विश्वास-प्रस्तुतिः - १
(ततः प्रविशति कामो वसन्तश्च )
कामः— सखे वसन्त,
इक्षुः पेशलमीदृशं मम धनुः पुष्पाण्यमी सायका-
स्तन्त्रीमञ्जुलनिःखना मधुकरश्रेणी शुभा शिञ्जिनी ।
भीरुः सन्नबलाजनो मम बलं तथ्यं परं कथ्यते
सोऽहं निर्जितशूलभृत्प्रभृतिकः सङ्कल्पसिद्धोदयः ॥ १ ॥
मूलम् - १

प्रभावली - १
अथ चतुर्थेऽङ्के कामवसन्तक्रोधलोभतृष्णादयश्चन्द्रोदयसमये समाधिप्रवण- पुरुषे सौप्तिकमिच्छन्तः समेत्य पुरुषसमीपे रक्षणपरं सुमतिसहायं विवेकं दृष्ट्वा भग्नोत्साहा दश दिशो विद्रुता इत्युच्यते - ततः प्रविशतीत्यादि । इक्षुरिति ।
ममेदृशं पेशलमिक्षुर्धनुर्भवतु । शिञ्जिनी ; धनुर्ज्या । तन्त्री ; विपञ्ची; तद्वन्मधुरस्वरा । एवमपि मया परं तथ्यं कथ्यते । सोऽहं तादृशोऽप्यहं निर्जित- शूलभृत्प्रभृतिकत्वात् सङ्कल्पेन सिद्ध उदयो विभवो यस्य सोऽस्मि ॥ १ ॥
प्रभाविलासः - १
अथ कपटोपायलक्षणमभूताहरणं नाम गर्भसन्धेरङ्गं प्रस्तूयते —— ततः प्रविशति काम इत्यादिना । तत्र गर्भसन्धेरङ्गानि द्वादश । तदुक्तम्-
“अभूताहरणं मार्गों रूपोदाहरणक्रमाः ।
सङ्ग्रहश्चानुमानं च तोटकातिबले तथा ।
उद्वेगसम्भ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥”
"
इति । तत्राभूताहरणलक्षणम्- “अभूताहरणं प्राहुः कपटोपायकल्पनम् " इति । इक्षुरिति । पेशलम् ; मृदु । अत्र दुर्बलसाधनसमवधानेऽपि स्वस्य
[[३९७]]
विजयित्वमुक्तम् । अत्र श्लोके प्रसादो नाम गुणः,
“द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते " इति लक्षणात् ।
द्राक्; शीघ्रम्॥ १ ॥
विश्वास-प्रस्तुतिः - २
अपि च1 ;
2 त्वयि सम्भृतशस्त्रास्त्रे3 सहाये मम संस्थिते ।
महता पश्य मोहेन विश्वमेकातपत्रितम् ॥ २ ॥
मूलम् - २
अपि च1 ;
2 त्वयि सम्भृतशस्त्रास्त्रे3 सहाये मम संस्थिते ।
महता पश्य मोहेन विश्वमेकातपत्रितम् ॥ २ ॥
प्रभावली - २
सम्भृतशस्त्रे ; सम्भृतानि सम्पादितानि शस्त्राणि येन तस्मिन् । त्वयि मम सहाये संस्थिते सति महामोहेन जगत्सर्वमेकातपत्रितं पश्य ॥ २ ॥
प्रभाविलासः - २
त्वयीति । शस्त्राणि; आयुधानि । अस्त्राणि ; बाणाः ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
वसन्तः – किमुच्यते ? कामः खल्वसि ।
कामं कामं कामपि सिद्धिं करणैः स्वैः
कारं कारं कर्म निषिद्धं विहितं वा ।
न्यस्यन्ति त्वय्यद्भुतसीम्नि प्रतिबुद्धाः
कामोऽकार्षीन्मन्युरकार्षीदिति नाम ॥ ३ ॥
मूलम् - ३
वसन्तः – किमुच्यते ? कामः खल्वसि ।
कामं कामं कामपि सिद्धिं करणैः स्वैः
कारं कारं कर्म निषिद्धं विहितं वा ।
न्यस्यन्ति त्वय्यद्भुतसीम्नि प्रतिबुद्धाः
कामोऽकार्षीन्मन्युरकार्षीदिति नाम ॥ ३ ॥
प्रभावली - ३
कामशब्दाभिप्रेतं विवृणोति — कामं काममिति । प्रतिबुद्धाः ; ज्ञानिनोऽपि । कामपि सिद्धिं स्वाभीष्टां कामं कामं कामयित्वा ; अभीक्ष्ण्ये द्विरुक्तिः । स्वैः
[[३९८]] करणैः; मनोवाक्कायैः, इन्द्रियैर्वा । निषिद्धं पापं विहितं नित्यनैमित्तिकादिकं कर्म कारं कारं कृत्वा कृत्वा तत्सर्वमद्भुतानां परकाष्ठाभूते त्वयि समर्पयन्ति । कथम् ? कामोऽकार्षीत् ; " कामेन हि ददाति कामेन प्रतिग्रहीता” इत्युक्त- प्रकारेण काम एव सर्वमकरोत्, नाहम् । मन्युरेवाकार्षीत्, नाहमिति । मन्युः क्रोधः । नाम प्रसिद्धौ ॥ ३ ॥
प्रभाविलासः - ३
काममिति । कामं कामम् ; कामयित्वा कामयित्वा । कारं कारम् ; कृत्वा कृत्वा । अत्र कामोऽकार्षीदित्यादिश्रौतपदेन घटनात् गुम्भना
नामालङ्कारः,
“शब्दस्य प्रकृतेः सम्यग्घटना गुम्भना मता” इतिलक्षणात् । रत्याख्यो भावध्वनिः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
अपि च-
विषमनयनमुख्यैर्विक्रमक्रीडितं ते
सुरपतिभवनानि स्वैरसञ्चारभूमिः ।
उदधिवलयितेयं क्षोणिरुद्यानसीमा
कथमिव मदन4 त्वं वर्ण्यसे कान्तिसिन्धुः ॥ ४ ॥
मूलम् - ४
अपि च-
विषमनयनमुख्यैर्विक्रमक्रीडितं ते
सुरपतिभवनानि स्वैरसञ्चारभूमिः ।
उदधिवलयितेयं क्षोणिरुद्यानसीमा
कथमिव मदन4 त्वं वर्ण्यसे कान्तिसिन्धुः ॥ ४ ॥
प्रभावली - ४
विषमेति । ते तव विक्रमक्रीडितं विक्रमरूपा क्रीडा विषमनयनमुख्यैः त्रिनेत्रप्रभृतिभिः, नेतरैः क्षुद्रैः । ते स्वैरसञ्चारभूमिः स्वर्गभवनानि । उदधिवलयिता; समुद्रपरिवेष्टिता । अनेन सर्वा भूमिरित्युक्तं भवति ॥ ४ ॥
प्रभाविलासः - ४
विषमनयनेति । स्पष्टम् ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
कामः – सखे,5 सर्वलोकविदितमात्मनोऽपि6 वैभवमनुचिन्तय । यदेतत्—–
प्रख्यातस्त्वयि सम्भवः सुमनसां विश्वं त्वया नन्द्यते
मुख्यस्त्वं किल षड्विधेषु ऋतुषु ज्योतिस्त्वदेकाश्रयम् ।
यत्र श्रीर्धृतपङ्कजा स च परस्त्वत्संश्रयो माधवः
कामस्ते सचिवः क एव भविता कालोत्तमस्त्वत्समः ॥ ५ ॥
मूलम् - ५

प्रभावली - ५
प्रख्यातेति । सुमनसां ममास्त्राणां सम्भव उत्पत्तिः त्वय्येवेति प्रसिद्धः ।
X३९९
"
इदं विश्वं त्वयैव नन्द्यते ; सन्तोष्यते । षड्विधेषु ऋतुषु त्वं मुख्यः प्रधानः किल । ऋतूनां कुसुमाकरः” इति हि गीतम् । षड्विधेषु ऋतुष्वित्यत्र “ऋत्यकः” इति प्रकृतिभावः । ज्योतिः ज्योतिष्टोमः त्वदेकाश्रयं त्वदेकाधारम्," वसन्ते वसन्ते ज्योतिषा यजेत " इत्युक्तेः । यत्र यस्मिन् त्वयि वसन्तऋतौ श्रीः वासुदेववल्लभा धृतपङ्कजा भवति, ग्रीष्मादौ पङ्कजाभावात् । स च परो माधवः परस्तात् स्थितः वैशाखमासः त्वत्संश्रयो भवति ॥ ५ ॥
प्रभाविलासः - ५
प्रख्यात इति । सुमनसाम्; पुष्पाणाम् ; देवानामिति च व्यज्यते ।
मुख्य इति । " मुखं वा एतदृतूनां यद्वसन्तः " इति श्रुत्यर्थोऽभिप्रेतः । ज्योतिःः ज्योतिष्टोमः । " वसन्ते वसन्ते ज्योतिषा यजेत " इति श्रुतेस्त्वदेकाश्रयमित्युक्तम् । अन्यत्र ज्योतिः निरतिशयतेजोरूपं ब्रह्मेति व्यज्यते, तं देवा ज्योतिषां ज्योतिः " इति श्रुतेः । यत्र ; वैशाखमासे । श्रीः वसन्तलक्ष्मीः । धृतपङ्कजा; पद्माकरवती । स माधवः ; वैशाखः । लक्ष्मीविशिष्टः श्रीकृष्णोऽपीति व्यज्यते । अत्र पदव्यङ्ग्यं नाम ध्वनिभेदः । तदुक्तं काव्यप्रकाशे " वाक्ये द्वत्थः पदेऽप्यन्ये प्रबन्धेऽप्यर्थशक्तिभूः इति । अन्ये व्यङ्ग्यभेदा इत्यर्थः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
""
अपि च-
वसन्तस्त्वं वह्निर्मलयपवनः सारथिरसा-
वशोकादिर्ज्वाला मधुकरगणो धूमपटली ।
सुधासूतिः स्नेहस्तदिह जितनिर्वाणवचसो
विरक्तिस्ते दाह्या7 दुहिणगिरिशादेरपि सतः ॥ ६ ॥
मूलम् - ६
""
अपि च-
वसन्तस्त्वं वह्निर्मलयपवनः सारथिरसा-
वशोकादिर्ज्वाला मधुकरगणो धूमपटली ।
सुधासूतिः स्नेहस्तदिह जितनिर्वाणवचसो
विरक्तिस्ते दाह्या7 दुहिणगिरिशादेरपि सतः ॥ ६ ॥
प्रभावली - ६
मधुकरगणः भृङ्गश्रेणिः धूमपटली भवति । सुधासूतिश्चन्द्र’ तैलस्था-
X४००
नीयः ; चन्द्रस्याम्मयत्वात् स्नेहत्वम् । तत्; तस्मात् । जितनिर्वाणवचसः ; मोक्षप्रसङ्गो जितो येन तस्य । तव द्रुहिणगिरिशादेरपि सतः ; ब्रह्मरुद्रादीनामपि महताम् । जात्येकवचनम् । विरक्तिः ; दाह्यमिन्धनस्थानीयम् । अतः त्वत्समः क इति पूर्वेण सम्बन्धः ॥ ६ ॥
प्रभाविलासः - ६
वसन्त इति । सारथिः ; सहकारी । अशोकादिरित्यादिपदेन किंशुकमुच्यते । सुधासूतिः ; चन्द्रः । निर्वाणशब्दश्रवणमपि न सहत
इति वक्तुं जितनिर्वाणवचस इत्युक्तम् । अत्र वसन्तादीनां बाधकत्वोक्त्या विरक्तेर्विरहिणीत्वप्रतीत्या विप्रलम्भशृङ्गारो व्यज्यते । द्रुहिणेति पार्वत्यां बुद्धिविपर्यासो व्यज्यते । गिरिशेति विष्णुमायायां स्त्रियाम् ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
वसन्तः - महावीर मकरकेतन, मादृशामतिशयस्त्वदर्थ8
एव । यथा-
ऋतवो हि मत्प्रधानास्तवैव नानास्त्रशिल्पिनः सृष्टाः ।
विजयसमयं शशाङ्को विश्रमकालं व्यनक्ति दिवसेशः ॥ ७ ॥
मूलम् - ७
वसन्तः - महावीर मकरकेतन, मादृशामतिशयस्त्वदर्थ8
एव । यथा-
ऋतवो हि मत्प्रधानास्तवैव नानास्त्रशिल्पिनः सृष्टाः ।
विजयसमयं शशाङ्को विश्रमकालं व्यनक्ति दिवसेशः ॥ ७ ॥
प्रभावली - ७
त्वदर्थः ; त्वत्प्रयोजनकः । तदुदाहृत्य दर्शयति — ऋतव इति । मत्प्रधानाः ; वसन्तादयः । नानास्त्रशिल्पित्वेन सृष्टाः ; ब्रह्मणेति शेषः । मादृशामित्यत्र विवक्षितौ चन्द्रसूर्याविति दर्शयति- विजयसमयमिति । विजयसमयः रात्रिः । ता दर्शयति चन्द्रः । विश्रम उपरतिः । तस्य कालो दिवसः । तं व्यनक्ति सूर्यः ॥ ७ ॥
प्रभाविलासः - ७
ऋतव इति । पुष्पजातिमात्रस्य मदनास्त्रत्वमाह - नानास्त्रेति । अत्र वीरशृङ्गारयोर्ध्वनिः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
कामः - आस्तामयमन्योन्य9 प्रशंसा विस्तरः, अवधातव्यं राजकृत्ये10 ।
वसन्तः – यदुच्यते वयस्येन11 । तदिह समानभावयो-
रावयोः समाधिप्रवणपुरुषचेतःक्षोभणे12 शृङ्गारोद्दीपनविभावकृत्यं मय्यायत्तम्, भवता पुनरालम्बनविभावसम्पत्तिरुपपादनीया13 ।
कामः - सुहृत्सम्मतमहमिदमिदानीमाचरामि14 । अयं खलु, अपरिचितशुभाश्रयधारणाभिलाषी पुरुषः चिरपरिचितशुभालम्बने सुखेन सम्मुखयितुं शक्यते । अस्ति हि देवासुरसिद्धगन्धर्वविद्याधर15 किन्नरकिम्पुरुषमानुषादिसर्वपुरुषचक्षुः प्रत्यक्षं स्वतः पुरुषार्थभूतं सुलोचनाभिधानं ब्रह्म । न चैतदनुपपन्नम् ;
परमानन्ददायिन्यः16 प्रजानां सृष्टिहेतवः ।
ब्रह्मलक्षणलक्षण्या न कथं ब्रह्म योषितः ॥ ८ ॥
मूलम् - ८

प्रभावली - ८
एवमन्योन्यप्रशंसां परिसमाप्य राजकार्ये अवधातव्यमित्याह - आस्ता-
X४०१
मिति । अवधातव्यम्; अवधानं कर्तव्यम् । समानभावयोः ; समानाभिप्राययोः । क्षोभणे विषये । शृङ्गारोद्दीपनविभावकृत्यम्; शृङ्गाररसस्य उद्दीपनो यो विभावः “विभावैरनुभावैश्व " इत्यत्र विभावशब्दोक्तः चन्द्रोदयमन्दमारुत- कोकिलालापदिः, तद्रूपं कृत्यम् । मयि ; वसन्ते । भवता आलम्बनविभावस्य ; आलम्बनं नाम शृङ्गारादिरसाश्रयो युवत्यादिः, तस्य विभावः भ्रूविक्षेपादिः, तस्य सम्पत् सम्पाद्या । सुहृत्सम्मतम् ; त्वदभिहितम् । अयमित्यादि । अयं पुरुषः अपरिचितः यः शुभाश्रयः ; तस्य धारणा ध्यानसन्ततिः, तत्राभिलाषी । न तु तत्र शक्तः । चिरपरिचितम् अनेकजन्मसु परिचितं यत् शुभालम्बनं
X४०२
"”
शुभाश्रयः युवतिरूपं, तत्र सुखेनाभिमुखयितुं शक्यते । युवतीनां शुभालम्बनत्वमुपपादयति । ब्रह्म खलु शुभालम्बनम् । ब्रह्म च युवतय एवेत्याह–अस्ति हीति । चक्षुः प्रत्यक्षम् ; अपरोक्षरूपम् । स्वतः पुरुषार्थभूतम् ; वासुदेवाख्यं तु स्वतो न भवति, तदनुभवादेरेव पुरुषार्थत्वादिति भावः । सुलोचनाः ; युवतयः । तासां ब्रह्मत्वमनुपपन्नम्, ब्रह्मलक्षणलक्षितत्वाभावादित्याशङ्कयाह- परमेति । परमानन्ददायित्वं प्रजासृष्टिहेतुत्वमुभयं किल ब्रह्मलक्षणम् । उक्तं च दयाशतके ; " जगज्जन्मस्थेमप्रलयरचनाकेलिरसिकः " इति । तदुभयस्याप्यत्र विद्यमानत्वात् स्त्रियो न कथं ब्रह्म ? किन्तु ब्रह्मैवेत्यर्थः ॥ ८ ॥
प्रभाविलासः - ८
उद्दीपनविभावा अधस्तादुक्ताः । रससमवायिकारणभूतौ नायिकानायकौ आलम्बनविभावः । परमानन्देति । सौरतसुखस्य ब्रह्मानन्दतुल्यत्वं कामशास्त्रप्रसिद्धमभिप्रेत्य परमानन्देत्युक्तम् । उक्तं च रतिरहस्ये -
“ तत्सौख्यं परतत्त्ववेदनमहानन्दोपमं मन्दधीः
को वा विन्दति सूक्ष्ममन्मथकथावैचित्र्यमूढो जनः " इति ।
प्रसिद्धमेव ब्रह्मलक्षणं जगज्जन्मादिहेतुत्वम् आनन्दप्रदत्वं च ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
वसन्तः - सखे, त्रय्यन्तसम्मतश्च त्वदभिमतोऽयमर्थः ।
" स्त्रियो ब्रह्म" इति हि प्रथममामनन्ति17 । " उत वा पुमान् ” इति तु वैभवोक्तिः ।
अपि च-
अलस18 ललितमन्दं स्पन्दनं लोचनाना-
मकृतकरमणीया वृत्तयो विभ्रमाणाम् ।
अपि तरुणवधूनामाहरेयुर्मुनीन्द्रान्
शतमपि च विधूय ब्रह्मणां शाश्वतानाम् ॥ ९ ॥
मूलम् - ९

प्रभावली - ९
“स्त्रियो ब्रह्म उत वा पुमान्” इत्यादिः श्रुतिः । वैभवोक्तिः ; प्रशं-
X४०३
सोक्तिः, न तत्त्वोक्तिः । शाश्वतब्रह्मणोऽपि सुलोचनाभिधानं ब्रह्मातिशयितवैभवमित्याह -अपिचेति । अकृतकरमणीयाः; स्वाभाविकमनोहराः वृत्तयश्च
X४०४
ततश्च ;
मुनीन्द्रान् जितेन्द्रियानपि आहरेयुः वशीकुर्युः । किं कृत्वा ? शाश्वतानां ब्रह्मणां तैः ध्यायमानानां शतमपि विधूय त्याजयित्वा वशीकुर्युरिति ॥ ९ ॥
प्रभाविलासः - ९
।
अलसेति । अलसम् ; लक्ष्यान्निवृत्तम् । वलितम् ; पुनः प्रवृत्तम् ।
" अलसं तदभीष्टार्थाद् व्रीडादेर्यन्निवारितम् ।
वलितं तन्निवृत्तस्य भूयस्त्र्यश्रावलोकनम् ॥
त्युक्तत्वात् । मन्दम् ; प्रियदर्शन सुखातिशयेनेषन्मुकुलितम्,
“स्फुरत्संश्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका ।
मुकुला दृष्टिरानन्दे तन्मन्दमिति कथ्यते ॥ "
इत्युक्तत्वात् । विभ्रमाणाम् ; त्वरया भूषादिव्यत्यासानाम् । वृत्तयः ; व्यापाराः । अकृतकरमणीयाः स्वभावरमणीयाः । यद्वा विभ्रमशब्देन चेष्टा उच्यन्ते । ताश्च
हावभावादयः । तदुक्तं रसमञ्जर्याम्-
“हावो भावो हेला माधुर्यं धैर्यमथ पुनर्लीला ।
सविलासा विच्छित्तिः सम्भ्रमकिलिकिञ्चिते तथा चैव ॥
मोट्टायित कुट्टमिते बिब्वोकश्चैवं ललितमित्यपि च ।
चकितं विहृतं हासः कुतूहलं चेत्युशन्ति तच्चेष्टाः ॥”
इति । तत्र रसाविर्भावयोग्यत्वं भावः । स च प्रपित्समानयौवनासु लज्जोदयादिकार्यलिङ्गेन ज्ञेयः । भाव एवेषद् दृष्टविकारो हावः । सुव्यक्तविक्रिया हेला । माधुर्यमभूषणेऽपि नितरां रम्यत्वम् । धैर्यं शीलादेरलङ्घनम् । लीला वाग्गतिचेष्टाभी रमणानुकृतिः । विच्छित्तिः कतिपय भूषणयोगेन रम्यत्वम् । विलासः प्रियवीक्षायां तात्कालिक विकारः । किलिकिञ्चितं क्रोधाश्रुहर्षभीत्यादेः सङ्करः । सम्भ्रमः त्वरया भूषादिव्यत्यासः । मोट्टायितं भावसूचनेष्टालापः । कुट्टमितं रतौ सुखबाहुल्यम् । बिब्वोको रमणकथालापेनेषदाचरणम् । ललितं सुकुमाराङ्गचतुरविलासः । चकितं भयसम्भ्रमः । विहृतं लज्जयावसरवक्तव्यकथनम् । हासः तारुण्य-
विकारजमाकस्मिकं हसनम् । कुतूहलं रम्यवस्तुदर्शनचापलम् । शतमिति । एक ब्रह्मविधूननं कैमुतिकन्यायसिद्धमिति भावः । अत्र विभ्रमतरुणवधूमुनीन्द्रादिपदैः च्यवनवृत्तान्तो ध्वन्यते । च्यवनो हि अतिवृद्धस्तपसा वल्मीकैक्यमापन्नः पिपीलिकादिभिर्भक्ष्यमाणो यदृच्छयान्तिकं प्राप्तां शर्यातिपुत्रीं सुकन्यां नाम कन्यां दृष्ट्वा तद्गुणवागुरितः पाणिं जग्राहेति भारते प्रसिद्धम् ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
कामः - (सहर्षम् ) सखे वसन्त, अवितथमेवैतदभिलप्यते ।
अयमप्सरसां गणः प्रनृत्यन् विशिखासार विकल्प्यमानदृष्टिः19 ।
अभिगच्छतु मङक्षु मत्प्रयुक्तः पुरुषं काङ्क्षितपुण्यहीन योगम्20 ॥ १० ॥
मूलम् - १०
कामः - (सहर्षम् ) सखे वसन्त, अवितथमेवैतदभिलप्यते ।
अयमप्सरसां गणः प्रनृत्यन् विशिखासार विकल्प्यमानदृष्टिः19 ।
अभिगच्छतु मङक्षु मत्प्रयुक्तः पुरुषं काङ्क्षितपुण्यहीन योगम्20 ॥ १० ॥
प्रभावली - १०
अवितथम् ; सत्यमेवैतत् । ब्रह्मभूताः स्त्रिय एव मत्प्रयुक्ताः पुरतः पुरुषमभिगच्छन्त्वित्याह- अयमिति । विशिखासारः; बाणवर्षः, तत्सदृशत्वेनोच्यमाना दृष्टिर्यस्य । मङ्क्षु ; शीघ्रम् । पुण्यहीनम् ; शाश्वतं ब्रह्म, पुण्या पुण्यरहितत्वात्; तेन योगः काङ्क्षितो येन तम् । यद्वा पुण्यैर्योगो यस्य नास्ति पुण्ययोगहीनं शाश्वतं ब्रह्म, तत् काङ्क्षितं येन तम् ॥ १० ॥
प्रभाविलासः - १०
अयमिति । विशिखासारेण बाणधारासम्पातेन विकल्प्यमाना उपमीयमाना दृष्टयो यस्य सः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
वसन्तः — वयस्य पुष्पधन्वन्, त्वदादेशवर्तिनीषु मत्तकाशिनीषु सिद्धं नः समीहितम् । अद्य हि–
स्वादुगीतमधुमोहितश्रुतेश्वारुनृत्तवशवर्तिचक्षुषः ।
भावभेदभृतकीकृतात्मनो योगिनस्त्यजति यौवतं न धीः ॥ ११ ॥
मूलम् - ११
वसन्तः — वयस्य पुष्पधन्वन्, त्वदादेशवर्तिनीषु मत्तकाशिनीषु सिद्धं नः समीहितम् । अद्य हि–
स्वादुगीतमधुमोहितश्रुतेश्वारुनृत्तवशवर्तिचक्षुषः ।
भावभेदभृतकीकृतात्मनो योगिनस्त्यजति यौवतं न धीः ॥ ११ ॥
प्रभावली - ११
X४०५
"
आदेशः ; शासनम् । मत्तकाशिन्यः ; उत्तमस्त्रियः । सिद्धं समीहितम् ; उद्युक्तं कार्यम् । एवं सति पुरुषस्य श्रोत्रनेत्रमनांसि युवतिगणं न मुञ्चन्तीत्याह- स्वाद्विति । स्वादु यत् गीतमधु, तेन वशीकृतश्रोत्रस्य । चारु यन्नृत्तं, तद्वशवर्तिनेत्रस्य । भावभेदाः; रत्यादयः, तेन दासीकृतमनसः पुंसः धीर्यौवतं न त्यजति ॥ ११ ॥
प्रभाविलासः - ११
स्वाद्विति । भृतकीकृतः वशीकृत इत्यर्थः । यौवतम् ; युवतिसमूहम् ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
कामः – ( विचिन्त्य सरोषहासम् )
यदि मामवमत्य संयतेत व्यवसायान्वयदर्पितो विवेकः ।
वनिताशतवञ्चितस्य21 पुंसः स्वयमाधास्यति22 सौभरेरवस्थाम् ॥ १२ ॥
मूलम् - १२
कामः – ( विचिन्त्य सरोषहासम् )
यदि मामवमत्य संयतेत व्यवसायान्वयदर्पितो विवेकः ।
वनिताशतवञ्चितस्य21 पुंसः स्वयमाधास्यति22 सौभरेरवस्थाम् ॥ १२ ॥
प्रभावली - १२
सरोषहासम् ; रोषाद्धसित्वेत्यर्थः ; विवेकगर्वस्मरणात् । यदीति । संयतेत ; यत्नं कुर्यात् । व्यवसायसहायदर्पितः वनिताशतैः पुसि वशीक्रियमाणे
X४०६
सति सौभरेः ऋषेरवस्थाम्; सौभरिर्मुनिः अन्तर्जले तपश्चरन् मत्स्यसंसार- सौख्यं दृष्ट्वा स्वयमपि संसारासक्तो बभूवेति प्रसिद्धिः ॥ १२ ॥
प्रभाविलासः - १२
यदीति । सौभरिर्नाम कश्चिन्मुनिर्वृद्धो जलान्तस्तपश्चरन् पुत्रपौत्रसहस्रपरिवृतं कञ्चन मत्स्यमवलोक्य संसारे मतिं कृत्वा मान्धातृतनयाम् उपयेम इति श्रीविष्णुपुराणे प्रसिद्धम् । तदिदमाह – सौभरेरिति ।
“वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यते किम् ।
मया मयेति क्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥”
इति कन्यावचनमभिव्यनक्ति - वनिताशतवञ्चितस्येति ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
वसन्तः – भद्र,23 किमत्राद्भुतम् ? विश्वविदितं हि भवतो
वीरायितम् ।
विकस्वरसुरद्रुमप्रसवशस्त्रमाध्वीमद-
भ्रमद्भ्रमरसुन्दरीनिकरसम्भृतज्याभृतः ।
प्रहृष्टपरभृत्प्रियापणववेणुवीणादिभिः24
कणद्भिरुपघुष्यते कुसुमधन्वनो25 विक्रमः ॥ १३ ॥
मूलम् - १३

प्रभावली - १३
किमिति; अत्राद्भुतं नास्तीत्यर्थः । वीरायितम् ; वीरवदाचरणम् । विकस्वरः यः सुरद्रुमाणां प्रसवः पुष्पं, तदेव शस्त्रं, तस्य माध्वी मकरन्दः, तथा जातो यो मदः, तेन भ्रमन्त्यः भ्रमरसुन्दर्यः भृङ्गयः, तासां पङ्क्त्या सम्पादिता या धनुर्ज्या, तद्भूतः । प्रहृष्टाः याः परभृत्प्रियाः कोकिलस्त्रियः, ता एव पणववेणुवीणादयः तैः । क्वणद्भिः ; शब्दायमानैः । उपघुष्यते ; जोघुष्यते । भो कुसुमचाप, तव पराक्रमः ॥ १३ ॥
प्रभाविलासः - १३
विकस्वरेति । विकस्वराणां विकसतां सुरद्रुमसम्बन्धिनां प्रसवानां पुष्पाणामेव शस्त्राणां माध्वीमदेन मरन्दजनितमदेन भ्रमन्तीनां भ्रमरसुन्दरीणां निकरेण सम्भृतां ज्यां बिभर्तीति तथोक्तः । पुंस्कोकिलभ्रमराणां हर्षोत्पा- दनेन कूजनोद्दीपकतया सुन्दरीप्रियाग्रहणम् । तत्र मदनस्तुत्या भावाख्या रतिर्व्यज्यते । तस्या उपसर्जनतया शृङ्गारोऽपि व्यज्यत इति रस- वदलङ्कारः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
तदिह लघुव्यापारलभ्ये वस्तुनि न26 त्वया त्वरितेन प्रयतितव्यम्27 ।
मा भूदमोघविशिखं नमितं धनुस्ते
मौवीं च मा भवतु पुङ्खितचित्रपुङ्खा ।
मद्दर्शितैरपि सखे बिभियाद्विवेकः
शाखानिषङ्गनिहितैः शतशस्त्वदस्त्रैः ॥ १४ ॥
मूलम् - १४

प्रभावली - १४
X४०७
तदिति । अल्पप्रयाससाध्ये वस्तुनि न त्वया त्वरितव्यमिति यावत् । उक्तमर्थमुपपादयति- मा भूदिति । अमोघबाणं ते धनुः नमितं मा भूत् । मौर्वी च पुङ्खित चित्रपुङ्खा संहितबाणा मा भवतु । त्वया प्रयासो न कार्य इत्यर्थः । तर्हि विवेकविजयः कथं स्यादित्यत्राह - मद्दर्शितैरपीति । शाखा
1 एव निषङ्गाः, तत्र निहितैः त्वदस्त्रैः पुष्पैः शतशो मद्दर्शितैरपि विवेको बिभियादेव ॥ १४ ॥
प्रभाविलासः - १४
।
मा भूदिति । पुङ्खितः योजितः चित्रपुङ्खो यस्याः सा । निषङ्गः; तूणीरः । अत्राक्षेपालङ्कारः, “ प्रतिषेधोतिराक्षेपः” इति लक्षणात् ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
कामः — महति प्रतिपक्षे मैवं मन्दोत्साहेन भवितव्यम् ।
दृश्यते हि -
मितप्रद्योत निष्पाद्ये तमसामपसारणे ।
सहस्रेण करैः सार्धमुदेति दिवसेश्वरः ॥ १५ ॥
मूलम् - १५
कामः — महति प्रतिपक्षे मैवं मन्दोत्साहेन भवितव्यम् ।
दृश्यते हि -
मितप्रद्योत निष्पाद्ये तमसामपसारणे ।
सहस्रेण करैः सार्धमुदेति दिवसेश्वरः ॥ १५ ॥
प्रभावली - १५
प्रतिपक्षे महति सति अल्पोद्योगेन न भवितव्यम् । दृश्यते हि दिवसेश्वरः अल्पसाध्ये बहुसन्नाहवानित्याह - मितेति । मितो यः प्रद्योतः आतपः, तन्मात्र - निष्पाद्ये तमसो निरासे सहस्रेण करैः सार्धमुदेति ॥ १५ ॥
प्रभाविलासः - १५
मितेति । मितप्रद्योतः ; अल्पालोकः ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
तिष्ठतु सङ्ग्रामकथा द्यूते पुरुषस्य वादमात्रे वा ।
भवति परिभूतिलेशे कति कति विपदो निदर्शिताः कविभिः ॥ १६ ॥
मूलम् - १६
तिष्ठतु सङ्ग्रामकथा द्यूते पुरुषस्य वादमात्रे वा ।
भवति परिभूतिलेशे कति कति विपदो निदर्शिताः कविभिः ॥ १६ ॥
प्रभावली - १६
X४०८
अपि च ;
क्षुद्रद्यूतादिषु पुरुषस्य परिभवे सति बह्व्यो विपदः कविभिरुक्ताः । महति सङ्ग्रामे किमु वक्तव्यमित्यभिप्रायेणाह - तिष्ठत्विति । सङ्ग्रामकथायां किमु वक्तव्य- मित्यर्थः । द्यूते ; दुरोदरे । केवलं वादे च ; क्षुद्रेऽपीति भावः ॥ १६ ॥
प्रभाविलासः - १६
सर्वत्रानुत्साह एव दोषमूलमित्याह - तिष्ठत्विति । द्यूत इति । बलरामादिभिः रुक्म्यादिषु व्यसनं निदर्शितम् । वादमात्र इति शिशु- पालादिवधो व्यञ्जितः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
बसन्तः – किमित्येवमात्मप्रभावमवमत्य परापरविश्वपरिभाविनस्ते कुतश्चित्परिभूतिलेशमाशङ्कसे । न खलु शलभाः सहस्रमपि सहस्रकिरणमभिभवन्ति । अद्य च28 ;
विपुलसुषुमापत्तौ नृत्यद्विहारतुरङ्गमे
मधुमदसमारम्भस्तम्बेरमस्थगितान्तरे ।
रतिरसरथोत्सेधे कश्चिद्विधित्सितसंयमः
वचन भवतः स्कन्धावारे न जीवति जीवति ॥ १७ ॥
मूलम् - १७

प्रभावली - १७
परापर विश्वपरिभाविनः; परे ब्रह्मादयः, अपरे मनुष्यादयः ; एव- रूपसमस्तलोकपरिभाविनः । परिभूतिः पराभवः । विपुला सुषुमा परा शोभैव
X४०९
पत्तिः पदातिः यस्मिन् । नृत्यन्तो विहारा एव तुरङ्गमा यत्र । मधुना यो मदः, तत्समारम्भा एव स्तम्बेरमाः गजाः, तैः स्थगितमाच्छादितम् अन्तरमवकाशो यत्र । रतिरस एव रथोत्सेधः रथानामुच्छ्रायो यत्र, तस्मिन् भवतः स्कन्धा- वारे युवतिसमूहरूपे जीवति सति कश्चित् पुमान् विधित्सितसंयमः संयमविधानेच्छावान् सन् च जीवति ; न कापीत्यर्थः ॥ १७ ॥
प्रभाविलासः - १७
विपुलेति । विपुला सुषुमा परमा शोभैव पत्तिः पदातिर्यस्मि - स्तस्मिन् । विहारा एव तुरङ्गमाः ; नृत्यन्तः विहारतुरङ्गमा यस्मिंस्तस्मिन् । मधुमदस्य मद्यजनितमदस्य समारम्भा उपक्रमा एव स्तम्बेरमाः गजाः,
।
तैः स्थगितमन्तरं यस्य तस्मिन् । " मधु मद्ये पुष्परसे " इत्यमरः । रतिरसः सुरतसुखमेव रथोत्सेधो यस्मिंस्तस्मिन् । स्कन्धावारे; सैन्ये, युवतिसमुह इति यावत् । जीवति सति कश्चित् विधित्सित संयमः पुरुषः वचन न जीवतीत्यन्वयः । अत्र मदनस्तुत्या भावध्वनिः । तदुपसर्जनतया शृङ्गारवीरयोरभिव्यक्तिः । स्कन्धावारे न जीवति सति संयमी जीवतीति व्यतिरेकच व्यज्यते ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
न चेदानीं पुरुषः समाधिसौधमधिरूढः, यतस्तं तस्मिन् मनोरथप्रतिहतिशङ्का । दृश्यते29 हि ;
स्मरति महतामातङ्कानां मनस्कुरुते गृहान् प्रसजति परब्रह्मप्राप्तौ समृद्धिमपेक्षते । अभिनिविशते भोगोदन्वत्यपत्रपते पुनः
प्रणिधिरधुना सिद्धापायः सितासितपद्धतिः ॥ १८ ॥
मूलम् - १८

प्रभावली - १८
अयमेव सौप्तिकसमय इति सूचयन् मनोरथप्रतिहतिशङ्का न कार्येत्याह- न चेति । समाधिः ; निरन्तरध्यानं, तदेव सौधः ; तमिदानीमपि नारूढः । तदा खलु तव किञ्चित्प्रतिहतिशङ्का । समाधिसौधानारोह्य दर्शयति-— दृश्यते
X४१०
।
हीति । महतामातङ्कानाम् महतो भवरोगान्, स्मरति । " अधीगर्थदयेशाङ्कर्मणि " इति षष्ठी । अथापि गृहान्; संसारम् । मनस्कुरुते ; बहूकरोति । परब्रह्मणः प्राप्तौ ; मोक्षे । प्रसजति प्रकर्षेण सक्तो भवति । समृद्धिं संसार- सौख्यसमृद्धि चापेक्षते । भोगोदन्वति ; विषयानुभवसमुद्रे अभिनिविशते । पुनश्च तत्रैव त्रपते; विषयानुभवात् लज्जते । एवं भूतस्यास्य अधुना प्रणिधिः सितासितपद्धतिः; सन्दिग्धमार्गः । सिद्धापायो भवति, सिद्धप्रत्यूहो भवति, प्रियसखेन त्वयेति शेषः ॥ १८ ॥
प्रभाविलासः - १८
स्मरतीति । आतङ्कानामिति कर्मणि षष्ठी । समृद्धिम् ; ऐश्वर्यम् । सितासितपद्धतिः; शुद्धाशुद्धमार्गः । अत्र भावशबलता ध्वन्यते । तथा हि-
स्मरतीति निर्वेदः । मनस्कुरुत इति स्पृहा । प्रसजतीति स्मृतिः । समृद्धिमपेक्षत इत्यौत्सुक्यम् । अभिनिविशत इति मोहः । अपत्रपत इति धैर्यमिति ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
कामः— तदिह सौप्तिकावसरः सन्दर्शितः प्रियसखेन ।
तथा हि-
सोऽयमसमग्रयोगे पुरुषे सर्वास्त्रमोक्षसमयो मे । रथवैगुण्यविलक्षे राधेये फल्गुनस्येव ॥ १९ ॥
मूलम् - १९
कामः— तदिह सौप्तिकावसरः सन्दर्शितः प्रियसखेन ।
तथा हि-
सोऽयमसमग्रयोगे पुरुषे सर्वास्त्रमोक्षसमयो मे । रथवैगुण्यविलक्षे राधेये फल्गुनस्येव ॥ १९ ॥
प्रभावली - १९
अयमेव पराक्रमावसर इति निश्चिनोति सनिदर्शनम् — सोऽयमिति । पुरुषे असमप्रयोगे असम्पूर्णसमाधौ सति अयमेव मे सर्वास्त्रमोक्षसमयः । किमिव ? रथस्य वैगुण्यं प्रतिहतिः, तद्विलक्षे लज्जिते राधेये कर्णे असमग्रयोगे छिन्नसन्नहने फल्गुनस्येव अर्जुनस्येव । रथवैगुण्यात् लज्जिते कर्णे असम्पूर्णसन्नहने अर्जुनोऽवकाशं लब्ध्वा सर्वास्त्राणि तस्मिन् मुमोचेति कर्णपर्वण्युक्तम् ॥ १९ ॥
प्रभाविलासः - १९
अथ प्रसादन्याख्यां ध्रुवामाह – सोऽयमिति । तदुक्तम्- " प्रसादनी तु पात्राणां व्याकुलानां प्रसादानात् " इति । राधेये; कर्णे । रथवैगुण्येन; मग्ननेमितया रथप्रातिकूल्येन । विलक्षे;
। विमुखे । विप्रशापेन कर्णस्य पृथिवीप्रातिकूल्यं भारते प्रसिद्धम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
वसन्तः -भवतु नामैवं भगवतः समीची30 समीहितसिद्धिः ।
विरक्तिकपटक्रमाद् वृजिनकोटिभिर्दुर्दमे
परप्रणिधिकर्दमे पतितुमेकतानः पुमान् ।
त्वदस्त्रगणताडनत्रुटितगर्वनिर्वेदवान्31
भवप्रभृतिसेवितं भजतु भोगवर्ग पुनः ॥ २० ॥
मूलम् - २०

प्रभावली - २०
एवं सति समीहितसिद्धिः; कार्यसिद्धिः । वृजिनं पापं तस्य कोटिभिः दुर्दमे शोषयितुमशक्ये । परे ब्रह्मणि यः प्रणिधिः समाधिः, स एव कर्दमः, तस्मिन् । विरक्तेः वञ्चनाना क्रमात्; विरक्तिकृतवञ्चनयेत्यर्थः । पतितुमेकाग्रः पुमान् त्वदस्त्रगणताडनात् त्रुटितगर्वत्वेन निर्वेदवान् सन् भवप्रभृतिभिः ब्रह्मरुद्रादिभिः सेवितं भोगवर्ग पुनर्भजतु । समाधिमारुरुक्षुरपि त्वदस्त्रताडितो गर्व विहाय पुनरपि भोगवर्गमेव भजेदित्यर्थः ॥ २० ॥
प्रभाविलासः - २०
विरक्तीति । परप्रणिधिः ; परब्रह्मोपासनम् । भोगवर्गम्; संसार- मित्यर्थः । अत्र भवप्रभृतीति आरूढयोगस्य विजितकामस्य भवस्यैव पुनः संसारोsवर्जनीय इति व्यज्यते ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
अपि च ;
मलय पवनज्योत्स्ना मल्ली मधुव्रतकूजित -
प्रभृतिविजयस्कन्धावारप्रधानपताकया ।
हसितलपितक्रीडाचित्रैरनुज्झदभिख्यया
युवतिकथया योगी सन्नप्यसङ्गमुपैति कः ॥ २१ ॥
मूलम् - २१
अपि च ;
मलय पवनज्योत्स्ना मल्ली मधुव्रतकूजित -
प्रभृतिविजयस्कन्धावारप्रधानपताकया ।
हसितलपितक्रीडाचित्रैरनुज्झदभिख्यया
युवतिकथया योगी सन्नप्यसङ्गमुपैति कः ॥ २१ ॥
प्रभावली - २१
विरक्तोऽपि युवतिप्रसङ्गात् संसारसङ्कं को वा न प्राप्नोतीत्याह—..
X४१२
मलयेति । मलयपवनः ; मन्दमारुतः । ज्योत्स्ना ; चन्द्रिका । मल्ली ; मल्लिका । मधुव्रतकूजितम् ; भृङ्गगीतम् । एतदादिविजयस्कन्धावारस्य जयशीलस्य सैन्य- स्कन्धावारस्य प्रधानपताकयेव स्थितया । हसितं हासः, लपितं वचनम्, क्रीडाः लीला ; आभिश्चित्रैः आश्चर्यभूतैः हसितादिभिः प्राप्तशोभया युवतिकथया युवतीनां प्रसङ्गेन, युवतिविषयकथया, युवत्या कृतकथया वा, योगी विरक्तोऽपि को वा निःस्पृहत्वम् उपैति न कोपीत्यर्थः ॥ २१ ॥
प्रभाविलासः - २१
मलयेति । हसितलपितक्रीडाचित्रैः ; व्यापारैरिति शेषः । हसित -
लक्षणमुक्तम् -
“वक्त्रनेत्रकपोलैश्च सम्फुल्लैरुपलक्षितः ।
किञ्चिल्लक्षितदन्तैश्च तदा हसितमुच्यते ॥” इति ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
X४११
कामः - सखे, सर्वथा नूनमविचक्षणो विवेकः । यत्सागर- तरणगगनातिलङ्कनमरीचिकाचर्वणमहीतलमज्जनादिवत्32 अशक्यमेव समाधिलाभमाधिव्याधिशालिनः पुरुषस्य बालिश इव साधयितुमीहते ।
अपि च ;
पुरुषमजहद्भोगश्रद्धापुरस्कृतसम्भ्रमं
विषयमदिरास्वादक्षीबं विमोचयितुं स्थितः ।
अमृतमिलितद्राक्षावल्ली फलद्रवसम्पदा-
ममरतरुणीबिब्वोकानामवैति33 न वैभवम् ॥ २२ ॥
मूलम् - २२

प्रभावली - २२
असमर्थत्वे हेतुं दर्शयति-यदिति । सागरतरणं, गगनातिलङ्घनं, मरीचिकाया आस्वादनं महीतलमज्जनम्, आदिशब्देनाकाशारोहादिः । तद्वदशक्य एव समाधिलाभः । समाधिलाभे विघ्नानाह - - आधीत्यादि । आधिः ; मनःपीडा । व्याधिः ; देहपीडा, तद्वतः पुरुषस्य बालिशो मूर्ख इव
X४१३—–
साधयितुमीहते । विवेको मूढ एवेत्याह-अपिचेति । अजहती या भोगश्रद्धा, तया पुरस्कृतः सम्भ्रमो विलासः यस्य तम् । विषया एव मदिरा मद्यं, तस्या आस्वादेन मत्तं पुरुषं विमोचयितुं मोक्षं प्रापयितुमुद्युक्तो विवेकः, अमृत मिश्रः यो द्राक्षावल्ली फलद्रवः रसः, तस्य सम्पदिव सम्पत् येषाम् ; अमरतरुण्यः अप्सरसः तद्विब्वोकानां विलासाना वैभवं नावैति ; न जानातीत्युत्प्रेक्षा । जानाति चेदेव नोद्युङ्क्त इत्यर्थः ॥ २२ ॥
प्रभाविलासः - २२
पुरुषमिति । स्थितः ; विवेक इति शेषः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
दृश्यतां पुनरियमुभयतः पाशा रज्जुः–
विवेकावष्टम्भादुपजनितवैराग्यविभवो
यदि क्रुध्येन्मह्यं भवति न कथं क्रोधविजितः ।
अथ त्यक्तक्रोधो यदि34 कथमपक्रामयतु मां
मुधा कामक्रोधप्रशमनकथा मूढमनसाम् ॥ २३ ॥
मूलम् - २३
दृश्यतां पुनरियमुभयतः पाशा रज्जुः–
विवेकावष्टम्भादुपजनितवैराग्यविभवो
यदि क्रुध्येन्मह्यं भवति न कथं क्रोधविजितः ।
अथ त्यक्तक्रोधो यदि34 कथमपक्रामयतु मां
मुधा कामक्रोधप्रशमनकथा मूढमनसाम् ॥ २३ ॥
प्रभावली - २३
उभयतः पाशत्वमेव दर्शयति - विवेकेति । विवेकबलात् जातवैराग्यातिशयः पुमान् मह्यं यदि क्रुध्येत्, स कथं क्रोधविजितो न भवति । अयं मां प्रति व्यक्तक्रोधो यदि, क्रोधाभावे कथं मामपक्रामयेत्; अन्यतो गमयेत् । कामाभावे क्रोधः, क्रोधाभावे कामस्तिष्ठतीत्युभयतः पाशत्वम् । मूढमनसां कामक्रोधप्रशमनकथा मुधा; व्यर्थैव ॥ २३ ॥
प्रभाविलासः - २३
विवेकेति । क्रोधेन तुल्यन्यायत्वव्यञ्जनार्थं कामपदग्रहणम् । वक्ष्यति च " विजेतुकामः" इत्यादिना ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
(ततः प्रविशति विकृतवेषः क्रोधः)
क्रोधः - (ससम्भ्रममुपसृत्य ) स्वस्ति35 सुहृदे स्वैरसञ्चार- विजितविवेकविभवाय36 कुसुमधन्वने । कः खल्वसौ विवेकवशवर्ती
कामक्रोधप्रशमनकथा वृथाजल्पमुपकल्पयति3738 । (विकटं परिक्रम्य
साट्टहासम् )
अयमहमुद्भटप्रथनचारभटारभटी-
नटपतिरुत्थितः कथमुदेतु विवेककथा ।
यदनुविधायिदैत्यभयसञ्ज्वरितासु मुधा
सुरसुभटीपयोधरतटीषु पटीररसः ॥ २४ ॥
मूलम् - २४

प्रभावली - २४
तत इति ; एवमुभयोः कथयतोरनन्तरम् । विकृतवेषः ; क्रोधाविष्टस्य विकृतवेषत्वात् धर्म्यकारो धर्म उपचर्यते । स्वैरसञ्चारमात्रेण विजितो
1 मयि क.
X४१४
विवेकविभवो येन । विवेकवशवर्तिनं कञ्चिद्भर्त्सयति - कः खल्विति; को वायमित्यर्थः । कामक्रोधयोः प्रशमनकथाया वृथाजल्पः कार्यस्याशक्यत्वात् । उपकल्पति ; करोतीत्यर्थः । विकटम् ; प्रकटं विषमं वा । परितः पादक्षेपं कृत्वा । अट्टहासः ; क्रोधस्य स्वाभाविको धर्मः । स्ववैभवं कथयति — अयमह- मिति । उद्गता भटा यस्मिन् तदुद्भटं यत्प्रथनं युद्धं तत्र चारः चरणं यस्य स चासौ भटश्च तस्यारभटी उग्रं वृत्तं, तस्या नटपतिः नर्तकः अयमहमुत्थितः । एवं मयि क्रोधे सत्युत्थिते विवेकप्रसङ्गः कथमुदेति । क्रुद्धे विवेकप्रसङ्ग एव नास्तीत्यर्थः । यस्यानुविधायिनः अनुवर्तमानाः ये दैत्याः,
X४१५
तेभ्यो भयेन सञ्ज्वरितासु सन्तप्तवतीषु, सुरसुभटानां स्त्रियः सुरसुभट्यः तासां, पयोधरयोः स्तनयोः तटीषु, पटीररसः सञ्ज्वरशान्त्यर्थं प्रयुक्तः मुधा व्यर्थो भवति । पटीररसः चन्दनरसः । तेनापि सञ्ज्वरस्याशान्तत्वात् ॥ २४ ॥
प्रभाविलासः - २४
विकटं परिक्रम्येति । विकटं लास्यविशेषः, “ विरूपवेषावयवव्यापारो विकटं मतम् " इति भरतवचनात् । अयमिति । उद्भटे अतिधोरे प्रथने युद्धे चारः सञ्चारो येषां ते च ते भटाश्च त एवारभटीनटाः उद्धतनटाः तेषां पतिः । सुरसुभटीपयोधरतटीषु यत्क्रोधानुविधायि- दैत्यभयसञ्ज्वरितासु सतीषु पटीररसः मुधा वितथः । भयोदयात् परं विषयेषु पुनरप्रवृत्तेः पटीरलेपेऽपि तापानिवृत्तेरिति भावः । अत्र श्लोके शब्दार्थयोरतिप्रौढतया आरभटी नाम वृत्तिः " वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः " इति लक्षणात् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
कामः — स्वागतं प्रियसुहृदे मत्प्रतिपक्षनियतमन्यवे मन्यवे महारथाय । समागतोऽसि च स्वामिकार्यनिर्वहण समयमनुचिन्त्य मत्साहाय्यकमनोरथेन । वर्तयसे च स्ववशे वशिनोऽपि महेश्वरादीन् ? अहो जितं महाराजेन । किञ्च ;
सुधारम्भे दम्भे मयि च मदने मुक्तकदने39
मितोत्साहे मोहे वृजिनगहने व्याप्तदहने ।
अवज्ञालेशाद्यैरपि खलु भवानिन्धनशतैः
प्रदीप्तः प्रत्यञ्चं प्रणिधिमुपरोद्धुं प्रभवति ॥ २५ ॥
मूलम् - २५

प्रभावली - २५
स्वागतम् ; कुशलम् ; अस्त्विति शेषः । मत्प्रतिपक्षाः कामवैरिणो विवेकादयः ; तत्र नियतमन्यवे । मन्यवे ; क्रोधाय । उचितावसरे प्राप्तस्त्वमित्याह- समागत इति । मत्साहाय्यकम् ; मत्सहायकरणं, तन्मनोरथेन । मम साह्यं कर्तुमागतोऽसीत्यर्थः । वशिनोऽपि महेश्वरादीन् स्ववशे स्थापयसि । कच्चिदिति शेषः । महाराजेन ; महामोहेन । अस्मदीयेभ्यः सर्वेभ्योऽप्यतिशयितवीर्योऽसीत्याह – मुघेति । दम्भः ; मिथ्याचारः, तस्मिन् व्यर्थारम्भे भग्नोत्साहे सति । मदने मयि च त्यक्तयतने निरुद्योगे सति । मोहे राजनि मितोत्साहे मन्दपराक्रमे । वृजिनगहने पापाटव्यां व्याप्तदहने दग्धायामित्यर्थः । एव सर्वेषु प्रतिहतेष्वपि भवान् अवज्ञालेशाद्यैरपि इन्धनशतैः प्रदीप्तः सन् पुरुषस्य प्रत्यञ्चं प्रत्यगात्मविषयं प्रणिधिं समाधिं प्रतिबन्धुं प्रभवति समर्थोऽसि ॥ २५ ॥
प्रभाविलासः - २५
क्रोधाय । " मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमरः । मुधेति ।
कदनम् ; युद्धम् । गहनम् ; वनम् । प्रत्यञ्चं प्रणिधिम् ; प्रत्यगात्मध्यानम् ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
मन्यवे ;
वसन्तः नन्वसौ पवनपावकसमागमः, यदुत कामस्य तव च सङ्गतम् । तदिह किमिति सामग्रीसम्भवे साध्यसम्पत्तावुदास्यते ! अनुसरति खलु उत्साहमभिलषितसिद्धिः40 । एतदेव चेदानीमात्म- सम्भवेन प्रियसुहृदा पुनः पुनरभिहितमभिमतप्रतिलम्भनमनुपश्यामि । यदुत-
रतिपरिवारयोषिदनुपालितरत्नलता-
स्तबकविलोभनीयललितस्तनभारनताः ।
अमरमृगेक्षणाः परिचरन्तु विरक्तिधनं
मदनधनुर्गुणभ्रमरमन्थरतारदृशः ॥ २६ ॥
मूलम् - २६

प्रभावली - २६
'
X४१६
हे क्रोध, कामस्य तव च यत् सङ्गतं समवायोऽस्ति, असौ पवनपावकसमागमः । ननु सामग्रीसम्भवे उभयसम्मेलने सति साध्यस्य सिद्धौ किमिति उदास्यते विलम्ब्यते ? उत्साहवन्तम् उद्योगवन्तम् । एतदेव ; युवतिभिः पुरुषपरिचरणम् । आत्मसम्भवेन कामेन । अभिमतवस्तुनि प्रतिलम्भनं साधनम् । रतीति । रतेः परिवारभूताभिः योषिद्भिः संवर्धिता याः रत्नलताः, तासां स्तबकवत् पुष्पगुच्छवत् लोभनीयौ ललितौ स्तनौ, तयोः भारेण नताः नम्राः । परिवार- योषित्सु याः रत्नलता इति वा अर्थः । अमरमृगेक्षणाः ; अप्सरसः । मदनधनुषो गुणभूता ये भ्रमराः तद्वन्मन्धराः मन्दचलनाः ताराः यासां तादृश्यः दृशो यासा ताः । विरक्तिधनं विरक्तं मुनिं पुरुषं परिचरन्तु ॥ २६ ॥
प्रभाविलासः - २६
रतीति । मृगेक्षणा इति मृगाणामीक्षणे नेत्रे इव विशाले ईक्षणे यासां ता इति उपमेयधर्मेवादीनां लोपे त्रिलोपे समासार्थलुप्तोपमालङ्कारः । उक्तं च काव्यप्रकाशे – “ त्रिलोपे च समासगा " इति । अत्र श्लोके संयुक्ताक्षरत्वेऽपि श्रुतिरम्यत्वेन सुकुमारता नाम गुणः, “संयुक्ताक्षरसत्त्वेऽपि श्राव्यत्वं सुकुमारता " इति लक्षणात् ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
X४१७
कामः - सखे, कालोचितकार्य प्रतिसन्धायकः खलु कालतल्लजो वसन्तः । तदेनमेव विबुधपतिनगरवेशनारीपुरःसरनासीरयोधमहमधिज्यधनुरनुव्रजामि41 । त्वमपि परितः प्रवृत्तदृष्टिः पार्ष्णिमभिरक्षन् सावधानमन्वयेथाः ।
( सर्वे तथा सर्पन्ति42 )
‘वसन्तः - श्रूयतामयमिह महामोहसमरधुरन्धराभ्यां मन्मथप्रतिघाभ्यां मामको व्याहारः43 । अयमेवावसरः संयमारम्भं सौप्तिकेन संस्थापयितुं, यत्र समुत्थितं चतुरुदधिबृंहणं चान्द्रमसं महः । अद्य खलु पुरतः स्फुरन्त्यमी44 मुग्धयुवतिमुखचन्द्रकिङ्करस्य कुमुदिनीपतेरुदयवार्ताहराः कतिचन किरणाङ्कुराः । अमी च-
तिमिमुखपीतमुक्तसितसागरपूरनिभा
रजनिविलासहासललिता हरिणाङ्ककराः ।
शुभघनसार मिश्रहरिचन्दनपङ्करुचः
स्फुटमनुलेपयन्ति पुरुहूतदिशासुदृशम् ॥ २७ ॥
मूलम् - २७

प्रभावली - २७
सखे इति क्रोधसम्बोधनम् । प्रतिसन्धायकः ; स्मारकः । कालतल्लजः ; प्रशस्तः कालः वसन्तः । विबुधपतिनगरं स्वर्गः, तत्र वेशनार्यः वेश्याः अप्सरसः, तत्पुरःसरं नासीरयोधम् ; सेनापुरःसरभटम् । प्रवृत्ता ; प्रसारिता । पार्ष्णिम् ; पश्चाद्भागम् । अन्वयेथाः ; अनुव्रज । प्रतिघः ; कोपः । व्याहारः ; वचनम् । व्याहारः क इत्यत्राह - अयमेवेति । संयमारम्भम् ; योगारम्भम् । सौप्तिकेन विधिना संस्थापयितुं नाशयितुम् । यत्र यस्मिन्नवसरे चतुरुदधिबृंहणं पूरवर्धकं महः
X४१८
अपि च ;
ज्योत्स्ना । मुखचन्द्रस्य किङ्करः, तद्विजितत्वात् । कुमुदिनीपतेः ; चन्द्रस्य । उदयसम्बन्धिवार्तां हरन्तीति वार्ताहराः ; दूताः । किरणाङ्कुराः ; बालकिरणाः । तिमीति । तिमिः ; मत्स्यविशेषः । तेन पीताश्च ते मुक्ताश्च ये सितसागरस्य क्षीरसमुद्रस्य पूराः, तत्सदृशाः । रजन्याख्यनायक्याः विलासहासवत् ललिताः । शुभो यो घनसारः कर्पूरं ; तन्मिश्रं यद्धरिचन्दनं, तस्य पङ्करुचः । अमी हरिणाङ्ककराः ; चन्द्रपादाः । पुरुहूत दिशा सुदृशम् पूर्वदिगङ्गनाम् । अनुलेपयन्ति ; भूषयन्ति । स्फुटमित्युत्प्रेक्षा ॥ २७ ॥
प्रभाविलासः - २७
तिमीति । अत्र हरिणाङ्ककरैः पुरुहूतवल्लभास्पर्शप्रतीतेः रसाभासो व्यज्यते ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
प्रथमस्य कान्तिमद्रेः पश्यतमेतेन भावितां शशिना ।
मदजलकलङ्कभाजा करटिन इव कर्णशङ्खेन45 ॥ २८ ॥
मूलम् - २८
प्रथमस्य कान्तिमद्रेः पश्यतमेतेन भावितां शशिना ।
मदजलकलङ्कभाजा करटिन इव कर्णशङ्खेन45 ॥ २८ ॥
प्रभावली - २८
एतेन शशिना भावितां सञ्जाता प्रथमस्याद्रेः उदयपर्वतस्य कान्तिं पश्यतम् भोः कामक्रोधौ । किमिव ? मदजलमेव कलङ्कः, तद्भाजा कर्णशङ्खेन करटिनः गजस्य कान्तिमिव पश्यतम् ॥ २८ ॥
प्रभाविलासः - २८
प्रथमस्येति । करटिनः; गजस्य । कर्णशङ्खेन; कर्णे बद्धेन कम्बुना ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
क्रोधः - सखे शम्बरासुरसूदन, सूनृतवादी सोऽयं सुरभिः ।
अद्य हि ;
हरेरिह दिगन्तरे हसितदुग्धसिन्धुद्युतिः46 '
श्रियं कुमुदवासिनीं प्रजनयत्यसौ चन्द्रिका47 ।
मनागिव विवर्तितं मधुरतारकोन्मीलिते48
निशामय निशामुखे तिमिरकन्दलं कुन्तलम् ॥ २९ ॥
मूलम् - २९

प्रभावली - २९
सुरभिः; वसन्तः । चन्द्रिकां वर्णयति - हरेरिति । हरेः इन्द्रस्य
X४१९
दिगन्तरे पूर्वस्यां दिशि हसितस्य उद्वेलितस्य दुग्धसिन्धोः द्युतिरिव द्युतिः यस्याः असौ चन्द्रिका कुमुदवासिनीं श्रियं शोभां प्रजनयति । किच मधुरं तारकाणां नक्षत्राणाम् उन्मीलितं यस्मिन् । स्त्रीमुखपक्षे मधुरतारकस्य नयनस्योन्मीलितं यस्मिन् । निशामुखे ; प्रदोषे, निशाया मुखमग्रभागः । कुन्तलवत् ‘स्थितं तिमिरकन्दलम् । स्त्रीमुखपक्षे तिमिरकन्दलवत् स्थितं कुन्तलम् । कन्दलमङ्कुरः तत्समूहो वा । कुन्तलं केशभारः । मनाक् ईषत् विवर्तितमिव स्थितं पश्य ; विवर्तितमुपरिभागे अपसारितमिव पश्य ॥ २९ ॥
प्रभाविलासः - २९
हरेरिति । हरे; इन्द्रस्य । तारकोन्मीलितम् ;
नक्षत्रोदयः, नेत्रोन्मीलनं च । कन्दलम् ; निबिडम् ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
कामः - सम्भावनीयः खल्वसौ बहुलतरतमः49 पटलपाटनपटीयस्तरकिरणः समाक्रान्तपशुपति जटामण्डलः सखा मे तारकेश्वरः ।
अयं च ;
कुर्वन्कामपि कौमुदीं कुमुदिनी सम्मोददानव्रती
सान्द्रातङ्करथाङ्गनामतरुणीसन्तापचिन्तामणिः ।
शृङ्गारागमदेशिकत्रिजगतामानन्दनाडिन्धमो
रुन्द्धे सर्वदिशानिरन्तरतमस्तन्द्रालुतां50 चन्द्रमाः ॥ ३० ॥
मूलम् - ३०

प्रभावली - ३०
सम्भावनीयः ; पूज्यः । तत्र हेतुद्वयं दर्शयति — बहुलेति । पाटनम् ; निरासः । अधिकं पटीयासः पटीयस्तराः । पशुपतिना शिरसा धार्यमाणा इत्यर्थः । कुर्वन्निति । कुर्वन् ; विस्तारयन् । कामपि वक्तुमशक्यसौभाग्याम् । कौमुदीम् ; चन्द्रिकाम् । कुमुदिन्याः ; कुमुदसरस्याः । सम्मोदः ; सन्तोषः । सान्द्रातङ्कानां बहुलवियोगतापानां रथाङ्गनामतरुणीनां चक्रवाकाङ्गनानां सन्तापस्य चिन्तामणिः बहुप्रदानशीलः । शृङ्गारागमस्य विलासवेदस्य देशिकः उपदेष्टा । आनन्दनाडिं धमतीति सः ; आनन्दनाडीवेधकः, आनन्दोत्पादयिते- त्यर्थः । सर्वासां दिशां तमसा तन्द्रालुताम् आलस्यं जाड्यं रुन्द्धे अपनयति ॥ ३० ॥
प्रभाविलासः - ३०
कुर्वन्निति ; सन्तापचिन्तामणिः; सन्तापप्रद इत्यर्थः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
अपि च ;
पदे विष्णोरेषा प्रभवमधिगम्य’51 प्रसृमरा
स्फुरत्ताराफेनस्तबकपरिपाटीपरिगता ।
क्षरन्ती पूर्वाद्रेरमरतटिनीसम्प्लवसखी
तमिस्राकालिन्दी शबलयति चन्द्रांशुपटली ॥ ३१ ॥
मूलम् - ३१
अपि च ;
पदे विष्णोरेषा प्रभवमधिगम्य’51 प्रसृमरा
स्फुरत्ताराफेनस्तबकपरिपाटीपरिगता ।
क्षरन्ती पूर्वाद्रेरमरतटिनीसम्प्लवसखी
तमिस्राकालिन्दी शबलयति चन्द्रांशुपटली ॥ ३१ ॥
प्रभावली - ३१
"
X४२०
चन्द्रिकां गङ्गासमाधिना निरूपयति - पद इति । एषा चन्द्रांशुपटली विष्णोः पदे आकाशे ; अन्यत्र श्रीशपादारविन्दे प्रभवम् उत्पत्ति प्राप्य प्रसृमरा प्रसरणशीला । तारा एव फेनस्तबकाः; अन्यत्र तारा इव स्थिताः फेनस्तबकाः, तेषां परिपाट्या आनुपूर्व्येण परिगता । पूर्वाद्रेः उदय- पर्वतात्; अन्यत्र हिमवतः । अमरतटिन्याः गङ्गायाः सम्प्लवस्य प्रवाहस्य सखी सदृशी । तमिस्राकालिन्दीम् ; तिमिरजालरूपा यमुनाम् । शबलयति ; नाना वर्णयति
॥ ३१ ॥
प्रभाविलासः - ३१
पदे विष्णोरिति । विष्णोः पदे ; आकाशे, हरिचरणे च । प्रसृमरा; व्याप्ता । स्फुरन्त्यः तारा एव फेनस्तबकाः, तेषां परिपार्टी परिगता प्राप्ता । अमरतटिन्याः गङ्गायाः सम्प्लवस्य सखी सदृशी । अत्र पूर्वाद्रेः क्षरतीति प्रसिद्धगङ्गाव्यतिरेकात् व्यतिरेकालङ्कारो व्यज्यते ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
सखे क्रोध, पश्य मे सहायसम्पत्तिम् -
ताराकान्तः प्रियसुहृदयं52 चन्द्रिकेयं वयस्या
बाणारम्भाद्बहुमतिपदं बान्धवो मे वसन्तः ।
त्वं च त्राता विपदुपगमे क्रोध दुर्वारवेगः
को वा मह्यं कुसुमधनुषे तिष्ठते जीवितार्थी ॥ ३२ ॥
मूलम् - ३२

प्रभावली - ३२
आत्मानं वर्णयति — तारेति । चन्द्रोऽयं प्रियसखः । बाणानां पुष्पाणाम्
X४२१
आरम्भात् हेतोः बहुमानविषयो वसन्तः मे बान्धवः आपद्बन्धुः । भोः क्रोध, दुर्वारवेगः त्वं चापत्काले मम त्राता । एवं सहायसम्पन्नाय मह्यं जीवितार्थी सन् को वा तिष्ठते; आत्मानं प्रकाशयति । " प्रकाशनस्थेयाख्ययोश्च " इत्यात्मनेपदम् ॥ ३२ ॥
प्रभाविलासः - ३२
ताराकान्त ’ इत्यारभ्य ’ भयस्थान ’ इत्यन्तं स्पष्टम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
क्रोधः - सखे, अनुकूलो हि विधिः किं नाम नानुकूलयति ?
अपि च ;
विजेतुकामः53 कामं त्वां निष्काम इति का कथा ।
त्वन्निवर्तननिष्कामः सकामस्त्वय्यनुज्झिते ॥ ३३ ॥
मूलम् - ३३
क्रोधः - सखे, अनुकूलो हि विधिः किं नाम नानुकूलयति ?
अपि च ;
विजेतुकामः53 कामं त्वां निष्काम इति का कथा ।
त्वन्निवर्तननिष्कामः सकामस्त्वय्यनुज्झिते ॥ ३३ ॥
प्रभावली - ३३
विजेत्विति । कामं त्वां विजेतुं कामो यस्य सः निष्काम इति कः प्रसङ्गः । स्वनिवर्तने निष्कामश्चेत् त्वयि अनुज्झिते तवानुज्झनात् सकाम एव ॥ ३३ ॥
प्रभाविलासः - ३३
(३२-तमं दृश्यताम्।) ॥३३॥
विश्वास-प्रस्तुतिः - ३४
कामः - अलमनेन विलम्बहेतुना व्याक्षेपेण । उपक्रान्तसमाधिरस्माभिरुपसर्पणीयः पुरुषः ।
( सर्वे तथा कुर्वन्ति )
वसन्तः — पश्यतमेनं परमपुरुषचरणयुगलनिगलिताशयं परिहृतबहिर्विषयरागं प्रतिपन्नकारिणा विवेकेन चोदितं54 प्रकान्तयोगं पुरुषम् । अयं हि,
भयस्थानग्रन्थान्परिपठति निद्राति च मुहुः
स्वमात्मानं पश्यत्युपचरति देहं च विधिना ।
निवृत्ति दुःखाब्धेरभिलषति रज्यत्यपि सुखे
द्विधा नृत्त्या दुःख्यन्पुरुष इह डोलायित इव ॥ ३४ ॥
मूलम् - ३४

प्रभावली - ३४
व्याक्षेपः ;कालक्षेपः । उपक्रान्तसमाधिः पुरुषः । तथा; उपसर्पणेन ।
X४२२
प्रक्रान्तयोगं पुरुषं वर्णयति — पश्यतमिति । युगले निगलवत् बद्धाशयम् । प्रतिपन्नम् ; युक्तम् । पुनरपि सौप्तिकसमयं सूचयति भयस्थानेति ; आध्यात्मिकादितापत्रयविषयान् । निर्भयः सन् निद्राति च । स्वमात्मानं देहातिरिक्तं पश्यति । देहं च विधिना संस्कारेण उपचरति ; आत्मबुद्धयेति शेषः । दुःखसागरात् निवर्तनमपेक्षते । सुखे ; सांसारिके । रज्यत्यपि च ; सक्तो भवति । एवं द्विधा प्रवृत्त्या पुनः पुनः दुःख्यन् डोलावदाचरतीव ॥ ३४ ॥
प्रभाविलासः - ३४
॥ ३३ ॥
ग्रन्थान् ; " कालेष्वपि च सर्वेषु ” इत्यादिकान् ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
कामः - सखे क्रोध, अद्य खलु सङ्क्षोभणीयदशामनतिक्रान्त इति समर्थितं वसन्तेन । दूरावधूतवाह्यान्तरवैरिभिरपि दुर्जया अस्मत्सहायिनी अनादिसन्ततिसिद्धविचित्र प्ररोहा वैषयिकी वासना । तथा हि–55
भवत्वतिपतिष्यतो भवपयोधिमेकान्ततो
रतिः56 सह मुमुक्षया ललितभाषितं योगिभिः ।
तदप्यवसरे कचित्सपदि पाष्णिमालम्बते
ममत्वशतवासनारचितवारवाणं मनः ॥ ३५ ॥
मूलम् - ३५

प्रभावली - ३५
सङ्क्षोभणीयदशाम् ; सौप्तिकदशाम् । एतदुपपादयन् वासनाया दुर्जयत्वमाह - अनादीति । अनादि सन्ततिसिद्धाः अनादिपरम्परया सिद्धाः विचित्राङ्कुराः यस्याः सा । विषयसम्बन्धिनी वासना, दूरमवधूताः बाह्या लौकिकाः चार्वाकादयश्व, आन्तराः कामक्रोधादयो वैरिणो यैस्तैरपि, योगिभिरपीत्यर्थः ; दुर्जया भवति । भवत्विति । भवपयोधिम् अतिपतिष्यतः, मुमुक्षोरित्यर्थः । मुमुक्षया
X४२३
सह एकान्ते रतिः भवतु । योगिभिः सह ललितभाषितं संलापश्च भवतु । तदपि ; तथापि कचिदवसरे । ममत्वेत्यादि । ममकारशतस्य या वासना तया रचितवारवाणमित्यर्थः । वारवाणं कञ्चुकम् । मनः सपदि पाणि पश्चाद्भागं पूर्वावस्थामित्यर्थः । आलम्बते ; अनुसरति ॥ ३५ ॥
प्रभाविलासः - ३५
भवत्विति । भवपयोधिमेकान्ततः अतिपतिष्यतः; अत्यन्तमति- क्रमिष्यतः । मुमुक्षया सह वर्तमानस्य पुंसः योगिभिः सह रहः एकान्ते ललितभाषणं भवतु सर्वदा तत्संसर्गो भवत्वित्यर्थः । वारवाणम् ; वर्म ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
वसन्तः —57 इदमप्यपरमवधारणीयमरातिजनभयङ्कराम्यां भवद्भ्यां सर्वसङ्गनिवृत्तस्यापि सम्मानागतिः58 समाधिपरिपन्थिनी । अत एव59 खलु अनुचिन्तितहिरण्यगर्भवचसः संवर्त भरतविदुरादयो दुरितोच्छेदकारणं60 जनावमानमिच्छन्त उन्मत्तचर्यामभ्यनैषुः । तदिदानीं यावदयमवमानापेक्षामाददीत, ततः पूर्वमेव सम्मानभङ्गादिकं द्वारीकृत्य प्रसभं क्षेत्रज्ञे प्रवेष्टव्यं क्रोधेन । अथवा ;
शृणोति कथयत्यसौ परिचिनोति सम्पृच्छते
समर्चयति गायति स्पृशति पश्यति स्तौति च ।
इतीव नियतादरो मुरभिदङ्घ्रिसेवारसे
न भेत्तुमिह शक्यते स्थिर विवेकदुर्गस्थितः61 ’ ॥ ३६ ॥
मूलम् - ३६

प्रभावली - ३६
सम्मानागतिः ; सत्कारप्राप्तिः । समाधिपरिपन्थिनी ; समाधिविरोधिनी । हिरण्यगर्भवचनम्
" सम्मानना परां हानिं योगर्धेः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ "
X४२४
अपि च ;
इति । संवर्तः मरुत्तयाजकः । विदुरः प्रसिद्धः । भरतः जडभरतः । आदिशब्देन ऋषभादयः सङ्गृहीताः । दुरितस्य ; संसारदुःखस्य । उन्मत्तचर्याम् अभ्यनैषुः ; अनुकृतवन्तः । अवमानापेक्षां स्वीकुर्यात् । सम्मानभङ्गादिकम् ; सत्कारविच्छेदादि । आदिशब्देनावमानप्राप्ति हेतुं कृत्वा प्रसभं बलात्कृत्य क्षेत्रज्ञे पुरुषे क्रोधेन प्रवेष्टव्यं तावत् । इदानीमपि प्रवेष्टुमशक्य इति पक्षमालम्बते- अथवेति । प्रवेष्टुमशक्यत्वे हेतुं दर्शयति - शृणोतीति । शृणोति, कथयति ; स्वयं चान्येभ्य उपदिशति । असौ; योगी । परिचिनोति ; तद्विषयं शास्त्रम् । सम्पृच्छते ; तत्र सन्देहान् आचार्यान् । समर्चयति ; भगवन्तम् । तन्नाम गायति । स्पृशति ; तदुपभुक्ततुलस्यादि । पश्यति ; तन्मूर्तिम् । इवशब्दो वाक्यालङ्कारे । इत्येवं मधुभिदः अन्तरिन्द्रियनिग्राहकस्य, चरणारविन्दे सेवा दास्यं, सैव रसः, तत्र नियतादरो भवति । स्थिरो यो विवेकः, स एव दुर्गे, तत्र स्थितश्च विरक्ति- विष्णुभक्तिभ्यां परिगृहीतत्वात् इहापि भेत्तुं न शक्यते ॥ ३६ ॥
प्रभाविलासः - ३६
हिरण्यगर्भवचनम् -
" सम्मानना परां हानिं योगर्धेः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ "
इति । शृणोतीति । भगवद्गुणान् वक्तरि सति शृणोति । श्रोतरि सति
कथयति । उभयराहित्ये परिचिनोति ; स्मरतीत्यर्थः । अतिरहस्यार्थमाचार्यान् प्रणिपातादिपूर्वकं पृच्छति । विग्रहादिकं पूजयति, स्पृशति, पश्यति । भगवद्गुणान् गायति सुस्वरं कीर्तयति । पुरुषसूक्तादिना स्तौति च । अनेन मार्गों नाम गर्भसन्धेर्द्वितीयमङ्गमुक्तम्, “ तत्त्वार्थकीर्तनं मार्गः” इति लक्षणात् ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
वितथपरिग्रहत्यजननिर्वृतबुद्धिरसौ
तदितरसङ्ग्रहेऽपि विधिनैव परं नियतः ।
उपनतमप्यधर्म्यमुपभोगमपोह्य भज-
त्यजगरवृत्तिमात्रमवधीरितभूतहतिः ॥ ३७ ॥
मूलम् - ३७
वितथपरिग्रहत्यजननिर्वृतबुद्धिरसौ
तदितरसङ्ग्रहेऽपि विधिनैव परं नियतः ।
उपनतमप्यधर्म्यमुपभोगमपोह्य भज-
त्यजगरवृत्तिमात्रमवधीरितभूतहतिः ॥ ३७ ॥
प्रभावली - ३७
इतो विशेषान्तरमप्यस्तीत्याह - वितथेति । व्यर्थपरिग्रहत्य जनेन सुखित-
X४२५
बुद्धिरयं योगी तदितरसङ्ग्रहेऽपि सप्रयोजनपरिग्रहसङ्ग्रहणेऽपि ; परिग्रहशब्देन परिग्राह्यपदार्थ उच्यते । अवधीरितभूतहतिः परित्यक्तभूतहिंसो भूत्वा अजगरवृत्तिमात्रं भजति । अजगरो नाम कश्चित् पुरुषः । स तु अजगरस्य वृत्तिमनुष्ठितवान् । अजगरः शयुः । स तूष्णीं कुत्रचिच्छेते । यदा देवादाहारः
X४२६
स्वयमुपगच्छति तत्परिगृह्णाति । यदा नोपयाति तदा तूष्णीमुपवसति । इयमज- गरवृत्तिः । तन्मात्रमेव भजति । आहारार्थ स्वयमुद्योगं न करोतीत्यर्थः ॥ ३७ ॥
प्रभाविलासः - ३७
वितथेति । विद्यानिष्पत्त्युपयोगिदेहयात्रातोऽधिकं वितथपरिग्रहः ; तस्य त्यजनेन निर्वृता सुखिता बुद्धिर्यस्य सः । अनेन,
“समृद्धकामो हीनो वा नारायणपरो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥
इति स्मारितम् । तदितरसङ्ग्रहेऽपि ; अवितथपरिग्रहेऽपि । विधिनैव नियत इति ;
"
“यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः ।
शेषवृत्तिविधानेऽपि स किं सुप्तोऽथवा मृतः॥
इति स्मारितम् । उपनतमिति ; अनेन
" ग्रासं सुमृष्टं विरजं महान्तं स्तोकमेव वा ।
यदृच्छयैवापतितं ग्रसेदाजगरक्रियः ॥ "
इति स्मारितम् । धर्म्यमिति । उपनतेऽपि पतिताद्युपनत निषेधः । आह च शाण्डिल्यः-
" महापातकिनश्चोरादम्बष्ठाद्भिषजस्तथा ।
मृगयोः पिशुनाच्चैव नादद्यादुद्यतं त्विति ॥
कुलटाषण्डपतितवैरिभ्यः काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन ॥
इति । अनिषिद्धोपनतेऽपि सङ्ग्रह निषेध उपभोगपदेन दर्शितः,
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥
इति स्मरणात् । अजगरवृत्तिमात्रमिति ; अनिषिद्धोपनतालाभे उपवास एवेति शास्त्रार्थो दर्शितः,
" शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।
यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥”
इति स्मरणात् । अवधीरितभूतहतिरिति ; अजगरवैलक्षण्योक्तिः । तेन,
" स्तोकं स्तोकं ग्रसन् ग्रासं देहो वर्तेत यावता । भूतान्यहिंसन्नातिष्ठेद् वृत्तिं माधुकरीं स्थितः ॥”
इति स्मृत्यर्थोऽभिप्रेतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
कामः - (सविलक्षस्मितम् ) सखे, नूनमप्रगल्भ इव सङ्ग्रामसमये साध्वसमवलम्बसे । कालोपपन्नं तु कार्यं न प्रतिसन्धत्से ।
ऋतुश्रेष्ठस्त्वं नः सुहृदमितभोगार्हविभवः
स्वयं कामः सोऽहं सुरनरतिरश्चः स्ववशयन् ।
अयं क्रोधः ‘क्रूरप्रकृतिरसहन्नस्मदहितं
त्रिभिः कार्यं द्रौणिप्रभृतिविहितं सौप्तिकमिह ॥ ३८ ॥
मूलम् - ३८

प्रभावली - ३८
विलक्षा; लज्जा । अप्रगल्भः ; जडः । सङ्ग्रामसमये; सौप्तिकोद्योग- समये । साध्वसम् ; भीतिम् । कालोचितं तु कार्य न जानासि । भो वसन्त मया क्रोधेन त्वया च अस्माभिरवश्यं सौप्तिकं कार्यमेवेत्याह-ऋतु-
कूरः प्रसभम —च.
X४२७
श्रेष्ठ इति । अपरिमितो यो भोगः, तदहों विभवः ऐश्वर्य यस्य ऋतुश्रेष्ठः त्वं नोऽ- स्माकं सखा । सोऽहं च स्वयं कामः ; न भृत्यमात्रं, महामोहसैनिकप्रधान इति भावः । स्वयं च कीदृश इत्यत्राह — सुरनरेति । सुरान् नरान् तिरश्चश्च स्वक्शे स्थापयन्; सकलजगद्विजयीत्यर्थः । क्रूरस्वभावः अस्मदहितं शत्रुपक्षम- सहमानः अयं क्रोधश्व । एवं त्रिभिरुक्तैः अस्माभिः द्रौणिप्रभृतिभिः कृतं सौप्तिकमिह कार्यम् ॥ ३८ ॥
प्रभाविलासः - ३८
ऋतुश्रेष्ठ इति । द्रौणिः; अश्वत्थामा । प्रभृतिशब्देन कृतवर्मकृपौ विवक्षितौ ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
वसन्तः सखे, प्रतिसंहितकार्य एवाहमस्मि62 । अवस्कन्दसमयमतिक्रामति पुरुषे कथमस्माभिरमोघवृत्तिभिर्भवितव्यमिति तु63 विमृशामि64 । पाटच्चरलुण्टितेषु भवनेषु65 जाग्रतोऽपि यामिकाः किमुपकरिष्यन्ति ? अयं हि,
प्रचेतुमनघां वृत्तिमपचेतुमपक्रियाम् ।
भजते विश्वकर्तारं भिषज्यन्तमिवातुरः ॥ ३९ ॥
मूलम् - ३९

प्रभावली - ३९
प्रतिसंहितकार्य एवाहमस्मि ; कार्यं प्रतिसन्दधे इति भावः । किं तु अवस्कन्दः ; सौप्तिकम् । अमोघवृत्तिभिः ; सफलव्यापारैः । विमृशामि ; विचारयामि । पाटच्चराः; तस्कराः । लुण्टितेषु ; अपहृतस्वेषु । यामिकाः ; गृहरक्षकाः किमुपकरिष्यन्तीत्यर्थः । पुरुषस्य सौप्तिकाशक्यत्वे प्रधानहेतुमाह- प्रचेतुमिति । अयं योगी, अनघा वृत्ति निवृत्तिधर्मे प्रचेतुं वर्धयितुं सम्पा- दयितुम्, अपक्रियां निषिद्धकाम्यक्रियाम् अपचेतुं क्षपयितुं विश्वकर्तारं भगवन्त- मेव भजते ; " निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम्” इति प्रार्थयते । किमिव ! आतुरः व्याधितः भिषज्यन्तं चिकित्सकमिव ॥ ३९ ॥
प्रभाविलासः - ३९
अवस्कन्दः ; पीडा । पाटच्चराः; चौराः । यामिकाः; यामरक्षकाः । प्रचेतुमिति । प्रचेतुम् ; वर्धयितुम् । अपचेतुम् ; नाशयितुम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
क्रोधः – (ससंरम्भम् ) श्रोतव्यमेतत् सुरभिणा सुहृदा च कामेन मामकं मनीषितनिष्पादनकौशलम् । यदुत -
जमदग्निमुखान् परित्यजन् परिगृह्णन् दशकन्धरादिकान् ।
विनिपातितवानुपायतः पुरुषानद्भुतपौरुषानहम् ॥ ४० ॥
मूलम् - ४०
क्रोधः – (ससंरम्भम् ) श्रोतव्यमेतत् सुरभिणा सुहृदा च कामेन मामकं मनीषितनिष्पादनकौशलम् । यदुत -
जमदग्निमुखान् परित्यजन् परिगृह्णन् दशकन्धरादिकान् ।
विनिपातितवानुपायतः पुरुषानद्भुतपौरुषानहम् ॥ ४० ॥
प्रभावली - ४०
X४२८
संरम्भः; क्रोधः । मनीषितस्य इष्टार्थस्य सम्पादने कौशलं सामर्थ्यम् । जमदग्निमुखान् परित्यजन उपायतः विनिपातितवान् । जमदग्निः स्वाश्रमे तपसि स्थितः । तं राजा आगत्य स्वमनीषितं पृष्टवान् । मुनौ तूष्णीं भूते कण्ठे मृतं सर्पमर्पयामास । तदापि क्रोधे कर्तव्ये तूष्णीं स्थितवान् । तदास्य मुनेः शिरश्चिच्छेदेति कथा । जमदग्निं परित्यजन् स्वयमप्रविश्यैव उपायतो घातितवानस्मि । मुखशब्देन दण्डकारण्ये मुनयश्च । दशकन्धरो रावणः ; तदादीन् परिगृह्णन् प्रविश्य विनिपातितवान् । अद्भुत पौरुषान्; आश्चर्यशक्तीन् ॥ ४० ॥
प्रभाविलासः - ४०
जमदग्नीति । अक्रुध्यन् जमदग्निः क्षत्रियैर्हतः । शक्तिश्च रक्षसा भक्षित इत्यादयो मुखशब्दार्थः ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
वसन्तः सखे प्रख्यातमेव66 भवतश्चातुर्यम् ; तथाप्यत्यन्तवीतरागे क इव तवावकाशः ?
क्रोधः - ( हाहाकारमाम्रेडयन् ) अस्त्येव सम्मतोऽत्राप्यव-
काशः । यथा -
पुंसस्त्यक्तपरिग्रहस्य विषयग्राहोज्झितस्याप्यहं
कन्याविष्टरकुण्डिकादिहरणप्रच्छादनाद्याश्रयः67 ।
अन्तः क्षोभमलीकजल्पमसदारोपस्पृहां पैशुनं
सम्मोहादि च सम्मुखय्य सहसा दास्ये समाधिक्षयम् ॥ ४१ ॥
मूलम् - ४१

प्रभावली - ४१
X४२९
इदं भवतः चातुर्यम्, इत्थं प्रख्यातं यद्यपि । हाहेति बहुश उच्चारयन् । सम्मतः ; इष्टः । परिग्रहः ; गृहक्षेत्रादिः । विषयनक्रोज्झितस्यापि, विष्टरः पीठम्, कुण्डिका कमण्डलुः, इत्यादीनां हरणम् अपहरणम्, प्रच्छादनं विनोदनार्थमन्यत्र निक्षेपः । आदिशब्देन तद्भङ्गादि गृह्यते । एतत् आश्रयः अवलम्बनं यस्य । अन्तःक्षोभः ; मनः क्षोभः । अलीकजल्पः ; अप्रियजल्पः । असतोऽपवादस्यारोपः, तत्र स्पृहा । सम्मोहः अज्ञानम् । आदिशब्दात्तर्जनभर्त्सनादि । सम्मुखय्य ; सङ्घटय्य समाधेः योगस्य क्षयं दास्यामि ॥ ४१ ॥
प्रभाविलासः - ४१
पुंस इति । परिग्रहः; कलत्रपुत्रादिः । हरणम् चौर्यम् ।
प्रच्छादनम् ;अन्यत्र गोपनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
68 किं च महेश्वरप्रमुखमहापुरुष हृदय विक्षोभकस्य मम69 समाहित70 हृदय संरम्भविघटने किमत्राश्चर्यम् ? यतः ;
बिभर्तु विबुधेश्वरं क्षिपतु दानवानीकिनीं
भिनत्तु71 कुलपर्वतान् वनशतानि मुद्रातु वा ।
अयत्न विधृतक्षितिस्तबकशेखरालङ्कृतः
किमद्भुतपदं भवत्ययममीभिरैरावणः ॥ ४२ ॥
मूलम् - ४२

प्रभावली - ४२
विक्षोभकस्य ; ममेति शेषः । समाहितहृदयस्य संरम्भः सम्भ्रमः योगो- योगः, तस्य विघटने । अयत्नेन विधृतो यः क्षितिस्तबकः, स एव शेखरः शिरोमाला, तया अलङ्कृतः ऐरावणः विबुधेश्वरम् इन्द्रं वहतु । दानवसेनां क्षिपतु । कुलगिरीन् भिनत्तु । वनशतानि मृद्रातु । अमीभिः व्यापारैः इन्द्रवहनादिभिः किमद्भुतपदम् ? किमाश्चर्यविषयो भवति ? नेत्यर्थः । भूभारं धारयतस्तस्य इन्द्रवहनादिकं कियदिति भावः ॥ ४२ ॥
प्रभाविलासः - ४२
बिभर्त्विति । अयत्नेन विधृता क्षितिरेव स्तबकः, स एव शेखरः शिरोभूषणं, तेनालङ्कृतः । भूधरभूरुहादिमत्तया पृथिव्याः स्तबकसाम्यम् । अमीभिः ; विबुधेश्वरभरणादिभिः । ऐरावणः दिग्गजः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
कामः - सखे पुष्पाकर, क्रोधोदीरितमप्यवितथमिदमव-72
धारणीयम्73 ।
निद्रामुग्धिनिमीलितेष्वसुलभं निर्धूतनिम्नोन्नतं
निद्राणाखिलवर्णभेदनियमं विष्वक्प्रवृत्तोदयम् ।
कः क्रोधोद्भवमुत्सहेत तरितुं कल्पान्तकादम्बिनी-
कालोद्वेलकलिन्दशैलतनयाकल्लोलकालं तमः ॥ ४३ ॥
मूलम् - ४३

प्रभावली - ४३
X४३०
क्रोधेनोदीरितमपीदमवितथं सत्यमित्यवधारणीयम् । क्रोधेनोदीरितं वचनं लोके असत्यं भवति ; इदं तु न तथेत्यर्थः । क्रोधः सर्वथा दुर्जय इत्याह- निद्रेति । मुग्धिः ; मूर्च्छा । निमीलितम् ; मरणम् । तत्राप्यलभ्यम् । अतः तमसो विलक्षणम् । निर्धूतनिम्नोन्नतम् ; अननुसंहितक्षुद्रमहद्भेदमित्यर्थः । निद्राणः निद्रितः अविभावितः ब्राह्मणादिवर्णभेदः, यत्र; अन्यत्र श्वेतनीलादिवर्णभेदः । सर्वत्र प्रवृत्त उदयो यस्य । कल्पान्तकादम्बिनी; प्रलयमेघमाला, तद्वच्च । काले वर्षाकाले उद्वेला या कलिन्दशैलतनया कालिन्दी, तस्याः कल्लोलवत् कालं श्यामलं क्रोधोद्भवं तमः अज्ञानान्धकारं तरितुं तर्तुं को वा उत्सहेत समर्थः स्यात् ; न कोऽपीत्यर्थः ॥ ४३ ॥
प्रभाविलासः - ४३
,
निद्रेति । मुग्धिः मूर्छा । निमीलितम् ; तदनन्तरावस्था । असुलभमिति ; तास्वपि नैवंविधमित्युक्तं भवति । निर्धूतनिम्नोन्नतम्, तिरस्कृतपुरुषतारतम्यम् । अन्यत्राप्रकाशितोन्नतावनतप्रदेशम् । निद्राणाखिलवर्णभेदनियमम्; क्रुद्धस्य ब्रह्महत्यादौ प्रवृत्तेरिति भावः । अन्यत्रा- प्रकाशितनीलपीतादिविभागम् । विष्वक्प्रवृत्तोदयम् एकं शत्रुं निमित्तीकृत्योत्पन्नमपि प्रमुषितलक्ष्य विशेषतया सर्वविषयकमित्यर्थः । अन्यत्र सर्व- दिग्व्यापकमित्यर्थः । कल्पान्तकादम्बिन्याः काले वृष्टिकाले उद्वेलायाः कलिन्दशैलतनयायाः यमुनायाः कल्लोलवत् कालं नीलम् । अनेनातिगाढत्वं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
अपि च, वाल्मीकिप्रभृतिभिर्महर्षिभिरप्युद्घोषितं मामक-
मपि74 महिमानं मावमंस्थाः । अहह 75 ;
विराधकरिकेसरी विशिखवह्निदग्धार्णवः
प्रभूतखरदूषणप्रभृतिनैर्ऋतव्यूहजित् ।
विलूनदशकन्धरो मृदितकुम्भकर्णस्तदा
मदस्त्रजनिते स्थितः क्वचन लाघवे राघवः ॥ ४४ ॥
मूलम् - ४४

प्रभावली - ४४
X४३१
•
वाल्मीकिप्रभृतिभिः ; प्राचेतसादिभि । उद्घोषितम् ; श्रीरामायणमहाभारतादौ प्रख्यापितम् । विराधेति । विराधगजस्य सिहः, तस्य क्रोधसम्भृतत्वात् । बाण एव वहिः, तेन दग्धसमुद्रः । प्रभूतः यः खरादिराक्षसव्यूहः, तज्जित् । विलूनो रावणो येन सः । मृदितः मर्दितः कुम्भकर्णः येन । एतेषां कामकार्यत्वादेवमुक्तिः । तदा तस्मिन् समये राघव रामः, मदनजनिते क्वचित् लाघवे लघुत्वे स्थितः ; विलापादितुच्छव्यापारे स्थितोऽभूत् ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
वसन्तः– काम, साधु कृतं भवता ।
कामः – वयस्य, आत्मानं बहु मन्येथाः । त्वदायत्तवृत्तिना
खलु मया सर्वमेतदाचरितम् ।
वसन्तः - हन्त मकरध्वज,77 महावीराणामपि भवति वैक्लव्यं भवत्प्रभावेन यदुन्मत्तदशामप्यधिगच्छन्ति । अथवा ;
रागोपलिप्तदृष्टिः प्रलपति मुह्यति विघूर्णति स्खलति ।
युवतिमदिरामदान्धो युक्तायुक्तं न जानाति ॥ ४५ ॥
मूलम् - ४५

प्रभावली - ४५
आत्मानम् ; स्वमपीत्यर्थः । त्वदायत्तवृत्तिना; वृत्तिः व्यापारः । सर्वमेतत्; विराधसंहारादि । महावीराणाम् ; रघुनाथादीनामपि । वैक्लव्यम् ;
X४३२
दन्यम् । रागेति । रागेणोपलिप्तदृष्टिः कश्चित् बहु असम्बद्धं प्रलपति । मुह्यति ; मोहं गच्छति । विघूर्णतिः परिभ्रमति । स्खलति ; मार्गात् । युवतिरेव मदिरा । राघवस्य वियोगाभिनयेऽप्येतत्सर्वं द्रष्टव्यम् ॥ ४५ ॥
प्रभाविलासः - ४५
रागेति । रागोऽभिलाष एव रागो रक्तिमा । युवतिरेव
मदिरा ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
( विचिन्त्य) यद्यपि दुर्जयौ युवां कामक्रोधौ, तथापि किञ्चिन्मे मनसि विपरिवर्तते — सहायभूयस्त्वं सर्वेष्वपि कार्येष्वयत्नसिद्धिकारणम् । (पदशब्दं सूचयन् )
धर्मध्वंसधुरन्धरः शमदमप्रारम्भसर्वङ्कषः 78
प्रज्ञावारिधिघस्मरः प्रणिदधत्प्रत्यूहमृत्युञ्जयः।79
मुक्तिप्रार्थनमोचनाय महता मोहेन सम्प्रेषित-
स्तृष्णावारविलासिनीसहचरो लोभः किलोदीयते ॥ ४६ ॥
मूलम् - ४६

प्रभावली - ४६
।
विपरिवर्तते; भूयो भूयः स्फुरति । अयत्नसिद्धिकारणम् ; अप्रयास- सिद्धिकारणम् । पदशब्दं पादन्यासध्वनि सूचयन स्वस्य श्रवणाभिनयेन सभ्याना सूचयन् । लोभोऽयमागच्छतीत्याह — धर्मेति । धर्माणां वैदिकाना ध्वंसे
1
X४३३
ज्ञानम्,
धूर्वहः । शमदमादिगुणानां प्रारम्भस्य मूलोच्छेदकः । प्रज्ञा प्रकृष्टवस्तु- सैव वारिधिः समुद्रः, तस्य घस्मरः शोषकः । प्रणिदधतां योगं कुर्वतां प्रत्यूहे विघ्नकरणे मृत्युञ्जयः रुद्रः । पुरुषस्य यन्मुक्तिप्रार्थनम्, तन्मोचनाय महामोहेन सम्प्रेषितः तृष्णाख्यवारविलासिन्याः पतिः लोभ आयाति किल ॥ ४६ ॥
प्रभाविलासः - ४६
धर्मेति । सर्वकषः; सर्वनाशकः । घस्मरः ; भक्षकः ।
" भक्षको घस्मरोsuरः इत्यमरः । प्रणिदधतां ध्यायतां प्रत्यूहेषु समाधिविनेषु मृत्युञ्जयः नाशकनाशकः । विघ्ननाशकानि मङ्गलाचारहोमादीनि । तत्र द्रव्यलोभस्तन्नाशक इति भावः । सर्वपुरुषसाधारण्येन वारविलासिनी - त्युक्तिः । तत्रापि लोभाविनाभावात् सहचर इत्युक्तिः । वारविलासिनी-
सहचर इति वैशिको नायक उक्तः, " वेश्योपभोगचतुरो यो भवेत् स तु वैशिकः " इति लक्षणात् । पदव्यजयः सम्भोगशृङ्गारः । उदीयते ; आयातीत्यर्थः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
कामक्रोधौ - ( सहर्षमवलोकयतः )
वसन्तः - विश्वलोभनो लोभ इहाकार्यः 80 । कामक्रोधौ —- सुष्ठु चिन्तितं सुहृदा वसन्तेन । कामः – (छोटिकां ददाति)
क्रोधः - (सोद्घोषमनुमोदते)
लोभः -
(ततः प्रविशति लोभस्तृष्णा च )
महामोहस्याज्ञां शिरसि निदधानः स्रजमिमा-
महं तृष्णाजानिस्त्वरितमिह लोभः समुदितः ।
प्रदिष्टैस्तत्तादृक्प्रथिम81 विकटैर्हाटकमयै-
रखण्डैर्ब्रह्माण्डैर्मम82 क इव तृप्तिं घटयिता ॥ ४७ ॥
मूलम् - ४७

प्रभावली - ४७
विश्वेति । यः विश्वेषा हृदयं लोभयति मोहयति सः आकार्यः आह्वातव्यः ।
X४३४
छोटिका ; मध्यमाड्गुल्यड्गुष्ठाभ्यामुत्पादितः शब्दः आह्वानसूचकः । लोभः अतुष्टिरूपः । तृष्णा ; उपर्युपर्याशा । लोभः स्वस्वभावादिकं कथयति — महामोहस्येति । महामोहस्याज्ञां स्रजमिव शिरसि निदधानः लोभोऽहमिह सौप्तिके कृत्ये त्वरितं समुदितः । तस्य मम तत्तादृशा प्रथिना विस्तृतैः हाटक- मयैः प्रदिष्टः दत्तैः अखण्डैः परिपूर्णैरपि ब्रह्माण्डैः तृप्तिं पर्याप्तिं को वा घटयिता सम्पादयिता; न कोऽपीत्यर्थः ॥ ४७ ॥
प्रभाविलासः - ४७
आकार्यः ; आह्वातव्यः । छोटिका ; मध्यमाङ्गुष्ठसंयोगनिष्पादितो ध्वनिविशेषः । महामोहस्येति । तृष्णा जाया यस्य सः तृष्णाजानिः ।
तत्तादृक्प्रथिमविकटैः; तथाविधप्रसिद्धिविस्तृतैः । हाटकमयैः; स्वर्णमयैः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
प्रिये,
(तृष्णां परिष्वज्य )
अशेषसुरनारीणामाभिरूप्यसमुच्चयैः ।
अजहद्यौवनां तृष्णे विदधे त्वां विधिः स्वयम् ॥ ४८ ॥
मूलम् - ४८
प्रिये,
(तृष्णां परिष्वज्य )
अशेषसुरनारीणामाभिरूप्यसमुच्चयैः ।
अजहद्यौवनां तृष्णे विदधे त्वां विधिः स्वयम् ॥ ४८ ॥
प्रभावली - ४८
परिष्वज्य; आलिङ्ग्य । तृष्णां स्तौति — अशेषेति । आभिरूप्यम; सौन्दर्यम् । अजहद्यौवनाम् ; “तृष्णैका तरुणायते " इत्युक्तेः ॥ ४८ ॥
प्रभाविलासः - ४८
अशेषेति । अजहद्यौवनामिति ; अनेन “ तृष्णैका तरुणायते " इति स्मारितम् । तेन मन्दोदरी साम्यं व्यज्यत इति वस्तुनालङ्कारध्वनिः ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
तदिदं निदर्शयामि-
कनककलधौतशैलप्रभृतिभिरपि हन्त पूरणैः क्षिप्तैः ।
तृष्णे भजति, समृद्धिं भूयो भूयस्तवोदरे कार्श्यम् ॥ ४९ ॥
मूलम् - ४९
तदिदं निदर्शयामि-
कनककलधौतशैलप्रभृतिभिरपि हन्त पूरणैः क्षिप्तैः ।
तृष्णे भजति, समृद्धिं भूयो भूयस्तवोदरे कार्श्यम् ॥ ४९ ॥
प्रभावली - ४९
तदिदम्; आभिरूप्यसमृद्धिं निदर्शयामि । तनुमध्यत्वं स्तौति – कनकेति । कनकशैलः ; मेरुः । कलधौतशैलः ; रजतगिरिः कैलासः । तत्प्रभृतिभिः पूरयन्तीति पूरणैः पूरकैः पूरणार्थ क्षिप्तैरपि तवोदरे कार्श्यं कृशत्वं भूयो भूयः समृद्धिमेव भजते ; अत्यन्तकार्श्यं भजतीत्यर्थः ॥ ४९ ॥
प्रभाविलासः - ४९
कनकेति । कनकशैलः ; मेरुः । कलधौतशैलः; कैलासः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
तृष्णा - अय्यउत्त, तुम्ह83 वल्लहाए मह रमणिज्जत्तणं सव्वरमणिसममहिअन्ति किम् अच्चरिअं ? तह वि देवासुरघरगअ- सअलर अणोवहारेण मह सोहग्गसरिच्छाई84 हारकेजरमेहलाणेउराइ तुए करणिज्जाइ ।
( आर्यपुत्र, तव वल्लभाया मम रमणीयत्वं सर्वरमणीसमभ्यधिकमिति किमाश्चर्यम् ? तथापि देवासुरगृहगतसकलरत्नोपहारेण मम सौभाग्य सदृक्षाणि हारकेयूरमेखलानूपुराणि त्वया करणीयानि ।)
लोभः – प्रिये, ईषत्करमिदमभ्यर्थयसे । निर्जिताः खलु मया देवासुरकिन्नर किम्पुरुषविद्याधरमुनिमनुष्यतिर्यञ्चः, यथा परस्परमेव व्यतिहन्यन्ते, यथा वा तुषकणमपि मेरुं मन्यन्ते । तत्र तावद्धनदविरुदविख्यातस्य त्र्यम्बकसखस्य मत्कृतामवस्थामाकर्णय-
लब्धं न मुञ्चति विलक्षमतिर्न भुङ्क्ते
धत्ते85 पुनः पुनरसौ महतीं धनायाम् ।
निद्रारसं न लभते महतां निधीनां
रक्षापिशाच इव सम्प्रति राजराजः86 ॥ ५० ॥
मूलम् - ५०

प्रभावली - ५०
X४३५
तुम्ह वल्लहाए- तव वल्लभायाः । मह; मम । रमणिज्जत्तणं रमणीयत्वम् । सञ्चरमणिसमन्महिअन्ति सर्वरमणीसमभ्यधिकमिति । किम् अञ्चरिअं - किमाश्चर्यम् । तह वि- तथापि । देवासुरघरगअ देवासुरगृहगत । सअलरअणोवहारेण-सकल- रत्नोपहारेण; उपहारत्वेनोपहृतैः रत्रैरित्यर्थः । मह- मम । सोहग्गसरिच्छाइ- सौभाग्यसदृक्षाणि । हारकेउर मेहलाणे उराइ- हारकेयूरमेखलानू पुराणि । तुए त्वया ।
X४३६
करणिज्जाइ-करणीयानि । ईषत्करम् ; सुकरम् । व्यतिहन्यन्ते ; परस्परेण हन्यन्ते । तथा निर्जिताः खल्विति पूर्वेण सम्बन्धः । धनद इति बिरुदेन । त्र्यम्बकसखः ; कुबेरः । मत्कृताम् ; लोभकृताम् । लब्धमिति । लब्धं धनं न मुभ्वति । विलक्षमतिः; विस्मयान्वितमतिः । तत्स्वयं न भुङ्क्ते । पुनः पुनः महतीं धनायां धत्ते । निद्रारसं न जानाति । किमिव ? महतां निधीनां रक्षापिशाच इव ॥ ५० ॥
प्रभाविलासः - ५०
लब्धमिति । विलक्षमतिः ; लुब्धमतिः । निद्रारसं न लभते इति ; स्वभावतोऽनिमिषत्वेऽपि लोभकार्यत्वोत्प्रेक्षणात् उत्प्रेक्षालङ्कारध्वनिः ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
तृष्णा - अय्यउत्त, तुए87 अत्थपुरिसत्थसद्धा88 सण्ठाविअ- हिअए तेल्लोके विवेअपरिगहिअस्स89 पुरिसस्स का उण दसा ?
( आर्यपुत्र, त्वया अर्थपुरुषार्थश्रद्धासंस्थापितहृदये त्रैलोक्ये विवेकपरिगृहीतस्य पुरुषस्य का पुनर्दशा ?)
लोभः – प्रिये, विमर्शनीयमेतत् । तस्य90 पुनः समाधि- कौतुकं प्रशमयितुं महाराजेन महामोहेन समादिष्टौ कामक्रोधौ मदागमनकाङ्क्षिणौ तिष्ठतः । इमौ 91 तावदुपसर्पावः । (उपसृत्य) लोभनामाहमभिवादये ज्यायांसौ कामक्रोधौ ।
तृष्णा - सोण्हा एसा पणमइ गुरुअणम् । ( स्नुषैषा प्रणमति गुरुजनम् ।)
( इत्युभौ प्रणमति)92
कामक्रोधौ — दीर्घायुषौ भूयास्ताम् ।
X४३७
वसन्तः —— अहो निदाघपवनदवाग्नीनामिव भवतां समागमः । किं न सेत्स्यति राज्ञो महामोहस्य ! मा भूद्विवेकतो भवत्पत्नीनां रतिजिघांसातृष्णानां मङ्गल्य भूषणवैकल्यम् ।
(सर्वे परस्परमाश्लिष्यन्ति )
कामः— अपि स्वागतमस्मदुपजीव्यम् 93 अर्थपुरुषार्थमभि-
रक्षते लोभाय ?
लोभः - अथ किम् । अनुग्रहपदं खल्वहं भवताम् ।
क्रोधः - अपि कथममोघवृत्तिः94 अपवर्गोदन्तवैदेशिकस्त्वमवधत्से स्वामिकृत्यम्95 ।
लोभः - युष्मदवष्टम्भेन सर्वत्रामोघवृत्तिरस्मि । पश्य सुयोधनादिवन्मत्परिगृहीतस्य लोकस्येदानीमद्वितीयां द्वितीयपुरुपार्थनिष्ठाम्-
क्षुद्रक्षोणिरजःकणस्थिरतृषः क्षुभ्यन्ति पृथ्वीभृत-
स्तप्येत स्वपदाय कः क्वचिदिति त्रस्यन्त्यमर्त्येश्वराः ।
भिक्षाकेष्वपि केषुचित्क्वचिदुपक्षिप्तेष्वधिक्षेपतः
पक्षे दुर्मतिभृत्ययोरिह जगत्तिष्ठत्यसूयेर्ष्ययोः ॥ ५१ ॥
मूलम् - ५१

प्रभावली - ५१
तुए ; त्वया । अत्थपुरिसत्थसण्ठाविअ हिअए-अर्थपुरुषार्थं संस्थापितहृदये । तेल्लोके त्रैलोक्ये । विवेअपरिगहिअस्स-विवेक परिगृहीतस्य । पुरिसस्स - पुरुषस्य । का उण का पुनः । दसा-दशा; अवस्था । विमर्शनीयम्; विचारणीयम् । ज्यायांसौ; ज्येष्ठौ । सोण्हा एसा स्नुषैषा । पणमइ प्रणमति । गुरुअणं-गुरु-
जनम् । उभौ ; कामक्रोधौ । निदाघः ; ग्रीष्मकालः । निदाघपवनाग्नीनां समागमः शोभते । किमभिलषितं न सेत्स्यति ; सर्व सेत्स्यतीत्यर्थः । विवेकतः ; विवेकसकाशात् । रतिः कामस्य स्त्री । जिघांसा क्रोधस्य । तृष्णा लोभस्य । वैकल्यम् ; मङ्गलसूत्रभङ्गः । अपिः प्रश्न । स्वागतम् ; कुशलम् । अस्मदुप-
X४३८
जीव्यम्; अस्मदीयैरुपजीव्यम् । अथ किम् ; तेन कि प्रयोजनमित्यर्थः । अनुग्रहपदम् ; अनुग्रहविषयः । अपि कथमिति ; " ज्ञातहेतुविवक्षायामप्यादिकथमव्ययम् ” इति निघण्टुः । तदयमर्थः - अपवर्गवृत्तान्तवैदेशिकस्त्वममोधवृत्तिरिति यत् तत्र स्वामिकृत्ये भवदवधानमेव हेतुरित्यर्थः । सुयोधनः ; दुर्योधनः । आदिशब्देन नलभ्रातृपुष्करादयो गृह्यन्ते । लोभपरिगृहीतस्य द्वितीयपुरुषार्थोऽंर्थः तत्र निष्ठा तदेकप्रयोजनत्वम् । तदेव दर्शयति– क्षुद्रेति । पृथ्वीभृतः क्षुद्रो यः क्षोणिरजः कणः ; पृथ्व्याः पास्वेकदेशः, तत्र स्थिरतृष्णाः सन्तः क्षुभ्यन्ति; क्षोभं प्राप्नुवन्ति । स्नेहं परित्यज्य कलहं कुर्वन्ति । अमर्त्येश्वराः देवाव स्वपदाय स्वपदं प्रति को वा क्वचित् तपः कुर्यादिति त्रस्यन्ति । भिक्षाकाः ; भिक्षुकाः मुनयश्च । केषुचित् पुरुषेषु क्वचित्काले उपक्षिप्तेषु अपकृतेषु अधिक्षेमतः निन्दनात् । यद्वा केषुचित् भिक्षाकेषु पुरुषेषु कश्चिद्विषये उपक्षिप्तेषु अधिक्षेपणात् निन्दादर्शनात् । इह जगत्सर्वं दुर्मतिभृत्ययोः असूयेर्ष्ययोः पक्षे वशे तिष्ठतीत्यर्थः ॥ ५१ ॥
प्रभाविलासः - ५१
तस्य; पुरुषस्य । समाधिकौतुकम् ; समाधौ श्रद्धाम् ।
क्षुद्रेति । पृथ्वीभृतः सुयोधनादयः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
अपि च,
अटन्ति हरितो दश स्थपुटयन्ति विश्वम्भरां
पठन्ति धनिनां चटून् परपरिच्छदं बिभ्रति ।
तरन्ति जलधिं प्लवैः समरमारभन्ते मुधा
दुरन्तधनदोहलग्रहिलचेतसो देहिनः ॥ ५२ ॥
मूलम् - ५२
अपि च,
अटन्ति हरितो दश स्थपुटयन्ति विश्वम्भरां
पठन्ति धनिनां चटून् परपरिच्छदं बिभ्रति ।
तरन्ति जलधिं प्लवैः समरमारभन्ते मुधा
दुरन्तधनदोहलग्रहिलचेतसो देहिनः ॥ ५२ ॥
प्रभावली - ५२
उक्तमर्थं भङ्गयन्तरेण दर्शयति — अपिचेत्यादि । दुरन्तं दुरुच्छेदं यद्धनदोहलं धनेच्छा तद्ग्रहिलं ग्रहणशीलं चेतो येषां ते ; धनाशाबद्धचेतस इत्यर्थः । दश हरितः ; दश दिशः । विश्वम्भराम्; भूमिम् । स्थपुटयन्ति ; खननेन विषमी-
X४३९
कुर्वन्ति । धनिनां पुरतः चटून् प्रियोक्तीः । परिच्छदम् ; उपकरणं बिभ्रति पूवैः; नौभिः । मुधा ; प्रयोजनाभावेऽपि ॥ ५२ ॥
प्रभाविलासः - ५२
अटन्तीति । हरितः दिशः । स्थपुटयन्ति; फालकुद्दालादिभिर्विषमस्थानयन्ति । चटून् ; स्तुतिवचनानि । परिच्छदम् ; चामरकम्बलादिकम् । दुरन्तेन अपरिमितेन धने दोहलेन अभिलाषेण ग्रहिलं ग्रहेणेव
गृहीतं चेतो येषां ते तथोक्ताः । विशेषणानि पिशाचग्रस्तेष्वपि
योज्यानि ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
वसन्तः – आयुष्मन् महामोहामात्यधुरीण, पुनस्तृष्णासहायस्य ते पूर्वापरपुरुषार्थसाधके स्वयं च सर्वचित्तसाक्षिकं स्वादुतमतयोपलभ्यमाने सर्वराजन्यसेवनीयचरमोपवेदसिद्धे प्रत्यक्षपुरुषार्थे कः प्रत्यूहः ? अयं च,
कालप्राप्तो96 धर्मतोऽधर्मतो वा कक्षीकार्यः कामतन्त्रप्रधानैः97 ।
लाभे गुप्तावप्रदानव्रते वा त्वय्यायत्तो ह्यर्थनामा पुमर्थः ॥ ५३ ॥
मूलम् - ५३

प्रभावली - ५३
लोभस्यार्थपुरुषार्थे जगतः प्रवणीकरणे च प्रत्यूहो नास्तीत्याह- आयुष्मन्निति । तत्र हेतवः महामोहेत्यादि ; धुरीणत्वात् तृष्णासहायत्वाच्च । अर्थपुरुषार्थमुपश्लोकयति — पूर्वापरेत्यादि । पूर्वापरपुरुषार्थी, धर्मकामौ । सर्वराजन्यैः सेवनीयो यश्चरमोपवेदः दण्डनीतिः तत्प्रतिपाद्ये । सर्वे परोक्षतः पुरुषार्थाः । अयं तु प्रत्यक्ष पुरुषार्थः । कामिभिः स्वीकार्यत्वं लोभाधीनरक्षणत्वं चाह — कालेति । क्वचित्काले धर्मतोऽधर्मतो वा प्राप्तो यः पुरुषार्थः सः कामकामैः सर्वथाङ्गीकार्यः । अस्य लाभे मार्जने आर्जितानां रक्षणे च कस्मैचिदप्रदानव्रते च त्वयि लोभे आयत्तः त्वदधीन इत्यर्थः ॥ ५३ ॥
प्रभाविलासः - ५३
पूर्वापरपुरुषार्थी धर्मकामौ । चरमोपवेदः ; अर्थशास्त्रम् । कालप्राप्त इति । कर्मतन्त्रप्रधानैः; संसारिभिः । गुप्तौ ; रक्षणे ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
शृण्वन्तु98 सर्वे भवन्तो मामकमनुयोगम् । विवेककवचदुर्भेदविज्ञानो विपश्वित्तमः कथङ्कारमवस्कन्दनीयः ?
कामः – सखे, 99 एवमहमेतदध्यवस्यामि । अहं तावदग्रेसरो गच्छामि । भवद्भिस्तु पक्षद्वयं पाणिं च परिपालयद्भिरन्तरा निवेश्य तृष्णामनुप्लवैर्भवितव्यम् । तदनेन दुर्भेदेन व्यूहेन दुरात्मनो विवेकस्य स्वकुलविध्वंसनमनोरथप्रत्यूही भविष्यामः ।
(तथा व्यूह्य सर्वे पञ्चषाणि पदानि परिक्रामन्ति )
कामः – (सरभसपुङ्खितशरं पौष्पं धनुरान्दोलयन् ) पश्यत तावदिदानीमधिज्यधन्वनो मे ललितघोराणामिषूणां लक्ष्यलाभम् -
प्रणिधानविशेषभावितात्मा100 करणग्रामनिरोधनिष्प्रकम्पः ।
निभृतश्वसनो निवृत्तिधर्मा पुरुषस्त्यक्तपरिग्रहोऽयमास्ते101 ॥ ५४ ॥
मूलम् - ५४

प्रभावली - ५४
X४४०
अनुयोगम्; प्रश्नम् । विपश्चित्तमोऽभिभवनीयः ; एतदवस्कन्दनं
सिध्यतीति प्रश्नः । पाणिः ; पश्चाद्भागः । अन्तरा मध्ये निवेश्य अनुष्ठ अनुचरैः । व्यूहेन ; बलविन्यासेन । मनोरथे विघ्नकरा भविष्यामः । प्र क्रामन्ति प्रसर्पन्ति । शीघ्रसंहितशरं धनुः भृशं चालयन् । कुसुमत्वं ललितत्वम् । लक्ष्यलाभम् ; शरव्यलाभम् । अयमेव लक्ष्यमित्यभिप्रायेणाह - प्रणिधानेति ; ध्यानविशेषानुसंहितात्मा । करणानि ; इन्द्रियाणि । निरुद्धप्राणः निवृत्तिधर्मनिष्ठः त्यक्तगृहक्षेत्रादिः पुरुषोऽयमास्ते । अत्र बाणं विमोक्ष्याम इति शेषः ॥ ५४ ॥
प्रभाविलासः - ५४
प्रणिधानेति । निष्प्रकम्प इति कायस्थैर्यमुच्यते ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
वसन्तः - (सूक्ष्ममवलोक्य) हन्त, अवहितैरस्माभिर्भवितव्यम् ।
अत्र हि-
वितमसि पदे विधास्यन् मायाजलधेः समुद्धृतं पुरुषम् ।
विमृशति किमपि रहस्यं सुमतिसहायो विवेक एकान्ते ॥ ५५ ॥
मूलम् - ५५
वसन्तः - (सूक्ष्ममवलोक्य) हन्त, अवहितैरस्माभिर्भवितव्यम् ।
अत्र हि-
वितमसि पदे विधास्यन् मायाजलधेः समुद्धृतं पुरुषम् ।
विमृशति किमपि रहस्यं सुमतिसहायो विवेक एकान्ते ॥ ५५ ॥
प्रभावली - ५५
X४४१
हन्तेति खेदे । अवहितैः; सावधानः । सावधानत्वे हेतुमाह-अत्र हीति ; पुरुषसमीपे । माया ; प्रकृतिः । पुरुषं समुद्धृत्य वितमसि परमे पदे विधास्यन् विधित्स्युः तदर्थं किमपि रहस्यमालोचयति । अतोऽवधातव्यम् ॥ ५५ ॥
प्रभाविलासः - ५५
अवहितैरस्माभिरिति ; क्षोभो नाम नाट्यालङ्कारः । अथ विषाद-
प्रमादकर्तव्यामान्तरीं ध्रुवामाह - वितमसीति । तदुक्तम् -
“
विषादे विस्मृतौ क्रोधे प्रमादे सङ्गमेऽपि च ।
दोषप्रच्छादनादौ च गीयते या तु सान्तरी ॥”
इति ॥ ५५ ॥
विश्वास-प्रस्तुतिः - ५६
क्रोधः – (सभ्रकुटिभङ्गम्102 ) भो वयस्य विमृश्यतां किमपि दुरात्मना विवेकेन । उपजप्तः103 पुरुषस्तावत्पुरस्कृतमन्मथानामस्माकमभिमतं नातिवर्तते । यतः,
अनघसमाधिसम्पदुदरम्भरिरात्मभवः
प्रबलमहोर्मिजालभरिते दुरिताम्बुनिधौ ।
जडमति जन्तुजातमुपजातविहारमसौ
सुखबडिशावकृष्टमुपदंशदशां नयति ॥ ५६ ॥
मूलम् - ५६

प्रभावली - ५६
नातिवर्तते ; अतिवर्तितुं न शक्नोति । तत्र हेतुमाह-यत इति ।
X४४२
सर्वानपि कामः स्ववशयतीत्याह- अनघेति । अनघाया निरपायायाः समाधिसम्पदः उदरम्भरिः भक्षकः । आत्मभवः ; कामः । भरिते ; पूर्णे । दुरिताम्बुनिधौ ; संसारसमुद्रे । उपजात विहारम् ; सञ्जातक्रीडम् । जडमतय एव जन्तवः मत्स्याः, तत्समूहम् । सुखमेव बडिशं, तेन अवकृष्टम् । उपदंशदशां स्वस्थ व्यञ्जनदशां नयति ॥ ५६ ॥
प्रभाविलासः - ५६
अनघेति । उदरम्भरिः; भक्षकः, नाशक इति यावत् । आत्मभवः
कामः । ऊर्मिजालम् ; अशनायाधूर्मिषट्कमेव तरङ्गसमूहः । जडमति ; मन्दबुद्धि, जलबुद्धि च । जन्तुजातम् ; संसारिजातं, मत्स्यजातं च । स्वयमद्यमानं सत् यददनसाधनं स उपदंशः । शमादिबहुसाधनसम्पन्नसमाधिनिष्ठपुरुषवशीकरणसमर्थस्य स्वारसिकसांसारिक सुखमोमुह्यमानजनवशीकरणं गृहं भक्षितुकामस्य " इत्यादिन्यायेनातिस्वल्पमिति
भावः ॥ ५६ ॥
विश्वास-प्रस्तुतिः - ५७
पश्यतु104 भवानेतस्य पुरुषस्य भावनाविशेषम्—
स्वसम्बोधः105 सौधः शुभगुणगणो मण्डनविधिः
समाधिः सम्भोगो रहसि जपशैली रतिकथा ।
सुषुप्ते लोकेऽद्य श्रुतिपरिषदन्तःपुरगतो
मुनिः106 शान्तिव्याजान्मुखरयति शृङ्गारनिगमम् ॥ ५७ ॥
मूलम् - ५७

प्रभावली - ५७
भावनाविशेषम् ; ध्यानविशेषम् । स्वसम्बोधः ; स्वात्मज्ञानम् । स एव सौधः ; अस्येति शेषः । शुभगुणगणः ; शमदमादिः । मण्डनविधिः ; अलङ्कार- विधिः । सम्भोगः ; रतिः । रहसि जपशीलता रतिप्रसङ्गः । लोके सुषुप्ते सति ;
X४४३
वसन्तः – (स्वगतम्) आशामात्रकृतेयमन्यथा कल्पना । न खलु मनोरथचतुरङ्गसम्पत्या महाराज्यसिद्धिः । (प्रकाश) सखे प्रबल - प्रतिपक्षसन्निधौ किमनेन प्रगल्भभाषितेन !
लोभः – सखे वसन्त, प्रिया तावन्ममैषा प्रतिपक्षप्रतिक्षेप107 भीता प्रत्याश्वासयितव्या । (तृष्णामवलोक्य) सुमुखि तृष्णे, महावीरव्यूहमध्यगता108 महत्यपि प्रतिपक्षे मा भैषीः ।
तृष्णा - सअलसुरासुरमहिअमाहप्पेसु तुम्हेसु जीवन्तेसु
णिचं णिन्मअम्हि ।
योगविषये । अद्य ; जनसुषुप्तिकाले । श्रुतिपरिषदेव अन्तःपुरं तद्गतः सन् । शान्तिव्याजेन शृङ्गारनिगमं शृङ्गारशास्त्रं मुखरयति प्रकाशयति । शान्तिरसः शृङ्गाररसस्थानीय इति भावः ॥ ५७ ॥
प्रभाविलासः - ५७
" या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥” इति । अत्र श्लोके उत्प्रेक्षालङ्कारः, शान्तेः शृङ्गारतापरिभावनाप्रतीतेः ;
" अन्यथावस्थितिं प्राप्ता यत्र द्रव्यगुणक्रियाः ।
सम्भाव्यन्तेऽन्यथा प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥”
इति लक्षणात् ॥ ५७ ॥
विश्वास-प्रस्तुतिः - ५८
(सकलसुरासुरमहितमाहात्म्येषु युष्मात्सु जीवत्सु नित्यं निर्भयास्मि ।)
कामः - (सान्तस्त्रासं परिवृत्त्यावलोक्य) पश्चात्पदानि प्रतिक्षिप्यन्तामस्माभिः । अद्य हि,
अनिद्राणप्रज्ञासहजबलधीराद्भुतगति-109
स्तितिक्षासन्तोषस्थिरतरतनुत्राणघटितः ।
प्रयुक्तं केनापि प्रणवरथमास्थाय पुरतो
विवेकः प्रत्युद्यन् विघटयति मे व्यूहघटनाम् ॥ ५८ ॥
मूलम् - ५८

प्रभावली - ५८
इयमन्यथा कल्पना ; योगिनो भोगिकल्पना । आशामात्रं भवति ; यन्न भोगी भवतीत्यर्थः । सखे इति क्रोधसम्बोधनम् । प्रतिपक्षेति ; विवेक- सन्निधावित्यर्थः । प्रगल्भभाषितेन ; धृष्टभाषितेन । प्रिया ; तृष्णा । प्रतिपक्षेभ्यः परिभवभीता समाश्वासनीया । महावीरेत्यादि । महावीराणां व्यूहमध्यगत-
X४४४
त्वादिति हेतुगर्भमिदम् । सअलसुरासुरमहिअमाहप्पेसु-सकलसुरासुरमहितमाहात्म्येषु । तुम्हे सु-युष्मासु । जीवन्तेसु- जीवत्सु । णिश्वं नित्यम् । णिब्भअहि- निर्भयास्मि । परिवृत्य; विमुखो भूत्वा । पदानि पश्चाद्भाग एव प्रतिक्षिप्यन्ताम् ; न पुरस्तात् । तत्र कारणमाह- अनिद्राणेति । अनिद्राणप्रज्ञा ; असङ्कुचितज्ञानम्, सैव सहजबलं, तेन धीराद्भुतगतिः । तितिक्षा ; क्षमा । सन्तोषश्च तदुभयात्मकस्थिरकवचेन संवृतः । केनापि ; को ब्रह्मा, तेन प्रयुक्तम् ; प्रणवस्य ब्रह्मर्षिकत्वात् । प्रणवरथम् ; " ओङ्काररथमारुह्य " इत्युक्त्या प्रणवस्य रथत्वरूपणम् । प्रणवस्थम् आस्थाय ; प्रणवात्खलु ब्रह्मोदेति । पुरतः प्रत्युद्यन् मे व्यूहरचनाम् विघटयति ; शिथिलयति ॥ ५८ ॥
प्रभाविलासः - ५८
स्वसम्बोध इति । स्वसम्बोधः ; स्वपरज्ञानम् । गुणगणः ;
। शान्त्यादिः । सुषुप्ते लोके ; लोकैरविज्ञातविषय इत्यर्थः । तदुक्तम् -
अनिद्राणेति । तितिक्षा ; शीतोष्णसहनम् । तनुत्राणम् ; वर्म । प्रयुक्तम् उपदिष्टम् । अत्र शान्तरसोपसर्जनतया वीररसो व्यज्यते ॥ ५८ ॥
विश्वास-प्रस्तुतिः - ५९
(सर्वे भयं नाटयन्ति । )
युष्मासु त्रिषु कस्यचिद्यदि विपत्सम्पत्स्यते केनचित्
त्यक्ष्यत्येव हि भक्तजीविततया मोहः स्वयं जीवितम् ।
सद्यश्चैनमनुम्रियेत नियतं तद्वल्लभा दुर्मति-
स्तत्सम्प्रत्यपसर्पणं क्षममितः क्षिप्रं विवेकास्पदात् ॥ ५९ ॥
मूलम् - ५९

प्रभावली - ५९
वसन्तः –
X४४५
नाटयन्ति ; अनुकुर्वन्ति । अद्यापसर्पणे हेतुमुपन्यस्यति - युष्मास्विति । त्रिषु; कामक्रोधलोभेषु मध्ये । केनचित् ; विवेकेन वा, तदमात्येन वा । स्वयमपि जीवितं त्यक्षति । एवं सति तद्वल्लभा दुर्मतिः सद्यश्चैनम् अनुम्रियेत । नियतम् ; अवश्यम् । तत् ; तस्मात् । इतः ; विवेकास्पदात् पुरुषात् ॥ ५९ ॥
प्रभाविलासः - ५९
युष्मास्विति । अत्र करुणभयानकौ व्यङ्ग्यौ ॥ ५९ ॥
विश्वास-प्रस्तुतिः - ६०
लोभः - (ससम्भ्रमम् ) अराजकैरस्माभिः अत्र110 न योद्धव्यम् । मन्त्रयिष्यति च राजा स्वयमेव कृत्यशेषम् ।
क्रोधः - (सनिर्वेदम् ) धिक् धिक् । किमियता कालेनास्माभिराचरितं राजकृत्यम् ?
लोभः - सखे,
अतिक्रामन् कालस्तपनरथवेगेन महता
न रोद्धुं शक्येत प्रतिवहनवातूलरहितः111 ।
गतस्रोतोरोधे न खलु यतितव्यं कृतधिया
तदारम्भः श्रेयानुपरितनभीतिप्रतिभटः112 ॥ ६० ॥
मूलम् - ६०

प्रभावली - ६०
मन्त्रयिष्यति ; विचारयिष्यति । कृत्यम्; कर्म । शेषम् ; अवशिष्टं
X४४६
कार्यम् । धिग्धिगिति भिन्नं वाक्यम् । निन्द्यं कुत्सितमित्यर्थः । इयता कालेन किमाचरितमित्यतीतस्य चिन्ता न कर्तव्या; उपरितनं कार्यमेव चिन्तनीयमित्याह — अतिक्रामन्निति । महता तपनरथवेगेन अतिक्रामन् कालः । प्रतिवहनम् ; प्रतीपवहनम् । तत्र साधनभूता या वात्या वातसमूहः, तद्विरहित इति हेतुगर्भ विशेषणम् । कालस्य प्रतीपवहने साधनाभावादित्यर्थः । गतजल- सेतुबन्धे न यत्नः कार्यः । कृतधिया ; बुद्धिमता । तत् ; तस्मात् । उपरितनो यो भीतिप्रशमन आरम्भः, स एव श्रेयान् ॥ ६० ॥
प्रभाविलासः - ६०
अतिक्रामन्निति । प्रतिवहनवातूलः ; प्रतिकूलवातसमूहः । गत-स्रोतोरोध इति; अत्र “गतोदके सेतुबन्धो न मे लक्ष्मण रोचते " इति स्मारितम् । भीतिप्रतिभटः ; भयनिवर्तकः । पलायनं द्योत्यते ॥ ६० ॥
विश्वास-प्रस्तुतिः - ६१
तदत्रायुस्तावदस्माभिरभिरक्षणीयम् । “ सर्वत एवात्मानं
गोपायेत् " इति हि श्रूयते ।
कामः — समयोचितमिदं समर्थ्यते लोकवृत्तवेदिना लोभेन ।
आधेयो113 न हि सौप्तिकप्रणिहितैरस्माभिराकस्मिकः
पातः क्रुद्धविवेकलक्षणमहापातालगर्तोदरे ।
सद्यः सम्प्रति दम्भदर्पकुहनासूयादिदत्तेक्षणः114
प्रत्यर्थिप्रतिरोधकर्मणि महामोहः प्रवर्तिष्यते ॥ ६१ ॥
मूलम् - ६१

प्रभावली - ६१
आयुः ; जीवितकालः । सर्वतः; सर्वविपद्भयः । कालोचितं समर्थ्यते प्रतिपाद्यते लोकवृत्तान्तविदा । इदानीमस्माभिः विवेकरूपपाताले न निपतितव्यम् । विवेकविजये महामोह एवोत्तरत्र प्रवर्तयितव्य इत्याह-आदेय इति । महामोहेन सौप्तिके प्रणिहितैः अस्माभिः सम्प्रति सद्यः विवेकरूपमहापाताल-
X४४७
बिलोदरे आकस्मिकः निर्हेतुकः पातः नादेयः न स्वीकर्तव्यः । दम्भादिभिः दत्तक्षणः प्राप्तोत्सवः । तैः सर्वैः सहित इत्यर्थः । शत्रुनिरासकर्मणि प्रवर्तिष्यते ॥ ६१ ॥
प्रभाविलासः - ६१
आधेय इति । सौप्तिकप्रणिहितैः ; सुप्तबाधाप्रवृत्तैः । गर्तोदरे
आकस्मिकः पातः नाधेयः ; न कर्तव्य इत्यन्वयः । अत्र दम्भेत्यादिना उत्तराङ्कपात्र प्रवेशः सूचितः ॥ ६१ ॥
विश्वास-प्रस्तुतिः - ६२
तद्वयमिदानीं भिन्नदिक्काः प्रतिष्ठेमहि ।
“आत्मार्थे115 पृथिवीं त्यजेत् " इति हि, वदन्ति ।
( इति निष्क्रान्ताः सर्वे)
इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये कामादिव्यूहभेदो नाम चतुर्थोऽङ्कः । ॥ ६२ ॥
मूलम् - ६२

प्रभावली - ६२
भिन्नदिक्काः ; प्रत्येकं भिन्नदिक्काः सन्तः पलायनं कुर्वीमहि । आत्मरक्षणार्थं पृथिवीमपि त्यजेत् ॥॥ ६२ ॥
प्रभाविलासः - ६२
116 इत्यात्रेयाहोबलाचार्यविरचिते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने 117 कामादिव्यूह भेदो नाम चतुर्थोऽङ्कः । ॥ ६२ ॥
-
ख reads अपि च and the stanza following it, after the stanza कामं कामं etc. ↩︎ ↩︎
-
परैः भृत् भरणं यस्येति भावे क्विपि, परैः भ्रियते इति कर्मणि क्विपि वात्र परभृत् पदव्युत्पत्तिरवगन्तव्या. ↩︎ ↩︎
-
केचित् पदमिदं द्वितीयान्तं पठित्वा परिहसिता दुग्धसिन्धुद्युतिः यया तामिति श्रियमित्यस्य विशेषणं व्याचक्षते । तत्तु स्वरसतरमिव भाति । ↩︎ ↩︎
-
आशंसायां क्त इति भावः । ↩︎
-
प्रतिक्षेप omitted — क; प्रतिपक्षोपक्षेप भीता - ग. क. ↩︎
-
महामोहमहावीर - — ख. ↩︎
-
इत्यात्रेयगोत्रसम्भूतेन श्रीमदहोबिलनाम्ना विदुषा विरचिते - —B.D. ↩︎
-
सौप्तिकं नाम—–B.D. ↩︎