०५ दम्भाद्य्-उपालम्भः

विश्वास-प्रस्तुतिः - १

(ततः प्रविशति दम्भः कुहना च)

दम्भः - अहह अरे,1 त्वां धर्मपत्नि, कुहने सम्बोधयामि2 । त्वं हि मे तारेव बृहस्पतेः, अहल्येव गौतमस्य, अस्पृष्टपुरुषान्तरा क्षणविरहाक्षमा सहधर्मचारिणी ।
X४४९

कुहना — जं बम्हणेसरो भइ । तह वि लज्जेमि णिहि- टूट्ठादो णिदंसणादो । अरुन्धई विअ वसिट्ठस्सेत्ति वअणिज्जं घरसामिणा । जाहे अहअं3 तकरेहिं, किदवेहिं, गामणीहिं, 2 णरिं-4 दामश्चेहिं, पासण्डीहिं, अण्णेहिं वि तारिसेहिं पत्थिज्जह्मि,5 ताहे6 विता7 तुमम् एव्व सुमरिऊण सेवामि ।

(यद्ब्राह्मणेश्वरो भणति । तथापि लज्जामि निर्दिष्टान्निदर्शनात् । अरुन्धतीव वसिष्ठस्येति वचनीयं गृहखामिना । यदाहं तस्करैः कितवैर्ग्रामणीभिः नरेन्द्रामात्यैः पाषण्डिभिरन्यैरपि तादृशैः प्रार्थि- तास्मि तदापि तान् त्वामेव स्मृत्वा सेवे ।)

दम्भः – (सान्तर्हासम्) अत एव सर्वलोकपतिव्रता खल्वसि ।
अद्य8 पुनरनुगतानपि मे गार्हपत्यादीन् यतः कुतश्चनानीतैरपि9 शुष्मभिः समादधानया10 यज्ञपत्न्या त्वया न कदाचिदपि मामकमग्निहोत्रं विच्छिद्यते । पर्वकालेषु चानाविष्कृतपुष्पया त्वया दर्शपूर्णमासौ च नित्यमनुवर्तेते । निर्वर्त्यते च पिण्डपितृयज्ञादिकम् । का कथा प्रायश्चित्तस्य ?

कुहना - सन्तं पावं सन्तं पावम् । जाअम्मि खु11 विच्छे- अम्मि12 समाहणिज्जम् । ण खु काहे वि अम्हघरे अग्गिणं विच्छेओ । पसण्णाहिं खु कुलदेवदाहिं13 णिचं रक्खिज्जन्ति अम्हाणं
X४५१

अग्गिणो । तह उप्पण्णं खु पुप्फम् अणाविक्खरणिज्जम् । पत्तो वि अ14 पव्वसु ताहिम् एव्व15 कुलदेवदाहि विलम्बिअदि पुप्फसमओ ।

(शान्तं पापं शान्तं पापम् । जाते खलु विच्छेदे समाधानीयम् । न खलु कदाप्यस्मद्गृहेऽग्नीनां विच्छेदः । प्रसन्नाभिः खलु कुलदेवताभिर्नित्यं रक्ष्यन्ते अस्माकमग्नयः । तथा उत्पन्नं खलु पुष्पमनाविष्करणीयम् । प्राप्तोऽपि च पर्वसु ताभिरेव कुलदेवताभिर्विलम्ब्यते

पुष्पसमयः ।)

दम्भः - साधु कुहने, साधु । अस्मत्सहधर्मचारिणी खल्वसि । बहुमन्ये त्वां ब्राह्मण्यप्रतिष्ठापिकां यज्ञपत्नीं परमश्रोत्रियपुत्रीम् । नित्यमेव खल्वशनायोदन्याभ्यामातुरस्य मे हरिवासरेषु मृष्टमपि भोजनमनाविष्कुर्वाणया स्वया प्राप्यते द्वादशीव्रतम् ; 16 प्रख्याप्यते च प्रतिगृहं साधनसम्पत्तिश्रमेण । किन्तु किञ्चिद्रहस्यमुपदिशामि - सन्तीदानीमन्तिमयुगभूमिकाभेदा17 इव’ केचिदव-
धीरितसकलधर्माः18 प्रव्रजितवेषभाजः प्रकटितमायाविलासाः पूर्वदेवाः । ते च रावणधनञ्जयन्यायेन भवतीं विघृक्षेयुः । अतो19 मत्समीपं कदाचिदपि नातिवर्तेथाः । न च परमब्राह्मणं मां मुहूर्तमपि20 त्वदन्ये21 परिचरितुमर्हन्ति । अहं पुनरधुना दिव्यादिव्य- सर्वभोग22 सार्वभौमस्य राज्ञो महामोहस्यानुचितमाचरन्तमाततायिनं
X४५३

विवेकमभिचरितुं देव्या दुर्मत्या प्रार्थितोऽस्मि ; यथा—वत्स दम्भ, विश्वधर्मोपप्लावकेन त्वया विवेकः प्रध्वंसनीय इति । ततश्चाहं नित्यनिःस्पृहोऽपि दाक्षिण्यपरवशतया23 षट्स्वनभिचरन् पतेत् " इति महर्षिशासनं24 चानुवर्तमानः कामप्यलक्ष्यां देवतामारिराधयिषुरास्थितनियमोऽस्मि । तन्मे दिव्यगङ्गाजलाप्लुतलोकपालपुरोहितोपनीतानि पारिजातपुष्पफलादीन्युपाहर25

कुहना -हद्धि हद्धि; सअलाअमसारग्गहणविसारओ विवेओ समदमप्पमुहेहिम् अमच्चजणेहिं26 संरक्खिओ कहम् अहिअरिज्जइ ? तारिसेसु पउत्तो अहिआरो कत्तुणो एब्व बाहम् आवहत्तित्ति सुणीअइ ।

( हा धिक् हा धिक् ; सकलागमसारग्रहणविशारदो विवेकः शमदमप्रमुखैरमात्यजनैः संरक्षितः कथमभिचर्यते ? तादृशेषु प्रयुक्तो- Sभिचारः कर्तुरेव बाधामावहतीति श्रूयते ।)
दम्भः - अयि मुग्धब्राह्मणि, अविचारितास्मद्वैभवा किं भाषसे ?

विद्याश्चतुष्कसहिता विदिता द्विसप्त

क्षिप्रं चतुर्गुणितचन्द्रकलाः कलाच ।

काले च साधु विहिताः क्रतवः सहस्रं

धर्मध्वजाश्च27 भुवनेषु मया निबद्धाः28 ॥ १ ॥

मूलम् - १

प्रभावली - १

पञ्चमाङ्के तु दम्भकुहनयोः संवादः ; दर्पेण जगतो धिक्कारः ; दर्पच्छात्र- तान्तरप्रवर्तनम् ; गर्वमिथ्याचारयोः कलहः ; गङ्गायमुनयोर्मध्यदेशीयदाम्भिकवर्णनम् ; गर्वेण दम्भाश्रमद्वार्यसूयाकलहः ; असूयया च जगदपहासः ; गर्वासूययोः कलहः ; तयोर्धर्मसङ्कटप्रश्नार्थं दम्भोपसर्पणम् ; दम्भगर्वयोः परस्परधिक्कारः ; अथ दम्भादीनामन्योन्यप्रत्यभिज्ञानम् ; महामोहदुर्मतिभ्यां कामादिव्यूहभङ्गश्रवणम् ; महामोहविकत्थनम् ; तेन चार्वाकमतोपबृंहणम् ; दम्भादिभ्यः कामाद्यवस्थाश्रवणम् ; दम्भदर्पावनुज्ञाप्य मोहेन प्राणाग्निहोत्र परिपालनम् ; काम- क्रोधादिम्यः सप्तभ्यः सप्तमुक्तिक्षोत्राधिकारदानमित्येतानि वर्ण्यन्ते । ततः प्रविशतीति । दम्भः; धर्मध्वजत्वं, केवललिङ्गवृत्तित्वम् । कुहना ; कापट्यं, वञ्चनेत्यर्थः । अत्यद्भुते । अरे इति कुहनासम्बोधनम् । सदृष्टान्तं विपरीत- लक्षणया प्रशंसति -त्वं हीति । बृहस्पतेः पत्नी तारा चन्द्रमभिससार । अहल्या
चेन्द्रम् । जं- यत् । बम्हणेसरो - ब्राह्मणेश्वरः । भणइ-भणति । भवानिति शेषः । तत्तथेति शेषः । तह वि-तथापि । लज्जेमि लज्जामि । णिद्दिठ्ठादो - निर्दिष्टात् । णिदंसणादो - निदर्शनात्; तारेव बृहस्पतेरित्यादितः । अरुन्धई विअ अरुन्धतीव । वसिठस्सेत्ति वसिष्ठस्येति । वअणिज्जं वचनीयम् । घरसामिणा - गृहस्वामिना ; त्वयेति शेषः । जाहे यदा । अहअम् अहम् । तक्करेहिं - तस्करैः । किदवेहिं- कितवैः । गामणीहिं-प्रामणीभिः । णरिन्दा मच्चे हिं- नरेन्द्रामात्यैः । पासण्डीहिं- पाषण्डिभिः । अण्णेहिं - अन्यैः । वि-अपि । तारिसेहि तादृशैः । पत्थिज्जह्नि- प्रार्थितास्मि । ताहे तदा । वि-अपि । ता-तान् । तुमम् एव्व त्वामेव । सुमरि- ऊण स्मृत्वा । सेवामि- सेवे । सर्वलोकेषु पतिव्रता; सर्वलोकस्य सर्वजनस्य

X४५०
पतिव्रतेति परिहासोक्तिः । अनुगतान्; शान्तान् विच्छिन्नानित्यर्थः । शुष्मभिः ; अग्निभिः । समाधानया; समाधानं कुर्वाणया । अनाविष्कृतपुष्पया; अप्रकाशितार्तवया । दर्शपूर्णमासौ इष्टी । निर्वर्त्यते ; समाप्यते । पिण्डपितृयज्ञः ; पैतृकं कर्म । एवं सति का कथा ; कः प्रसङ्गः । सन्तं पावं शान्तं पापमिति द्विः आअम्मि खु-जाते खलु । विच्छेअम्मि विच्छेदे । समाहणिज्जं समाधानीयम् । ण खुन खलु । काहे वि कदाचिदपि । अम्हघरे - अस्मद्गृहे । अग्गिणं- अग्नीनाम् । विच्छेओ - विच्छेदः । पसण्णाहिं प्रसन्नाभिः । खु खलु । कुल- देवदाहिं - कुलदेवताभिः । णिश्च नित्यम् । रक्खिजन्ति रक्ष्यन्ते । अह्माणं-
;

अस्माकम् । अग्गिणो- अग्नयः । तह तथा । उपण्णं खु-उत्पन्नं खलु । पुप्फूं- पुष्पम् । अणाविक्खरणिज्जं - अनाविष्करणीयम् । पत्तो वि अप्राप्तोऽपि च । पव्वसु-पर्वसु । ताहिम् एव्व - ताभिरेव । कुलदेवदाहिं - कुलदेवताभिः । विलम्बि- अदि- विलम्ब्यते । पुप्फसमओ-पुष्पसमयः । साधु शोभनमित्यर्थः । दम्भपत्नी खल्वसीत्यर्थः । ईदृश्यास्तवेदृशमनृतं युक्तमिति भावः । बहु मन्ये ; सम्भावयामि । परमश्रोत्रियस्य पुत्रीम् ; परं केवलमश्रोत्रियपुत्रीमिति परिहासपक्षे । उत्तरेष्वपि वाक्येषु पक्षे परिहासोक्तिरपि ध्वन्यते । नित्यमेव खल्वियादि । अशनाया ; भोजनेच्छा । उदन्या ; पिपासा । हरिवासरेषु ; काशीति

X४५२
स्वादु । अनाविष्कुर्वाणया; दानमप्यप्रकाशयन्त्या । त्वया हेतुभूतया । मया द्वादशीव्रतम् ; उपवासनियमः प्राप्यते । त्वया वा द्वादशीव्रतं प्राप्यते, मत्परिचर्ययेति भावः । प्रख्याप्यते ममोपवासव्रतं गृहे गृहे अव्रतघ्नसाधनसम्पादनव्याजेन । किन्तु ; तथापि । रहस्यं वदामि । सन्तीत्यादिना । अन्तिमयुगस्य ; कलियुगस्य । भूमिकाभेदाः ; अवान्तररूपाणि । व्यक्तसकलवैदिकधर्माः प्रव्रजिताः; सन्न्यासिनः । प्रकटितमायाविलासाः ; इदं जगत्सर्वं मायाया विलासः मिथ्येत्ययमर्थः प्रकटितो यैः । पूर्वदेवाः ; सुरद्विषः । रावणधनञ्जयन्यायेन ; रावणः सीतामपहृतवान् ; धनञ्जयोऽर्जुनः सुभद्राम् ; तन्न्यायेन । त्वा ग्रहीतुमिच्छेयुः । नातिवर्तेथाः ; अतिक्रम्य मा गाः । न चेति । परमब्राह्मणम् ; उत्कृष्टब्राह्मणम् । परम् अब्राह्मणमिति परिहासपक्षे । त्वत्तोऽन्ये । अन्यैः परिचरणानर्हत्वं ख्यापयन् स्वस्योत्तर कृत्यमाह – अहं पुनरित्यादिना । दिव्यो भोगः ; स्वर्गादिभोगः । अदिव्यस्तु ; मानुषः । सर्वभोगरूपा सर्वा भूमिर्यस्य स सार्वभौमः । अनुचितम् ; अनभिमतम् ।
आततायिनम् ; वधोद्यतत्वादिति भावः । प्रार्थनाप्रकारमभिनीय दर्शयति— यथेति । सर्वधर्मनाशकेन त्वया । दाक्षिण्यमवर्जनीयमिति बुद्धया । षट्सु ; " अग्निदो गरदश्चैव " इत्याद्युक्तेषु पुरुषेषु अभिचारमकुर्वन् पतेत् । कामपि ; अनिर्वाच्याम् । आराधयितुमिच्छुः अङ्गीकृतव्रतनियमोऽस्मि । तत्; तस्मात् । पुरोहिताः ; बृहस्पत्यादयः । उपाहर; समीपं प्रापय । हृद्धि; हा धिक् । अभिचारस्य विवेकविषयत्वात् " प्रत्यगेनमभिचारस्तृणुते " इति भीत्या हा धिगित्युक्तिः । तदेव प्रकाशयति–सअलेति । सअलाअमसारग्गद्दणविसारओ- सकलागमसारग्रहणविशारदः । विवेओ -विवेकः । समदमप्पमुहेहिं शमदम-

1

X४५४

प्रमुखैः । अमचजणेहिम् अमात्यजनैः । संरक्खिओ संरक्षितः । कहं कथम् । अहिअरिज्जइ- अभिचर्यते । तारिसेसु तादृशेषु । पत्तो - प्रयुक्तः । अहिआरो- अभिचारः । कन्तुणो एव्व कर्तुरेव । बाहं बाधाम् । आवहतित्ति आवहतीति । सुणी अहि श्रूयते । स्वविद्याचारवैभवमावेदयति - विद्या इति । चतुष्कसहिताः ; आयुर्वेदाद्युपवेदसहिताः । द्विसप्त विद्याः ; " अङ्गानि वेदाश्चत्वारः" इत्युक्ता - चतुर्दश विद्याः । चन्द्रकलाः ; षोडश । ताश्चतुर्गुणिताः चतुःषष्टिर्भवन्ति । ताः कलाश्च क्षिप्रं मया अधीताः । तत्तत्काले सहस्रम् ऋतवः मया साधु विहिताः । धर्मध्वजाः- धार्मिक इति प्रसिद्धयर्थं निबद्धा ध्वजाः ॥

॥ १ ॥

प्रभाविलासः - १

तत इत्यादि । " दम्भो धर्मध्वजाश्रयः " इति नहुषप्रश्ने ।
सर्वलोकपतिव्रता; सर्वेषु लोकेषु पतिव्रता । सर्वजनवल्लभेति च गम्यते ।
" लोकस्तु भुवने जने" इत्यमरः । शुष्मभिः ; अग्निभिः । पुष्पम् ; रजः । परमिति पदच्छेदेन व्यङ्ग्यार्थः सर्वत्र द्रष्टव्यः । पूर्वदेवाः ;
सुरद्विषः । षट्स्वनभिचरन् पतेदिति ; " अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः" इत्याद्युक्तेष्वाततायिषु प्रकृते क्षेत्रहारित्वमभिप्रेतम् । श्रूयते
इति ; " प्रत्यगेनमभिचारस्तृणुते " इति श्रुतेः । विद्या इति । चतुष्क-

सहिताः द्विसप्त विद्याः अष्टादश विद्या इत्यर्थः ।

" अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रं च विद्या ह्येताश्वतुर्दश ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् ।

अर्थशास्त्रं परं तस्माद्विद्याद्यष्टादश स्मृताः ॥
X४५५

इत्युक्तत्वात् । चतुर्गुणितचन्द्रकलाः ; षोडशकलानां चतुर्गुणने चतुः- षष्टिर्भवति । ताश्चेतिहासादयः । तदुक्तम्

" अथेतिहासागमौ च काव्यालङ्कारनाटकम् ।

गायकत्वं कवित्वं च कामशास्त्रं दुरोदरम् ।

देशभाषा लिपिज्ञानं लिप्तिकर्म च वाचनम् ।

सर्वाणि चापदानानि सर्पशास्त्रं तु शाकुनम् ।

सामुद्रिकं रत्नशास्त्रं रथाश्वगतिकौशलम् ।

मल्लशास्त्रं सूदकर्म भूरुहाणां च दोहदम् ।

गन्धवादो वातुवादः खन्या वादो रसस्य च ।

जालवादोऽभिसंस्तम्भः खड्गस्तम्भो जलस्य च ।

वाचः स्तम्भो वयः स्तम्भो वश्याकर्षणमोहनम् ।

विद्वेषणोच्चाटनं च मारणं कालवञ्चनम् ।

पयसि प्लवचातुर्य पादुकानिधिरेव च ।

वाक्सिद्धिर्गुडिकासिद्धिरैन्द्रजालकमेव च ।

अञ्जनं परदृष्टेस्तु वञ्चनं स्वरवञ्चनम् ।

मणिमन्त्रौषधानां च सिद्धयश्वोरकर्म च ।

चित्रलोहाश्ममृद्दारुवेणुचर्माम्बरक्रियाः ।

अदृश्यकरणी दूतिकरणी मृगया रतिः ।

वाणिज्यं पाशुपाल्यं च कृषिरासवकर्म च ।

लावकुक्कुटमेषादियुद्धकारणकौशलम् ।

चतुःषष्टिकलाश्चैताः कलाविद्भिः प्रकीर्तिताः ॥

इति ॥ १ ॥

विश्वास-प्रस्तुतिः - २

अयि परमधार्मिकसहधर्मचारिणि, आस्तामिदं तावद्विद्याचारमाहात्म्यम् । निःस्पृह त्वमपि मे निपुणमवधारय ।

निर्जित्य क्षितिमण्डलं भृगुपतिर्मह्यं प्रदातुं पुनः

प्रह्वः प्रार्थयत न्यषेधि च मया विश्वं तृणीकुर्वता ।

अस्मद्वैभवदृष्टिसम्भृतचमत्कारैरमर्त्येश्वरै-

र्दत्तौ धिक्कृतवानहं शमधनः स्वर्गापवर्गावपि ॥ २ ॥

मूलम् - २

प्रभावली - २

परमधार्मिकसहधर्मचारिणीति ; अत्रापि परिहासपक्षे पदच्छेदभेदः । निःस्पृहत्ववैभवं शृण्वत्याह - निःस्पृहत्वमपीति । निर्जित्येति । भृगुपतिना दत्तं भूमण्डलं तिरस्कृतम् । देवैर्दत्तौ स्वर्गापवर्गावपि मया त्यक्तावित्यर्थः ॥ २ ॥

प्रभाविलासः - २

X४५६
भृगुपतिः; परशुरामः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

कुहना - (सविमर्शम् ) एवं णाम मह पहावाणं तुम्हाणं विवेआहिआरो किं सेणो अण्णारिसो वा जो वि को वि ? जत्थ अहं सहधम्मआरिणी होम्मि ।

( एवं नाम महाप्रभावाणां युष्माकं विवेकाभिचारः किं श्येनः अन्यादृशो वा योऽपि कोऽपि ? यत्राहं सहधर्मचारिणी भवामि ।)
दम्भः - अयि महाश्रोत्रियधर्मपत्नि, महानुभावानामप्यस्मदन्तेवासिनामत्यन्तरहस्यमिदमावेदयामि । सखीभ्यस्तृष्णादिभ्योऽपि नैतद् ब्रूयाः । न खलु श्येनादिवद्विशेषतो विहितोऽयमभिचारः । किन्तु,

ये तु धर्मतयाधीतास्ते सर्वे मत्परिग्रहात् ।

अविशेषेण गच्छन्ति विवेकस्याभिचारताम् ॥ ३ ॥

मूलम् - ३

प्रभावली - ३

एव्वं णाम महन्पहावाणम् एवं नाम महाप्रभावाणाम् । तुम्हाणं- युष्माकम् । विवेआहिआरोः विवेकाभिचारः । किं सेणो कि श्येनः । " श्येनेनाभिचरन् यजेत" इत्युक्तेः । अण्णारिसो वा अन्यादृशो वा । जो वि-योऽपि । को वि-कोऽपि । त्वया किमर्थ पृच्छयत इत्यत्राह – जत्थ इति । जत्थ-यत्र । अहं सहधम्मआरिणी - सहधर्मचारिणी । होम्मि-

X४५७
भवामि ; भविष्यामीत्यर्थः । महाश्रोत्रियधर्मपत्नीत्यत्रापि अत्यन्तमश्रोत्रियधर्मपत्नीति पदच्छेदः कर्तुं शक्यते । एतद्वक्ष्यमाणं रहस्यं त्वया तृष्णादिसखीभ्योऽपि न वक्तव्यमित्याह - सखीभ्य इति । रहस्यं वदति न खल्विति । अयमभिचारः ; मया क्रियमाणः श्येनादिवत् विशेषतो विहितो न भवति । ये त्विति । धर्मतया ; प्रवृत्तिधर्मत्वेन निवृत्तिधर्मत्वेन च ये श्रुत्यादिष्वधीताः । मत्परिग्रहात् ; दम्भसंस्पर्शात् ॥ ३ ॥

प्रभाविलासः - ३

महाश्रोत्रियेति । अश्रोत्रियेति च व्यज्यते । ये त्विति । दम्भार्थं कृताः सर्वेऽपि धर्मा निष्फला भवन्तीति तात्पर्यम् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

कुहना - सुठु चितिअम् । को उण इमस्सि परपीडनजणे तुम्हाणम् उवदेसं कुणज्ज29 ?

( सुष्ठु चिन्तितम् । कः पुनरस्मिन् परपीडनयज्ञे युष्माक- मुपदेशं कुर् यात् ?)

दम्भः - अयि मुग्धे, सर्वज्ञस्य मे किमन्येनोपदेष्ट्रा ?
सर्वेऽपि हि पण्डितम्मन्या मामेवाश्रित्य संशयं प्रशमयन्ति । अथापि मयेदानीं साक्षिमात्रतया30 स्थापितः कश्चिदुत्कृष्ट31 सर्वजनतिरस्कारको32 गर्वो नाम सर्वजनहृदयसंवादी33 महामोहसमयमहोपाध्यायः34 । तस्य चेदानीमागमनं प्रतीक्ष्यास्मिन् मिद्धाश्रमे नवकृत्वः पुण्याहपूते सम्भृतसम्भारः सप्तर्षिभिः प्रदिष्टां35 बृसीमधितिष्ठामि36 " ।

कुहना - जुत्तम् आअरिअम् । कज्जसिद्धीअ तुम्ह37 करग- आ होज ।

( युक्तमाचरितम् । कार्यसिद्धिश्च युष्माकं करगता भूयात् ।)

1

दम्भः - ( निमित्तं सूचयन् ) अस्मत्कुलधर्मपालिनि कुहने, स्पन्दते मम दक्षिणं चक्षुः । सद्य38 एव सुहृत्समागमः सम्पत्स्यते । ( पुरस्तादवलोक्य) कः खल्वसौ ज्वलत्प्रभाकञ्चुकितदुर्निरीक्षमूर्ति- महात्मा मध्यमलोकमवतीर्यास्मदाश्रमाभिमुखमागच्छति ?
X४५९

(ततः प्रविशति परिगृहीतपृथुलपादुकः प्रतिक्षणविक्षिप्यमाणविकटभुजदण्डो दृढतरदण्डावलम्बितप्रतिज्ञापत्रिकापताको दर्पः)

दर्पः - अहं किल राज्ञा महामोहेन प्रकृष्टजनतिरस्काराय प्रणिहितः सकललोकतारतम्यदिदृक्षया परिक्रान्तः पितामहगृहान्मध्यमं लोकमवतरन् आचक्रवालमवलोकितदशदिशाचक्रवालः पुरन्दरपुरोगमैः लोकपालैरभ्यर्चितः सुरभिमदिरासुधाचन्द्रपारिजातमणिवरवितरणमहावदान्येन मन्दर39 मन्थमथनसङ्क्षोभ सर्वंसहेन मधुकैटभमथनबन्धुना सिन्धुना समाहृतं हारोपहारमाबिभ्राणः प्रत्यागतो- ऽस्मि भारतं वर्षम् । अद्य40 च ;
त्रयोदशमिहादित्यं41 रुद्राणां द्वादशं तथा ।

मन्वीत नियतं लोको वसूनां नवमं च माम् ॥ ४ ॥

मूलम् - ४

प्रभावली - ४

सुठु-सुष्ठु । चिन्तिअं चिन्तितम् । को उण कः पुनः । इमस्सि - अस्मिन् । परपीडणजण्णे - परपीडनयज्ञे । तुम्हाणं- युष्माकम् । उवदेसं-

X४५८
समयःः

उपदेशम् । कुणज्ज-कुर्यात् । हृदयसंवादी ; सम्मत इत्यर्थः । सिद्धान्तः । बृसीम्; दर्भनिर्मितं पीठम् । जुत्तं युक्तम् । आअरिअं - आचरितम् । कज्जसिद्धीअ कार्यसिद्धिश्च । तुम्ह तव । करगआ-करगता । होज्ज- भवेत् । निमित्तम् ; लक्षणम् । दूरत मायान्तं गर्व वर्णयति - कः खल्वि-
त्यादिना । कञ्चुकितत्वादिति हेतुगर्भविशेषणम् । परिगृहीतः ; अधिष्टितः । पादुका; दारुमयी पादरक्षा । विकटः ; विशालः । दृढतरं यथा तथा अवलम्बिता पत्रिकैव पताका यस्य । प्रणिहितः ; उत्तमजनपरिभवाय प्रणिधित्वेन प्रयुक्तः । परिक्रान्तः; परिभ्रमन् । पिनामहगृहात् ; ब्रह्मलोकात् । आचक्रवा लम; आलोकालोकम् । दिशाचक्रवालम् ; दिमण्डलम् । सुरभीत्यादिना समुद्रं वर्णयति । सुरभिः; कामधेनुः । मदिरा ; वारुणी । सुधा ; पीयूषम् । मणि- वरः ; कौस्तुभः । मन्दर एव मन्थः मन्थदण्डः, तन्मधनसङ्क्षोभे सर्वसहः । मधुकैटभमथनः ; विष्णुः । समाहृतम् ; समर्पितम् । हार एव उपहारः

X४६०
उपायनम् । स्वात्मानमुत्प्रेक्षते - अद्य चेत्यादि । माम् आदित्येषु त्रयोदशम्, रुद्रेषु द्वादशम्, वसुषु नवमं च लोकः नियतं मन्वीत उत्प्रेक्षेत ॥ ४ ॥

प्रभाविलासः - ४

बृसी; व्रत्यासनम् । आचक्रवालम् ; चक्रवालगिरिपर्यन्तम् ।
दिशाचक्रवालम्; दिशामण्डलम् ।

“लोकालोकगिरौ चक्रवालः क्लीबं

तु मण्डले " इति निघण्टुः । सुरभिः; कामधेनुः । " सुरभिस्तु गवि स्त्रियाम् । वसन्तचैत्रयोः पुंसि त्रिषु सौम्यसुगन्धिनोः" इति रत्न-
मालायाम् । त्रयोदशमित्यादि; अप्रामाणिकत्वं व्यज्यते ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

( विचिन्त्य सरोषहासम् ) अहो नु खलु जगतो मौढ्यम् ; येषामस्मदनुचरप्रतिनिधिपर्वण्यप्यवस्थानमपहास्यं तेऽपि मत्साम्यं मदाधिक्यं वा प्रतिलब्धुं गोत्रवृत्तिं मनोरथमारोहन्ति । इह हि -

छन्दश्छन्दितबुद्धयः पदविदः कल्पे विकल्पत्यजः

शिक्षाशिक्षितमानसा विगणितज्योतिर्गणावृत्तयः ।

निर्णीतार्थनिरुक्तयस्त्रिविधया मीमांसया मांसला

नृत्यन्तो नयविस्तरे च सुधियः सर्वे मया खर्विताः ॥ ५ ॥

मूलम् - ५

प्रभावली - ५

मौढ्यहेतुको हासः । जगतः स्वसाम्यादिवाञ्छया रोषः । अपहास्यम्; अपहासयोग्यम् । तेऽपि ; तादृशा अपि । आरोहन्ति ; आकाङ्क्षन्तीत्यर्थः । सर्वेषां स्वविजितत्वं दर्शयति-छन्द इति । छन्दोभिर्वेदैः अलङ्कृतबुद्धयः । पदं व्याकरणं तद्विदः; शाब्दिका इत्यर्थः । कल्पसूत्रे विकल्पः सन्देहः, तत्त्यजः । शिक्षायां शिक्षितमानसाः । ज्योतिर्गणस्य सूर्यादिग्रहस्य आवृत्तिः तत्तद्राशिषु सञ्चारः, सा विगणिता यैस्ते । निर्णीतार्थः निरुक्तिग्रन्थो यैः ।

X४६१
त्रिविधया कर्मब्रह्मदेवतासम्बन्धिन्या मीमांसया मांसलाः परिपूर्णाः । नय विस्तरे न्यायशास्त्रविस्तरे नृत्यं कुर्वन्तः । सर्वे चतुर्दशविद्यावेदिनः सुधियो विद्वासः खर्विताः वामनीकृताः ; गर्वोच्छ्रायादपनीता इत्यर्थः ॥ ५ ॥

प्रभाविलासः - ५

छन्द इति । छन्दः प्रभृतीनि वेदाङ्गानि । छन्दसि छन्दिता

शिक्षिता बुद्धिर्येषां ते

व्याकरणम् । कल्पः

“ छन्दः पद्येऽभिलाषे च " इत्यमरः । पदम् ;

कल्पसूत्रम् । विकल्पःः संशयः । विगणिताः
ज्योतिर्गणानां नक्षत्राणामावृत्तयो यैस्ते । कर्मदेवता ब्रह्मकाण्डभेदेन मीमासा - त्रैविध्यम् । नयविस्तरः न्यायशास्त्रम् ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

(आकाशे) रे रे बालिश, किं ब्रवीषि? कुतस्तवेयं शिक्षा ? कीदृशी च परिचितिरिति? (सहस्तास्फालनं विहस्य)

विधिमन्तरेण विहगेन कुतः पयसोरशिक्ष्यत विवेकविधिः ।

कति वा दिनानि वद पर्यचिनोत्कलशीसुतः कबलयन् जलधिम् ॥ ६ ॥

मूलम् - ६

प्रभावली - ६

स्वप्रतिकूलवादिनीमशरीरवाचमाशङ्कते - आकाश इति । अशरीरवाचमनुवदति - रे रे इति । बालिशः ; डिम्भः । तवेयं शिक्षा कुतः ; कस्मादुपाध्यायात् । तत्र परिचितिश्च ते कीदृशी इत्येवंरूपा वाचमाकर्ण्य दम्भः सहस्तास्फालनं हस्ताभ्यामन्योन्यमास्फालनं कुर्वन्नाह । धीमत उपाध्यायात् शिक्षा किमर्थेत्याह - विधिमन्तरेणेति । विधिः ; दैवम् । अन्तरेण; विना । विहगेन; हंसेन । पयसोर्विवेकविधिः ; जलक्षीरयोर्विभागः । कुतः ; कस्मात् । अशिक्ष्यत ; न कुतश्चिदित्यर्थः । इदं कुतस्तवेयं शिक्षेति प्रश्नस्योत्तरम् । कीदृशी परिचितिरित्यस्योत्तरमाह — कति वेति । कलशीसुतः; अगस्त्यः । कलशीसुत-

X४६२
पदेनागस्त्येऽप्यनादरो द्योत्यते । जलधिं कबलयन् ; समुद्रं पास्यन्, पातु- मित्यर्थः । लक्षणहेत्वोरिति शता । कति दिनानि पर्यचिनोत्; परिचयमभ्यासं कृतवान् ; न किमपि । सहसैव समुद्रं पीतवान् । ममापि तथेति भावः ॥ ६ ॥

प्रभाविलासः - ६

आकाश इति कर्णे दत्वेति शेषः । तदुक्तम् -

“अप्रविष्टैः सहालापः स एवाकाशभाषितम् ।

एष प्रयोज्य आकाशे कर्णे दत्वेत्यनन्तरम् ।

किमाहेति वचोऽनूद्य पश्चात्कार्ये तदुत्तरम् ॥”

इति । विधिमिति । विहगेन; हंसेन । पयसोः ; नीरक्षीरयोः । कलशी- सुतः ; अगस्त्यः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

आस्तां तावत् विश्वतोमुखीयमास्माकी विद्या42 । अभिजन वृत्ताभ्यामप्यहं निःसमाभ्यधिकः । तथा हि-

मद्वंशोद्भवयाजनार्हपुरुषालाभादमुष्मिन् जग-

त्या गोत्रप्रथमादनध्वरतया प्रख्यातमस्मत्कुलम् ।

अप्रत्यक्षमनक्षपीडनविधि प्राबल्यतः43 स्थापितं

विष्वग्वृत्ति तपः परं किमपि मे विश्वाधिकं के विदुः ॥ ७ ॥

मूलम् - ७

प्रभावली - ७

विश्वतोमुखी; सर्वतोमुखी, सर्वतः प्रसिद्धा वा । अभिजनः ; कुलम् । वृत्तम् आचारः । प्रथममभिजनतो नि.समत्वं दर्शयति–मद्वंशेति । महंशोद्भवानां पुंसां याजने यो योग्यः पुरुषः, तस्यालाभात् । अस्मिन् जगति ; स्वर्गादिषु वा । गोत्रप्रथमपुरुषात् कूटस्थादारभ्य अनध्वरतया अध्वररहितमिति अस्मत्कुलं प्रख्यातम् । वृत्ततो निःसमत्वमाह - अप्रत्यक्ष मिति । मे किमप्यप्रत्यक्षं तपः ; चान्द्रायणादिकं हि प्रत्यक्षम् । अप्रत्यक्षं प्रत्यक्षागोचरम् । अक्षपीडनम्; इन्द्रिय-

X४६३
निग्रहरूपा हिंसा । इन्द्रियपीडनं न विद्यते यस्मिन् विधौ सोऽनक्षपीडनविधिः । तत्प्राबल्यतः स्थापितम् ; " भूतहिंसा न कर्तव्या " इति विधिप्राबल्यतोऽनुष्ठि तम् । विष्वक्; सर्वत्र वाङ्मनः कायेषु, वर्तनं यस्य । सर्वतपोऽधिकं के विदुः ; अप्रत्यक्षत्वात् न केऽपि विदन्तीत्यर्थः ॥ ७ ॥

प्रभाविलासः - ७

मदंशेति । गोत्रप्रथमः कूटस्थऋषिः । अप्रत्यक्षमिति ; परैरनालक्ष्यमुच्यते । अनक्षपीडनविधिः ; " अक्षपीडां न कुर्यात् " इति विधिः । अक्षाणि ; इन्द्रियाणि । जातिभेदमन्तरेण प्रवृत्तिरिति कथयितुं विष्वग्वृत्तीत्युक्तम् । तप इति पारदार्यादिकं लक्ष्यते । प्रसिद्धतपोवैलक्षण्यमाह - विश्वाधिकमिति । तद्धि तत्त्वसाक्षात्काराक्षपीडनैकतानत्वादियुक्तम् ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

( पुरस्तात्पश्यन् ) अहह ;
बहव इह नश्छात्रा बाह्याः कुदृष्टय इत्यमी

मिषति विबुधस्तोमे मेरुं विगूहयितुं क्षमाः ।

प्रबलकुहना गम्भीराभिः प्रलोभनयुक्तिभि-

र्जडबधिरपङ्ग्वन्धप्रायं जगज्जनयन्ति च ॥ ८ ॥

मूलम् - ८

( पुरस्तात्पश्यन् ) अहह ;
बहव इह नश्छात्रा बाह्याः कुदृष्टय इत्यमी

मिषति विबुधस्तोमे मेरुं विगूहयितुं क्षमाः ।

प्रबलकुहना गम्भीराभिः प्रलोभनयुक्तिभि-

र्जडबधिरपङ्ग्वन्धप्रायं जगज्जनयन्ति च ॥ ८ ॥

प्रभावली - ८

बहव इति । इह देशे बाह्याः कुदृष्टयः इत्यमी बहवः छात्राः बिबुधस्तोमे अनिमिषगणे विद्वद्गणे च मिषत्यपि पश्यत्यपि मेरुपर्वतमपि विगूहयितुम् तेन अपलपितुं क्षमाः समर्थाः । सर्वप्रपञ्चापलापिन इत्यर्थः । कुहना कापट्यम्, गम्भीराभिः दुरवगाहाभि, प्रबलाभिः । प्रलोभनयुक्तिभिः ; विप्रलम्भयुक्तिभिः । इदं पूर्वत्रोत्तरत्र च समन्वेति । जगत् जडबधिरपङ्ग्वन्धप्रायम् ; युक्तिभि स्त्यक्तवेदप्रामाण्यत्वात् हितसाधनानुष्ठानशून्यमित्यर्थः । जड उन्मत्तः । पङ्गुः पादविकलः, इत्यादिबहुलं जनयन्ति ॥ ८ ॥

प्रभाविलासः - ८

बहव इति । विगूहयितुम् ; अपलपितुम् ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

अथ44 वा ;

अनपह्नुतवद्भिरद्य यावत्प्रतिपक्षानिह किं प्रमाणवर्गैः ।

स्ववशे विनिवेशयामि विश्वं मणिमन्त्रौषधवञ्चनोपजापैः ॥ ९ ॥

मूलम् - ९

अथ44 वा ;

अनपह्नुतवद्भिरद्य यावत्प्रतिपक्षानिह किं प्रमाणवर्गैः ।

स्ववशे विनिवेशयामि विश्वं मणिमन्त्रौषधवञ्चनोपजापैः ॥ ९ ॥

प्रभावली - ९

ननु प्रमाणानुसारिण्येव युक्तिरादरणीया; प्रलोभनयुक्तिस्तु प्रत्यक्षादि- प्रमाणगणैर्निराकृतत्वान्नादरणीयेत्यत्राह — अथवेत्यादि । अद्य यावत्; अद्य पर्यन्तं

X४६४
प्रतिपक्षान् अनपहूनुतवद्भिः अपह्नवमकृतवद्भिः प्रमाणवर्गैः प्रत्यक्षादिप्रमाणगणैः किं प्रयोजनम् ? तन्मास्तु यथाप्रमाणं विश्वस्य सत्यत्वमङ्गीक्रियतामित्यत्राह- स्ववश इति । मणिमन्त्रौषधव श्वनोपजापैः; मणिमन्त्रौषधकृतवञ्चनाया उप- जापैः भेटः, वशीकारैरित्यर्थः । विश्वं स्ववशे स्वमते स्थापयामि ॥ ९ ॥

प्रभाविलासः - ९

अनपह्नुतवद्भिरिति । अनपह्नुतवद्भिः ; अपह्नवासमर्थैः । उपजापः ; भेदः । " समौ भेदोपजापौ " इत्यमरः ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

किमाह कश्चित् प्रतिष्ठिते प्रमाणवर्गे कथं कैश्विदेवं पाटच्चरवृत्तिः प्रतिपत्तव्येति ? (सरोषहुङ्कारम् ) पश्य ; अरे ब्राह्मणा- पशद, सार्वलौकिकं गगनतलमलिनिमप्रत्यक्षं किं न प्रामाणिकैः परिभूयते ? अपि च,

षड़भिः पूर्वप्रणीतैरलमिह समयैः श्रद्दधानप्रमाणै-

र्वस्तुस्थित्यैकरूप्ये मतिविहतिहते45 कस्य कीदृग्व्यवस्था।

अक्षुभ्यद्वित्रकक्ष्याव्यवहरणसहानस्मदुन्नीतयुक्त्या

सिद्धान् सिद्धान्तभेदान्मदुपहितधियः प्रत्यवस्थापयन्तु ॥ १० ॥

मूलम् - १०

प्रभावली - १०

प्रतिवादिनो मतमाशङ्कय परिहर्तुं प्रतिवादिनो नामागृहीत्वा तन्मतमुपन्यस्यति - किमाह कश्चिदिति । कश्चित् किमपि वचनमाह । वचनं दर्शयति- प्रतिष्ठित इति । प्रमाणवर्गे सम्यक् प्रतिष्ठिते सति । अयमर्थः – प्रत्यक्षादि- प्रमाणवर्गैर्जगतः सत्यत्वादौ निश्चिते सति । कैश्चित् बाह्यः एवं पाटश्वरवृत्तिः जगन्मिथ्यात्वप्रतिपादनरूपतस्कर मार्गः कथं प्रतिपत्तव्या अङ्गीकर्तव्या । सा

X४६५
न युक्तेत्यर्थः । एतच्छ्रुत्वा सरोषहुङ्कारं गर्वो वदति – पश्येति । अरे ब्राह्मणे- यादि । ब्राह्मणापशद सर्वलोकसिद्धं गगनमलिनिमप्रत्यक्षं मलिनिमविषयं प्रत्यक्षं प्रामाणिकैर्न कि परिभूयते ? परिभूयत एव । एव भवन्मतमपीति भावः । ननु भवच्छिष्याणां सर्वसिद्धान्तप्रत्यवस्थापनमनुचितमित्याशङ्कयाह – षड्भि - रिति । पूर्वप्रणीतैः षड्भिः सिद्धान्तैरलम् । कुत इत्यत्राह - इहेति । श्रद्दधानप्रमाणैः ; तत्र श्रद्धावता प्रमाणभूतैरलम् ; ते ‘अनादरणीया इत्यर्थः । परस्परं मतीनामन्योन्यविहतेर्हेतोः वस्तुस्थितैरैकरूप्ये भग्ने सति कस्यार्थस्य कीदृशी व्यवस्था ? व्यवस्था वक्तुमशक्येत्यर्थः । व्यवस्थाया अभावे सिद्धान्तभेदसिद्धिः कथमित्यत आह- अक्षुभ्यदिति । अक्षुभ्यन्त्यः अभज्यमानाश्च ता द्वित्रकक्ष्याश्च तासु व्यवहरणसहान् व्यवहर्तु शक्यान्, अस्मदुन्नीतनीत्या सिद्धान् नीतिः युक्तिः, मदुपहितधियः मया शिक्षितबुद्धयः प्रत्यवस्थापयन्तु । द्वित्रकक्ष्या- व्यवहरणसहत्वेन सिद्धान्त भेदसिद्धिरित्यर्थः । अतः सर्वसिद्धान्तप्रत्यवस्थापनमुचितमित्यर्थः ॥ १० ॥

प्रभाविलासः - १०

षडूभिरिति ।

“कणादस्याक्षपादस्य व्यासस्य कपिलस्य च ।

पतञ्जलेजैमिनेश्च दर्शनानि षडेव हि ॥ "

इत्युक्तलक्षणैः । वस्तुस्थित्यैकरूप्ये; वस्तुनो द्वैरूप्यासम्भवादर्थैकरूपत्वे । विहतिविनिहते; सप्तभयादिबाधिते । कस्य ; वस्तुनः । कीदृग्व्यवस्था; अनवस्थितिरेवेत्यर्थः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

( अपसव्यं पश्यन् ) एते46 मगधकलिङ्गान्ध्रद्रमिडकर्णाटकेरल-

कोङ्कणादयो जनपदाः । अहह,

अष्टाचत्वारिंशतं बौद्धभेदान्नीचोक्त्याहं भाषया निर्मिमाणः ।

अध्यासीनो बोधिवृक्षस्य मूलं विद्यादर्पं47 वैदिकानामहार्षम् ॥ ११ ॥

मूलम् - ११

प्रभावली - ११

अपसव्यम; दक्षिणम् । गङ्गायमुनयोर्मध्यदेशस्थितस्य प्राङ्मुखस्य दक्षिणतो दर्शने मगधकलिङ्गादिदेशाश्चक्षुर्विषया भवन्ति । मगधः; गिरि- व्रजदेशः । कलिङ्गाः ; ओदियाः । आन्ध्राः ; श्रीकाकुलप्रदेशाः । द्रमिडाः ; वेङ्कटगिरिमारभ्य दक्षिणाः । कर्णाटाः; ततः पश्चिमदेशाः । केरलाः ; मलया-

1

X४६६
लाख्याः । कोङ्कणाः ; मलयालादुत्तरपश्चिमाः । पुनः स्वसामर्थ्यमेव प्रकटयति- अष्टाचत्वारिंशतमिति । बोधिवृक्षस्य ; अश्वत्थस्य मूलमध्यासीनो जिनो भूत्वा अहं नीचोक्त्या भाषया नीचोक्तिरूपया प्राकृतमहाराष्ट्रमागधशौरसेन्यपभ्रंशपैशाचादिभाषया अष्टाचत्वारिशतं बौद्धमतभेदान् निर्मिमाणः सन् वैदिकानां वेदमार्गानुसारिणां विद्यागर्वम् अहार्षम् अपहृतवानस्मि ॥ ११ ॥

प्रभाविलासः - ११

अष्टाचत्वारिंशतमिति । नीचोक्त्या भाषया ; प्राकृतभाषया । बोधिवृक्षस्य अश्वत्यस्य ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

ततः प्रभृति सुगृहीतनामानो नाममात्रनिःशेषितविपक्षाः सप्तद्वीपनिहितजयस्तम्भाः सञ्चरन्त्यस्माकमन्तेवासिनः । अपि च,

अद्वैतं कचिदर्पितं क्वचिदिह द्वैतं मया साधितं’48

द्वैताद्वैत समाहृतिः कचिदसौ दुस्थाप्यवस्थापिता49

तत्तद्भक्तिमुधाग्रहोदितकथाकल्लोलतो वादिनां

मन्ये सम्प्रति मल्लमेषसमरप्रेक्षारसं50 प्राप्नुमः ॥ १२ ॥

मूलम् - १२

प्रभावली - १२

ततः प्रभृति; तत आरभ्य । सुगृहीतम; बुद्धात् गृहीतं व्यपदिष्टम् । अद्वैतम् एकं ब्रह्म सत्, अन्यत्सर्वं मिथ्येति मतम् । क्वचित्; वादिषु । अर्पितम् ; उपदिष्टम् । क्वचित्; स्थले । द्वैतम् ; वस्त्वन्योन्यं स्वरूपतो भिन्नं मया साधितम् । दुःस्थापि; क्वचित् स्थापयितुमशक्यापि । द्वैताद्वैतयोः समाहृतिः ; समुच्चयः, वस्तु स्वरूपतो भिन्नमभिन्नं चेति मतम् । वादिनां तेषां तेषां, तत्तद्भक्तिः तत्तन्मते प्रीतिः, तस्या मुधाग्रहः व्यर्थाग्रहः, तेनोदितैः कथाकल्लोलैः वादपरम्पराभिः सम्प्रति मल्लयोः मेषयोः समरस्य प्रेक्षारसं प्रेक्षणप्रीतिं प्राप्नुम इति मन्ये ॥ १२ ॥

प्रभाविलासः - १२

अद्वैतमिति । अद्वैतं मायिषु । द्वैतं तार्किकेषु । द्वैताद्वैतसमाहारो भास्करादिषु । दुःस्थेति ; सप्तभङ्गीषु

॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

( परिवृत्यावलोक्य) एते पुनर्यवनतुरुष्काद्युपप्लुताः प्रत्यन्त देशाः । इह च,

वादद्यूतपणं प्रकल्प्य किमपि क्षिप्ताभिमानः क्वथन्

कश्चिद्वैदिकपद्धतिं द्विजपतिः क्षिप्रं मया त्याजितः ।

अर्हद्बुद्धबृहस्पतिप्रभृतिभिः क्लृप्तान्कृतान्तक्रमा-

नन्योन्यव्यतिहारितानपि पठन्51 व्यामोहयत्यर्भकान् ॥ १३ ॥

मूलम् - १३

प्रभावली - १३

X४६७
परिवृत्य ; पुनः प्रत्यङ्मुखो भूत्वा, अवलोक्य । एते पुनरिति । यवनाः ; तुरुष्कात् किचिद्भिन्नजातीयाः । आदिशब्दात् म्लेच्छादयः । तैः उपद्रुताः म्लेच्छदेशाः । वादेति । कश्चित् द्विजपतिः ; मण्डनमिश्र इति भावः । किमपि वाद एव द्यूतं, तत्र पणं ग्लहं कल्पयित्वा । किमपीति; पराजितस्य प्रतिवादिमत प्रवेशरूपम् । मया क्षिप्ताभिमानः ; पराजित इत्यर्थः । क्वथन्; परितपन् । क्षिप्रं वैदिकपद्धतिं त्याजितः ; स्वकीयां वैदिकपद्धतिं विसर्ज्य प्रतिवादिनः शङ्करस्य मतं प्रवेशित इत्यर्थः । अर्हदित्यादि । अर्हन् जिनः, बुद्धः सुगतः, बृहस्पतिश्व, आदिशब्देन कणादादयः सङ्गृहीताः । सिद्धान्तक्रमान् अन्योन्यव्यतिहारितान् ; अन्योन्यव्यामिश्रितान्, अन्योन्यव्याहतान् वा । पठन् ; सुरेश्वरवार्तिकरूपेण ग्रन्थं कुर्वन् । अर्भकान्; अनधिगतशास्त्रसरणीन् । व्यामोहयति ; वशीकरोति । इदमत्राकूतम् — शङ्कर मण्डनमिश्रौ परस्परमतप्रवेशपणं वादमकुरुताम् । शङ्कर-

.

X४६८
पराजितो मण्डनमिश्रः शङ्करमतं प्रविश्य एकदण्डेन सन्न्यस्य सुरेश्वरवार्तिकाख्यं ग्रन्थं प्रणीय मूढजनं व्यामोहितवान् । तन्मतस्य जगतः सदसद्विलक्षणत्वोक्त्या जैनमतव्यतिहारः । विज्ञानमेव सत्यम्, अन्यत् बाह्यं सर्व मिथ्या तस्मिन् परिकल्पितमिति स्वीकारात् योगाचारमतसम्पर्कः । वेदप्रामाण्यमिध्यात्वोक्त्या चार्वाकमतसम्भेद इति ॥ १३ ॥

प्रभाविलासः - १३

पुरा किल शङ्करो नाम भिक्षुः भट्टाचार्यशिष्यं मण्डन मिश्रं वादपणेन वशीकृत्य स्वमते निवेशितवानित्यैतिह्यम् । तन्मनसि कृत्वाह-वादेति । क्वथन् ; दृप्यन् । सुरेश्वरवार्तिकादिकं हृदि कृत्वाह - अर्हदिति । कृतान्त- क्रमान्; सिद्धान्तभेदान् । व्यतिहारितान् ; परिवर्तितान् ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अमी च पशुमृगपक्ष्यादिकल्पैरनार्यैरधिष्ठिता नास्मद्दृष्टिगोचरतामर्हन्ति ।

एतेष्वनिश्चिताक्षराः कक्षावलम्बितपुस्तका विस्तारितकूर्चभराः52 केचिदेते विपश्चित इवाभान्ति । आः, प्रता-

रितोऽस्मि गाढमापातदृष्ट्या ।

तथा हि—

अनियतबहुजल्पैरल्पबोधावलिप्तै-

रवमतगुरुवर्गैरत्रिवर्गापवर्गैः ।

अभिनयविधुताङ्गैरङ्गुलीनृत्तसारै-

रलमिह जडभूभृत्पीठमर्दैरमीभिः ॥ १४ ॥

मूलम् - १४

प्रभावली - १४

अमी च ; देशाः । अनार्यैः ; म्लेच्छैः । अक्षरमपि निश्चेतुमसमर्थाः । विस्तारितश्मश्रुभराः । आ इति खेदे । आपातदृष्टिः ; स्थूलदृष्टिः । असङ्गतबहुजल्पैः, अल्पज्ञानेऽप्यतिगर्वितैः, अत एव तृणीकृतगुरुवर्गैः केवलनास्तिकैः । अभिनयः ; अनुकरणम् । प्रतिष्ठितविद्वदनुकरणेन विक्षिप्तावयवैः । अड्गुलीनां नृत्तमेव सारो येषां तैः । जडभूभृतां सचिवैः । प्रौढाश्चेत् नाभिनन्दन्तीति भावः । अमीभिरलम् ॥ १४ ॥

प्रभाविलासः - १४

अनियतेति । पीठमर्दाः ; नर्मसचिवाः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

( उत्तरतो दृष्टिं दत्वा ) कश्चिदिहासौ काश्मीरतो वा जलन्धराद्वा दक्षिणाभिमुखः समायाति । एनं तावत्प्रिययोरवस्थानं परिपृच्छामि । भद्र सुब्राह्मण, किं जानासि दुर्मतिसमादेशादद्रिराजपरिक्रमणाय प्रस्थितयोरस्मद्गृहिण्योरीर्ष्यासूययोरधुनातनं वृत्तान्तम् ? ( कर्ण दत्वा) किमाह -ते किल सुमतिसखीभिर्मैत्री करुणामुदितोपेक्षाभिः53 प्रतारिकाभिः प्रतारिते कस्यचिन्निवृत्तिपथसुरङ्गायां निरुद्धे इति ? (सक्रोधम् ) आः, पापोऽयमलीकवादी ब्राह्मणवेतालः । रे रे दुरात्मन् वैधवेय श्रोत्रियब्रह्मराक्षस, कथं सर्वलोकाभिसरणेऽप्यस्मत्सहधर्मचारिणीत्वमनुज्झन्त्योर्महाभागयोरनयोरेतादृशमत्याहितं सम्भविष्यति ? (निर्वर्ण्य) प्रागप्यवगतोऽयं पार्वतीयैर्व्याधपतिभिः54
प्रणिधिभावेन55 प्रेषितः पर्यटनशीलः कश्चित्पान्थः56 । ( सापहासम् ) अहो, देशकालविशेषसम्भवोऽयं दोषसमवायः । यथा

  • श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनः सौगता

माता चास्य पिता च पाशुपतिनौ वैदेशिको57 देशिकः ।

जाया तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यः सखा

मिथ्याचारसमाह्वयः स्वयमसौ विप्लावको वैदिकः ॥ १५ ॥

मूलम् - १५

प्रभावली - १५

X४६९
दृष्टिं दत्त्वा ; दृष्ट्वेत्यर्थः । काश्मीरदेशाद्वा जलन्धरदेशाद्वा । प्रिययोः ; असूयेययोः । अवस्थानम् ; अवस्थान दशा । अद्रिराजः ; महामेरुः । अधुना- तनम् ; आधुनिकम् । वृत्तान्तम् प्रवृत्तिम् । किमाह; कश्विदेवमाहेत्यर्थः । ते किलेति । ते ; उमे अपि । मैन्त्री ; सर्वत्र स्नेहः । करुणा ; प्रसिद्धा । मुदिता ;

। यथालाभसन्तोषः । उपेक्षा; अपकारिषु । प्रतारिकाभिः ; वञ्चिकाभिः । निवृत्ति- मार्गरूपसुरङ्गायाम् ; सुरङ्गा तस्करमार्गः । निरुद्धे; बन्दीकृते । अनृतवादी ब्राह्मणपिशाचः । वैधवेयः ; विधवासुतः । श्रोत्रियवेषः ब्रह्मराक्षसः । अभिसरणम् ; स्वयं परिग्रहः । महाभागयोः ; भाग्यपरिपूर्णयोः । अत्याहितम् ; महाभयम् । निर्वर्ण्य; सूक्ष्मं परामृश्य । अवगतः ; ज्ञातः । पार्वतीयैः; पर्वतवर्तिभिः ।

X४७०
तत्तज्जनपदं प्रति प्रणिधिभावेन । प्रणिधिः ; चारः । समवायः ; समुच्चयः । समवायं दर्शयति-यथेति । अस्य ; मिथ्याचारस्य । श्वश्रूः ; पत्नीमाता । दिगम्बर व्रतवती ; जैनकुलीना । अनेन जैनादिभिरयं परिगृहीत इति सूच्यते । सौगताः

X४७१
बौद्धाः । अस्य पितरौ ; मातापितरौ पशुपतिमतप्रविष्टौ । देशिक; आचार्यः । साङ्ख्यसमये योगसमये च जाया वर्तते । चार्वाकस्य शिष्यः सखा च

भवति । विप्लावको वैदिकः ; वैदिकधर्मविप्लावक इत्यर्थः । उक्तेषु मतेषु सर्वत्र मिथ्याचारपरिग्रहोऽस्तीति सूचितम् ॥ १५ ॥

प्रभाविलासः - १५

सुरङ्गायाम् ; गर्तविशेषे । अत्याहितम् ; अनिष्टम् । " साङ्ख्यसौगतचार्वाकसङ्कराच्छङ्करोदयः " इति वचनं मनसि कृत्वोपहसन्नाह-
श्वभूरिति । सौगताः सौत्रान्तिकयोगाचारादयः । तेषां हि बाह्यं कृत्स्नं जगत् प्रतीतिवैचित्र्यकृतं मिथ्याभूतमिति च मतम् । तदेव मायिनामपि जीवनमिति सम्बन्धिन इत्युक्तम् । मायिनां प्रायेण भस्मोद्धूलनरुद्राक्षधारण- लिङ्गपूजादेः शिष्टकाष्ठाभिमानात् पाशुपतसम्बन्धः । तन्मतस्यासाम्प्रदायि कत्वं वक्तुं वैदेशिको देशिक इत्युक्तम् । अन्तःकरणस्य चिच्छायापत्त्य बुद्धित्वकल्पनादेः साङ्ख्यादिसाधारणतया तत्सम्बन्ध उक्तः । तस्य सञ्ज्ञा माह - मिथ्याचारेति । केवलद्रविणाशया देशकालपात्रादिनियममन्तरे प भृतकाध्यापकत्वं वक्तुं विप्लावक इत्युक्तम् । आह च विद्या -

“योऽर्थार्थी मां द्विजे दद्याद्वेदं चैवाविधानतः ।

अनध्याये च तं प्राहुर्वेदविप्लावकं बुधाः ॥”

इति ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

तदयं मिथ्याचारनामा व्याधप्रणिधिरलीकवादी चासम्भाष्यो मादृशैर्महात्मभिः । एतदवलोकन दोषपरिहाराय दिवाकरमात्मानं वा पश्यामि । (विकटं परिक्रम्य) अहह, महानद्योरिह गङ्गायमुनयोरमी मध्यमा जनपदाः । एतेषु चावधीरितबृहस्पतिप्रज्ञानामस्माकमनन्तसिद्धान्तसृष्टि58 कर्बुरमुपन्यासं प्रजापतिपशुपतिदत्तवरोऽपि कः पुनः प्रत्येष्यति ? कुतः पुनरनुवादादयः ? इह चापवर्गमार्गनिरो घोद्यतेनास्मत्स्वामिना समाहूतैरपरान्तवासिभिर्म्लेच्छ भूपतिभिरधरोत्तरीकृता राजधान्यः । चरन्ति चात्र केचिदमी चक्रवर्तिनो दाम्भिकानाम् । एते च -

अयाचन्तः किञ्चित्स्वयमुपनतेऽनादरगिरो

धनायाशैलूषीसहचरितसाकूतगतयः ।

निवृत्त्याख्ये धर्मे स्थितिमभिनयन्तो निरुपधिं

नमस्यन्ते सद्भिर्नवमरसनाडिन्धमदृशः ॥ १६ ॥

मूलम् - १६

प्रभावली - १६

आत्मानम् ; स्वम् । विकटम् ; ससम्भ्रमम् । परिभूतबृहस्पतिप्रज्ञानाम् । सिद्धान्तानां सृष्टिः संसृष्टिः, तया कर्बुरं शबलितं नानाविधम् । प्रत्येष्यति ; ज्ञास्यति । अनुवादादयः कर्तुमशक्या इत्यर्थः । आदिशब्देन आक्षेपदूषणादिः ।

X४७२
उद्यतेन ; उद्युक्तेन । अपरान्तः ; पश्चिमदेशः । दाम्भिकानां चक्रवर्तिनः । उपनते ; प्राप्ते । अनादरगीः ; किमर्थमिदमित्यादिः । धनाया; धनेच्छा, सैव शैलूषी नटी, तत्सहचरिताः साभिप्राया गतयो येषा ते । निवृत्तिधर्मे निरुपधिं निर्निमित्तरूपां स्थितिमनुकुर्वन्तः । एतदजानद्भिः सद्भिः । नवमो रसः शान्तिः, तस्य नाडिं धमतीति नाडिधमा दृक् येषा ते ; शान्तिरसप्रकाशकदृश इत्यर्थः ॥ १६ ॥

प्रभाविलासः - १६

अयाचन्त इति । धनाया शैलूषीसहचरिताश्च साकूतगतयश्चेति

द्वन्द्वः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

अपि च हन्तैतत् कलेरनङ्कुशमाधिराज्यम् महामोहस्य वा तपसां59 परिपाकः —

स्वतन्त्र वरवर्णिनीसुरतकेलिसौत्रामणी-

रसार्चितमनोभवां60 रहसि निर्विशद्भिः क्षपाम् ।

दिवा विविध भूमिकाविहित61 कञ्चुकैर्वञ्च्यते

वियातकितवैरिदं वितथदत्तवित्तं जगत् ॥ १७ ॥

मूलम् - १७

प्रभावली - १७

एतत् ; वक्ष्यमाणं सर्वम् । अनङ्कुशं निरर्गलमैश्वर्यम् । तदेव दर्शयति- स्वतन्त्रेति । स्वतन्त्राः ; अपराधीनाः, वेश्या इत्यर्थः । तासां केल्यामेव सौत्रा मण्यां रसः सुरा; सौत्रामण्यां सुराग्रहस्योक्तत्वात् । तया अर्चितो मनोभवः कामो यस्याम् । निर्विशद्भिः ; अनुभवद्भिः । दिवा तु विविधवेषपरिग्रहेण ; श्रोत्रिययाज्ञिकतापसादिरूपेण वेषवैविध्यम्; तेन कृतावरणैः धृष्टधूर्तेः वितथ- दत्तवित्तं व्यर्थ दत्तधनं जगत् वञ्चयते ॥ १७ ॥

प्रभाविलासः - १७

स्वतन्त्रेति । सौत्रामणीरसः ; मद्यरसः । विविध भूमिकाः ; शिष्टतापादक रुद्राक्षपवित्रकमण्डलुभस्मधौतवस्त्रादयः । वियातम् ; धार्ष्ट्यम् । वितथदत्तवित्तम्; उक्तलक्षणानां यत्किञ्चित्प्रदानमपि निष्फलमित्यर्थः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

अत्र चामी म्लेच्छाधिष्ठितं देशमपरित्यजतां62 बहिराचरणमात्र संरक्षितवर्णाश्रमधर्माणामनन्यगतिकानां द्विजानामग्रहाराः । एतेषु च,

संस्काराः परमुत्सर्वैकवपुषः सन्ध्या विनोदावधिः

सावित्री जनवादजर्जरतनुः63 शौचं नटप्रायिकम् ।

इत्थं मोहमहीपतेरनुमते विश्वं विपर्यस्यतः

कालस्यैष कलेरलेपकमतव्यक्तक्रमः प्रक्रमः ॥ १८ ॥

मूलम् - १८

प्रभावली - १८

X४७३

बहिराचरणम् ; दम्भाचरणमित्यर्थः । अनन्यगतिकानाम् ; अन्यत्र गन्तु- मशक्तानाम् । संस्कारा इति ; जातकर्मादयः । केवलं वाद्यघोषगृहालङ्करणबन्धु-

X४७४

जनपरिपालनान्युत्सवः । एतदेकस्वरूपाः । एकशब्देन मन्त्रादि व्यावर्त्यते । सन्ध्या विनोदः श्रमापनयः, स पराकाष्ठा यस्याः सा ; आह्निकश्रमापनयरूपेत्यर्थः । जनवादः ; लोकवृत्तान्तः, तच्छबलितरूपा । शौचं शुद्धिः, नटशौच सदृशम्, अशास्त्रविहितजलावगाहादि । अभिमते ; मनीषिते । विपर्यस्यतः ; अधरोत्तरं कुर्वतः । कलेः कालस्य । अलेपकाः ; चार्वाकादयः, तन्मते स्पष्टः पदक्रमः यस्य । प्रक्रमः ; प्रचारः ॥ १८ ॥

प्रभाविलासः - १८

संस्कारा इति । जातकर्मादिकमुपनयने विवाहे वान्तर्भाव्य तत्रापि वाद्यगीतनृत्तादिकमेव प्रायेण कारयन्तीति उत्सवैकवपुष इत्युक्तम् । नटमायिकमिति; मृदाहरणजलप्रक्षेपाद्यभिनय मात्रं, न तु यावदुक्तकरणम् । कलेः कालस्येत्यनेनेदं स्मारितम् -

“ वित्तमेव कलौ नृणां जन्माचारगुणोदयः ।

स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव च ॥

लिङ्गमेवाश्रमख्यातावन्योन्यासक्तिकारणम् ।

अनाढ्यतैव साधुत्वे पाण्डित्ये चापलं वचः ।

संस्काराश्च तथोद्वाहे स्नानमेव प्रसाधने ॥ “

इति । अलेपकाः; साङ्ख्याः । प्रक्रम इति; आरम्भ एवैवमतिक्रमः, अन्ते किमुतेति भावः ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

अहो नु खल्वयमपि महानत्र धर्मक्रमः -

तरुणाकृतयः कचेषु कृष्णास्त इमे दम्पतयः सदैव साध्यम् ।

इतरेतरदैवतं भजन्ते मदनोपज्ञमजस्रमग्निहोत्रम् ॥ १९ ॥

मूलम् - १९

अहो नु खल्वयमपि महानत्र धर्मक्रमः -

तरुणाकृतयः कचेषु कृष्णास्त इमे दम्पतयः सदैव साध्यम् ।

इतरेतरदैवतं भजन्ते मदनोपज्ञमजस्रमग्निहोत्रम् ॥ १९ ॥

प्रभावली - १९

धर्मक्रमं दर्शयति - तरुणेति । “कृष्णकेशोऽग्नीनादधीत " इति विधिमत्र दर्शयति । कचेषु केशेषु कृष्णवर्णाः । दम्पतयः ; स्त्रीपुरुषद्वन्द्वानि । अन्योन्योद्देश्यं मदनेन ज्ञातं प्रवर्तितं वा अजस्रमग्निहोत्रं सुरतरूपं भजन्ते ॥ १९ ॥

प्रभाविलासः - १९

“जातपुत्रः कृष्णकेशोऽमीनादधीत " इत्येतदपदिश्याह – तरुणा- कृतय इति । सम्भोगो व्यज्यते ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

अपि च,

प्रतिवीथिकमाश्रयन्त एते कुहनासूक्तिमयीं कुसीदवृत्तिम् ।

अपरीक्षितशिष्यमद्य सर्वे शुकवद्ब्रह्म पठन्ति शुद्धवेषाः ॥ २० ॥

मूलम् - २०

अपि च,

प्रतिवीथिकमाश्रयन्त एते कुहनासूक्तिमयीं कुसीदवृत्तिम् ।

अपरीक्षितशिष्यमद्य सर्वे शुकवद्ब्रह्म पठन्ति शुद्धवेषाः ॥ २० ॥

प्रभावली - २०

एते केचन कपटसूक्तिप्रचुराम् अनृतप्रचुरां ब् वृत्तिं श्रयन्तः

X४७५
वीध्या वीथ्या शिष्ययोग्यता परीक्षाविधुर सर्वे उपाध्यायाः शुकवत् अर्थ - ज्ञानविधुरं, ब्रह्म वेदं, मन्त्रादिकं वा । शुद्धवेषा इत्यनेनान्तः शुद्धिराहित्यं द्योत्यते ॥ २० ॥

प्रभाविलासः - २०

श्रोत्रियान् प्रत्याह - प्रतिवीथिकमिति । कुहनासूक्तिमयीम् ; कपट- परिभाषाप्रचुराम । कुसीदवृत्तिम् ; वृद्धिजीविकाम् । अपरीक्षितशिष्यम् ; " संवत्सरं परीक्षेत " इत्याद्युक्तपरीक्षाशून्यम् । ब्रह्म ; वेदः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

(अन्यतोऽवलोक्य) एते चित्रार्पितमुक्त पुरुष सन्निभाः पुराण-64 पठितिमठभित्तिकोणमाश्रित्य जोषमासते । (सूक्ष्मं निर्वर्ण्य विहस्य65 ) अहह, अमी दीर्घतरदर्भपूलपूरिताङ्गुलिविवरेण दक्षिणकरेण ना- सिकां कवलयन्तः प्राणसंशयेनापि प्राणसंयममभिनयन्ति । (सह- स्तास्फालनं विहस्य ) 2

अपटुभणितिभावाद्विभ्रतो मौनमुद्रा-

मनितरशरणत्वादादृतान्योन्यसङ्घाः । अगतिविहितभिक्षावृत्तयः केचिदेते

चिरविधृततुरङ्गब्रह्मचर्या महान्तः ॥ २१ ॥

मूलम् - २१

प्रभावली - २१

चित्रार्पितः; चित्रलिखितः पुरुषः, मुक्तश्च तन्निभाः ; निश्चलत्वात् । पठितिः पठनं, तदर्थों मठः, तस्य भित्तिकोणं भित्त्योः सन्धिः । जोषम् ; तूष्णीम् । दर्भपूलः ; दर्भपुञ्जः । कबलयन्तः ; पीडयन्तः । प्राणसंशयकरव्यापारेणापि । प्राणसंयमम् ; प्राणायामम् । सहस्तास्फालनमिति ; विहस्येति शेषः । पटुवाग्व्यवहाराभावात् मौनमेव मुद्रा, ताम्; मौनभावमित्यर्थः । इतरशरणालाभात् ; शरणशब्दः पुरुषपरः; अन्यैरनादृतत्वादित्यर्थः । अन्योन्यमादृतसङ्घाः । अगत्या विहितभिक्षावृत्तयः । चिरविधृतं वडबासङ्गादुपरुद्धः यस्तुरङ्गः, तस्य ब्रह्मचर्यम् इन्द्रियनिग्रहरूपब्रह्मचर्यं येषाम् । विषयालाभकृतब्रह्मचर्यवन्त इत्यर्थः ॥ २१ ॥

प्रभाविलासः - २१

अपटुभणितीति । अपटुभणितिः ; असम्यम्भाषणम् । तुरङ्गब्रह्म- चर्यम् ; अलाभे ब्रह्मचर्यम् ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

(सोपक्रोशं हस्तौ विधुन्वन् )

अनल्पमदपित्तलैरनुपरुद्धमानग्रहै-

रजल्परणकर्कशैरपरिमृष्टतर्कक्रमैः ।

अतथ्यनियमस्थितैरनतिवृत्तदम्भोद्यमै-66

रशिक्षितचमत्कृतैरलमसद्भिरेतादृशैः ॥ २२ ॥

मूलम् - २२

(सोपक्रोशं हस्तौ विधुन्वन् )

अनल्पमदपित्तलैरनुपरुद्धमानग्रहै-

रजल्परणकर्कशैरपरिमृष्टतर्कक्रमैः ।

अतथ्यनियमस्थितैरनतिवृत्तदम्भोद्यमै-66

रशिक्षितचमत्कृतैरलमसद्भिरेतादृशैः ॥ २२ ॥

प्रभावली - २२

X४७६
उपक्रोशः ; जुगुप्सा । अनल्पेति । अनल्पमदेन पित्तलैः ; पित्तवद्भिः । अनुपरुद्वगर्वपिशाचैः । जल्पाख्ये रणे अकर्कशैः अप्रौढैः । अज्ञाततत्त्वप्रकारैः अशास्त्रीयनियमस्थितैर्वा । अनतिक्रान्तः दम्भोद्योगो यैः । चमत्कृतं कौशलं, तदशिक्षितं यैः । एतादृशैः असद्भिः अलम् ॥ २२ ॥

प्रभाविलासः - २२

अनल्पेति । पित्तलाः ; भ्रान्ताः । जल्पः ; वादः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

"

( अन्यतो दृष्टिं प्रसारयन् ) अमी पुनरमुष्टिमेययज्ञोपवीत67 सञ्छन्नवक्षसः करतलावलम्बिताक्षमालाः, करचरणनयननासादिषु मन्त्रवर्णान्निरन्तरं न्यस्यन्तः, तीर्थयात्रोत्सुकपथिकसार्थयातायात- पद्धतिपरिसरप्रतिष्ठापितं चेलाजिनकुशोत्तरमासनमधितिष्ठन्ति68 । हन्तैषां महायोगिनामद्भुतं नैरपेक्ष्यम्; येन स्वयमप्यन्तर्हसन्ति ।

यतश्च ;
69 दम्भस्येव ध्वजममितया मण्डितं दर्भमुष्ट्या

द्राघीयांसं कमपि पुरतः सम्प्रतिष्ठाप्य दण्डम् ।

पादोपान्तप्रणिहितधनान् प्राणिनो भक्तिनम्रान्

नावेक्षन्ते कितवमुनयो नामतस्तीर्थपादाः ॥ २३ ॥

मूलम् - २३

प्रभावली - २३

मुष्टया मातुमशक्यैर्यज्ञोपवीतैः । करगृहीतजपमालैः । निरन्तरम् ; सर्व जनदर्शनार्थमिति भावः । सार्थः ; समूहः । परिसरः ; समीपम् । महायोगिना-

X४७७
मिति विपरीतलक्षणा । येन; नैरपेक्ष्येण । दग्भस्य ध्वजमिव स्थितम् । अपरिमितया दर्भमुष्ट्या मण्डितम् ; अग्रतो बद्धमित्यर्थः । उपान्तः; समीपम् । प्रणिहितम् ; न्यस्तम् । कितवमुनयः ; दम्भसन्न्यासिनः । नामतः ; नाममात्रेण, न वृत्ततः । तीर्थपादा; आचार्याः ॥ २३ ॥

प्रभाविलासः - २३

दम्भस्येति । द्राघीयांसम् ; दीर्घतमम् ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

अहह, अभी निरन्तरमान्तरं ध्यानमभिनयन्तः पुरः प्रतिष्ठापितां देवतामपि नोद्वीक्षन्ते । अभ्यर्णमागतानप्याचार्यमातृपितृ- प्रमुखानर्धनिमीलितेन लोचनेन विलोकयन्तोऽप्यनवलोकनं नाटयन्ति । का कथा प्रणामादीनाम् ? एतेषु च,

शमदमवृत्तसमाधिषु निःस्पृहभावे च नैष्ठिका दम्भाः ।

अयुतायुतांशकक्ष्यामदम्भदम्भस्य नार्हन्ति ॥ २४ ॥

मूलम् - २४

प्रभावली - २४

आन्तरम् ; प्रत्यग्विषयम् । अभ्यर्णम ; समीपम् । नाटयन्ति ; अनु- कुर्वन्ति । आदिशब्देन अभ्युत्थानभाषादयः । एतेषु च ; दम्भेषु । शमदम्भदम- दम्भवृत्तदम्भसमाधिदम्भनैःस्पृह्यदम्भाः शमदमादिषु निष्ठावन्तो दम्भाः । अदम्भ- दम्भस्य ; अदम्भभावं नाटयतो दम्भस्य अयुतायुताशकला नार्हन्ति ॥ २४ ॥

प्रभाविलासः - २४

अभ्यर्णम् ; समीपम् । शमेति । सप्तम्यन्तपदान्ते श्रूयमाणो दम्भशब्दः प्रत्येकमन्वेति ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

अयं पुनरिह अनुगतधूर्तबकवृत्तीनां7071 त्रैविद्यतपस्विना

गण्यो महातपाः-

शिक्षा विशेष निभृताकृतिरूर्ध्वबाहुः

प्रक्रीडयन्निव निजां तपसि प्रतिष्ठाम् ।

दर्भावृते क्षितितले निहितैकपाद-

श्चित्रं सजीवमिव तिष्ठति दाम्भिकेन्द्रः ॥ २५ ॥

मूलम् - २५

प्रभावली - २५

X४७८
अनुपतिता अनुगता धूर्तबकवृत्तिः यैः । आमहामत्स्यसमीपागमनं धार्मिकवद्वर्तमानो धूर्तबकः । त्रैविद्यतपस्विनाम्; त्रयीविद्यानिष्ठानानाम् । शिक्षेति । शिक्षाविशेषेण निश्चलाकृतिः । प्रक्रीडयन्; प्रका चित्रम् ; आलेख्यम् ॥ २५ ॥

प्रभाविलासः - २५

शिक्षेति । प्रतिष्ठा ; स्थैर्यम् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

इतश्चायमेतादृशो यायजूकः-72

अलिकचिबुकनासाजानुबाहूदराद्यै73

र्विवृतनतिविशेषो मृत्तिकालेपचिह्नैः ।

कनकगिरिमिवेच्छन् कश्चिदग्निं74 समिन्धे

मुकुलितनयनार्धो मूर्तिमानेष दम्भः ॥ २६ ॥

मूलम् - २६

इतश्चायमेतादृशो यायजूकः-72

अलिकचिबुकनासाजानुबाहूदराद्यै73

र्विवृतनतिविशेषो मृत्तिकालेपचिह्नैः ।

कनकगिरिमिवेच्छन् कश्चिदग्निं74 समिन्धे

मुकुलितनयनार्धो मूर्तिमानेष दम्भः ॥ २६ ॥

प्रभावली - २६

इतश्च ; अन्यत इत्यर्थः । अलिकेति । अलिकम् ; ललाटम् । चि

X४७९
श्मश्रुस्थानम् । मृत्तिकालेपचिहैः विवृतः; प्रकाशितः । कनकगिरिम; महा- मेरुम् । इच्छन्निव समिन्धे; परिचरति ॥ २६ ॥

प्रभाविलासः - २६

अलिकेति । अलिकम् ; ललाटम् । विवृतनतिविशेषः ; शिताष्टाङ्गादिनमस्कारभेदः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

( परिवृत्यावलोक्य) अहो नु खलु काषायदण्डमात्रशरणानां75 कलियुगसन्न्यासिनां नैरपेक्ष्यम्76

भिक्षेति शिष्यजन77 रक्षणदक्षिणेति

शाटीति शाश्वतमठोपधिकल्पनेति ।

ग्रन्थोपसङ्ग्रहणमूल्यमिति ब्रुवाणाः

सन्न्यासिनोऽपि दधते सततं धनायाम् ॥ २७ ॥

मूलम् - २७

प्रभावली - २७

नैरपेक्ष्यम् ; निःस्पृहत्वम् । भिक्षेति । भिक्षा कर्तव्या सम्पाद्या । शिष्यजनानां स्वसेवने दक्षिणा दातव्या । शाटीवस्त्रं सम्पाद्या । मठस्य शाश्वत उपधिः उपाधिः क्षेत्रादिः, तस्य कल्पना सम्पादना कर्तव्या । ग्रन्थानां पुस्तकानामुपसङ्ग्रहाय मूल्यं सम्पाद्यम् । इति ब्रुवाणाः ; एवं व्याजं ब्रुवाणाः । सन्न्यासिनः ; सर्वसङ्गपरित्यागिनः । धनायां धनेच्छां दधते । सततम् ; प्रतिदिनम् ॥ २७ ॥

प्रभाविलासः - २७

कलियुगसन्न्यासिनामिति । " तपस्विनो ग्रामवासा न्यासिनोऽर्थाभिलाषिणः" इति वचनं स्मारितम् । भिक्षेति । शाटी ; वस्त्रम् ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

( सहर्षम् ) नूनमीशपुरुषावष्टब्धे जीवलोके सिद्धप्रायं समीहितं महामोहस्य । अथाप्येतदिह सितासितनदीसम्भेदो78 विवेक- स्थानमिव किञ्चिदाभाति । यदुत,
आचारोदधिसैकतप्रतिनिधिर्मृत्पिण्डकूटः कचित्

पापच्छेदनशस्त्रजालपरुषः कुत्रापि दर्भोन्त्करः ।

पूजाशेषितपुष्पपल्लवफलस्तोमः स्फुरत्यन्यतो79

मन्ये कस्यचिदेतदाश्रमपदं मान्यं महायोगिनः ॥ २८ ॥

मूलम् - २८

प्रभावली - २८

महामोहसमीहितसिद्ध्या हर्षः । ईदृशाः ; पूर्वोक्ताः । अवष्टब्धे ;

आक्रान्ते । सिद्धप्रायम् ; सिद्धकल्पम् । अथापि एतदिति ; स्थानापेक्षया

.

X४८०
नपुंसक निर्देशः । सम्भेदः ; सिन्ध्वोः समागमः । विवेकास्पदम् । यदुत एवं दृश्यते, एतत् कस्यचिदाश्रमपदं मन्य इत्यन्वयः । आचारेत्यादि । कचित् आचाररूपोदधेः सैकतस्य सिकतासमूहस्य प्रतिनिधिः सहाः मृत्पिण्डानां कूटः राशिः स्फुरति । कुत्राप्यन्यत्र पापतरुच्छेदने यच्छस्त्रजालं तद्वत् क्रूरः दर्भसमूहः । अन्यतः पूजानन्तरं शेषितः परित्यक्तः पुष्पपल्लव समूहः स्फुरति । एतत् कस्यचिन्महायोगिनः आश्रमस्थानं मन्ये ॥ २८ ॥

प्रभाविलासः - २८

आचारेति । कूटः ; समूहः ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

अत्र च,

विरुद्धमतिकर्दमं विषयवृत्तिविन्ध्याटवीं

त्रिवर्गमृगतृष्णिकां त्रिगुणवागुरायन्त्रणाम् ।

निवर्त्य नियमक्रमैः स्फुरति मुक्तवत्कोऽप्यसा-

वपत्यमथवाग्रजः सवितुरेष तातोऽपि वा ॥ २९ ॥

मूलम् - २९

अत्र च,

विरुद्धमतिकर्दमं विषयवृत्तिविन्ध्याटवीं

त्रिवर्गमृगतृष्णिकां त्रिगुणवागुरायन्त्रणाम् ।

निवर्त्य नियमक्रमैः स्फुरति मुक्तवत्कोऽप्यसा-

वपत्यमथवाग्रजः सवितुरेष तातोऽपि वा ॥ २९ ॥

प्रभावली - २९

विरुद्धेत्यादि । विरुद्धमति ; वेदविरुद्धज्ञानम्, सैव कर्दमः पङ्कः, तम् । विषयेषु शब्दादिषु या वृत्तिः सैव विन्ध्याटवी, ताम् । त्रिवर्ग एव मृगतृष्णिका, ताम् । त्रिगुणाख्यजालबन्धनम् । एतत्सर्वं निवर्त्य परिहृत्य ।

X४८१
अत्र कोऽप्यसौ नियमक्रमैः व्रतपरम्पराभिः मुक्तवत् स्फुरति । दम्भं दृष्ट्वा एव भ्राम्यति गर्वः । एषः दृश्यमानः सवितुः अपत्यम् । अथवा अग्रजः । अपि वा तातो भवितुमर्हतीति भावः ॥ २९ ॥

प्रभाविलासः - २९

विरुद्धेति । नियमक्रमैः; योगाभ्यासपर्वभिः । अपत्यम् ; मनुः ।

तातःः काश्यपः ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

उपसर्पामि80 तावदेनम् । (इत्याश्रममासीदति । निमित्तं सूचयन् सहर्षम् ) नूनमिह मे प्रियासमागममत्यासन्नमभिव्यनक्ति दर्शितस्पन्दलास्यं दक्षिणं चक्षुः ।

(ततः प्रविशति प्रव्राजिकावेषधारिण्यसूया)81

असूया - अहं हि विवेकपरिपन्थिचूडामणेर्महाराजस्य82 महामोहस्य देव्या दुर्मत्या विश्वजनहृदयविस्रम्भकवेषपरिग्रहेण विदुषां चित्तमुपप्लावयितुमादिष्टा परिक्रान्तचतुर्दशभुवना प्रयागतीर्थ मवगाह्य प्रत्यागतास्मि83 भगवतो धर्मध्वजस्य कुलपतेराश्रमम् । निपुणमिहापि गुणवद्विषये84 दोषानुद्घाटयितुं85 चारतन्त्रं तन्त्रयितव्यम् । ( स्वसामर्थ्यं बहुमत्य)

मयि दत्तावधानायां विश्वदोषापहारिणा ।

न शक्यमीश्वरेणापि निरवद्येन वर्तितुम् ॥ ३० ॥

मूलम् - ३०

प्रभावली - ३०

सम्यङ्निमित्तदर्शनात् हर्षः । प्रिया; भार्या । अत्यासन्नम् ; शीघ्रभाविनम । अभिव्यनक्ति; प्रकाशयति । दर्शितं स्पन्दमेव लास्यं येन तत् ; स्पन्दमानं चक्षुरित्यर्थः । प्रव्राजिका; सन्न्यासिनी । असूया स्वागमनकार्याणि वदति– अहं हीति । परिपन्थिनः; शत्रवः तेषा चूडामणेः । सर्वजनविश्वास्यवेषपरिग्रहेण उपप्लावयितुम् उपक्रोशयितुम् आज्ञप्ता । परिक्रान्तम् ;

X४८२
परिभ्रमितम् । प्रतिगतास्मि आगतास्मि । कुलपतेः ; कूटस्थस्य । गुणवद्विषये दोषान् सूचयितुम् । निपुणं यथा तथा चारानुष्ठानमनुष्ठातव्यम् । चाराः परैरज्ञाता एव स्वकार्यमनुतिष्ठन्ति ; तद्वन्मयापि मत्स्वरूपसिद्धयर्थ परस्पर- प्रद्वेषादिकमुत्पादयितव्यमित्यर्थः । मयीति । मयि भवधानवत्या सत्याम्, विश्व- दोषापहारिणा ब्रह्मणापि निरवद्यत्वेन वर्तितुं नालम् । सावधानाहं तत्रापि दोषं कल्पयितुं समर्थेत्यर्थः ॥ ३० ॥

प्रभाविलासः - ३०

No commentary ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

निरङ्कुशाः खलु मत्परिगृहीताः पुरुषाः । नित्यमविद्यमानमपि दोषं विद्यमानमिवापादयन्ति । किमुत विद्यमानम् ? तथा हि-

निरवधिगुणग्रामे रामे निरागसि वागसि -

स्फुरणमुषितालोका लोका वदन्ति सदन्तिके ।

वरतनुहतिं वालिद्रोहं मनागपसर्पणं

परिमितगुणे स्पष्टावद्ये सुधा किमुदासते ॥ ३१ ॥

मूलम् - ३१

प्रभावली - ३१

मत्परिगृहीताः ; असूयाविष्टाः । निरवधीत्यादि । वागेवासिः, तस्य स्फुरणेन मुषितज्ञानाः सन्तः । विद्युत्स्फुरणेन नष्टदृष्टयो भवन्ति जनाः । निरवधिः गुणग्रामो यस्मिन् । गुणग्रामः ; गुणसमूहः । निरागसि ; निरवद्ये ।

X४८३
आभ्या विशेषणाभ्यामुभयलिङ्गत्वमुक्तम् । वरतनुहतिम् ; ताटकावधम् । बालि- द्रोहम् ; अनभिमुखस्य हननम् । खरसमरे मनागीषदपसरणमित्येतानि दोषतया वदन्ति । कुत्र ? सतामन्तिके ; सता गोष्ठीषु निर्भया वदन्ति । एवं सति अल्प- गुणे स्फुटबहुदोषे पुरुषे असूयालवो मुधा व्यर्थं किमुदासते ? तूष्णीं न तिष्ठन्तीत्यर्थ ॥ ३१ ॥

प्रभाविलासः - ३१

Cप्रभाविलासः

निरवधीति । निरवधीना गुणानां कल्याणगुणानां ग्रामः समूहो यस्मिन् तस्मिन्, " बहवो नृप कल्याणगुणाः पुत्रस्य सन्ति ते " इत्युक्तत्वात् । रामे योगिध्येये, “रमन्ते योगिनो यत्र " इत्युक्तत्वात् । निरागसि ; निर्दोषे । वागेवासिः खड्गः, तस्य स्फुरणेन मुषितः आलोकः ज्ञानं येषां ते । वरतनुहतिम् ; स्त्रीहननं ताटकावधम् । मनागपसर्पणमिति ; " अपासर्पत वेगेन किचित् त्वरितविक्रमः" इति स्मारितम् । उदासते; उपेक्षन्ते । अत्र रूपाख्यं गर्भसंवेस्तृतीयमङ्गमुक्तम् " रूपं वाक्यं वितर्कवत् " इति लक्षणात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

(परिक्रम्य) क एते प्रत्यासन्नसुरसरिदनूपनीपवनमहीतलनिहितयोगासनाः स्थिरतरपर्यङ्कबन्धबन्धुरनिभृततरऋजुकाया86 मुण्डजटिलशिखाजटा मुनयः ?

(निर्वर्ण्य) हन्त विदितमेतत् ।

(सान्तसम्)

स्तनभरनतमन्तर्ब्रह्म सञ्चिन्तयन्तः

पुलकितनिभृताङ्गाः87 पुष्पबाणागमस्थाः ।

विजितकरणवर्गा विश्रुतात्मान एते

मुषितनिखिलधर्मा मुक्तभावं भजन्ते ॥ ३२ ॥

मूलम् - ३२

प्रभावली - ३२

सुरसरित; गङ्गा । अनूपः ; कच्छप्रदेशः । तत्र यन्नीपवनम् ; कदम्ब-

X४८४
वनम् । पर्यङ्कबन्धः ; योगपट्टबन्धः । बन्धुरम्; उन्नतानतम् । निभृततरम् ; निश्चलतरम् । केचन मुण्डाः केचिज्जटिलाः; केचन शिखामात्रजटाः । निर्वर्णनम् ; सूक्ष्मदर्शनम् । हन्तेति सन्तोषे । वेदनात् सन्तोषः । स्तनभरेति । पुष्पबाणागमस्थाः ; कामतन्त्रनिष्ठाः । विजितकरणवर्गाः; करणवगैः विजिता इत्यर्थः । स्वनभरनतं ब्रह्म ; योषिद्रूपम् । अन्तः; मनसि । सञ्चिन्तयन्तः पुलकित निश्चलाङ्गाः विश्रुतात्मानः महायोगिन इति प्रसिद्धाः नष्टसकलवैदिकधर्माः मुक्तत्वं नाटयन्ति सन्ध्यावन्दनाकरणादौ, न तु खण्डलड्डुकादनवेलायाम् ॥ ३२ ॥

प्रभाविलासः - ३२

;
स्तनभरेति । एकत्र सात्त्विकोदयेन, अपरत्र भक्त्यतिशयेन च

पुलकितेत्युक्तिः,

“स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।

भक्त्या सञ्जातया मर्त्या बिभ्रत्युत्पुलकां तनुम् ॥

इति स्मरणात् । विजितकरणवर्गाः ; विजितेन्द्रियवर्गाः, इन्द्रियवर्गविजि ताश्च । विश्रुतात्मानः सम्यक् श्रुतब्रह्माणः, वैशिकतया प्रसिद्धस्वरूपाश्च । मुषितनिखिलधर्माः; एकत्र ज्ञाननिष्पत्त्या, अन्यत्र नास्तिक्येन ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

नामतश्चैतान्निर्दिशामि -

श्रद्धायाजी षड्रस ब्रह्मवादी कामैकान्ती काकिणीनिष्कदासः ।

मार्जाराणां कुक्कुटानां बकानां छात्रा एते सिद्धचार्वाकतन्त्राः ॥ ३३ ॥

मूलम् - ३३

नामतश्चैतान्निर्दिशामि -

श्रद्धायाजी षड्रस ब्रह्मवादी कामैकान्ती काकिणीनिष्कदासः ।

मार्जाराणां कुक्कुटानां बकानां छात्रा एते सिद्धचार्वाकतन्त्राः ॥ ३३ ॥

प्रभावली - ३३

नाम्ना चैतान् कथयामि । श्रद्धेत्यादि । अयं कश्चित् श्रद्धायाजी ;

X४८५
स्वस्मिन् परेषां श्रद्धाजननार्थं यज्ञशीलः । अयं षड्सब्रह्मवादी ; षड्रससिद्धयर्थे ब्रह्मवादी । यद्वा षड्रसा एव ब्रह्मेति वादी । कामैकान्ती ; कामपुरुषार्थैकप्रवणः । काकिणी; सुवर्णसूक्ष्मकणः, स एव निष्कः, तस्य दासः । एते सर्वे सिद्धचार्वाक- तन्त्राः ; परिगृहीतचार्वाकग्रन्थाः । केचित् मार्जाराणां छात्राः ; कुत्रचिन्निश्चलं स्थित्वा समीपागतवस्तुग्रहणात् । केचित् कुक्कुटानां छात्राः ; प्रसह्य ग्रहणात् । केचित् बकानां शिष्याः; स्वस्मिन् धार्मिक इति विश्वासोपजननेन परद्रव्या- पहारात् ॥ ३३ ॥

प्रभाविलासः - ३३

श्रद्धायाजीति । श्रद्धयैव यजतीति, श्रद्धया न यजतीति वा श्रद्धामात्राभिनयेन यागशीलः, न तु दक्षिणाभोजनादिनेति । षड् रसाः मधुरादयः, त एव ब्रह्मेति वादी ; भक्ष्याभक्ष्यविवेकमन्तरेण केवलकदर्य इत्यर्थः । कामे एव एकोऽन्तो निष्ठा यस्येति कामैकान्ती । काकिणीनिष्कस्य सुवर्णकणस्य दासः ; तदर्थं नीचसेवामप्यनुमन्यमान इत्यर्थः । काकिणीमात्राभिलाषेण कृत्याकृत्यशून्यतयात्यन्तनीचतां प्राप्त इति वार्थः । तदुक्तम्-

" कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।

यक्ष्यन्ति हि प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ "

इति । माजराणामिति, बैडालव्रतिका उच्यन्ते । तल्लक्षणं तु-

" धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।

बैडालव्रतिको ज्ञेयो हिंस्रः सर्वातिसन्धिकः ॥

यस्य धर्मध्वजो नित्यं स्वाराड्ध्वज इवोच्छ्रितः ।

चरितानि च पापानि बैडालोऽसौ प्रकीर्तितः ॥ "
प्रभाविलास.

इति । कुक्कुटव्रतिलक्षणं च -

" सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।

तमाहुः कौक्कुटं देवास्तस्याप्यन्नं विवर्जयेत् ॥ "

इति । बकानामिति ; तल्लक्षणं तु-

""

अर्वादृष्टिनैकृतिकः स्वार्थसाधनतत्परः ।

शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

स्वस्ति चैतादृशां स्वोपकारमात्र संरम्भाय । दृश्यते हि-

नवदलपुटे कल्प्या यस्य प्रभोरपि तल्पधी-

र्नटपरिबृढो यस्याधस्ताच्छ्रमं शमयिष्यते88

वटविटपिनस्तस्याङ्कूराननुत्कटपल्लवान्

स्थपुट89 पुटसापेक्षो भिक्षुः प्रतिक्षणमीक्षते ॥ ३४ ॥

मूलम् - ३४

प्रभावली - ३४

स्वोपकारमात्र संरम्भाय ; स्वार्थमात्र परत्वाय संरम्भः; उद्योगः ।

X૪૮६
दृश्यते हि ; स्वार्थैकपरत्वम् । नवेत्यादि । यस्य वटस्य नवदलपुटे प्रभोः विष्णोरपि तल्पधीः शय्याबुद्धिः कार्या भवति । नटपरिवृढः रुद्रः दक्षिणामूर्तिः यस्य तरोर्मूले श्रमं नृत्तश्रान्तिं शमयिष्यते । तस्य ; वटवृक्षस्य । अनुत्कट- पल्लवान् ; अनुत्कटाः पल्लवा येषा तान् । अकुरान्; मुकुलान् । भिक्षुः ; सन्न्यासी । स्थपुटचटसापेक्षी ; स्थपुटः सान्द्रः चटसः चषकः पानपात्रं, तदपेक्षी । ब्रह्मरुद्रादिपरिग्राह्ये वटे गौरवबुद्धिं विहाय स्वभोजनैकापेक्षी सन् क्षणे क्षणे पश्यति ॥ ३४ ॥

प्रभाविलासः - ३४

इति । नवदलेति । प्रभोः ; नारायणस्य । नटपरिवृढः ; शिवः । स्थपुट- पुटसापेक्षः ; विस्तीर्णपत्रभाजनापेक्षः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

(आकाशे कर्णे दत्वा ) किं बूथ भिक्षवः ? प्रव्रज्यापरिग्रहः परपरिवदनं चेति विप्रतिषिद्धमिति । ही90 ही निगृहीता एव नूनं यूयं स्ववचनविरोधेन । प्रव्रजिताः खलु भवन्तोऽपि स्वगृहेभ्यः परि- वदन्ति च मामिति । (अन्यतोऽवलोक्य) अयमपरः कश्चिदिह रौक्मकुण्डलदण्डकमण्डलुमण्डितः, कटितटनिबिडनिगुम्मितदर्भरज्जुः, अष्टकाभोजन निरन्तराध्मातकुक्षिः, अनवरतविरचित हुङ्कार- भर्त्सितपुरोवर्तिजनः, इतस्ततो दत्तदृष्टिः, तृणीकृतजगत्त्रयः, त्रैविष्टपैरपि दुष्प्रवेशं धर्मध्वजस्य कुलपतेराश्रममुपजिगमिषति । इमं तावदाश्रमद्वारोपरोधेन तस्थुषी विशेषतो विविदिषामि ।
दर्पः - ( उपसृत्य प्रश्रयमभिनयन् ) भगवति, भारतकथा- प्रसिद्धवैभवा प्रव्रजिताश्रमाधिदेवताकल्पा91 प्रत्यायितयोगसिद्धिः सुलभेव92 सन्दृश्यसे । तदहमिह ग्रामकुलगोत्रादिभिर्विशेषतस्त्वां विजिज्ञासे ।

असूया - भद्र, अन्तिमाश्रमप्रविष्टैरवक्तव्यमेव पृच्छसि । अप्रणम्य तु मां कथं यूपवत्तिष्ठसि ?

दर्पः — वयः कर्मविद्यादिभिरधिकोऽहम् । आश्रमाधिका तु भवती । इह तु नन्तृनन्तव्यभावे सन्दिहानस्तिष्ठामि । -

असूया - अथ तर्ह्यस्मिन्नाश्रमे योऽसौ कुलपतिरशेषधर्मविदास्ते, तमेव धर्मसङ्कटं पृच्छामः ।

दर्पः — यदभिमतं भवत्याः । तदभ्युपगच्छामि । तिष्ठत्वयं विमर्शः । किन्तु किञ्चिदन्तर्वर्तते -

भवतीं सन्निवेशेन भाववीक्षितचेष्टितैः ।

अनुभूतचरीं मन्ये वेषस्तु विषमस्तव ॥ ३५ ॥

मूलम् - ३५

प्रभावली - ३५

आकाशे ; काचिद्वागभूदिति शेषः । असूया श्रुत्वा आह— किं ब्रूथ भिक्षव इति । भिक्षवो वदन्ति भो परिव्राजिके, प्रव्रज्यापरिग्रहः परपरि- वदनं परनिन्दा चेतीदं विप्रतिषिद्धम् अन्योन्यविरुद्धमिति । तच्छ्रुत्वा परित्रा- जिकाह - ही हीति । हीति विस्मये । हे भिक्षवः, यूयं जातिवादिन इव स्ववचनेनैव निगृहीताः । स्ववचनविरोधं दर्शयति - प्रव्रजिताः खल्विति । भवन्तोऽपि स्वगृहेभ्यः प्रव्रजिताः, मां परिवदन्ति च । असूया दर्पं वर्णयति -अयमपर इति । निबिडं यथा तथा निगुम्भितः बद्धः । श्राद्धभोजनेन

1 निर्विवर परिपूर्णकुक्षिः । त्रैविष्टपैः ; देवैः । आश्रमद्वारोपरोधेन ; आश्रमद्वार-

X४८७
मुपरुध्येत्यर्थः । प्रश्रयम् ; विनयम् । प्रव्राजकानाम् आश्रमाधिदेवतासदृशी प्रख्याप्यमानयोगसिद्धिः । विजिज्ञासे; ज्ञातुमिच्छामि । अप्रणम्येत्यादि स्पष्टम् । अन्तः; मनसि । सन्निवेशेन ; आकारेण । पूर्वं मया अनुभूता मन्ये । वेषस्तु विषमः ; इदानीमन्यो भवति ॥ ३५ ॥

प्रभाविलासः - ३५

अवक्तव्यमिति ; " एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः ’ इति वचनं स्मारितम् । भवतीमिति । सन्निवेशेन ; आकृतिविशेषेण ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

असूया - अहमपि दृष्टपूर्वमिव भवन्तं भावयामि । तिष्ठत्वयं विमर्शः । परमहंसपरिव्राजकैरपि महानुभावैर्वृत्तवृद्धेति क्रिया- समभिहारेण वन्दितपदां महाभागां मामप्रणम्य दीपदण्डवत्तिष्ठतः पाण्डरपटस्य ते प्रायश्चित्तं ब्राह्मणेन विधापयितुं तव च शुद्धिमापादयितुमिच्छामि ।

दर्पः - (स्वगतम् ) परिगृहीतान्त्याश्रमा प्रगल्भमिव93 किं प्रजल्पति ? (प्रकाशम्, सविचिकित्सम् ) अस्तु तर्ह्यसावाश्रमस्वामी प्रष्टव्यः ।

(इत्युभावुपसर्पतः)

दम्भः - (उभौ दृष्ट्वा मौनव्रतमभिनीय पत्नीं चेष्टया

चोदयति)

कुहना – (ससम्भ्रममुपसृत्य ) भद्द बह्मण, भअवइ सण्णासिणि, तुझेहिम् अम्हघरवइसआसादो दूरे ठादव्वम् । दीहमग्गा-94
गमणदूसिआणं तुम्हाणम् अकिअमज्जणाणम् अच्चासन्ती दूरपरिहर- णिज्जा । मन्तसिद्धिपरिपन्थिणी अ95 तुम्हाणं छाआ महाजोइविग्गहे मा होज । णं खु महत्पाणो वि मुणिअणा दूरे पणमन्ति । तेहिं वि उवणीअं भाईरहीसलिलं ण काहे वि घरसामिहत्थेण96 घेण्पइ97

(भद्र ब्राह्मण, भगवति सन्न्यासिनि, युवाभ्यामस्मद्गृहपति- सकाशात् दूरे स्थातव्यम् । दीर्घमार्गागमनदूषितयोर्युवयोर कृतमज्जनयोरत्यासत्तिर्दूर परिहरणीया । मन्त्रसिद्धिपरिपन्थिनी च युव- योरछाया महायोगिविग्रहे मा भूयात् । एनं खलु महात्मानोऽपि मुनिजना दूरे प्रणमन्ति । तैरप्युपनीतं भागीरथीसलिलं न कदापि गृहस्वामिहस्तेन गृह्यते ।)

दर्पः – (सोपालम्भम् ) अतिमहानयमपूर्वदम्पत्योर्युवयोर्धर्म- नियमः । अपि च वयमाप्लुता गङ्गायमुनासङ्गमे पुण्यतमैश्च मन्त्रैः
पुनः पुनः प्रोक्षिताः । आदित्यवत्तेजस्विनां स्वयम्प्रकाशविग्रहाणामस्माकं छायापि किं त्वयोपलभ्यते ? लभ्यते तु परं निरयपातः । अहह,98 सर्वलोकसम्भावितं सर्वाधिकं मामतिथिमिमां च परमहंस परिव्राजिकामन्योन्यनन्तृनन्तव्य भावसंशयनिर्मोचनाय समधिगतावनाहत्य99 नूनमसौ ते पतिराश्रमापस्मारो मौनव्यपदेशेन100 ‘स्वमौढ्यमेव प्रच्छादयति ।

दम्भः – ( सभ्रूक्षेपं हुङ्करोति)

कुहना - ( सरभसमुपसृत्य करतलेन मुखं पिधाय) महप्पहाव धम्मद्धअ, वाआणिअमं जोग्गेण कम्मणा मोत्तूण जोग्गाणम् अइ- हीणं जोगं पडिवअणं दाअव्वम् ।

( महाप्रभाव धर्मध्वज, वाङ्नियमं योग्येन कर्मणा मुक्त्वा योग्ययोरतिथ्योर्योग्यं प्रतिवचनं दातव्यम् ।)

दम्भः- (प्राणसंयममभिनीय प्रणवमुद्घोष्य स्वगतम् ) अकामोपनतमिदमसम्भाष्यसम्भाषणम् । (प्रकाशम्) रेरे व्रात्यब्राह्मण
मूढजनमूर्धाभिषिक्त, स्वमौढ्यप्रच्छादकं मां प्रख्यापयसि । दिष्ट्या खलु मया तपः सङ्क्षयभीरुणा नैतावन्तं कालं शप्यसे । शप्ताः खलु मया कति कति भस्मसात्समपद्यन्त । अविदितपूर्व दुराचार, दूरं गच्छ । मा ते भून्मम दृष्टितेजसा भस्मीभावः ।

दर्पः - (सक्रोधम् ) रेरे, मूढ द्विजातिरिति जातिं बहुमन्यमानेन मया पादेन शिरसि न ताड्यसे । अपि च,

तुण्डीरं मण्डलं मे कुलपतिरपि च स्कन्दभूपालवन्द्यः

क्षेत्रं सत्यव्रताख्यं101 क्षितितलतिलकं102 क्षुद्रकाञ्श्चयग्रहारः ।

प्रख्यातः शिष्यभूम्ना दिशि दिशि भवता कूपकूर्मोपमेन

स्थाता वादाहवेषु स्थविर कथमहं न श्रुतो नापि दृष्टः ॥ ३६ ॥

मूलम् - ३६

प्रभावली - ३६

X४८८
दृष्टपूर्वमिव ; पूर्व दृष्टमिव । वृत्तवृद्धेति हेतोः । क्रियासमभिहारेण ; पौनःपुन्येन । पाण्डरपटस्य ; गृहस्थस्य । प्रायश्चित्तमिति ; भिक्ष्वप्रणामे प्रत्यवायस्मरणादिति भावः । ब्राह्मणेन; कुलपतिना । परिगृहीतसन्न्यासाश्रमा प्रगल्भमिव; धृष्टमिव । सविचिकित्सम्;ससंशयम् । चेष्टया; अङ्गुलि कम्पनेन । अपूर्वदम्पत्योः ; अकारपूर्वदम्पत्योः, अदम्पत्योरिति हृदयम् ।

भद्द भद्र । बम्हण ब्राह्मण । भअवइ भगवति । सण्णासिणि सन्न्यासिनि । तुम्हे हि युवाभ्याम् । अम्हघर वइस आसादो- अस्मद्गृहपतिसकाशात् । दूरे ठादव्व-

X४८९
दूरे स्थातव्यम् । दीहमग्गागमणदूसिआण दीर्घमार्गागमनदूषितयोः । तुम्हाणं युव- योः । अकिममज्जणाणम् अकृतमज्जनयोः । अच्चासन्ती-अत्यासत्तिः । दूरपरिहरणिजा- दूर परिहरणीया । मन्तसिद्धिपरिपन्थिणी अ मन्त्रसिद्धिपरिपन्थिनी च । तुम्हाणं युव- योः । छाआ-छाया । महाजोइविग्गहे मा होज्ज - महायोगिविग्रहे मा भूत् । एणं खु-एन खलु । महत्पाणो- महात्मानः । मुणिजणा - मुनिजनाः । दूरे पणमन्ति- दूरे प्रणमन्ति । तेहिं वि तैरपि । उवणीअं- उपनीतम् । भाईरहीसलिलं भागीरथीसलिलम् । ण काहे विन कदापि । घरसामिहत्थेण गृहस्वामिहस्तेन । घेप्पर- गृह्यते । अपूर्वदम्पत्योः ; अकारपूर्वदम्पत्योः, अपत्योरिति हृदयम् । लोकविलक्षण-

X४९०
दम्पत्योः । धर्मे नियमः । आप्लुताः; स्नाताः । उपलभ्यते ; दृश्यते । लभ्यते ; प्राप्यते । परम् ; केवलम् । सम्भावितम् ; पूजितम् । परमहंसाश्रमे परिव्राजिकाम् । निर्मोचनम् ; निर्णयः । समधिगतौ; प्राप्तौ । आश्रमस्थापस्मारः । व्यपदेशः ; व्याजः । कोपात् सभ्रूक्षेपम् । सरभसम्; शीघ्रम् । मुखम् ; स्वमुखम् । महप्पहाव धम्मअ- महाप्रभाव धर्मध्वज । वाआणि- अमं वाङ्नियमम् । . जोग्गेण योग्येन । कम्मणा - कर्मणा ; प्रणवजपेनेति भावः । मोत्तूण-मुक्त्वा । जोग्गाणं योग्ययोः । अइहीणं - अतिथ्योः । जोग्गं - योग्यम् । पडिवअणं- प्रतिवचनम् । दाअव्वं दातव्यम् । प्राणसंयमम् प्राणायामम् । अकामोपनतम् ; अनिच्छया प्राप्तम् । व्रात्यः; संस्कारहीनः । न शप्यसे;

‘.

X४९१
न शप्तोऽसि । भस्मसात्; भस्मभावम् । समपद्यन्त ; प्राप्ताः । पूर्वमविदित; अविदितत्वादेव मयोदासितमिति भावः । तेजसा ; वह्निना । ब्राह्मणजातिं बहु मन्यमानेन ; न त्वामिति भावः । तुण्डीरमिति । तुण्डीर मण्डले गर्व उत्पन्न इति द्योत्यते । कुलपति ; कूटस्थः । स्कन्दभूपालस्य गुरुः । सत्यव्रतेति ; तत्रापि सत्यव्रत क्षेत्रसमीपे गर्वोऽधिक इति भावः । क्षुद्रकाञ्च्यभिधानोऽग्रहारः ; मम ग्रामः । शिष्यबाहुल्यात् दिशि दिशि प्रख्यातोऽहम् । वादाहवेषु स्थाताहम् । भो स्थविर; वृथापलितशिरस्क । कूपकूर्मोपमेन ; स कूप एव स्थितोऽन्यत्र गन्तुमशक्तः; तद्वत् त्वमपीति भावः । कथं न श्रुतः, नापि दृष्टः ; तत्र कारणं न जान इति भावः ॥ ३६ ॥

प्रभाविलासः - ३६

क्रियासमभिहारेण ; पौनःपुन्येन । दूरे प्रणमन्तीति; दूरपरि-
हारो व्यज्यते । अपूर्वदम्पत्योरिति; अवर्णपूर्वदम्पत्योरिति व्यज्यते ।
तुण्डीरमिति । स्कन्दभूपालः शूद्रप्रभुः कश्चित् । क्षुद्रकाञ्चीति; बृहत्काञ्ची लक्ष्यते ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

(विहस्य ) अहो ‘महादाम्भिक,103 अविदितमदीयाचारः’104 किमिति दुराचार इत्युपक्रोशसि105 । अथवा कः खल्वयं मया विना मत्प्रभावाभिज्ञः ? यस्य मे महायोगिनोऽपि अभिजनविद्यावृत्तेषु षोडशीमपि कलां नार्हन्ति । किमुत पृथग्जनाः ? अत एव हि श्रोत्रियानपि त्रिवर्षपूर्वान्न नमस्करोमि । किं न वेत्थ मामकं धर्मप्रवर्तनाभिसन्धिम् ?

रथ्यावादविशङ्कयमानजरठासम्बन्धिसम्भाषणात्

त्यक्ता हन्त पतिव्रता गुणनिधिः सत्रासमम्बा मया ।

विद्यातश्च विवाहतश्च विदितादाचारतश्च106 क्षितौ107

कूटस्थाभ्यधिकस्य मे किमधिकः108 को वा समः कथ्यते109 ॥ ३७॥

मूलम् - ३७

प्रभावली - ३७

X४९२
उपक्रोशसि ; जुगुप्ससे। त्वयि दोषो नास्तीति पक्षान्तरमवलम्बते- अथवेति । कः खल्वयम् ; स को बेत्यर्थः । षोडशीम् ; षोडशधा विभक्तस्यैकां कलामपि । त्रिवर्षेण पूर्वाः तान् । किं न वेत्थ ; न जानासि खल्वित्यर्थः । तत्राभिजनोत्कर्षमाह —— रथ्येति । रध्यायां स्थित्वा केनचित् सम्भाषणं रथ्या-

’ -.

X४९३ .
वादः ; तन्मात्रेण विशङ्कयमाना या जरठा स्थविरा, तत्सम्बन्धिना केनचित् जनेन सम्भाषणात् । हन्तेति हर्षे । अतः विद्याभिः विवाहाच्च लोकप्रसिद्धात् आचारतश्च । कूटस्थात्; वंशप्रथमपुरुषात् अभ्यधिकस्य मे को वा समः ; कश्च अधिकः कथ्यते ; न कोऽपीत्यर्थः ॥ ३७ ॥

प्रभाविलासः - ३७

विहस्येति । विहसितं हास विशेषः,

स्थूलः कर्णकटुध्वानो बाष्पपूराप्लुतेक्षणः ।

करोपगूढपार्श्वश्च हासो विहसितं मतम् ॥

इत्युक्तत्वात् । रथ्येति । रम्यावादेन व्यभिचारारोपेण विशङ्क्यमाना काचित् जरठा वृद्धा, तत्सम्बन्धिन्यन्या, तया सह सम्भाषणात् ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

दम्भः - अरे ब्रह्मबन्धो दुर्विनीत दुराग्रह, यद्येवं त्वमा- स्थितसमाचारः किं न परिव्राजिकां प्रणमसि ? पितरमिव सर्व- लोकाभ्यर्चितं विदितसकलवेदितव्यैः महात्मभिरव्यविदितवैभवं110 111 त्रिवर्षपूर्वश्रोत्रियं मां, धर्मपत्नीं च मम पतिव्रतावृत्तिनियमेन112 प्रत्यक्षितपरावरतत्त्वैरपि पितामहादिभिः क्रियासमभिहारेण कृतनमस्कारां किं नाभिवादयसि ?

दर्पः- हे धर्मध्वज आत्मश्लाघापातकिन्, अद्य खलु पूज्यपूजाव्यतिक्रमेण कपूयां योनिं प्रतिपत्स्यसे श्वयोनिं वा चाण्डालयोनिं वा । अहमपि सर्वलोकसञ्चारी त्वदभ्यर्चकं क्वापि113 ‘कमपि114 न पश्यामि । (सोच्चैर्हासम् ) भो भो जडवञ्चक,115

प्रजानां पतयो दृष्टाः पशूनां बृहतामपि ।

न च त्वमधिकस्तेभ्यो न चास्मान् बहुमन्यसे ॥ ३८ ॥

मूलम् - ३८

प्रभावली - ३८

ब्रह्मबन्धुः ; ब्राह्मणाभासः । दुराग्रह; दुष्ट आग्रह गर्वप्रयुक्तो यस्य । आस्थितसमाचारः परिगृहीतसमाचारः । किमिति इमा परिव्राजिकां न प्रणमति । पितरमिति । मा पितरमिव सर्वे समर्चयन्तीति भावः । वेदित-

X४९४
;

व्यानि ज्ञातव्यानि । मम धर्मपत्नीं च कुहनामित्यर्थः । पातिव्रत्यनियमेन पितामहादिभिरपि नमस्कृतामित्यन्वयः । ते कीदृशा इत्यत्राह - प्रत्यक्षितेति । धर्मध्वज; दाम्भिक । पूज्यस्य मम पूजाव्यतिक्रमेण कपूर्या कुत्सिता योर्नि प्राप्यस्यसि । योनि विशिनष्टि - श्रयोनिमिति । श्वयोनिम् ; श्वजन्म वा । त्वा- मभ्यर्चयतीति त्वदभ्यर्चकः, तम् । क्वापि ; कुत्रापि । जडान् वञ्चयतीति जडवश्वकः । प्रजानामिति । मया बहवः प्रजापतयः पशुपतयः बृहस्पतयश्च दृष्टाः । ते सर्वेऽपि मा बहुमन्यन्ते । त्वं तेभ्योऽधिको नासि च । अथाप्यस्मान् न बहुमन्यसे च ॥ ३८ ॥

प्रभाविलासः - ३८

प्रजानामिति । बृहतां पतयः बृहस्पतयः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

नूनमधिकजनपरिवादेन सहसैव निरयं116 गमिष्यसि ।

कुहना - भअवइ,117 एसो दुब्बम्हणो महेसिपरिवारण विणासं पडिवज्जइ118

( भगवति, एष दुर्ब्राह्मणो महर्षिपरिवादेन विनाशं प्रतिपद्यते । )

असूया - अयि धार्मिकपत्नि, दुर्ब्राह्मणीव किमिति नामाभ्यागतमतिथिमधिक्षिपसि ? किं तु अन्योन्यपरिवादिनावेतौ महानुभावौ क्षणमावाभ्यां क्षन्तव्यौ ।

दम्भः – ( सक्रोधम् ) रे रे वाचाटवायस,

वृथा पर्यटनशीलोऽसि । तथा हि-

सारमेय इव

जातिमात्रशरणा बहिष्कृताः केचिदाहृतजघन्यवृत्तयः ।

रोषणा विपरिधाविनो मुधा हेपयन्ति जनमुज्झितहियः ॥ ३९ ॥

मूलम् - ३९

प्रभावली - ३९

अधिकजनः ; महाजनः । परिवादः ; निन्दा । असूया प्रतिवदति-

"

X४९५
भअवs इति । एसो - एषः । दुब्बम्हणो- दुर्बाह्मणः । महेसि परिवा एण महर्षि- परिवादेन, निन्दनेन । विणासं विनाशम् । पडिवज्जइ प्रतिपत्स्यते । अयीति । धार्मिकस्य पत्नी सती दुष्टब्राह्मणीव किमिति किमर्थम् अधिक्षिपसि ; धिक्करोषि । न कर्तव्यमिदम् । किन्तु अन्योन्यपरिवादिनौ; अन्योन्यदूषकौ । वायस इव वाचाट इत्यर्थः । सारमेयः श्वा । जातीति । अत्र लज्जाहीनाना शुनां च श्लेषः । ब्राह्मणत्वादिजातिमात्रावलम्बनाः, न तु तदनुरूपवृत्तवन्तः । अन्यत्र जातिः भस्मादिभरितस्थानविशेषः ; तन्मात्रशरणाः । बहिष्कृताः; सज्जनैः । अन्यत्र गृहात् बहिष्कृताः । आहतजघन्यवृत्तयः ; परिगृहीतहीनाचाराः । अन्यत्र जघन्यवृत्तिर्व्यवायः । रोषणाः ; रोषणशीलाः । उभयेऽपि विपरि- धाविनः ; व्यर्थ पर्यटनशीलाः । उज्झितहियः ; स्वयं त्यक्तलज्जाः । जनं प्रेक्षकमपि हेपयन्ति; लज्जितं कुर्वन्ति । निन्द्यदर्शने जनाना लज्जा जायत इत्यर्थः ॥ ३९ ॥

प्रभाविलासः - ३९

सारमेयः ; भषकः । तत्साम्यमेवाभिव्यनक्ति - जातिमात्रेति ।
जातिः ब्राह्मणत्वादिः, तन्मात्रशरणाः । न तु तदुचिताचाराः । अन्यत्र भस्म-

भरिताधिश्रयणीमात्राश्रयाः ।

“चुल्लीकाम्पिल्यगोत्रेषु छन्दः सामान्यजन्मसु ।

मालतीजातिफलयोर्जातिर्धात्र्यामलङ्कृतौ ॥ "

इति निघण्टुः । बहिष्कृताः; स्वजनैः परित्यक्ताः ; अन्यत्र बहिरेव कृताः । आहतजघन्यवृत्तयः ; अङ्गीकृतनीचाचाराः, स्वीकृतजघनसम्बन्धिव्यापाराश्च । तुल्यमन्यत् । हास्यरसो व्यङ्ग्यः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

दर्पः - ( सहस्तास्फालनं विहस्य) यथावस्थितवादिने मह्यं मर्कट इव किमिति नाम कुप्यसि ?

दम्भः –रे रे, स्तम्भ इव वृथा स्थूलस्त्वं विश्ववृत्तान्तं न जानासि ।
मयि चरति कदाचित्सत्यलोकोपकण्ठे

सपदि सनकमुख्यैः साकमभ्युज्जिहानः ।

सविनयनिभृताङ्गः सप्तशः क्षालितेन

स्वयमुदवहदर्घ्य पाणिना पद्मयोनिः ॥ ४० ॥

मूलम् - ४०

प्रभावली - ४०

यथेत्यादि । यथार्थवादिने मह्यम् । स्थूलत्वस्य प्रयोजनाभावात् वृथा-

X४९६
त्वम् । मयीति । कदाचित् सत्यलोकसमीपे मयि चरति सति तत्क्षण एव सनकादिभिः सहाभिमुखमागच्छन् पद्मयोनिः सविनयश्चासौ निभृताङ्गश्च सन् सप्तकृत्वः शोधितेन पाणिना स्वयमेव, न त्वन्येन, अर्घ्यमुदवहत्; मह्यमिति शेषो लभ्यते ॥ ४० ॥

प्रभाविलासः - ४०

मयीति । उपकण्ठेः समीपे । अम्युज्जिहानः ; प्रत्युद्गच्छन् । अत्र कविनिवद्धवक्तप्रौढोक्तिकल्पितातिशयोक्तिः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

अपि च,

कति कतीह पुरातनतापसाः कमल सम्भववंशसमुद्भवाः ।

अतितरन्ति महान्त्यपि पातकान्यहह मामकपादजलाप्लुताः ॥ ४१ ॥

मूलम् - ४१

अपि च,

कति कतीह पुरातनतापसाः कमल सम्भववंशसमुद्भवाः ।

अतितरन्ति महान्त्यपि पातकान्यहह मामकपादजलाप्लुताः ॥ ४१ ॥

प्रभावली - ४१

अपि च ; किञ्च । बहवः पुरातना तापसा मुनयः ; ब्रह्मवंशसमुद्भूता मपीति शेषः । मामकपादजलाप्लुताः सन्तः महापातकान्यतितरन्ति ॥ ४१ ॥

प्रभाविलासः - ४१

कतीति स्पष्टम् । अत्राप्यतिशयोक्तिः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

कुहना - सच्चम् एवं दिट्ठ मए वि सहधम्मआरिणीए ॥

(सत्यमेतद् दृष्टं मयापि सहधर्मचारिण्या । )

दर्पः – (स्वगतम् ) नूनमयमार्यो दम्भः, इयमपि कुहना । न खल्वन्येषामीदृशं चारित्रमतिवादनं वा सम्भवति । तदेतावेव-
अस्मद्बन्धुभूतावभ्युपगमयामि । ( प्रकाशम्) भगवति विश्ववेदिनि, युक्तिसिद्धमिह किमपि भगवत्यै निवेदयामि –

परधनहरणप्रवीणभावा कुटिलमतिः कुहनैव सेयमार्या ।

पशुवधपरिशेषनामयज्ञः स्ववशजनः स्वयमेव दम्भ एषः ॥ ४२ ॥

मूलम् - ४२

प्रभावली - ४२

सचं - सत्यम् । एवम् एतत् । दिट्ठ-दृष्टम् । मए वि-मयापि । सहधम्मआरिणीए सहधर्मचारिण्या । चारित्रम् ; आचारः अतिवदनम् ; अत्युक्तिः ।

X४९७
अभ्युपगमयामि ; अङ्गीकारयामि । सर्वज्ञे किमपि निवेदयामि ; दर्शयामि । परधनेति । परधनापहरणे प्रावीण्यं यस्याः सा । वक्रबुद्धिः कुहनैव । केत्या- काङ्क्षायामाह - सेयमार्या ; इयं सन्न्यासिनी । एषः; कुलपतिश्च । पशुवध एव परिशिष्यते यत्र न फलं, सः नाममात्रयज्ञः मन्त्रतन्त्रादिहीनो यस्य सः । स्ववशे जना यस्य सः दम्भः स्वयमेव ॥ ४२ ॥

प्रभाविलासः - ४२

परधनेति । पशुवध एव परिशेषो यस्य स चासौ नाम्नैव यज्ञो यस्य सः, “ यजन्ते नामयज्ञैस्ते " इत्युक्तत्वात् । तेन स्ववशजनः ;

स्वाधीनजनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

तत्कथमेतत्सकाशाद्धर्मसङ्कटं मोक्ष्यावः ?

असूया - अहमप्येवं सम्भावयामि ।

दम्भः - (सान्तर्हासम्) युवामप्यहं युक्तितः स्थापयामि-

ध्रुवमत्र गुणोत्तरापवादी ध्वनिसारः स्वयमागतोऽसि दर्पः ।

परिकल्पितवीतरागवेषा तव भार्यैव भवेदसावसूया ॥ ४३ ॥

मूलम् - ४३

प्रभावली - ४३

तत् ; तस्मात् । एतत्सकाशात् धर्मसङ्कटं कथं मोक्ष्यावः ; न कथञ्चित् । सम्भावयामि ; विचारयामि । स्थापयामि ; निश्चिनोमीत्यर्थ । भो सखे, त्वं गुणोत्तरान् उत्कृष्टजनान् अपवदितुं तिरस्कर्तुं शीलमस्यास्तीति सः । ध्वनिरेव सारो यस्य सः । दर्पोऽत्र स्वयमागतोऽसि ध्रुवम् । क्लृप्तसन्न्यासिवेषा असौ इयं च तव भार्या असूयैव ॥ ४३ ॥

प्रभाविलासः - ४३

ध्रुवमिति । गुणोत्तरापवादी ; उत्कृष्टगुणतिरस्कारकः ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

(नेपथ्ये)

गृहपतिरतिथिश्च सत्यवादिनावेतौ गौडलाटधार्मिकौ । (सर्वे सप्रत्यभिज्ञं परस्परमवलोक्य सन्तोषमभिनयन्ति )

दम्भः - ( सानन्दम् ) सखे दर्प, अभिव्यञ्जिता वयमिदा नीमशरीरिण्या भारत्या ।

दर्पः - अवितथवादिनी खल्वेषा । तदार्येणापराधो मामकः

क्षन्तव्यः ।

दम्भः — मयापि खल्वपराद्धम् ।

( दम्भदर्पावन्योन्यमञ्जलिं बघ्नीतः ; निबध्नीतश्च प्रियवच- नम् । असूयाकुहने गाढं मिथ आश्लिष्यतः)

दम्भदपौ — यथामनोरथमिह वयं यदृच्छया दैव्या समा-

गताः । अभिगन्तव्यस्त्वनन्तरं समये महाराजः

(ततः प्रविशति महामोहो दुर्मतिश्च)
महामोहः - ( विचिन्त्य) प्रिये, महासाहसिकस्य कुलघ्नस्य विवेकस्य विध्वंसनाय119 कृतप्रतिज्ञेन मया समाधिसाकाङ्क्षपुरुष- चित्तसङ्क्षोभणाय120 प्रेषिताः सिंहवन गुप्तिन्यायेन परस्पराभिरक्षिताश्च कामक्रोधादयः कालोपपन्नकातर्यकलुषिताः सैकतसेतव इव भग्नव्यूहाः प्रतिनिवृत्य कथमप्यस्मन्मुखमवलोकयितुमक्षमाः प्रतिदिशं प्रस्थाय प्रायमास्थिता121 इत्युपश्रुतमस्माभिः । तदिह भवत्या तत्प्रेयसी रतिजिघांसातृष्णास्तत्सकाशं गमयित्वा मामकास्ते मन्त्रिणः 122 समाश्वासयितव्याः ।

आओ ।

दुर्मतिः- भय्यउत्त, पुव्वम् एव्व ताओ ताणं सभीवं गमि-

( आर्यपुत्र पूर्वमेव तास्तेषां समीपं गमिताः । )
महामोहः – साधु प्रिये, साधु; यदस्मद्वल्लभोचितमनुष्ठितं भवत्या । प्रत्याश्वस्तास्ते समरसमये समाह्वातव्याः ।

दुर्मतिः — एव्वम् एव्व123

( एवमेव ।)

महामोहः - ( विषादातिशयं नाटयन् ) प्रिये, अद्य यावद- प्रतिहतकीर्तिरपत्रपेऽहमसदृशेन दुरात्मना विवेकेन सह विवादः संवृत्त इति । यथा त्वं नारीषु निःसमाभ्यधिका तथाहं पुरुषेषु । यतः,

सुरदनुजगणाः स्वमूर्ध्नि नित्यं

निदधति शासनपत्रिकां मदीयाम्

प्रतिफलितलिपिप्रकारदीप्य124 -

न्मणिमकुटांशुमषीरसानुलिप्ताम् ॥ ४४ ॥

मूलम् - ४४

प्रभावली - ४४

X४९८
नेपथ्ये अशरीरिवचनमभूत्; किमित्यत्राह गृहपतिरिति । गौडलाट- धार्मिकौ ; गौडो लाटश्च देशविशेषः ; तद्देशे गृहपत्यतिथी अन्योन्यपरिभावुका विति सम्प्रदायः । गौडदेशीयानां केवलं धर्मध्वजत्वम् ; न तु वास्तवधार्मिकत्वमिति गम्यते । अभिव्यञ्जिताः; प्रकाशिताः । सत्यवादिनी एषा अशरीरा भारती । अपराद्धम् ; अपराधः कृतः । तदपि क्षन्तव्यमिति शेषः । निबध्नीतः उक्तवन्तावित्यर्थः । आश्लिष्यतः ; अन्योन्यमालिङ्गितवत्यौ । यदृच्छया देव्या

X४९९
देवकृतया । समये ; योग्यकाले । महासाहसिकस्येत्यादि विशेषणं दुःखबाहुल्य- प्रयुक्तम् । सिंहवनगुप्तिन्यायेन ; अयं न्यायस्तु - सिंहो वनं रक्षति, वनं च सिंहं रक्षतीति । कालप्राप्तकातर्येण सञ्जातकालुष्याः भग्नबलविन्यासाः । प्रायम् ; अनशनेन शरीरत्यागम् । परिगृहीतवन्त इति उपश्रुतं कर्णाकर्णिकया श्रुतम् । तत्प्रेयसीः ; तेषां कामादीना पत्नीः । कामस्य रतिः; क्रोधस्य जिघांसा; लोभस्य तृष्णा । मन्त्रिणः ; कामादयः । पुव्वमित्यादि । पुव्वम् एव्व - पूर्वमेव । ताओ ताः, रत्यादयः । ताणं समीवं तेषां समीपम् । गमिआओ-गमिताः ;

X५००
साधु सम्यक् कृतम् । वल्लभोचितम् ; वल्लभत्वस्योचितम् । प्रत्याश्वस्ताः ; समाश्वस्ताः । एव्वम् एव्व एवमेव । विषादः; शोकः । अद्य यावत्; एतद्दिन - पर्यन्तम् । अप्रतिहतकीर्तिरहं विवादः संवृत्त इत्यपत्रपे; परेभ्यो लज्जितो- ऽस्मि । स्वस्य निःसमाभ्यधिकत्वं प्रतिपादयति- सुरेति । दनुजाः असुराः ।

X५०१
निदधति; निक्षिपन्ति । प्रतिफलिताः शासनपत्रिकालिपयोऽक्षराणि, तत्प्रकारेण दीप्यन्तो मणयो यस्मिन् । प्रतिफलितानां लिपीना प्रकारेण पङ्क्त्या आर्जवादिस्वाभाव्यात् दीप्यन्त इत्यर्थः । तादृशस्य मकुटस्यांशव एव मषीरसः, तेनानुलिप्तां रञ्जिताम् ॥ ४४ ॥

प्रभाविलासः - ४४

गौडेति । गौडादीनां धर्मध्वजमात्रत्वं न तु वास्तवधार्मिकत्वम् । तदार्येणेत्यादिना परिहारो नाम नाटयालङ्कारः, " परिहारस्तु विज्ञेयः
कृतानुचितमार्जनम्" इति लक्षणात् । सिंहवनगुप्तिन्यायः सिंहेन वनं, वनेन सिंहो रक्ष्यत इति न्यायः । प्रायोपवेशमास्थिता इति सुग्रीवसचिव -

समाधिः । सुरेति । प्रतिफलितैः लिपिप्रकारैः लिपिभेदैः दीप्यन्तः मणयः इन्द्रनीला येषु तानि तेषां मकुटानामंशव एव मषीरसः तेनानुलिप्ताम् । यद्वा प्रतिफलिता च सा लिपिप्रकारेषु दीप्यन्मणिमकुटांशुमषीरसानुलिप्ता च, ताम् । अथवा प्रतिफलिताः प्रतिहत्य प्रसृताः, अत एव लिपि - प्रकारेण दीप्यन्तो व्याप्नुवन्तो मणिमकुटांशवः, त एव मषीरसः, तेनानुलिप्ताम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

अपि च,

वर्गः स्वर्गसदां मया नियमितः क्षोणीभृतः किं पुनः

पद्माम्भोनिधिपर्वतेषु निहितास्तिस्रो मया मूर्तयः ।

विश्वं कर्तुमकर्तुमन्यथयितुं मद्भ्रूरमोघक्रमा

सोsहं125 कस्य वशे क126 एष न च मे किं कस्य वा कथ्यते ॥ ४५ ॥

मूलम् - ४५

प्रभावली - ४५

स्वमाहात्म्यं वक्तुमशक्यमित्याह - वर्ग इति । स्वर्गसदः ; देवाः, तेषा वर्गः स्वायत्तीकृतः । क्षोणीभृतः ; राजानः नियमिता इति कि वक्तव्यम् । सर्वोत्कृष्टाः तिस्रो मूर्तयश्च ब्रह्मविष्णुरुद्राः यथाक्रमं पद्मे सरस्वतीपीठरूपे ब्रह्मा नियमितः, लक्ष्म्युत्पत्तिस्थाने अम्भोनिधौ विष्णुः, पार्वतीजनके पर्वते रुद्रः । अतः मद्भ्रूक्षेपः जगत् स्रष्टुं नाशयितुं प्रकारान्तरेण कर्तु च अमोघक्रमः अप्रतिहतगतिर्भवति । सोऽहम् ; तादृशोऽहम् । कस्य वशे ; कस्य परतन्त्रः । किं कस्य वा कथ्यते ; कस्य वा कि मदीयं माहात्म्यं कथ्यते ; वक्तुमशक्यमित्यर्थः ॥ ४५ ॥

प्रभाविलासः - ४५

वर्ग इति । क्षोणीभृतः ; राजानः ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

(स्वगतम् ) किं तावदद्य केनापि हेतुना प्रदीप्यमाने विवेके प्रतिविधातव्यम् ? अस्तु; नन्वहं महामोहः । ( प्रकाशम्) प्रिये,
यद्यपि127 सर्वत्र मया प्रवर्तिताः समयभेदाः कैश्विदौपनिषदापशदै रहस्करकिरणा इव घनैः किञ्चिदन्तर्धापिताः ; यद्यपि च कामादयश्चिकीर्षितवैकल्यजनितवैलक्ष्यदर्शनात्’128 अनालक्ष्या गूढमासते तथापि भेदमभेदं च वस्तूनां पूर्वपक्षसिद्धान्तौ च सर्वत्र विपर्यस्य विश्वं व्यामोहयामि । अथवा पुनरहमहङ्कारादिसम्मतम्, अचरमप्रमाणप्रधानम्, अलौकिकार्थकल्पनादुर्व्यसनहीनम्, अर्थकाम मात्र पुरुषार्थहृद्यम्, अवितथं, सिद्धान्तं गम्भीरयुक्तिभिरुत्तम्भयन् वृथोत्साहमेव129 जडमतिं विवेकं विधित्सामि130 । अहह,

पृथिव्यापस्तेजः पवन इति तत्त्वानि मिलितै-

रमीभिश्चैतन्यं भवति मदशक्त्यादिनयतः ।

किमात्मा दृष्टोऽन्यः किमुत वपुषि ध्वंसिनि सुखं

तदेतद्वागीशः समतनुत लोकायतमतम् ॥ ४६ ॥

मूलम् - ४६

प्रभावली - ४६

स्वगतम् आलोचयति किं तावदिति । केनापि हेतुना ; निष्कारणमिति भावः । किं प्रतिविधातव्यम् ? एवं विचिन्त्य समाश्वसिति – अस्त्विति । महामोहस्य मम तत्प्रतिविधाने को वा भार इति भावः । स्वकर्तव्यमाह-

X५०२
यद्यपीति । यद्यपि बाह्यसमयाः प्रतिक्षिप्ताः कामादयश्च पराजिताः, तथापि वस्तूनां भेदमभेदं च विपर्यस्य भेदमभेदत्वेन अभेदं भेदत्वेन च परिकल्प्य सर्वत्र समये पूर्वपक्षसिद्धान्तौ च विपर्यस्य पूर्वपक्षं सिद्धान्तत्वेन सिद्धान्तं
पूर्वपक्षत्वेन च विपरीतं कृत्वा विश्वं व्यामोहयामि । औपनिषदापशदेः ; वेदान्त्याभासैः मेघैः सूर्यकिरणा इव किञ्चित्तिरस्कृताः । वैकल्येन जनितं वैलक्ष्यं लज्जा; तद्वशेन अनालक्ष्याः । अथवेति पक्षान्तरं चार्वाकमत - मवलम्बते । अहङ्कारादिसम्मतम् ; स्थूलोऽहं कृशोऽहमित्यनुभवसंवादीत्यर्थः । अचरमप्रमाणं प्रत्यक्षं तदेव प्रधानं यत्र । अलौकिकार्थस्य अतीन्द्रियार्थस्य स्वर्गादेः कल्पनैव दुर्व्यसनं तद्रहितं प्रत्यक्षसिद्धत्वाभावात् तत्र कल्पनैव । अर्थकाममात्र पुरुषार्थत्वेन हृद्यम् । मात्रशब्देन धर्ममोक्षयोर्व्युदासः । अवितथम् ; अत एवासत्यरहितं सर्वसमतत्वात् । सिद्धान्तं लौकायतिकम् । उत्तम्भयन् ; उपबृंहयन् । व्यर्थोत्साहमेव विधास्यामि । उत्तम्भनप्रकारं दर्शयति—- पृथिव्याप इति । चत्वार्येव तत्त्वानि, नाधिकानि । अमीभिर्मिलितैः; सम्बन्धविशेष- विशिष्टैः चैतन्यमुद्भवति । तत्र दृष्टान्तमाह मदशक्त्यादिनयतः ; किण्वादि- मदकरद्रव्याणा सम्बन्धविशेषात् मदशक्तिर्यथोत्पद्यते तन्न्यायात् । शरीरादन्य आत्मा अस्तीति दृष्टः किम् ? न दृष्टः । शरीरे नष्टे कि सुखमनुभूयते ? नेत्यर्थः । प्रवर्तकनैपुण्यादप्यस्य मतस्य प्राबल्यमाह - तदेतदिति । वागीशः ; बृहस्पतिः । ‘बुद्ध्या बृहस्पतेस्तुल्यः’ इति बुद्धिविषये सर्वेषामुपमानत्वेनोपात्तः ॥ ४६ ॥

प्रभाविलासः - ४६

अचरमप्रमाणम् ; प्रथमप्रमाणम् । लौकायतिकमतमुपन्यस्यति - पृथिवीति । तच्चानि; उक्तक्रमेण चत्वार्येवेत्यर्थः, आकाशस्यालीकत्वाङ्गीकारात् । मदशक्तिः ; किण्वादौ मदशक्तिः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

X५०३

उपनिषदपि खलु बलवदभिमतसमयबलीयस्त्वमभिसन्धाय व्यवस्थापयति-" असुराणां ह्येषोपनिषत् " इति । तदिह त्रय्यन्तवादिभिरुपनिषत्प्रामाण्यसमर्थनमप्यस्माकमरातिकरलिखितविजय-

पत्रायते । अपि च ;

स्वमतविपरीतमन्यैः क्रोशति हृदये विधीयते स्वैरम् ।

अमरगुरुशिक्षितार्थैरस्मत्सार्यैर्यथाहृदयम् ॥ ४७ ॥

मूलम् - ४७

प्रभावली - ४७

न केवलं युक्तिभिः प्राबल्यम्; उपनिषदप्यस्य प्राबल्यमाहेत्याह- उपनिषदपीति । प्रबलासुरपरिग्रह बलीयस्त्वमभिप्रेत्यास्य प्राबल्यं निगमयति ।

X५०४
बलवतामसुराणामभिमतोऽयं समयः । असुराणामित्यादिनान्योपनिषद्भयः प्राबल्यं दर्शितमिति भावः । त्रय्यन्तवादिभिरुपनिषत्प्रामाण्यसमर्थनमप्यस्मदभिमतसाधनमित्याह - तदिहेति । शत्रुहस्तलिखितविजयपत्रवदाचरति । स्वमतेति । मनस्यसम्मते जुगुप्सिते सत्यपि स्वानुभवविपरीतमेव, स्वैरं यथेच्छम्, न प्रमाणानुगुणमिति भावः । विधीयते ; प्रतिपाद्यते । अमरगुरुणा बृहस्पतिना शिक्षितार्थैः अस्मन्मतनिर्वाहकैस्तु यथाहृदयं स्वानुभवानुगुणमेव प्रतिपाद्यते ॥ ४७ ॥

प्रभाविलासः - ४७

मतान्तरेषु स्वहृदय संवादोऽपि न सिध्यतीत्याह – स्वमतेति ॥ ४७॥

विश्वास-प्रस्तुतिः - ४८

दुर्मतिः - अय्यउत्त, पच्चक्खमेत्तप्पमाणो बहप्पइसिद्धन्तो बहुप्प- माणसाहिअपरोक्खविस आणं बहूणम् इअरसिद्धन्ताणं पुरओ कहं ठाइ ? ( आर्यपुत्र, प्रत्यक्षमात्रप्रमाणो बृहस्पतिसिद्धान्तः बहुप्रमाणसा- घितपरोक्षविषयाणां बहूनामितरसिद्धान्तानां पुरतः कथं तिष्ठेत् ?)

महामोहः- प्रिये, नूनं स्वमतप्राबल्यबुमुत्सया परिपृच्छसि तदेतदाकर्ण्यताम् -

परमनुगुणयन्तः पण्डितम्मन्यवर्गा-

नवितथमिव जल्पन्त्यागमाः किञ्चिदेते ।

विबुधगुरुमतेऽस्मिन् व्यक्तमुत्तभ्यमाने

मुषितनिखिलसारा मौनमुद्रां भजन्ते ॥ ४८ ॥

मूलम् - ४८

प्रभावली - ४८

पञ्चक्खमेत्तप्पमाणो प्रत्यक्षमात्रप्रमाणः । बहप्पइसिद्धन्तो- बृहस्पतिसिद्धा- न्तः । बहुप्पमाणसाहिअ बहुप्रमाणसाधित । परोक्खविसआणं - परोक्षविषया- णाम् । बहूणं-बहूनाम् । इअरसिद्धन्ताणम् इतरसिद्धान्तानाम् । पुरओ- पुरतः । कहं कथम् । ठाइ तिष्ठेत् । परमिति । एते आगमाः वेदाः पण्डितं-

X५०५
मन्यवर्गान् मूढान् केवलमनुगुणयन्तः अवितथमिव किञ्चित् यत्किञ्चित् जल्पन्ति । इवेत्यपरमार्थे । ते आगमाः विबुधगुरुमते अस्मिन् उत्तभ्यमाने सति मुषितनिखिलयुक्तिसाराः सन्तः मौनमुद्रां भजन्ते । व्यक्तं नूनम् ॥ ४८ ॥

प्रभाविलासः - ४८

अय्यउत्तेत्यादि । अनेन नीतिर्नाम नाट्यालङ्कारः. " न्यायानुवृत्तिरेवात्र नीतिरित्युच्यते यथा " इति लक्षणात् । शास्त्रान्तरविजृम्भणं सुरगुरुसिद्धान्तोत्तम्भनावधिकमित्याह - परमिति ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

न खलु सहस्रमपि प्रतिसूर्याः131 कदाचिदपि सूर्यमभिभवन्ति ।

दुर्मतिः - अय्यउत्त, पबलअमे इमस्सि पुरन्दरपुरोहिअ - मए का मुत्ती ? को वा भोओ ? का वा देवदाओ ?

(अर्यपुत्र, प्रबलतमेऽस्मिन् पुरन्दरपुरोहितमते का मुक्तिः ? को वा भोगः, का वा देवता ?)

महामोहः श्रूयतां तावदवहितया भवत्या-

शरीरप्रलयो मुक्तिर्भोगस्तु रतिरुत्तमा132

देवतास्तत्प्रदायिन्यः स्त्रियस्तारुण्यभूषणाः ॥ ४९ ॥

मूलम् - ४९

प्रभावली - ४९

दृष्टान्तमाह-न खल्विति । पबलअमे- प्रबलतमे । इमस्सि - अस्मिन् । पुरन्दरपुरोहिअमए पुरन्दरपुरोहितमते चार्वाकमते । का मुत्ती का मुक्तिः । को वा भोओ को वा भोगः । का वा देवआओ का वा देवताः । शरीरेति । शरीरनाशो मुक्तिः । भोगस्तु उत्तमा रतिः सम्भोगः । तत्प्रदायिन्यः भोगप्र दायिन्यो देवताः तारुण्यभूषणाः स्त्रिय एव ॥ ४९ ॥

प्रभाविलासः - ४९

शरीरेति । तत्प्रदायिन्यः ; भोगप्रदायिन्यः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

एवं च देवि, परमार्थदर्शिन्यास्तव प्रत्यक्षत एवैते परिप्रश्नाः प्रत्युक्ताः । अपिचास्माकं वैरिविवेकविजयेऽप्येतासामेव प्रत्यक्ष- देवतानां प्रसादः प्रधानकारणम् ।
.

दुर्मतिः - होदु णाम पसादो इत्थिआणं संलावजोग्गाणं सचे अणाणं देवदाणम् । तेण कहं विवेओ विजेतुं तिरइ133

( भवतु नाम प्रसादः स्त्रीणां संलापयोग्यानां सचेतनानां देवतानाम् । तेन कथं विवेको विजेतुं तीर्यते ? )

महामोहः - इत्थं नाम

अपि तपसि रतानामप्यधीतागमाना-

मपि यमनियमाद्यैरन्वहं शिक्षितानाम् ।

शिथिलयति समाधिं 134 शिल्पिहस्तानपेक्षं

वरतनुमयचित्रं वासनाभित्तिलग्नम् ॥ ५० ॥

मूलम् - ५०

प्रभावली - ५०

एवमुक्तेन प्रकारेण तव परिप्रश्नाः सर्वे प्रत्यक्षपदार्थे एव प्रत्युक्ताः । स्वस्य विवेकविजये प्रधानसाधनं दर्शयति-अपिचेति । होदु णाम-भवतु नाम ।

X५०६
पसादो - प्रसादः । इत्थिआणं स्त्रीणाम् । संलापजोग्गाणं संलापयोग्यानाम् । सचेअणाणं-सचेतनानाम् । देवदाणं देवतानाम् । तेण तेन । कह- कथम् । विवेओ-विवेकः । विजेतुं - विजेतुम् । तिरह-तीर्यते ; शक्यत इत्यर्थः । इत्थं नाम; एवमेव । अपीति । शिक्षितानामपि पुरुषाणां वासनाख्यभित्ति- लग्नं शिल्पिहस्तं नापेक्षत इति शिल्पिहस्तानपेक्षं शिल्पिहस्तलिखितं, वरतनुः युवतिः, तद्रूपं चित्रमालेख्यं समाधिं ब्रह्मध्यानं शिथिलयति ॥ ५० ॥

प्रभाविलासः - ५०

अपीति । शिल्पिहस्तानपेक्षमिति व्यतिरेकालङ्कारो व्यज्यते ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

पठन्ति चौपनिषदाः परिहृतविषयानुरागतया परमपुरुष -

मुपसन्नस्यापि जक्षणादिकमक्षीण135 विहृतिशालिनीभिरुपभोगं चेति
महदिदं सारस्यम् । न खलु वृश्चिकभयात्पलायमानैराशीविषमुखे136 निपतितव्यम् । अपि च,

तमिस्राशीतांशुस्तवकवियदावर्तघटितैः

प्रक्लृप्तानां रम्भामणिमुकुरतूणीरनलिनैः ।

स्मरन्तः के धैर्ये दधति युवतीनामभिमुखं

स्मरस्कन्धावारप्रचलितपताकाप्रतिभुवाम् ॥ ५१ ॥

मूलम् - ५१

प्रभावली - ५१

वेदान्तानामर्थप्रतिपादनं परिहसति - पठन्ति चेत्यादि । त्यक्तशब्दादिविषयानुरागाणां पुंसां परमपुरुष प्राप्त्यनन्तरं जक्षणादिकं युवतिभिरुपभोगं चेति

X५०७
पठन्ति । इदं महत्सारस्यम् ; सामञ्जस्यं, व्याघातादिति भावः । अत्र " जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा" इत्यादिकमनुसन्धेयम् । व्याघातमेव दर्शयति–न खल्विति । शब्दादिविषयानुरागभिया मुक्तस्य पुनः बलवत्तरशब्दाद्यनुभवप्राप्तिः वृश्चिकभयात्पलायमानानामाशीविषमुखनिपातमनुसरतीति भावः । युवतीं स्मरन्तः के वा समाधौ धैर्यं दधतीति वदन् पुनरम्पि विवेकपराभवे हेतुमाह- अपि चेत्यादि । अत्र तमिस्रादिशब्दैः केशपाशमुखस्तनमध्यनाभयः, रम्भादिभिश्व ऊरुजङ्घापादतलानि लक्ष्यन्ते ; एतैर्निर्मितानाम् । अभिमुखे त्यादि । अभिमुखं यथा तथा स्मरसैन्ये प्रचलिता या पताका, तत्प्रतिभुवाम् ; तत्सदृशीनामित्यर्थः । युवतीनां स्मरन्त इति कर्मणि षष्ठी । के धैर्यं दधति । युवतीनां स्मरणमेवं चेत् किमु दर्शनादीति भावः ॥ ५१ ॥

प्रभाविलासः - ५१

जक्षणादिकमिति ।” जक्षत क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा "
इति श्रुतिरनुसंहिता । तमिस्त्रेति । तमिस्रा ; केशपाशः । शीतांशुः ; मुखम् । स्तबकौ स्तनौ । वियत्; मध्यम् । आवर्तः ; नाभिः । रम्भा ऊरुः । मणिमुकुरम् ; गण्डस्थलम् । तूणीरः ; जङ्घा । नलिनम् ; नेत्रं पादो वा । युवतीनामिति कर्मणि षष्ठी । अत्र धम्मिल्लमुखादीनां प्रकृतानामुपमेयभूताङ्गानां निगरणेन तमिस्राद्युपमानानामेव निर्देशात् आद्योऽयमतिशयोक्तिभेदः । तल्लक्षणं तु" उपमानस्य निर्देशो निगीर्णे प्रकृते तु यः " इत्यादि ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

अहह, अनादिशुद्धतया137 सम्मतानां वैकुण्ठवैमानिकानां वैनतेयादीनामाजानसिद्धाः कति कति विलासिन्यः श्रूयन्ते । श्रूयते किल सकलसंसारनिवर्तकः सर्वेश्वरो लक्ष्मीभूमिनीलानायकः । तदिह कामपुरुषार्थप्रतिक्षेपकैः कापेयवृत्तिभिः प्रतिभटभवनदिधक्षानिक्षिप्तेन पावकेन स्वनगमपि138 दन्दह्यते । यश्वासौ मोक्षप्रद इति मुमुक्षुभिरुद्घुष्यते, स च

सत्त्वप्रवर्तकः सन् सह प्रियाभिः पुराणपुरुषोऽपि ।

बहुमुखभुजङ्गसङ्गी विहरति विविधासु राजधानीषु ॥ ५२ ॥

मूलम् - ५२

प्रभावली - ५२

‘.

X५०८
अथ वेदान्तानां मुक्तिप्रतिपादनप्रकारं परिहसति — अहहेत्यादि । अति परिहासे । अनादिशुद्धतया नित्यशुद्धत्वेन सम्मतानां वैकुण्ठलोके विमानचारिणां स्वतः सिद्धाः विलासिन्यः रुद्रासुकीर्त्यादयः । तत्तिष्ठतु ; मोक्षप्रदस्य सर्वेश्वरस्यापि श्रीभूमिनीलादय " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इत्यादिभिरुक्ताः । कामपुरुषार्थनिरासकैस्तैर्मुक्तौ स्त्र्यादिभोगप्रतिपादनं काम- पुरुषार्थप्रतिक्षेपं निरुणद्धीत्याह - तदिहेत्यादिना । कापेया वृत्तिर्येषां तैः । मुक्तौ स्त्र्यादिवर्णनमेव कापेयवृत्तिरिति भावः । प्रतिभटेति । शत्रुभवनदहनेच्छया निक्षिप्तेनाग्निना स्वभवनमपि भृशं दह्यते । यश्चासावित्यादि । सन्वेति । सत्त्व-

X५०९
प्रवर्तकः सन्नपि ; " सत्त्वस्यैष प्रवर्तकः " इत्युक्तेः । पुराणपुरुषोऽपि ; अतिवृद्धोऽपि । विविधासु राजधानीषु; वैकुण्ठादिषु नगरेषु । बहुमुखभुजङ्गसङ्गी सन्; बहुमुखो यो भुजङ्गः शेषः, तत्र शयितः सन् । प्रियाभिः लक्ष्म्यादिभिः सह विहरति ॥ ५२ ॥

प्रभाविलासः - ५२

विलासिन्यः ; रुद्रासुकीर्तिसूत्रवतीप्रभृतयः । सत्त्वेति । सत्त्वप्रवर्तक इत्यनेन- “महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः " इति श्रुत्यर्थोऽभिप्रेतः । अपिः इतरेषु कैमुत्यं दर्शयति । बहुमुखभुजङ्गसङ्गी; अनेक विटपरिवृतः । सहस्रफणशेषावतारभूतबलरामसहायवान् । " भुजङ्गो विटसर्पयोः " इति निघण्टुः । राजधानीषु ; मधुराप्रभृतिषु ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

ततश्चार्वाकपक्षप्रतिक्षेपो दिव्यदम्पतिसमर्थनं चेति शतप्रदानप्रतिक्षेपिणो महाप्राज्ञस्य विंशतिपञ्चकप्रदान वचनवदपहास्यम्139

किञ्च,

मूढग्राह्यान्मोक्षधर्मप्रवन्धान् निर्मातॄणां निष्प्रमादप्रयुक्तः ।

भोगप्राप्त्यै कल्पते भूरिभूम्नां ब्रह्मादीनां ब्रह्मचर्यप्रयासः ॥ ५३ ॥

मूलम् - ५३

प्रभावली - ५३

अत इदमपहास्यमित्याह — तत इत्यादि । समर्थनं चेति; इदमिति शेषः । अपहास्यत्वे दृष्टान्तमाह– शतप्रदानेति । शतप्रदानमनङ्गीकुर्वतो जडस्य । महाप्राज्ञ इति विपरीतलक्षणा । विंशतिपञ्चकं दास्यामीति वचनवत्; शतस्य च विशतिपञ्चकस्य च समानार्थत्वात् शतं विहाय विशतिपञ्चकदानवचनं यथापहास्यं तद्वत् । एतावता फलितमर्थमाह-मूढेत्यादि । वैराग्यशास्त्रप्रवर्तका ब्रह्मादयोऽपि भोगार्थमेव ब्रह्मचर्यमनुतिष्ठन्तीत्याह – मूढग्राह्यानित्यादि । मूढैः ग्राह्यान् विचक्षणैरनुपादेयत्वात् मोक्षधर्मप्रतिपादकप्रबन्धान् निर्मातॄणाम् । तृनन्तोऽयं शब्दः कर्मणि षष्ट्या अदर्शनात् । भूरिभूम्नाम् ; महाप्रभावाणाम् । अयमप्युपालम्भः । ब्रह्मादीनां निष्प्रमादप्रयुक्तः सावधानतः क्रियमाणः ब्रह्मचर्यप्रयासश्च भोगप्रात्यै मोक्षेस्त्र्यादिभोगप्रात्यै समर्थो भवति ॥ ५३ ॥

प्रभाविलासः - ५३

मोक्षशास्त्रप्रवर्तकानामपि वागन्या प्रवृत्तिरन्येति विप्रलम्भकत्वमेवेत्याह – मूढेति ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

(आकाशे कर्णं दत्वा ) किं ब्रवीति कश्चित् ? ‘दाम्पत्यं सहजं समस्तजगतां पित्रोस्तदिच्छावशात्

कामिन्यादिविभागकॢप्तिरपि तत्कैङ्कर्यसिद्ध्यै नृणाम् ।

इत्थं शेषमशेषमद्य तु भवत्सारस्यसंवर्धकं

वैरस्यं विदधाति हन्त विदुषां वैरोचनं दर्शनम् ’ ॥ ५४ ॥

मूलम् - ५४

प्रभावली - ५४

X५१०
आकाशे किमपि दैष्टिकवचनं सम्भाव्य कर्णे दत्वाह- किं ब्रवीति कश्चिदिति । किमित्युक्तं विवृणोति - दाम्पत्यमिति । इदं वेदान्तिवचनम् । समस्तजगतां पित्रोः लक्ष्मीनारायणयोः दम्पतित्वं सहजम ; न तु कर्मकृतम् । तच्च दाम्पत्यं तयोरिच्छा- जनितम् । स्त्रीपुरुषादिविकल्पनमपि पुंसां तयोः कैङ्कर्यसिद्ध्यै; न कामतः । तदिच्छावशादित्येतदत्राप्यनुषज्यते । शेषमशेषम; अवशिष्टं कृत्स्नं स्वरूप- विभूत्यादिकम् । इत्थम् ; कैङ्कर्यसिद्धयर्थमेव । अद्य तु; एवं निर्णीते सति । भवतां सारस्यसंवर्धकम् ; सरसत्वबुद्धिजनकम् । वैरोचनं दर्शनम् ; विरोचन- प्रवर्तितं चार्वाकमतम् । विदुषाम् ; धीमताम् । वैरस्यं विरसत्वमेव जनयति । हन्त ॥ ५४ ॥

प्रभाविलासः - ५४

यदुक्तं श्रीभूमि नीलानायक इति तत्रोत्तरमाह - दाम्पत्यमिति । सहजमिति कर्मनिमित्तत्वव्यावृत्तिः । तेन कर्मकृतवैषयिकभोगार्थं दाम्पत्यभावो निरस्तः । विलासिन्यः श्रूयन्त इत्येतत् प्रत्याह - तदिच्छेत्यादि । ईश्वर- सङ्कल्पानुसारेण तत्कैकर्यैकप्रयोजनं कामिन्यादिविभागकरणमित्यर्थः । अशेषम् ; वस्तु । इत्थं शेषम् ; भगवत्कैङ्कर्यैकरसमित्यर्थः । अद्य तु; एवं सति । भवत्सारस्यसंवर्धकं वैरोचनं दर्शनं चार्वाकमतं विदुषां वैरस्यं विदधातीत्यन्वयः ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

X५११

इति । (सक्रोधम् ) कः कोऽत्र भोः? उत्सार्यतामसौ दृष्टिगोचरात् दैष्टिकदिवाभीतः । (इत्यवज्ञां नाटयति)

दुर्मतिः - अय्यउत्त, मह किर140 णिहिलाओ141 कामिणीओ दासिओ । ताहिम् एव्व तुह विवेअविअओत्ति सम्पण्णत्रहुमाणम्हि । (विचिन्त्य) पञ्चक्खसिद्ध परमाणन्दजुवइसम्भोअप्पहाणं142 तुह सिद्धतं मुअन्ता किन्ति ठिरप्पहाणेसु143 तेसु तेसु मएस पउराअरा जणा होन्ति ?

( आर्यपुत्र, मम किल निखिलाः कामिन्यो दास्यः । ताभिरेव तव विवेकविजय इति सम्पन्न बहुमानास्मि । प्रत्यक्षसिद्ध- परमानन्दयुवतिसम्भोगप्रधानं तव सिद्धान्तं मुञ्चन्तः किमिति स्थिरप्रधानेषु तेषु तेषु मतेषु प्रचुरादरा जना भवन्ति?)

महामोहः प्रिये, अविचारितप्रवृत्तोऽयमास्तिकवेतालाना-

मन्धपरम्परान्यायः ।

अमरगुरुप्रणीतमनपायमपोह्य मतं

विविधकुतर्क जालकलहायित कौतुकिनः ।

कपिलहिरण्यगर्भकणभोजन बुद्ध जिन-

प्रमुखसमर्थितेषु144 समयेषु भजन्ति रतिम् ॥ ५५ ॥

मूलम् - ५५

प्रभावली - ५५

कः कोऽत्र भोः ; अत्र को वा वसति मदीय इत्यर्थः । उत्सार्थताम् ; निरस्यताम् । देष्टिको दिवाभीतः इत्यनादरं नाटयति । मह किल-मम किल । णिहिलाओ - निखिलाः । कामिणीओ - कामिन्यः । दासिओ दास्यः । ताहि- ताभिः । एव्व एव । तुह तव । विवेअविभओत्ति-विवेकविजय इति । सम्पण्ण-

X५१२
बहुमाणम्हि सम्पन्न बहुमानास्मि । पञ्चक्खसिद्ध- प्रत्यक्षसिद्ध । परमाणन्द-प नन्द । जुवइजण - युवतिजन । सम्भोअप्पहाणं- सम्भोग प्रधानम् । तुह ट सिर्द्धतं सिद्धान्तम् । मुअन्ता-मुञ्चन्तः । किं ति किमिति । ठिरप्पहा स्थिरप्रधानेषु ; स्थिरत्वेन प्रतिपादितादृष्टेश्वरप्रधानेषु । तेसु तेसु तेषु मएसु-मतेषु । पउराअरा - प्रचुरादराः । जणा-जनाः । होन्ति भवन्ति । च चारितं यथा तथा प्रवृत्तः । आस्तिकाः वैदिकाः वेताला इव । अन्धपरं न्यायस्तु —— अन्धः अन्धमुपसर्पति, तमन्धोऽन्य इत्येवं परम्परया गच्छ व पतन्तीति । एतदुपपादयति — अमरेति । बृहस्पतिप्रणीतं कुत्रापि वि‍रहितम् । अपायः ; विरोधः, अन्यत्र प्रत्यक्षविरोधः । इदं मतं वि विविधकुतर्कजालैः कलहाचरणे कौतुकिनः सन्तः पामराः कापिलस साख्यम्; हिरण्यगर्भसमयो योगशास्त्रम् ; कणभोजनसमयो वैशेषिकशास्त्र बुद्धसमयो बौद्धमतम् ; जिनसमय आर्हतमतम् प्रभृतिशब्देन भाट्टप्राभा वेदान्तिनां मतं विवक्षितम् । तत्र रुचि भजन्ते ॥ ५५ ॥

प्रभाविलासः - ५५

अमरेति । कलहायितम् ; कलहवदाचरितम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

अपि च,

चरमितरदप्यशेषं चन्द्रकनयतः स्वभावतश्चित्रम्145

किं वा निरूपणीयं कण्टकतैक्ष्ण्यादिकारणं कविभिः ॥ ५६ ॥

मूलम् - ५६

अपि च,

चरमितरदप्यशेषं चन्द्रकनयतः स्वभावतश्चित्रम्145

किं वा निरूपणीयं कण्टकतैक्ष्ण्यादिकारणं कविभिः ॥ ५६ ॥

प्रभावली - ५६

युक्तिशून्यत्वान्मतान्तराणामन्धपरम्परान्यायमुपपादयति अपिचेति । जङ्गमम् ; इतरत् अचरं स्थावरमितीदं चन्दकनयतः मयूरे यत् पिञ्छं तन्न्यायम् । चन्द्रके चन्द्राकार बिन्दुवत् स्वभावत एव नानाविधम् । न कर्मादिकं तत्र । किमिव ? कण्टकतैक्ष्ण्यम्; कण्टकेषु तीक्ष्णता । आदिशब्दात् तिन्त्रि वक्रतादि । तत्र कविभिः किं वा कारणं निरूप्यते ? न किमपि, स्वं विना कारणान्तराभावात् ॥ ५६ ॥

प्रभाविलासः - ५६

चरमिति । चरम् ; जङ्गमम् । इतरत् ; स्थावरम् । चन्द्रकनया

मयूरपिच्छ्न्यायेन ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

146 इत्थं नाम दुस्त्यजः स्वभाववादः । कार्यकारणवादश्च काकतालीयन्यायमनुसरति ।147 एवमपि,

अतत्तदिति वा न तत्तदिति वा वृथोद्यत्कथा-

कनत्कथककत्थनक्रमविकल्पितप्रक्रमा ।

जगद्विपरिवर्तिनी जनपदेषु जोघुष्यते

कुतर्कशत148 शर्करानिकरकर्कशा पद्धतिः ॥ ५७ ॥

मूलम् - ५७

प्रभावली - ५७

X५१३
तत्र ; तत्रापि । इत्थम् उक्तप्रक्रियया । स्वभाववादो नियतत्वात् दुस्त्यजः । तत्र कार्यकारणभावस्तु काकतालीयन्यायम् ; यादृच्छिकतालपतन- वेलायां काकस्तत्रारूढः ; काकपतनं तत्र कारणत्वेन कल्पयन्ति जडाः ; तद्वत् मृत्पिण्डसन्निधाने घटाद्युत्पत्तिः, न तु कार्यकारणभावात् । एवं युक्ति- शून्यापि वैदिकवेतालानां पद्धतिः दुर्वादिविकत्थनोत्तम्भिता जगति जोघुष्यत इत्याह — एवमपीति । वृथोद्यत्कथामभिनीय दर्शयति–अवदिति । तदिति वादि-

। नोक्ते अतदिति प्रतिवादिन उक्तिः । अथवा न तदिति वादिनोक्ते तदिति प्रतिवादी वदतीत्यर्थः । इत्थं वृथोद्यत्या कथया जल्पेन कनन्तः दीप्यमानाः कथकानां कत्थनक्रमेण विकल्पितप्रक्रमाः भिन्नप्रस्थानानि यस्या सा । जगत्कर्म विपरिवर्तिनी अधरोत्तरीकुर्वती । कुतर्कशतान्येव शर्करानिकराः, तैः निष्ठुरा पद्धतिः मतान्तराणां, जनपदेषु जोघुष्यते ॥ ५७ ॥

प्रभाविलासः - ५७

अतदिति । अतत्; अतद्वत् । तदिति वा ; तत्प्रकारकमिति वा । तत् ; तद्वत् । तन्नेति वा ; तत्प्रकारकं न भवतीति वा । वृथोद्यत्कथया कनतां कथकानां कत्थनक्रमेण विकल्पितः प्रक्रमः यस्याः सा । विपरि- वर्तनी ; विपर्यासकारिणी । कुतर्कशतान्येव कर्कराः कठिनगोचर्माणि, तेषां निकरेण कर्कशा ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

इत्थमुपप्लुतेऽपि जगति,

चिरसेवनतोषितेन धात्रा निपुणस्थानविदा निवेदितार्थः’149

असुरोपनिषद्रहस्यमग्र्यं प्रथयामास विरोचनः प्रजानाम् ॥ ५८ ॥

मूलम् - ५८

इत्थमुपप्लुतेऽपि जगति,

चिरसेवनतोषितेन धात्रा निपुणस्थानविदा निवेदितार्थः’149

असुरोपनिषद्रहस्यमग्र्यं प्रथयामास विरोचनः प्रजानाम् ॥ ५८ ॥

प्रभावली - ५८

X५.१४
इत्थमुपप्लुतेऽस्मिन् जगति अस्मन्मतमेव चिर सेवनतोषित परमाप्तपरमगुरूपदिष्टप्रबल रहस्योपनिषत्प्रसिद्धमित्याह - चिरसेवनेति । सेवनम्; शुश्रूषा । निपुणस्थानविदा ; प्रतिष्ठितार्थविदा । यद्वा इदमेव रहस्योपदेशस्य निपुणं पात्रमिति विदा । उपदिष्टसर्वरहस्यार्थः विरोचनः एतन्मतप्रथमप्रवर्तकः प्रजानाम् अप्रथम सर्वशास्त्रेभ्यः, असुरोपनिषदः “असुराणा ह्येषोपनिषत् ” इत्युक्तायाः रहस्यमर्थं प्रथयामास ॥ ५८ ॥

प्रभाविलासः - ५८

। ;

चिरेति । निपुणस्थानविदा शास्त्रप्रवर्तनयोग्योऽयमित्युपदेश-

पात्राभिज्ञेन ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

अत्र च ;

करणविलयरूपा मुक्तिरित्युक्तमाद्यै-’150

र्वितथमिति मयान्यद्वार्तिके’विन्यवेशि151

स्तनयुगलबृहत्त्व स्थापनीयस्वभूम्ना

बहुगुणविभवेन ब्रह्मणा भोगसाम्यम् ॥ ५९ ॥

मूलम् - ५९

अत्र च ;

करणविलयरूपा मुक्तिरित्युक्तमाद्यै-’150

र्वितथमिति मयान्यद्वार्तिके’विन्यवेशि151

स्तनयुगलबृहत्त्व स्थापनीयस्वभूम्ना

बहुगुणविभवेन ब्रह्मणा भोगसाम्यम् ॥ ५९ ॥

प्रभावली - ५९

अथ का मुक्तिः ? इत्यस्य प्रश्नस्य ’ शरीरप्रलयो मुक्तिः’ इति प्रत्युत्तरं दत्तम् ; तदाक्षिप्यान्या मुक्तिर्मया प्रतिपादितेत्याह–अत्र चेति । आद्यैः ;

X५१५
जरच्चार्वाकैः पूर्वगुरुभिः । तत् वितथम् व्यर्थमित्याक्षिप्य मया वार्तिके ग्रन्थे वक्ष्यमाणं विन्यवेशि मुक्तिरिति विनिवेशितं स्थापितम् । तत्किमित्यत्राह स्तनेति । स्तनयुगलगतं यत् बृहस्वं तेन स्थापनीयः स्वभूमा महात्म्यं, यस्य तेन । बहवो गुणाः सौन्दर्यविभ्रमादयः, त एव विभवो विभूतिः यस्य, तेन योषिद्रह्मणा भोगतः साम्यं मुक्तिरिति विन्यवेशि ॥ ५९ ॥

प्रभाविलासः - ५९

करणेति । करणविलयः शरीरेन्द्रियविलयः । बहुगुणेति ; सौन्दर्यादयो विवक्षिताः । अत्र कविनिबद्धवक्तृप्रौढोक्तिमूलातिशयोक्तिरलङ्कारः, स्वस्य वार्तिककरणादियोगात् । बृहच्वेति तेन “बृहति बृंहयति तस्मादुच्यते पर ब्रह्म " इति प्रसिद्ध ब्रह्मौपम्यं व्यज्यते ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

दुर्मतिः - अय्यउत्त, एव्वं तुम्हेहिं रक्खिज्जन्तं जीअलोअं152 पीडन्ति णिक्कारणविदेसा परसिद्धन्तपरिवाडीपक्खपडिओ’153

( आर्यपुत्र, एवं युष्माभी रक्ष्यमाणं जीवलोकं पीडयन्ति निष्कारणविद्वेषाः परसिद्धान्तपरिपाटीपक्षपतिताः ।)

महामोहः - भवतु । किं नश्छिन्नम् ? न खलु पाटच्चराः प्रकृतिं मुञ्चन्ति । न चाप्रमत्तमतयस्तैरुपहन्यन्ते ।

पठन्तस्त्रय्यन्तान्परिहसनकाकुं विदधतां

भजन्तस्ताटस्थ्यं154 परिभवितुमिच्छन्तु महतः ।

उदन्तः शान्तानामयमिति च जल्पन्स्वभिमतं

किमन्तर्दुर्दान्तैः155 कृपणकथकैरेभिरिह नः ॥ ६० ॥

मूलम् - ६०

प्रभावली - ६०

एव्वं तुम्हे हि एवं युष्माभिः । रक्खिर्जतं रक्ष्यमाणम् । जीवलोअं- जीवलोकम् । पीडति पीडयन्ति । णिक्कालणविद्देसा निष्कारणविद्वेषाः । पर- सिद्धं परिवाडी पर सिद्धान्तपरिपाटी । पक्खपडिमा पक्षपतिताः । किं नश्छि- नम का वा हानिः । प्रकृतिम् ; स्वभावम् । अप्रमत्तमतयः; सावधानाः । तैः ; पाटच्चरः । किं नश्छिन्नमित्येतदुपपादयति- पठन्त इति । परिहसनप्रकारान कुर्वन्तु नाम । ताटस्थ्यं भजन्तः महतो जनान् परिभवितुमिच्छन्तु नाम ।

X५१६
शान्तानामयमेवोदन्त इति यत्किचित् स्वाभिमतं जल्पन्तु च । अन्तर्दुर्दान्तैः मनसि गर्वितैः एभिः दुर्वादिभिः नः किं प्रयोजनम् ॥ ६० ॥

प्रभाविलासः - ६०

पठन्त इति । विदधताम् ; विदधतु । उदन्तः ; वृत्तान्तः ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

(विचिन्त्य) प्रिये, अद्य तावत्’अस्मत्सिद्धान्तपुनःप्रतिष्ठापनपटीयांसः156 पुरुषा गवेषणीयाः । कः कोऽत्र भोः !

दम्भादयः – ( त्वरितमुपसृत्य ) अमी वयमागताः । (इत्युपसीदन्ति)

महामोहः - ‘स्वागतं157 ‘स्वकुलहितैषिभ्यो158 भवद्भयः ?

159 दम्भदर्पौ – (सप्रश्रयम् ) महाराज, त्वत्प्रसादात् सर्वत्राप्रतिहतगतयः समागताः स्मः । किं कर्तव्यमनेन किङ्करजनेन ?

महामोहः – कामादीनामिदानीं का वार्ता ?

दम्भः – (स्वगतम् ) किं राज्ञे विज्ञापयामि ? (प्रकाशम्) देव दुर्मतिवल्लभ, ‘सत्यं राजसु शोभते ’ इति प्रियेतरदपि दृष्टं ब्रवीमि । वेद्मि कामस्य लोभस्य चाहमधुनातनीमवस्थाम् । तयोश्व,

अनन्तविषयस्पृहाजलधिसम्प्लुते मानसे

वसन्तसमये स्थिते मलयमारुते जीवति ।

सकृद्विहितसौप्तिकप्रतिनिवृत्तिवैलक्ष्यतः

प्रसुप्त इव हन्त न स्पृशति पञ्चबाणः शरान् ॥ ६१ ॥

मूलम् - ६१

प्रभावली - ६१

सिद्धान्तस्य चमत्कृतिं भजन्तः पुनरपि दृढं प्रतिष्ठापने पटुतराः । अनेन ;

X५१७
किकर जनेन, अस्माभिरित्यर्थः । किं राज्ञे ; सत्यमसत्यं वेत्यर्थः । “सत्यं राजसु शोभते " इति महाभारते सञ्जयवचनम् । प्रियेतरदिति ; प्रत्यक्षदृष्टयोर्मध्य इति शेषः । अनन्तेति । पुरुषस्य मानसे अनन्तविषयस्पृहैव जलधिः, तत्र मग्ने सत्यपीति शेषः । वसन्ते स्थितेऽपि मन्दमारुते जीवति सत्यपि पञ्चवाणः सकृद्विहितं यत्सौप्तिकं, तस्मात् या प्रतिनिवृत्तिः भग्नस्य स्वस्य निवर्तनं, तज्जनितवैलक्ष्यतः लज्जया प्रसुप्त इव शरान्न स्पृशति ; शस्त्रसन्न्यसनं कुर्वन्निवेति भावः ॥ ६१ ॥

प्रभाविलासः - ६१

अनन्तेति । अनन्तः ; ईश्वरः । अत्र वसन्तादिसहकारसमवधाने- sपि कामस्याकार्यकरत्वोक्तेर्विशेषोक्तिर्व्यज्यते, " सत्यां सामग्र्यां कार्यानुत्पत्तिर्विशेषोक्तिः” इति लक्षणात् ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२

अन्यस्मिन्नपि160 कैमुत्यसिद्धमावेदयामि——-

पुरुषस्य विवेकविप्रलम्भात् स्वशरीरेऽपि विरज्यमानबुद्धेः ।

कृपणप्रतिनन्दनीयवृत्तिः किमिवालम्बनमाश्रयेत लोभः॥ ६२ ॥

मूलम् - ६२

अन्यस्मिन्नपि160 कैमुत्यसिद्धमावेदयामि——-

पुरुषस्य विवेकविप्रलम्भात् स्वशरीरेऽपि विरज्यमानबुद्धेः ।

कृपणप्रतिनन्दनीयवृत्तिः किमिवालम्बनमाश्रयेत लोभः॥ ६२ ॥

प्रभावली - ६२

अन्यस्मिन् ; लोभविषयेऽपि । कैमुतिकन्यायसिद्धं वृत्तान्तं निवेदयामि । विवेकस्य विप्रलम्भः कुहना, तेन । स्वशरीरेऽपि ; किमुत क्षेत्रकलत्रादौ । विरज्यमानबुद्धेः ; निःस्पृहबुद्धेः । पुरुषस्य किमिवालम्बनम् ; किं वस्तु स्वालम्बनत्वेन लोभ आश्रयेत ? न किमप्यस्तीत्यर्थः । लोभस्य स्वभावमाह - कृपणैः दीनैः श्लाघ्यमानवृत्तिः । यद्वा कृपणेषु विषये, न तु विरक्तेषु सर्वैः सन्तुष्यमाणा वृत्तिर्यस्य सः ॥ ६२ ॥

प्रभाविलासः - ६२

पुरुषस्येति । विरज्यमाना; विरागं प्रापिता । अत्र पुरुषोत्कर्षवर्णनात् उदाहरणं नाम गर्भसन्धेश्चतुर्थमङ्गमुक्तम्, “उत्कर्षान्वितं वाक्यमुदाहरणम्” इति लक्षणात् ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

दर्पः- देव दुर्मतिवल्लभ,161 ’ अहं पुनः क्रोधस्य साम्प्रतिकीमवस्थामद्राक्षम् ’ याथातथ्येन पण्डितम्"162 इति नीतिमनुसरन् ‘यथानुभूतमेवावेदयामि163 । यथासौ,
द्विसप्तदलपत्रलद्रुहिणसृष्टिभङ्गक्रिया-

पुरस्कृतयुगक्षयभ्रुकुटिताण्डवाडम्बरः ।

विरक्तिविषवल्लरीव्यतिकरेण रोषः स्वयं

सुषुप्त164 इव वर्तते सुभटकेलिसौवस्तिकः ॥ ६३ ॥

मूलम् - ६३

प्रभावली - ६३

.

X५१८
" याथातथ्येन पण्डितमनुसरेत्” इति नीतिः । यथाभूतम्; सत्य भूतम् । यथासौ वर्तते तथा आवेदयामि । द्विसप्तेति । द्विसप्तदलशब्देन चतुर्दश लोका विवक्षिताः । तैः सञ्जातपत्रायाः द्रुहिणसृष्टेः ब्रह्माण्ड- रूपायाः, संहारक्रियायां पुरस्कृतः युगक्षये भ्रुकुटिताण्डवस्य आडम्बरो येन सः । विरक्तिरेव विषवल्ली, तद्व्यतिकरण सम्पर्केण । पुरुषे विरक्तिप्रवेशादिति भावः । सुषुप्त इव ; मृत इवेति भावः । सुभटानां केलिः, वैरायितं, तस्य सौवस्तिकः स्वस्तिवाचकः ; वर्धक इत्यर्थः । क्रोधे वसति सुभटानां शौर्यविलासो वर्धते ॥ ६३ ॥

प्रभाविलासः - ६३

तथा-

द्विसप्तेति । द्विसप्तदलपदेन चतुर्दश भुवनानि लक्ष्यन्ते । तैः पत्रला, प्रचुरा या द्रुहिणसृष्टिः ; अण्डान्तर्वर्ति कार्यजातं, तस्याः भङ्गक्रियायां पुरस्कृतयुगक्षयः प्रकृतिपर्यन्तलयः यस्य सः, तथाविधः भ्रुकुटिताण्डवाडम्बरः यस्य सः ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

महामोहः - (सविषादं विहस्य ) अहो विवेकस्य कुलघातिनो दुर्मन्त्रितमेतत् । यथासौ सर्वत्र निरवकाशः स्यात्,तथास्माभिरवहितैर्विश्वमिदमधर्मेण व्यापनीयम्165 । स्वकुलसंरक्षणप्रवृत्ता-
नामस्माकं166 स्वयमधर्म एव धर्मः । पठन्ति चैतिहासिकाः - “स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत् " इति । एवमुपप्लुतावस्थानो विवेकः स्वयं चानतिप्रबलः सुखेन साधनीयः167 । अथवा कोऽयं विवेकः ? " शाकुटस्य168 लवने शङ्कुलायाः कियानिव भारः ! न चेषीकतूलमिन्धनयितुं वह्निना संरभ्यते । (विमृश्य) प्रिये कुल - धर्मपालिनि, त्वदभिमतवृत्तेरुत्तमगुणस्य मे पश्य यावज्जीवं प्रारब्धकर्मापरित्यागम् -

कामस्ताम्यतु कोपलोभसहितः काले समभ्येत वा

रक्षःसंयति राघवस्थितिमहं व्यक्ता विवेकाहवे ।

कालस्त्वेष रथो भवत्विह कलिस्त्वं सारथिदुर्मते

दम्भः सम्प्रति जैत्रदुन्दुभिरसौ दर्पस्तथा कङ्कटः ॥ ६४ ॥

मूलम् - ६४

प्रभावली - ६४

विषादातिशयात् हासः । दुर्मन्त्रितम् दुर्विचारफलम् । इतः परं कर्तव्यमाह -यथासाविति । असौ; विवेकः । अधर्मेण व्यापनीयम्; व्याप्तं कर्तव्यम् । अधर्मप्रवर्तनमनुचितमित्याशङ्क्य कार्यविशेषे प्रवृत्तानामस्माकमधर्म

X५१९
एव धर्म इत्याह- स्वकुलेति । अत्र सम्मति दर्शयति- पठन्ति चेति । ऐति- हासिकाः ; इतिहासप्रवर्तकाः । ऐतिहासिकं वचनमाह - स एवेति । तं तं नरें प्रत्येक एव व्यापारो धर्मश्च भवति, अधर्मश्च भवति । ये मौञ्जीधारणादि- ब्रह्मचारिधर्मास्ते गृहस्थस्याधर्मा भवन्ति । गन्धमाल्यादिधारणरूपा गृहस्थ- धर्मास्त्वन्येषामधर्माः । एवमुपप्लुत स्थितिः विवेकः साधनीयः जेतव्यः । विवेको नाम कोऽयम्; कियान् ? तुच्छ इत्यर्थः । दृष्टान्तोपन्यासेन तदेव तुच्छत्वमुपपादयति-ज खल्विति । शाकुटस्य ; शाकविशेषस्य । लवने ; छेदने । शङ्कुलायाः ; लवित्रस्य । कियानिव भारः । दृष्टान्तान्तरमाह- न चेति । इषीकतूलम् ; तूलाकारः कण्ठकराशिः । तदिन्धनयितुम् ; दग्धुम् ।

X५२०
संरभ्यते ; संरम्भः क्रियते । कुलधर्मः ; अस्मद्दर्शितधर्मः । यावज्जीवम्; जीवनावधि । प्रारब्धेति; गृहीतग्राहित्वमिति यावत् । इदमुपपादयति काम इति । कोपलोभादिभिः सह कामस्ताम्यतु; नश्यतु वा । काले; समरकाले मां समभ्येतु वा । विवेकेन सह क्रियमाणे आहवे अहं राक्षसयुद्धे राघवस्य या स्थितिः, ता व्यक्ता व्यञ्जयिता । तत्रैष कलिः कालो रथो भवतु । भो दुर्मते, त्वं सारथिर्भव । दम्भः जयशीलभेरी भवतु । तथा असौ दर्पः कङ्कटः कवचोऽस्तु । अहमेव सर्वशत्रुसंहारं करोमीति भावः ॥ ६४ ॥

प्रभाविलासः - ६४

शाकुटस्य ; शाकविशेषस्य । शङ्कुलायाः ; लवित्रस्य । काम इति । कङ्कटः ; कवचः । अत्र वीररसो व्यज्यते ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

दम्भः - महाराज, स्वायत्तसिद्धेस्तव किमायत्तमस्मासु ?

कस्तुभ्यं रणरङ्गखेलनकलामातिष्ठते तिष्ठते

कश्च प्रेप्सति कामतन्त्रनियतस्वैराय वैरायितम् ।

येन 169 क्षोदयितुं क्षमां प्रभवति क्षेप्तुं कुलक्ष्माभृतः

पातुं सप्त सरस्वतोऽपि भवता साकूतमालोकितः ॥ ६५ ॥

मूलम् - ६५

प्रभावली - ६५

स्वाधीन सिद्धेस्तवास्मासु किमस्वाधीनमपेक्षणीयम् । एतदेवाह - कस्तुभ्यमिति । रण एव रङ्गः, तत्र खेलनं नर्तनम् तदेव कला शिल्पम् ; तामातिष्ठते अङ्गीकुर्वते तुभ्यं कस्तिष्ठते; आत्मानं प्रकाशयति । को वा कामपुरुषार्थे नियतस्वैर सञ्चाराय वैरायितं प्रेप्सति प्राप्तुमिच्छति । येन भवता साकूतं समनस्कम् आलोकितः क्रोधः क्षमां भूमि क्षोभयितुं प्रभवति ; परशुरामे दृष्टमिदम् । कुलक्ष्माभृतः क्षेप्तुं प्रभवति ; रावणे दृष्टमिदम् । सरस्वतः समुद्रान् सप्त पातुं प्रभवति ; अगस्त्यादौ दृष्टमिदम् । तादृशाय ते कस्तिष्ठत इति सम्बन्धः ॥ ६५ ॥

प्रभाविलासः - ६५

क इति । आतिष्ठते तुभ्यं कस्तिष्ठते; आत्मानं प्रकाशयंस्तिष्ठति । " प्रकाशनस्थेयाख्ययोश्च” इत्यात्मनेपदम् । स्वैरम् ; स्वेच्छाचारः । येन भवता आलोकितः पुरुष इति शेषः । सरस्वतः; समुद्रान् । अत्र हिरण्याक्ष महेन्द्रागस्त्यव्यापारा व्यज्यन्ते ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

तथापि वयं त्वदादिष्टास्त्वदधीनवृत्तयो यथासामर्थ्यं यतिष्यामहे । कपयोऽपि काकुत्स्थस्योपकुर्वन्ति । वल्लवाश्च वासुदेवस्य साह्ये170 सन्नह्यन्ति ।

महामोहः- अभिमतमेव 171 युष्माकमहमादिशामि —-

दम्भ त्वमद्य नियतो निजधर्मगुप्त्यै पुण्यापगापरिसरान्पुनराश्रयेथाः ।

गाढोपलक्षितविरक्तिमदेषु गर्वस्तन्वीत वासमनघेषु172 तपोवनेषु ॥ ६६ ॥

मूलम् - ६६

प्रभावली - ६६

X५२१
दम्भेति । भो दम्भ, त्वं निजधर्मगुप्त्यै दम्भधर्माणां यज्ञादीनां गुप्त्यै नियतः सन्, पुण्यापगाः गङ्गायमुनादयः, तत्समीपप्रदेशान् पुनरप्याश्रयेथाः । गाढं दृढमुपलक्षितः दृष्टः यः विरक्तिप्रयुक्तमदः, तद्वत्सु अनघत्वेनोक्तेषु तपोवनेषु अयं गर्वो वासं तन्वीत ॥ ६६ ॥

प्रभाविलासः - ६६

दम्भेति । तन्वीत करोतु ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

दम्भदौ— स्वीकृतोऽयं स्वामिसमादेशः173 * ।

( इति सभार्यौ निष्क्रान्तौ)

महामोहः - (स्वगतम् ) किं नामारातिविहतावाद्यं साधनम् ?

ननु प्रत्यवमृष्टम् ;

प्रज्वलति जाठराग्नौ क्षिपन्यथावच्चतुर्विधं हव्यम् ।

प्राणाग्निहोत्रमेकं परिपालयितास्मि दुर्मतिसहायः ॥ ६७ ॥

मूलम् - ६७

प्रभावली - ६७

अरातिध्वंसे प्रथमं साधनं किम् ? ननु प्रत्यवमृष्टम् ; विचारितं खलु,

X५२२
पूर्वमेवेत्यर्थः । विचारितमर्थमाह— प्रज्वलतीति । प्रज्वलिते जाठराग्नौ चतुर्विधं लेह्यादिभेदेन हव्यं यथावत् यथाविधि क्षिपन् जुह्वत् दुर्मतिसहायोऽहं प्राणाग्निहोत्रं परिपालयितास्मीति प्रत्यवमृष्टम् ॥ ६७ ॥

प्रभाविलासः - ६७

प्रत्यवमृष्टम् ; प्रत्यवमर्शेन निश्चितम् । पुरुषस्याभक्ष्यभक्षणे विवेकः स्वयमेव नश्यतीत्याशयेनाह — प्रज्वलतीति । चतुर्विधम् ; भक्ष्यभोज्यलेह्यचोष्यरूपम्, " पचाम्यन्नं चतुर्विधम् " इति स्मरणात् ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

ततश्च जात्याश्रयनिमित्तदुष्टैरिष्ठैरेव द्रव्यैर्मृष्टाहारविहारे मृष्टचेष्टे174 च पुरुषे कथमिव विवेकस्य विजयाशंसा ? (प्रकाशम् ) प्रिये,

अलं मेरुस्तोमैरलमपि च कैलास नियुतै-

रलं द्वीपैरष्टादशभिरखिलैर्वापि भुवनैः ।

अखण्डैर्ब्रह्माण्डैरपि न खलु तृप्तिर्भवति मे

विरुन्धानध्वंसं त्वभिनिविशते सम्प्रति मनः ॥ ६८ ॥

मूलम् - ६८

प्रभावली - ६८

इष्टैरेव द्रव्यैः ; कलञ्जगृञ्जनभक्ष्यभोज्यादिभिः । सृष्टेति । स्वाद्वाहारे स्वादु-

·

X५२३

विहारे; स्वादुविहारो यथेष्टप्रवर्तनम् न शास्त्रतः । अत एव मृष्टचेष्टे ; विषयभोगरूपचेष्टे सति । विजयाशंसा; कस्माद्विजयाकाङ्क्षा । शत्रुध्वंसं विना मम कुत्राप्यपेक्षा नास्तीत्याह - अलमिति । मेरुस्तोमैः; स्वर्णरूपैः । कैलासनियुतैः; लक्षैः रजतमयैः । तृप्तिः ; प्रीति । विरुन्धानः ; विरोधी, विवेकः । तस्य ध्वंसन एव मे मनः सम्प्रत्यभिनिविशतम् । " अभिनिविशश्च " इत्याधारे कर्मत्वम् ॥ ६८ ॥

प्रभाविलासः - ६८

जातिदुष्टम् ; बिम्बादिकम् ;

" बिम्बं शिशुं च कालिङ्गं तिलपिष्टं तथैव च ।

कोशातकीमलाबूं च श्वेतवार्ताकमेव च ।

नारिकानारिकेलादि जातिदुष्टमिहोच्यते ॥

"

इति स्मरणात् । आश्रयदुष्टम् ; संसर्गदुष्टम् ;

शैवपाषण्डपतितैर्विकर्मस्थैर्निरीश्वरैः ।

अवैष्णवैर्द्विजैः शूद्रैर्हरिवासरभोक्तृभिः ॥ श्वकाकसूकरोष्ट्राद्यैर् उदक्यासूतिकादिभिः ।

पुंश्चलीभिश्च नारीभिर्वृषलीपतिभिस्तथा ॥

स्पृष्टं दृष्टं च दत्तं च भुक्तशेषं तथैव च ।

अभक्ष्याणां च संयोगः संसर्गाद् दुष्टमुच्यते ॥ “

इति । निमित्तदुष्टम् ; कालदुष्टम् ;
" एकादश्यां तु यच्चान्नं यच्चान्नं राहुदर्शने ।

सूतके मृतके चान्नं शुक्तं पर्युषितं तथा ॥

अनिर्दशाहं गीक्षीरं षष्ठ्या तैलमथापि वा ।

नदीषु समुद्रगासु सिंहकर्कटयोर्जलम् ॥

निःशेषजलवाप्यादौ यत्प्रविष्टं नवोदकम् ।

नातीतपञ्चरात्रं स्यात्कालदुष्ट मिहोच्यते ॥

इति । अलमिति । विरुन्धानध्वंसम् ; विरोधिनां विनाशम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

दुर्मतिः– अय्यउत्त, अमच्या एव्व पुणो अराइविद्धंसणे

पुणो’175 पेसणेण अणुग्गहणिज्जा ।

(आर्यपुत्र, अमात्या एव पुनररातिविध्वंसने पुनः प्रेषणेनानुग्रहणीयाः ।)

महामोहः - प्रिये, कृत्याकृत्यवेदिनी’176 खल्वसि । अहमपि तथा तन्त्रयामि । तदाहूयतामन्तःपुरे कश्चिदन्तरङ्गपरिजनः ।

दुर्मतिः-हला दुब्वासणे, इदो177 होहि ।

(सखि दुर्वासने, इतो भव । )
(ततः प्रविशति दुर्वासना )

दुर्वासना – एसाहम् उवट्ठिदम्हि । आणवेदु महाराओ

रण्णी अ ।

( एषाहमुपस्थितास्मि । आज्ञापयतु महाराजो राज्ञी च ।)

महामोहः - भद्रे, ब्रूहि मद्वचनादगणितगणितविद्यान् करणाधिकारिणः - ’ आदिशति भवतो महाराजाधिराजराजपरमेश्वरो

दुर्मत्या सह महामोहः । कामक्रोध लोभ मदमात्सर्यदम्भस्तम्भेभ्यः सप्तभ्यः178 सचिवेभ्यः सप्त मुक्तिक्षेत्रतया प्रसिद्धा राजधान्यः ससागराश्च सप्त महाद्वीपा दत्ता महामोहेनेति179 लिख्यताम् । अपि च,
स्वकीयाख्यामात्रच्छुरणपरिणह्यद्भयहरान्180

बहिष्कृत्येदानीं विजहदधिकारान्क्रतुभुजः ।

यदृच्छावाक्येऽपि व्यवहरतु लोकोऽयमखिलो

नमः स्वस्तिस्वाहागिर181 इह महामोहविषयाः ’ ॥ ६९ ॥

मूलम् - ६९

प्रभावली - ६९

अराइविद्धसणे - अरातिविध्वंसने । पुणो- पुनः । पेसणेग-प्रेषणेन । अणुग्गहणिज्जा- अनुग्रहणीयाः । हला

दुव्वासणे-हला दुर्वासने ; हलेति

X५२४
सख्याह्वाने । एत्थ हो हि- इतो भव; आगच्छेत्यर्थः । एसा एषा । उबट्ठि- दम्हि उपस्थितास्मि । आणवेदु आज्ञापयतु । महाराओ - महाराजः । रण्णीअ- राज्ञी च । अगणिताः अपरिमिताः गणितविद्याः येषाम् । करणाधिकारिणः ; लेखनाधिकारिणः । आदिशति ; आज्ञापयति । भवतः ; युष्मान् । सचिवेभ्यः मन्त्रिभ्यः । मदः ; गर्वः । स्तम्भः ; जडीभावः । राजधान्यः ; अयोध्या- मधुरादयः । लिख्यतामित्युक्त्वा पुनरपि लेखनीयवचनविशेषमाह — अपिचेति ।

X५२५
स्वकीयाख्याः इन्द्रादिनामानि ; तन्मात्रस्य छुरणं सम्पर्कः, उच्चारणमिति यावत्; तेन परिणह्यद्भयहरान् विपुलीभवद्भयहर्तृन् । स्वनामोच्चारणमात्रेण भक्तजनविपुलभयापहर्तॄन् । तथा ह्यधीयते – “यत इन्द्र भयामहे ततो नो अभयं कृधि " इति । यद्वा स्वकीयाख्याः महामोहाद्याः, तन्मात्रोच्चारणेन विपुलीभव- द्भयभरान्, चकितानित्यर्थः । विजहदधिकारान्; प्रतिमन्वन्तरं विजहत्स्वाधिकारान् । बहिष्कृत्य; अपहाय । अयं लोकः यदृच्छावाक्येऽपि यदृच्छाव्यवहारेऽपि । नमः स्वस्तिस्वाहाशब्दान् महामोहविषयान् महामोहगोचरान् व्यवहरन्तु उच्चारयन्तु । महामोहाय नम इत्यादिकम् । इतीत्यस्य लिख्यतामित्यनेन सम्बन्धः ॥ ६९ ॥

प्रभाविलासः - ६९

सप्त राजधान्यः ; अयोध्यादयः,

" अयोध्या मधुरा माया काशी काञ्चीह्यवन्तिका ।

पुरी द्वारवती चैव सप्तैता मुक्तिदायिकाः॥
इति स्मरणात् । स्वकीयेति । स्वकीयाख्यामात्रस्य स्वनाममात्रस्य । छुरणात्; संसर्गात्, उच्चारणादिति यावत् । परिणह्यद्भयम् ; विशालीभवन्तीं भीतिं हरन्तीति तान्, तथोक्तान् । स्वनामकीर्तनमात्रेण कीर्तयतां भयहरानित्यर्थः,” यत इन्द्र भयामहे ततो नो अभयं कृधि” ’ इत्यादिश्रुतेः । भयभरानिनि पाठे स्वशब्देन मोहो गृह्यते । अत्र श्लोके हिरण्यकशिपुसाम्यं व्यज्यते ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

इति ।
दुर्वासना - जम् आणवेइ भट्टा भट्टिणी अ ।

( यदाज्ञापयति भर्ता भर्त्रीच ।)

(इति निष्क्रान्ता)

(नेपथ्ये)

विजयतां देवः

भुक्तिक्षमं समयमेकरुचिं वितन्वन्

पुंसां निजप्रतपनेन गतिप्रतीपः ।

आशाविशेषमपरं प्रतिपत्स्यमानो

मोहेश्वर त्वमिव भाति मयूखमाली ॥ ७० ॥

मूलम् - ७०

इति ।
दुर्वासना - जम् आणवेइ भट्टा भट्टिणी अ ।

( यदाज्ञापयति भर्ता भर्त्रीच ।)

(इति निष्क्रान्ता)

(नेपथ्ये)

विजयतां देवः

भुक्तिक्षमं समयमेकरुचिं वितन्वन्

पुंसां निजप्रतपनेन गतिप्रतीपः ।

आशाविशेषमपरं प्रतिपत्स्यमानो

मोहेश्वर त्वमिव भाति मयूखमाली ॥ ७० ॥

प्रभावली - ७०

X५२६
जम् आणवेइ - यदाज्ञापयति । भट्टा भट्टिणी अ- राजा राज्ञी च । देवः ; महामोहः । भुक्तीति । अत्र सूर्यमहामोहयोः श्लेषः । भुक्तिक्षमम्; भोजन- योग्यं समयं मध्याह्नम् ; अन्यत्र भोगयोग्यं समयं सिद्धान्तम् । एका मुख्या रुचिः दीप्तिः यस्मिन् ; अन्यत्र मुख्यास्वादवत् । वितन्वन् पुंसां निजप्रतपनेन; आतपेन, अन्यत्र तापत्रयेण पीडनं तेन । गतिप्रदीपः ; भूमौ सञ्चार प्रतिकूलः, मध्याह्ने सातपे क्वचिदपि गन्तुमशक्यत्वात्; अन्यत्र मोक्षगतिप्रतिकूलः ।

X५२७
अपरमाशाविशेषं प्रतिपत्स्यमानः प्रयास्यन् मयूखमाली सूर्यः मोहेश्वर त्वमिव भाति ॥ ७० ॥

प्रभाविलासः - ७०

भुक्तिक्षममिति । भुक्तिक्षमम्; भोजनक्षमम्, अन्यत्र सम्भोग - क्षमम् । समयम्; कालं, कामशास्त्रं च । एकरुचिम् ; मुख्यदीप्तिम्, एकस्वाद्यं च । प्रतपनेन प्रकृष्टतापेन, प्रतापेन च । गतिप्रतीपः गमनप्रतिबन्धकः, मुक्तिमार्गनिरोधकश्च । आशाविशेषम् ; दिग्विशेषं, तृष्णा- विशेषं च ॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

इह च,

उपहरति सूपकर्ता महतो मोहस्य दुर्मतिप्रेष्यः ।

बलरिपुवरुणगृहाभ्यां स्वाद्यं धारान्तमुचितमाहारम् ॥ ७१ ॥

मूलम् - ७१

इह च,

उपहरति सूपकर्ता महतो मोहस्य दुर्मतिप्रेष्यः ।

बलरिपुवरुणगृहाभ्यां स्वाद्यं धारान्तमुचितमाहारम् ॥ ७१ ॥

प्रभावली - ७१

इह च ; समये । दुर्मतिप्रेष्यः ; भृत्यः । सूपकर्ता; सूदः । महतो मोहस्य ; महामोहस्येत्यर्थः । बलरिपुवरुणगृहाभ्याम् ; बलरिपोः गृह स्वर्गः ; वरुणस्य गृहं पश्चिमसमुद्रः ; ताभ्यां सकाशात् । स्वाद्यम्; आस्वाद्यम् । धारायाः क्षीरधारायाः अन्तं रम्यमित्यापातार्थः । तात्पर्यार्थस्तु सुशब्दः आद्यो यस्य तत् स्वाद्यम्, धकारः अन्ते यस्य तमाहारं सुधा बलरिपुगृहात स्वर्गादुप- हरति । स्वाद्यं रान्तमाहारं सुरां वरुणगृहादुपहरति । वरुण सम्बन्धित्वात् सुराया वारुणीति व्यपदेशः ॥ ७१ ॥

प्रभाविलासः - ७१

अथ नैष्क्रामिकीं ध्रुवामाह – उपहरतीति । तदुक्तम् — “ निष्क्रामसूचिकाङ्कान्ते ध्रुवा नैष्क्रामिकी भवेत् " इति । सूपकर्ता; पाचकः, सम्यगुपकर्ता चेति व्यज्यते । बलरिपुः ; इन्द्रः । स्वाद्यम्; सुइत्ययमाद्यो वर्णों यस्य तत् । धारान्तम् ; धकाररेफावन्ते यस्य तत् । सुधासुरारूप-
पमित्यर्थः । उचितम् ; मोहोचितम् । स्वाद्यं रुचिकरं धारान्तं घृतादिरम्यम् उचितं राजोचितमिति च व्यज्यते ॥ ७१ ॥

विश्वास-प्रस्तुतिः - ७२

महामोहः - ( कर्णे दत्वा ) प्रिये प्राणशब्दाभिलप्यानां182
सर्वशरीरव्यापिनीनां सर्वसिद्धान्तसम्मतानां देवतानां समर्चनसमयमावेदयति वैतालिकः । तत्प्रविशावः शुद्धान्तम् ।

(इति निष्क्रान्ताः सर्वे )

इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये दम्भाद्युपालम्भो नाम पञ्चमोऽङ्कः । ॥ ७२ ॥

मूलम् - ७२

प्रभावली - ७२

X५२८
प्राणशब्दार्थानां सर्वसिद्धान्तिभिरङ्गीकृतानां समर्चन समयं भोजनसमयमित्यर्थः । आवेदयति ; ज्ञापयति । वैतालिकः ; मङ्गलपाठको मागधः । तत्;

शुद्धान्तः ; अवरोधः ।

इति श्रीनृसिंहराजाचार्यकृतसङ्कल्पसूर्योदयव्याख्यायां प्रभावल्यां दम्भाद्युपालम्भो नाम पञ्चमोऽङ्कः । ॥ ७२ ॥

प्रभाविलासः - ७२

183 इत्यात्रेयाहोबिलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने दम्भाद्युपालम्भो नाम पञ्चमोऽङ्कः । ॥ ७२ ॥

  1. रे रे — क ↩︎ ↩︎

  2. सम्भावयामि - ख. ↩︎ ↩︎

  3. अहं —क. ख. ↩︎ ↩︎

  4. णरेन्दामचेहिं – छ. ↩︎ ↩︎

  5. पत्थिदह्नि — घ. च. ↩︎ ↩︎

  6. तह वि —क. घ. ड. छ. ↩︎ ↩︎

  7. ता omitted — - ख. ↩︎ ↩︎

  8. अद्य तायत् —- ख; अद्य पुनः omitted ↩︎ ↩︎

  9. कुतश्चित् —- क. ग. छ. ↩︎ ↩︎

  10. सन्धाय — क्र. ↩︎ ↩︎

  11. खु omitted - —ग छ. ↩︎ ↩︎

  12. अग्गिविच्छेदम्मि —क ↩︎ ↩︎

  13. कुल omitted —ग, घ ↩︎ ↩︎

  14. अ omitted —ख ↩︎ ↩︎

  15. एव्व omitted—क ↩︎ ↩︎

  16. The sentence is omitted—-ड, छ ↩︎ ↩︎

  17. भेदाः omitted—-क; धराः —ख ↩︎ ↩︎

  18. वैदिकधर्माः–ख. ग. ↩︎ ↩︎

  19. ततो — क. ↩︎ ↩︎

  20. मुहूर्तमपि omitted - घ ↩︎ ↩︎

  21. त्वदन्याः - क ↩︎ ↩︎

  22. सर्वभोग omitted क. ↩︎ ↩︎

  23. परतया — क. ↩︎ ↩︎

  24. भाषितं — ग. ↩︎ ↩︎

  25. तानि तानि पारिजातपुष्पफलपल्लवादीन्युपाहर -=== क. ↩︎ ↩︎

  26. अमचजणेहिं omitted—- ख. घ. ; अमबेहिं- — क. ↩︎ ↩︎

  27. ध्वजश्च—- क. ख. ↩︎ ↩︎

  28. निबद्धः - क. ख. ↩︎ ↩︎

  29. कुण इ - —क, ख, घ ↩︎ ↩︎

  30. साक्षिमात्रे - — ख. ↩︎ ↩︎

  31. सर्व omitted- — क. ख. ↩︎ ↩︎

  32. तिरस्कारदक्षो - क. ↩︎ ↩︎

  33. हृदयङ्गमः- — क. ↩︎ ↩︎

  34. सयूथ्यः added after-क. ↩︎ ↩︎

  35. प्रतिष्ठितां — क. ↩︎ ↩︎

  36. अधितिष्ठानि - — ग. ↩︎ ↩︎

  37. तुम्ह omitted - —क. ↩︎ ↩︎

  38. अद्यैव च— ङ. छ. ↩︎ ↩︎

  39. मन्थ omitted—ख. घ. ↩︎ ↩︎

  40. अत्र च —क. ↩︎ ↩︎

  41. इवादित्यं —क. ↩︎ ↩︎

  42. शिक्षा- —ग ↩︎ ↩︎

  43. प्रागल्भ्यतः ——ख. ड ↩︎ ↩︎

  44. अथ च- — ख ↩︎ ↩︎

  45. विहतिविनिहते इति प्रभाविलासपाठः ↩︎ ↩︎

  46. त एते —छ. ↩︎ ↩︎

  47. विद्यागर्वं- — क. ↩︎ ↩︎

  48. स्थापितम् – — क. ख. ↩︎ ↩︎

  49. व्यवस्थापिता- —ड ↩︎ ↩︎

  50. मेषमल्ल - —क, ↩︎ ↩︎

  51. व्यतिहारितांश्च विपठन् — क ↩︎ ↩︎

  52. विस्तारिकूर्च —क ↩︎ ↩︎

  53. मोदते इति मुदिः । तस्य भावो मुदिता इति व्युत्पत्तिर्भाव्या. ↩︎ ↩︎

  54. पर्वतीयैः —ग. ↩︎ ↩︎

  55. प्रतिजनपदं added after — क. ↩︎ ↩︎

  56. कौलटेरः— क ↩︎ ↩︎

  57. वैशेषिको — क. ग, ↩︎ ↩︎

  58. सृष्टि omitted. क; दृष्टि - ख. ↩︎ ↩︎

  59. तपसः —घ ↩︎ ↩︎

  60. रसार्पित - —क, ख. ↩︎ ↩︎

  61. रचित — क. ↩︎ ↩︎

  62. देशमपरित्यजन्तो बहिरावरणमात्रसंरक्षितवर्णाश्रमधर्माः- —घ. ↩︎ ↩︎

  63. जागरतनुः — ङ. ↩︎ ↩︎

  64. पुराणपठनाय —क. ↩︎ ↩︎

  65. विहस्येति पाठः प्रभावल्यां नादृतः ↩︎ ↩︎

  66. दम्भक्रमैः——क. ↩︎ ↩︎

  67. पुनर्मुष्टिमेय - क. ख. ↩︎ ↩︎

  68. कुशाजिनचेलोत्तरं - क. ↩︎ ↩︎

  69. दम्भस्यैते —घ ↩︎ ↩︎

  70. अनुपतितेति प्रभावली पाठः । ↩︎ ↩︎

  71. धूर्तबकाचाराणम् - —क ↩︎ ↩︎

  72. याज्ञिकः - — क. ↩︎ ↩︎

  73. बाहुजङ्घोदराद्यैः — क. ↩︎ ↩︎

  74. अग्नीन्- —ख. ग. ↩︎ ↩︎

  75. धारिणां —क ↩︎ ↩︎

  76. अर्थार्जनोपायः — घ ↩︎ ↩︎

  77. जीवन —ग; सेवन —घ ↩︎ ↩︎

  78. भेदेऽपश्चिम - क, ↩︎ ↩︎

  79. स्तोमाः स्फुरन्त्यन्यतः —ख, ग. ↩︎ ↩︎

  80. तावदेनमाश्रमवासिनम् — क. ↩︎ ↩︎

  81. प्रव्रजिता - क. ↩︎ ↩︎

  82. विवेकवित्रासनचरितस्य महामोहस्य —क ↩︎ ↩︎

  83. प्रतिगतास्मि - ख. ड. ↩︎ ↩︎

  84. सतोऽसतो वा added after —क ↩︎ ↩︎

  85. उद्भावयितुं —ङ ↩︎ ↩︎

  86. निभृतोन्नत- —ग ↩︎ ↩︎

  87. निखिलाङ्गाः- —क ↩︎ ↩︎

  88. व्यपनेष्यते — ख ; शमयिष्यति — - ग. ↩︎ ↩︎

  89. चषसापेक्षी -घ. छ ; चटसापेक्षीति प्रायिकः पाठः । चटसः पानपात्रमिति च केचित् व्याख्यातारः । तथापि चटसशब्द- स्य तदर्थत्वे कोशो मृग्य इति कृत्वा पुटसापेक्ष इति प्रभाविलासपाठ आहतः । यदि तथाविधः कोश उपलभ्येत तदा सोऽपि पाठ आदरणीयः. . ↩︎ ↩︎

  90. इहहि — ग. ↩︎ ↩︎

  91. प्रव्राजकाश्रमेति प्रभावली पाठः - — ख. ↩︎ ↩︎

  92. सुलभोपाख्यानं महाभारते शान्तिपर्वणि ३२५ अध्याये द्रष्टव्यम् . ↩︎ ↩︎

  93. प्रगल्भेव - — ग. ↩︎ ↩︎

  94. दिह - — क. छ. ↩︎ ↩︎

  95. खु- -क. घ. ↩︎ ↩︎

  96. अम्हघरसामिहत्येण - घ. ↩︎ ↩︎

  97. गण्हीअदि —क. ↩︎ ↩︎

  98. हन्त हन्त –क, ↩︎ ↩︎

  99. समागतौ —- क. ख ↩︎ ↩︎

  100. व्याजेन — छ ↩︎ ↩︎

  101. सत्यव्रतं तत् — ख. ↩︎ ↩︎

  102. क्षितितिलकनिभं- — क, ख. ↩︎ ↩︎

  103. महा omitted —- क. ↩︎ ↩︎

  104. चारत्स्वं —ख. ↩︎ ↩︎

  105. इत्याक्षिपसि — ख. ↩︎ ↩︎

  106. समयादा — क; विनयात् — ग. ↩︎ ↩︎

  107. स्थितौ — - ख. ↩︎ ↩︎

  108. समधिकः– —ग ↩︎ ↩︎

  109. कथ्यताम् - —ग ↩︎ ↩︎

  110. महर्षिभिः — म. ↩︎ ↩︎

  111. त्रिवर्षश्रोत्रिय मिमां —क. ग. ↩︎ ↩︎

  112. वृत्ति omitted - —ख. ↩︎ ↩︎

  113. क्वापि omitted - – क. ↩︎ ↩︎

  114. कमपि omitted—ख. ↩︎ ↩︎

  115. जरठवञ्चक —-क. ख ↩︎ ↩︎

  116. विनाशं प्रतिपत्स्यसे- — ग. ↩︎ ↩︎

  117. सण्णासिणि added after —घ ↩︎ ↩︎

  118. सम्पज्जइ - — ख. ↩︎ ↩︎

  119. विध्वंसने — क ↩︎ ↩︎

  120. चित्त omitted - —घ छ ↩︎ ↩︎

  121. प्रायोपवेशमा —ख, घ ↩︎ ↩︎

  122. सेनाश्च added after - —क ↩︎ ↩︎

  123. एदं - — ख. ↩︎ ↩︎

  124. दीव्यन् — ग. ↩︎ ↩︎

  125. मोहः कस्य —ख ↩︎ ↩︎

  126. एव —ग, च ↩︎ ↩︎

  127. ग reads these passages in the following order - यद्यपि समयभेदाः तथापि भेदमभेदं च व्यामोहयामि । कैश्विदौपनिषदापशदेः - अन्तर्धापिताः कामाद- यश्चिकीर्षितवैकल्यजनितवैलक्ष्यमनालक्ष्य गूढमासते । अथवा पुनरहम् etc. ↩︎ ↩︎

  128. वैलक्ष्यात - ख. ↩︎ ↩︎

  129. निवृत्तोत्साहमेव —ख ↩︎ ↩︎

  130. विधास्यामीति प्रभावलीपाठः ↩︎ ↩︎

  131. कृकलासा इत्यर्थः ↩︎ ↩︎

  132. रतिरुच्यते - — क. ↩︎ ↩︎

  133. शक इ —क ↩︎ ↩︎

  134. ‘शिल्प —ग, छ, ↩︎ ↩︎

  135. महिमशालि —ख ↩︎ ↩︎

  136. वृश्चिकभिया–ग ↩︎ ↩︎

  137. शुद्धितया - — क. ख ↩︎ ↩︎

  138. स्वभवनमपीति प्रभावळीपाठः ↩︎ ↩︎

  139. वचन omitted — घ ↩︎ ↩︎

  140. किर omitted — ख. ↩︎ ↩︎

  141. महिलाओ - — ख. ↩︎ ↩︎

  142. सिद्ध omitted. —ग ↩︎ ↩︎

  143. वेरग्गप्पहाणेसु - — ख. ↩︎ ↩︎

  144. प्रभृति —क. ↩︎ ↩︎

  145. ‘स्वभावचित्रमिदम् — ग ↩︎ ↩︎

  146. तत्रेत्थं नामेति प्रभावली पाठः ↩︎ ↩︎

  147. तथा हि —- क. ↩︎ ↩︎

  148. कर्करेति प्रभाविलासपाठः ↩︎ ↩︎

  149. निवेदितार्थम् — छ. ↩︎ ↩︎

  150. आर्यैः — क. ख. ग. ↩︎ ↩︎

  151. सन्न्यवेशि —क ↩︎ ↩︎

  152. पुरिसं —क ↩︎ ↩︎

  153. परिपडिअपक्खपडिआ —ग ↩︎ ↩︎

  154. तादर्थ्यं —क ↩︎ ↩︎

  155. कृपणहतकेः —-ख. ↩︎ ↩︎

  156. अस्मत्कुल— ख ↩︎ ↩︎

  157. कुशलम्- —क ↩︎ ↩︎

  158. स्वकुल omitted — क. ↩︎ ↩︎

  159. दम्भः —ख ↩︎ ↩︎

  160. कैमुतिक — क ↩︎ ↩︎

  161. ‘दुर्मतिपण्डित —- क. ख. ↩︎ ↩︎

  162. पण्डितः — ग. ↩︎ ↩︎

  163. यथाभूत—- ख ↩︎ ↩︎

  164. प्रसुप्त इव लक्ष्यते—-ख. ↩︎ ↩︎

  165. व्यापादनीयम् - — क. छ ↩︎ ↩︎

  166. अस्माकं omitted — ख. ↩︎ ↩︎

  167. योधनीयः - — क. ↩︎ ↩︎

  168. शकुटस्य — क. ख; न खलु शाकुटस्य कियानपि भारः- क. ख. छ. ↩︎ ↩︎

  169. क्षोभयितुमिति प्रभावली पाठः ↩︎ ↩︎

  170. साहाय्ये —. छ. ↩︎ ↩︎

  171. युवयोः — ख ↩︎ ↩︎

  172. तपोधनेषु – — ग ↩︎ ↩︎

  173. सन्देशः — ग. ↩︎ ↩︎

  174. दृष्टचेष्टे – - घ. ↩︎ ↩︎

  175. पुणो पुणो —-ग ↩︎ ↩︎

  176. बिवेकिनी — घ. ↩︎ ↩︎

  177. एत्थ —-ग ↩︎ ↩︎

  178. सप्तभ्यः omitted — क ↩︎ ↩︎

  179. लिखितव्यम् - — क. ↩︎ ↩︎

  180. भरानू - — क. ख. ↩︎ ↩︎

  181. स्वघमिह महामोहविषयम् – — क. ख; स्वयमिह महामोहविषयाः — ग. ↩︎ ↩︎

  182. लप्यमानानां - — ग. घ, ↩︎ ↩︎

  183. इत्यात्रेयगोत्रसम्भूतेन श्रीमदहोबिलनाम्ना विदुषा विरचिते — B, ↩︎