विश्वास-प्रस्तुतिः - १
सङ्कल्पसूर्योदयः
षष्ठोऽङ्कः
शुद्धविष्कम्भः
(ततः प्रविशति कञ्चुकी)
कञ्चुकी – अहं हि देवस्य महामोहस्य दर्पसम्भवः स्तम्भो
नाम सदागमप्रतिरोधकः प्रतिहारी । मम च,
बलिभिरविरलाभिर्वर्ष्म सोपानकल्पं
द्रुतपदमधिरूढा दुर्निवारा जरेयम् ।
तदपि नियतिभूम्ना तादृशी वेत्रयष्टिः
सह चरति मयासौ शैशवे सङ्गृहीता ॥ १ ॥
मूलम् - १
सङ्कल्पसूर्योदयः
षष्ठोऽङ्कः
शुद्धविष्कम्भः
(ततः प्रविशति कञ्चुकी)
कञ्चुकी – अहं हि देवस्य महामोहस्य दर्पसम्भवः स्तम्भो
नाम सदागमप्रतिरोधकः प्रतिहारी । मम च,
बलिभिरविरलाभिर्वर्ष्म सोपानकल्पं
द्रुतपदमधिरूढा दुर्निवारा जरेयम् ।
तदपि नियतिभूम्ना तादृशी वेत्रयष्टिः
सह चरति मयासौ शैशवे सङ्गृहीता ॥ १ ॥
प्रभावली - १
अस्मिन्नङ्के विवेकेन पुरुषस्य संयमस्थानविशेषनिर्धारणं क्रियते । तत्र तावत् तदुपोद्घातत्वेनादौ विष्कम्भे महामोहस्य कञ्चुकी स्वदुःखकथनपूर्वकं
X५३०
स्वकृत्यं कथयति – ततः प्रविशतीत्यादि । कञ्चुकः अस्य सर्वदास्तीति कञ्चुकी; द्वाःस्थः । अयं दर्पस्य तनयः स्तम्भः जडीभावः निरुद्योगता नाम पुरुषधर्मः । स्वाधिकारादि वर्णयति - अहं हीत्यादि । महामोहस्य प्रतिहारी । प्रतिहारो द्वारम् ; तदस्य पाल्यत्वेनास्तीति प्रतिहारी द्वारपालः । दर्पात् सम्भवः; दर्पतनय इत्यर्थः ; स्तम्भ इति नाम । स्वकृत्यमाह - सदागमेति । सदागमाः सच्छास्त्राणि तेषां निवारकः । यद्वा सतां महतामागमस्य निवारकः । स्वदुःखकथनव्याजेन राजसेविनां दुःखं वर्णयति — मम चेत्यादि । अविरलाभिः ; निबिडाभिः । वलिभिः ; रेखाभिः । सोपानकल्पम् ; सोपानशब्दो- ऽत्र सोपानवद्वाचकः; सोपानवद्धर्मिसदृशम् । मम वर्ष्म; शरीरं कर्म । दुर्निवारा; अपरिहार्या । इयं जरा; केशादिविस्रंसनं जीर्णभावः । द्रुतपदं यथा तथा अधिरूढा । तथापि नियतिभूम्ना ; विधिमहिम्ना । शैशवे ; अतिबाल्ये । सङ्गृहीता तादृशी स्वोदरभरणसाधनी इयं वेत्रयष्टिः मया सह चरति ; इदानीमपि न जहातीति भावः ॥ १ ॥
प्रभाविलासः - १
अथ मध्यमपात्रप्रयोजितं शुद्धविष्कम्भमारभते - तत इति । सदागमप्रतिरोधकः; सतामागमः, आगमनं शास्त्रं च । " आगमस्त्वागतौ शास्त्रे " इति रत्नमालायाम् । वलिभिरिति । वार्धकपरिपाकेन देहे वलयो भवन्ति । अत एवाविरलाभिरित्युक्तम् । सोपानकल्पमित्यधिरोहणसाघनत्वं गम्यते । जरेति नायिकासाम्यं व्यज्यते । तदपि ; तथापि । सह चरतीति अनुकूलनायिकात्वं गम्यते । शैशवे सङ्गृहीतेति त्यागायोग्यता गम्यते ॥ १ ॥
विश्वास-प्रस्तुतिः - २
किञ्च,
निःशङ्कसञ्चरणविघ्नविधायिनीभ्यां
निष्पीडितोऽस्मि ‘जरसा1 च नृपाज्ञया च ।
मध्योपलक्षितमनोरथभङ्गदीना
वाञ्छा न शाम्यति वयः सकलं प्रशान्तम् ॥ २ ॥
मूलम् - २
किञ्च,
निःशङ्कसञ्चरणविघ्नविधायिनीभ्यां
निष्पीडितोऽस्मि ‘जरसा1 च नृपाज्ञया च ।
मध्योपलक्षितमनोरथभङ्गदीना
वाञ्छा न शाम्यति वयः सकलं प्रशान्तम् ॥ २ ॥
प्रभावली - २
एवं जरया पीडितस्य वयः सर्वमतीतम् ; वाञ्छा तु न शाम्यतीत्याह-
X५३१.
निःशङ्केति । निःशङ्कं यत् सञ्चरणं तस्य विघातकारिणीभ्याम् । राजपरतन्त्राणां निःशङ्कं यथेष्टं सञ्चरितुं न शक्यते राजा कदा आह्वास्यतीति भिया । जराक्रान्तस्यापि अशक्त्या निःशङ्कगमनं न लभ्यते । जरसा ; जरया । नृपाज्ञया च नितरां पीडितोऽस्मि । अथापीति शेषः । मध्येन उपलक्षितः ऊहितः मनोरथभङ्गः । यथा वार्धके मध्यो भग्नः, एवं मनोरथोऽपि भक्ष्यतीत्यूहितुं शक्य इत्यर्थः । यद्वा मध्ये कार्यसिद्धेः प्रागेव दृष्टो यो मनोरथस्य भङ्गः, तेन दीनापीति भावः । वाच्छा तु वर्धते । वयः सकलं बाल्ययौवनवार्धकाख्यं सर्व निःशेषं गतम् ॥ २ ॥
प्रभाविलासः - २
निःशङ्केति । मध्ये उपलक्षितेन मनोरथभङ्गेन भीता । न शाम्यतीत्येन-
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥
इति स्मारितम् ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
आस्तां तावदशेषदेहसाधारणागतिर्जरा2 । " न हि जानपदं दुःखमेकः शोचितुमर्हति " इति नीतिविदः3 । नृपाज्ञा तु
निष्ठुरतरा ;
तरतु विवित्सयाब्धिमधिरोहतु शैलतटीम्
धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदं यदुत बह्नवधाय भिया
धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ ३ ॥
मूलम् - ३
आस्तां तावदशेषदेहसाधारणागतिर्जरा2 । " न हि जानपदं दुःखमेकः शोचितुमर्हति " इति नीतिविदः3 । नृपाज्ञा तु
निष्ठुरतरा ;
तरतु विवित्सयाब्धिमधिरोहतु शैलतटीम्
धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदं यदुत बह्नवधाय भिया
धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ ३ ॥
प्रभावली - ३
आस्तामिति । सर्वशरीरेषु साधारणागतिर्जरा तिष्ठतु । तच्चिन्तनं न कर्तव्यम् । तत्र सम्मतिं दर्शयति-नहीति । जानपदम् ; जनपदो देशः,
X५३२
तत्सम्बन्धि दुःखं तन्मध्यगतेनैकेन शोचितुं नार्हमिति न्यायविद आहुरिति शेषः । जरा नृपाज्ञयोरतिशयेन नृपाज्ञैव निष्ठुरतरा । तदिदमुपपादयति — तरत्विति । विवित्सया; लब्धुमिच्छया; लोभेनेत्यर्थः । अब्धिं तरतु; समुद्रं यानपात्रेण सन्तरतु । इदमप्यरुन्तुदं दुःखकरं न भवति । सर्वत्राप्यनुज्ञायां लोट् । शैलस्य तटीं लोभेन अधिरोहतु । तदपि सह्यम् । धातुवर्गं लोहादिकं धमतु; मूषया पुटपाकं करोतु । तदप्यनुमन्यते । शस्त्रमुखम् ; सङ्ग्रामम् । अभिगच्छतु लोभेन ॥ तदप्यस्तु । तदिदमेवारुन्तुदम् ; मर्मवेधि, दुःखकरम् । भिया; कदा दण्ड आपतिष्यतीति भिया । बह्ववधाय; अत्यन्तावधानेन सह । धनगर्वेण मेदुराः सान्द्रा ये क्षितिभृतः तेषाम् अङ्कणेषु अवरोधस्थलीषु यच्चङ्क्रमणं सञ्चरणं, तदिदमेव दुःसहमित्यर्थः ॥ ३ ॥
प्रभाविलासः - ३
धनार्जनोपायेषु राजसेवैव दुःशकेत्याह - तरत्विति । विवित्सया; वित्तलाभेच्छया । अरुन्तुदम् ; मर्मस्पृक् । भिया; राजतदधिकारिभयेन । धनमदेन मेदुराणां क्षीबानां क्षितिभृतां राज्ञाम् अङ्कणे गृहबाह्यप्रदेशे चङ्क्रमणं सञ्चारः । अन्तः प्रवेशः किमुतेति भावः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
आः कष्टम् ;
प्रत्यङ्गकम्पपरिनर्तितकञ्चुकेऽस्मिन्
पर्याप्त4 रूढपलिते परतन्त्रपिण्डे ।
अक्षीणरागमजरामरजीविताशं
मामेव हन्त हसतीव ममान्तरात्मा ॥ ४ ॥
मूलम् - ४
आः कष्टम् ;
प्रत्यङ्गकम्पपरिनर्तितकञ्चुकेऽस्मिन्
पर्याप्त4 रूढपलिते परतन्त्रपिण्डे ।
अक्षीणरागमजरामरजीविताशं
मामेव हन्त हसतीव ममान्तरात्मा ॥ ४ ॥
प्रभावली - ४
एवं दुःखकरेऽपि शरीरे स्थिरजीविताशया स्वं निन्दति - आः कष्टमित्यादि । प्रत्यङ्गं कम्पेन वार्धकप्रयुक्तेन परिवर्तितं कञ्चुकं यस्मिन् । पर्याप्तं यथा तथा रूढं पलितं जराशौक्ल्यं यस्मिंस्तस्मिन् । पराधीनशरीरे अक्षीणः परिपूर्णो रागो यस्य । अजरामरा; जरामरणवर्जिता, नित्येत्यर्थः, जीविते जीवने आशा यस्य तम् । मामेव ममान्तरात्मा मम मनः, यद्वा अन्तर्यामी पुरुषः हसतीव । हन्तेति खेदे ॥ ४ ॥
प्रभाविलासः - ४
प्रत्यङ्गेति । प्रत्यङ्गकम्पेन ; प्रत्यवयवचलनेन परिनर्तितं कञ्चुकं यस्मिंस्तस्मिन् । परतन्त्रपिण्डे; पराधीनदेहे ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
(सनिश्वासं विचिन्त्य) निरधिकारतैव नूनं सुखस्याधिकारः । अथवा, किमनेन महामोहपरवशस्य मे मुधा निर्वेदेन ? स्वतन्त्रस्य तीक्ष्णदण्डस्य स्वामिनः प्रेषणे5 स्थातव्यम् । अतिनिपुणपरिजनो- चितं च नित्यमाचरितव्यम् । अद्य खलु देवो महामोहश्चारचक्षुषा6 विपक्षवृत्तान्तं7 दिदृक्षमाणो विपक्षभूमिषु कल्मषप्रवर्तनाय सर्वधर्मनिर्मूलने कलौ प्रस्थापिते, प्रतिबलभेदनोपायकोविदं पाकशासनादिषु पशुपक्ष्यादिषु चाविशेषेण निरङ्कुशगतिं विघ्ननामान’मपसर्पमपसर्प्य8 सदसद्वायं किं वदिष्यतीति सन्देहदोलाधिरोहतरलिताशयस्तत्प्रत्यागतिमावेदितुमावेदयितुं च मामादिशत् । स चायं विघ्नः सत्वरपरिक्रान्तयमनियमादिस्थानपञ्चकः,‘तत्र9 तत्र सन्निहितैः
कुशलाचारैः सर्वतः प्रतिहतगतिः सम्प्रति संयमारम्भसम्भृतसंरम्भं10 “्देवं11 विवेकं स्यन्दने दवीयानेव दृष्ट्रा प्रत्यागतः स्वामिसन्दर्शनसमयप्रतीक्षः समया शुद्धान्तमवतिष्ठते । यथादृष्टार्थवादी चासौ । तथा चेदानीं तदुक्तमध्यक्षेण संवदते12 । यदुत -
मनोरथरथारूढो विवेकस्तर्कसारथिः ।
दिदृक्षुः संयमस्थानमितः समभिवर्तते13 ॥ ५ ॥
मूलम् - ५
(सनिश्वासं विचिन्त्य) निरधिकारतैव नूनं सुखस्याधिकारः । अथवा, किमनेन महामोहपरवशस्य मे मुधा निर्वेदेन ? स्वतन्त्रस्य तीक्ष्णदण्डस्य स्वामिनः प्रेषणे5 स्थातव्यम् । अतिनिपुणपरिजनो- चितं च नित्यमाचरितव्यम् । अद्य खलु देवो महामोहश्चारचक्षुषा6 विपक्षवृत्तान्तं7 दिदृक्षमाणो विपक्षभूमिषु कल्मषप्रवर्तनाय सर्वधर्मनिर्मूलने कलौ प्रस्थापिते, प्रतिबलभेदनोपायकोविदं पाकशासनादिषु पशुपक्ष्यादिषु चाविशेषेण निरङ्कुशगतिं विघ्ननामान’मपसर्पमपसर्प्य8 सदसद्वायं किं वदिष्यतीति सन्देहदोलाधिरोहतरलिताशयस्तत्प्रत्यागतिमावेदितुमावेदयितुं च मामादिशत् । स चायं विघ्नः सत्वरपरिक्रान्तयमनियमादिस्थानपञ्चकः,‘तत्र9 तत्र सन्निहितैः
कुशलाचारैः सर्वतः प्रतिहतगतिः सम्प्रति संयमारम्भसम्भृतसंरम्भं10 “्देवं11 विवेकं स्यन्दने दवीयानेव दृष्ट्रा प्रत्यागतः स्वामिसन्दर्शनसमयप्रतीक्षः समया शुद्धान्तमवतिष्ठते । यथादृष्टार्थवादी चासौ । तथा चेदानीं तदुक्तमध्यक्षेण संवदते12 । यदुत -
मनोरथरथारूढो विवेकस्तर्कसारथिः ।
दिदृक्षुः संयमस्थानमितः समभिवर्तते13 ॥ ५ ॥
प्रभावली - ५
X५३३
सनिश्वासम् ; निश्वस्येत्यर्थः । निरधिकारतैव; अधिकारराहित्यम्, स्वेच्छया तूष्णीमवस्थानमित्यर्थः । सुखस्याधिकारः ; हेतुः । मुधा निर्वेदेन; व्यर्थचिन्तया । तत्र हेतुः - स्वतन्त्रस्येति । क्रूर शासनस्य प्रेषणे ; प्रेषितकृत्ये । अतिनिपुणो यः परिजनः, तदुचितं तद्योग्यम् । दिदृक्षमाणः ; द्रधुमिच्छुः । शत्रुभूमिषु पुण्यक्षेत्रेषु दोषप्रवर्तनाय प्रस्थापिते प्रेषिते सति । प्रतिबलं प्रतिपक्षः, तस्य भेदनोपाये समर्थम् । देवासुरपशुपक्ष्यादिषु सर्वत्राविशेषं यथा तथा निर्विघातगतिम् । अपसर्पम् ; चरमित्यर्थः । अपसर्प्य; प्रस्थाप्य । अयम् ; विघ्ननामा चरः । सत्; शोभनम् । असत्; अशोभनं वा । किमागत्य वदिष्यतीति सन्देहाधिरोहेण चञ्चलचित्तः । तस्य विघ्नचरस्य प्रत्यागमनं ज्ञातुं स्वस्मै निवेदयितुं चादिक्षत् आज्ञापितवान् । सत्वरं यथा तथा परिक्रान्तयमनियमासनप्राणा-
X५३४
यामप्रत्याहाराख्यस्थानपञ्चकः तत्र तत्र स्थानेषु सन्निहितैः प्राप्तः मङ्गलाचरणैः सर्वत्र प्रतिहतगतिः, अवकाशमलभ्यमान इत्यर्थः ; सम्प्रति अद्य पुरुषस्य
X५३५
समाध्यारम्भे सम्पन्नोद्योगम् स्यन्दनेन सह ; स्यन्दनारूढं दृष्ट्वेत्यर्थः । निराशतया प्रतिनिवृत्यागतः स्वामिनो महामोहस्य सन्दर्शनसमयं प्रतीक्षमाणः समया शुद्धान्तं शुद्धान्तस्यावरोधस्य समीपे अवतिष्ठते । असौ विघ्नश्च यथादृष्टार्थवादी भवति । इदानीं तदुक्तं विघ्नोक्तं सर्व तथाच उक्तप्रकारेणैव अध्यक्षेण प्रत्यक्षेण सङ्घटते सङ्गच्छते । तदुक्तं मया प्रत्यक्षेणानुभूयत इत्यर्थः । यदुत ; यस्मात् । मनोरथेति । तर्कः विचाररूपः प्रमाणानुग्राहकत्वेनोक्तः सारथिर्यस्य स सन् पुरुषस्य संयमस्थानं द्रष्टुकामः इतः अस्मदभिमुखमायाति ॥ ५ ॥
प्रभाविलासः - ५
निरधिकारतेति; अनेन " सर्वे परवशं दुःखं सर्वमात्मवशं सुखम्” इति स्मारितम् । अपसर्पम् ; चरम् । अपसर्प्यः प्रेष्य ।
कुशलाचारैरिति :
“मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥”
इति स्मारितम् । मनोरथेति । तर्कः ; व्याप्यारोपेण व्यापकारोपः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
तदहमपि यथादिष्टमाचरामि ।
(इति निष्क्रान्तः)
शुद्धविष्कम्भः
(ततः प्रविशति यथानिर्दिष्टो विवेकः )
विवेकः - अये सूत, आहार्यहेतुमुखेनाप्यन्ततः सूनृत -
वादिना निष्प्रतिघवृत्तिना नियमभूयिष्ठेन परानुकूल्यं14 त्यजता तद् निष्टप्रसञ्जकेन तद्विपर्यय पर्यवसायिना त्वयासौ मे मनःपूर्वी रथः सुपथा सञ्चरते ।
तर्कः - देव, अहमपि खलु त्वदायत्तप्रसरः । अपि च,
स्वपक्षपरपक्षादीन् विविङ्क्ते यदि न त्वया ।
कृत्याकृत्यविवेकान्धः किं करिष्यति पूरुषः ॥ ६ ॥
मूलम् - ६
तदहमपि यथादिष्टमाचरामि ।
(इति निष्क्रान्तः)
शुद्धविष्कम्भः
(ततः प्रविशति यथानिर्दिष्टो विवेकः )
विवेकः - अये सूत, आहार्यहेतुमुखेनाप्यन्ततः सूनृत -
वादिना निष्प्रतिघवृत्तिना नियमभूयिष्ठेन परानुकूल्यं14 त्यजता तद् निष्टप्रसञ्जकेन तद्विपर्यय पर्यवसायिना त्वयासौ मे मनःपूर्वी रथः सुपथा सञ्चरते ।
तर्कः - देव, अहमपि खलु त्वदायत्तप्रसरः । अपि च,
स्वपक्षपरपक्षादीन् विविङ्क्ते यदि न त्वया ।
कृत्याकृत्यविवेकान्धः किं करिष्यति पूरुषः ॥ ६ ॥
प्रभावली - ६
यथादिष्टम् ; यथाज्ञप्तम् । शुद्धविष्कम्भः ; प्राकृतभाषाया अमिश्रणात् ।
शुद्ध विष्कम्भः
यथानिर्दिष्टः ; मनोरथरथारूढः तर्कसारथिश्च सन् । अये इति परिजनसम्बोधनम् । असौ मे मनःपूर्वी रथः सुपथा सञ्चरते ; निःशङ्कं प्रवर्तत इत्यर्थः । " समस्तृतीयायुक्तात्” इत्यात्मनेपदम् । केनेत्यत्राह - त्वयेति ॥ कीदृशेनेत्यत्राह - आहार्यहेतुमुखेनापीति । आहार्य आरोपितो हेतुर्मुखं यस्य तेन । तथाप्यन्ततः सूनृतवादिना ; निश्चयजनकेनेत्यर्थः । अपिर्विरोधे ।
X५३६
॥ '
निष्प्रतिघवृत्तिना; प्रतिकूलतर्करहितेनेत्यर्थः । नियमः ; साध्यसाधनयो- र्व्याप्तिः, तत्सहितेन । भूयिष्ठशब्देनानौपाधिकत्वं सूचितम् । परानुकूल्यं त्यजता; प्रतिवाद्यनिष्टप्रसञ्जकेन । त्वदायत्तप्रसरः; तर्कप्रवृत्तिरपि विवेकाधीनेत्यर्थः । अथ पुरुषस्य स्वपक्षपरपक्षादिविभागोऽपि त्वदधीन इत्याह- अपिचेति । आदिशब्देन साधनदूषणादयो गृह्यन्ते । विविङ्क्ते ; विवेचयति ॥ ६ ॥
प्रभाविलासः - ६
शुद्धविष्कम्भ इति, " प्राकृतामिश्रणाच्छुद्धः " इत्युक्तेः ।
शुद्धविष्कम्भः
सारथितर्कौ तन्त्रेण निदर्शयति - अये इत्यादिना । आहार्यहेतुमुखेन कृत्यप्ररोचनार्थं युक्तिकल्पनेऽपि अन्ततः सूनृतवादिना सत्यपर्यवसितेन ; अन्यत्र आहार्यहेतुः ‘यदि धूमो न स्यात्’ इति विद्यमानस्यैव धूमस्याभावारोपः । अन्ततः सूनृतवादिना; तत्त्वनिर्णयफलेनेत्यर्थः ।
निष्प्रतिघवृत्तिना; अप्रतिहतव्यापारेण; अन्यत्र प्रतितर्काप्रतिहतेन । नियमभूयिष्ठेन ; निम्नादिदेशेषु प्रग्रहसङ्कोचादिनियमबाहुल्यवता; अन्यत्रानुपाधिकव्याप्तिमता । परानुकूल्यं त्यजता ; शल्यादिवत् सपत्नानुकूल्यमना चरता; अन्यत्र प्रतिवाद्यननुकूलेन । तदनिष्टप्रसञ्जकेन; शत्रुप्रतिवाद्य- निष्टसम्पादकेन । तद्विपर्ययः; शत्रुनाशः ; ’ तस्मादस्ति वह्निः’ इति साध्यनिर्णयश्च तत्र पर्यवसायिना । एवं तर्काङ्गपञ्चकोक्तिः । तदुक्तम्-
" व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥”
इति ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
विवेकः - वयं खलु सूत, इदानीं वशीकृतसर्वेन्द्रियस्य पुरुषस्य धारणादिसिद्धिसाधकं स्थानमन्वेषयन्तः सर्वलोकपरिक्रमक्रमेण मध्यमलोकावलोकनाय मेरुशिखरमधिरूढाः ।
(समन्ततोऽवलोक्य)
स्फुरदर परिपाटी चारुशैले विशाले
गुरुणि धरणिचक्रे चक्रवालाद्रिनेमौ ।
दधति जलधयोऽमी सप्त सम्पूर्णवृत्ताः
प्रचितविविधपट्टस्पष्टसङ्ख्यामभिख्याम् ॥ ७ ॥
मूलम् - ७
विवेकः - वयं खलु सूत, इदानीं वशीकृतसर्वेन्द्रियस्य पुरुषस्य धारणादिसिद्धिसाधकं स्थानमन्वेषयन्तः सर्वलोकपरिक्रमक्रमेण मध्यमलोकावलोकनाय मेरुशिखरमधिरूढाः ।
(समन्ततोऽवलोक्य)
स्फुरदर परिपाटी चारुशैले विशाले
गुरुणि धरणिचक्रे चक्रवालाद्रिनेमौ ।
दधति जलधयोऽमी सप्त सम्पूर्णवृत्ताः
प्रचितविविधपट्टस्पष्टसङ्ख्यामभिख्याम् ॥ ७ ॥
प्रभावली - ७
साम्प्रतिक स्वावस्थामाह – वयं खल्वित्यादिना । वशीकृत सर्वेन्द्रियस्य ; यमनियमादिस्थानपञ्चकारूढस्येत्यर्थः । धारणादीनां धारणध्यानसमाधीनां सिद्धिकरम् । परिक्रमस्यानुपूर्व्या मध्यमं लोकं भूलोकमवेक्षितुमित्यर्थः । भूमि वर्णयति - स्फुरदिति । स्फुरताम् अराणाम; अराः चक्रस्य नाभिनेमिव्याप्ता. बन्धविशेषाः, तेषां परिपाटी प्रक्रिया, तया चारवः शैलाः प्रत्यन्तपर्वताः यस्मिन् । चक्रवालाद्रिः ; लोकालोकपर्वतः स एव नेमिः प्रधिः प्रधिस्थानीयो यस्मिन् । धरणिमण्डलरूपे चक्रे । अमी सप्त जलधयः । सम्पूर्णम् अखण्डं वृत्तं मण्डलं येषां ते । प्रचितैः बद्वैः विविधैः पट्टेः रथचक्रबद्धः स्वर्णलोहादिमयैः दण्डैः स्पष्टं सङ्ख्यं युद्धं यस्यास्ताम् । अभिख्यां शोभां दधति ॥ ७ ॥
प्रभाविलासः - ७
X५३७
स्फुरदिति । स्फुरतामराणां परिपाटी अनुक्रमो येषाम् ; ते च ते चारुशैलाः प्रत्यन्तपर्वताः यस्य तस्मिन् । ते चोक्ता विष्णुपुराणे-
“पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे पार्श्वे सुपर्वा चोत्तरे स्थितः ॥”
इति ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
इदं हि त्रिगुणमरुकान्तारगतागतखेदनिर्वेदविधुराणां काम- कामानां किमपि विश्रमस्थानम् । अयं च —
भुजगपतिनालविधृते भूपद्मे कर्णिकारूपः ।
विलसति केसरभूधरपरिवृततनुरत्र काञ्चनक्ष्माभृत् ॥ ८ ॥
मूलम् - ८
इदं हि त्रिगुणमरुकान्तारगतागतखेदनिर्वेदविधुराणां काम- कामानां किमपि विश्रमस्थानम् । अयं च —
भुजगपतिनालविधृते भूपद्मे कर्णिकारूपः ।
विलसति केसरभूधरपरिवृततनुरत्र काञ्चनक्ष्माभृत् ॥ ८ ॥
प्रभावली - ८
X५३८
इदम् ; भूमण्डलम् । त्रिगुणं त्रिगुणाख्यप्रकृतिविकारभूतस्वर्गभूलोकादिकं, तदेव मरुकान्तारं तत्र गतागतेन यः खेदः, तेन जनितेन निर्वेदेन विषादेन विधुराः रहिताः; अमुमुक्षव इत्यर्थः । अत एव कामकामानाम्; क्षुद्रं फलं कामयन्त इति कामकामाः, तेषाम् । अयं च ; महामेरुः । भुजगपतिः शेषः, स एव नालः, तेन विधृते भूपद्मे केसरपर्वताः गन्धमादनादयः तैः परिवृततनुः कर्णिकारूपः कर्णिकारूपेण विलसति प्रकाशत इत्यर्थः ॥ ८ ॥
प्रभाविलासः - ८
भुजगेति । भुजगपतिः शेष एव नालः । कर्णिकारूप इति ; अनेन “भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः " इति वचनं स्मारितम् । केसरभूधराः ; नितान्तचारुकुञ्जप्रभृतयः । तदुक्तम् —
नितान्तश्चारुकुञ्जश्च कुररी माल्यवांस्तथा ।
वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥
त्रिकूटशिखरी चैव पतङ्गो रुचकस्तथा ।
निषेधाद्या दक्षिणतस्तस्य केसरपर्वताः ॥
शिखिवासाः सवैदूर्यः कपिलो गन्धमादनः ।
जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ।
शङ्खकूटोऽथ ऋषभो हंसो नागस्तथा परः ।
काराञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥”
इति ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
असाविह समन्ततो निपतदलिपटलविरुतमुखर15 परिसरा प्रफुल्लवकुलमुकुलप्रणालिका16 मुखगलितमधुरमधुधाराधोरणीपूर्यमाणमूलालवाला प्रत्यासीदति विबुधसिन्धु’ सविधवनतरुवाटिका17 ।’18 इह च
निष्प्रत्यूहसमुन्नमन्मदसिराकण्डूलगण्डस्थली-
हेलावूनन धूतभृङ्गपटली मूर्च्छन्मृषाचामरः ।
मन्दान्दोलितमन्दराचलतटीनिष्ठ्यूतधातुच्च्छटा-
सिन्दूरद्युतिबन्धुरो विहरति19 स्तम्बेरमग्रामणीः ॥ ९ ॥
मूलम् - ९
असाविह समन्ततो निपतदलिपटलविरुतमुखर15 परिसरा प्रफुल्लवकुलमुकुलप्रणालिका16 मुखगलितमधुरमधुधाराधोरणीपूर्यमाणमूलालवाला प्रत्यासीदति विबुधसिन्धु’ सविधवनतरुवाटिका17 ।’18 इह च
निष्प्रत्यूहसमुन्नमन्मदसिराकण्डूलगण्डस्थली-
हेलावूनन धूतभृङ्गपटली मूर्च्छन्मृषाचामरः ।
मन्दान्दोलितमन्दराचलतटीनिष्ठ्यूतधातुच्च्छटा-
सिन्दूरद्युतिबन्धुरो विहरति19 स्तम्बेरमग्रामणीः ॥ ९ ॥
प्रभावली - ९
X५३९
अत्र गङ्गातटवृक्षवाटिका प्रत्यासन्नेत्याह- असाविति । असौ ; वाटिका । इह ; मेरौ । विरुतैः शब्दैः मुखरः शब्दायमानः परिसरः समीपप्रदेशः यस्याः सा । प्रफुल्लानि विकसितानि मुकुलान्येव प्रणालिकाः, तासां मुखेभ्यो गलिताः स्रुताः मधुधारायाः धोरण्यः कुल्याः, ताभिः पूर्यमाणानि तरुमूलालवालानि यस्याम् । आलवालं जलाधारमण्डलम् । सविधम् ; समीपम् । वाटिका स्थली । तत्रैरावतविहरणं दर्शयति -ह्ह चेति । निर्विघ्नं यथा तथा उद्गच्छन्त्या मदनाड्या कण्डूतिमत्योः गण्डस्थल्योः लीलाधूननेन चलिता या भृङ्गपटली
3
5 I
4
;
X५४०
सैव परितः प्रसरन् मृषाचामरः कल्पितचामरो यस्य सः । मन्दमान्दोलितस्य चलितस्य, मन्दराचलस्य तट्याः निष्ठ्यूता निर्गच्छन्ती या धातुच्छटा, गैरिक धूलीपटलं, तदेव सिन्दूरं गजालङ्करणचूर्णं, तस्य द्युत्या मनोहरः । स्तम्बेरमाः
गजाः तेषां श्रेष्ठः, ऐरावत इत्यर्थः । इह विहरति ॥ ९ ॥
प्रभाविलासः - ९
आधोरणी ; प्रवाहः । निष्प्रत्यूहेति । निष्प्रत्यूहमनर्गलं यथा तथा समुन्नमन्मदाभिः निर्गच्छन्मदाभिः सिराभिः ; यद्वा समुन्नमन्तीभिः उच्छूनाभिः मदसिराभिः कण्डूलयोः गण्डस्थलयोः हेलाधूननेन धूता भृङ्गपटल्येव मूर्च्छन् वीजन् मृषाचामरो यस्य सः । बन्धुरः; सुन्दरः । स्तम्बेरम- ग्रामणीः; ऐरावतः ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
अपि च,
क्षरत्यारादैरावणकरटिशुण्डाचुलकिता
कथञ्चित्सन्तानद्रुम किसलयासादितलया ।
स्मरस्मेरोत्कण्ठाविहरदमरीलोलकबरी-
जरीजृम्भन्मालामधुलवहरा20 वातलहरी ॥ १० ॥
मूलम् - १०
अपि च,
क्षरत्यारादैरावणकरटिशुण्डाचुलकिता
कथञ्चित्सन्तानद्रुम किसलयासादितलया ।
स्मरस्मेरोत्कण्ठाविहरदमरीलोलकबरी-
जरीजृम्भन्मालामधुलवहरा20 वातलहरी ॥ १० ॥
प्रभावली - १०
,
किञ्चात्र मन्दमारुतो वातीत्याह-क्षरतीति । ऐरावणश्चासौ करटी च । करटो गजगण्डं तदस्यास्तीति करटी वारणः । तस्य शुण्डया पीता । सन्तानद्रुमस्य किसलयैः कथञ्चिदापादितविच्छेदा, प्रतिहतेत्यर्थः । स्मरेण विकसन्त्या उत्कण्ठया औत्सुक्येन विहरन्तीनाममरस्त्रीणां लोला या कबरी केशपाशबन्धः, तत्र जरीजृम्भती या माला, तस्याः मकरन्दांशं हरतीति हरा । वातस्य वीचिः आरात् समीपे क्षरति वातीत्यर्थः । अत्र पादत्रयेण यथाक्रमं मान्द्यशैत्यसौरभ्याण्युक्तानि । पूर्वोक्ताभिर्वर्णनाभिर्मेरुः समाधिस्थानं न भवतीति सूचितम् ॥ १० ॥
प्रभाविलासः - १०
क्षरतीति । क्षरति; प्रवहति । शुण्डा; हस्तः । चुलकिता; आचूष्य विसृष्टा । अनेन शैत्योक्तिः । आपादितलया; सम्पादितमान्द्या । अनेन मान्योक्तिः । स्मरस्मेरोत्कण्ठया मदनोद्रेकजनितोत्साहेन विहरन्ती- नाममरीणां लोलकबरीषु जरीजृम्भतीनां विकसमानानां मालानां स्रजां मधुलवान् हरतीति तथोक्ता । तेन सौरभ्योक्तिः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
तर्कः—- - (स्वगतम्) रत्नसानुरामणीयकलग्नचित्तं महाराजं प्रक्रान्तकार्ये सन्त्वरयामि21 । ( प्रकाशम्) देव, किमसौ केसराय- माणकेसरशैलपरिवृतकाञ्चनशिखरिकर्णिकास्थितेन भवता सर्वतः समीक्षितः क्षितिपद्मः ?
विवेकः— सत्पथवर्तिना22 भवता प्रदर्शितः समीक्षित एव सामस्त्येन23 । प्रस्तुतानुगुण्याय तु प्रतीकशो24 विवेक्तव्यः । अथवा,
द्विसप्तभुवनात्मक दुहिणगह्वरप्रेक्षणे
क्षितिस्तु परिशिष्यते तदिह सर्वधर्मास्पदे ।
त्रिवर्गपुटभेदनत्रिदशयोग्यवर्षत्यजं25
प्रवर्तय रथोत्तमं सपदि भारतैकोन्मुखम् ॥ ११ ॥
मूलम् - ११
तर्कः—- - (स्वगतम्) रत्नसानुरामणीयकलग्नचित्तं महाराजं प्रक्रान्तकार्ये सन्त्वरयामि21 । ( प्रकाशम्) देव, किमसौ केसराय- माणकेसरशैलपरिवृतकाञ्चनशिखरिकर्णिकास्थितेन भवता सर्वतः समीक्षितः क्षितिपद्मः ?
विवेकः— सत्पथवर्तिना22 भवता प्रदर्शितः समीक्षित एव सामस्त्येन23 । प्रस्तुतानुगुण्याय तु प्रतीकशो24 विवेक्तव्यः । अथवा,
द्विसप्तभुवनात्मक दुहिणगह्वरप्रेक्षणे
क्षितिस्तु परिशिष्यते तदिह सर्वधर्मास्पदे ।
त्रिवर्गपुटभेदनत्रिदशयोग्यवर्षत्यजं25
प्रवर्तय रथोत्तमं सपदि भारतैकोन्मुखम् ॥ ११ ॥
प्रभावली - ११
X५४१
विवेकोऽयं मेरुशोभासक्तचित्तो भवति । तमेनं प्रकृतकार्ये योजयामीत्याह - रत्नेति । रामणीयकम् रमणीयत्वम् । प्रक्रान्तकार्ये; प्रकृतव्यापारे । काञ्चनशिखर्येव भूपद्मकर्णिका, तत्र स्थितेन भवता असौ क्षिति पद्मः समीक्षितः किमित्यन्वयः । सत्पथवर्तिना ; सत्वे स्थितेन । साकल्येन ; सामान्येनेत्यर्थः । प्रस्तुतम् ; समाधिक्षेत्र निर्धारणम् । प्रतीकशः ; अवयवशः । विवेक्तव्यः ; विवेचनीयः । द्विसप्तभुवनानि ; चतुर्दश लोकाः ; तदात्मकं यत् द्रुहिणगह्वरं ब्रह्माण्डं, तत्प्रेक्षणे शोधने विषये । सर्वधर्मानुष्ठानयोग्ये इह ;
X५४२
क्षितौ । निर्धारणे सप्तमी । त्रिवर्ग एव पुटभेदनं पत्तनं वासभूमिर्येषां ते त्रिदशाः, तेषां योग्यानि यानि वर्षाणि इलावृतादीनि तानि त्यजतीति तत्त्यजं रथोत्तमं भारतोन्मुखं प्रवर्तय ॥ ११ ॥
प्रभाविलासः - ११
द्विसप्तेति । गह्वरपदेनाण्डोदरप्रदेशो लक्ष्यते । क्षितिः परिशिष्यत इति तदतिरिक्तलोकानां भोगभूमित्वमुक्तम् । तत्रापि भारतवर्षमेव परिशिष्ट- मित्याह – त्रिवर्गेति । त्रिवर्गस्य पुटभेदनानि स्थानानि त्रिदशयोग्यानि भोग-
1 साधनानि वर्षाणि किम्पुरुषादीनि त्यजतीति तथोक्तम् । आह च पराशरः -
" यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।
न तेषु शोको नायासो नोद्वेगः क्षुद्धयादिकम् ॥
स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ।
दश द्वादश वर्षाणां सहस्राणि स्थिरायुषः ॥ "
इति ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
तर्कः - यदाज्ञापयति देवः ।-
( इति वेगतो रथं प्रवर्तयति)
विवेकः अये, तिष्ठ तिष्ठ । यावदयमनङ्गविजयिनो भवानीपतेरावासः कलधौतगिरिरवलोक्यते26 ।
तर्कः - (रथवेगं स्थापयति)
विवेकः - ( परितो दत्तदृष्टिः परामृश्य )
विजितमनोभवेन विभुनाधिगतोऽपि सदा
निरुपधिसंयमस्य न पदं कलधौतगिरिः ।
गजमुख गण्डशैलघनदानकलिन्दसुता-
लहरिझलञ्झलाबहलकज्जलकम्बलितः27 ॥ १२ ॥
मूलम् - १२
तर्कः - यदाज्ञापयति देवः ।-
( इति वेगतो रथं प्रवर्तयति)
विवेकः अये, तिष्ठ तिष्ठ । यावदयमनङ्गविजयिनो भवानीपतेरावासः कलधौतगिरिरवलोक्यते26 ।
तर्कः - (रथवेगं स्थापयति)
विवेकः - ( परितो दत्तदृष्टिः परामृश्य )
विजितमनोभवेन विभुनाधिगतोऽपि सदा
निरुपधिसंयमस्य न पदं कलधौतगिरिः ।
गजमुख गण्डशैलघनदानकलिन्दसुता-
लहरिझलञ्झलाबहलकज्जलकम्बलितः27 ॥ १२ ॥
प्रभावली - १२
कलधौतगिरिः; रजतगिरिः, कैलासः । कैलासोऽपि संयमस्थानं न
.
.X५४३
भवतीत्याह - विजितमनोभवेनेति । रुद्रो यद्यपि विजितकामः ; तेन सदाधिष्ठितोऽपि कलधौतगिरिः संयमनस्य समाधेः स्थानं न भवति । तत्र हेतुमाह- गजमुखेति । गजमुखस्य विनायकस्य गण्ड एव शैलः, तस्य यत् घनदानं सान्द्रमदजलं, तदेव कलिन्दसुता यमुना, तस्या लहरय एव झलञ्झलाबहल- कज्जलं, झलञ्झलाशब्देन विशिष्टं बहलं कज्जलम् अञ्जनं तेन कम्बलितः कम्बलैरावृत इव लक्ष्यते । कश्मलित इति पाठान्तरम् । तदा सञ्जातकश्मल इत्यर्थः ॥ १२ ॥
प्रभाविलासः - १२
विजितेति । विभुना ; शिवेन । कम्बलितः सञ्जातकम्बलः । अनेन शैवभूयिष्ठता गम्यते ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
तर्कः —- ( अग्रतो रथं प्रवर्त्य ) पश्य देव, गन्धर्वयूथसेवितं28 गन्धमादनम् ।
विवेकः —- ( सकौतुकं29 दृष्टा )
एतं गिरिवरं सूत मन्ये विश्वमनोहरम् ।
आगामि स्वर्गसृष्टीनामादिकन्दमिव स्थितम् ॥ १३ ॥
मूलम् - १३
तर्कः —- ( अग्रतो रथं प्रवर्त्य ) पश्य देव, गन्धर्वयूथसेवितं28 गन्धमादनम् ।
विवेकः —- ( सकौतुकं29 दृष्टा )
एतं गिरिवरं सूत मन्ये विश्वमनोहरम् ।
आगामि स्वर्गसृष्टीनामादिकन्दमिव स्थितम् ॥ १३ ॥
प्रभावली - १३
आदिकन्दं ; मूलभूतं कन्दम् ॥ १३ ॥
प्रभाविलासः - १३
एतमिति । कन्दम् ; कन्दलम् ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
अयमपि खलु30 सिद्धैरासेव्यो’31 न साधकानामावासः । अपि च,
सहचरभव्यदिव्यशबरीकबरीविकस-
न्मदनमहेषुजालमधुसौरभसारभृतः ।
इह मरुतो वहन्ति मददन्तुरदन्तिघटा-
करटकटाहवाहिघनशीकरशीभरिताः ॥ १४ ॥
मूलम् - १४
अयमपि खलु30 सिद्धैरासेव्यो’31 न साधकानामावासः । अपि च,
सहचरभव्यदिव्यशबरीकबरीविकस-
न्मदनमहेषुजालमधुसौरभसारभृतः ।
इह मरुतो वहन्ति मददन्तुरदन्तिघटा-
करटकटाहवाहिघनशीकरशीभरिताः ॥ १४ ॥
प्रभावली - १४
सिद्धेः ; सिद्धयोगैः । सहचरेति । सहचराणां भर्तॄणां भव्या अनुकूलाः
X५४४
याः दिव्याः शबर्यः शबरस्त्रियः, तासां कबरीषु ये मदनमहेषवः पुष्पाणि, तेषां जालस्य यन्मधु, तस्य यः सौरभसारः परिमलातिशयः, तद्भृतः । मदेन विषमिता या दन्तिघटा, तस्याः करटाः गण्डस्थलानि, तान्येव कटाहाः, तेभ्यो वहन्तीति वाहिनः, ते च ते घनशीकराश्च,
घनशीकराश्च तैः शीभरिताः सञ्जात शीभराः ; सञ्जातजलबिन्दव इत्यर्थः । मरुतः ; वायवः । इह ; गन्धमादने । वहन्ति ; वान्तीत्यर्थः ॥ १४ ॥
प्रभाविलासः - १४
सहचरेति । सहचरैः भव्यानां दिव्यशबरीणां कबरीषु विकसतां
मदनेषूणां कुसुमानां जालेषु मधुनो मकरन्दस्य सौरभसारं बिभ्रतीति तथोक्ताः । मदनेन दन्तुराणां दन्तिघटानां गजसमूहानां करटाः गण्डाः, त एव कटाहाः कर्पराणि तेषु वाहिभिः प्रवहद्भिः शीकरैः शीभरिताः सिक्ताः ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
तर्कः – इतस्तर्हि दिव्ये तपोवने दीयतां दृष्टिर्देवेन ।
विवेकः - ( दूरतः पश्यन् )
स्वकल्पितरघूद्वहप्रथनकेलिगाथाशत-
प्रयुक्तिपथशिक्षणप्रवणसिद्धवृन्दान्वितः32 ।
क इत्थमुपसर्पति स्थिरकठोरवीरव्रणः
कपिः कदलिकावनं कनकशैलशृङ्गाकृतिः ॥ १५ ॥
मूलम् - १५
तर्कः – इतस्तर्हि दिव्ये तपोवने दीयतां दृष्टिर्देवेन ।
विवेकः - ( दूरतः पश्यन् )
स्वकल्पितरघूद्वहप्रथनकेलिगाथाशत-
प्रयुक्तिपथशिक्षणप्रवणसिद्धवृन्दान्वितः32 ।
क इत्थमुपसर्पति स्थिरकठोरवीरव्रणः
कपिः कदलिकावनं कनकशैलशृङ्गाकृतिः ॥ १५ ॥
प्रभावली - १५
तर्हि ; गन्धमादनादीनामसेव्यत्वपक्षे । इतः ; अत्र दिव्ये तपोवने ।
X५४५
स्वकल्पितेति । स्वशब्दो हनुमत्परः । स्वेन कल्पिताः रघूद्वहार्थं कृताः प्रथनकेलयः युद्धलीलाः, तद्विषयगाथाशतस्य श्लोकशतस्य प्रयुक्तिपथशिक्षणे योगमार्गाभ्यासे प्रवणानि तत्पराणि यानि सिद्धबृन्दानि, तैर्वृतः । स्थिराणि कठिनानि वीरव्रणानि अस्त्रताडनाङ्काः यस्य सः । कनकशैलः मेरुः, तच्छृङ्गस्याकृतिरिवाकृतिर्यस्य ; पिङ्गलवर्ण इत्यर्थः । को वा कपिः कदलिकावनमित्थमुपसर्पति ; स एष कपिः क इति पृच्छति ॥ १५ ॥
प्रभाविलासः - १५
स्वकल्पितेति ; हनूमद्रामायणमुच्यते । सिद्धबृन्दान्त्रित इति ; अनेन
" तदिहाप्सरसस्तात गन्धर्वाश्च तदानघ ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥”
इत्यारण्यपर्वणि हनूमद्वचनं स्मारितम् । कदलिकावनमिति । अनेन
" कदलीषण्डमध्यस्थमण्डपे सशिलातले ।
ददर्श स महाबाहुर्वानराधिपतिं स्थितम् ॥ "
इति स्मारितम् । कनकशैलेति; अनेन
“ रक्तोष्ठं ताम्रजिह्वास्यं रक्तवर्णे चलद्भुजम् ।
बृहन्तं वृत्तदंष्ट्राग्रं रश्मिमन्तमिवाचलम् ॥”
इति स्मारितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
तर्कः - अवधारयतु देवः ।
परिणतफलग्रासश्रद्धाजिघृक्षितभास्करः
पवनगरुडस्पर्धादानप्रवीणजवोल्वणः ।
दशमुखपुरीदाहोत्सिक्तखवालधिवैभवो
रघुपतिरणारम्भक्रीडारथोऽयमुपस्थितः ॥ १६ ॥
मूलम् - १६
तर्कः - अवधारयतु देवः ।
परिणतफलग्रासश्रद्धाजिघृक्षितभास्करः
पवनगरुडस्पर्धादानप्रवीणजवोल्वणः ।
दशमुखपुरीदाहोत्सिक्तखवालधिवैभवो
रघुपतिरणारम्भक्रीडारथोऽयमुपस्थितः ॥ १६ ॥
प्रभावली - १६
तस्योत्तरं तर्क आह— अवधारयत्विति । अवधारयतु; शृणोतु ।
X५४६
हनुमानुपस्थित इत्याह- परिणतेति । कीदृशः ? पक्वफलभक्षणाकाङ्क्षया ग्रहीतुमभिलषितो भास्करो येन । पवनगरुडयोः परस्परस्पर्धादाने ; अहमस्य वेगमनुसरामीति यो विरोधः, तद्दाने प्रवीणो यो जवः तेनोल्बणः प्रव्यक्तः, प्रसिद्ध इत्यर्थः । लङ्काया दाहे दाहेन वा उत्सिक्तं गर्वितं वालधिः पुच्छं, तस्य वैभवं यस्य सः । रघुपतेः रणारम्भे क्रीडारथः ; मातलिरथागमनात्पूर्वे रामस्य हनुमानेव लीलारथः ॥ १६ ॥
प्रभाविलासः - १६
परिणतेति । जिघृक्षितभास्करः; जिघृक्षितः ग्रहीतुमिष्टः भास्करो
येन सः । तदुक्तम् —
“बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्के पुप्लुवे घनमध्यगः ॥”
इति । पवनेतिः अनेन
" न हि तं परिपश्यामि यस्तरेत महार्णवम् ।
अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥”
इति स्मारितम् । क्रीडारथ इति ; अत्र
" हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः ।
वैहायसौ युवामेतौ वानरौ तारयिष्यतः ॥
इति सुग्रीवोक्तिरभिप्रेता ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
विवेकः - ( सादरचमत्कारमवलोकयन् ) अयमिह श्रोतृजनकर्णामृतायमानं वर्णनातिशायिवैभवं33 किमपि गायति-
‘भगवति भरद्वाजे भुक्तिस्तथा शबरीगृहे
प्रभुरनुसृतो विश्वामित्रः प्लवङ्गपतिस्तथा34 ।
भृगुपतितपो लूनं दृष्टिः खगस्य च दक्षिणा
जयति ललितोत्तुङ्गा वृत्तिर्दशास्यरिपोरिति ’ ॥ १७ ॥
मूलम् - १७
विवेकः - ( सादरचमत्कारमवलोकयन् ) अयमिह श्रोतृजनकर्णामृतायमानं वर्णनातिशायिवैभवं33 किमपि गायति-
‘भगवति भरद्वाजे भुक्तिस्तथा शबरीगृहे
प्रभुरनुसृतो विश्वामित्रः प्लवङ्गपतिस्तथा34 ।
भृगुपतितपो लूनं दृष्टिः खगस्य च दक्षिणा
जयति ललितोत्तुङ्गा वृत्तिर्दशास्यरिपोरिति ’ ॥ १७ ॥
प्रभावली - १७
चमत्कारः; विस्मयः । अयमित्यादि । अयम् ; हनुमान् वर्णयितुम-
X५४७
1
शक्यवैभवं किमपि गीतं गायति । तदेव दर्शयति-भगवतीति । दशास्यरिपोः भगवति भरद्वाजे भुक्तिः भोजनम् । तथा शबरीगृहे मुक्तिः । विश्वामित्रश्च प्रभुर्भवन् येनानुसृतः प्रभुत्वेनानुसृतः । प्लवगपतिश्च तथा; प्रभुत्वेन येनानुसृतः । आभ्यामस्य सौम्यरूपं ललितत्वं व्यञ्जितम्। भृगुपतेः परशु- रामस्य तपः येन लूनं छिन्नम् । खगस्य काकस्य दृष्टिः दक्षिणा लूना । अनेन परत्वरूपोत्तुङ्गता दर्शिता । एवं दशास्यरिपोः दलितोत्तुङ्गा वृत्तिर्जयति लोके । इति गायतीति सम्बन्धः । प्रभुशब्दो विश्वामित्रसुत्रीवयोर्विशेषणम् ।अनुसृत इति कर्मणि क्तः । वृत्तिस्तु भक्त्यनुसृतिलवनरूपा ॥ १७ ॥
प्रभाविलासः - १७
भगवतीति;
" उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ "
इत्युक्तलक्षणे । भरद्वाजे ; तदाश्रम इत्यर्थः । शबरीति जातिप्रयुक्तदोष- वत्त्वमुक्तम् । गृह इति देशप्रयुक्ताशुचित्वम् । तथा; अविशङ्कयेत्यर्थः अनन्न सौहार्दकाष्ठा दर्शिता,
• कथितानि रहस्यानि गृहे भुक्तमशङ्कितम् ।
दर्शितानि कलत्राणि सौहार्द किमतः परम् ॥ "
इत्युक्तत्वात् । प्रभुरिति रक्षोनिवारणे स्वयं सामर्थ्यमुक्तम् । विश्वामित्र इति; लोककण्टकराक्षसनिरासे स्वयं प्रवृत्ततया विश्वमित्रभूत इत्यर्थः । पुत्रगपतिरिति सख्यकरणानन्तरं शक्तिपरीक्षादिना प्रसिद्धश्चपलाग्रणी- अनेन सौलम्यसौशील्यकाष्ठा दर्शिता ।
रित्यर्थः । तथा अनुसृतः ;
भृगुपतीति ; अभिजनपरिशुद्धिः, तस्य शुद्धिकरत्वं च । तप इति यद्बले- नान्येषां लूनता, तदपि लूनमित्यर्थः । क्रव्यादत्वरत्वयञ्जनार्थ खग- स्येति । अनेन समत्वमुक्तम् । दशास्यरिपोरिति शौर्यकाष्ठा । अनेन प्रकारण ललिता उत्तुङ्गा च वृतिः ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
परिणमति जनानां संविदानन्दरूपा
निखिलमपि विहाय स्निह्यतीवात्तरागम् ।
स्वरपरिणतिचित्रां मूर्छनां भूषयद्भिः
श्रुतिसुरभिततन्त्रीझङ्कृतैः स्वैरगीतैः ॥ १८ ॥
मूलम् - १८
परिणमति जनानां संविदानन्दरूपा
निखिलमपि विहाय स्निह्यतीवात्तरागम्’ ।
स्वरपरिणतिचित्रां मूर्छनां भूषयद्भिः
श्रुतिसुरभिततन्त्रीझङ्कृतैः स्वैरगीतैः ॥ १८ ॥
प्रभावली - १८
X५४८
आश्रमपतेर्विजिताक्षत्वेऽपि आश्रमस्य सत्वोत्तरत्वेऽपि नेदं समाधिक्षेत्रमित्याह - विजितेति । विजितेन्द्रियतया विख्यातस्यापि । जोघुष्यमाणा वेणुमृदङ्गा येषां तैः । लास्यं ललितनृत्तं, ताण्डवमुद्धतनृत्तं, तदुभयमङ्गीकृतं यैः । अनुपमो यो गान्धारग्रामः, तद्गीतरसिकैः । दम्पतिशब्दस्य द्व्यर्थवाचित्वेन द्विवचनयोग्यत्वेऽपि समुदायस्यैकत्वमङ्गीकृत्य दम्पतिशब्दात् प्रातिपादिकात्सुबुत्पत्तिः । तथाच बहुभिर्दम्पतिभिरित्यर्थः । न श्रद्दधे ; न विश्वसिमि । गीतास्वादा-
X५४९
नन्दपरवशतयात्र जन्तवः सजीवचित्राणीव वर्तन्त इत्याह- पश्यामि चेति । सर्वतः समाकृष्टं च तत् अवस्थितं च ; अपूर्वम् ; इतः पूर्वमदृष्टम् । चित्रवदवस्थाने हेतुमाह - परिणमतीति । स्वराः ; निषादऋषभादयः, तेषां परिणतिः
X५५०
विनिमयः, तेन चित्रां मूर्छनां स्वराणामारोहावरोहणे, तां भूषयद्भिः श्रुतिभिः स्वरारम्भकशब्दविशेषैः सुरभितानि अलङ्कृतानि शब्दविशेषा येषां तैः । स्वैरगीतैः ; यथेष्टगानैः । अत्र स्थितानां जन्तूनां संवित् आनन्दरूपा परिणमति । सा च निखिलव्यापारान्तरं विहाय आत्तरागं यथा तथा स्निह्यति ; तत्रैव सक्ता भवति ॥ १८ ॥
प्रभाविलासः - १८
लास्यम् ; सौम्यनृत्तम् । तदुक्तम्–
" तण्डूक्तमुद्धतं प्रायः प्रयोगं ताण्डवं विदुः ।
लास्यं तु सुकुमाराङ्गं मकरध्वजवर्धनम् ॥ "
इति । गान्धारग्रामः ; गान्धारस्वरसमूहः । " ग्रामः स्वरसमूहः स्यान्मूर्छनादेः समाश्रयः " इति लक्षणात् । स्वर्गिणां गान्धारग्रामस्यातिप्रियतयातदुपादानम् । तदुक्तम्-
" षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः ।
न तु गान्धारनामानं स लभ्यो देवयोनिषु ॥
गान्धारग्राममाचष्टे तथा तं नारदो मुनिः ।
प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतले ॥ "
इति । गन्धर्वपतिभिरिति ; हनूमतो गान्धर्वशास्त्रप्रवर्तकतया ततः शिक्षार्थं तेषामत्रावस्थितिरुक्ता । यथोक्तम्-
“वायुर्विश्वावसू रम्भार्जुनौ नारदतुम्बुरु ।
आञ्जनेयो मातृगुप्तो रावणो नन्दिकेश्वरः ॥”’
इति । परिणमतीति । आत्तरागम् ; मन इति शेषः । स्वरो नाम श्रुत्यनन्तरं श्रोतृचित्तरञ्जकानुरणनात्मको ध्वनिः । तदुक्तम्-
“श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः ।
स्वरो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥ "
इति । श्रुतिलक्षणं च —
“प्रथम श्रवणाच्छन्दः श्रूयते ह्रस्वमात्रकः ।
श्रुतिः सा सम्परिज्ञेया स्वरावयवलक्षणा ॥”
इति । झङ्कृतानि ; अनुकारशब्दाः । स्वैरम् ; मन्दम् । " मन्दस्वच्छन्दयोः स्वैरम्” इत्यमरः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
(विमृश्य) ‘विजिताक्षतया35 36 विज्ञातस्याप्यमुष्यानवरत जोघुष्यमाणदुन्दुभिवीणावेणुमृदङ्गैः, अङ्गीकृतलास्यताण्डवैः, अनुपमगान्धारग्रामगीतरसिकैः, गन्धर्वदम्पतिभिरावृतस्य37 सत्त्वोत्तरेऽपि38 तपोवने संयमसिद्धिम्म् न श्रद्दधे । पश्यामि च परितः सरसगीता स्वादसमाकृष्टावस्थितमपूर्वं सजीवं चित्रम् । इह च,
अशक्यश्च सन्निधौ परित्यागः संयमारम्भविरोधिनां विषयाणाम् ।-
अहत्वा विक्रीणन्निह मदनहस्ते त्रिभुवनं
वरस्त्रीमञ्जीरध्वनिरपि किमालोकितमुखैः ।
यदृच्छासम्पन्नो यमिनमनघं मुक्तमपि वा
विकर्तुं पर्याप्तो विजितकलहंसी कलरवः ॥ १९ ॥
मूलम् - १९
(विमृश्य) ‘विजिताक्षतया35 36 विज्ञातस्याप्यमुष्यानवरत जोघुष्यमाणदुन्दुभिवीणावेणुमृदङ्गैः, अङ्गीकृतलास्यताण्डवैः, अनुपमगान्धारग्रामगीतरसिकैः, गन्धर्वदम्पतिभिरावृतस्य37 सत्त्वोत्तरेऽपि38 तपोवने संयमसिद्धिम्म् न श्रद्दधे । पश्यामि च परितः सरसगीता स्वादसमाकृष्टावस्थितमपूर्वं सजीवं चित्रम् । इह च,
अशक्यश्च सन्निधौ परित्यागः संयमारम्भविरोधिनां विषयाणाम् ।-
अहत्वा विक्रीणन्निह मदनहस्ते त्रिभुवनं
वरस्त्रीमञ्जीरध्वनिरपि किमालोकितमुखैः ।
यदृच्छासम्पन्नो यमिनमनघं मुक्तमपि वा
विकर्तुं पर्याप्तो विजितकलहंसी कलरवः ॥ १९ ॥
प्रभावली - १९
ननु भवतु स्वैरगीतम् ; तद्विहाय समाधिः कर्तव्य इत्यत्राह - अशक्य- श्चेति । सन्निधौ तत्परित्यागस्त्वशक्यः । इममेवार्थमुपपादयति - अहत्वेति । इह ; जगति । त्रिभुवनम् ; सर्वं जनमित्यर्थः । अहत्वा ; हननमकुर्वन्; सजीवमेव । कामहस्ते विक्रयं कुर्वन् समर्पयन्नित्यर्थः । वरस्त्रीमञ्जीरध्वनेरहत्वा विक्रयणे हेतुमाह - विजितेति । विजितः कलहंस्याः कलरवो येन सः ; यदृच्छया सम्पन्नः श्रुतः । अनघम्; परमविरक्तं मुनिमपि । मुक्तमपि वा ; मुक्तं चापीति भावः । विकर्तु विकारं प्रापयितुं समर्थः । किमालोकितमुखैः ; आलोकितमालोकनम् । मुखशब्देन सम्भाषणादीनि गृह्यन्ते । तैः किम् ; तानि तिष्ठन्त्वित्यर्थः ॥ १९ ॥
प्रभाविलासः - १९
अहत्वेति । अहत्वा ; सजीवम् । विक्रीणन्निति ; मञ्जीररवस्य मृगयुसाम्यं व्यङ्ग्यम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
अपि च,
कठिननियमोsपि पुरुषः सहसा नवनीतकुम्भवद्भवति ।
वरयुवतिवह्निकुण्डे सन्निहिते सपदि लीयमानमतिः ॥ २० ॥
मूलम् - २०
अपि च,
कठिननियमोsपि पुरुषः सहसा नवनीतकुम्भवद्भवति ।
वरयुवतिवह्निकुण्डे सन्निहिते सपदि लीयमानमतिः ॥ २० ॥
प्रभावली - २०
X५५१
इममेवार्थे निदर्शनान्तरेण द्रढयति—कठिनेति । कठिनो दृढः नियमो यस्य । अन्यत्र कठिने काठिन्ये नियमः स्वभावनियमः यस्य । वरयुवत्याख्यवह्निकुण्डे यदृच्छया सन्निहिते सति सपदि तत्क्षण एवं सहसा अतर्कितं लीयमानमतिः सन् नष्टप्रज्ञः सन् नवनीतकुम्भवत् विलीनो मृतो भवति ॥ २०॥
प्रभाविलासः - २०
कठिनेति । लीयमानमतिः; द्रवीभूतमतिः । अत्र
" अङ्गारसदृशी नारी घृतकुम्भसमो नरः । तस्मान्नारीषु संसर्गं दूरतः परिवर्जयेत् ॥”
इति वचनमनुसन्धेयम् ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
तर्कः- अस्त्वेवम् । तथापि सर्वधातुरत्नचित्रितं सर्वौषधिसम्भवस्थानं सर्वोर्वीधरसमधिकमहिमवन्तं हिमवन्तमवलोकयतु देवः ।
एष मैनाकजनको धरणीधेनुतर्णकः ।
त्रिदशाचलजामाता त्र्यम्बकश्वशुरो गिरिः ॥ २१ ॥
मूलम् - २१
तर्कः- अस्त्वेवम् । तथापि सर्वधातुरत्नचित्रितं सर्वौषधिसम्भवस्थानं सर्वोर्वीधरसमधिकमहिमवन्तं हिमवन्तमवलोकयतु देवः ।
एष मैनाकजनको धरणीधेनुतर्णकः ।
त्रिदशाचलजामाता त्र्यम्बकश्वशुरो गिरिः ॥ २१ ॥
प्रभावली - २१
अथ हिमवन्तं पश्येत्याह - सर्वधात्विति । सर्वैर्धातुभिः रतैश्व चित्रम् । ओषधयः ; विशल्यकरण्यादयः । सर्वोर्वीधरेभ्यः समधिकमहिमवन्तम् । एष इति । गिरिः हिमवान्, मैनकपर्वतस्य जनकः । धरण्याख्यधेनोः तर्णकः सद्योजातवत्सः । धरणीधेनुदोहे हिमवन्तं वत्सीकृत्यादुहन्निति पौराणिकी कथा । त्रिदशाचलस्य मेरोः जामाता । त्र्यम्बकस्य श्वशुरश्च भवति ॥ २१ ॥
प्रभाविलासः - २१
एष इति । तर्णकः ; वत्सः । त्रिदशाचलः ; मेरुः । पर्यायोक्तिरलङ्कारः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
विवेकः - ( सर्वतो दृष्टिं प्रसार्य ) इयमिह भगवती भागीरथी । अत्र च,
वाहिन्यः कति सन्ति वन्यमहिषश्रेणीविषाणाहति-
क्षुभ्यद्दुर्दमकर्दमाङ्कपयसस्तत्सम्मितिं क्षाम्यति39 ।
वारिक्रीडितवल्गिताङ्गवलभिच्छुद्धान्तसीमन्तिनी-
वक्षोजक्षरदङ्गरागसुभगोत्सङ्गा40 न गङ्गापगा ॥ २२ ॥
मूलम् - २२
विवेकः - ( सर्वतो दृष्टिं प्रसार्य ) इयमिह भगवती भागीरथी । अत्र च,
वाहिन्यः कति सन्ति वन्यमहिषश्रेणीविषाणाहति-
क्षुभ्यद्दुर्दमकर्दमाङ्कपयसस्तत्सम्मितिं क्षाम्यति39 ।
वारिक्रीडितवल्गिताङ्गवलभिच्छुद्धान्तसीमन्तिनी-
वक्षोजक्षरदङ्गरागसुभगोत्सङ्गा40 न गङ्गापगा ॥ २२ ॥
प्रभावली - २२
X५५२
अत्र गङ्गा प्रवहतीत्याह - इयमिति । तां वर्णयति–वाहिन्य इति । वारिक्रीडितम् ; जलक्रीडा, तेन नर्तिताङ्गयः वलभिदः इन्द्रस्य शुद्धान्तसीमन्तिन्यः अन्तःपुरस्त्रियः, तासां वक्षोजेभ्यः क्षरद्भिरङ्गरागैः सुभगोत्सङ्गा गङ्गा । वन्यमहिषश्रेण्यः ; वन्यमहिषपङ्क्तयः, तासां विषाणैः आहत्या क्षुभ्यन्तः आविलाः दुर्दमाः अपनेतुमशक्याः कर्दमाः पङ्का येषां तानि पयांसि यासां ताः, वाहिन्यः क्षुद्रनद्यः लोके बह्वयः सन्तीत्यर्थः ; ताभिः सादृश्यं न सहत इत्यर्थः । सर्वोत्तरा गङ्गात्र प्रवहतीत्यर्थः ॥ २२ ॥
प्रभाविलासः - २२
वाहिन्य इति । वन्यमहिषश्रेणीनां विषाणाहत्या क्षुभ्यन् दुर्दमकर्दमः अङ्कः चिह्नं येषां तानि पयांसि यासां ताः, तथोक्ताः । वारिक्रीडितेन वल्गिताङ्गानां चलिताङ्गानां बलभिद इन्द्रस्य शुद्धान्तसीमन्तिनीनां वक्षोजेभ्यः क्षरता अङ्गरागेण सुभग उत्सङ्गो यस्याः सा, गङ्गापगा तत्सम्मितिम् उक्तवाहिनीसादृश्यं न क्षाम्यतीत्यन्वयः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
अयमिह विषयस्तपोधनानां न भवति संयमिनां निवासयोग्यः ।
हरिचरणनदीनिपातघोषैर्मुखरितकाननगह्वरो हिमाद्रिः ॥ २३ ॥
मूलम् - २३
अयमिह विषयस्तपोधनानां न भवति संयमिनां निवासयोग्यः ।
हरिचरणनदीनिपातघोषैर्मुखरितकाननगह्वरो हिमाद्रिः ॥ २३ ॥
प्रभावली - २३
अयमिति । अयं हिमाद्रिः संयमिनां निवासयोग्यो देशो न भवति ।
.
X५५३
कुतः ? हरिचरणनद्याः निपातघोषैः शब्दायमानवनगह्वरत्वादिति हेतुगर्भ विशेषणम् ॥ २३ ॥
प्रभाविलासः - २३
अयमिति । हरिचरणनदी ; भागीरथी ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
( ससम्भ्रमाद्भुतम् ) अये, कथमिहाचिन्तितोपस्थितं घ्राणस्पर्शनोन्मादनम् ? इह हि
उद्यानायातविद्याधर मिथुन रतिश्रान्त्यपक्रान्तिहेतु-
स्तिम्यद्गात्रस्तुषारैस्त्रिदशयुवतिनिःश्वासविश्वासभूमिः ।
नीहारत्विट्कलङ्क प्रतिवदनपदन्यस्तकस्तूरिकोद्य-
न्नेपालीगण्डपाली परिमलललितः स्पन्दते गन्धवाहः ॥ २४ ॥
मूलम् - २४
( ससम्भ्रमाद्भुतम् ) अये, कथमिहाचिन्तितोपस्थितं घ्राणस्पर्शनोन्मादनम् ? इह हि
उद्यानायातविद्याधर मिथुन रतिश्रान्त्यपक्रान्तिहेतु-
स्तिम्यद्गात्रस्तुषारैस्त्रिदशयुवतिनिःश्वासविश्वासभूमिः ।
नीहारत्विट्कलङ्क प्रतिवदनपदन्यस्तकस्तूरिकोद्य-
न्नेपालीगण्डपाली परिमलललितः स्पन्दते गन्धवाहः ॥ २४ ॥
प्रभावली - २४
हेत्वन्तरं चास्तीति वक्तुमुपक्रमते – ससम्भ्रमेति । हेत्वदर्शनात् सम्भ्रमः । तस्यातिशयनात् अद्भुतम् । अतर्कितोपस्थितं घ्राणस्पर्शनयोरुन्मादकरम् ; किमपीति शेषः । तत्स्फुटयति — इह हीत्यादिना । उद्यानायातस्य विद्याधर मिथुनस्य रतिश्रान्त्याः अपक्रान्तिहेतुः । तुषारैः आर्द्रगात्रः । नीहार त्विषः चन्द्रस्य यः कलङ्कः, तस्य प्रतिवदनपदे प्रत्याख्यानस्थाने न्यस्तया कस्तूरिकया उद्यन्तः नेपालीनां गण्डपालीषु परिमलाः, तैः ललितः गन्धवाहो वायुः, अत्र स्पन्दते मन्दं चलति ॥ २४ ॥
प्रभाविलासः - २४
उद्यानेति । तिम्यगात्रः ; सिक्तदेहः । निश्वास एवायमिति विश्वासस्य भूभिः । नीहारत्विट्कलङ्कस्य चन्द्रकलङ्कस्य प्रतिवदनपदे प्रतिनिधिस्थाने न्यस्तया कस्तूरिकया उद्यन्तीनां प्रकाशमानानां नेपालीनां नेपालदेश स्त्रीणां गण्डपालीपरिमलेन ललितः ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
अतस्त्वरितमार्यावर्ताय प्रवर्त्यतां रथः । यत्र च’,41
नवयौवनदुर्मदान्धनारीदुरितोपप्लवदूषितापि जातिः ।
अनपायपतिव्रताप्रवाहैरधुनापि प्रलयं न याति सत्सु ॥ २५ ॥
मूलम् - २५
अतस्त्वरितमार्यावर्ताय प्रवर्त्यतां रथः । यत्र च’,41
नवयौवनदुर्मदान्धनारीदुरितोपप्लवदूषितापि जातिः ।
अनपायपतिव्रताप्रवाहैरधुनापि प्रलयं न याति सत्सु ॥ २५ ॥
प्रभावली - २५
उक्तहेतुमनुवदन्नुत्तरत्र प्रेरयति - अत इति । " आर्यावर्तः पुण्यभूमि-
X५५४
मध्यं विन्ध्यहिमागयोः” इति हिमाचलविन्ध्ययोर्मध्यदेश आर्यावर्तः ।
" आनादाविह संसारे दुर्वारे मकरध्वजे ।
कुले च कामिनीमूले का जातिपरिकल्पना ॥
इति बाह्याः सत्स्वपि व्यभिचारिणीपुत्रत्वदूषणमुद्भावयन्ति ; तदनेन प्रत्युच्यते- नवेति । नवयौवनेन यो दुर्मदः, तेन अन्धानां नारीणां दुरितं व्यभिचाररूपं, स एवोपद्रवः, तेन दूषितापि जातिः ब्राह्मणत्वादिः अधुना कलियुगेऽपि व्यभिचाररूपापायरहितानां पतिव्रतानां परम्पराभिः सत्सु महत्सु केषुचित् नाशं न याति यत्र, तस्मै आर्यावर्तायेति योजना ॥ २५ ॥
प्रभाविलासः - २५
आर्यावर्तःः विन्ध्य हिमवतोरन्तरदेशः । नवयौवनेति । यद्यपि
" अनादाविह संसारे दुर्वारे मकरध्वजे ।
कुले च कामिनीमूले का जातिपरिकल्पना ॥
इत्युक्तरीत्या युवतीनां यौवनमदादिसामग्रीसम्भवेन सम्भावितव्यभिचार- कृतसाङ्कर्यवती ब्राह्मणत्वादिजातिः, तथाप्यत्र स्त्रीणां स्खालित्याभावात् न जात्युपप्लव इत्यर्थः ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
तर्कः - प्रविष्टमिदं विविधतीर्थ तपोवननिरन्तरं विन्ध्य हिमवतोरन्तरम् । अत्र च तीर्थयात्रा चरितार्थः सार्थवाहसार्थश्विर- तरोपोषितस्य चक्षुषः परां पारणां पूरयन्, अनवधिकधर्मलाभसन्तोषेण गन्धसिन्धुरस्कन्धमधिरूढ इवेतस्ततः प्रसर्पति । ( सर्वतोऽवलोक्य सविषादम् ) हन्त, निरङ्कुशकलिबलसङ्कुचितनिगमवर्त्मनि चास्मिन् देशे प्राच्योदीच्यपाश्चात्त्यपाषण्डिगणकरम्बिते भग्नचरणत्रये च
भगवति धर्मे प्रायशः परीक्ष्यमाणं42 न किञ्चित् स्थानमवशिष्यते । तथापि मुरभिदवतारमुषितकलुषोऽयं सन्दृश्यतां साकेतजनपदः-
अयोध्या दिव्येयं वहति सरयूरत्र विरजा
विभोरेते यूपा विधिनियमनिर्मुक्तपशवः43 ।
अकुण्ठस्वातन्त्र्यः स्वपदमधिरोहन्नवसरे
सहानैषीदत्र44 स्थिरचरमशेषं रघुपतिः ॥ २६ ॥
मूलम् - २६
तर्कः - प्रविष्टमिदं विविधतीर्थ तपोवननिरन्तरं विन्ध्य हिमवतोरन्तरम् । अत्र च तीर्थयात्रा चरितार्थः सार्थवाहसार्थश्विर- तरोपोषितस्य चक्षुषः परां पारणां पूरयन्, अनवधिकधर्मलाभसन्तोषेण गन्धसिन्धुरस्कन्धमधिरूढ इवेतस्ततः प्रसर्पति । ( सर्वतोऽवलोक्य सविषादम् ) हन्त, निरङ्कुशकलिबलसङ्कुचितनिगमवर्त्मनि चास्मिन् देशे प्राच्योदीच्यपाश्चात्त्यपाषण्डिगणकरम्बिते भग्नचरणत्रये च
भगवति धर्मे प्रायशः परीक्ष्यमाणं42 न किञ्चित् स्थानमवशिष्यते । तथापि मुरभिदवतारमुषितकलुषोऽयं सन्दृश्यतां साकेतजनपदः-
अयोध्या दिव्येयं वहति सरयूरत्र विरजा
विभोरेते यूपा विधिनियमनिर्मुक्तपशवः43 ।
अकुण्ठस्वातन्त्र्यः स्वपदमधिरोहन्नवसरे
सहानैषीदत्र44 स्थिरचरमशेषं रघुपतिः ॥ २६ ॥
प्रभावली - २६
तपोवनैः निरन्तरम् ; सान्द्रम् । सार्थवाहसार्थः ; तीर्थयात्रापरपान्थ- समूहः । निरर्गलं कलिबलं, तेन सङ्कुचितं निगमवर्त्म, वैदिकमार्गः । प्राग्देश- भवाः प्राच्याः । उदग्देशभवा उदीच्याः । पश्चादेशभवाः पाश्चात्त्याः । पाषण्ड़ि-
X५५५
गणैः शबलिते धर्मे भग्नचरणत्रये; चरणत्रयं तपोदानसत्यरूपम् । बहुशो विचार्यमाणं न किञ्चिदपि स्थानम् अवशिष्यते ; सर्वमपि दोषदुष्टमित्यर्थः । अवतारेण रामावतारेण । अयोध्याजनपदं परमपदत्वेन प्रशंसति — अयोध्येति । इयं परिदृश्यमाना पुरी दिव्या अयोध्या; “देवानां पूरयोध्या " इत्त्याद्युक्त- विभवा अयोध्या । अत्र या सरयू नदी, सा विरजैव भवति ; वैकुण्ठलोकगता विरजानद्येव । एते दृश्यमानाः विधिनियमेन बद्धाः पशवो येषु ते विभोः श्रीरामचन्द्रस्य यूपाः । स च रघुपतिः अवसरे अवसानकाले स्वं पदं वैकुण्ठम् अधिरोहर स्थिरचररूपमशेषं जन्तुजातं स्वेन सह अनैषीत् ; अत्रापि स्वपद मिति पदमनुषज्यते । अत एव अकुण्ठस्वातन्त्र्यः अप्रतिहतस्वातन्त्र्यः । हेतुगर्भमिदम् अप्रतिहतस्वातन्त्र्यादिति भावः ॥ २६ ॥
प्रभाविलासः - २६
करम्बिते ; मिश्रिते ।
चरणत्रयम् ; तपोदान सत्यरूपम् ।
अयोध्येति । इयम्; पुरोवर्तिनी पूः । दिव्या अयोध्या ; अप्राकृतवैकुण्ठ इत्यर्थः । विभोः; श्रीरामस्य । " अश्वमेधशतैरिष्टा” इत्यादिस्मरणात् ग्रूपा इत्युक्तिः । निर्मुक्तपशव इति ; “पर्यनिकृतानारण्यानुत्सृजन्त्य- हिंसाये” इति श्रत्यर्थोऽभिप्रेतः । अनधिकृतप्रापणे निमित्तमाह- अकुण्ठेति । अनैषीत् ; नीतवान् ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
विवेकः – ( सर्वतो दृष्टि प्रसार्य )
उपवनशुकबृन्दैरुद्गृणद्भिस्त्रिवेदीं
प्रतिकलमनुमेयप्राच्यधर्मानुबन्धम् ।
चिरगतजनघोषं तीरमेतत्सरय्वा
रघुकुलनृपतीनां शोभते रत्नयूपैः ॥ २७ ॥
मूलम् - २७
विवेकः – ( सर्वतो दृष्टि प्रसार्य )
उपवनशुकबृन्दैरुद्गृणद्भिस्त्रिवेदीं
प्रतिकलमनुमेयप्राच्यधर्मानुबन्धम् ।
चिरगतजनघोषं तीरमेतत्सरय्वा
रघुकुलनृपतीनां शोभते रत्नयूपैः ॥ २७ ॥
प्रभावली - २७
X५५६
उपवनेति । उद्गृणद्भिः ; उच्चरद्भिः । प्रतिक्षणमनुमेया ये प्राच्यधर्माः वैदिकधर्माः तेषाम् अनुबन्धः अनुष्ठानं यत्र । चिरादुपनतजनघोषमपि सरय्वा एतत्तीरं रत्नालङ्कृतैर्यूपैः शोभते ॥ २७ ॥
प्रभाविलासः - २७
उपवनेति । प्राच्यधर्मः पूर्वधर्मः । अत्रानुमानालङ्कारेण स्वतः सम्भवी अतिशयोक्त्यलङ्कारो व्यज्यते । अनुमानलक्षणं तु
" यल्लिङ्गाल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते " इति ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
(सहर्ष पुलकोद्गममनुस्मृत्य )
विषयिभिरसौ वक्त्रैर्घोरं मनोरजनीचरं
प्रशमयति यो युञ्जानानां प्रबोधशरोत्करैः ।
जनकसुतया देव्या जुष्टो दिशत्यभयं सतां
दशरथसुतो देवः श्रीमान्दयामृतवर्षुकः45 ॥ २८ ॥
मूलम् - २८
(सहर्ष पुलकोद्गममनुस्मृत्य )
विषयिभिरसौ वक्त्रैर्घोरं मनोरजनीचरं
प्रशमयति यो युञ्जानानां प्रबोधशरोत्करैः ।
जनकसुतया देव्या जुष्टो दिशत्यभयं सतां
दशरथसुतो देवः श्रीमान्दयामृतवर्षुकः45 ॥ २८ ॥
प्रभावली - २८
अनुस्मृत्य ; दिव्यचरितमिति शेषः । दिव्यचरितमेव दर्शयति - विषयिभिरिति । असौ रामः । युञ्जानानाम् ; योगमभ्यस्यताम् । विषयिभिः ; इन्द्रियैरेव वक्त्रैः उपलक्षितम् । मन एव रजनीचरो रावणः, तम् । प्रबोधाः
X५५७
ज्ञानविशेषा एव बाणसमूहाः, तैः युञ्जानगतैः प्रशमयति ; अद्यापि नाशयति । जुष्टः प्रीत्या सेवितः । सताम् अभयं ददाति ॥ २८ ॥
प्रभाविलासः - २८
विषयिभिरिति । विषयिभिः ; इन्द्रियैरेव वक्त्रैः । सहयोगे तृतीया । युञ्जानानाम् ; योगमभ्यस्यताम् ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
(सकौतुकमञ्जलिं बध्नन् )
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजन-
स्वयंरक्षादीक्षासमधिकसमिन्धानयशसे ।
सुराधीशस्वैरक्षणकुपितशापायुधवधू-
दृषत्तादुर्जातप्रशमनपदाम्भोजरजसे ॥ २९ ॥
मूलम् - २९
(सकौतुकमञ्जलिं बध्नन् )
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजन-
स्वयंरक्षादीक्षासमधिकसमिन्धानयशसे ।
सुराधीशस्वैरक्षणकुपितशापायुधवधू-
दृषत्तादुर्जातप्रशमनपदाम्भोजरजसे ॥ २९ ॥
प्रभावली - २९
कुतूहलान्नमस्यति–नम इति । निष्किञ्चनजनाः उपायान्तराशक्त्या तद्रहिताः, तेषां स्वयं रक्षा उपायान्तरस्थाने स्थित्वा रक्षणं, सैव दीक्षा, तया समधिकं यथा तथा दीप्यमानयशसे । सुराधीशस्य इन्द्रस्य स्वैरेण व्यभिचारेण क्षणमात्रं कुपितस्य शापायुधस्य गौतमस्य वधूः अहल्या; तस्याः दृषत्ता पाषाणभावः, तदेव दुर्जातं दुर्जन्म, तस्य प्रशमनानि पदाम्भोजयोः रजांसि यस्य तस्मै कस्मैचन पुरुषधौरेयाय नमः ॥ २९ ॥
प्रभाविलासः - २९
नम इति । कस्मैचनेति ; अतिदेवमानुषत्वमुक्तम् । निष्किञ्चन जनानां स्वयंरक्षादीक्षया समधिकं यथा तथा समिन्धानं यशो यस्य तस्मै । सुराधीशस्य इन्द्रस्य स्वैरक्षणे मर्यादातिक्रमक्षणे कुपितस्य शापायुधस्य गौतमस्य वध्वाः अहल्यायाः दृषत्ता उपलतैव दुर्जातं पापं, तस्य प्रशमनं निवर्तकं पदाम्भोजराजो यस्य तस्मै ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
(विचिन्त्य) ‘अये सूत,
अयम् अप्य् अद्य
पाषण्डि-मण्डल-प्रचार-खण्डित- कार्त-युग-धर्मो
निवृत्ति-धर्म-निष्ठैर् अनिष्ठुरबुद्धिभिः परित्यक्तो देशः ।
तर्कः— देव, प्रतिपद्यताम् इयं तर्हि प्रादुर्भाव-भूमिर् अपरा ।
विवेकः - ( मधुरां पश्यन् ) अत्र खल्ववतीर्णमवनिभरमपजिहीर्षता सपर्यङ्केन वासुदेवेन । ( सहर्षम् )
नाथायैव नमः पदं भवतु46 नश्चित्रैश्वरित्रक्रमै-
भूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियमणिस्फारस्फटावाटिका-47
रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्यायते ॥ ३० ॥
मूलम् - ३०
(विचिन्त्य) ‘अये सूत, अयमप्यद्य पाषण्डिमण्डलप्रचार- खण्डितकार्तयुगधर्मो निवृत्तिधर्मनिष्ठैरनिष्ठुरबुद्धिभिः परित्यक्तो देशः ।
तर्कः—देव, प्रतिपद्यतामियं तर्हि प्रादुर्भावभूमिरपरा ।
विवेकः - ( मधुरां पश्यन् ) अत्र खल्ववतीर्णमवनिभरमपजिहीर्षता सपर्यङ्केन वासुदेवेन । ( सहर्षम् )
नाथायैव नमः पदं भवतु46 नश्चित्रैश्वरित्रक्रमै-
भूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियमणिस्फारस्फटावाटिका-47
रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्यायते ॥ ३० ॥
प्रभावली - ३०
तादात्विक पाषण्डाभिभवं विचिन्त्यायमपि संयमस्थानं न भवतीत्याह- अयमपीति । अयमपि ; उक्तगुणवानपि । प्रचारेण खण्डितः कार्तयुगधर्मः
X५५८
निवृत्तिधर्मः येन सः । अनिष्ठुरबुद्धिभिः ; प्रशान्तबुद्धिभिः । प्रादुर्भावभूमिः ; मधुरा । सपर्यङ्केन; शेषसहितेन । तन्महिमावबोधाद्वर्षः । नाथायैवेति । नाथायैव ; नान्येभ्यः । नमः पदम् ; नमः शब्दः भवतु । नमः पदं वितनुम इति वा पाठान्तरम् । चरित्राणां पूतनाशकटादिभङ्गरूपाणां क्रमैः परम्पराभिः । भूयोभिः ; बहुतरैः । कुहनागोपाय ; कपटगोपालाय । गोपायते ; रक्षते ।
X५५९
अद्यापि शृण्वतां पापनिबर्हणादिद्वारेति भावः । कालियेत्यादि । कालियस्य सर्पस्य मणिभिः स्फाराः भूरि प्रकाशमानाः याः स्फटाः फणाः, तासां वाटिका पङ्क्तिः, सेव रङ्गस्थलं, तस्योत्सङ्गे विशङ्कचङ्क्रमधुरा निःशङ्कसञ्चरणधुरा, तत्र पर्यायेण चर्याः कमणानि[?] यते प्राप्नुवते ॥ ३० ॥
प्रभाविलासः - ३०
पर्यङ्कः; शेषः, बलराम इति यावत् । नाथायेति । नमः पदम् ; नम इत्युक्तिः । चित्रैः शैशव एव शकटपरिवर्तनाद्याश्चर्यकरैः । भूयोभिः ; बहुभिः । कुहनागोपाय ; कपटगोपाय । कालिन्दीर सिकाय ; यमुनायां रासक्रीडादिषु सरसाय । कालिन्द्याख्य दिव्यमहिषीवल्लभत्वं च व्यज्यते । कालियस्य सर्पस्य मणिभिः रत्नैः स्फाराणां प्रकाशमानानां स्फटानां फणानां वाटिका पङ्क्तिरेव रङ्गः नृत्तस्थलं, तस्योत्सङ्गे उपरितले विशङ्कं निःशङ्कं यथा तथा चङ्क्रमस्य नर्तनस्य धुरया भारेण अति- शयेनेति यावत् । पर्यायचर्याय; पर्यायचङ्क्रमगतिमते ।
" रङ्गं त्रपुणि रङ्गो ना रङ्गे नृत्तस्थलेऽपि च " इति रत्नमालायाम् ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
( सर्वतोऽवलोक्य सहर्षम् ) निरङ्कुशाः खल्वत्र भगवतः परिहसनवृत्तयः । स खलु,
हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन्विश्वगोप्ता ॥ ३१ ॥
मूलम् - ३१
( सर्वतोऽवलोक्य सहर्षम् ) निरङ्कुशाः खल्वत्र भगवतः परिहसनवृत्तयः । स खलु,
हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन्विश्वगोप्ता ॥ ३१ ॥
प्रभावली - ३१
परिहसनवृत्तिषु काश्रिदुदाहरति- हर्तुमिति । हैयङ्गवीनम; सद्योनवनीतम् दामग्रहणचटुलाम् उलूखले बन्धनाय दामग्रहणार्थमितस्ततःसञ्चरन्तीम् ॥ ३१ ॥
प्रभाविलासः - ३१
हर्तुमिति । हैयङ्गवीनम्; सद्योघृतम् । दामग्रहणे चटुलाम् ;त्वरमाणाय । मिथ्यागोपः; कैतवगोपालः । तात्कालिकी जातिरलङ्कारः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
अपि च,
वासो हृत्वा दिनकरसुधासन्निधो वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ ३२ ॥
मूलम् - ३२
अपि च,
वासो हृत्वा दिनकरसुधासन्निधो वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ ३२ ॥
प्रभावली - ३२
परिहासान्तरमाह वासो हृत्वेति । दिनकर सुतायाः; यमुनायाः ।
X५६०
सन्निधौ ; तीरे । अयमपि सव्रीडत्वे हेतुः, स्त्र्यन्तर सन्निधौ लज्जाया आधिक्यात् । वल्लवीनां गौपीनां वासो हृत्वा ललितां कुन्दशाखामास्थितः आरूढः, ताभिः गोपीभिः तदनु तदनन्तरं वसने अभ्यर्थ्यमाने सति करकमलयोः
X५६१
एकस्या एव उभयोर्हस्तयोः अब्जलिं याचमानः कश्चित् कामी लीलाकामुक इत्यर्थः । जयति ; सर्वोत्कर्षेण वर्तते ॥ ३२ ॥
प्रभाविलासः - ३२
वास इति । दिनकरसुतासन्निधाविति लोके साधारणजनसाक्षि-
त्वमपि जारकर्मणि विरुद्धम् । लोकसाक्षिसुतासाक्षित्वं किमुतेति व्यज्यते । सतीसमक्षं स्त्रीणामतिव्रीडाकरमिति च व्यज्यते । वल्लवीनामिति ; प्रायेणाटवीनिवासिभ्यस्तत्पतिभ्योऽपि न बिभेतीति व्यज्यते । लीलास्मेर इति ; अकुतोभयत्वं व्यज्यते, “रामो राजीवलोचनः” इतिवत् । कुन्दशाखामास्थित इति धृष्टनायकत्वं व्यज्यते । जयतीति लोके पारदार्येण शक्रादयोऽप्यतिनिकृष्टत्वं प्राप्ताः । तादृशकर्म स्मरणेऽप्यतिनिन्दितम् । अयं तु तेन कर्मणा सर्वोत्कृष्टो विराजत इति व्यज्यते । सव्रीडाभिरिति ; वासोहरणस्येर्ष्याराहित्येनाभिमतत्वं व्रीडामात्रपरिधानत्वं च व्यज्यते । अभ्यर्थ्यमान इति ; चिरकालमप्रदानं प्रतीयते । कामीति ; अनुचितकरणे सङ्कोचाभावः प्रतीयते । कश्चिदिति; निरतिशय कामुकत्वं लोककामुकवैलक्षण्यं च व्यज्यते । यथोक्तम्-1
“ स्मेरावलोकलवदर्शितभावहारिभ्रूमण्डलप्रहितसौरततन्त्र शौण्डैः
पत्न्यस्तु षोडशसहस्रमनङ्गबाणैरस्येन्द्रियं प्रमथितुं करणैर्न शेकुः ॥ " इति । करकमलयोरिति ; अङ्गानां स्पष्टप्रकाशनार्थमिति व्यज्यते । याचमान इति ;
" बद्धाञ्जलिं मूर्ध्न्युपनुत्तयेऽंहसः
कृत्वा नमो वो वसनं प्रगृह्यताम् ।”
इति वचनं स्मारितम् । लौकिककामुकवैलक्षण्यप्रतीतेर्व्यतिरेकालङ्कारध्वनिः,
भेदप्राधान्यसामान्यादुपमेयोपमानयोः ।
आधिक्याल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥
इति लक्षणात् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
हन्त सूत, मुरभिदुपभुक्तमुग्धगोपिकावृत्तान्तमुद्घाटयति सम्प्रति48 मधुरा ।
इमामधर्मेण विभाव्य सम्प्लुतामुदन्वता49 द्वारवतीमिवाधुना ।
न भावये संयम सम्पदास्पदं न कालतः कस्य गुणव्यतिक्रमः ॥ ३३ ॥
मूलम् - ३३
हन्त सूत, मुरभिदुपभुक्तमुग्धगोपिकावृत्तान्तमुद्घाटयति सम्प्रति48 मधुरा ।
इमामधर्मेण विभाव्य सम्प्लुतामुदन्वता49 द्वारवतीमिवाधुना ।
न भावये संयम सम्पदास्पदं न कालतः कस्य गुणव्यतिक्रमः ॥ ३३ ॥
प्रभावली - ३३
कृष्णोपभुक्तगोपिकावृत्तान्तमपि दर्शयति- इमामिति । इमां मधुराम् उदधिना द्वारवतीमिव अधुना अधर्मेण आक्रान्तां संयम सम्पदः योगसिद्धेः आस्पदं न भावये । तथा हि कस्य वा वस्तुनः काले गच्छति सति गुणहानिर्न स्यात् ? कालेन सर्व निर्गुणं भवतीति भावः ॥ ३३ ॥
प्रभाविलासः - ३३
इमामिति । अर्थान्तरन्यासोऽलङ्कारः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
तर्कः – (रथं प्राङ्मुखयित्वा ) देव, परमपुरुषप्रादुर्भाव- पवित्रीकृत क्षेत्रद्वयविप्लवे क्षेत्रान्तरेषु का प्रत्याशा ? तथापि स्वाभाविक सुदर्शन चिह्नभूषितशिलाकलापसूचितभगवदभिमानविशेषः प्रागुत्तरः प्रेक्ष्यतां50 देशः-
पुनरुपजनिभीतैः पुण्डरीकादिभिस्तै-
श्चिरपरिचितपूर्वं श्रीहरिक्षेत्रमेतत् ।
सकृदपि विमलेऽस्मिन्मज्जतश्चक्रतीर्थे
भवजलनिधिगर्तात्क्षिप्रमुन्मज्जनं स्यात् ॥ ३४ ॥
मूलम् - ३४
तर्कः – (रथं प्राङ्मुखयित्वा ) देव, परमपुरुषप्रादुर्भाव- पवित्रीकृत क्षेत्रद्वयविप्लवे क्षेत्रान्तरेषु का प्रत्याशा ? तथापि स्वाभाविक सुदर्शन चिह्नभूषितशिलाकलापसूचितभगवदभिमानविशेषः प्रागुत्तरः प्रेक्ष्यतां50 देशः-
पुनरुपजनिभीतैः पुण्डरीकादिभिस्तै-
श्चिरपरिचितपूर्वं श्रीहरिक्षेत्रमेतत् ।
सकृदपि विमलेऽस्मिन्मज्जतश्चक्रतीर्थे
भवजलनिधिगर्तात्क्षिप्रमुन्मज्जनं स्यात् ॥ ३४ ॥
प्रभावली - ३४
प्राङ्मुखयित्वा ; प्राङ्मुखं कृत्वा । क्षेत्रद्वयस्य अयोध्यामधुरयोः विप्लवे
X५६२
सति । देशः; सालग्राम शैलदेशः । क्षेत्रतीर्थयोर्वैभवं दर्शयति– पुनरिति । पुनरुपजनिः पुनर्भवः । तैः प्रसिद्वैर्मुनिभिः पूर्व चिरपरिचितम् । अस्मिन् विमलें चक्रतीर्थे सकृदपि मज्जतः पुंसः भवजलनिधेः गर्भात् एतद्देहावसाने उन्मज्जनं संसारान्मोक्षः स्यात् ॥ ३४ ॥
प्रभाविलासः - ३४
पुनरिति । उपजनिः; उत्पत्तिः । मज्जने सति उन्मज्जनमिति
विषमालङ्कारः,
“विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना वा स्याद्विषमालङ्कृतिस्त्रिधा ।”
इति लक्षणात् ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
विवेकः - ( दूरतःपश्यन् )
पुण्यतमोऽप्यसौ भूभागोनेदानीं मम चेतसे रोचते । यतः,
अयमुपहतः सालग्रामोपलान्तरवस्थित-
द्रविणकणिकालुब्धैर्देशो मलिम्लुचलुब्धकैः ।
बहुगुणपरब्रह्मप्रेक्षासुधाब्धिमनोरथै-51
र्मुहुरुपनतप्रत्यासेधैर्मुमुक्षुभिरुज्झितः ॥ ३५ ॥
मूलम् - ३५
विवेकः - ( दूरतःपश्यन् )
पुण्यतमोऽप्यसौ भूभागोनेदानीं मम चेतसे रोचते । यतः,
अयमुपहतः सालग्रामोपलान्तरवस्थित-
द्रविणकणिकालुब्धैर्देशो मलिम्लुचलुब्धकैः ।
बहुगुणपरब्रह्मप्रेक्षासुधाब्धिमनोरथै-51
र्मुहुरुपनतप्रत्यासेधैर्मुमुक्षुभिरुज्झितः ॥ ३५ ॥
प्रभावली - ३५
न रोचत इत्यत्र हेतुमाह - अयमिति । अयं देशः सालग्रामशिलान्तरंव-
X५६३
स्थितधनलेशलोलुपैः तस्करव्याधैः उपहृतः । हेतुगर्भमिदम्; उपहतत्वादित्यर्थः । बहुगुणं यत्परं ब्रह्म, तस्य प्रेक्षा साक्षात्कारः, स एव सुधाब्धिः, तत्र - सुधाप्तीति पाठान्तरम् ; तदा सुधाया आप्तौ प्राप्तौ – मनोरथो येषां तैः । योगमा - रम्य च मुहुः उपनतप्रत्यासेधैः ; मुहुः प्राप्तमनोरथविघ्नैः । उज्झितः ; व्यक्तः ॥ ३५ ॥
प्रभाविलासः - ३५
अयमिति । उपनतप्रत्यासेधैः ; प्राप्तविघ्नैः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
तर्कः - इदं तर्हि भागीरथीतरङ्गधौतपर्यन्तभागभावितनियमैः परमर्षिभिरुपसेवितं भवत्कटाक्षपात्रं भवतु वारानसीनामकनदीद्वयपरिगतोपकण्ठं52 वसुमतीललामभूतं वाराणसीक्षेत्रम् ।
विवेकः - (सबहुमानमवलोक्य)
लब्ध्यापि मूर्तिमधरीकृतपूर्वरूपां
रत्या समेत्य च रथाङ्गभृतः प्रसादात् ।
धर्मोपरोधमिह नेच्छति पुष्पधन्वा
त्रैयम्बकात्प्रचकितो53 नयनात्तृतीयात् ॥ ३६ ॥
मूलम् - ३६
तर्कः - इदं तर्हि भागीरथीतरङ्गधौतपर्यन्तभागभावितनियमैः परमर्षिभिरुपसेवितं भवत्कटाक्षपात्रं भवतु वारानसीनामकनदीद्वयपरिगतोपकण्ठं52 वसुमतीललामभूतं वाराणसीक्षेत्रम् ।
विवेकः - (सबहुमानमवलोक्य)
लब्ध्यापि मूर्तिमधरीकृतपूर्वरूपां
रत्या समेत्य च रथाङ्गभृतः प्रसादात् ।
धर्मोपरोधमिह नेच्छति पुष्पधन्वा
त्रैयम्बकात्प्रचकितो53 नयनात्तृतीयात् ॥ ३६ ॥
प्रभावली - ३६
तर्हि वाराणसीक्षेत्रं दृश्यतामित्याह — इदं तर्हीति । पर्यन्तभागेषु स्वीकृत- नियमैः । वारणा असीति नामवन्नदीद्वयपरिवृतसमीपं ललाम तिलकम् । अत्र काम क्षोभो नास्तीत्याह – लब्ध्वापीति । अधः कृतपूर्वजन्मसौन्दर्य मूर्ति रथाङ्गभृतः कृष्णस्य प्रसादात् लब्ध्वापि रत्या स्वकान्तया भूयः समेत्यापि पुष्पधन्वा त्र्यम्बकात् ललाटस्थात् तृतीयान्नयनात् प्रचलितः, क्षोभितत्वादित्यर्थः । इह क्षेत्रे धर्मोपघातं कर्तुं नेच्छति ॥ ३६ ॥
प्रभाविलासः - ३६
लब्ध्वेति । मूर्तिम् ; प्रद्युम्नरूपाम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
अपि च,
इह पुरुषमजानतां पुराणं54 नियतिवशेन निमीलतां दयालुः ।
उपदिशति पतिः स्वयं पशूनामुपनिषदामपि दूरगं रहस्यम् ॥ ३७॥
मूलम् - ३७
अपि च,
इह पुरुषमजानतां पुराणं54 नियतिवशेन निमीलतां दयालुः ।
उपदिशति पतिः स्वयं पशूनामुपनिषदामपि दूरगं रहस्यम् ॥ ३७॥
प्रभावली - ३७
X५६४
अत्र गुणान्तरमप्यस्तीत्याह — अपिचेत्यादि । इह वाराणस्यां पुराणं पुरुषम् ; भगवन्तं श्रीमन्नारायणम् । अजानताम्; अज्ञानामपीति भावः । मरणकाले विधिवशेन निमीलताम् ; म्रियमाणानाम् । कर्णे इति शेषः । पशूनां पतिः दयालुत्वात् स्वयमेवोपनिषदां दूरगं रहस्यम ; " यतो वाचो निवर्तन्ते "
इत्युक्तं विष्ण्वाख्यं तारकं ब्रह्म उपदिशति ॥ ३७ ॥
प्रभाविलासः - ३७
इहेति । पुराणं पुरुषम् ; नारायणम् । अजानताम् ; अश्रुतवेदान्तानामित्यर्थः । निमीलताम् ; शरीरं त्यजताम् । रहस्यम् ; तारकब्रह्मरूपम्55 । अत्र,
“मुमुक्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥”
इति वचनं द्रष्टव्यम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
अद्यत्वे पृनरतिचिरसमुपचितदुरितावलीमलीमसैः, अनाघ्रातभागवतधर्मैः, अवैदिकयवनतुरुष्काद्यभिन्नजातीयदेशाधिपतिसन्निधानलुप्तशौचाचारैः पुरुषैरविशेषितत्रिचतुरसाधुसमेतामेतां वाराणसीं समाधिसौधाधिरोहसोपानभूतधारणाध्यानसमाधीनां सिद्धिस्थानमिति न मन्यते चेतः । तथा हि-
सा काशीति न चाकशीति भुवि सायोध्येति नाध्यास्यते
सावन्तीति न कल्मषादवति सा काञ्चीति नोदञ्चति ।
धत्ते सा मधुरेति’नाग्रिमधुरां56 नान्यापि मान्या पुरी
या वैकुण्ठकथासुधारसभुजां रोचेत नो चेतसे ॥ ३८ ॥
मूलम् - ३८
अद्यत्वे पृनरतिचिरसमुपचितदुरितावलीमलीमसैः, अनाघ्रातभागवतधर्मैः, अवैदिकयवनतुरुष्काद्यभिन्नजातीयदेशाधिपतिसन्निधानलुप्तशौचाचारैः पुरुषैरविशेषितत्रिचतुरसाधुसमेतामेतां वाराणसीं समाधिसौधाधिरोहसोपानभूतधारणाध्यानसमाधीनां सिद्धिस्थानमिति न मन्यते चेतः । तथा हि-
सा काशीति न चाकशीति भुवि सायोध्येति नाध्यास्यते
सावन्तीति न कल्मषादवति सा काञ्चीति नोदञ्चति ।
धत्ते सा मधुरेति’नाग्रिमधुरां56 नान्यापि मान्या पुरी
या वैकुण्ठकथासुधारसभुजां रोचेत नो चेतसे ॥ ३८ ॥
प्रभावली - ३८
इदमप्यद्य समाधिस्थानं न भवतीत्याह - अद्यत्व इति । अद्यत्वे ; अद्य । समुपचितम् ; समुपार्जितम् । मलीमसैः ; मलिनैः । भागवतधर्माः ; पञ्चकालनिरतत्वादयः । तुरुष्कादिसजातीय देशाधिपतिः । लुप्तस्मृत्युक्तशौचाचारैः अवि- शेषितैः पूर्वोक्तपुरुषवदाभासमानैः त्रिचतुरैः परमार्थसाधुभिः समेताम् । धारणा- ।
X५६५
ध्यानसमाधीनाम् ; धारणा नाम प्रत्याहृतस्य मनसो ध्येये निरोधः । ध्यानं ध्येयस्वरूपसन्ततचिन्तनम् । समाधिः साक्षात्कारः । तेषां सिद्धिस्थानम् ।
तदुपपादयति–सा काशीति;
नाममात्रेण प्रशस्ततया न चाकशीति न शोभते । भागवताधिष्टितमेव शोभते, नान्यदिति भावः । एवं सर्वत्र योजनीयम् ।सा आयोध्या च अयोध्येति नाममात्रेण सद्भिर्नाध्यास्यते ।सा अवन्तीत्युक्ता मुक्तिपुरी अवन्तीति नाममात्रेण कल्मषात् नावति न रक्षति ।सा काञ्चीति प्रसिद्धा पुरी नाममात्रेण; नोदञ्चति श्रेष्ठ्यं न प्राप्नोति ।सा मधुरेति प्रसिद्धा पुरी नाममात्रेण अग्रिमस्य प्रशस्तस्य वस्तुनो धुरं न धत्ते । अन्यापि द्वारवत्यादिरपि नाममात्रेण न मान्या । या भागवतानां मनसे न रोचते; यत्र भागवताभिमतिर्नास्तीति तैः परित्यक्ता भवति । तस्मात् पूर्वोक्ता देशाः संयमस्थानं न भवन्तीत्युक्तम् ॥ ३८ ॥
प्रभाविलासः - ३८
सेति । न चाकशीति; न प्रकाशते । नाध्यास्यते; नावस्थीयते । नोदश्चति; उन्नतिं न प्राप्नोति । अग्रिमधुराम्; श्रेष्ठताम् । अन्येति; माया सङ्गृह्यते । अत्र,
" न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥
तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः57 ॥”
इत्यादिकमनुसन्धेयम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
(विचिन्त्य) अहो, दुर्विलसितं महामोहस्य ।
विटविदूषकगायकवैशिकैर्विषमितेव विभाति वसुन्धरा ।
क्व नु निवेशमुपेत्य परं पदं विमृशता भवितव्यमिह क्षणम् ॥ ३९ ॥
मूलम् - ३९
(विचिन्त्य) अहो, दुर्विलसितं महामोहस्य ।
विटविदूषकगायकवैशिकैर्विषमितेव विभाति वसुन्धरा ।
क्व नु निवेशमुपेत्य परं पदं विमृशता भवितव्यमिह क्षणम् ॥ ३९ ॥
प्रभावली - ३९
X५६६
दुर्विलसितम् ; दुरुज्जृम्भणं महामोहस्य । समाधिस्थानयोग्यत्वाभावं निगमयति- विटेति । विटः ; धूर्तः । विदूषकः; परिहासकः । गायकाः ; नरस्तोत्रिणः । वैशिकाः ; वेश्यापतयः । विषमिताः; विषमतां प्राप्ताः । वासं लब्ध्वा परं पदं ब्रह्म क्षणं ध्यायता क्व नु भवितव्यम् ; न कुत्रापीति भावः ॥ ३९ ॥
प्रभाविलासः - ३९
विटेति । विटादयो नायकसहायाः । तदुक्तममृतानन्दीये
“नेतृचित्तानुकूलैकविद्यो विट इतीरितः ।
विदूषकः प्रसङ्गेषु नेतृहास्यकरो मतः ॥”
इति । वैशिकः ; वेश्यापतिः । तल्लक्षणं त्वधस्तादुक्तम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
तर्कः — देव, भवन्तमन्तरेण को नाम सदसत्परीक्षार्हः ? आस्तामयमाजानशुद्धोऽप्यन्तिमयुगसङ्क्षोभगलितमौभाग्यो मध्यमदेशः । दक्षिणापथस्तु निरीक्षणीयः । तत्र हि मरुधादिमहानदी- सेवितेषु श्रीरङ्गादिषु तेषु तेषु स्थानेषु नारायणपरायणा महान्तः साम्प्रतमपि सम्भवन्तीति पौराणिकाः पठन्ति ।
विवेकः - सूत, प्रमाणानुगुणवृत्तिः खल्वसि । किन्त्ववधारितधर्मविप्लवमनार्यजनभूयिष्ठमचिरादेव विन्ध्याचल परिसरमतिलङ्घयेम । पश्य —
मिषतो विलोभयन्ती मृगतृष्णाभिस्तरङ्गिताभिरसौ ।
मरुभूमिरुज्झितरसा दुर्जनपरिषदिव दूरपरिहार्या ॥ ४० ॥
मूलम् - ४०
तर्कः — देव, भवन्तमन्तरेण को नाम सदसत्परीक्षार्हः ? आस्तामयमाजानशुद्धोऽप्यन्तिमयुगसङ्क्षोभगलितमौभाग्यो मध्यमदेशः । दक्षिणापथस्तु निरीक्षणीयः । तत्र हि मरुधादिमहानदी- सेवितेषु श्रीरङ्गादिषु तेषु तेषु स्थानेषु नारायणपरायणा महान्तः साम्प्रतमपि सम्भवन्तीति पौराणिकाः पठन्ति ।
विवेकः - सूत, प्रमाणानुगुणवृत्तिः खल्वसि । किन्त्ववधारितधर्मविप्लवमनार्यजनभूयिष्ठमचिरादेव विन्ध्याचल परिसरमतिलङ्घयेम । पश्य —
मिषतो विलोभयन्ती मृगतृष्णाभिस्तरङ्गिताभिरसौ ।
मरुभूमिरुज्झितरसा दुर्जनपरिषदिव दूरपरिहार्या ॥ ४० ॥
प्रभावली - ४०
परीक्षार्हः ; परीक्षाचतुरः । आजानशुद्धः; स्वतः शुद्धः । कलियुगे यः सङ्क्षोभः, तेन सौभाग्यहीनः । मरुद्वृधा; कावेरी । पौराणिकाः ; शुकादयो
भागवतारिषु पठन्ति,” क्वचित्कचिन्महाभागा द्रमिडेषु च भूरिशः” इत्या दिभिः । प्रमाणानुगुणवृत्तिः प्रमाणानुग्राहकः । किन्तु अथापीत्यर्थः । अवधारितः निश्चितः धर्मविप्लवः यत्र तम् । परिसरम् समीपम् । अचिरेण लङ्घयेम । लङ्घनीयत्वं
सदृष्टान्तमाह । मिषत इति मिषतः अनिमिषं पश्यतोऽपि जनान् लोभयन्ती ; प्रतारयन्ती । तरङ्गिताभिः ; सञ्जाततरङ्गानि । मृगतृष्णिकाभिः; मरीचिकाभिः । उज्झितरसा; निरुदका अन्यत्र उज्झितस्नेहा । मृग- तृष्णासदृशाभिस्तरङ्गिताभिर्वाग्भिर्बुद्धिमतोऽपि प्रतारयन्ती दुर्जनपरिषदिव दूरतः परिहार्या ॥ ४० ॥
प्रभाविलासः - ४०
कलौ खलु भविष्यन्ति नारायणपरायणाः ।
क्वचित्क्वचिन्महाभागा द्रमिडेषु च भूरिशः ॥
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ।
कावेरी च महाभागा प्रतीची च महानदी ॥
ये पिबन्ति जलं तासां मनुजा मनुजर्षभ ।
प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥”
X५६७
इति । मिषत इति । मिपतः पश्यतः । मृगतृष्णाभिः मरीचिकाभिः । अन्यत्र द्रव्यगवेषणाशालिभिः । उज्झितरसा उज्झितजला. विगतम्नेहाच ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
अयं चात्र हुतवहज्वालामध्यमध्यासीन इव दृश्यते पथिकः । आः कष्टम् ;
अतिमथनगृहीतानन्धकूपस्य पान्थः
कतिचन जलबिन्दून् कुण्डिकापीतशेषान् ।
करचरणकपोलेष्वर्पयन् गाढतापः
कथमपि मरुभूमिं58 क्रामति क्लान्तदेहः ॥ ४१ ॥
मूलम् - ४१
अयं चात्र हुतवहज्वालामध्यमध्यासीन इव दृश्यते पथिकः । आः कष्टम् ;
अतिमथनगृहीतानन्धकूपस्य पान्थः
कतिचन जलबिन्दून् कुण्डिकापीतशेषान् ।
करचरणकपोलेष्वर्पयन् गाढतापः
कथमपि मरुभूमिं58 क्रामति क्लान्तदेहः ॥ ४१ ॥
प्रभावली - ४१
X५६८
अत्र ; मरुभूमौ । अयम्; पथिकजनः । गाढतापः पान्थः अतिमथनेन अतिप्रयासेनोद्धृतान् । अन्धकूपस्य अन्धकारावृतत्वात् । कतिचन जलबिन्दून् । कीदृशान् ? कुण्डिकापीतशेषान् ; आतपशुष्कः कुण्डिकाहृतं जलं किञ्चित्स्वयं पिबति; तच्छेषान् जलबिन्दून् करे चरणे कपोलयोश्चार्पयति । तथापि क्लान्तदेहः सन् कथमपि मरुदेशं क्रामति अतिक्रामति ॥ ४१ ॥
प्रभाविलासः - ४१
दक्षिणापथः ; विन्ध्याद्दक्षिणदेशः । “विन्ध्यात्तु दक्षिणो देशो
दक्षिणापथसञ्ज्ञितः” इत्यभिधानात् । पौराणिकाः पठन्तीति;
अतिमथनेति । कुण्डिका ; कमण्डलुः । दूरस्थित्यातिमथनग्रहणेनार्धं गलितम् । आतपपरितप्तकुण्डिकया ततोऽर्धम् । अतः स्वल्पमवशिष्ट मिति पाने पर्याप्ततया श्रमापनयनाय करादिष्वर्पयन्तीत्युक्तम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
अपिचात्र कतिचिदधिगतकुसीदवृत्तयः कृच्छ्रलब्धधनमुदितकृपणतर मानसाः 59 कीकटाः पुरुषाः,
न धर्ममनुवर्तन्ते न कामं नापुनर्भवम् ।
अर्थमेकमुपाश्रित्य दुःखमेवोपभुञ्जते ॥ ४२ ॥
मूलम् - ४२
अपिचात्र कतिचिदधिगतकुसीदवृत्तयः कृच्छ्रलब्धधनमुदितकृपणतर मानसाः 59 कीकटाः पुरुषाः,
न धर्ममनुवर्तन्ते न कामं नापुनर्भवम् ।
अर्थमेकमुपाश्रित्य दुःखमेवोपभुञ्जते ॥ ४२ ॥
प्रभावली - ४२
अत्र ; मरुभूमौ । कचित्प्राप्तवार्धुषिकवृत्तयः । स्वभावतः कृपणतरं कृच्छ्रलब्धधनमुदितं मानसं येषां ते । कीकटाः; क्षुद्राः । तादृशाः केचन धर्ममपि नानुतिष्ठन्ति । काममपि नानुवर्तन्ते । मोक्षमपि नानुवर्तन्ते । अर्थमेकमेवाश्रित्य धर्मादीननपेक्षमाणाः दुःखमेव प्राप्नुवन्ति ॥ ४२ ॥
प्रभाविलासः - ४२
कीकटाः; म्लेच्छाः । न धर्ममिति । अपुनर्भवम् ; मोक्षम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
एष चैषामाधिपत्यमधिरूढो नवधनमूढः-
प्रलपति घूर्णति स्खलति मुह्यति हुङ्कुरुते
न च पदवीमवैति न च धाम न च त्रपते ।
विकृतिशत प्रसूतिविषमाशयदोषभुवा
धनमदिरामदेन धमतीव धरावलयम् ॥ ४३ ॥
मूलम् - ४३
एष चैषामाधिपत्यमधिरूढो’60 नवधनमूढः-
प्रलपति घूर्णति स्खलति मुह्यति हुङ्कुरुते
न च पदवीमवैति न च धाम न च त्रपते ।
विकृतिशत प्रसूतिविषमाशयदोषभुवा
धनमदिरामदेन धमतीव धरावलयम् ॥ ४३ ॥
प्रभावली - ४३
X५६९
एष च कश्चित् एषां कीकटानामाधिपत्यमधिरूढः नवधनेन मूढः । कथम् ? प्रलपतीत्यादि । यत्किञ्चित्प्रलपति । घूर्णति; भ्रमति । स्खलति ; कृत्यं मुञ्चति । मुह्यति ; अकृत्यमुपादत्ते । निरपराधिनः समीपस्थान् हुङ्कुरुते । न च स्वमार्गं जानाति । न च धाम ; प्राप्यं प्रयोजनं च न जानाति । स्वगृहमार्गमपि न जानाति । स्वगृहं च न जानाति । एवं सत्यपि परेभ्यो न लज्जते । यथा मदिरामदान्धः । तदेवाह एवं विकारशतानामुत्पत्तिस्थानस्य विषमाशयस्य दोषाः प्रलपनादयः, तान् भावयतीति तद्भूः तेन । धनमद एव मदिरा, तत्प्रयुक्तेन मदेन भूमण्डलं धमन्निव वर्तते ॥ ४३ ॥
प्रभाविलासः - ४३
धनगर्वितं मद्यप्रसाम्येनाह — प्रलपतीति । विकृतीनां विकाराणां शतस्य प्रसूतिः । विषमाशयः कुटिलाभिप्रायः, स एव दोषः, तस्य भूः उत्पत्तिस्थानम् । · विकृतिशत प्रसूतिश्चासौ विषमाशयदोषभूश्चेति कर्मधारयः । धमतीव; पुटपाकेन स्वर्णयतीव ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
अपि च,
अभिजनवयोविद्यावृत्तैरकिल्बिषकर्बुरै-
रतिशयभृतस्तृप्यन् मत्वा तृणाय महीयसः ।
नवधनमदक्षीबः क्षुद्रो नटप्रकृतिः क्रमा-
न्नरकिगणनालेख्यारूढं न किं प्रतिपत्स्यते ॥ ४४ ॥
मूलम् - ४४
अपि च,
अभिजनवयोविद्यावृत्तैरकिल्बिषकर्बुरै-
रतिशयभृतस्तृप्यन्61 मत्वा तृणाय महीयसः ।
नवधनमदक्षीबः क्षुद्रो नटप्रकृतिः क्रमा-
प्रभावली - ४४
इममेव भङ्गयन्तरेण विनिन्दति — अभिजनेति । नटप्रकृतिः; सदा
शा.. जम 2 गगन कवि
3
T
4 mon
X५७०
अशुचिः । अभिजनेन कुलेन वयसा जीवितकालेन, विद्यया, वृत्तैराचारैः, दोषासंस्पृष्टैरित्यर्थः । अतिशयवतो महीयसः महत्तरजनान् तृणाय मत्वा । तत्र हेतुः - नवधनमदेन मत्तः । अयं क्रमात् नरकाननुभवन्तीति नरकिणः, तेषां गणनालेख्ये ; " ते वै निरयगामिनः " इत्युक्तरीत्या ‘इमे नरकिणः’ इति या गणना, तदर्थलेख्ये चित्रगुप्तस्य गणनापत्रे, आरूढं लिखितम् ; स्वमिति
3 शेषः । किं न ज्ञास्यति । ज्ञास्यति चेत्, नैवमाचरेदिति भावः ॥ ४४ ॥
प्रभाविलासः - ४४
अभिजनेति । किल्बिषैः कर्बुरा न भवन्तीति अकिल्बिषकर्बुराः,
निर्दोषा इत्यर्थः तैः । इदमभिजनादिविशेषणम् । हृप्यन् दृप्तः सन् । आलेख्यारूढम् ; आलेख्य लिखितम् । न प्रतिपत्स्यते किम् ; न जानाति किम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
हन्त, निरर्थिका64 खल्वीदृशपुरुषसृष्टिरीश्वरस्य । अथवा
महतामुपकाराय । तथा हि-
विदधातु धाम तमसा कृतेन किं
यदि वा न वेत्ति न विधिर्न वा वयम् ।
प्रथमोपकारि चरमं यतस्ततः
प्रतियोगिनो भवति हन्त65 सार्थता ॥ ४५ ॥
मूलम् - ४५
हन्त, निरर्थिका64 खल्वीदृशपुरुषसृष्टिरीश्वरस्य । अथवा
महतामुपकाराय । तथा हि-
विदधातु धाम तमसा कृतेन किं
यदि वा न वेत्ति न विधिर्न वा वयम् ।
प्रथमोपकारि चरमं यतस्ततः
प्रतियोगिनो भवति हन्त65 सार्थता ॥ ४५ ॥
प्रभावली - ४५
पक्षान्तरमाह — अथवेति । तेषां सृष्टिः महतामुपकाराय ; क्षुद्राभावे महतां महत्त्वस्याप्रकाशनात् । एतदुपपादयति - तथाहीति । विदधात्विति ।
विधिःब्रह्मा । धाम ; तेजः । विधातु; सृजतु । सृष्टेनान्धकारेण किं
'
X५७१
प्रयोजनम् ? यदि वा ; विधिः स्रष्टा न वेत्तीति न । अथवा वयमेव न विद्म इति न । यतश्चरमं तमः सृष्टं प्रथमस्य तेजस उपकारि, अन्धकारा- भावे तेजसो निष्प्रयोजनत्वात् । ततः तमसः सकाशात्, तस्य प्रतियोगिनः
। तेजसः सार्थता सप्रयोजनता सिध्यति । तद्वदीश्वरस्य मूढसृष्टिरपि महतामुपकारायेति भावः ॥ ४५ ॥
प्रभाविलासः - ४५
विदधात्विति । विधिः; चतुर्मुखः । धाम; तेजः । विदधातु ; सृजतु । कृतेन; सृष्टेन । तमसा किम्; किं प्रयोजनम् । तेजः सृष्टिः सप्रयोजनत्वादुपपद्यते ; निष्प्रयोजनं तमः किमिति सृष्टवानित्यर्थः । अज्ञानादिति चेत्, नेत्याह – यदि वेति । न न वेत्ति; वेत्त्येवेत्यर्थः । वयमपि
न विद्म इति नेत्याह न वेति । तर्हि सप्रयोजनत्वे ज्ञाते प्रयोजनं वक्तव्यमित्यत आह – प्रथमेति । चरमम् तमः । प्रथमस्य तेजसः उपकारि, तमसोऽभावे तेजस आकाङ्क्षाभावात् । ततः ; तस्माद्धेतोः । तस्य प्रतियोगिनः, तमसः । सार्थता; सप्रयोजनता भवति ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
,
तर्कः - (रथवेगमभिनीय)
अतिक्रान्तो विन्ध्यः शबरगणभूयिष्ठगहनः
पुरस्तात्किष्किन्धावनमथ च पश्चादपसृतम् ।
असह्यप्रारम्भा परिपतति सह्याद्रिशिखरा-
दसौ कावेर्याख्या सरिदमरसिन्धोरधिगुणा ॥ ४६ ॥
मूलम् - ४६
,
तर्कः - (रथवेगमभिनीय)
अतिक्रान्तो विन्ध्यः शबरगणभूयिष्ठगहनः
पुरस्तात्किष्किन्धावनमथ च पश्चादपसृतम् ।
असह्यप्रारम्भा परिपतति सह्याद्रिशिखरा-
दसौ कावेर्याख्या सरिदमरसिन्धोरधिगुणा ॥ ४६ ॥
प्रभावली - ४६
अतिक्रान्त इति । शबराः; निषादाः, तेषां गणभूयिष्ठत्वात् गहनः । पुरस्तात् किष्किन्धावनं दृश्यत इत्युक्त्यनन्तरमेतद्वनं पश्चाद्भागे अपसृतमतीतमित्युच्यते, रथवेगातिशयात् । अथ च कावेरी दृश्यत इत्याह- असह्येति । प्रारम्भः ; वेगः । सह्याद्रिशिखरात् परिपतति ; प्रवहति । अमरसिन्धोः ; गङ्गायाः सकाशात् अधिकपवित्रत्वशीतत्वनिर्मलत्वतापहरत्वादिगुणा ॥ ४६ ॥
प्रभाविलासः - ४६
अतिक्रान्त इति । शबरगणः ; म्लेच्छसमूहः । अमर सिन्धोरधिगुणेति ; कावेर्याः विष्णुपद्या आधिक्यप्राप्तिर्व्यज्यते ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
विवेकः - (परितोऽवलोक्य सविषादम् )
इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ।
चोरैः परिवृतां मन्ये विद्यां कुमतिविप्लुताम्66 ॥ ४७ ॥
मूलम् - ४७
विवेकः - (परितोऽवलोक्य सविषादम् )
इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ।
चोरैः परिवृतां मन्ये विद्यां कुमतिविप्लुताम्66 ॥ ४७ ॥
प्रभावली - ४७
X५७२
चोरैराक्रान्तत्वदर्शनात् विषादातिशयः । दक्षिणापथदेशस्य जाह्नवीस्था-
नीयाम् । कुमतिविप्लुतां विद्यामिव ॥ ४७ ॥
प्रभाविलासः - ४७
इमामिति । विद्याम् ; ब्रह्मविद्याम् । कुमतिविप्लुताम् ; कुदृष्टिविपर्यासिताम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
1
इह हि परित्यक्तपरिग्रहा अपि परिसरभाजः पाटच्चरगणजनितरणरणकचटुलचेतसः प्रवातकदलीन्यायेन वर्तन्ते । अपिचामी कलियुगधर्मसञ्चया इव कतिचन पुरुषा वसुमतीसुतनुहारायमाणानग्रहारानुपघ्नन्ति । तथा हि-
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं
बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसम्पीडनम् ।
उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां
कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः67 ॥ ४८ ॥
मूलम् - ४८
1
इह हि परित्यक्तपरिग्रहा अपि परिसरभाजः पाटच्चरगणजनितरणरणकचटुलचेतसः प्रवातकदलीन्यायेन वर्तन्ते । अपिचामी कलियुगधर्मसञ्चया इव कतिचन पुरुषा वसुमतीसुतनुहारायमाणानग्रहारानुपघ्नन्ति । तथा हि-
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं
बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसम्पीडनम् ।
उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां
कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः67 ॥ ४८ ॥
प्रभावली - ४८
चोरोपद्रवं दर्शयति-इह हीति । परिव्यक्तपरिग्रहाः सर्वसङ्गपरित्यागिनोऽपि भिक्षवः चोरगणजनितेन रणरणकेन भयेन चञ्चलचेतसः, प्रवातः चण्डवायुः, तदाहतकदलीन्यायेन वर्तन्ते । कलियुगधर्मः ; पापं, तत्समूहा इव । वसुमती ; भूमिः सैव सुतनुः, तस्या हारवत् स्थितान् हिंसन्ति । मुक्तेति । अत्र दुर्जन- कुचयोः श्लेषः । मुक्तः आहारः यैः, चोरभयादिति भावः । यद्वा मुक्ताहाराः
‘.
।
2
1—-
'
परित्यक्तरसवदाहाराः सन्न्यासिनः, तैर्निरन्तरं सेव्यमाना अनुवर्त्यमाना अपि । तद्वृत्यै ; अनुवर्तिजनजीवनाय । अन्तरम् ; अवकाशं न दिशन्ति । अन्यत्र मुक्तामयहारैरलङ्कृता अपि हारस्य वृत्तये अतिनिबिडत्वात् अवकाशं न ददति । बन्धे; शृङ्खलादिबन्धे, कदाचिद्राजभिर्निङ्गृह्य स्वेषां निगलबन्धे सत्यपि । राजभिर्गाढविमर्दने कृतेऽपि । अन्यत्र गाढविमर्दन इति बन्धविशेषणम् । अन्योन्यसम्पीडनं न जहति । उष्णे ; उग्रपुरुषे विषये, अन्यत्र उष्णकाले । शीतलताम् ; मृदुतां शिशिरत्वं च । शिशिरे; शान्तपुरुषे शिशिरकाले च । उष्णताम् ; तीक्ष्णताम्, उष्णस्पर्शाश्रयत्वं च भजन्ति । ते क इत्यपेक्षायां कामान्तःपुरस्य चेटिका दासी, तस्याः कुचतटीवत् काठिन्यवन्तः खलाः दुर्जनाः ॥ ४८ ॥
प्रभाविलासः - ४८
मुक्तेति । मुक्ताहारैः ; नियताहारैः सात्त्विकैः सेविताः । तद्वृत्त्यै; तेषां जीवनाय । अन्यत्र मुक्तामणिहारवर्तनाय । " वृत्तिर्वर्तनजीवने
X५७३
इत्यमरः । अन्तरम् ; अवकाशम् । बन्धे; शृङ्खलादिना बन्दीकरणे । गाढविमर्दनेऽपि ; कशाघातादिना पीडनेऽपि । अन्यत्र कञ्चुकबन्धे कर- पीडनेऽपि । उष्णे; परुषे, उष्णकाले च । शीतलताम् ; मृदुताम् ;
शिशिरतां च । शीतोष्णपदे उभयत्र सद्विपर्ययपरे । अत्र
“कूपोदकं वटच्छाया ताम्बूलं तरुणीस्तनौ ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥”
इत्येतद् द्रष्टव्यम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
तर्कः - देव, अयं पुनरमुष्याः परिसरे पुरुहूतपुरोहिताभ्यधिकबुद्धिभिः पुराणपुरुषचरणारविन्दमधुकरायमाणमानसैर्मनीषिभिरधिष्ठितो यदुकुलसार्वभौमस्य भगवतः परिग्रहात् प्रख्यात - गुणसमाख्यो यादवाचलो नाम पर्वतोत्तमः । इह च,
कपर्दि+++(=पाशुपत)+++-मत-कर्दमं कपिल-कल्पना+++(→साङ्ख्य)+++-वागुरां
दुर्-अत्ययम् अतीत्य तद् द्रुहिण-तन्त्र+++(→योग-मत)+++-यन्त्रोदरं,
कु-दृष्टि–कुहना-मुखे निपततः परब्रह्मणः
कर-ग्रह-विचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ ४९ ॥
मूलम् - ४९
तर्कः - देव, अयं पुनरमुष्याः परिसरे पुरुहूतपुरोहिताभ्यधिकबुद्धिभिः पुराणपुरुषचरणारविन्दमधुकरायमाणमानसैर्मनीषिभिरधिष्ठितो यदुकुलसार्वभौमस्य भगवतः परिग्रहात् प्रख्यात - गुणसमाख्यो यादवाचलो नाम पर्वतोत्तमः । इह च,
कपर्दिमतकर्दमं कपिलकल्पनावागुरां
दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् ।
कुदृष्टिकुहनामुखे68 निपततः परब्रह्मणः
करग्रहविचक्षणो69 जयति लक्ष्मणोऽयं मुनिः ॥ ४९ ॥
प्रभावली - ४९
अमुष्याः; कावेर्याः । पुरुहूत पुरोहितः ; बृहस्पतिः । मनीषिभिः ; विद्वद्भिः । भगवतः ; कृष्णस्य । प्रसिद्धगुणनामधेयः यादवेन परिगृहीतत्वात् यादवाचल इति गुणनाम । इह च ; यादवाचले । श्रीमान् लक्ष्मणमुनिर्जयति । स कीदृश इत्यत्राह — कपर्दीति ।
कपर्दिमतकर्दमम् ; पाशुपताख्यपङ्कम् ।
कपिलस्य कल्पना ; साङ्ख्यमतम्, तदेव वागुरा जालम् ।
X५७४
दुरत्ययम् ; दुरतिक्रमं दुरवगाहमिति यावत् । द्रुहिण-तन्त्रस्य ; योगमतस्य यन्त्रवत् स्थिरमुदरम् । अतीत्य ; पूर्वोक्तमखिलं मतमतीत्यापि ।
कुदृष्टयः; शङ्करादयः, तेषां कुहना प्रतारकयुक्तिः । तत्र निपतत इत्युक्त्या अन्धकूप इत्यवगम्यते । तस्य मुखे अन्तः, निपततः परब्रह्मणः निर्विशेषचिन्मात्रं ब्रह्मेत्युक्तस्य, उद्धरणार्थं करस्य ग्रहणे ; ब्रह्मणः करग्रहणं नाम निर्विशेषचिन्मात्रत्वेनोक्तस्य ब्रह्मणः सविशेषचेतनत्वप्रतिपादनम् । तत्र विचक्षणः सन् जयति ॥ ४९ ॥
प्रभाविलासः - ४९
वागुरा; मृगबन्धनी ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
अपि च बादरायणादिभिरभ्यर्चिते दक्षिणबदरिकाश्रमे नारायणगिरौ,
लक्ष्मीकौस्तुभलक्षणेन वपुषा वाचं विनैव स्वयं
श्वेतद्वीपनिवासिनामिव दिशन्सन्तोषमन्तर्मुखम् ।
विद्यावीचिसहस्रसम्भ्रममिलद्दुग्धार्णवाडम्बरे
स्थानं संयमिसार्वभौमविजयस्थाने विधत्ते हरिः ॥ ५० ॥
मूलम् - ५०
अपि च बादरायणादिभिरभ्यर्चिते दक्षिणबदरिकाश्रमे नारायणगिरौ,
लक्ष्मीकौस्तुभलक्षणेन वपुषा वाचं विनैव स्वयं
श्वेतद्वीपनिवासिनामिव दिशन्सन्तोषमन्तर्मुखम् ।
विद्यावीचिसहस्रसम्भ्रममिलद्दुग्धार्णवाडम्बरे
स्थानं संयमिसार्वभौमविजयस्थाने विधत्ते हरिः ॥ ५० ॥
प्रभावली - ५०
अत्र श्रीमान्नारायणो दिव्येन विग्रहेण पश्यतां सन्तोषं जनयंस्तिष्ठतीत्याह — अपिचेति । बादरायणः ; व्यासः । दक्षिणापथे स्थितो बदरिकाश्रम इति
X५७५
प्रसिद्धो नारायणगिरिरिति स्वाभाविक नाम, नारायणपरिगृहीतत्वात् । यादवाचल इत्यादीनि गौणनामानि । लक्ष्मीति । लक्ष्मीः कौस्तुभश्च वक्षःस्थलस्थौ लक्षणं चिह्नं यस्य तेन दिव्यविग्रहेण श्वेतद्वीपवासिनामिव नारायणाचलवासिनां वाचं विनैव अर्चासमाधिना संलापवाचं विनैव । श्वेतद्वीपे संलापेनापि सन्तोषं जनयतीति गम्यते । अन्तर्मुखं प्रत्यग्वस्त्वनुभवजनितं सन्तोषं जनयन् दिशन् । विद्येत्यादि ; विद्याया वीचिसहस्त्रस्य सम्भ्रमेण मिलितत्वात् दुग्धार्णवस्याडम्बरवति संयमि सार्वभौमस्य विजयस्थाने । पुरा किल भाष्यकारो जिनमतप्रविष्टराजसन्निधौ सप्रतिज्ञं बाह्यकुदृष्टीन् विजित्य तान् राज्ञा शिलाचक्रयन्त्रे पेषयामास । स च राजा श्रीभाष्यकारे निरतिशयभक्तिमान् तमाश्रित्य श्रीविष्णुवर्धनाख्यदास्यनाम्ना कथितोऽभूदित्यैतिह्यं श्रूयते । तत्र हरिः स्थानं विधत्ते ॥ ५० ॥
प्रभाविलासः - ५०
वाचं विनैव प्रार्थनां विनैव । विद्यावीचिसहस्रसम्भ्रमेण मिलन्
दुग्धार्णवस्याडम्बर इवाडम्बरो यस्मिन् । संयमि सार्वभौमः ; श्रीभाष्यकारः ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
अमुं70 च
कटाक्षलहरीमुहुः71 कबलितामृतस्तोमया
विलोचनयुगश्रिया विवृतसर्वदानव्रतम् ।
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५१ ॥
मूलम् - ५१
अमुं70 च
कटाक्षलहरीमुहुः71 कबलितामृतस्तोमया
विलोचनयुगश्रिया विवृतसर्वदानव्रतम् ।
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५१ ॥
प्रभावली - ५१
अमुमिति । अमुं श्रीमन्नारायणं जनाः सर्वे शठरिपुसहस्रगाथाप्रबन्ध- चतुर्थशतकप्रथमगाथोक्तरीत्या शरणयन्तीत्याह - कटाक्षेति । कटाक्षवीचिभिः मुहुः पीतामृतप्रवाहया; अमृतप्रवाह विजयिकटाक्षलहरीयुतयेत्यर्थः ; विलोचन-
.
X५७६
युगस्य सम्पदा प्रकाशितसकलपुरुषार्थदानव्रतम् । शुकादिभिः भागवतैरुपासितं पूर्वं कृतपुण्या इदानीमपि सदाचारपरा जनाः नारायणं श्रीमन्तं शरणयन्ति शरणं गच्छन्ति । अस्य श्रीपदयोर्वक्षःस्थले च सविग्रहा श्रीरास्ते उपायोपेयदशयोरप्यस्य श्रीमत्त्वसूचनायेत्यैतिह्यं च वदन्ति ॥ ५१ ॥
प्रभाविलासः - ५१
कटाक्षेति । कटाक्षलहरीभिः मुहुः कबलितः अमृतस्य स्तोमो यया तया । अत्र नारायणपुरे प्राचीनाचार्याः प्रपत्त्यनुष्ठानं परिपालयन्तः कृतार्था अभूवन्निति सम्प्रदायः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
विवेकः ( सकौतुकमवलोक्य सविमर्शम् ) सूत, सह्यपर्वत - प्रत्यासत्तेरसह्यपवनसङ्क्षोभसन्त्रासितस्य दुर्बलबुद्धेः कथमत्रावकाशः ?
यद्वा तावदयं भवेदधिगुणो वासो72 यदुक्ष्माधरः
कर्णालङ्कृतिविभ्रमं भजति यः कर्णाटदेशश्रियः ।
अन्यान्यप्यरविन्दलोचनपदानुध्यानमेधाविनां
स्थानान्यालप कौतुकं मम पुनः सर्वत्र निर्वर्तते ॥ ५२ ॥
मूलम् - ५२
विवेकः ( सकौतुकमवलोक्य सविमर्शम् ) सूत, सह्यपर्वत - प्रत्यासत्तेरसह्यपवनसङ्क्षोभसन्त्रासितस्य दुर्बलबुद्धेः कथमत्रावकाशः ?
यद्वा तावदयं भवेदधिगुणो वासो72 यदुक्ष्माधरः
कर्णालङ्कृतिविभ्रमं भजति यः कर्णाटदेशश्रियः ।
अन्यान्यप्यरविन्दलोचनपदानुध्यानमेधाविनां
स्थानान्यालप कौतुकं मम पुनः सर्वत्र निर्वर्तते ॥ ५२ ॥
प्रभावली - ५२
असह्यपवनसङ्क्षोभदर्शनात् सविमर्शम् । प्रत्यासत्तेः ; सामीप्यात् । दुर्बल बुद्धेः ; चञ्चलबुद्धेः । अवकाशः ; समाध्यवकाशः । अयमपि समाधिस्थानं न भवतीति भावः । पक्षान्तरमवलम्बते - यद्वेति । अधिगुणः ; अधिकगुणः । यद्यपि द्वित्रा दोषाः सन्ति, तथापि दोषादधिकगुणत्वात् अयं यादवाचलः प्रथमं समाधेः स्थानं भवति । यः कर्णाटदेशसम्पदः कर्णालङ्कारविलासं भजति । अरविन्द लोचनस्य पदानुध्याने समाधौ मेधा श्रद्धा, तद्वतां युञ्जानानां योग्यानि अन्यान्यपि स्थानानि आलप ; दर्शयेति यावत् । मम तु सर्वत्र इतोऽन्यत्रापि स्थानमस्ति वेति द्रष्टुं कौतूहलं वर्तते ॥ ५२ ॥
प्रभाविलासः - ५२
यद्वेति । अधिगुणः ; अधिकगुणः ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
तदन्यतो रथं प्रवर्तय ।
- (तथा कृत्वा) देव, दृश्यतामसौ दम्भोदिदारुणपरशुदारितदुष्टराजन्यरुधिरझरभरितबहुमहाहृदतर्पित पितृगणस्य पात्रसात्कृत- भूमण्डलस्य भगवतो भार्गवस्य दिव्यप्राय निवासदेशः । अत्र हि,
नाहं नापि च मत्सुतो न च सुराः सर्वे न चामी सदा
ध्यानारोपितचेतसां मुनिगणा जानन्ति विष्णोः पदम् ।
इत्थं नाभिसरोजशायिपृथुकव्याहारमाकर्णयन्-
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५३ ॥
मूलम् - ५३
तदन्यतो रथं प्रवर्तय ।
- (तथा कृत्वा) देव, दृश्यतामसौ दम्भोदिदारुणपरशुदारितदुष्टराजन्यरुधिरझरभरितबहुमहाहृदतर्पित पितृगणस्य पात्रसात्कृत- भूमण्डलस्य भगवतो भार्गवस्य दिव्यप्राय निवासदेशः । अत्र हि,
नाहं नापि च मत्सुतो न च सुराः सर्वे न चामी सदा
ध्यानारोपितचेतसां मुनिगणा जानन्ति विष्णोः पदम् ।
इत्थं नाभिसरोजशायिपृथुकव्याहारमाकर्णयन्-
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५३ ॥
प्रभावली - ५३
X५७७
तर्हि मलयालदेशो दृश्यतामित्याह असाविति । दम्भोलिः । वनं, नहत्। भरितम् पूर्णम् । पात्रे; योग्ये । काश्यपे सात्कृतं दत्तम् । भार्गवस्य ; परशुरामस्य । निवासदेशः दिव्यदेशबहुलः दिव्यदेशसदृशो वा । अत्रापि श्रीपादयों दिव्यदेशा बहवः सन्ति । तत्र तावत्पद्मनाभो द्रष्टव्य इत्याह– अत्र हीत्यादि । नाभिपद्मस्थबालब्रह्मवचनं दर्शयति नाहमित्यादिना पूर्वार्धेन । अहं विष्णोः पदं दिव्यस्वरूपं चरणप्रभावं वा परमं पदं वा यथावन्न जानामि । मत्सुतः शङ्करो रुद्रोऽपि च न जानाति । इन्द्रादयः सर्वे च न जानन्ति । सदा ध्याने आरोपितचेतमः अमी मुनिगणा अपि न जानन्ति । एवं बालत्वात् शायित्वम् । पृथुकः ; अर्भकः, ब्रह्मेत्यर्थः । व्याहारम्; उक्तिम् । पन्नगसार्वभौमः शेषः, तस्मिन् शयने पद्मनाभः श्रिया सह शेते । अत्र,
“यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥”
इत्याद्यनुसन्धेयम् ॥ ५३ ॥
प्रभाविलासः - ५३
नाहमिति । मत्सुतः; शङ्करः । पृथुकः शिशुः । अत्र,
“यन्न जानन्ति मुनयो न चाहं न च शङ्करः ।
जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥”
इति चतुर्मुखवचनमनुसन्धेयम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
विवेकः - ( दृष्ट्वा सहर्षमञ्जलिं बध्नन् )
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
‘दक्षत्रामभिसन्ततक्ष73 य इमां त्रिः सप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि74 दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन्न-
ब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ५४ ॥
मूलम् - ५४
विवेकः - ( दृष्ट्वा सहर्षमञ्जलिं बध्नन् )
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
‘दक्षत्रामभिसन्ततक्ष73 य इमां त्रिः सप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि74 दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन्न-
ब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ५४ ॥
प्रभावली - ५४
X५७८
पद्मनाभाय सहर्षमञ्जलिं बघ्नन्; नमस्कृत्य । अथ भार्गवाद्रामात् सर्वेषामभिलषितमाशास्ते क्रोधाग्निमिति । जमदग्नेः पितुः पीडनेन सञ्जातं स्वस्य क्रोधाग्निं सन्तर्पयितुकाम इव; “लक्षणहेत्वोः " इति शतृप्रत्ययः । क्रमेण इमां भूमिम् अक्षत्त्राम् ; क्षत्त्रियजातिरहितां यथा तथा । त्रिः सप्तकृत्वः ; एकविंशतिवारम् । अभिसन्ततक्ष ; अभितस्तनूचकार । अथ तां भूमिं वचन बर्हिषि अश्वमेधे काश्यपाय दक्षिणां दत्वा पृथिव्यामवकाशाभावात् सिन्धुं पश्चिमसमुद्रम् आस्कन्द्य अभिभूय तद्दत्ते मलयालदेशे वसन् मुनिः भार्गवः आब्रह्मकीटं ब्रह्माणमारभ्य कीटावधि सर्वस्य जन्तुजातस्य अब्रह्मण्यं दुरितं निरस्यतु ॥ ५४ ॥
प्रभाविलासः - ५४
क्रोधाग्निमिति । जमदग्निपीडनभवम्; कार्तवीर्येण जमदग्निहनन- जनितम् । अभिसन्ततक्ष ; तक्षणसाधनेन परशुना अभितः समीचकार । सिन्धुमास्कन्छ ; सिन्धुं शोषयित्वा पृथिव्या विप्रेभ्यो दानात् ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
(विचिन्त्य) अयं खलु मलयाचलवासिनां महर्षीणां निवृत्ति धर्ममुपदिश्य यथाधिकारं परिमितमतीनामिह प्रवृत्तिधर्मं प्रवर्तयन्ना स्ते । अपि च,
बुभुक्षाभिक्षाकब्रुवपठितमिथ्यागुणगणा
मुमुक्षूनक्षुद्रानिह मुहुरुपघ्नन्ति परुषैः ।
कदध्वोपानीतद्रविणकणदुर्मानमदिरा-
गुणक्षैब्यक्षुभ्यन्मतिकलहकाकोलकलुषैः ॥ ५५ ॥
मूलम् - ५५
(विचिन्त्य) अयं खलु मलयाचलवासिनां महर्षीणां निवृत्ति धर्ममुपदिश्य यथाधिकारं परिमितमतीनामिह प्रवृत्तिधर्मं प्रवर्तयन्ना स्ते । अपि च,
बुभुक्षाभिक्षाकब्रुवपठितमिथ्यागुणगणा
मुमुक्षूनक्षुद्रानिह मुहुरुपघ्नन्ति परुषैः ।
कदध्वोपानीतद्रविणकणदुर्मानमदिरा-
गुणक्षैब्यक्षुभ्यन्मतिकलहकाकोलकलुषैः ॥ ५५ ॥
प्रभावली - ५५
अयमपि समाधिस्थानं न भवतीत्याह - अयं खल्विति । अयम्; भार्गवः । इदानीमिति शेषः । अल्पमतीनामधिकारानुगुणं प्रवृत्तिधर्मप्रवर्तनमे को
दोषः । अन्यानपि दर्शयति– बुभुक्षेति । बुभुक्षया भिक्षाकाः ; भोगसन्न्यासिनः । अत एव भिक्षुवाः भिक्ष्वाभासाः तैः पठिताः मिथ्यागुणानां गणा येषां ते, एतद्देशीयाः इह देशे अक्षुद्रान मुमुक्षून् महतो मोक्षसन्न्यासिनः, परम- विरक्तानिति यावत् । परुषैः ; निष्ठुरवचनैः । उपघ्नन्ति ; उपहिंसन्ति, तिरस्कुर्वन्ति । कीदृशैर्वचनैः ? कदध्वेति । कुमार्गोपार्जितधनलेशेन यो दुर्मानः गर्वः, स एव मदिरा, तस्या उपसर्जनीभूतेन क्षैब्येन क्षुभ्यन्त्या मतेः कलुषम्, अज्ञानादिरूपम्, स एव काकोलः विषभेदः, कालकूट इति यावत् स एव कलुषं पङ्को येषां तैः । धनमदिरागर्वजनितानादरादिसहितैरित्यर्थः ॥ ५५ ॥
प्रभाविलासः - ५५
X५७९
बुभुक्षेति । बुभुक्षया; भोजनेच्छया । भिक्षाकब्रुवैः; अशिष्टब्राह्मणाभासैरिति यावत् । पठिताः मिथ्यागुणगणाः अविद्यमानगुणगणाः येषां ते तथोक्ताः । कदध्वना कुमार्गेण आनीतैः द्रविणकणैः धनलवैः सञ्जातः दुर्मानः दुरहङ्कार एव मदिरा, तस्या गुणेन यत् क्षैब्यं मत्तता, तेन क्षुभ्यन्त्या मत्या कलह एव काकोलः कालकूटः, तेन कलुषैः परुषवचनैः अक्षुद्रान् मुमुक्षून् उपघ्नन्ति । अतोऽयं देशो न संयमस्थानमिति भावः ॥ ५५ ॥
विश्वास-प्रस्तुतिः - ५६
तर्कः – मलय एव तर्हि विलोक्यतां देवेन ।
विन्ध्यस्तम्भप्रकटमहिमा विष्वगाचान्तसिन्धुः
कुम्भीसूनुर्दनुजकबलग्रासदीप्तोदराशिः ।
नाकाधीशन्नहुषभुजगीकारदुर्वारशक्ति-
ब्रह्मापत्यं मुनिरिह वसन्भ्राजते मुक्तकल्पः ॥ ५६ ॥
मूलम् - ५६
तर्कः – मलय एव तर्हि विलोक्यतां देवेन ।
विन्ध्यस्तम्भप्रकटमहिमा विष्वगाचान्तसिन्धुः
कुम्भीसूनुर्दनुजकबलग्रासदीप्तोदराशिः ।
नाकाधीशन्नहुषभुजगीकारदुर्वारशक्ति-
ब्रह्मापत्यं मुनिरिह वसन्भ्राजते मुक्तकल्पः ॥ ५६ ॥
प्रभावली - ५६
मलये स्थितमगस्त्यं वर्णयति – विन्ध्येति । विन्ध्यपर्वतस्य स्तम्भनेन
X५८०
प्रकाशितः महिमा यस्य सः । निःशेषम् आचान्तः पीतः समुद्रो येन । दनुजः वातापिः, स एव कबलः, तस्य भक्षणेन दीप्तः पुनरुत्थितो जाठराग्निः यस्य सः । नाकस्याधीशो नाकाधीशः । स भवति नाकाधीशतीति नाकाधीशन् । क्विबन्ताद्धातोः शतृप्रत्ययः । स चासौ नहुषश्च तस्य भुजगीकारः सर्पभावकरणं, तेन दुर्वारा शक्तिर्यस्य । ब्रह्मणः पुत्रः कुम्भीसूनुः अगस्त्यः । शापाग्निदग्धदेहस्यास्य मित्रावरुणवीर्यसम्भृतकुम्भाज्जन्माभवदिति पौराणिकी कथानुसन्धेया । स मुनिर्मुक्तानां सदृशः ; मुक्तानां यथा तापत्रयाभिहतिर्नास्ति, एवमस्यापीति भावः । इह मलये वसन् भ्राजते ॥ ५६ ॥
प्रभाविलासः - ५६
विन्ध्येति । दनुजः ; वातापिः । नाकस्य स्वर्गस्य अधीशतः
अधीशीभवतः नहुषस्य राज्ञः भुजगीकारे दुर्वारो गर्यो यस्य सः । ब्रह्मापत्यम् ; चतुर्मुखपुत्रः । पुनर्निमित्तान्तरात् कुम्भीसूनुरिति न विरोधः । विन्ध्यस्तम्भादिकं भारते प्रसिद्धम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः - ५७
विवेकः - उक्तमुपलालयन् स कथमस्माभिः75 सुप्रेक्षः ?
निरवधिमहिमा निरुद्ध विन्ध्यो निगममहार्णवनित्यकर्णधारः ।
सुचरितमिव76 नः स्वयं स77 काले कतकनिभांशुरुदेति चेत्समीक्ष्यः ॥ ५७॥
मूलम् - ५७
विवेकः - उक्तमुपलालयन् स कथमस्माभिः75 सुप्रेक्षः ?
निरवधिमहिमा निरुद्ध विन्ध्यो निगममहार्णवनित्यकर्णधारः ।
सुचरितमिव76 नः स्वयं स77 काले कतकनिभांशुरुदेति चेत्समीक्ष्यः ॥ ५७॥
प्रभावली - ५७
सुप्रेक्षः ; सुखेन प्रेक्षितुं शक्यः । अत्रोत्तरं स्वयमेवाह । सः काले स्वयमुदेति चेत् समीक्ष्यो भवतीत्याह — निरवधीति । निरुद्धेति । निरुद्धो विन्ध्यो येन सः । निगममहार्णवस्य नित्यं कर्णधारः, पारदृश्वेत्यर्थः । कतकनिभांशुः ; कतकबीजं यथा वारिप्रसादकम् एवमगस्त्योदयेऽपि तदंशुभिर्वारि सुचरितवंशतः इति प्रभावल्यां पाठान्तरमुक्तम् .
X५८१
प्रसीदतीति प्रसिद्धिः । अतः कतकनिभांशुरित्युक्तम् । सः अगस्त्यः नः सुकृतमित्र स्वयमेव काले उदेति चेत् समीक्ष्यो भवति । सुचरितवशत इतिपाठान्तरम् ॥ ५७ ॥
प्रभाविलासः - ५७
निरवधीति । कर्णधारः ; नाविकः । अगस्त्योदये जलाशया निर्मला भवन्तीति प्रसिध्द्या कतकनिभांशुरित्युक्तम् । तदुक्तं वराहसंहितायाम् —
“उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्ररूषितानि ।
हृदयानि सतामिव स्वभावात्पुनरम्बूनि भवन्ति निर्मलानि ॥”
इति ॥ ५७ ॥
विश्वास-प्रस्तुतिः - ५८
तर्कः - देव तस्येदमाश्रमपदम् ।
तापोन्मुक्तं दिवसमखिलं शर्वरी नातिशीता
शाखारूढाः स्वयमिह शुकास्तत्त्वविद्यां पठन्ति ।
सिंहः सार्धं विहरति गणः सैन्धुरः शान्तवैर-
स्तन्नः पुण्यैरिव परिणतं स्थानमेतत्समाधेः ॥ ५८ ॥
मूलम् - ५८
तर्कः - देव तस्येदमाश्रमपदम् ।
तापोन्मुक्तं दिवसमखिलं शर्वरी नातिशीता
शाखारूढाः स्वयमिह शुकास्तत्त्वविद्यां पठन्ति ।
सिंहः सार्धं विहरति गणः सैन्धुरः शान्तवैर-
स्तन्नः पुण्यैरिव परिणतं स्थानमेतत्समाधेः ॥ ५८ ॥
प्रभावली - ५८
तस्य ; अगस्त्यस्य । अगस्त्याश्रमस्य समाधियोग्यत्वमुपपादयति तर्कः पूर्वपक्षत्वेन तापेति । अत्र अखिलं दिवसं रवितापरहितम् । शर्वरी च नात्यन्तं शीता । तन्त्वविद्याम् ; अध्यात्मविद्याम् । सैन्धुरः ; सिन्धुरा गजाः, तत्सम्बन्धी । परिणतम् ; पक्कम् ॥ ५८ ॥
प्रभाविलासः - ५८
सैन्धुरो गणः ; गजसमूहः ॥ ५८ ॥
विश्वास-प्रस्तुतिः - ५९
अमी च कुम्भसम्भवानुगामिनामन्येषामपि महर्षीणामाश्रमाः
इह प्रशान्तेषु निजाश्रमेषु प्राधीतवेदान्प्रतिपन्नदीक्षान् ।
अन्वासते वह्निमतो यथार्हं छायाः सजीवा इव धर्मदाराः ॥ ५९॥
मूलम् - ५९
अमी च कुम्भसम्भवानुगामिनामन्येषामपि महर्षीणामाश्रमाः
इह प्रशान्तेषु निजाश्रमेषु प्राधीतवेदान्प्रतिपन्नदीक्षान् ।
अन्वासते वह्निमतो यथार्हं छायाः सजीवा इव धर्मदाराः ॥ ५९॥
प्रभावली - ५९
अनुगामिनः ; अनुवर्तिनः भृत्यशिष्यादयः । एषु आश्रमेषु दीक्षितान् दीक्षाप्रविष्टान् पतीन् यज्ञपत्न्यः परिचरन्तीत्याह — इहेति । प्रशान्तेषु ; कामक्रोधादिवर्जितेषु ; यद्वा प्रशान्तजन्तुषु । प्रकर्षेणाधीयमानवेदान् प्राप्तदीक्षानियमान् वह्निमतः गार्हपत्याहवनीयदक्षिणाग्निमतः पतीन् धर्मपत्न्यः सजीवाः छाया इव यथाधिकारमनुवर्तन्ते ॥ ५९ ॥
प्रभाविलासः - ५९
इहेति । वह्निमतः; आहिताग्नीन् ॥ ५९ ॥
विश्वास-प्रस्तुतिः - ६०
विवेकः - ( सर्वतो निर्वर्ण्य) हन्त,
एलालिङ्गितचन्दना वनभुवो मुक्ताप्रसूतिर्नदी
ताम्बूलीपरिणद्धपूगपटली कच्छोपकण्ठस्थली ।
काले दक्षिणमारुता विदधते कामाग्निसन्धुक्षणं
कुञ्जान्यत्र च भुञ्जते युवतिभिः स्वर्लोकशृङ्गारिणः ॥ ६० ॥
मूलम् - ६०
विवेकः - ( सर्वतो निर्वर्ण्य) हन्त,
एलालिङ्गितचन्दना वनभुवो मुक्ताप्रसूतिर्नदी
ताम्बूलीपरिणद्धपूगपटली कच्छोपकण्ठस्थली ।
काले दक्षिणमारुता विदधते कामाग्निसन्धुक्षणं
कुञ्जान्यत्र च भुञ्जते युवतिभिः स्वर्लोकशृङ्गारिणः ॥ ६० ॥
प्रभावली - ६०
·
X५८२
अगस्त्याद्याश्रमा अपि समाधियोग्या न भवन्तीति सिद्धान्तयति — एलेति एलाः ; एलालताः । नदी; ताम्रपर्णी, मुक्तामणीनामुत्पत्तिस्थानम् । कच्छः समुद्रोपकण्ठस्थली च । ताम्बूललताभिः परिवृता पूगपण्टली यस्यां सा । समासा न्तविधेरनित्यत्वात् पूगपटलीत्युच्यते । काले ; तत्तत्काले । सङ्घुक्षणम् सन्दीपनम् । स्वर्लोककामुकाः, देवा इत्यर्थः ॥ ६० ॥
प्रभाविलासः - ६०
एलेति । नदी; ताम्रपर्णी । कच्छोपकण्ठस्थली; अनूपसमीप देशः । काले वसन्तकाले । अत्र शृङ्गाररसो व्यङ्ग्यः ॥ ६० ॥
विश्वास-प्रस्तुतिः - ६१
अतो मनुष्यभोग्यमिदं78 भौमं त्रिविष्टपम् । अत्र चैवं मनोहरतरे 79 मन्मथकथापराङ्मुखा महर्षयश्चरन्तीत्याश्चर्यमेतत्80 । वयं पुनरन्यदास्पदमन्वेषयेम ।
तर्कः - देव, आलक्ष्यतामयमदूरादेव नलसेतुसन्दर्शनोत्सुक- मुनिजनगतागत विभवताण्डवितवैभवः81 पाण्ड्यदेशः । अत्र च,
सारः सारस्वतानां शठरिपुभणितिः ‘शान्तिशुद्धान्तसीमा82
मायामायामिनीभिः स्वगुणविनतिभिर्बन्धयन्तीधयन्ती ।
पारं पारम्परीतो भवजलधिभवन्मज्जनानां जनानां
प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम् ॥ ६१ ॥
मूलम् - ६१
अतो मनुष्यभोग्यमिदं78 भौमं त्रिविष्टपम् । अत्र चैवं मनोहरतरे 79 मन्मथकथापराङ्मुखा महर्षयश्चरन्तीत्याश्चर्यमेतत्80 । वयं पुनरन्यदास्पदमन्वेषयेम ।
तर्कः - देव, आलक्ष्यतामयमदूरादेव नलसेतुसन्दर्शनोत्सुक- मुनिजनगतागत विभवताण्डवितवैभवः81 पाण्ड्यदेशः । अत्र च,
सारः सारस्वतानां शठरिपुभणितिः ‘शान्तिशुद्धान्तसीमा82
मायामायामिनीभिः स्वगुणविनतिभिर्बन्धयन्तीधयन्ती ।
पारं पारम्परीतो भवजलधिभवन्मज्जनानां जनानां
प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम् ॥ ६१ ॥
प्रभावली - ६१
;
भौमम्; भूमिसम्बन्धि एवम् उक्तप्रकारेण । प्रदेश इति शेषः कथा प्रसङ्गः । मन्मथविकाररहिता इति यावत् । पाण्ड्यदेश आलक्ष्यतामित्याह — आलक्ष्यतामित्यादि । अदूरात्; समीपात् । नलकृतः सेतुः । गता- गतस्य विभवेन । कुरुकापूर्वी श्रीशठकोपमुनेः द्रामिडी श्रुतिराविर्बभूवेत्यभि
प्रायेणाह — सार इति । शान्तेः शान्तिगुणस्य राजधानी श्रोतॄणां शान्तिगुणोत्पादिकेति यावत् । शान्तशुद्धान्तसीमेति पाठे शान्तानां शुद्धाशयजन्यस्यात्यान्तस्य तत्त्वनिश्चयस्य सीमा उत्पत्तिस्थानम् आयामिनीभिः दीर्घाभिः।स्वशब्देन मायोच्यते । स्वगुणाः सत्त्वरजस्तमांसि तेषां प्रपञ्चः । अन्यत्र गुणशब्दः पाशवाची जनान् बन्धयन्तीं मायाम् प्रकृतिं प्रकृतिकार्य- कामक्रोधादीनित्यर्थः । धयन्ती; पिवन्ती, नाशयन्तीति यावत् । सारस्व- तानाम्; वाक्प्रपञ्चानाम् । सरस्वतीनां समूहः सारस्वतम् उपनिषदामित्यर्थः ।
X५८४
सारार्थप्रतिपादिका शठरिपोः शठकोपस्य भणितिः प्रबन्धचतुष्ट्यरूपा । पारम्प-
रीतः; परम्परयेति यावत् । भवजलधौ सञ्जातमज्जनानां नः पारम् ;
" सोऽध्वनः पारमाप्नोति” इत्युक्तं संसारपारभूतम् । प्रतिनियतं व्याप्तं रमायाः सन्निधानं सन्निधिर्यस्य तत् प्रत्यक् निधानम् ; आन्तरं निधिम्, " हिरण्यनिधि निहितम- क्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः " इत्याद्युक्तमन्तर्यामिरूपं निधिम् । प्रत्यक्षयेत् ; साक्षात्कारयतु । प्रार्थनायां लोट्, सम्भावनायां वा ॥ ६१ ॥
प्रभाविलासः - ६१
सार इति । सारखतानाम् ; वेदानां सारः,
“कलेरादौ जन्मयोगी शठकोप इति श्रुतः ।
मद्भक्तोऽहं भविष्यामि नेतुं द्रामिडतां श्रुतिम्॥”
इति कुरुकामाहात्म्योक्तेः । शान्तानां सिद्धान्तसीमा तत्त्वनिर्णयपारभूमिः । यद्वा शान्तरस एव सिद्धान्तः तस्य सीमाः तत्पतिपादिकेत्यर्थः सर्वत्र तत्प्रवन्धे निर्वेदरूपशान्तरसस्याभिव्यक्तेः। निर्वेदस्थायिभावः शान्तरसः इति काव्यप्रकाशे काव्यप्रकाशेरसमञ्जर्याद्यनुसारेण। परमात्मज्ञानंसर्वसङ्गपरित्यागहेतुरुत्साहः शान्त इति यदि, तथापि स सर्वत्र व्याप्नोतीति न विरोधः । शान्तिशुद्धान्तसीमेति पाठे त्वर्थः स्पष्टः । पदव्ययः शृङ्गाररसः । आयामिनीभिः दीर्घाभिः । स्वगुणविततिभिः सत्त्वादि गुणविस्तरैः ॥ बन्धयन्तीं मायां धयन्ती पिवन्ती नाशयन्तीति यावत ।
शठरिपुभणितिरिति ; द्रामि प्रबन्धः । पारम्परीतः ; पारम्पर्येण । भव जलधौ भवत् मज्जनं येषां तेषां संसारिणां जनानां पारम् उत्तरणहेतु- मित्यर्थः । प्रत्यग्रूपं निधानम् ; निधिम् । तद्विशिनष्टि - प्रतिनियतेति । अत्र सारः सार इत्यादिपदानामर्थभेदेऽप्यापातत एकार्थप्रतीतेः पुनरुक्तवदाभासो नामालङ्कारः,
“पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ "
इति लक्षणात् । अनुप्रासभेदश्च ॥ ६१ ॥
विश्वास-प्रस्तुतिः - ६२
विवेकः83 – ( सहर्षभक्ति पुलकोद्गमम् )
निरञ्जनमयं जनः किमपि नेत्रमुन्निद्रयन्-
नमस्यति शठद्विषे नरकवैरिजीवातवे ।
अगस्त्यगिरिनिम्नगासुभगवीचिकासोदर-
स्वलक्षणसरस्वतीसुरभिकेसरश्लाघिने ॥ ६२ ॥
मूलम् - ६२
विवेकः83 – ( सहर्षभक्ति पुलकोद्गमम् )
निरञ्जनमयं जनः किमपि नेत्रमुन्निद्रयन्-
नमस्यति शठद्विषे नरकवैरिजीवातवे ।
अगस्त्यगिरिनिम्नगासुभगवीचिकासोदर-
स्वलक्षणसरस्वतीसुरभिकेसरश्लाघिने ॥ ६२ ॥
प्रभावली - ६२
अयं जनः ; अहमित्यर्थः । निरञ्जनम् ; निष्कल्मषम् ; संशयादिरहित-
मित्यर्थः । किमपि नेत्रम; ज्ञानाख्यम् । उन्निद्रयन् ; उन्निद्रं विकसितं कर्तुम् । " लक्षणहेत्वोः " इति शतृप्रत्ययः । शठद्विषे; पराङ्कुशमुनये । नरक- वैरिणः कृष्णस्य जीवातवे जीवनौषधाय ’ स्वरूपं निर्विशेषम् ; गुणा न सन्ति ; विग्रहोऽपि न ; ज्ञानाश्रयत्वमपि न ; तद्व्यतिरिक्तं सर्व मिथ्या’ इति वदतां मतं स्वप्रबन्धे निरस्य स्वरूपस्य सविशेषत्वप्रतिपादनादिति भावः । अगस्त्यगिरिः मलयः, ततः प्रसृता निम्नगा ताम्रपर्णी, तस्याः सुभगानां वीचिकानां सोदरा सदृशी, स्वलक्षणा स्वस्य शठकोपस्य नाम्ना अङ्कनं चिह्नं यत्र सा, शठकोपनामाङ्कितत्वात् सरस्वत्याः, तद्वत् सुरभितैः केसरैः वकुलपुष्पैः श्लाघिने श्लाघावते ; वकुलधरमुनिरिति प्रशस्तयशस इत्यर्थः ॥ ६२ ॥
प्रभाविलासः - ६२
निरञ्जनमिति । निरञ्जनम् ; निर्दोषम् । अकज्जलमिति च व्यज्यते । किमपि नेत्रम् ; ज्ञानरूपं चक्षुः । अगस्त्य गिरिनिम्नगा ;
ताम्रपर्णी । सोदरत्वं सदृशत्वम् । स्वलक्षणत्वं परिशुद्धत्वं शठकोपपदचिह्नितत्वं वा । केसराणि वकुलपुष्पाणि ॥ ६२ ॥
विश्वास-प्रस्तुतिः - ६३
X५८५
तर्कः—84 अन्यदपि किञ्चिदिहावलोकनीयं महाराजेन ;
अग्रे पश्य वृषाचलं क्षितिभृतामग्र्यं यदग्रे हरे-
र्मञ्जीरोदकमा बिभर्ति महतीं मन्दाकिनीसम्पदम् ।
नृत्यच्चन्दनगन्धवाह नियतव्यालोलचूडाटवी-
शाखाताडितचन्द्रमश्च्युतसुधाधाराभिसंवर्धितम् ॥ ६३ ॥
मूलम् - ६३
X५८५
तर्कः—84 अन्यदपि किञ्चिदिहावलोकनीयं महाराजेन ;
अग्रे पश्य वृषाचलं क्षितिभृतामग्र्यं यदग्रे हरे-
र्मञ्जीरोदकमा बिभर्ति महतीं मन्दाकिनीसम्पदम् ।
नृत्यच्चन्दनगन्धवाह नियतव्यालोलचूडाटवी-
शाखाताडितचन्द्रमश्च्युतसुधाधाराभिसंवर्धितम् ॥ ६३ ॥
प्रभावली - ६३
अथ वृषगिरिपतेः सर्वलोकप्रसर्पिणीं दयां स्तौति - अग्र इति । यस्य वृषाचलस्य अग्रे हरेः सम्बन्धि मञ्जीरोदकं नूपुरनदी । नृत्यन्तः चन्दनवृक्षा
X५८६
येन तेन वायुना नियता व्यालोला सततचञ्चला या चूडाटवी शिरोऽरण्यानी, तस्याः शाखाभिः ताडितात् चन्द्रमसः च्युताभिः सुधाधाराभिः संवर्धितं सत् महतीं मन्दाकिनीसम्पदं बिभर्ति ॥ ६३ ॥
प्रभाविलासः - ६३
;
अग्र इति । वृषाचलम् ; वनाद्विम् । मञ्जीरोदकम् ; नूपुरनदीजलम् । " यत्र सुप्रथितनू पुरापगातीर्थमर्थितफलप्रदं विदुः” इति श्रीवत्साङ्कमिश्रोक्तेः । नृत्यता चन्दनगन्धवाहेन नियतव्यालोलाभिः चूडाटवी-
शाखाभिः ताडितात् चन्द्रमसः च्युताभिः सुधाधाराभिः अभिसंवर्धितम् । इदं मञ्जीरोदकविशेषणम् । अतिशयोक्त्यलङ्कारध्वनिः ॥ ६३ ॥
विश्वास-प्रस्तुतिः - ६४
विवेकः85 अहह, अत्र सर्वतः प्रसर्पिणी खल्वियं वृषगिरिपतेरनुकम्पा । ( साञ्जलिबन्धम् )
त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे
वहन्मूर्तीरष्टौ विहरति मृडानीपरिवृढः ।
बिभर्ति स्वाराज्यं वृषशिखरिशृङ्गारकरुणे
शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६४ ॥
मूलम् - ६४
विवेकः85 अहह, अत्र सर्वतः प्रसर्पिणी खल्वियं वृषगिरिपतेरनुकम्पा । ( साञ्जलिबन्धम् )
त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे
वहन्मूर्तीरष्टौ विहरति मृडानीपरिवृढः ।
बिभर्ति स्वाराज्यं वृषशिखरिशृङ्गारकरुणे
शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६४ ॥
प्रभावली - ६४
त्वयेति । भो दये, त्वया दृष्टः विषयीकृतः परमेष्ठी निजपदे तुष्टिं भजति । मृडानीपरिवृढः रुद्रः निजपदे त्वया दृष्टः सन् अष्टौ मूर्तीर्वहन् पञ्चभूतचन्द्रसूर्ययजमानरूपाः अष्ट मूर्तीः वहन्, अष्टमूर्तित्ववैभवं प्राप्तः विहरति । देवासुरसमरे नासीरसुभटः अग्रगामी भटः सन् शुनासीरः इन्द्रः, भो वृषगिरि- भूषणभूतवेङ्कटेशदये स्वर्गाख्यं राज्यं रक्षति ॥ ६४ ॥
प्रभाविलासः - ६४
त्वयेति । अष्टौ मूर्ती ; पञ्च भूतानि, सूर्यचन्द्रौ, सोमयाजी च । मृडानीपरिवृढ इति परिवृढशब्देन स्वामित्वमुक्तमिति न प्रयोगदोषः । पत्यादिपदप्रयोगे हि विरुद्धमतिकृद्रूपकाव्यदोषः । यद्वा महाकविप्रयोग- प्रसिद्धानां प्रयोगे न दोषः, स्वबुद्धिकल्पितानामेव तथा दुष्टत्वात् । अत एव जनकतनयाम्बिकारमणादिपदानामदुष्टत्व मित्यालङ्कारिकाः ॥ ६४ ॥
विश्वास-प्रस्तुतिः - ६५
(दक्षिणतोऽवलोक्य)
नलहस्त86 निवेशितैरुदग्रैः हिमवन्मन्दर मेरुविन्ध्यशृङ्गैः ।
हरिचक्रपदक्रमैरसीदन्नुदधेरूर्मिगणं87 रुणद्धि सेतुः ॥ ६५ ॥
मूलम् - ६५
(दक्षिणतोऽवलोक्य)
नलहस्त86 निवेशितैरुदग्रैः हिमवन्मन्दर मेरुविन्ध्यशृङ्गैः ।
हरिचक्रपदक्रमैरसीदन्नुदधेरूर्मिगणं87 रुणद्धि सेतुः ॥ ६५ ॥
प्रभावली - ६५
'
X५८७
अथ सेतुं वर्णयति नलेति । नलस्य हस्तपक्षिप्तैः पृथुभिः गिरिभिः हेतुभिः बद्धः सेतुः हरिचक्रस्य वानरसेनायाः पदविक्षेपैः असीदन अवसादमनाप्नुवन् उदधेरूर्मिङ्गणं रुणद्धि । पश्चिमभागीया ऊर्मयो यथा पूर्वभागं नायान्ति पूर्वभागीयाश्च पश्चिमभागं, तथा प्रतिबन्धको भवतीत्यर्थः ॥ ६५ ॥
प्रभाविलासः - ६५
नलेति । अदभ्रैः अनल्पैः । हरिचक्रम् वानरसमूहः । असीदन्ः अमज्जन् ॥ ६५ ॥
विश्वास-प्रस्तुतिः - ६६
(विमृश्य) नवसेतुनिबन्धनयन्त्रितधरणीधरशिखरनिकरास्फालनमुखरतरदक्षिणोदन्वदूर्मिघोषजर्झरितजानपद{जन}कर्णरन्ध्रे
नास्मिन्नपिदेशे समाधिसम्भवं सम्भावयामि । तदितः प्रागुत्तरं तु रथः प्रवर्त्यताम् ।
तर्कः - (तथा कृत्वा) देव, इयं पुनरविरलनालिकेर पङ्क्ति- परिवृतक्रमुकवनकुहलिकापरिमलानुरञ्जितपान्थजनहृदया चोलभूमिः ।
विवेकः – (88 परितोऽवलोक्य सोद्वेगम् )
इतस्त्वरितमन्यतः प्रहिणु सारथे मद्रथं
यदत्र कवयश्चरन्त्यपटुचित्तपाटच्चराः ।
द्रुतप्रचरणक्वणद् द्रुहिणसुन्दरीनूपुर-
ध्वनिप्रचयसूचनासुभगसूक्तिविष्फूर्तयः ॥ ६६ ॥
मूलम् - ६६
(विमृश्य) नवसेतुनिबन्धनयन्त्रितधरणीधरशिखरनिकरास्फालनमुखरतरदक्षिणोदन्वदूर्मिघोषजर्झरितजानपद{जन}कर्णरन्ध्रे
नास्मिन्नपिदेशे समाधिसम्भवं सम्भावयामि । तदितः प्रागुत्तरं तु रथः प्रवर्त्यताम् ।
तर्कः - (तथा कृत्वा) देव, इयं पुनरविरलनालिकेर पङ्क्ति- परिवृतक्रमुकवनकुहलिकापरिमलानुरञ्जितपान्थजनहृदया चोलभूमिः ।
विवेकः – (88 परितोऽवलोक्य सोद्वेगम् )
इतस्त्वरितमन्यतः प्रहिणु सारथे मद्रथं
यदत्र कवयश्चरन्त्यपटुचित्तपाटच्चराः ।
द्रुतप्रचरणक्वणद् द्रुहिणसुन्दरीनूपुर-
ध्वनिप्रचयसूचनासुभगसूक्तिविष्फूर्तयः ॥ ६६ ॥
प्रभावली - ६६
पाण्ड्यदेशः समाधिस्थानं न भवतीत्याह नवसेत्विति । निविडं यन्त्रिताः; बद्धाः आस्फालनेन मुखरतराः ऊर्मयः, तासां घोषेण जर्जरिताः बधिरीकृताः जानपदा जनाः यत्र देशे पाण्डये । इदं निराकरणं कुरुकापुरी- वृषगिरिव्यतिरिक्त देशविषयम् यादवाचलस्य सङ्गमस्य न??क्त्याअधिकगुणयो स्तयोरप्युपलक्षितत्वात् । इतः प्रागुत्तरम् इतः नलसेतोः । चोदयति –देवेत्यादि । परितो नारिकेलपङ्क्तिपरिवृतं यत् क्रमुकवनं, तस्य कुहलिकानां पूगमञ्जरीणां परिमलेन अनुरञ्जितं वशीकृतं पान्थजनहृदयं यया सा । तत्र '
X५८८
दोषदर्शनादुद्वेगः । इत इति । भो सारथे, इतोऽन्यत्र मद्रथं प्रेरय । तत्र हेतुमाह — यदत्र क्षुद्राः कवयश्चरन्ति । द्रुतेति ; द्रुतगमनेन क्वणत् शब्दायमानं द्रुहिणसुन्दर्याः सरस्वत्याः यन्मञ्जीरं, तद्ध्वनिसमूहसूचनया सुभगाः सूक्तिप्रसराः येषाम् । सरस्वतीमञ्जीरध्वनिसूचकसूक्तयः अपटूनामज्ञानां चित्तस्यापहारकाश्चात्र चरन्ति ॥ ६६ ॥
प्रभाविलासः - ६६
इत इति । प्रहिणु ; चोदय । डिण्डिमकवीनपदिश्याह - यदत्रेति । अपटूनां चित्तानां पाटच्चराः आकर्षकाः । तेषां गद्यपद्यादिपाठक्रममनुविडम्बयति — द्रुतेति । द्रुतप्रचरणेन क्वणन्तौ यौ द्रुहिणसुन्दर्याः सरस्वत्याः नूपुरौ तयोर्ध्वनिप्रचयस्य शिञ्जितपरम्परायाः सूचनया सुभगाः सूक्तिविष्फूर्तयः येषां ते तथोक्ताः ॥ ६६ ॥
विश्वास-प्रस्तुतिः - ६७
इह खलु संयमसिद्धिमिच्छतः पुरुषस्य सिद्धमपि विनङ्क्ष्यति । तथा च वृद्धिमिष्टवतो मूलस्यापि89 नाशवदपहास्यता90 ।
तर्कः- ( अग्रतो निर्दिश्य ) देव, कथमिह निखिलनिगम- हृदयान्तरङ्गमभङ्गुरप्रसरया भगवदनुकम्पया तरङ्गितवैभवं रङ्गमपि नावलोकयसि ?
विवेकः - ( विलोक्य) सूत, अनवरत विकसितकल्हारपरि- मलानुबन्धादुल्लो कम हिमशालिनीभिश्चोल भूपवनलहरीभिश्चुलकितसर्वेन्द्रियवृत्तिना परमापातदृष्टिविश्रान्तेन न खलु मया द्रागेव सम्यगवधारितम् । (सान्तस्तोषम् )
निरातङ्का91 रङ्गाध्युषित’ ललितोदारपुलिनां92
चिरक्लिष्टा दृष्टिचुलकयति मे चोलतटिनीम् ।
यदृच्छानिद्राणत्रियुगशयनीयद्विरसन-
प्रतिच्छायान्तर्वत्पृथुमधुरवीचीपरिगताम् ॥ ६७ ॥
मूलम् - ६७
इह खलु संयमसिद्धिमिच्छतः पुरुषस्य सिद्धमपि विनङ्क्ष्यति । तथा च वृद्धिमिष्टवतो मूलस्यापि89 नाशवदपहास्यता90 ।
तर्कः- ( अग्रतो निर्दिश्य ) देव, कथमिह निखिलनिगम- हृदयान्तरङ्गमभङ्गुरप्रसरया भगवदनुकम्पया तरङ्गितवैभवं रङ्गमपि नावलोकयसि ?
विवेकः - ( विलोक्य) सूत, अनवरत विकसितकल्हारपरि- मलानुबन्धादुल्लो कम हिमशालिनीभिश्चोल भूपवनलहरीभिश्चुलकितसर्वेन्द्रियवृत्तिना परमापातदृष्टिविश्रान्तेन न खलु मया द्रागेव सम्यगवधारितम् । (सान्तस्तोषम् )
निरातङ्का91 रङ्गाध्युषित’ ललितोदारपुलिनां92
चिरक्लिष्टा दृष्टिचुलकयति मे चोलतटिनीम् ।
यदृच्छानिद्राणत्रियुगशयनीयद्विरसन-
प्रतिच्छायान्तर्वत्पृथुमधुरवीचीपरिगताम् ॥ ६७ ॥
प्रभावली - ६७
इह ; चोलदेशे । सिद्धमपि संयमधाररूपं विनाशं प्राप्स्यति । तथाच मूलधनस्यापि नाशवत् अपहास्यता स्यात् । अङ्गुल्या निर्दिश्य श्रीरङ्गं दर्शयति- निखिलेति । निखिलोपनिषद्रहस्यमिति यावत् । तरङ्गितं वैभवम् ऐश्वर्यं यस्य
X५८९
तत् । अपिशब्देन पूज्यपूजाव्यतिक्रमः सूच्यते । चोलभूपवनसम्पद्वशीकृतदृष्टिना मया श्रीरङ्गक्षेत्रमिदमिति सम्यङ् न निश्चितमित्याह — अनवरतेति । अनुबन्धः ; सम्बन्धः । उल्लोकः ; लोकमतिक्रान्तः । लहरीभिः ; पङ्क्तिभिः । चुलकीकृतम् ; वशीकृतम् । केवलं सामान्यदर्शिना मया दृढं न विचारितम् । श्रीरङ्गं दृष्टा सान्तस्तोषम् । श्रीरङ्गमुभयतः प्रसृता कावेरी दृश्यत इत्याह- निरातङ्केति । निरातङ्का ; निःशङ्का मे दृष्टिः । रङ्गेण ; श्रीरङ्गविमानेन । चिरक्लिष्टा चोलतटिनीं कावेरीं पश्यतीत्यर्थः । कीदृशीम् ? यदृच्छया ; स्वेच्छयेत्यर्थः । निद्राणस्य त्रियुगस्य त्रियुग्मगुणकस्य श्रीरङ्गराजस्य यः शयनीयद्विरसनः, तस्य छायाभिः अन्तर्वत्नीभिः गर्भवतीभिः पृथुमधुरवीचीभिः परिवृताम् ॥ ६७ ॥
प्रभाविलासः - ६७
उल्लोकः ; लोकमतिक्रान्तः । निरातङ्केति ; शृङ्गावलोकनेन गतक्लेशा । यदृच्छा निद्राणस्य त्रियुगस्य भगवतः शयनीयस्य तल्पस्य द्विरसनस्य शेषस्य प्रतिच्छाया प्रतिबिम्बम् अन्तरासामस्तीति, ताश्च ता पृथुविमलवीचयश्च ताभिः परिगता ॥ ६७ ॥
विश्वास-प्रस्तुतिः - ६८
(साञ्जलिबन्धम् )
घनकरुणारसौघभरितां परितापहरां
नयनमहश्छटां मयि तरङ्गय रङ्गपते ।
दुरितहुताशनस्फुरितदुर्दमदुःखमषी-
मलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ६८ ॥
मूलम् - ६८
(साञ्जलिबन्धम् )
घनकरुणारसौघभरितां परितापहरां
नयनमहश्छटां मयि तरङ्गय रङ्गपते ।
दुरितहुताशनस्फुरितदुर्दमदुःखमषी-
मलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ६८ ॥
प्रभावली - ६८
X५९०
कृपाकटाक्षैर्मामवलोकयेति रङ्गिणं प्रार्थयते– घनेति । नयनकान्तिपरम्परां कटाक्षपद्धति मयि समृद्धय । कीदृशीम् ? दुरितानि पापानि, तान्येव हुताशनः, तेन स्फुरितम् उत्पादितं, दुर्दमं स्वयं नाशयितुमशक्यं यत् दुःखं, तदेव मषी काकतलेखनसाधनी, तया मलिनितः विश्वसौधः, तस्य दुरपह्नवा अपह्नो तुमशक्या वर्णसुधा लेपनसुधा । तां मयि तरङ्गयेत्यन्वयः ॥ ६८ ॥
प्रभाविलासः - ६८
घनेति । नयनमहश्छटाम् ; नेत्रकान्तिसमूहम् । दुरितमेव हुताशनः - तेन स्फुरितं सञ्जातं दुर्दमं नाशयितुमशक्यं च यत् दुःखं, तदेव मषी मालिन्यनिमित्तद्रव्यविशेषः, तेन मलिनितस्य विश्वसौधस्य दुरपह्नवा वर्णार्था या सुधा, तामित्यर्थः ॥ ६८ ॥
विश्वास-प्रस्तुतिः - ६९
अपि च,
दास्यं लास्यवतानुमत्य मनसा रङ्गेश्वर त्वत्पदे
नित्यं किङ्करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लितभ्रुणि मुहूर्दत्तावमानाक्षरे
भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां दृशम् ॥ ६९ ॥
मूलम् - ६९
अपि च,
दास्यं लास्यवतानुमत्य मनसा रङ्गेश्वर त्वत्पदे
नित्यं किङ्करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लितभ्रुणि मुहूर्दत्तावमानाक्षरे
भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां दृशम् ॥ ६९ ॥
प्रभावली - ६९
भो स्वामिन्, तवैव दास्यं करवाणि, न तु पुनः क्षुद्राणाम् । मीलचक्षुषि ;
X५९१
याचकजने समीपमागते अज्ञानं नाटयन् मीलच्चक्षुर्भवति खलः । वेल्लितभ्रुणि ; यत्किञ्चिद्याचिते बद्धभ्रूभङ्गो भवति । पुनर्याचने मुहुरवमानाक्षरं परुषं वदति । एवं वाग्भीमे कस्यचिदाढ्यकस्य अज्ञातकुलगोत्रस्य ईषत्सम्पन्नस्य, अल्पार्थे कप्रत्ययः । पूर्वोक्तविशेषणविशिष्टे वदने विषये याच्ञया विलज्जितां सतीम् । कदर्याश्रयाम् ; कदर्यः कृपणः, तद्विषयाम् । न कुर्याम् ; त्वामेव विषयीकुर्यामितिभावः ॥ ६९ ॥
प्रभाविलासः - ६९
दास्यमिति । चपलस्वभावतया मनः कदाचित् दास्यमप्यनुमनुत इत्याकूतेन लास्यवतेत्युक्तम् । तेन " त्वदङ्घ्रिमुद्दिश्य " इत्यादिन्यायेन
पुरुषार्थपर्यवसायित्वं हार्दम् । दास्यलाभेन सञ्जातहर्षतया वा लास्यवते त्युक्तिः । अत एव ’ त्वत्पदे नित्यं किङ्करवाणि’ इत्युक्तिः । कदर्याश्रयाम् ; कृपणविषयाम् । दूरदर्शने मीलच्चक्षुषि, समीपागमने वेल्लितभ्रुणि, याच्ञायां दत्तावमानाक्षरे, अथाप्यनिर्गमने भीमे इति पर्वक्रमः । उक्त- लक्षणस्य नामग्रहणमप्यनर्हमिति कस्यचिदित्युक्तम् । भिक्षाविलक्षाम् ; याच्ञाकार्पण्यविह्वलाम् । दृशं न कुर्यामित्यर्थः ॥ ६९ ॥
विश्वास-प्रस्तुतिः - ७०
( विचिन्त्य) अये सूत, अस्तु तावदिदमाद्यं स्थानम् । किमन्यदप्यावेदयिष्यसि ?
तर्कः - ( उत्तरतो निर्दिश्य ) देव, इयं पुनरिहाखण्डभुवन-
शिखण्डकायमानं तुण्डीराभिधानं मण्डलम् । अत्र च,
किमपि विबुधमुख्यैः सेवितं क्षेत्रमेत-
द्भवभयशमनार्हं भाति सत्यव्रताख्यम् ।
निजसुतहयमेधे यत्र दिव्येन पुंसा
क्षितिकलुषमशेषं क्षेप्तुमाविर्बभूवे ॥ ७० ॥
मूलम् - ७०
( विचिन्त्य) अये सूत, अस्तु तावदिदमाद्यं स्थानम् । किमन्यदप्यावेदयिष्यसि ?
तर्कः - ( उत्तरतो निर्दिश्य ) देव, इयं पुनरिहाखण्डभुवन-
शिखण्डकायमानं तुण्डीराभिधानं मण्डलम् । अत्र च,
किमपि विबुधमुख्यैः सेवितं क्षेत्रमेत-
द्भवभयशमनार्हं भाति सत्यव्रताख्यम् ।
निजसुतहयमेधे यत्र दिव्येन पुंसा
क्षितिकलुषमशेषं क्षेप्तुमाविर्बभूवे ॥ ७० ॥
प्रभावली - ७०
इदं श्रीरङ्गक्षेत्रं समाधेराद्यस्थानं भवतु । अन्यदपि द्रष्टव्यं किमस्तीति भावः । तर्हि तुण्डीरमण्डलं पश्येत्यभिप्रायेणाह - इदं पुनरिति । अखिलभुवनशिखण्डकाय मानम; शिरोभूषणायमानमित्यर्थः । शिखण्डकाः काकपक्षाश्च
X५९२
मयूराणां शिरस्युन्नतावयवाः । पुण्यक्षेत्रमस्तीत्याह — किमपीति । ब्रह्मरुद्रादिभिः सेवितम् । यत्र क्रियमाणं व्रतं सत्यं भवति, तत्सत्यव्रतम् । यत्र अशेषजगद्रक्षणाय दिव्येन पुंसा वरदराजेन आविर्बभूवे । निजसुतेन ब्रह्मणा अश्वमेधे क्रियमाणे सति । कलुषं निरसितुम ॥ ७० ॥
प्रभाविलासः - ७०
आद्यं स्थानमिति ; " आद्यं स्वयं व्यक्तमिदं विमानं रङ्गसञ्ज्ञितम् "
इति स्मारितम् । किमपीति । निजसुतस्य चतुर्मुखस्य । हयमेधे; अश्वमेधे । आविर्बभूवे; भावे लिट् । " धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः” इति स्मरणात् ॥ ७० ॥
विश्वास-प्रस्तुतिः - ७१
अयं खलु एतद्देशवासिनामन्ववायसिद्धो निर्णयः -
“आत्मैक्यं देवतैक्यं त्रिकसमधिकता93 तुल्यतैक्यं त्रयाणा-
मन्यत्रैश्वर्यमित्याद्यनिपुणभणितीराद्रियन्ते न सन्तः ।
त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यास मुख्योक्तिभिश्च
श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः “ ॥ ७१ ॥
मूलम् - ७१
अयं खलु एतद्देशवासिनामन्ववायसिद्धो निर्णयः -
“आत्मैक्यं देवतैक्यं त्रिकसमधिकता93 तुल्यतैक्यं त्रयाणा-
मन्यत्रैश्वर्यमित्याद्यनिपुणभणितीराद्रियन्ते न सन्तः ।
त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यास मुख्योक्तिभिश्च
श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः “ ॥ ७१ ॥
प्रभावली - ७१
अन्ववायसिद्धः ; वंशपरम्परासिद्धः सिद्धान्तः । आत्मैक्यमितिः जीवात्मनां परस्परैक्यम् । देवतैक्यम्; देवतानां परस्परं ब्रह्मणा च सहैक्यम् ।
X५९३
त्रिकेति ; त्रिमूर्तिभ्यः परस्य ब्रह्मणः समधिकता उत्तीर्णत्वम् । त्रयाणां ब्रह्मविष्णुशिवानां तुल्यता । त्रयाणां स्वरूपैक्यम् । त्रयाणां मध्ये अन्यत्रवा यस्मिन् कस्मिंश्चित् ऐश्वर्यम् ईश्वरता । इत्याद्यनिपुणभणितीः ; अज्ञानां वचनानि । सन्तः; वेदान्तविदः नाद्रियन्ते । तर्हि किमाद्रियन्त इत्यत्राह त्रय्यन्तैरिति । एककण्ठैः; एककण्ठतां प्राप्तैः । त्रय्यन्तैः; उपनिषद्भिः । दनुगुणाभिः मनुत्र्यासवाल्मीकि पर। शर शुकशौनकादिवाग्भिश्च सिद्धार्थस्तु
X५९४
श्रीमान्नारायण एव जीवानां स्वतः परमशेषी; अखिलाः स्वेतरसमस्तचेतनाचेतनात्मकाः शरीरं यस्य । मुक्तिदः; मुक्तेः साक्षादुपायः । मुक्तानामुपेय इति ॥ ७१ ॥
प्रभाविलासः - ७१
आत्मैक्यमिति । जीवात्मपरमात्मनामैक्यमिति राहुमीमांसकाः । देवतानामिन्द्रादीनामैक्यमिति सर्वेषां चतुर्थ्यन्तशब्दात्मकतया देवतैक्य-
मिति कबन्धमीमांसकाः । त्रिकसमधिकता; ब्रह्मविष्णुरुद्रातिरिक्तं ब्रह्मेत्युत्तीर्णब्रह्मवादिनः । त्रयाणां तुल्यतेति राजसपुराणानुसारिणः । त्रयाणा मैक्यमिति नैयायिकाः । तदुक्तम् – “ त्रिमूर्तिर्यः सर्गस्थिति विलयकर्माणि तनुते " इति । अन्यत्र ; त्रिकातिरिक्तादित्यादौ । ऐश्वर्यम् ; ईश्वरत्वमित्यादित्योपासकादयः, " असावादित्यो ब्रह्म” इत्यादिश्रुतेः, आदित्यपुराणोपबृंहणाच्च । यद्वा त्रयाणामन्यत्र अन्यतमे । चतुर्मुखः केवल इति हैरण्यगर्भाः । शिव एव केवल इति शैवाः । विष्णुरेव केवल इति माध्वाः । आदिपदेनेश्वरमनङ्गीकुर्वन्त आत्मभेदवादिनः साङ्ख्याऽदयो गृह्यन्ते । सन्तः ; विशिष्टाद्वैतिनः । त्रय्यन्तैरेककण्ठैः; मुख्यार्थापरित्यागेनैकवाक्यतां नीतैः सर्ववेदान्तैरित्यर्थः । अनेन मतान्तरेषु तत्तत्प्रतिपादनाग्रहेण वाक्यान्तराणि त्यक्तानीत्युक्तं भवति । अथोपबृंहणानुगुण्यमाह - तदनुगुणेति । " आसीदिदं तमोभूतम् " इत्युपक्रम्य ब्रह्मणो जन्मादिहेतुत्वम् " सोऽभिध्याय शरीरात् स्वात्" इत्यादिभिरभिन्ननिमित्तोपादानत्वं शरीरशरीरिभावेन सामानाधिकरण्यं चोपपाद्य " आपो नारा इति प्रोक्ताः " इत्यादिना देवताविशेषे पूर्वोक्तधर्मजातं निर्धार्य तस्य सकलकर्माराध्यत्वं तत्फलप्रदत्वं च विशेषितवान् मनुरिति तदानुगुण्योक्तिः । अनेन मनूक्तिविरुद्धानामन्यपरत्वं भ्रान्तिमूलत्वं वा वेदितव्यम्, “मनुस्मृतिविरुद्धा तु या स्मृतिः सा न शस्यते " इति भृगुस्मरणात् ।
व्यासेति । व्यासादयोऽपि भारतादिषु भगवद्वैभवमेवामनन्ति । एवं प्रमाणपौष्कल्यमुक्तम् । प्रमेयस्वरूपमाह — श्रीमानित्यादिना । तत्र " वेदेषु पौरुषं सूक्तम्” इति सकलश्रुतिसारभूतपुरुषसूक्तप्रमेयतामाह — श्रीमा- निति । अनेन माध्यमतव्यावृत्तिः । उपनिषदन्तरेषु सब्रह्मपरतत्त्वपरमात्मादिशब्दैरयमेव वेद्य इत्यभिप्रायेणाह - नारायण इति । अनेन हैरण्यगर्भ व्यावृत्तिः । " पत्यादिशब्देभ्यः " इति सौत्रभेदश्रुत्यानुगुण्यमाह – नः पतिरिति । अनेनात्मैक्य साङ्ख्यमतयोर्निरासः । घटक श्रुत्यैककण्ठ्यमाह – अखिलतनुरिति । अनेनोत्तीर्णब्रह्मवादिनिरासः । " विदुषा चिद्रथः स्तोमो यज्ञस्य राध्यो हविष्मतः ““ फलमत उपपत्तेः " इत्याद्युक्तसकलकर्माराध्यत्वं तत्फलप्रदत्वं चाह - मुक्तिद इति । मुक्तिपदं चतुर्वर्गोपलक्षणम् । अनेन कबन्धमीमांसकव्यावृत्तिः । मुक्तोपसृप्यत्वमाह मुक्तभोग्य इति ॥ ७१ ॥
विश्वास-प्रस्तुतिः - ७२
इति ।
इह च मुनिपरिषदनुगृहीतो मुक्तप्रायः कश्चिदाधित्सित-
वह्निमनुजानाति -
’ इह बहुविधिसिद्धैः शोधकैरिन्दिरेशं
प्रणिपतनमुखैश्च प्राज्यभक्तिः प्रसाद्य ।
प्रभुतरपरिपूतः94 कर्मयोग्यः प्रजाना-
मनुपधिसुहृदग्नीनाधीथा यजेथाः ’ ॥ ७२ ॥
मूलम् - ७२
इति ।
इह च मुनिपरिषदनुगृहीतो मुक्तप्रायः कश्चिदाधित्सित-
वह्निमनुजानाति -
’ इह बहुविधिसिद्धैः शोधकैरिन्दिरेशं
प्रणिपतनमुखैश्च प्राज्यभक्तिः प्रसाद्य ।
प्रभुतरपरिपूतः94 कर्मयोग्यः प्रजाना-
मनुपधिसुहृदग्नीनाधीथा यजेथाः ’ ॥ ७२ ॥
प्रभावली - ७२
X५९५
सत्यव्रतक्षेत्रे कश्विविशेषोऽस्तीत्याह इह चेति । कश्चित ; महाभागवतः । वह्नयाधानं चिकीर्षुमनुज्ञया अनुगृह्णाति । इह महाभागवतेनानुज्ञाता यजति चेत्, श्रीवरदराजस्य प्रसादन सर्वे सफलं सम्पत्स्यत इति भावः । अनुज्ञाप्रकारं दर्शयति- इति । इह ; क्षेत्रे । बहुशास्त्रसिद्धः शोधकैः; प्रायश्वित्तः । तदनु प्राज्यभक्तिः निरवधिकप्रीतिमान् । त्वम् इन्दिरेशं प्रणिपतनमुखैः; मुखशब्देन स्तुत्यादिग्रहणम् । प्रसाद्य प्रभुतरः समर्थः परिपूतश्च । यद्वा प्रभुतरम् अधिक- तर परिपूतः । अत एव कर्मसु योग्यः । अमीन; गाहपत्यादीन् । आदधीथाः ; अग्नीनामाधानं कुरु; आधानानन्तरं यज्ञं कुरु ॥ ७२ ॥
प्रभाविलासः - ७२
इहेति । बहुविधिसिद्धैः; नानाशास्त्रप्रसिद्धैः । शोधकैः ; प्राय-
श्चितैः । प्राज्यभक्तिः ; प्रभूतभक्तिः । प्रभुतरम् ; अधिकतरम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः - ७३
इति ।
विवेकः - (सहर्पत्रहुमानमञ्जलिं बद्ध्वा)
द्विरदशिखरिसीम्ना समवान्पद्मयोने-
स्तुरगसवनवेद्यां श्यामलो हव्यवाहः ।
कलशजलधिकन्यावल्लरीकल्पशाखी
कलयतु95 कुशलं नः कोऽपि कारुण्यराशिः ॥ ७३ ॥
मूलम् - ७३
इति ।
विवेकः - (सहर्पत्रहुमानमञ्जलिं बद्ध्वा)
द्विरदशिखरिसीम्ना समवान्पद्मयोने-
स्तुरगसवनवेद्यां श्यामलो हव्यवाहः ।
कलशजलधिकन्यावल्लरीकल्पशाखी
कलयतु95 कुशलं नः कोऽपि कारुण्यराशिः ॥ ७३ ॥
प्रभावली - ७३
स्वकार्यसिद्धि प्रार्थयते— द्विग्देति । द्विरदशिखरी; करिगिरिः, तस्य सीम्ना शृङ्गप्रदेशेन हेतुना सद्मवान्; हस्तिगिरिशृङ्गभवन इत्यर्थः । पद्मयोनः हयमेधवेद्यां श्यामलवर्णो हव्यवाद इव स्थितः, श्यामवर्णत्वात् तत्स्थाने प्रादुर्भूय स्थितत्वाच्च । कलाशब्देन क्षीरे लक्ष्यत । क्षीरञ्जलधेः कन्या, सैव वल्लगी विशिष्टा लता, तस्था आश्रयः कल्पवृक्षः । कोऽपि निरर्वाधिकमहिमा । कारुण्यराशिः नः पुरुषमोक्षणे प्रवृत्तानां कुशलं मङ्गलं करोतु ॥ ७३ ॥
प्रभाविलासः - ७३
द्विरदेति । कलशजलधिः; क्षीराब्धिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः - ७४
(मुहूर्तमनुचिन्त्य )
संसारावर्तवेगप्रशमनशुभ96 हग्देशिकप्रेक्षितोऽहं’
सन्त्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयं प्रार्थ्य97 संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ ७४॥
मूलम् - ७४
(मुहूर्तमनुचिन्त्य )
संसारावर्तवेगप्रशमनशुभ96 हग्देशिकप्रेक्षितोऽहं’
सन्त्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयं प्रार्थ्य97 संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ ७४॥
प्रभावली - ७४
X५९६
स्वकार्यसिद्ध्यै साङ्गं प्रपदनं करोति - संसारेति । संसारस्य आवर्तः ; पुनः पुनः भ्रमणम् । यद्वा संसार एव आवर्तः, तस्य यो वेगः, तस्य प्रशमनं शुभं च करोतीति प्रशमनशुभकृत् स चासौ देशिकश्च तेन प्रेक्षितः ; लब्धसदाचारकटाक्ष इत्यर्थः । ईदृशः अहम् अन्यैरुपायैः ; उपासनैः अधिकाराभावात् स्वयमेव त्यक्तः । अनेनाकिञ्चन्यरूपोऽधिकार उक्तः । अनुचितचरितेषु प्रतिकूलाचरणेषु शान्ताशयः । अनेन प्रातिकूल्यवर्जनमङ्गमुक्तम् । आनुकूल्यस्य सर्वभूतानुकूलतारूपत्वात् तद्विपरीतरूपप्रातिकूल्यवर्जनेन तदभिसन्धिविरामेण वानुष्ठितत्वसिद्धेः अत्रानुकूल्य सङ्कल्पकथनम् । यद्वा तदत्राप्युप-
X५९७
लक्षितम् । तत्त्वदृष्ट्या ; तत्त्वज्ञानेन ; स्वयमेव रक्षापेक्षी प्रपदनरूपव्याजे कृते सत्यस्मान् रक्षतीति ज्ञानेनेत्यर्थः । निःशङ्कः ; " कर्तव्यं सकृदेव " इति श्लोकोक्तशङ्कापञ्चकापगमात् निःसन्देहः । अनेन विश्वासाख्यं प्रधानमङ्गमुक्तं भवति । निरवधिकदयम् ; दयैव प्रधानोपाय इति द्योतनायैतदुक्तम् । त्वाम् ; सर्वरक्षकम् । प्रार्थ्य; " त्वमेवोपायभूतो मे भव” इति गोप्तृत्ववरणं कृत्वा । निजभरम् ; मोक्षायोपायानुष्ठानं कर्तव्यमिति शास्त्रविहिततया पुरुषस्योपायानुष्ठानं भरः । भो वरद, ममाप्युपायानुष्ठानरूपं भरं त्वत्पादपद्मे न्यस्य । न्यासो नाम ’ अहं भक्त्याद्युपायानुष्ठानेऽशक्तः, त्वमेवानुष्ठितोपायस्य यत्कर्तव्यं तदननुष्ठितोपायस्यापि मम कुरु’ इति प्रार्थना । निर्भरः ; भरस्य त्वयि निवेशितत्वादिति भावः । त्वय्यर्पितभरत्वादेव ’ अयमात्मा कथं भविष्यति’ इति भयरहितश्चास्मि ॥ ७४ ॥
प्रभाविलासः - ७४
संसारेति । संसारावर्तस्य वेगप्रशमनश्चासौ शुभकृद्देशिकश्च तेन प्रेक्षितः । अन्यैरुपायैः; कर्मज्ञानादिभिः । एवं कार्पण्यमुक्तम्,
“ उपाया नैव सिध्यन्ति अपाया बहुलास्तथा ।
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते ॥”
इत्युक्तत्वात् । अथ प्रातिकूल्यवर्जनमाह – अनुचितेति । अनुचितचरितेषु भूतहिंसादिषु शान्ताभिसन्धिः, “तथैव सर्वभूतेषु प्रातिकूल्यस्य वर्जनम् ’ इति स्मरणात् । अत्रानुकूल्य सङ्कल्पोऽप्यर्थसिद्धिः, “ अनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता " इति वचनात् । शङ्कापञ्चकव्यावृत्तिरूप विश्वासशालि- तामाह — निःशङ्क इति ;
" कर्तव्यं सकृदेव हन्त कलुषं सर्वे ततो नश्यति
ब्रह्मेशादिषु दुर्लभं पदमपि प्राप्यं मया द्रागिति ।
विश्वासप्रतिबन्धि चिन्तनमिदं पर्यस्यति न्यस्यतां
रङ्गाधीश रमापतित्वसुभगं नारायणत्वं तव ॥”
इत्यभियुक्तवचनात् । शरण्यत्वोपयुक्त गुणयोगमाह - निरवधिकदयमिति । प्रार्थ्येति गोप्तृत्ववरणमुक्तम् । न्यस्येति निक्षेपोक्तिः । भोग्यतातिशयज्ञाप- नार्थे पद्मग्रहणम् ।
न्यासफलमाह – निर्भय इति; " अथ सोऽभयं गतो भवति ” इति श्रुतेः । निजभरमिति रक्षाभरसमर्पणम् । निर्भर इति फलसमर्पणम् । स्वरक्षणेऽस्वतन्त्रत्वमुक्तम् । अस्मीत्याहमर्थसमर्पणम् । अत्र नृवरेत्यादिपदप्रयोगसम्भवेऽपि रक्षणप्रार्थनायां वरदेति पदस्याभिजाततया मुद्रा नामालङ्कारः,
" साभिप्रायस्य वाक्ये यद्वचसोऽभिनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ॥ "
इति लक्षणात् ॥ ७४ ॥
विश्वास-प्रस्तुतिः - ७५
W
(सूतमवलोक्य) दृष्टमेव खलु निखिलं द्रष्टव्यम् ।
तर्कः – इतश्च दीयतां दृष्टिर्देवेन । अयं किलाधिगतपरावर-‘तत्त्वयाथार्थ्यैर्महात्मभिरध्यक्षितमिव98 परमपदमनेकदेशदर्शनप्रयासपरिश्रान्तयोरावयोर्विश्रान्तिभूमिरिव भगवता स्वयमेव निर्मितो दूरा- दवलोक्यमानविकटतरहाटककूट विराजमानदश दिशावकाशः कलिबल - प्रसारितसकलसङ्कटप्रशमनो वेङ्कटाद्रिरालक्ष्यते ।
पारेभृङ्गमिहादिपुरुषपदप्रस्यन्दिपाथस्विनी-
पाथः पातपरम्पराद्भुतमहारण्ये शरण्ये सताम् ।
पारावर्यविवेकपक्त्रिमधियः सत्त्वाश्च तत्त्वं परं
पश्यन्तः प्रचरन्ति हन्त सुखिनः सर्वेऽपि निर्वैरतः ॥ ७५ ॥
मूलम् - ७५
W
(सूतमवलोक्य) दृष्टमेव खलु निखिलं द्रष्टव्यम् ।
तर्कः – इतश्च दीयतां दृष्टिर्देवेन । अयं किलाधिगतपरावर-‘तत्त्वयाथार्थ्यैर्महात्मभिरध्यक्षितमिव98 परमपदमनेकदेशदर्शनप्रयासपरिश्रान्तयोरावयोर्विश्रान्तिभूमिरिव भगवता स्वयमेव निर्मितो दूरा- दवलोक्यमानविकटतरहाटककूट विराजमानदश दिशावकाशः कलिबल - प्रसारितसकलसङ्कटप्रशमनो वेङ्कटाद्रिरालक्ष्यते ।
पारेभृङ्गमिहादिपुरुषपदप्रस्यन्दिपाथस्विनी-
पाथः पातपरम्पराद्भुतमहारण्ये शरण्ये सताम् ।
पारावर्यविवेकपक्त्रिमधियः सत्त्वाश्च तत्त्वं परं
पश्यन्तः प्रचरन्ति हन्त सुखिनः सर्वेऽपि निर्वैरतः ॥ ७५ ॥
प्रभावली - ७५
X५९८
द्रष्टव्यम् ; समाधिस्थानम् । अन्यदपि सत्त्वोत्तरं स्थानं दृश्यते, पश्ये- त्याह- इतश्चेति । महात्मभिः मुनिभिर्देवैश्च । प्रत्यक्षं परमं पदमङ्गीकृतमि- त्यर्थः । अनेकदूर परिश्रान्तयोरावयोर्विश्रान्त्यै भगवता स्वयमेव सन्दर्भित इतीव स्थितः । विकटतरं प्रकटतरं हाटकमयं काञ्चनरूपं कूटं विमानशृङ्ग, तेन भ्राजमानदशदिगन्तरः । प्रसारितं विस्तृतम् । सर्वदुःखप्रशमनो दृश्यते । दीयतां दृष्टिरिति सम्बन्धः । तत्राश्चर्यं दर्शयति– पार इति । पारशब्दोऽत्र मध्यवाची;
X५९९
शृङ्गस्य मध्ये । इह ; श्रीवेङ्कटाद्रौ । आदिपुरुषस्य पदात् प्रस्यन्दिन्याः क्षरन्त्याः पयस्विन्याः नद्याः, आकाशगङ्गाया इत्यर्थः । तस्याः पाथसो जलस्य पातः पतनं, तत्परम्परा ; प्रवाहपरम्परयेत्यर्थः। श्रयम्भूतं सतां शरण्ये महारण्ये सत्त्वाः प्राणिनः व्याधाः तियञ्जन, पारावर्यं परावरतत्त्वभावः, तस्य विवेकः यथावस्थितविभागः तेन परिपक्वा शान्ता बुद्धिः येषां ते । परतत्त्वं श्रीनिवासरूपं पश्यन्तः साक्षात्कुर्वन्तः, उत्सवयात्रास्विति भावः । निर्वैरतःग्तः गोव्याघ्रादयोऽपि जातिवँराभावेन सुखिनश्चरन्ति पश्य ॥ ७५ ॥
प्रभाविलासः - ७५
हाटकम् ; सुवर्णम् । कूटम् ; शृङ्गम् ।
“कूटं यन्त्रे नृपे राशौ निश्चले लोहमुद्गरे ।
मायाद्रिशृङ्गयोस्तुच्छे शिरोऽवयवदम्भयोः ॥”
इति विश्वः । पारेशृङ्गमिति । शृङ्गस्य पारे पारेशृङ्गम् । प्रस्यन्दिपाथस्विनी आकाशगङ्गा । पारावर्यविवेकः; ईशेशितव्यज्ञानम् । इदं च निर्वैरत्वे हेतुः, " तज्जलानिति शान्त उपासीत " " मित्रामित्रकथा कुतः "
इत्युक्तत्वात् ॥ ७५ ॥
विश्वास-प्रस्तुतिः - ७६
इह खलु कश्चिदनादिपापवासनाजलधिकुक्षिम्भरीमादिपूरुषकृपां भगवतीमनवरतमभिष्टौति-
‘मृदुहृदये दये मृदितकामहितेमहिते
घृतविबुधे निहितात्मधुरे99 मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीम् ’ ॥ ७६ ॥
मूलम् - ७६
इह खलु कश्चिदनादिपापवासनाजलधिकुक्षिम्भरीमादिपूरुषकृपां भगवतीमनवरतमभिष्टौति-
‘मृदुहृदये दये मृदितकामहितेमहिते
घृतविबुधे निहितात्मधुरे99 मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीम् ’ ॥ ७६ ॥
प्रभावली - ७६
कश्चित; महापुरुषः । जलनिधेः कुक्षिम्भरीम; शोषणीमित्यर्थः 1 भगवतीम् जगत्प्रसिद्धाम् । मृद्विति । मृदुहृदये; अनुकूलस्वरूपे । मृदित कामाः; निष्कामाः तेषां हिते । महिते; पूजिते । धृताः; रक्षिताः विबुधा
X६००
देवाः विद्वांसश्च यया । बुधेषु न्यस्तात्मभरे ; दयापरवशाः सन्तो जगद्रक्षणे प्रवर्तन्त इत्यर्थः । वृषगिरिनाथस्य वल्लभे, भवुकानां कुशलानां निधे । महतीम् ; अन्यकृपाभ्यो महत्तराम् । अतो भवस्य मूलं पापं तद्धरतीति ताम् । ते लहरीं प्रसरविशेषं मयि त्वयि न्यस्तभरे, निधेहि स्थापय ॥ ७६ ॥
प्रभाविलासः - ७६
मृद्विति । मृदितकामहिने निष्कामहितकरे । महिते; पूजिते । धृतविबुधे; पोषितदेवगणे । बुधेषु विद्वत्सु प्रपन्नेष्वित्यर्थः । निहितान्म- धुरे; विहितस्वरक्ष्वरक्षणभरे । भवुकनिधे भाग्यनिधे । “भावुकं भवुकं भव्यम्” इत्यमरः । निधेहि प्रतिवेहि प्रयच्छ । भवमूलहराम् संसारदुःखहेतुवासनानिवर्तिकां लहरीम् । अत्र दये दये हिने हिने इत्यादिना व्यञ्जनार्थद्वयपौनरुक्त्यप्रतीतेः छेकानुप्रासोऽलङ्कारः.
‘भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते ॥”
इति लक्षणात् ॥ ७६ ॥
विश्वास-प्रस्तुतिः - ७७
इति ।
अन्यदप्येतदनवरतमावर्तयति -
निषादानां नेता कपिकुलपतिः कापि शबरी
कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि100 ॥ ७७ ॥
मूलम् - ७७
इति ।
अन्यदप्येतदनवरतमावर्तयति -
निषादानां नेता कपिकुलपतिः कापि शबरी
कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि100 ॥ ७७ ॥
प्रभावली - ७७
निषादानामिति । निषादानां नेता ; गुहः । कपिकुलपतिः ; सुग्रीवः । कापि ; अज्ञातकुलगोत्रा । शबरी ; निषादी । इति; एवम्प्रकारा अन्येऽपि । अमीषाम् ; अनुक्रान्तानाम् । निम्नत्वम् ; नैच्यम् । वृषगिरिपतेः उन्नतिम् ; सर्वो-
X६०१
त्कृष्टत्वमपि । भो दये । प्रचुरैः तव स्रोतोभिः प्रचारैः सौशील्यवात्सल्यादिरूपैः । प्रसभम्; बलात्कृत्य । शेषशेषिणोरुभयोरननुमतावपीति भावः । समयमि " परमं साम्यमुपैति ” इत्युक्तरीत्या समानभोगान् करोषि ॥ ७७ ॥
प्रभाविलासः - ७७
निषादानामिति । सकलजन्तुहिंसका निषादाः, तेषां नेता
। प्रवर्तकः । कपिकुलपतिरिति चापल्यातिशयोक्तिः । शबरजातिरेव सकल- दोषमूला ; तत्राप्यज्ञातपितृमात्रादितयात्यन्तनीचत्वं कापि शबरीति दर्शि तम् । नामोच्चारणेनैव हेयता ; किं पुनः कच्चरवस्त्रग्रथितक्षुद्रधान्यपृथुकग्रहणेनेति वक्तुं कुचेल इत्युक्तम् । सा ; अनिर्दिष्टजातितया प्रसिद्धा ।
रूपतोऽपि हेयेत्याह — कुब्जेति । यासामङ्गसङ्गिसमीरणगन्धोऽपि दुःसहः, किमुत सहासनसंलापपरिहासपरिरम्भादय इति वक्तुं व्रजयुवतय इत्युक्तम् । माल्यनिर्माणेनैव तस्य स्वरूपं ज्ञातम् ; न तु जात्यादिनेति वक्तुं माल्यकृदित्युक्तिः । न केवलं स्वरूपरूपगुणविभूतिभ्य उन्नतत्वम्; किं तु स्थानतोऽपीत्याह — वृषगिरिपतेरिति । शमयसि ; शान्तिं नयसि । तेऽपि गुहादय आत्मसाम्यापादनेन भगवता कृपावशेन स्वीकृता इति भावः ॥ ७७ ॥
विश्वास-प्रस्तुतिः - ७८
”इति ।
विवेकः - ( सबहुमानमवलोक्य प्रणमति )
तर्कः – (सर्वतो निर्दिश्य)
श्रीरङ्गं वृषभाचलः करिगिरिर्दृष्टानि देव त्वया
दीव्यन्ति द्रमिडेष्वमी च कतिचिद्देशाः प्रजेशार्चिताः ।
प्रत्यग्रोदितघोरपश्चिमयुगप्रक्षोभविक्षोभके-
ष्वेतेषु क्वचिदस्तु संयमविधिस्वास्थ्यं त्रिवर्गत्यजः ॥ ७८ ॥
मूलम् - ७८
”इति ।
विवेकः - ( सबहुमानमवलोक्य प्रणमति )
तर्कः – (सर्वतो निर्दिश्य)
श्रीरङ्गं वृषभाचलः करिगिरिर्दृष्टानि देव त्वया
दीव्यन्ति द्रमिडेष्वमी च कतिचिद्देशाः प्रजेशार्चिताः ।
प्रत्यग्रोदितघोरपश्चिमयुगप्रक्षोभविक्षोभके-
ष्वेतेषु क्वचिदस्तु संयमविधिस्वास्थ्यं त्रिवर्गत्यजः ॥ ७८ ॥
प्रभावली - ७८
विश्वेति । भो दये, इति नाम; उक्तप्रकारेण । सदा विश्वस्य सर्वविधमुपकारं दुहानां त्वाम् अद्यापि ज्ञानदशायामपि अवधीरयन्तम् अनादरयन्तम् मां नाथे वृषाद्विपतौ त्वमेव समर्पय । कुत इत्यत आह ? त्वयैव बलात्कृत्य त्वयि विषये न्यस्तरक्षणभरम् ; त्वयैव त्वयि मद्भरन्यासस्य कृतत्वात् । अत आरब्धस्यान्तगमनं कुर्विति भावः ।
एवं निश्चितेष्वेतेषु स्थानेषु क्वचित्पुरुषं समाधौ स्थापयेत्याह — श्रीरङ्गमिति । श्रीरङ्गक्षेत्रम् ; वृषभाचलः सुन्दरगिरिः वेङ्कटाद्रिश्च ; करिगिरिः ;
X६०२
हस्तिशैलः, इत्येतानि स्थानानि त्वया दृष्टानि ।” नपुंसकमनपुंसकेन”इति नपुंसकलिङ्गत्वम् । अमी च; अन्ये कतिचिद्देशाः यादवाचलादयः । प्रजेशैः ब्रह्मरुद्रादिभिः पूजिताः दीव्यन्ति प्रकाशन्ते संयमस्थानतया । प्रत्यग्रेति प्रत्यग्रं यथा तथा उदितो घोरश्च यः कलियुगप्रक्षोभः कामक्रोधाद्यभिभवः, तस्य विक्षोभकेषु एतेष्ववस्थानेषु, क्वचित् तव मनोरुचिते त्रिवर्गत्यजः मुमुक्षीपुरुषस्य संयमविधिः समाधिप्रवर्तनमस्तु ॥ ७८ ॥
प्रभाविलासः - ७८
श्रीरङ्गमिति । दृष्टानीति ; " नपुंसकमनपुंसकेन " इत्यादिना नपुं-
सकनिर्देशः । प्रजेशः ; ब्रह्मा । प्रक्षोभविक्षोभकेषु ; प्रक्षोभनाशकेषु ॥ ७८ ॥
विश्वास-प्रस्तुतिः - ७९
विवेकः सूत, साम्प्रतमेव101 त्वया साम्प्रतं प्रदर्श्यते ।
स्मर्यते च मुनिभिः-
निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः ।
तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्कराणि च ॥
इति । अपि च,
परिक्रान्ता पृथ्वी प्रणिधिपदमन्विष्य बहुधा
कलिक्षोभग्रस्ते जगति न गतिः कापि सुलभा ।
अथापि द्रष्टव्यं पुनरिह किमप्यादिमयुग-
क्रियायोग्यं किञ्चित्कथमपि मया स्थानमनघम् ॥ ७९ ॥
मूलम् - ७९
विवेकः सूत, साम्प्रतमेव101 त्वया साम्प्रतं प्रदर्श्यते ।
स्मर्यते च मुनिभिः-
निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः ।
तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्कराणि च ॥
इति । अपि च,
परिक्रान्ता पृथ्वी प्रणिधिपदमन्विष्य बहुधा
कलिक्षोभग्रस्ते जगति न गतिः कापि सुलभा ।
अथापि द्रष्टव्यं पुनरिह किमप्यादिमयुग-
क्रियायोग्यं किञ्चित्कथमपि मया स्थानमनघम् ॥ ७९ ॥
प्रभावली - ७९
साम्प्रतम् ; युक्तमेव । साम्प्रतम् ; सम्प्रति । निगृहीतेति । जितेन्द्रियपुरुषः । यत्र यत्र देशे वसेत्, तत्र तत्र कुरुक्षेत्रादीनि भवन्तीति । अत्र श्रीरङ्गादिस्थानानां दूरस्थत्वात् सुगमत्वेन स्थानान्तरं द्रष्टव्यमित्याशयेनाह -
X६०३
अपिचेति । प्रणिधिस्थानमन्विष्य पृथ्वी बहुधा परिक्रान्ता मया । कापि गतिः संयमस्थानमदूरं सुगमं न सुलभा ; न लभ्यते । एवमपि आदिमयुगक्रियायोग्यम् निवृत्तिधर्मानुष्ठानयोग्यम् । अनघम्; अन्तरायरहितम्, किमपि स्थानं द्रष्टव्यम् ॥ ७९ ॥
प्रभाविलासः - ७९
परिक्रान्तेति । प्रणिधिपदम् ; ध्यानयोग्यस्थानम् । गतिः ; ज्ञानम् । ‘आदिमयुगक्रियायोग्यम्; ध्यानयोग्यम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः - ८०
सम्भवन्ति सर्वत्र श्रेयसामन्तरायाः । शमयितव्याश्च ते
सर्व निर्वोढारमेकमेव शरणमुपगच्छद्भिः । अपि च स्वयमेवाह भगवान्- " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते " इति ।
अथवा,
बहिर्भूतैरेतैर्विविध विनिपातस्थपुटितै-
र्यदृच्छासंवाद प्रचितगुणविख्यातिभिरलम् ।
प्रतिक्षिप्तावद्यं प्रवरगुणभूयिष्ठमधुना
नियच्छाम्यन्तःस्थं किमपि यमिनः संयमपदम् ॥ ८० ॥
मूलम् - ८०
सम्भवन्ति सर्वत्र श्रेयसामन्तरायाः । शमयितव्याश्च ते
सर्व निर्वोढारमेकमेव शरणमुपगच्छद्भिः । अपि च स्वयमेवाह भगवान्- " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते " इति ।
अथवा,
बहिर्भूतैरेतैर्विविध विनिपातस्थपुटितै-
र्यदृच्छासंवाद प्रचितगुणविख्यातिभिरलम् ।
प्रतिक्षिप्तावद्यं प्रवरगुणभूयिष्ठमधुना
नियच्छाम्यन्तःस्थं किमपि यमिनः संयमपदम् ॥ ८० ॥
प्रभावली - ८०
सर्वत्र ; स्थानेषु । अन्तरायाः विघ्नाः सम्भवन्ति, ते शमयितव्याश्च । कथमित्यत्राह — सर्वेति । सर्वकार्यनिर्वाहकं " मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः " इति वादिनं कृष्णमेव तदा तदा शरणं गच्छद्भिरधिकारिभिः । स्वयमेवाह ; इममर्थमिति शेषः । मामेव ; मामेकमेव
X६०४
ये एतत्सिद्धिकामाः प्रपद्यन्ते, ते मत्प्रसादात् मायां तत्तत्सिद्धिप्रतिबन्धरूपां तरन्तीति । अथ श्रीरङ्गादिबाह्यस्थानं विहाय सर्वदोषरहितमान्तरं स्थानं निश्चिनोति — अथवेति । बहिर्भूतैः; बाह्यैः नानाविधविघ्नविषमितैः यदृच्छासंवादेन क्वचिद्यादृच्छिकफलसिद्धया प्रचितगुणत्वेन अधिकगुणत्वेन विख्याति- येषां तैः स्थानैरलम् । अतः निरस्ताशेषदोषं मङ्गलविग्रहगुणभूयिष्ठम् अन्तःस्थं स्वशरीरान्तःस्थं दहराकाशरूपं किमपि स्थानं यमिनो योगिनः समाधिस्थानम् अधुना नियमयामि ॥ ८० ॥
प्रभाविलासः - ८०
बहिरिति । एतैः ; देशैः । विनिपातः ; विन्नः । संवादः कस्मिंश्चित् प्रतीते तदितरप्रतीत्य विषयत्वम् । प्रतिक्षिप्तावद्यमिति; प्राणा यामादिभिर्निरस्तदोषमित्यर्थः । यथोक्तमहिर्बुध्न्येन - " प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् " इति । याज्ञवल्क्येन च -
" यथा पर्वतधातूनां दोषान् दहति पावकः । एवमन्तर्गतो दोषः प्राणायामेन दह्यते ॥ "
इति । प्रवरगुणभूयिष्ठम् ; निरूपिताष्टदलादिभूयिष्ठम् । संयमपदम् ; भगवद्ध्यानपदं नियच्छामि । अत्रोक्तं वसिष्ठेन-
हृत्पद्मेऽष्टदलोपेते कन्दमध्यात्समुत्थिते ।
द्वादशाङ्गुलनालेऽस्मिंश्चतुरङ्गुलषण्मुखे ।
प्राणायामैर्विकसिते केसरान्वितकर्णिके ।
वासुदेवं जगन्नाथं नारायणमनामयम् ।
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ।
किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ।
श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् ।
पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ।
शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् ।
पद्मच्छविपदद्वन्द्वं परमात्मानमीश्वरम् ।
प्रभाभिर्भासयद्रूपं परितः पुरुषोत्तमम् ।
मनसालोक्य देवेशं सर्वभूतहृदि स्थितम् ।
सोऽहमात्मनि विज्ञानं ध्यानं तत् सगुणं स्मृतम् ॥
इति ॥ ८० ॥
विश्वास-प्रस्तुतिः - ८१
मूलं नास्ति
किञ्च,
पुरुषस्य पुराणस्य पुंसश्च शरणार्थिनः ।
अपृथक्सिद्धयोरेकमदूष्यं स्थानमान्तरम् ॥ ८१ ॥
मूलम् - ८१
मूलं नास्ति
किञ्च,
पुरुषस्य पुराणस्य पुंसश्च शरणार्थिनः ।
अपृथक्सिद्धयोरेकमदूष्यं स्थानमान्तरम् ॥ ८१ ॥
प्रभावली - ८१
X६०५
पुराणस्य पुरुषस्य ; शरीरिणः । शरणार्थिनः पुंसः ; शरीरभूतस्य च । अपृथक्सिद्धयोः एकं साधारणम् आन्तरं स्थानम् ; उभयोरपि हृदयस्थान- त्वात्, “गुहां प्रविष्टौ परमे परायें " इत्यादेः ॥ ८१ ॥
प्रभाविलासः - ८१
हृदयपुण्डरीकस्य सौकर्यान्तरमाह - पुरुषस्येति । अपृथक्सिद्धयोः ; शरीरशरीरिभावेनाविनाभूतयोः ॥ ८१ ॥
विश्वास-प्रस्तुतिः - ८२
इदमपि सारथे, मन्वीथाः-
शुद्धाचारतपोवनैकनियतः प्रज्ञानशैलाश्रयः
पद्माकान्तपदस्पृहासुरनदीनित्याभिषेकोज्ज्वलः ।
अध्यात्मश्रुतिचिन्तनेन तपसा निर्धूतदोषः पुमान्
कस्मै कुत्र गमिष्यति102 स्थितमिदं कस्मै च निर्देक्ष्यति ॥ ८२ ॥
मूलम् - ८२
इदमपि सारथे, मन्वीथाः-
शुद्धाचारतपोवनैकनियतः प्रज्ञानशैलाश्रयः
पद्माकान्तपदस्पृहासुरनदीनित्याभिषेकोज्ज्वलः ।
अध्यात्मश्रुतिचिन्तनेन तपसा निर्धूतदोषः पुमान्
कस्मै कुत्र गमिष्यति102 स्थितमिदं कस्मै च निर्देक्ष्यति ॥ ८२ ॥
प्रभावली - ८२
पुनरपि बाह्यस्थानगमने प्रयोजनाभावादान्तरमेव वरमित्याह - इदमित्यादि । इदम् वक्ष्यमाणमपि । शुद्धः सदाचार एव तपोवनं, तदेकनियतः । प्रकृष्टज्ञानम्; जीवपरमात्मयथावस्थितज्ञानं; तदेव तपोवनशैलः, तदाश्रयः । पद्माकान्तस्य पदयोः स्पृहा, सैव सुरनदी । उपनिषदर्थचिन्तनमेव तपः ; तेन निरस्तदोषः । एवं तपोवनादीनां स्वस्मिन्नेव सम्भवान्न कुत्रापि गन्तव्यमित्याह — कस्मै इत्यादि । कस्मै ; प्रयोजनाय । कुत्र ; स्थाने बाह्ये । स्थितमिदम् ; आत्मनि विद्यमानं तपोवनादिकम् । कस्मै वा पुरुषाय वक्ष्यति । न कस्मैचिद्वक्तव्यमिति भावः ॥ ८२ ॥
प्रभाविलासः - ८२
शुद्धेति । कस्मै प्रयोजनाय । स्थितम् ; अवस्थानम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः - ८३
अपि च,
गङ्गासेतुसरस्वतीरविसुतागोदावरीनर्मदा-
तुङ्गाशोणमरुद्द्धाप्रभृतिभिस्तीर्थैरलं प्रार्थितैः ।
नित्यासन्नमशेषतापशमनं’103 निःश्रेयसप्रापकं
ग्रीष्मे शीतमिव हृदं बहुगुणं ब्रह्म प्रविष्टो मुनिः ॥
तद्वयं शुभाश्रयनिर्धारणेन धारणादिकक्ष्यासु विशदतमां वृत्तिं पुरुषस्य विभावयामः ।
( इति ससूतो निष्क्रान्तः )
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ता- चार्यस्य कृतिषु सङ्कल्पसूर्योदये स्थानविशेषसङ्ग्रहो नाम षष्ठोऽङ्कः ।॥ ८३ ॥
मूलम् - ८३
अपि च,
गङ्गासेतुसरस्वतीरविसुतागोदावरीनर्मदा-
तुङ्गाशोणमरुद्द्धाप्रभृतिभिस्तीर्थैरलं प्रार्थितैः ।
नित्यासन्नमशेषतापशमनं’103 निःश्रेयसप्रापकं
ग्रीष्मे शीतमिव हृदं बहुगुणं ब्रह्म प्रविष्टो मुनिः ॥
तद्वयं शुभाश्रयनिर्धारणेन धारणादिकक्ष्यासु विशदतमां वृत्तिं पुरुषस्य विभावयामः ।
( इति ससूतो निष्क्रान्तः )
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ता- चार्यस्य कृतिषु सङ्कल्पसूर्योदये स्थानविशेषसङ्ग्रहो नाम षष्ठोऽङ्कः ।॥ ८३ ॥
प्रभावली - ८३
सदाध्यायिनः पुंसो गङ्गादिसर्वतीर्थप्रार्थनैरलमित्याह — अपिचेत्यादि । रविसुता; कालिन्दी | मरुदृधा ; कावेरी । तीर्थप्रार्थना मास्त्वित्यर्थः । कस्येत्याकाङ्क्षायामाह - नित्यासन्नमिति । सदा समीपस्थम् । गङ्गायाः दूरे वर्तमानाः कतिपयपापशमनाश्चेति भावः । ग्रीष्मे शीतमिव हृदमिति श्रुतिप्रतीकग्रहणम् । " एष ब्रह्म प्रविष्टोऽस्मि " इति पूर्वचरणम् । बहुगुणम् ; तीर्थान्त- रेभ्योऽप्यधिकगुणयुक्तम् । ग्रीष्मकाले शीतं हृदमिव स्थितम् । हृदाधिकगुणमाह - बहुगुणमिति । अशेषपापशमनत्वादिगुणं ब्रह्महृदं प्रविष्टः किलायं मुनिः । यतोऽयं ब्रह्महृदं प्रविष्टः, अतस्तस्य बाह्यतीर्थैरलमिति भावः
तदिति । तत्; तस्मात् समाधिस्थानस्य निर्धारितत्वात् । इतः परं शुभाश्रयस्य ध्येयवस्तुनो निर्धारणेन । अनेनोत्तराङ्कार्थः सूच्यते । धारणादि- कक्ष्यासु ; धारणाध्यानसमाधिरूपयोगपर्वसु । पुरुषस्य स्पष्टतमां वृत्ति सम्पाद- याम इति ।
इति श्रीनृसिंहराजाचार्यकृतसङ्कल्पसूर्योदयव्याख्यायां प्रभावल्यां स्थानविशेषसङ्ग्रहो नाम षष्ठोऽङ्कः । ॥ ८३ ॥
प्रभाविलासः - ८३
गङ्गेति । ग्रीष्मे शीतमिवेति ; अनेन,
“एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम् ।
शमामि परिनिर्वामि सुखमासे च सर्वदा ॥”
इति स्मारितम् ।
इत्यात्रेयाहोबिलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने
स्थानविशेषसङ्ग्रहो नाम षष्ठोऽङ्कः ।॥ ८३ ॥
-
निर्युक्त पशवः इति पठित्वा “यूपे पशुं " इति विधिनियमेन निर्युक्ताः बद्धा इति यावत् — इति केषाञ्चित् व्याख्यान्तरम् ↩︎ ↩︎
-
श्रीरामषडक्षरीमिति साम्प्रदायिकोऽर्थः ↩︎
-
उशिक्क्षयाः, रम्यवसतय इत्यर्थः । ↩︎
-
आरूढः —ख ↩︎
-
दृप्यन् इति प्रभावली पाठः ↩︎
-
आरूढिं —क,ख ↩︎
-
प्रतिपद्यते ↩︎
-
अत्र चेटिका कुचतदीदृष्टान्तेन खलानामव्यवस्थितप्रवृत्तित्वं गम्यते, ↩︎ ↩︎
-
कुहना मायाख्या वेताली । ब्रह्मणस्तन्मुखे निपतनं नाम तदाक्रान्तत्वात् चिदात्मत्वरूप स्वरूपनाशः ↩︎
-
कचग्रहविचक्षणः इत्यपि कचित् पाठः । कूपे निमज्जतः पुरुषस्य जलोपरि दृश्यमानानां कचानां तदोपरिस्थितैर्ग्रहणं हि लोकानुभवसिद्धम् । ↩︎
-
क, ख and छ read this verse after the next verse अग्रे पश्य etc. ↩︎ ↩︎
-
शमयसीति प्रभाविलासपाठः । एतच्छलोकानन्तरमधो निर्दिष्टः श्लोकः प्रभावल्यनु- सारेण मूलेऽधिकः पठनीयः - विश्वोपकारमिति नाम सदा दुहाना मद्यापि देवि भवतीमवधीरयन्तम् । नाथे निवेशय वृषादिपतौ दये त्वं न्यस्त स्वरक्षणभरं त्वयि मां त्वयैव ॥ ↩︎ ↩︎