत्रिणीम् ॥ " ↩︎ ↩︎
-
प्रभाविलासरीत्या ‘महासुरगृहे स्थूणा’ इति पाठः प्रतिभाति, तदा तु " स्थूणोर्णे नपुंसके च । गृहशशाभ्यां क्लीबे" इति लिङ्गानुशासनविरोधशङ्काया अप्यनवकाशः । अन्यथा " लिङ्गमशिष्यं लोकाश्रयत्वात् " इति भगवत्पतञ्जलिवचनेन प्रकारान्तरेण वा महासुरगृहस्थूणेति स्त्रीत्वमगत्योपपादनीयं स्यात् । ↩︎ ↩︎
-
श्रीमता ↩︎
-
अस्या व्याख्यायाः मूलश्लोकः दयाशतके सप्ताशीतितमः श्लोकः । परं तु सः मूलकोशेष्वत्र न पठ्यते । ↩︎
-
राजाः —(साञ्जलिबन्धम्) वन्दे बृन्दावनचरं वल्लवीजनवल्लभम्। जयन्ती सम्भवं धाम वैजयन्तीविभूषणम् ॥ व्यवसायः -added before- —ga ↩︎ ↩︎