राग-द्वेषौ
विश्वास-प्रस्तुतिः - १
(विष्कम्भः )
(ततः प्रविशतो राग-द्वेषौ )
रागः – सखे, त्वत्-सहायस्य मे स्वामि-कार्य-निर्वर्तनं
सिद्ध-प्रायम् इति निश्चिनोमि ।
द्वेषः – वयस्य, त्वद्-विरुद्ध-विषय-विवेक–संरम्भ-निरोधेन
त्वद्-एक-कार्य एव ह्य् अहम् आदिष्टोऽस्मि महा-राजेन ।
रागः - सखे, अन्यद् अपि तावद् अवसरोचितम् आज्ञप्ति-गोचरम् आवेदयामि -
विवेक-कुहना-बलाद् व्यतिहतेषु बाह्येष्व् असौ
त्रि-वर्ग-पदवी परं शरणम् अद्य मोह-श्रियः ।
विरक्तिम् इह तापसीं व्यपनयामि दूराद् अहं
विमथ्य विनिवर्त्यतां सपदि विष्णु-भक्तिस् त्वया ॥ १ ॥
English
THEN ENTER RAGA (Lust-Attachment to wordliness) AND DVESHA (Hate-for Godliness).
Raga.–Friend! With thee for my help. the achievement of my master’s I fancy, as (already) accomplished. mission,
Dvesha. Companion! I am in the same boat with thee, as I am ordered by his Majesty to create obstacles against the efforts of Viveka, who worketh against thee.
Raga.Friend! Other mandates (too) there are to carry out as occasion may demand. I shall just disclose them.
[[169]]
- Now that the heretics1 (Buddhists and others. ) have been of overthrown through the manœuvre Vivēka, the way to Trivarga (1. See n. 1. p. 115. ) is the only outlet for Mahāmōha’s energies. Beggarly Virakti (2. Dispassion or Renunciation. ), I shall just decoy to a distance, and thou shalt entice Vishnu-bhakti (1. Love or Devotion to Vishnu) all at once.
मूलम् - १
(विष्कम्भः )
(ततः प्रविशतो रागद्वेषौ )
रागः – सखे, त्वत्सहायस्य मे स्वामिकार्यनिर्वर्तनं सिद्धप्रायमिति निश्चिनोमि ।
द्वेषः – वयस्य, त्वद्विरुद्धविषयविवेकसंरम्भनिरोधेन1 त्वदेककार्य एव ह्यहमादिष्टोऽस्मि2 महाराजेन ।
रागः सखे, अन्यदपि3 तावदवसरोचितमाज्ञप्तिगोचरमावेदयामि -
विवेककुहनाबलाद्4 व्यतिहतेषु बाह्येष्वसौ
त्रिवर्गपदवी परं शरणमद्य मोहश्रियः ।
विरक्तिमिह तापसीं व्यपनयामि दूरादहं
विमथ्य विनिवर्त्यतां सपदि विष्णुभक्तिस्त्वया ॥ १ ॥
प्रभावली - १
अथ तृतीयेऽङ्के विवेकमुखतो मुक्त्युपायं निरूपयितुं तत्पूर्वं द्वितीयाङ्का-
वसाने सूचितयोः रागद्वेषयोः प्रवेशं वर्णयति – ततः प्रविशत इति ।
.
X३३५
रागः; संसाररागः । द्वेषः ; मोक्षद्वेषः । निर्वर्तनम् ; निर्वहणम् । सिद्ध- प्रायमिति ; सिद्धसदृशमित्यर्थः । त्वद्विरुद्धविषयश्चासौ विवेकसंरम्भव, तन्नि रोधेन । त्वयापि संरम्भनिरोधः कर्तव्यः ; त्वया कर्तव्ये तस्मिन्नेकस्मिन्नेव कायेम् अहमप्यादिष्टोऽस्मि । अवसरोचितम् एतत्कालोचितम् । आज्ञप्तीति ; महामोहाज्ञापनविषयमाज्ञप्तं कार्यमित्यर्थः । विवेकेति । विवेकस्य कुहना कपटम्, तद्बलात् बाह्येषु चार्वाकादिषु व्यनिहतेषु अन्योन्यं प्रतिक्षिप्तेषु, पराजितेष्वित्यर्थः । अद्य मोहश्रियः ; महामोहसम्पदः । शरणम् ; अवलम्बनम् । त्रिवर्गपदवी ; धर्मार्थकामानां मार्ग एव, संरक्षकः । तापसीम् ; तापससम्बन्धिनीं, भिक्षुकीमिति च गम्यते । विरक्तिम् ; वैराग्यम् । इह; इदानीम् । दूरात् व्यपनयामि; पुरुषात् दूरदेशं प्रापयामि, मारीचो राघवमिव । अनन्तरं त्वया सपदि विष्णुगोचरा भक्तिः विमथ्य कदर्थीकृत्य ; बलात्कृत्येत्यर्थः । विनिवर्त्य - ताम् ; पुरुषसमीपादपसार्यताम्, रावणेनेव सीता ॥ १ ॥
प्रभाविलासः - १
अथ मध्यमपात्र प्रवेशरूपं शुद्धविष्कम्भमारभते – तत इत्यादिना । लक्षणमधस्तादुक्तम् । विवेकेति । कुहना ; कपटः । बाह्येषु ; बाह्यशास्त्रेषु ॥ १ ॥
विश्वास-प्रस्तुतिः - २
सम्भवति च सर्वथा
सर्वतः प्रसारिताभ्यां स्वर्गापवर्ग-गुण-दोष-जालाभ्यां
तयोर् उपरोधः ।
अहं पुनर् माया-सहस्र-वेदी
मारीच-मैथिली-न्यायेन
विरक्तिं तावत् तपस्विनीं विप्रलभे ।
भवतस् तु विष्णु-भक्ति-विमथने
पौलस्त्य एव प्रमाणम् ।
द्वेषः - अथ किम् ।
रागः — यद्य् अपि5 त्रय्य्-अन्त-वादिना
महा-मोह-सौवस्तिकानाम् अग्रण्यो6 हिरण्यासुर-पुरोहिता इव धरण्याम् अवतीर्णाः कबन्ध-मीमांसकाः7 प्रतिक्षिप्ताः,
तथापि तन्-मतम् एव सोपपत्तिकम् उत्तम्भयन्
स्वामि-कार्यं निर्वर्तयामि ।
द्वेषः – स्थाने खलु भवतः समारम्भः ।
यद् इह
नास्तिक्य-संवर्धकानां महा-मोह-सैनिक-धुरन्-धारणां
नासीर+++(=अग्रभट)+++-विजय-पताका निरीश्वर-मीमांसा समालम्ब्यते ।
रागः-
अल्पम् अस्थिरम् आनन्दम्
इच्छतो यदि रागिता ।
अनन्त-स्थिर-कामस्य
विरक्तिः कस्य की-दृशी ॥ २ ॥
English
Their disjunction with Jiva can be, by all means, effected, by casting the nets of making Svarga appear worthy and Moksha unworthy,-in all places. Expert as I am in a thousand and one deceits, I shall just beguile the beggarly Virakti, as Mārīcha did Mithili (1. Another name of Sitā. )
(2. The allusion is to the well known incident of Maricha being asked by Ravana to decoy Sri Rama into the Dandaka forest. Maricha assumed the form of a golden deer and appeared in the vicinity of Sitā, who, enchanted by its charming appearance, persisted in Rama catching the same Rama was decoyed to a distance by Maricha, when Ravana enticed away Sita(Aranya-Kanda-Sri Ramayana.) )
[[170]]
and thou shalt entice VishnuBhakti as Pōulastya (2. Rāvana. ) did.
Dvesha. Then what?
Raga. True, the Teacher of Vedanta Siddhānta (3. The pupil referred to in the previous Act. (Vāda.)) hath routed the head-less Pūrvamimāmsakas, the foremost of the wishers of Mahāmōha’s success-
the very Purohits (Officiating Priests. ) of demon Hiranya (The demon killed by Vishnu in is avatara of man-lion. ) as it were re-incarnate on earth,
yet I shall propound their very creed ingeniously and thus accomplish my
master’s mission.
Dvesha. Rightly opportune is thy resolve to stand by the victorious banner of the arch-chiefs of Mahamōha promoting Atheism, viz., the creed of Nirisvara Mīmāmsa. (1. Materialism denying the God-head.)
Raga. 2. If it becometh a passion to long [[171]] after the paltry and ephemeral pleasures (1. Enjoyment of Svarga, etc, ) how can dispassion possess one who longeth for endless and eternal joy ? (Moksha. )
मूलम् - २
सम्भवति च सर्वथा सर्वतः प्रसारिताभ्यां स्वर्गापवर्गगुणदोषजालाभ्यां तयोरुपरोधः । अहं पुनर्मायासहस्रवेदी मारीचमैथिली-
न्यायेन विरक्तिं तावत्तपस्विनीं विप्रलभे । भवतस्तु विष्णुभक्ति-
विमथने पौलस्त्य एव प्रमाणम् ।
द्वेषः - अथ किम् ।
रागः — यद्यपि5 त्रय्यन्तवादिना महामोहसौवस्तिकानामग्रण्यो6 हिरण्यासुरपुरोहिता इव धरण्यामवतीर्णाः कबन्धमीमांसकाः7 प्रतिक्षिप्ताः, तथापि तन्मतमेव सोपपत्तिकमुत्तम्भयन् स्वामिकार्यं निर्वर्तयामि ।
द्वेषः – स्थाने खलु8 भवतः समारम्भः9 । यदिह नास्ति
-क्यसंवर्धकानां महामोहसैनिकधुरन्धारणां नासीरविजयपताका निरीश्वरमीमांसा समालम्ब्यते ।
रागः-
अल्पमस्थिरमानन्दमिच्छतो यदि रागिता ।
अनन्तस्थिरकामस्य विरक्तिः कस्य कीदृशी ॥ २ ॥
प्रभावली - २
विरक्तिविष्णुभक्त्योः प्रमथने उपायमाह – सम्भवति चेति । स्वर्गे ये गुणाः अपवर्गे दोषाश्च आरोपिताः तेषा समूहावेव जाले आनाय्यौ, ताभ्या सर्वत्र प्रसारिताभ्यां सर्वथा तयोः विरक्तिविष्णुभक्त्योः उपद्रवो भविष्यतीत्यर्थः । स्वर्गे गुणारोपणमपवर्गे दोषसमर्थनं च कर्तव्यमिति भावः । स्वस्य विरक्ति- व्यपनये सामर्थ्यकथनपूर्वकं त्वया विष्णुभक्तिरवश्यं विमध्यतामित्याह – अहं पुनरिति । पुनः शब्दो वाक्यालङ्कारे । मायासहस्रवेदी ; मारीचवदिति भावः ।
X३३६
मारीच मैथिलीन्यायेन विप्रलभे; वञ्चयामि । पौलस्त्यः ; रावणः । पौलस्त्यकृत- विमथनवदाचरेत्यर्थः । प्रमाणम् ; दृष्टान्तः । अथ किम; त्वया कि क्रियत इत्यर्थः । उत्तरमाह–यद्यपीत्यादिना । त्रय्यन्तवादिना; यतीन्द्रशिष्येण । सौवस्तिकाः ; स्वस्तिवादिनः पुरोहिताः । हिरण्यासुरपुरोहिता इव; ते हि प्रह्लादाय त्रिवर्गमार्गमेवोपदिदिशुः । कबन्धमीमांसकाः ;
निरीश्वरमीमासकाः, निरस्ताः । अथापि सोपपत्तिकं सयुक्तिकं समर्थयन् स्वामिनो महामोहस्य कार्य साधयामि । स्थाने; युक्तम् । समारम्भः ; उद्योगः । युक्ततामेवोप-
X३३७
पादयति-यदिति । नास्तिक्यसंवर्धकानां निरीश्वरधुरन्धराणां निरीश्वर- मीमांसकाना नासीरविजयपताका महामोहसेनाग्रस्थिता विजयसूचिका पताका निरीश्वरमीमांसा समालम्ब्यत इति युक्तं भवतीति सम्बन्धः । अथ सोपपत्तिकं विरक्तिविप्रलम्भप्रकारमाह– अल्पमिति । आनन्दम् ; स्वर्गादिसुखम् इच्छतः । अनन्त स्थिर कामस्य ; निरतिशयानन्दमोक्ष कामस्य । कीदृशी विरक्तिः ; विरक्ति- दूरतो निरस्तेत्यर्थः ॥ २ ॥
प्रभाविलासः - २
अहं पुनर्माया सहस्रवेदीत्यादि । मैथिल्यादीना रत्यभावेऽपि
रावणादिरतेरनौचित्यप्रवृत्तत्वाद्रसाभासः । तदुक्तं काव्यप्रकाशे-
तदाभासा अनौचित्यप्रवर्तिताः " इति । सौवस्तिकाः स्वस्तिवाचकाः ।
अल्पमिति । अत्र भिन्नानामपि पदानामेकपदवत् पाठसमये प्रतिभानात् श्लेषो नाम गुणः । " मसृणश्लिष्टपदता श्लेष इत्यभिधीयते " इति लक्षणात् ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
अपि च,
स्वस्यावाप्तिः सुखम् इति मृषा, स्वेतरस्यानुभूतौ
कामाद् अन्यः क इव घटते मोक्ष-नामा पुमर्थः ।
तस्माद् अस्मद्–बहु-मत–निरध्यक्ष-मीमांसकोक्त्या
स्वेच्छा-नृत्यद्–बहु-गुण–निधिः स्वर्ग एवापवर्गः ॥ ३ ॥+++(4)+++
English
- It is mistaken to aver that beatitude is Self-realisation (स्वस्वरूपस्य नित्यप्राप्तत्वेन उपायोपदेश-वैयर्थ्यात् सुखरूपत्वादर्शनाच्च.); but if beatitude be one intercoursing with another, then what else but Kāma (Atheism and Hedonism. ) can best constitute what is called beatitude (Moksha), coveted by one and all? Beatitude therefore can be no other than Svarga, the seat of all (carnal) enjoyments at will, and this view is supported by the authority of our betters, the Nirisvara Mimamsakas (Godless philosophers).
मूलम् - ३
अपि च,
स्वस्यावाप्तिः10 सुखमिति मृषा स्वेतरस्यानुभूतौ
कामादन्यः क इव घटते मोक्षनामा पुमर्थः ।
तस्मादस्मद्बहुमतनिरध्यक्ष मीमांसकोक्त्या
स्वेच्छानृत्यद्बहुगुणनिधिः स्वर्ग एवापवर्गः ॥ ३ ॥
प्रभावली - ३
एवं विरक्त्यभावं प्रतिपाद्य स्वर्गापवर्गयोर्गुणदोषौ दर्शयितु रागः प्रथम- मपवर्ग विकल्प्य दूषयति-स्वस्येति । सुखमिति चेत्तन्मृषा । स्वेतर -
X३३८
स्यानुभूतौ मोक्षत्वेनाङ्गीक्रियमाणायां तदा कामादन्यः मोक्षपुरुषार्थः को वा सिध्येत् ? अयं भावः - कोऽयमपवर्गो नाम ? स्वस्यावाप्तिर्वा ? स्वेतरस्य वा ? नाद्यः, स्वस्य नित्यप्राप्तत्वेनोपायोपदेशवैयर्थ्यात् । न द्वितीयः, नामा- न्तरेण कामपुरुषार्थस्यैव स्वीकारादिति । अपवर्गमेवं दूषयित्वा स्वर्गमभि- क्षैति — तस्मादिति । अस्माकं बहुमता ये निरीश्वरमीमांसकाः, तदुक्तप्रकारेण स्वेच्छानृत्यद्बहुगुणनिधिः अभिलाषोपनीतदुःखासम्भिन्नत्वादिबहुगुणानां निधानं स्वर्ग एव मोक्षः ; नान्यः ॥ ३ ॥
प्रभाविलासः - ३
कैवल्यस्यापुरुषार्थत्वमाह - स्वस्येति । स्वस्वरूपस्य नित्यप्राप्तत्वेन सुखरूपत्वादर्शनादिति भावः । स्वेतरस्य ; ब्रह्मणः । अनुभूतौ ; अनुभूतेः
सुखत्वे । निरध्यक्षाः ; निरीश्वराः । स्वेच्छया स्वसङ्कल्पेन नृत्यन्तः निष्पाद्यमानाः बहुगुणाः स्रकूचन्दनादयः तेषां निधिः । अत्रोत्तरोत्तर- वाक्यार्थं प्रति पूर्वपूर्ववाक्यार्थस्य हेतुत्वात् वाक्यार्थहेतुकं काव्यलिङ्गमलं- कारः, " हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् " इति लक्षणात् ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
द्वेषः - किम् उच्यते ?
अयं पुनर्
महा-मोह-तन्त्र–पार-दृश्वभिः परमार्थोपदेश-देशिकैः
सावधान-निपुण-निरूपितः
सम्प्रदाय-परम्परा-समधिगतोऽर्थः-
प्रपञ्च-कृत-कञ्चुकं यदि परं +++(चिद्-अचिद्-विशिष्टम् ब्रह्म)+++ महः प्राप्यते
न दुःखम् अपहस्तितं+++(=विह्वलितं)+++ भवति +++(चिद्-अचिद्-)+++नैकधोपप्लवात् ।
अथैकम् अखिलोज्झितं +++(निर्विशेषम् ब्रह्म -विशेषशून्यतयैव)+++ न खलु भोग्यताम् एति तत्
ततो निगम-मस्तकैर् निगद-मात्र-शेषैः +++(तत्त्व-शून्यैः)+++ स्थितम् ॥ ४ ॥
English
Dvesha. Indeed! It is this that is accepted to be the final decision, arrived at after a careful study of the traditions of Mahāmōha, by savants well-versed in Mahāmōha’s lore*.
[[172]]
1. Misery is expelled not,
if beatitude be the attainment of Glory (Brahman) conjoin-ed again with mind (soul) and matter (non-soul).
But if beatitude be the attainment of Glory (Brahman),
denuded of all this,
then it is no joy at all.
And then the Vedic conclusion
becometh but a mere verbal expression."
(1. The attainment of a Brahman with attributes, mind and matter (the body of God) must still give one the continuance of worldly experiences, for according to the Visishtadvaita doctrine, God is never separable from the cosmos, for it is His ever-united body.
2. An attributeless Brahman is only non-existent like the hare’s horn. )
मूलम् - ४
द्वेषः - किमुच्यते ? अयं पुनर्महामोहतन्त्रपारदृश्वभिः परमार्थोपदेशदेशिकैः11 सावधान12 निपुणनिरूपितः सम्प्रदाय परम्परासमधिगतोऽर्थः-
प्रपञ्चकृतकञ्चुकं यदि परं महः प्राप्यते
न दुःखमपहस्तितं भवति नैकधोपप्लवात् ।
अथैकमखिलोज्झितं न खलु भोग्यतामेति तत्
ततो निगममस्तकैर्निगदमात्रशेषैः स्थितम् ॥ ४ ॥
प्रभावली - ४
त्वदुक्तोऽर्थ एव निरीश्वरमीमासारहस्यार्थ इत्याह- अयं पुनरिति । महामोहतन्त्रम् ; निरीश्वरमीमासा । पुनरप्यपवर्गस्य प्राप्यनिरूपणपूर्व दोषं दर्शयन् तत्प्रतिपाढिकानामुपनिषदां पाठमात्रेणैवाध्ययनविधिशेषत्वमित्याह-
X३३९
प्रपचेति । प्रपचैः चिदचित्प्रपञ्चैः कृतं कञ्चुकं शरीरं यस्य तत् परं महः परं ब्रह्म मोक्षदशायां यदि लभ्यते,
तदा दुःखं सांसारिकम् अपहस्तितं न भवति; अपहस्तो विह्वलः, अपहस्तता प्राप्तमपहस्तितं निरस्तं न भवतीत्यर्थः । कुतः ?
नैकधोपलवात् प्राप्यस्य चिद्-अचिद्-गतानन्तापुरुषार्थ-विशिष्टत्व-रूपोपद्रवात् ।
अथ यद्वा अखिलोज्झितं निर्विशेषम् एकं चिन्मात्रं ब्रह्मैव प्राप्यते चेत्,
तद्-भोग्यतां नैति;
तत् प्राप्यं न स्यादित्यर्थः ।
ततः निगम-मस्तकैः वेदान्तैः पाठमात्रशेषैः स्थितं स्यात् । अयमर्थः -
चिदचिद्-विशिष्टं ब्रह्म प्राप्यम् ?
उत निर्विशेषं वा ?
नाद्यः प्राप्य-विशेषणयोः चिदचितोर् अपुरुषार्थतया दुःखितया च
तद्-अविनाभूतस्य विशेष्यस्य ब्रह्मणोऽपि
तत्प्रसङ्गात् ।
न द्वितीयः, अखिलविशेषशून्यस्य वस्तुनो निष्प्रमाणत्वेन शशविषाणायमानस्याभोग्यत्वात् । अतस्तत्प्रतिपादिकानामुपनिषदां पाठमात्र- पर्यवसायित्वमिति ॥ ४ ॥+++(5)+++
X३४०
प्रभाविलासः - ४
परब्रह्मानुभवो मोक्ष इति वदन् वादी प्रष्टव्यः - किं सविशेषम्, उत निर्विशेषं ब्रह्म प्राप्यत इति । इत्थं विकल्प्य न तावदाद्य इत्याह-
प्रपश्चेति । अपहस्तितम् ; हस्तादपनीतम्, निवर्तितमिति यावत् । न दुःखमिति; हेयरूपप्रपञ्चविशिष्टब्रह्मप्राप्तेर्हेयत्वादित्यर्थः ।
न चानन्दादि - विशिष्टमेव ब्रह्म प्राप्यते, नान्यद् इति वाच्यम्;
सूक्ष्म-चिदचिद्विशिष्टस्य कारणतया तस्यैव “कारणं तु ध्येयः " इति ध्येयत्वेन यथोपासनं फलम् इति
हेय-विशिष्टत्वस्यावर्जनीयत्वाद् इति भावः ।
अनेन साक्षाद् ब्रह्मैव नित्यसंसारि अज्ञम् इत्यादि वदद्भिर् अभ्युपगत-ब्रह्म-प्राप्तेर् दुःख-रूपतायां किमु वक्तव्यं भवति
नापि द्वितीय इत्य् आह– अथैकम् इति ।
निगदः ; कण्ठपाठः । निगदमात्रशेषैः; पाठमात्रशेषैः, न तु विवक्षितार्थैः । स्थितम् अलम् । प्रत्युत तद्गुणैरेव विरुद्धकार्योत्पत्तेर्विषमालङ्कारः ।
‘विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना वा स्याद्विषमालङ्कृतिर्मता ॥ "
इति लक्षणात् ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
रागः - सखे, साधु भाषितम् ।
नूनम् ईदृशेन’13 वचसा
‘दव-दहन-दन्दह्यमान–तरु-शिखर-कुलाय-कुहर-निष्क्रान्ता विहग-पङ्क्तिर् इव14
विष्णु-भक्तिर् अपसर्पति।
अद्य खल्व् अनादि–भोग-वासना-जाल–जटिल-बुद्धेर् आत्मनः
कथं नाम निर्विवेको विवेकः
संसार-जिहासां साधयिष्यति ?
प्रत्युत दिव्य-भौम-युवति-गुणापह्नव-कुतूहली तद्-गुणैर् एव निबिडं निबध्यते ।+++(5)+++
पश्य तावद् अमृतोद्भवास् त्रैलोक्य-ललाम+++(=आभरण)+++-भूताः पद्म-लोचनाः ।
यासाम्,
स्मेरेण स्तन-कुड्मलेन भुजयोर् मध्यं तिरोधित्सितं
नेत्रेण श्रवणं लिलङ्घयिषितं नीलोत्पल-श्री-मुषा ।
अङ्गं सर्वम् अलञ्चिकीर्षितम् अहो भावैः स्मराचार्यकैस्
तन्वीनां विजिगीषितं च वयसा धन्येन मन्ये जगत् ॥ ५ ॥
English
Raga. Well spoken, friend! Like the exodus of the swarm of birds from their nests in the hollow of a branch of a tree, burning with wild fire, surely this utterance of thine will drive Vishnu bhakti to a distance. How now is this stupid Vivēka going to create for Jiva a diversion from Samsara,-Jiva whose mind is blinded by his eagerness for enjoyment eternal? The [[173]] more that Viveka becometh anxious to condemn the graces par excellence of damsels, celestial and mundane, the more shall he be bound firm by those ropes’, (damsels). Just view the nectar-born, lotus-eyed, damsels,the ornaments of Svarga.
- Their bosom is beseiged by their everexpanding bud-like breasts; their eyes, stealing the loveliness of blue lotuses, long to tresspass on their ears; Hallo! possessed is their entire frame by emotions whose preceptor is Cupid (himself)! Methinks the whole universe is designed vanquished by the lovely seductive youth of slenderwaisted damsels !
मूलम् - ५
रागः - सखे, साधु भाषितम् । नूनमीदृशेन’13 वचसा ‘दवदह15 नदन्दह्यमानतरुशिखरकुलायकुहरनिष्क्रान्ता विहगपङ्क्तिरिव14 विष्णुभक्तिरपसर्पति। अद्य खल्वनादिभोगवासनाजालजटिलबुद्धेरात्मनः कथं नाम निर्विवेको विवेकः संसारजिहासां साधयिष्यति ? प्रत्युत दिव्यभौमयुवतिगुणापह्नवकुतूहली तद्गुणैरेव निविडं निबध्यते16 । पश्य तावदमृतोद्भवास्त्रैलोक्यललामभूताः17 ’ पद्मलोचनाः ।
यासाम्,
"”
स्मेरेण स्तनकुड्मलेन18 भुजयोर्मध्यं तिरोधित्सितं
नेत्रेण श्रवणं लिलङ्घयिषितं नीलोत्पलश्रीमुषा ।
अङ्गं सर्वमलञ्चिकीर्षितमहो भावैः स्मराचार्यकै-
स्तन्वीनां विजिगीषितं च वयसा धन्येन मन्ये जगत्19 ॥ ५ ॥
प्रभावली - ५
कुलायम्; नीडम्, तस्य कुहरम् ; गर्भः । विष्णुभक्तेरपसर्पणे विवेकोद्योगो भग्नो भविष्यतीत्याह - अथ खल्विति । अद्य ; विष्णुभक्तेरपसर्पणकाले । भोगः शब्दाद्यनुभवः, तस्य वासनाजालेन जटिला जटासादृश्यं प्राप्ता, निबिडबद्धेत्यर्थः ; तादृशी बुद्धिर्यस्य । निर्विवेकः ; बुद्धिशून्यः । संसारजिहासाम् ; संसारे विरक्तिमित्यर्थः । प्रत्युत तद्विपरीतं भौमा दिव्याश्च या युवतयः, तासां गुणमपह्नोतुकामः प्रसङ्गात् तद्गुणैरेव निबध्यते पुरुषः । अथ दिव्ययुवतिगुणान् वक्तुमुपक्रमते - पश्य तावदित्यादि । पद्मलोचनाः ; युवतयः । तद्गुणानाह–यासामित्यादिना । स्मेरेण; विकसता । तिरोधि -
X३४१
त्सितम् ; तिरोधातुमिष्टम्, तिरोहितमिति यावत् । श्रवणं श्रोत्रं लङ्घयितु- मीष्टम् । अलञ्चिकीर्षितम् ; अलङ्कर्तुमीप्सितम् ; अलङ्कृतमित्यर्थः । स्मरः
X३४२
आचार्यो येषां तैः । भावैः; शृङ्गारचेष्टाभिः । धन्येन श्लाघ्येन यौवनेन वयसा जगत् विजिगीषितं विजेतुमिष्टं मन्ये ॥ ५ ॥
प्रभाविलासः - ५
बाल्ययौवनसन्धिमभिसन्धायाह – स्मेरेणेति । अत्र स्मेरेणेति पुष्प- धर्मेण विकासेन बाधितमुख्यार्थेनोच्छूनत्वसम्बन्धात् पृथुलत्वं लक्ष्यते । तेन सम्भोगक्षमत्वं व्यङ्ग्यम् । स्तनकुड्मलेनेत्युपमालङ्कारेण काठिन्यं व्यज्यते । तिरोधित्सितमिति । इच्छारूपेण पुरुषधर्मेण कार्यकारणभावसम्बन्धात् व्यापकत्वम् । तेनोत्तुङ्गत्वं निरवकाशत्वं च व्यङ्ग्यम् । लिलङ्घयिषित- मिति । उक्तसम्बन्धादिना अतिदीर्घत्वाविश्रान्तत्वचञ्चलत्वानि लक्ष्याणि । तेन पुरुषवागुरत्वं व्यङ्ग्यम् । नीलोत्पलश्रीमुषेत्युपमालङ्कारेण मदनविस्त्र- म्भशरता व्यज्यते । मुषेति सर्वस्वहरणकथनेनोत्पलादप्यधिकशोभाकरत्वं व्यज्यते । अलञ्चिकीर्षितम् ; अलङ्कर्तुमिष्टम् । तेन भूषणाधारणेऽप्यतिरम्यत्वं व्यज्यते । भावैरिति हावहेलादीनामुपलक्षणम् । स्मराचार्य कैरिति ; अनायास शिक्षणं व्यङ्ग्यम् । तन्वीनामिति ; कृशतानिबन्धनं सौकुमार्य व्यज्यते । विजिगीषित मित्यप्राप्तरूपत्वं व्यज्यते । अन्यथा विजितमिति स्यात् । वयसेति; बाल्ययौवनसन्धिकालो लक्ष्यते । धन्येनेति ; सम- भिव्याहारात् रागिजनस्पृहणीयत्वं धन्यपदव्यञ्जितम् । ततो निबिडं निबध्यत
इति भावः । यद्वा यतो भुजमध्यादिकं तिरोधित्साविषयं ततो धन्येन वयसा जगद्विजिगीषतमिति । अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्य नाम गुणः, " अग्रे लीला पृथग्भक्तिः पदानां माधुरी मता" इति लक्षणात् ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
तिष्ठतु तावद् अभिनव-यौवन-विजृम्भणम्20 ।
परामृश्यतां पुनर् विभ्रमावेशः ।
अभिनयति यथार्थान् भ्रू-पताका पुम्-अर्थान्
गतिरपि गतिमन्यां मन्यते21 गर्हणीयाम् ।
मदकलुषितमन्तर्मन्मथाद्वैतगर्भा
मुपनिषदमधीते लोचनं लोलतारम् ॥ ६ ॥
मूलम् - ६
तिष्ठतु तावदभिनवयौवनविजृम्भणम्20 । परामृश्यतां पुनर्विभ्रमावेशः ।
अभिनयति यथार्थान्22 भ्रूपताका पुमर्थान्
गतिरपि गतिमन्यां मन्यते21 गर्हणीयाम् ।
मदकलुषितमन्तर्मन्मथाद्वैतगर्भा
मुपनिषदमधीते लोचनं लोलतारम् ॥ ६ ॥
प्रभावली - ६
परामृश्यताम् ; विचार्यताम् । अभिनयतीति । यासामित्यनुवर्तते । भ्रूपताका विभ्रमविशिष्टा भ्रूः । यथार्थान् पुरुषार्थान; कामपुरुषार्थ एव परमपुरुषार्थः, न धर्मादिरिति भावः । अभिनयति ; सूचयति । तासां गतिः ;
X३४३
मन्दगमनम् । अन्यां गतिं स्वव्यतिरिक्ता स्वर्गादिगतिं गर्हणीयां मन्यते । अन्तः मदेन सञ्जातकल्मषं लोलतारं लोचनं तु मन्मथाद्वैतगर्भाम; मन्मथ एव जगति वीरः, नान्य इतीदं मन्मथाद्वैतम् ; तद्गर्भे यस्याः ताम् उपनिषदं कामागमरहस्यं प्रकाशयतीति ॥ ६ ॥
प्रभाविलासः - ६
अभिनयतीति । भ्रूपताका; वेणुपत्राकारा भ्रुवोर्मध्यस्थिता रेखा लक्ष्यत इति तद्विदः । यद्वा भ्रुवावेव पताका, मकराकृतिर्मकरध्वजः । सा पुरुषार्थान् यथार्थान् अभिनयति ; कामपुरुषार्थ एक एवाबाधितः पुरुषार्थ इति ज्ञापयतीत्यर्थः ।
‘अभिपूर्वस्तु नयतिराभिमुख्यार्थनिर्णये ।
यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥
इत्युक्तत्वात् । गतिः; सविलासगमनम् । न केवलं काम पुरुषार्थ एव पुरु-
पार्थान्तरं गर्हते, किन्तु गतिरपीत्यपेरर्थः । अन्यां गतिम् ; अचिरा- दिकाम् । मदेति तारुण्यमदोक्तिः,
“अव्यक्ता सङ्गतिर्वाक्ये रोमाञ्चनिचयस्तनौ ।
सुकुमारस्खलद्गत्याभिनयेत्तारुणं मदम् ॥ "
इति लक्षणात् । तेन कलुषितम् । मन्मथ एवाद्वैतम् ; अद्वितीयं ब्रह्म; तत् गर्भे यस्यास्ताम् । उपनिषदमधीत इति मदन एव दैवतमिति ज्ञापयतीत्यर्थः । अत्रोपनिषत्पदेन " कामस्तदग्रे समवर्तताधि" इत्येतत् व्यज्यते । लोलतारमिति ; चलचञ्चरीकगर्भतामरससाम्यं व्यज्यते ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
द्वेषः - ( सहर्षा मर्षम् ) सखे, विश्वपुरुषार्थविशेषविद्भिः23 स्वन्मतप्रतिष्ठापकैः24 कामकामैरेभिः25 कक्षीकृतं महानन्दलक्षणं
मोक्षतया महर्षिविशेषभाषितं पुरन्दरपुरीभुजिष्याभोगमवधूय विप- चितामपि क इवायं विप्रतिषिद्धवादः ?
सर्वाधारः कथं भूयात्सर्वदोषविवर्जितः ।
तथैव26 सर्वकामार्थी निरपेक्षः कथं प्रभुः ॥ ७ ॥
मूलम् - ७
द्वेषः - ( सहर्षा मर्षम् ) सखे, विश्वपुरुषार्थविशेषविद्भिः23 स्वन्मतप्रतिष्ठापकैः24 कामकामैरेभिः25 कक्षीकृतं महानन्दलक्षणं
मोक्षतया महर्षिविशेषभाषितं पुरन्दरपुरीभुजिष्याभोगमवधूय विप- चितामपि क इवायं विप्रतिषिद्धवादः ?
सर्वाधारः कथं भूयात्सर्वदोषविवर्जितः ।
तथैव26 सर्वकामार्थी निरपेक्षः कथं प्रभुः ॥ ७ ॥
प्रभावली - ७
सहर्षामर्षम् ; एतद्वाक्यश्रवणात् हर्षः ; एतद्विपरीतार्थवादिनो विचिन्त्यामर्षः । विश्वेति ; समस्तपुरुषार्थविशेषविद्भिः । कामकामैः ; निरीश्वरवादिभिः ।
X३४४
स्वीकृतम्, पुरुषार्थतयेति शेषः । निरतिशयानन्दं मोक्षतया महर्षिविशेषैः वात्स्यायनादिभिः भाषितम् । पुरन्दर भुजिष्याः दास्यः, अप्सरसः । विपश्चि- तामपि विदुषा च को वायं विपरीतप्रलाप इत्यर्थः । सर्वेति पुनरपि ब्रह्मणः प्राप्यत्वं दूषयति । सर्वेषां चिदचिताम् आधारः पुरुषः कथं सर्वदोषैः विवर्जितो भवेत् ! चिदचिद्दोषस्यावश्यं भावात् । सर्वकामार्थी; सर्वकामाः गोपिका षोडशसहस्रमहिषीसम्भोगादयः, तदर्थी; कथं निरपेक्षः प्रभुः स्यात् ? सापेक्षस्यापूर्णस्य कथं प्राप्यत्वमिति भावः ॥ ७ ॥
प्रभाविलासः - ७
महर्षिविशेषभाषितमिति महर्षयः वात्स्यायननन्दीश्वरघोणिका-
" तत्र
पुत्रादयः । ते हि कामशास्त्रं प्रवर्तयामासुः । तदुक्तं रतिरहस्ये प्रथमं नन्दीश्वरघोणीपुत्रयोर्मतं27 सङ्ग्रहीष्यामः, परतो वात्स्यायनीयम् " इति । भुजिष्याः; वेश्याः " वेश्या दास्यो भुजिष्याः स्त्रियः " इति निघण्टुः । सर्वाधार इति । अत्र “ एष सेतुर्विधरणः " इति श्रुत्यर्थोऽभिप्रेतः । सर्व-
कामार्थीति ; " बहु स्यां प्रजायेय " इति श्रुत्यर्थोऽभिप्रेतः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
रागः - सखे, न28 चैतावदेव ;
मधुभरितहेमकुम्भीमधुरिमधुयौं पयोधरौ सुदृशाम् ।
पिशितमिति भावयन्तः पिशाचकल्पाः प्रलोभयन्ति जडान् ॥ ८॥
मूलम् - ८
रागः - सखे, न28 चैतावदेव ;
मधुभरितहेमकुम्भीमधुरिमधुयौं पयोधरौ सुदृशाम् ।
पिशितमिति भावयन्तः पिशाचकल्पाः प्रलोभयन्ति जडान् ॥ ८॥
प्रभावली - ८
एतावत् ; भोगस्य पुरुषार्थत्वाकथनमात्रं न भवति ; कि तु पुरुषार्थमपि दूषयन्तीत्याह-मध्विति । मधुना पूर्णा या हेमकलशी, तस्याः भोग्यत्वधुर्यौ,
तत्सदृश भोग्यावित्यर्थः, पयोधरौ पिशितं मांसपिण्डं भावयन्तः, अत एव पिशाचसदृशाः जडान अज्ञान् प्रलोभयन्ति वञ्चयन्ति । प्रौढास्तु तद्वघो नाङ्गीकुर्वन्तीति भावः ॥ ८ ॥
प्रभाविलासः - ८
मध्विति । मधुभरितेत्यान्तरहेयराहित्योक्तिः । हेमकुम्भीति दर्श
नीयतोक्तिः । तेनापातरमणीयता व्यावृत्ता । एतच्च पुरन्दरभुजिष्यासु सम्भावनयोक्तम् । प्रसिद्धं हि रम्भायाः स्वोदर विदलनेन शुकायान्तरहेय- राहित्यज्ञापनम् । मधुरिमधुर्यौ; माधुर्यधारिणौ तत्तुल्यावित्यर्थः । पिशि- तम् ; मांसम् । पिशाचकल्पा इति शुकादिप्रतीतिर्व्यज्यते ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
( विष्कम्भः)
(आकाशे)
किं बूथ किं न तथेति29 ; अहह,
पयसो नैर्मल्यम् ?
कथमन्धानामभिलप्यते
द्वेषः - अहो महानयमध्यात्माभिनिवेशो विवेकपरतन्त्राणां वेतालानाम् । अथवा युक्तमेवैतत् । न खलु बधिराणां कुतूहलमा- तनोति कोकिलालापः । तिष्ठन्त्वेते । सखे, विवेक एव तावज्जे-
तव्यः । यतः ;
X३४५
विवेकविजयादेव विद्वत्परिषदो जयः ।
उपघ्नतरुविच्छेदे न किमुच्छिद्यते30 लता ॥ ९ ॥
मूलम् - ९
( विष्कम्भः)
(आकाशे)
किं बूथ किं न तथेति29 ; अहह,
पयसो नैर्मल्यम् ?
कथमन्धानामभिलप्यते
द्वेषः - अहो महानयमध्यात्माभिनिवेशो विवेकपरतन्त्राणां वेतालानाम् । अथवा युक्तमेवैतत् । न खलु बधिराणां कुतूहलमा- तनोति कोकिलालापः । तिष्ठन्त्वेते । सखे, विवेक एव तावज्जे-
तव्यः । यतः ;
X३४५
विवेकविजयादेव विद्वत्परिषदो जयः ।
उपघ्नतरुविच्छेदे न किमुच्छिद्यते30 लता ॥ ९ ॥
प्रभावली - ९
केषाचिद्वचनं श्रुतं नाटयति रागः - किं ब्रूथेति । किं न तथा ;
। अस्माभिरुक्तप्रकारं न भवति किम् । अहहेत्याश्चर्ये । राग आह—अन्धा - नामिति । सहस्रश उक्तेऽपि न तथेति वदतां केनापि परिहारो वक्तुं न शक्यत इत्यस्मिन्नर्थे दृष्टान्तमाह—अन्धानामिति । जात्यन्धाना पयसो नैर्मल्यं कथमभिलप्यते, वक्तुं शक्यत इत्यर्थः । अध्यात्माभिनिवेशः ; अध्यात्ममार्गे आग्रहः । विवेकानुयायिना पिशाचानामध्यात्माभिनिवेशो युक्त इत्याह- अथवेति ; अस्मन्मताज्ञत्वादिति भावः । अस्मन्मतं विवेकिनां न रोचत इत्यत्र दृष्टान्तमाह–न खल्विति । तिष्ठन्त्वेते ; विवेकपरतन्त्रा इति
X३४६
भावः । तत्र हेतुमाह — यत इति । मूलभूतविवेकविजयात् तदाश्रयाः सर्वे जिता भवन्ति । एतदर्थान्तरन्यासेन द्रढयति - उपन्नेति । उपन्नः ; आश्रयः ॥ ९ ॥
प्रभाविलासः - ९
आकाशवचनरूपमुपसन्धिमाह — किं ब्रूथेति । विवेकेति । उपन्न- तरुः अवलम्बनवृक्षः । लतेति ; विद्विट्परिषदोऽतिदौर्बल्यं व्यज्यते ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
रागः - साधु विचिन्तितम् ।
द्वेषः - (सोचैर्हासम् )31
’ अनघगुणौघमेकमवधूतसमाभ्यधिकं
स्ववितरणीयसर्वपुरुषार्यमुपास्तिपदम् ।
उपनिषदूषरान्तपरिवर्तनधूसरधी-
र्न खलु विवेक एष32 मयि तिष्ठति साधयिता ॥ १० ॥
मूलम् - १०
रागः - साधु विचिन्तितम् ।
द्वेषः - (सोचैर्हासम् )31
’ अनघगुणौघमेकमवधूतसमाभ्यधिकं
स्ववितरणीयसर्वपुरुषार्यमुपास्तिपदम् ।
उपनिषदूषरान्तपरिवर्तनधूसरधी-
र्न खलु विवेक एष32 मयि तिष्ठति साधयिता ॥ १० ॥
प्रभावली - १०
स्वस्मिन् तिष्ठति विवेकस्योपास्तिपदस्थानाशक्तेः उच्चैर्हासः । अनघेति । अखिल हेयरहितं कल्याणगुणपरिपूर्ण निःसमाभ्यधिकं सर्वपुरुषार्थप्रदं ब्रह्म उपासनाविषयम् उपास्यम् । उपनिषद एवोषरस्थलं तदन्तपरिवर्तनेन लुठनेन
धूसरधीः एष विवेकः मयि द्वेषे तिष्ठति सति पुरुषस्य न खलु साधयिता । विवेकवशादुपास्यवस्तुनिर्णये ससपि द्वेषश्चेन्न तत्परिगृह्णातीति भावः ॥ १० ॥
प्रभाविलासः - १०
अनघेति । अनधगुणेति ; " अपहतपाप्मा ” इति श्रुत्यर्थोऽभि - प्रेतः । एकमिति ; " आसीदेकमेव " इति विवृतम् । अवधूतेति; “न तत्समश्चाभ्यधिकश्च दृश्यते " इति श्रुत्यर्थोऽभिप्रेतः । स्वेन वितरणीयाः प्रदेयाः सर्वपुरुषार्थाः चतुर्वर्गो यस्य तम् । उपास्तिपदम् ; सद्वारकाद्वारक- तया सकलोपासनाकर्मभूतमित्यर्थः । ब्रह्मेति शेषः । उपनिषद एवोषरः ;
हन्त सर्वथा
तेन वेदान्तभागस्य कर्मशेषतया दन्तिभुक्तकपित्थन्यायेन निःसारत्वमुक्तम् । तस्यान्ते परितो वर्तनं लुठनम् । अनेन तद्विचारायासस्य निष्प्रयोजनत्व- मुक्तम् । तेन धूसरा धीर्यस्येति । न केवलमायासफलता, प्रत्युत कर्म- फलहेयत्वादिबुद्धयुत्पादनेन दुषितत्वोक्तिः । अत्र परिवर्तनधूसरपदाभ्यां पशुसाम्यं व्यज्यत इत्युपमालङ्कारध्वनिः, विवेक निन्दा चेति एकव्यञ्जि- तव्यङ्ग्यद्वयध्वनिभेदः । तिष्ठतीति न साधयितेत्यनेन च न तिष्ठति साधयितेति वेदान्तविचारस्य कामादिविजयमूलत्वं ध्वन्यते ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
(नेपथ्ये)
X३४७
कः कोऽत्र भोः ?
उभौ - (कर्ण दत्त्वा सभयसम्भ्रमम् ) आः कष्टम्33 । अतिपतितनरपतिनियोगनिर्वाहौ कथमावां भविष्यावः
विपरिवृत्तमिवास्माकं भागधेयम् । अद्य हि,
अतिक्रम्य दुरुच्छेदामास्माक34 गुणवागुराम् ।
विरक्तिर्विष्णुभक्तिश्च35 विवेकस्थानमृच्छतः ॥ ११ ॥
मूलम् - ११
(नेपथ्ये)
X३४७
कः कोऽत्र भोः ?
उभौ - (कर्ण दत्त्वा सभयसम्भ्रमम् ) आः कष्टम्33 । अतिपतितनरपतिनियोगनिर्वाहौ कथमावां भविष्यावः
विपरिवृत्तमिवास्माकं भागधेयम् । अद्य हि,
अतिक्रम्य दुरुच्छेदामास्माक34 गुणवागुराम् ।
विरक्तिर्विष्णुभक्तिश्च35 विवेकस्थानमृच्छतः ॥ ११ ॥
प्रभावली - ११
अथ अङ्कप्रधानपात्रसूचनाय विवेकागमनं प्रस्तौति नेपथ्य इत्यादिना । कः कोऽत्र भोः ; अत्र को वा त्वं वर्तसे इत्यास्थानमागच्छतः सपत्नीकस्य विवेकस्य नेपथ्येऽन्तर्हितस्य वचनम् । भोः अत्र कः वर्तत इति वाक्यार्थः । कः क इति वीप्साया द्विरुक्तिः । उभौ ; रागद्वेषौ । अतिक्रान्तमहामोहशासननिर्वहणौ । महामोहशासनमकृत्वेत्यर्थः । भविष्यावः ; जीवावः । विपरिवृत्तम् ; परिक्षीणमिति यावत् । भाग्यविपरिवृत्तेर्हेतुं दर्शयति—-
X३४८
अतिक्रम्येति । दुरुच्छेदाम्; अन्यैरुच्छेत्तुमशक्याम् । आस्माकीम् ; त्रिगुण- मयीं वागुरामतिक्रम्य ॥ ११ ॥
प्रभाविलासः - ११
अतिक्रम्येति । ऋच्छतः ; गच्छतः । ऋ गतौ " इति
धातुः ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
स चैष नूनं विरक्तिविष्णुभक्तिभ्यां प्रोत्साहितो देव्या सुमत्या दत्तहस्त इत एवाभिसमेति36 । जितकाशिनश्चामुष्य सन्नि- धाने37 न मन्दभाग्यैरस्माभिः स्थातव्यम् । जीवन्तो हि भद्राणि पश्यन्ति । अस्मदवरजाभ्यामपि कामक्रोधाभ्यामविलम्बितकारि- भ्यामपि विलम्बनीयम् । काले हि सर्वं सम्पद्यते38 । न चानेन व्यव- सायसहायेन दुर्जयः कश्चित् । एवं च नूनमापत्स्यते राजकृत्यम् ।
“धिग्धिग्वासवशम्भलीनयनयोरालोलमालोकितं
धिग्धिङ् ’ मन्मथकार्मुकं39 युधि सदा टङ्कारसाडम्बरम् ।
( विष्कम्भः)
धिग्धिक्पञ्चमपाठकान40 परभृतान् धिग्धिक्किमन्यैर्जडैः
शृङ्गारागमरङ्गमण्डपनटीं मोहेन्द्रवीरश्रियम् ॥ १२ ॥
मूलम् - १२
स चैष नूनं विरक्तिविष्णुभक्तिभ्यां प्रोत्साहितो देव्या सुमत्या दत्तहस्त इत एवाभिसमेति36 । जितकाशिनश्चामुष्य सन्नि- धाने37 न मन्दभाग्यैरस्माभिः स्थातव्यम् । जीवन्तो हि भद्राणि पश्यन्ति । अस्मदवरजाभ्यामपि कामक्रोधाभ्यामविलम्बितकारि- भ्यामपि विलम्बनीयम् । काले हि सर्वं सम्पद्यते38 । न चानेन व्यव- सायसहायेन दुर्जयः कश्चित् । एवं च नूनमापत्स्यते राजकृत्यम् ।
“धिग्धिग्वासवशम्भलीनयनयोरालोलमालोकितं
धिग्धिङ् ’ मन्मथकार्मुकं39 युधि सदा टङ्कारसाडम्बरम् ।
( विष्कम्भः)
धिग्धिक्पञ्चमपाठकान40 परभृतान् धिग्धिक्किमन्यैर्जडैः
शृङ्गारागमरङ्गमण्डपनटीं मोहेन्द्रवीरश्रियम् ॥ १२ ॥
प्रभावली - १२
अथ रागद्वेषयोर्विचारं दर्शयति— जितकाशिन इत्यादि । जितेन जयेन काशितुं प्रकाशितुं शीलमस्येति जितकाशी जयशीलः । अवरजाभ्याम् ; रागानन्तरं कामो जायते ; द्वेषानन्तरं क्रोधः । अनेन ; विवेकेन दुर्जयः कोऽपि नास्ति । विवेकोऽवश्यं पुरुषं मोक्षयिष्यति । अतोऽस्मद्बलं सर्व
व्यर्थमित्याह – धिग्धिगिति । शम्भली ; वृद्धगणिका । आलोकितं सविलास- वीक्षणं धिक् निन्द्यं जातमित्यर्थः । टङ्कारेण ज्याशब्देन ससम्भ्रमम् । पञ्चम- स्वरपाठकान् परभृतान कोकिलान् । शृङ्गारागमः कामशास्त्रम्, तदेव रङ्गम- ण्डपं तस्य नटीभूतां मोहेन्द्रवीरस्य श्रियं, ‘त्रिवर्गपदवी परं शरणमद्य मोहश्रियः’ इत्युक्तां धिग्धिक् । अन्यैर्जडैः कि प्रयोजनमिति ॥ १२ ॥
प्रभाविलासः - १२
धिगिति । शम्भल्यः; स्त्रियः । हठात् दर्शनमालोकितम् ।
सहसा दर्शनं यत्तदालोकितमुदाहृतम्” इत्युक्तत्वात् ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अद्य हि41 '
निर्जित्य मोहमसुरेन्द्रमिवामरेन्द्रो
बद्धस्य मङ्क्षु पुरुषस्य विमोक्षणेन ।
अश्रूण्यकृत्रिमगिरामभिषङ्गजाता-
न्यानन्दजैर्विपरिवर्तयिता विवेकः ॥ १३ ॥
मूलम् - १३
अद्य हि41 '
निर्जित्य मोहमसुरेन्द्रमिवामरेन्द्रो
बद्धस्य मङ्क्षु पुरुषस्य विमोक्षणेन ।
अश्रूण्यकृत्रिमगिरामभिषङ्गजाता-
न्यानन्दजैर्विपरिवर्तयिता विवेकः ॥ १३ ॥
प्रभावली - १३
कुत एवं निन्द्यत इत्यत्राह - निर्जित्येति । विवेकः अमरेन्द्रः असुरे- न्द्रमिव मक्षु शीघ्रं मोहं निर्जित्य बद्धस्य पुरुषस्य संसारपथात् विमो- क्षणेन अकृत्रिमगिरा वेदवाचाम् अभिषङ्गजातानि अभिषङ्गः कुदृष्टिकृत- परिभवः, तज्जन्यान्यश्रूणि आनन्दजैः अश्रुभिः सदर्थप्रतिपादनद्वारा पुरुषस्य
X३५०
मोक्षणेन जनितैरानन्दाश्रुभिः विपरिवर्तयिता दुःखाश्रूणामानन्दाश्रुभिः विपरिवृत्तिं कारयिता॥ १३ ॥
प्रभाविलासः - १३
पात्रप्रवेशं सूचयति - निर्जित्येति । मङ्क्षु शीघ्रम् । अभिषङ्गः; पराभवः । विपरिवृत्तिः ; विनिमयः । अत्र पुरुषमोचनरूपवस्तु-
गवेषणस्य मोह विजयावधित्वात् तत्पर्यन्तं गर्भसन्धेरनुवृत्तिः सूचिता ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
(इति वदन्तौ निष्क्रान्तौ)
इति शुद्धविष्कम्भः
X३४९
(ततः प्रविशति विवेकः सुमतिश्च )
विवेकः- देवि, समाश्वसिहि समाश्वसिहि । परप्रयुक्तपाट- श्रभयापनोदनेन विरक्तिविष्णुभक्ती त्वत्सकाशं प्रापिते ।
सुमतिः - (दीर्घ निश्वस्य) णाह’, तह वि अज्ज वि किं होज्जत्ति ’ तरलहिअआ किं भणामि ! पञ्चण्णआरिणो खु राअदेसा ओसरं पेक्खति ।
( नाथ, तथापि अद्यापि किं भवेदिति तरलहृदया किं भणामि ? प्रच्छन्नचारिणौ खलु रागद्वेषौ अवसरं प्रतीक्षेते)
विवेकः भीरु, मा ते भूदिह मनोदौर्बल्यम् । किमस्माकमपि सन्निधौ रागद्वेषयोरवकाशः ? अपि च ;
अनुचितपदवीभिश्चिन्तयित्वा प्रयाता-
न्यलमलमतिमात्रैरद्य बाले विषादैः ।
उपनिषदमुदारामुद्वमन्42 कापि लक्ष्ये
शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥ १४ ॥
मूलम् - १४
(इति वदन्तौ निष्क्रान्तौ)
इति शुद्धविष्कम्भः
X३४९
(ततः प्रविशति विवेकः सुमतिश्च )
विवेकः- देवि, समाश्वसिहि समाश्वसिहि । परप्रयुक्तपाट- श्रभयापनोदनेन विरक्तिविष्णुभक्ती त्वत्सकाशं प्रापिते ।
सुमतिः - (दीर्घ निश्वस्य) णाह’, तह वि अज्ज वि किं होज्जत्ति ’ तरलहिअआ किं भणामि ! पञ्चण्णआरिणो खु राअदेसा ओसरं पेक्खति ।
( नाथ, तथापि अद्यापि किं भवेदिति तरलहृदया किं भणामि ? प्रच्छन्नचारिणौ खलु रागद्वेषौ अवसरं प्रतीक्षेते)
विवेकः भीरु, मा ते भूदिह मनोदौर्बल्यम् । किमस्माकमपि सन्निधौ रागद्वेषयोरवकाशः ? अपि च ;
अनुचितपदवीभिश्चिन्तयित्वा प्रयाता-
न्यलमलमतिमात्रैरद्य बाले विषादैः ।
उपनिषदमुदारामुद्वमन्42 कापि लक्ष्ये
शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥ १४ ॥
प्रभावली - १४
इति शुद्धविष्कम्भः
ततः प्रविशतीत्यादि । समाश्वसिहि ; रागद्वेषाभ्यां विरक्तिविष्णु- भक्त्योबेन्दीकरणात् भीता त्वं समाश्वस्ता भव धीरा भव । तत्र हेतु- माह - परेति । परः मोहः, तत्प्रयुक्तौ पाटच्चरौ तस्करौ रागद्वेषौ ताभ्यां विरक्तिविष्णुभक्त्योः यद्भयं तदपनोदनेन प्रापिते; अस्मदीयैरिति शेषः ।
X३५१
दीर्घ निश्वस्य ; इतः परमपि कि भविष्यतीति दुःखात् । णाह; नाथ । तह वि- तथापि । यद्यपि मत्सख्यौ प्रापिते, तथापीत्यर्थः । किं होज्जत्ति- कि भवेदिति । तरलहिअआ— तरलहृदया । कि भणामि । पञ्चण्णआरिणो खु- प्रच्छन्नचारिणौ खलु । राअद्देसा - रागद्वेषात औसर अवसर। पेक्खति — प्रेक्षेते । मनोदौर्बल्यम्; भीतिः । अस्माकमपि सन्निधी लव व सन्निधौ । विवेकसुमत्योः सद्भावे पुरुषे रागद्वे प्रयोरवकाशाभावः a सीभावे
अय्यउत्त-क.
X३५२
कारणान्तरमप्याह — अनुचितेति । अनुचित पदवीभिः ; स्वर्गनरकमार्गैः । प्रया- तानि; पूर्वगतानि यातायातानि । चिन्तयित्वा तेन सञ्जातैः अतिमात्रैः अत्यर्थेर्विषादैरलमलम् । रक्षणस्यावश्यम्भावात् द्विरुक्तिः । कुत इत्यत्राह - उपनिषदमिति । कापि लक्ष्ये; अर्जुने विषये । कापीत्यनेनार्जुने अनास्था ; साधुपरित्राण एवास्थेति सूच्यते । उदाराम्; परमपुरुषार्थलक्षणमोक्षप्रापणीम् । उपनिषदं श्रीगीतोपनिषदम् । उद्वमन् ; स्वयमेवोद्गिरन् । शरणागतरक्षणप्रति ज्ञातुः श्रीकृष्णस्य सत्यप्रतिज्ञत्वात् शरणागतानामस्माक न भीत्यवकाश इति
भावः ॥ १४ ॥
प्रभाविलासः - १४
इति शुद्धविष्कम्भः
अथ गर्भसन्धिः षड्भिरङ्गैः प्रस्तूयते - तत इत्यादिना । अत्र गर्भसन्धिर्नाम मुखसन्धौ स्तोकोद्दिष्टतया लक्ष्यालक्ष्यस्य प्रतिमुखसन्धौ सम्यक् प्रवृत्तस्य तत्रैव पुनर्नष्टस्य पुरुषमोचनरूपबीजस्य पुनरन्वेषणम् । तदुक्तम्- ‘गर्भस्तु दृष्टनष्टस्य बीजस्थान्वेषणं मुहुः इति । स च प्राप्त्याशापताकयोः सम्बन्धादुपपद्यते । तत्र प्राप्त्याशा नाम पुरुषमोचन - रूपफलप्राप्तेरुपायापायशङ्काभ्यामनिर्धारितैकान्त्यम् । तदुक्तम्- " उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः " इति । तच्च " अनुचितपदवीभिः " इत्यादिना दर्शयिष्यते । पताका तु व्यापिनी कथा । अयमर्थः — नाटके
वस्तु द्विविधम् प्रासङ्गिकमाधिकारिकं चेति, " तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः " इत्युक्तत्वात् । आधिकारिकलक्षणं चैवमुक्तम्-
" अधिकारः फलं स्वामी अधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥”
इति । अत्र च विवेक निर्वत्यै पुरुषमोचनरूपं मुख्यं फलम् । एतदिति- वृत्तम् । प्रासङ्गिकलक्षणं तु” प्रासङ्गिकं परार्थं स्यात्स्वार्थो यस्य
" इति । तदपि द्विविधम् — पताकाप्रकरीभेदात् । तदुक्तम्- सानुबन्धा पताका स्यात् प्रकरी च प्रदेशभाक् " इति । तत्र पर -
प्रसङ्गतः
भक्ति कथायाः सर्वत्रानुवृत्तत्वात् सैव पताका निरूपिता । प्रकरी तु शुभाश्रयनिरूपणादिकथेति विशेषः । पताकाया उपक्रमव्याप्तिं दर्शयति- देवि समाश्वसिहीति । अनुचितेति । अनुचितपदवीभिः ; अयोग्यस्वर्ग- नरकादिमार्गैः । प्रयातानि गतागतानि । चिन्तयित्वा अतिमात्रैर्विषादैरलमित्यन्वयः । उदाराम् महतीम्, निःश्रेयसप्रदात्रीं वा । “उदारो दातृमहतोः” इति निघण्टुः । उपनिषदम् ; श्रीगीताम् । कापि ; अर्जुने । उद्गृणन् ; उपदिशन् ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
सुमतिः - (सविषादं संस्कृतमाश्रित्य ) आर्यपुत्र,
सर्गेषु प्रतिसञ्चरेषु बहुशः स्वर्गे तथा दुर्गतौ
जाग्रत्स्वप्नसुषुप्तिमुग्धिमरणावस्थासु दुःस्थासु च ।
दुःख्यन् प्रस्तरवद्भवन् बहुपशुः सुख्यन्नसौं देहभृद्
दग्धादग्धसजीवितद्रुमदशादीनो दरीदृश्यते ॥ १५ ॥
मूलम् - १५
सुमतिः - (सविषादं संस्कृतमाश्रित्य ) आर्यपुत्र,
सर्गेषु प्रतिसञ्चरेषु बहुशः स्वर्गे तथा दुर्गतौ
जाग्रत्स्वप्नसुषुप्तिमुग्धिमरणावस्थासु दुःस्थासु च ।
दुःख्यन् प्रस्तरवद्भवन् बहुपशुः सुख्यन्नसौं देहभृद्
दग्धादग्धसजीवितद्रुमदशादीनो दरीदृश्यते ॥ १५ ॥
प्रभावली - १५
सविषादम् ; पुरुषावस्थानिरूपणात् । संस्कृतमाश्रित्य ; स्त्रीणां संस्कृतभाषाप्रयोगे संस्कृतमाश्रित्य प्रयोक्तव्यमिति सूचनायैवं प्रयोगः । पुरुषस्य
X३५३
।
बहुविधामवस्थां दर्शयति–सर्गेष्विति । असौ देहभृत् सर्गेषु सृष्टिषु प्रतिसञ्चरेषु प्रलयेषु दुर्गतौ नरके जाग्रदाद्यवस्थासु जाग्रत् जाग्रद्दशा, स्वमः अन्तरिन्द्रियमात्र व्यापारदशा, सुषुप्तिः मनसोऽप्युपरतिदशा, मुग्धिर्मूर्च्छा । दुः स्थासु विषमासु । एतास्ववस्थासु नरकादिषु बहुशो दुःख्यन् बहुपशुः पशुसदृशः पराधीनः सुख्यन् स्वर्गाद्यवस्थासु प्रस्तरवत् भवन् प्रलयादिषु पाषाणवत् भवन् दग्धादग्धः अर्धदग्धः सजीवितो यो द्रुमः, तस्य दशा, तया दीनः कृपणः दरीदृश्यते भृशं दृश्यते ॥ १५ ॥
प्रभाविलासः - १५
,
सर्गेष्विति । प्रतिसञ्चरेषु ; प्रलयेषु । दुर्गतौ; नरके । मुग्धिः; मूर्च्छा । बहुपशुः ; पशुसदृशः । अत्र निर्वेद उदित इति भावोदय - ध्वनिः ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
अपि च,
विचित्रजवविश्वकृद्विहतिमारुतप्रेरणा-
विभक्तभवितव्यताविपिनसिन्धुविष्फूर्तिभिः ।
जटालवजिनाविले जवनयौवनास्वादने
जरामरणभीषणे जगति जन्तुरावर्त्यते43 ॥ १६ ॥
मूलम् - १६
अपि च,
विचित्रजवविश्वकृद्विहतिमारुतप्रेरणा-
विभक्तभवितव्यताविपिनसिन्धुविष्फूर्तिभिः ।
जटालवजिनाविले जवनयौवनास्वादने
जरामरणभीषणे जगति जन्तुरावर्त्यते43 ॥ १६ ॥
प्रभावली - १६
जन्तुरस्मिन् जगति सुकृतदुष्कृतकर्मावर्तैर्बस्त्रमीतीत्याह — अपिचेति । विश्वकृत् ईश्वरः, तस्य विहृतिः लीला, सैव मारुतः, स च विचित्रजवो भवति । तस्य प्रेरणया सुकृतदुष्कृतकारिविषया भवितव्यता विभज्यते । भवितव्यता;
X३५४
पुण्यपापरूपा । सैव विपिन सिन्धुः अरण्यनदी, तस्या विष्फूर्तिभिः समृद्धि- भिर्हेतुभिः जटालवृजिनाविले जटालान्यन्योन्यसंयुक्तानि यानि पापानि तैः कलुषिते, जवनं शीघ्रगामि यद्यौवनं “ त्रिचतुराणि दिनानि " इत्युक्तेः, तदेवा- स्वादनं सारांशो यस्मिन् । जरामरणाभ्यां भयङ्करेऽस्मिन् जगति जन्तुरावर्त्यते बम्भ्रम्यते । तस्य कथं निस्तार इति शेषः ॥ १६ ॥
प्रभाविलासः - १६
।
विचित्रेति । विश्वकृत् ईश्वरः । विहृतिः; लीला । विचित्र- जवश्वासौ विश्वकृद्विहृतिमारुतश्च । तस्य प्रेरणया विभक्ता भवितव्यता अवश्यम्भावित्वमेव विपिनसिन्धुः, तस्य विष्फूर्तिभिः प्रवृद्धिभिः ।
जटालेन अन्योन्यानुबद्धेन बृजिनेन पापेन आविले कलुषे । एवं पापभूयस्त्वमुक्तम् । सुखाल्पीयस्त्वमाह - जवनेति । अत्र संसारकुत्सनप्रतीते - र्गर्हणं नाम नाट्यालङ्कारः । " गर्हणं गुणविच्छेदाद् दोषोद्भेदेन कीर्तनम् " इति लक्षणात् ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
विवेकः - (सानुशयम्) देवि, सत्यमिदमितः पूर्वम् । अद्यत्वपुनरावृत्तिवर्तनीमारुरुक्षतः44 पुरुषस्य चिरकालसञ्चितपुण्यसञ्चयपरिणतं विशेषमाकर्णय-
पातत्रासनिरीक्षणप्रशमितस्वर्वासदुर्वासना
पुंसः सम्प्रति शेमुषीं45 निरवधिं पुष्णाति तृष्णां परे ।
अर्थित्वे मतिकश्मलप्रचलितेऽप्येवं46 प्रतिष्ठापिते
सामर्थ्यं च समाधिसीम्नि नियतावस्थं व्यवस्थाप्यते ॥ १७ ॥
मूलम् - १७
विवेकः - (सानुशयम्) देवि, सत्यमिदमितः पूर्वम् । अद्यत्वपुनरावृत्तिवर्तनीमारुरुक्षतः44 पुरुषस्य चिरकालसञ्चितपुण्यसञ्चयपरिणतं विशेषमाकर्णय-
पातत्रासनिरीक्षणप्रशमितस्वर्वासदुर्वासना
पुंसः सम्प्रति शेमुषीं45 निरवधिं पुष्णाति तृष्णां परे ।
अर्थित्वे मतिकश्मलप्रचलितेऽप्येवं46 प्रतिष्ठापिते
सामर्थ्यं च समाधिसीम्नि नियतावस्थं व्यवस्थाप्यते ॥ १७ ॥
प्रभावली - १७
सानुशयम् ; सानुतापम् । इतः पूर्वमिदं सर्वं सत्यम् ; अद्य कश्विद्विशेषो- ऽस्तीत्याह - अद्य खल्विति । अपुनरावृत्तिवर्तनी; मोक्षमार्गः अर्चिरादिः, तामारोदुमिच्छतः पुरुषस्य ; मुमुक्षोरित्यर्थः । चिरकालार्जितपुण्यसञ्चयप्राप्तं विशेषं
X३५५
1
शृणु । विशेषमेव दर्शयति–पातत्रासेति । पुंसः शेमुषी; बुद्धिः । पाते स्वर्गा- त्पतने यस्त्रासः, तस्य निरीक्षणेन प्रशमिता स्वर्गवासे दुर्वासना यस्याः सा सती परे पुरुषे ब्रह्मणि निरवधिकां तृष्णां पुष्णाति । अर्थित्वे ; मोक्षार्थित्वे । मति- कश्मलेन ; बुद्धिमोहेन । प्रचलिते; शिथिलितेऽपि । एवम् पूर्वोक्तपातत्रासनिरीक्ष- णेन । प्रतिष्ठापिते; दादर्थमुपगते सति । समाधिसीनि सामर्थ्य योग्यता । नियता व्यवस्थिता अवस्था यस्मिंस्तद्यथा तथा व्यवस्थाप्यते । एवं च पुरुषस्य मोक्षेऽधिकारस्य सम्पत्तिः सञ्जातेत्यर्थः ॥ १७ ॥
प्रभाविलासः - १७
पातेति । पादं स्पष्टम् । परे; ब्रह्मणि । अर्थित्वे ; मोक्षार्थित्वे ।
स्वर्गसुखाक्षयत्वादिना चञ्चलत्वं प्रापितेऽपि । एवं प्रतिष्ठापिते; पातत्रासनिरीक्षणेन स्थिरीकृते । नियतावस्थमिति ; सति सामर्थ्यं समाधावेवाधिकार इति नियतविषयमित्यर्थः ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
अपि च,
प्रतिक्षिप्तावद्यप्रवरगुणनिर्धारणभ्रुवा
परप्रेम्णा जुष्टो भवभृदधुना भाग्यवशतः । अभिन्नास्वादानाममृतलहरीणामिव घियां
विकल्पं विज्ञाता विधिपवनवैषम्यजनितम् ॥ १८ ॥
मूलम् - १८
अपि च,
प्रतिक्षिप्तावद्यप्रवरगुणनिर्धारणभ्रुवा
परप्रेम्णा जुष्टो भवभृदधुना भाग्यवशतः । अभिन्नास्वादानाममृतलहरीणामिव घियां
विकल्पं विज्ञाता विधिपवनवैषम्यजनितम् ॥ १८ ॥
प्रभावली - १८
अथोपायप्रवृत्तिरपि क्रमेण भविष्यतीत्याह अपिचेति । प्रतीति ।
1
X३५६
अधुना भाग्यवशतः प्रतिक्षिप्तावद्याः हेयसम्बन्धवर्जिता ये प्रवरगुणाः कल्या- णगुणाः तेषा निश्चयेन भवता परमप्रेम्णा प्राप्यरुचिलक्षणेन जुष्टः पुमान् क्रमेण अमृतलहरीणामिव अभिन्नास्वादानां समानानन्दाना धियां विद्याना भक्तीना प्रपत्तीनां च विकल्पं “विकल्पोऽविशिष्टफलत्वात् " इति सूत्रकारोक्तं विज्ञाता ज्ञास्यति ; ज्ञात्वा कुत्रचित् प्रवृत्तो भवति । विकल्पः कुतो ज्ञात इत्यत्राह - विधिपवनेति । विधिशब्देन लिडादिशब्दा उच्यन्ते । विधिरेव पवनः, तस्य वैषम्यं भेदः, तज्जनितं शब्दादिभेदजनितं विद्याभेदं ज्ञास्यतीति । यद्वा भाग्य- भेदजनिता विद्यासु विकल्पेन प्रवृत्ति ज्ञास्यतीत्यर्थः ॥ १८ ॥
प्रभाविलासः - १८
1
प्रतिक्षिप्तेति । प्रतिक्षिप्तावद्यानां हेयविरोधिनां प्रवरगुणानां निर्धारणेन भवतीति तथोक्तः, तेन । परप्रेम्णा परभक्त्या धियां सद्विद्या-
भूमविद्यादीनां विधिपवनवैषम्यजनितं तत्तददृष्टव्यवस्थाकृतम् । यद्वा विधिभेदेन फलभेदरूपवैषम्यापादनेनैकस्मिन् पुरुषे समुच्चयेनाग्निहोत्र- दर्शपूर्णमासज्योतिष्टोमादिवत् अनुष्ठानशङ्कायां परिहारतया निष्पन्नमित्यर्थः । विकल्पम् ; ’ सर्वं वाक्यं सावधारणम्’ इति न्यायेन विकल्पमेव विज्ञाता, न तु समुच्चयमित्यर्थः । तत्रोपपत्तिमाह – अभिन्नास्वादानामिति । एतेन " विकल्पोऽविशिष्टफलत्वात् " इति न्यायः सूचितः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
मतिकश्मलमचलितेऽपि
अयं च परमपुरुषचरणारविन्दमकरन्दमधुकरो बृन्दारकनगं-
रमपि नरकं परं निश्चेष्यति । अत्र च,
भवपथकथारागे भग्ने गतागतचिन्तया
परमपुरुषप्रेप्सालाभे तदद्भुतबोधनात्47 ।
गुणगणभिदासम्भेदाभ्यामुपस्कृतविग्रहे
क्षममिह परं विद्याव विमोहनिवर्तनम् ॥ १९ ॥
मूलम् - १९
मतिकश्मलमचलितेऽपि
अयं च परमपुरुषचरणारविन्दमकरन्दमधुकरो बृन्दारकनगं-
रमपि नरकं परं निश्चेष्यति । अत्र च,
भवपथकथारागे भग्ने गतागतचिन्तया
परमपुरुषप्रेप्सालाभे तदद्भुतबोधनात्47 ।
गुणगणभिदासम्भेदाभ्यामुपस्कृतविग्रहे
क्षममिह परं विद्याव विमोहनिवर्तनम् ॥ १९ ॥
प्रभावली - १९
अथ पुरुषस्य भगवद्विषये प्रेमातिशयं तदितरविषये वैराग्यातिशयं चाह– अयं चेति । परमपुरुष चरणारविन्दमकरन्दे मधुकरो भूत्वा बृन्दारकनगरं स्वर्गमपि परं केवलं नरकं निश्चेष्यति । अथ सम्पन्नं कृत्यमेतावत्, सम्पाद्यमिदमेवेत्याह-
1
X३५७
अत्र चेति । पुरुषस्य गतागतचिन्तया ससारमार्गप्रसङ्गरागे भने तदद्भुतदर्श- नात् तस्येश्वरस्य अद्भुतत्वमुभयलिङ्गत्वादि, तस्य दर्शनात् वेदान्ते तस्य बोध- नातू परमपुरुषप्राप्तीच्छालाभे च सति, गुणगणभिदासं भेदाभ्यां गुणगणाः तत्तद्विद्या साधारणाः आनन्दादयः, तेषामनुपसंहारोपसंहाराभ्यां संस्कृतस्वरूपे विद्याव पर विद्यासमूहे इह परं विमोहनिवर्तनं भ्रान्तिविघटनं क्षम युक्तम् ॥ १९ ॥
प्रभाविलासः - १९
भवपथेति । तदद्भुतबोधनात् ; तस्य ब्रह्मणः सर्वविलक्षणनिरति-
शयानन्दस्वरूपत्वज्ञापनात् । गुणगणपदेन मनोमयत्वप्राणशरीरत्वभारूपत्व- सर्ववशित्वसर्वेशानत्वादय उक्ताः । तेषां भिदा; भेदः । सम्भेदः ; ऐक्यम् । ताभ्याम् उपस्कृतविग्रहे विशिष्टशरीरे । विद्यावर्गे; शाण्डिल्याक्षि- पुरुषविद्यादिसमूहे विमोहनिवर्तनं क्षमं समर्थम् । अयं भावः -
।
- एकामेव शाण्डिल्यविद्यामधिकृत्यामिरहस्ये सत्यसङ्कल्पत्वाकाशात्मत्वादयः श्रुताः । बृहदारण्यके च सर्ववशित्व सर्वेशानत्वादय उक्ताः । मनोमयत्वादयस्तूभयत्रा- बिशेषेणोक्ताः । तत्रैवं सति शाण्डिल्यविद्या किं भिन्ना ? उत अभिन्ना इति संशयः स्यात् । स च सर्ववशित्वादेः सङ्कल्पविततिरूपत्वेनाविरोधं निरूप्य निवर्त्य इति गुणोपसंहारपादे प्रपञ्चितमिति ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
इह च मोहप्रशमनं दिङ्मात्रेणोदाहरामि48
समाना मुक्तिश्वेन्न खलु घटते साधनभिदा
न चेत्स्वर्गन्यायस्तरतमतयान्याभिमतया ।
प्रमाणप्रागल्भ्यप्रणिधिमवधूय प्रलपता-49
मिति क्षीबः क्षोभः स्वमतिविहतेरेव50 निहतः ॥ २० ॥
मूलम् - २०
इह च मोहप्रशमनं दिङ्मात्रेणोदाहरामि48
समाना मुक्तिश्वेन्न खलु घटते साधनभिदा
न चेत्स्वर्गन्यायस्तरतमतयान्याभिमतया ।
प्रमाणप्रागल्भ्यप्रणिधिमवधूय प्रलपता-49
मिति क्षीबः क्षोभः स्वमतिविहतेरेव50 निहतः ॥ २० ॥
प्रभावली - २०
मोहः कीदृशः ? तन्निवर्तनं च कीदृशमित्यत्राह - इह चेति । भ्रान्तिप्रशमं
X३५८
सङ्क्षेपेणोदाहरामि । मोहस्वरूपं दर्शयति पूर्वार्धेन । उत्तरार्धेन तत्परिहारः । विद्यासाध्या मुक्तिरेका अनेका वेति विकल्प्याद्यं दूषयति– समानेति । सर्वाभि- विद्याभिः साध्या मुक्तिः समाना एका चेत् साधनभिदा न घटते; साधनभेदो व्यर्थः स्यात्, एकेन साधनेनैव साध्यसिद्धेः । द्वितीयं दूषयति–न चेत्; अनेका चेत् । अन्याभिहितया पूर्वमीमांसकाभिहितया तरतमतया स्वर्गन्यायः स्यात् । अयमर्थः - यथा अग्निहोत्रदर्शपूर्णमासाद्यनेक साधनसाध्यस्य स्वर्गस्यै- कत्वेऽपि स्वर्गशब्दवाच्यस्य सुखस्य तारतम्यात् अग्निहोत्रदर्शपूर्णमासादिसाधना- नामवैयर्थ्यम्, एवं मुक्तेरपि तारतम्याङ्गीकारेण साधनानेकत्वावैयर्थ्यम् ; तच्चानिष्ट- मिति । अत्र परिहरति — प्रमाणेति । प्रमाणस्य ; " निरञ्जनः परमं साम्यमुपैति " इत्यादेः । प्रागल्भ्यं प्राबल्यं, तस्य प्रणिधिः चिन्तनम् अवधूय प्रमाणप्राबल्यं विस्मृत्येत्यर्थः । यत्किचिज्जल्पताम्, इति एवंरूपेण प्रलापः स्वमतिविहतेः स्वा- ज्ञानादेव बाधितः । अयमाशयः - अग्निहोत्रदर्शपूर्णमासादीनां स्वर्गसाधनभाव- बोधकानामनेकेषां शास्त्राणा वैयर्थ्याभिया स्वर्गे तारतम्यकल्पने बाधाभावः ।
X३५९
अत्र मोक्षतारतम्याङ्गीकारे " निरञ्जनः परमं साम्यमुपैति " इति श्रुतिविरोधप्रसङ्गेन मोक्षतारतम्यं परित्यक्तमिति ॥ २० ॥
प्रभाविलासः - २०
समानेति । समाना; एकरूपा, तारतम्यरहितेति यावत् ।
स्वर्गन्यायः ; स्वर्गतुल्यतेत्यर्थः । अन्याभिमतयाः कर्मकाण्डोक्तया । मुक्तेरेकरूपत्वेऽपि विकल्पेनानेक विद्यासाध्यत्वस्य प्रामाणिकत्वादङ्गीकार इत्याह–प्रमाणेति । वेदान्तविद्या एव विधिभेदं फलैक्यं च विदधति, किं कुर्म इति भावः । प्रणिधिः; सावधानता । अन्येषामपीदमेवाभिमत- मित्याह – स्वमतेति । ज्योतिष्टोमदर्शपूर्णमासविश्वजिदादिसाध्यस्य स्वर्ग- स्यैकस्यैवाङ्गीकारात् । " स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात् " इत्यश्रुत- फलकर्मणामेकरूपफलकत्वस्य न्यायनिर्णयाच्चेति भावः ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
एवमपि51 ये मुह्यन्ति ते मुह्यन्त्येव । न खलु सहस्रैरपि सलिलकुम्भैर्बलिभुजः प्रक्षाल्यमाना वलर्क्षतां प्रतिपद्यन्ते । दुर्वादि- गर्वसर्वस्य निर्वापकैः सर्वज्ञबुद्धिभिर्वर्णितं निर्विशङ्कमखिलमधिगम्य सर्वेश्वरं निर्विशन्ति सन्तः ।
सुमतिः - (सश्लाघम् ) णाह, पडिसण्ठाविअम्हि52 दाणि53 पमाणपण अपेसलेण तुम्ह भासिएण पडिबुद्धजण सम्भावणिज्जे54 पमाणउत्तन्दणिरिक्खणम्मि । समन्महिअदरिदं खु तुह माहप्पम् । ‘एण्हिं55 किल ;
कप्पारम्भ पअण्डतण्डव कलाकीलन्तकालन्दअ-
क्खोहुब्वेलकवद्दसिन्धुलहरी धूअन्त चन्दप्यहम् ।
एक्कैक्कक्खर णिज्ज56 ‘णिन्भरसुहासन्दोहसन्तोसिआ
् अम्मेळन्ति भुअङ्गिआ तुह जसं वेलन्तसेलन्दरे ॥
( नाथ, प्रतिसंस्थापितास्मीदानीं प्रमाणप्रणयपेशलेन युष्मद्भाषितेन प्रतिबुद्धजनसम्भावनीये प्रमाणवृत्तान्तनिरीक्षणे । समाभ्यधिकदरिद्रं खलु तव माहात्म्यम् । इदानीं किल
कल्पारम्भप्रचण्डताण्डवकलाक्रीडत्कालान्तक-
क्षोभोद्वेलकपर्दसिन्धुलहरीधूयमानचन्द्रप्रभम् ।
एकैकाक्षर निर्यन्निर्भरसुधासन्दोहसन्तोषिता
आम्रेडयन्ति मुजङ्गिकास्तव यशो वेलान्तशैलान्तरे ॥)॥ २१ ॥
मूलम् - २१
एवमपि51 ये मुह्यन्ति ते मुह्यन्त्येव । न खलु सहस्रैरपि सलिलकुम्भैर्बलिभुजः प्रक्षाल्यमाना वलर्क्षतां प्रतिपद्यन्ते । दुर्वादि- गर्वसर्वस्य निर्वापकैः सर्वज्ञबुद्धिभिर्वर्णितं निर्विशङ्कमखिलमधिगम्य सर्वेश्वरं निर्विशन्ति सन्तः ।
सुमतिः - (सश्लाघम् ) णाह, पडिसण्ठाविअम्हि52 दाणि53 पमाणपण अपेसलेण तुम्ह भासिएण पडिबुद्धजण सम्भावणिज्जे54 पमाणउत्तन्दणिरिक्खणम्मि । समन्महिअदरिदं खु तुह माहप्पम् । ‘एण्हिं55 किल ;
कप्पारम्भ पअण्डतण्डव कलाकीलन्तकालन्दअ-
क्खोहुब्वेलकवद्दसिन्धुलहरी धूअन्त चन्दप्यहम् ।
एक्कैक्कक्खर णिज्ज56 ‘णिन्भरसुहासन्दोहसन्तोसिआ
् अम्मेळन्ति भुअङ्गिआ तुह जसं वेलन्तसेलन्दरे ॥
( नाथ, प्रतिसंस्थापितास्मीदानीं प्रमाणप्रणयपेशलेन युष्मद्भाषितेन प्रतिबुद्धजनसम्भावनीये प्रमाणवृत्तान्तनिरीक्षणे । समाभ्यधिकदरिद्रं खलु तव माहात्म्यम् । इदानीं किल
कल्पारम्भप्रचण्डताण्डवकलाक्रीडत्कालान्तक-
क्षोभोद्वेलकपर्दसिन्धुलहरीधूयमानचन्द्रप्रभम् ।
एकैकाक्षर निर्यन्निर्भरसुधासन्दोहसन्तोषिता
आम्रेडयन्ति मुजङ्गिकास्तव यशो वेलान्तशैलान्तरे ॥)॥ २१ ॥
प्रभावली - २१
एवमिति । एवं स्थितेऽपि ये मुह्यन्ति मोक्षे तारतम्यं कल्पयन्ति, ते सहस्रशो बाधप्रदर्शनेऽपि स्वभावं न जहतीत्याह-न खल्विति । बलिभुजः ; काकाः । एवमसतां स्वभावमभिधाय सतां स्वभावं दर्शयति-दुर्वादीति । दुर्वादिनां गर्व एव सर्वस्वं तन्निरासकैः सर्वज्ञबुद्धिभिः बोधायनबादरायणनाथादिभिर्वर्णितं मोक्षतारतम्याभावं निर्विशन्ति अनुभवन्ति । श्लाघा ; निर्णयसमर्पक-
X३६०
वचनात् । पडिसण्ठाविअ म्हि — प्रतिसंस्थापितास्मि । दाणिं - इदानीम् । पमाण- पण अपेसलेण— प्रमाणप्रणयपेशलेन; प्रमाणानुगुणेनेत्यर्थः । तुम्ह - तव । भासिएण - भाषितेन । पडिबुद्धजणसम्भावणिज्जे प्रतिबुद्धजनसम्भावनीये । पमाण- उत्तदणिरिक्खणम्मि प्रमाणवृत्तान्त निरीक्षणे ; प्रमाणप्राबल्यनिरूपण इत्यर्थः । समब्भहिअदरिद्द- समाभ्यधिकदरिद्रम् । खु खलु । तुह तव । माहम्पं माहात्म्यम् । for किल. इदानीं किल । तव कीर्तिर्जगत्प्रसिद्धेत्याह — कप्पारम्भेति । कप्पारं - भपअण्डतण्डवकला- कल्पारम्भप्रचण्डताण्डवकला; प्रलयकाले उद्धतनृत्तक्रिया । कीलतकालन्दअ - क्रीडत्कालान्तक । कालान्तको रुद्रः तस्य । क्खोहुव्वेल - क्षोभो- द्वेल । नृत्तक्षोभेणोलः । कवह सिन्धु कपर्दसिन्धु । कपर्दे स्थिता गङ्गा, तस्याः । लहरीधूअन्त चन्द पहं-लहरीधूयमानचन्द्रप्रभम् । धूयमानः कम्पमानः । चन्द्र- सदृशधवलम् । तुह जसं तव यशः । एक्ककक्खर - एकैकाक्षरेभ्यः । णिज्ज -
X३६१
णिन्भरसुहा -निर्यन्निर्भरसुधा, निर्गच्छत्परिपूर्णामृतम् । तस्याः; सन्दोहसन्तो- सिआ - सन्दोहसन्तोषिताः, प्रवाहेण तुष्टाः । भुअङ्गिआ भुजङ्गिकाः भुजङ्गकन्याः । वेलन्तसेलन्तरे-वेलान्तशैलान्तरे ; समुद्रतीरशैलाभ्यन्तरेषु । आमेल्लुन्दि - माम्रेडयन्ति, बहुशो गायन्तीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ २१ ॥
प्रभाविलासः - २१
बलिभुजः; काकाः । कल्पारम्भे ; प्रलयारम्भे । प्रचण्डताण्डवस्य ; इदं च गानश्रवणजनितहर्षातिशयेनेति वेदितव्यम् । कलया व्यापारेण
क्रीडमानस्य कालान्तकस्य शम्भोः क्षोभेणोद्वेलायाः कपर्दसिन्धोः जटाजूटगङ्गायाः लहरीभिः दूयमाना चन्द्रप्रभा यस्मिन् कर्मणि तत् । एकैकाक्षरात् गानेन निर्यत्याः निर्भरसुधायाः सन्दोहेन सन्तोषिताः ; गानमहिम्ना विषस्यैव सुधारूपेण परिणामात् सुधेत्युक्तिः । भुजङ्गिकाः; सर्पस्त्रियः । आम्रेडयन्ति ; बहुधा गायन्तीत्यर्थः । अत्र गानस्य शम्भु -
नाट्यनिमित्तत्वासम्बन्धेऽपि सम्बन्धस्य कविप्रौढोक्तिकल्पनादतिशयोक्तिरलं- कारः । तेन यशसो निरतिशयत्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः । वेलान्तपदेन यशस आचक्रवालव्यापित्वं कालान्तक सिन्धुचन्द्रपदैः शिवादि- तुल्यधावल्यं च व्यज्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
( विद्यामाहात्म्यमनुचिन्त्य सहर्षरोमाञ्चम्57 )
जम्भाअन्तदइचमदणदआसोल्लोअसोत्तस्सिणी-
वीईसी अलसाहु सुद्धसुहआ58 सोहन्ति विज्जा इमा ।
जाणं किं वि भवग्गिदाविअजणो वेत्तूण चिन्ताणिअं
मुत्तिं पेक्खर इत्थमज्झणिहिअं मोहस्मि सन्ते च्चिअ59 ‘॥ (जृम्भमाणदैत्यमर्दनदयास्वर्लोकस्रोतस्विनी-
वीचीशीतलसाधुशुद्धसुभगाः शोभन्ते विद्या इमाः ।
यासां किमपि भवाग्नितापितजनो गृहीत्वा चिन्तानीतां
मुक्ति प्रेक्षते हस्तमध्यनिहितां मोहे सत्येव ॥) ॥ २२ ॥
मूलम् - २२
( विद्यामाहात्म्यमनुचिन्त्य सहर्षरोमाञ्चम्57 )
जम्भाअन्तदइचमदणदआसोल्लोअसोत्तस्सिणी-
वीईसी अलसाहु सुद्धसुहआ58 सोहन्ति विज्जा इमा ।
जाणं किं वि भवग्गिदाविअजणो वेत्तूण चिन्ताणिअं
मुत्तिं पेक्खर इत्थमज्झणिहिअं मोहस्मि सन्ते च्चिअ59 ‘॥ (जृम्भमाणदैत्यमर्दनदयास्वर्लोकस्रोतस्विनी-
वीचीशीतलसाधुशुद्धसुभगाः शोभन्ते विद्या इमाः ।
यासां किमपि भवाग्नितापितजनो गृहीत्वा चिन्तानीतां
मुक्ति प्रेक्षते हस्तमध्यनिहितां मोहे सत्येव ॥) ॥ २२ ॥
प्रभावली - २२
अथ विद्यानां माहात्म्यमनुसंस्मृत्य । जम्भाअन्त - जृम्भमाण । दइश्चमद्द- द- दैत्यमर्दनदया । सोल्लोअसोत्तरिसणी - स्वर्लोकस्रोतस्विनी आकाशगङ्गा, तस्याः । वीईसीअलवीचिव च्छीतल । साहुसुद्ध सुहआ - साधुशुद्धसुभगाः, भृश शुद्धाः सुभगाश्च । सोहन्ति शोभन्ते । विज्जा इमा-विद्या इमाः, सद्विद्या- दयः । जाणं यासां मध्ये । किं वि किमपि किचित् । भवग्गिदाविअजणो-
X३६२
भवाग्नितापितजनः । घेत्तूण - गृहीत्वा । चिताणिअं मुत्तिं पेक्खर - चिन्तानीतां चिन्तयोपनीतां मुक्ति प्रेक्षते । कथं प्रेक्षत इत्यत्राह - हत्थमज्झणिहिअं सुतिं पेक्खर - हस्तमध्यनिहितां करतलगतामिव मुक्तिं मन्यत इत्यर्थः । तच्च कदेत्यत्राह - मोहम्म सन्ते चिअ - मोहे सत्येव । मोहकरे देहेऽस्मिन् सत्येव ।सन्ते सति । चिअ एव इति पदच्छेदः ॥ २२ ॥
प्रभाविलासः - २२
प्रभाविलास
द्वाविंशस्य श्लोकस्य प्रभाविलासव्याख्या नास्ति ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
विवेकः - किमुच्यते ? अवरोपितप्रायः खलु पुरुषस्य चिन्ताभारः । अपिचास्य संसारदोषदर्शन सातत्यसमुत्थितादपि पर- ब्रह्मदिदृक्षासंरम्भजृम्भितं वैराग्यमुपधानीभवति60 । तथा हि -
निषिद्धं विद्यार्थादधिकमपि काम्यं च विजहत्
परप्रीत्यै कर्म प्रतिनियतमादाय मुदितः ।
शुभश्रद्धादुग्धोदधिनवसुधोल्लासललिते
समाधावाधातुं त्वरयति ‘मुनिः61 सम्प्रति मनः ॥ २३ ॥
मूलम् - २३
विवेकः - किमुच्यते ? अवरोपितप्रायः खलु पुरुषस्य चिन्ताभारः । अपिचास्य संसारदोषदर्शन सातत्यसमुत्थितादपि पर- ब्रह्मदिदृक्षासंरम्भजृम्भितं वैराग्यमुपधानीभवति60 । तथा हि -
निषिद्धं विद्यार्थादधिकमपि काम्यं च विजहत्
परप्रीत्यै कर्म प्रतिनियतमादाय मुदितः ।
शुभश्रद्धादुग्धोदधिनवसुधोल्लासललिते
समाधावाधातुं त्वरयति ‘मुनिः61 सम्प्रति मनः ॥ २३ ॥
प्रभावली - २३
अवरोपितप्रायः ; अपनीतसदृशः । चिन्तैव भारः । किञ्चास्य संसार - दोषदर्शनजनितवैराग्यादपि परब्रह्मादिदृक्षया जनितं वैराग्यमवलम्बनं भवती- त्याह — अपिचेत्यादि । संरम्भः ; कुतूहलम् । इदं तु परमवैराग्यमित्युच्यते । उपधानम; उपकारकम् । एतदेवोपपादयति तथाहीत्यादि । निषिद्धम् ; अकृत्यम् । विद्यार्थादधिकम् इतरत् काम्यं च कर्म विजहत् । प्रतिनियतं कर्म
X३६३ "
नित्यं नैमित्तिकं च परमात्मप्रीत्यै स्वीकृत्य कैङ्कर्यरूपेण करणान्मुदितः । एव- मङ्गानुष्ठानवानयं पुरुषः; शुभं शुभाश्रयं तस्मिन् श्रद्धा प्रेमरूपा भक्तिः, सैव दुग्धोदधिः, तस्य नवसुधाया उल्लासवल्ललिते समाधौ निरन्तरध्याने मुनिः मननशीलः मन आधातुं त्वरयति ; मनः प्रेरयतीत्यर्थः । अयमप्यपरो धीविशेषो जात इत्यर्थः ॥ २३ ॥
प्रभाविलासः - २३
सातत्यसमुत्थितादपि ; वैराग्यादिति शेषः । उपधानम् ; उपबर्हः । निषिद्धमिति । निषिद्धम् ; " न राज्ञः प्रतिगृह्णीयात् " " न विरुद्ध- प्रसङ्गेन " इत्यादिशास्त्रनिषिद्धम् । विद्यार्थादधिकम् ;
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।
" शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥”
इत्याद्युक्तविद्योपयोगिदेहधारणातिरिक्तं काम्यं च । प्रतिनियतम् ; नित्य- नैमित्तिकं कर्म । परप्रीत्यै; " मत्कर्मकृन्मत्परमः " इत्युक्तत्वात् । मुदित इति ; " सन्तोषी च भवेत् " इति स्मारितम् । शुभे शुभाश्रये श्रद्धा ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
अपि च–
विलक्षोपक्षिप्तं विषयरसगन्धर्वनगर-
प्रशंसायाथार्थ्यं62 प्रणिदधति चित्तेऽपि तनुभृत् ।
मया दत्ते हस्ते मतिकलुषमुल्लङ्घ्य तरसा
परब्रह्मैकान्ती भवजलनिधिं गोष्पदयति ॥ २४ ॥
मूलम् - २४
अपि च–
विलक्षोपक्षिप्तं विषयरसगन्धर्वनगर-
प्रशंसायाथार्थ्यं62 प्रणिदधति चित्तेऽपि तनुभृत् ।
मया दत्ते हस्ते मतिकलुषमुल्लङ्घ्य तरसा
परब्रह्मैकान्ती भवजलनिधिं गोष्पदयति ॥ २४ ॥
प्रभावली - २४
पुनरपि विशेषान्तरमाह -अपिचेति । तनुभृत् चित्ते मनसि ; सति- सप्तमी । विषयरसः शब्दाद्यनुभवः, स एव गन्धर्वनगरं भ्रान्त्या कल्पितम्, तस्य प्रशंसा, तस्या याथार्ध्य, विलक्षोपक्षिप्तं विलक्षा लज्जा तत्समन्वितं यथा तथा उपन्यस्तं प्रणिदधति सावधानमनुसन्दधति सति; विषयरसप्रशंसा-
X३६४
याथार्थ्य गन्धर्वनगर प्रशंसायाथार्थ्य वदित्यनुसन्दधति सतीत्यर्थः । मया हस्ते दत्ते ; विवेकसहाये च सति । मतिकलुषम् ; अणिमादियोगसिद्धिम् । उल्लङ्घ्य ; अविचार्य, अवधीर्येत्यर्थः । परब्रह्मेकान्ती ; परब्रह्मानुभवैकप्रयोजनः सन् सहसा भवसागरं गोष्पदयति ॥ २४ ॥
प्रभाविलासः - २४
विलक्षेति । विलक्षैरुपक्षितमपि संसारिभिः श्रावितमपि । चित्ते प्रणिदधति ध्यायत्यपीति सति सप्तमी । वासनानां झटित्यनिवृत्तेरिति
भावः । तर्हि वासनानिवृत्तिः कथमित्यत्राह - मयेति । विवेकमहिम्नैव वासनानामपि क्रमेण शैथिल्यं भविष्यतीति भावः ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
सुमतिः - (सविमर्शम् ) तह वि पिआमहप्पमुहे महा-63 जोइजणे ’ वासणादाविअविसअरसबलिसमोहिए64 णिसाअरग्गहण - कोदूहलप्पसारिअकरस्स बालिसस्सेव्व ’ कहं65 उण कस्स वि मोक्खो होज्जत्ति विअलिआसंसं66 वीलिअं विअ मह माणसम् ।
( तथापि पितामहप्रमुखे महायोगिजने वासनादापितविषयरस- बडिशमोहिते निशाकरग्रहण कौतूहलप्रसारितकरस्य बालिशस्येव कथं पुनः कस्यापि मोक्षो भवेदिति विगलिताशंसं व्रीडितमिव मे मानसम् ।)
विवेकः- अयि भीरु, अवधारितपरमार्थापि किम्पचान67 मान- सेव किं पुनरप्यतिशङ्कसे?68 शृणुष्व चैतत् -
विषमधु बहिष्कुर्वन्धीरो बहिर्विषयात्मकं
परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखः ।
निरवधिमहानन्दब्रह्मानुभूतिकुतूहली
जगति भविता दैवात्कश्चिज्जिहासितसंसृतिः69 ॥ २५ ॥
मूलम् - २५
सुमतिः - (सविमर्शम् ) तह वि पिआमहप्पमुहे महा-63 जोइजणे ’ वासणादाविअविसअरसबलिसमोहिए64 णिसाअरग्गहण - कोदूहलप्पसारिअकरस्स बालिसस्सेव्व ’ कहं65 उण कस्स वि मोक्खो होज्जत्ति विअलिआसंसं66 वीलिअं विअ मह माणसम् ।
( तथापि पितामहप्रमुखे महायोगिजने वासनादापितविषयरस- बडिशमोहिते निशाकरग्रहण कौतूहलप्रसारितकरस्य बालिशस्येव कथं पुनः कस्यापि मोक्षो भवेदिति विगलिताशंसं व्रीडितमिव मे मानसम् ।)
विवेकः- अयि भीरु, अवधारितपरमार्थापि किम्पचान67 मान- सेव किं पुनरप्यतिशङ्कसे?68 शृणुष्व चैतत् -
विषमधु बहिष्कुर्वन्धीरो बहिर्विषयात्मकं
परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखः ।
निरवधिमहानन्दब्रह्मानुभूतिकुतूहली
जगति भविता दैवात्कश्चिज्जिहासितसंसृतिः69 ॥ २५ ॥
प्रभावली - २५
सविमर्शम् ; चिन्तान्तरोदयात् । तह वि-तथापि । पिआमहप्पमुहे- पितामहप्रमुखे । महाजोइजणे - महायोगिजने । वासणादाविअ - वासनादापित । faerreबलिसमोहिए विषयरसबडिशमोहिते । बडिशं मत्स्यवेधनम् । ब्रह्मादि- वेव मोहितेषु सत्सु । णिसाअरग्गहण निशाकरग्रहणे । कोदूहलप्पसारिक- रस्स- कौतूहलप्रसारितकरस्य । बालिसस्सेव्व - बालिशस्येव । कहम् उण कथं पुनः । कस्स वि-कस्यापि । मोक्खो - मोक्षः । होज्जन्ति — भविष्यतीति । विअलि- आसंसं-विगलिताशंसम् । वीलिअं विअ ब्रीडितमिव । मह माणसं - मम मानसम् ।
X३६५
किम्पचानमानसेव; दुर्मनस्केव । अतिशङ्कसे; अस्थाने शङ्कस इत्यर्थः । ब्रह्मादिषु तथाभूतेष्वपि दैवात् कस्यचित् परब्रह्मैकान्तित्वं सम्भवतीत्याह — विषमध्विति । इह जगति दैवात् कश्चित् जिहासित ससृतिर्भवति । कथ- मित्यत्राह - धीरः सन् शब्दादिविषयात्मकं विषमधु विषसम्पृक्तमधु बहिष्कुर्वन्न परित्यजन् । शब्दादिविषयपरित्यागेऽपि स्वात्मानुभवमात्राकाङ्क्षी भवेदित्यत्राह परिमितरसेति । परिमितरसः ; परब्रह्मानुभवापेक्षया । अयमपि परित्यागहेतुः । स चासौ स्वात्मप्राप्तिः स्वात्मानुभवः, तद्विषयप्रयासे तत्साधनयत्ने पराङ्मुखः । अपि च निरतिशयानन्दब्रह्मानुभवे निरतिशयप्रीतिमान् भवति ॥ २५ ॥
प्रभाविलासः - २५
बडिशेति ।
“जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।
मृत्युमृच्छत्यसद्बुद्धिमनस्तु बडिशैर्यथा ॥
इत्यवधूतवचनं स्मारितम् । आसङ्गः ; आश्वासः । विषेति । अनिष्टो- दर्कसुखं विषमध्वित्युच्यते । तेनाब्रह्मभवनं हेयमित्युक्तम् । कैवल्यविशेष-’ माह - परिमितेति ; पुनर्दुः खोदर्कमिति भावः ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
निःसंशयः खलु पटुभिरपि विटपमारोहद्भिरप्राप्तानां पचेलिमानां फलानामयतमानस्यापि सुकृतपरिपाकेन पान्थजनस्य पुरतः
परिपातः । अपि च-
विवित्सति यदि स्वयं किमपि सूरिसेव्यं पदं
कृतस्य यदि निष्कृतिर्यदि करिष्यते नाहितम् ।
निसर्गसुहृदीश्वरो यदि च70 रक्ष्यमन्वीक्षते71
किमत्र परमुच्यते किमिति नात्मविन्मुच्यते ॥ २६ ॥
मूलम् - २६
निःसंशयः खलु पटुभिरपि विटपमारोहद्भिरप्राप्तानां पचेलिमानां फलानामयतमानस्यापि सुकृतपरिपाकेन पान्थजनस्य पुरतः
परिपातः । अपि च-
विवित्सति यदि स्वयं किमपि सूरिसेव्यं पदं
कृतस्य यदि निष्कृतिर्यदि करिष्यते नाहितम् ।
निसर्गसुहृदीश्वरो यदि च70 रक्ष्यमन्वीक्षते71
किमत्र परमुच्यते किमिति नात्मविन्मुच्यते ॥ २६ ॥
प्रभावली - २६
ब्रह्मादिष्वलब्धस्याधुनिकेषु सम्भवे दृष्टान्तमाह– निःसंशयः खल्विति पटूनां विटपाप्रारोहणसमर्थानाम् अलभ्यं चूतफलं पान्थस्यायतमानस्यापि पुरतः स्वयमेव गलितं पततीति लोकदृष्टम्, तद्वत् । किञ्च कथमस्य मोक्षाप्राप्तिः ? सामग्रया सत्यां कार्योत्पत्तिरवश्यम्भाविनी । यत्र कार्यानुदयस्तत्र सामग्रीवैकल्य मप्यूह्यमित्याशयेनाह - विवित्सतीति । मोक्षेच्छा यदि, कृतस्य पापस्य यदि प्रायश्चित्तिः, उत्तरत्र पापाकरणं च यदि ; श्रीपतेर्दया च मोक्षसामग्री, तस्यां च सत्यां कथं प्राप्त्यभाव इत्यर्थः । विवित्सति; लब्धुमिच्छति । रक्ष्यम् ; स्वरक्षणविषयम् । किमत्र परमुच्यते ; अत्र किं बहूच्यते । आत्मवित् ; परापरतत्त्ववेदी किमिति न मुच्यते ? मुच्यत एवेत्यर्थः ॥ २६ ॥
प्रभाविलासः - २६
विवित्सतीति । विवित्सति; लब्धुमिच्छति । कृतस्य ; पापस्य । निष्कृतिः ; प्रायश्चित्तम् । रक्ष्यम्; रक्षाविषयम् ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
सुमतिः - णाह, जइ एव्वं तुए दिण्णहत्यो संसारसाभरम्
अइलङ्घेइ पुरिसो, ता कहं दवदहणपज्जलिअ72 ’ पस्सजुअलदारूअरग- ओव्व कीडो, सारमेअगणपरिगओव्व सारङ्गो, समीरणन्दोलणडोला- अन्तपोओदरगओव्व सञ्जत्तिअसत्थो, महप्पवाहमज्झणिरोहसम्भन्तणअणोव्व जम्बुओ, विसहरपरिगहि अघर घोलन्त हिअओव्व कुटुम्बि- अणो, विअडअरभङ्गसम्भमसङ्क्खुहि अगङ्गाअडवेपन्तसंहणणोव्व साहिमण्डलो, राहवसरणिअरक्खोहिअर अणाअरमज्झठिओव्व मच्चसङ्घा ओ, सद्धसगहिओ होइ ?
( नाथ, यद्येवं त्वया दत्तहस्तः संसारसागरमतिलङ्घते पुरुषः, तत्कथं दवदहनप्रज्वलितपार्श्वयुगलदारुदरगत इव कीटः सारमेयगणपरिगत इव सारङ्गः, समीरणान्दोलनडोलायमानपोतोदर-
गत इव सांयात्रिकसार्थः, महाप्रवाहमध्य निरोधसम्भ्रान्तनयन इव जम्बुकः ; विषधरपरिगृहीतगृहघूर्णमानहृदय इव कुटुम्बिजनः ; विकटतरभङ्गसम्भ्रमसङ्क्षुभितगङ्गातटवेपमानसंहनन इव शाखिमण्डलः, राघवशरनिकरक्षोभितरत्नाकरमध्यस्थित इव मत्स्यसङ्घातः, साध्वसगृहीतो भवति?)
विवेकः - भद्रे, पाण्डित्यमपि निर्विद्य बाल्येन73 तिष्ठाससि, यन्मोक्ष्यमाणमपि मुक्तमिवाभिमन्यसे । पश्य पश्य-
वर्णित गुण प्रकर्षा वर्णाश्रमनियम देशकालमुखाः ।
अनवहितमानसानां भवन्ति नित्यं भयोदयस्थानम् ॥ २७ ॥
मूलम् - २७
सुमतिः - णाह, जइ एव्वं तुए दिण्णहत्यो संसारसाभरम्
अइलङ्घेइ पुरिसो, ता कहं दवदहणपज्जलिअ72 ’ पस्सजुअलदारूअरग- ओव्व कीडो, सारमेअगणपरिगओव्व सारङ्गो, समीरणन्दोलणडोला- अन्तपोओदरगओव्व सञ्जत्तिअसत्थो, महप्पवाहमज्झणिरोहसम्भन्तणअणोव्व जम्बुओ, विसहरपरिगहि अघर घोलन्त हिअओव्व कुटुम्बि- अणो, विअडअरभङ्गसम्भमसङ्क्खुहि अगङ्गाअडवेपन्तसंहणणोव्व साहिमण्डलो, राहवसरणिअरक्खोहिअर अणाअरमज्झठिओव्व मच्चसङ्घा ओ, सद्धसगहिओ होइ ?
( नाथ, यद्येवं त्वया दत्तहस्तः संसारसागरमतिलङ्घते पुरुषः, तत्कथं दवदहनप्रज्वलितपार्श्वयुगलदारुदरगत इव कीटः सारमेयगणपरिगत इव सारङ्गः, समीरणान्दोलनडोलायमानपोतोदर-
गत इव सांयात्रिकसार्थः, महाप्रवाहमध्य निरोधसम्भ्रान्तनयन इव जम्बुकः ; विषधरपरिगृहीतगृहघूर्णमानहृदय इव कुटुम्बिजनः ; विकटतरभङ्गसम्भ्रमसङ्क्षुभितगङ्गातटवेपमानसंहनन इव शाखिमण्डलः, राघवशरनिकरक्षोभितरत्नाकरमध्यस्थित इव मत्स्यसङ्घातः, साध्वसगृहीतो भवति?)
विवेकः - भद्रे, पाण्डित्यमपि निर्विद्य बाल्येन73 तिष्ठाससि, यन्मोक्ष्यमाणमपि मुक्तमिवाभिमन्यसे । पश्य पश्य-
वर्णित गुण प्रकर्षा वर्णाश्रमनियम देशकालमुखाः ।
अनवहितमानसानां भवन्ति नित्यं भयोदयस्थानम् ॥ २७ ॥
प्रभावली - २७
स्वया दत्तहस्तस्य पुंसः यद्यवश्यं मुक्तिर्भवित्री कथमयं सन्तोष्टव्ये ससा - ध्वसो दृश्यत इति चोदयति- जइ एव्वम् इति । जइ एव्वं यद्येवम् ; यदि सामग्रयां सत्यामवश्यं मुक्तिप्राप्तिः ।
तुए- त्वया । दिण्णहत्थो - दत्तहस्तः ।
X३६७
संसारसारं संसारसागरम् । अइलङ्घेइ - अतिलङ्घते । पुरिसो- पुरुषः । ता- तत् । कहं कथम् । दवदहणपज्जलिअ - दवदहनप्रज्वलित । पस्सजुअल- पार्श्वयुगल । दारूअरगओव्व दारूदरगत इव । कीडो-कीटः ; पिपीलिकादिः । ज्वलितोभयपार्श्वकाष्ठगतः कीटः ससाध्वसो भवति । सारमेअगणपरिङ्गओव्व- सारमेयगणपरिगत इव । सारङ्गो-सारङ्गः ; हरिणः । समीरणन्दोलण - समीरणा- न्दोलन । डोलाअन्त - डोलायमान । पोओदरगओव्व-पोतोदरगत इव । सञ्जत्तिअ- सत्थो - सांयात्रिकसार्थः । पोतो यानपात्रम् ; तन्मध्यगतः सांयात्रिकसार्थः पोत- वणिक्समूहः । महम्पवाह - महाप्रवाह । मज्झणिरोह - मध्यनिरोध । सम्भन्त अ- गोव्व-सम्भ्रान्तनयन इव । जम्बुओ-जम्बुकः । विसहरपरिगहिअ - विषधरपरि - गृहीत । घग्घोलन्त- गृहघूर्णमान । हिअओव्व-हृदय इव । कुटुम्बिअणो-कुटुम्बि- जनः । विषधरः सर्पः, तत्परिगृहीतगृहे घूर्णमानहृदय इव कुटुम्बिनः ।
X३६८
तस्माद्ब्राह्मणेभ्यो वेद-
विअडअरभङ्ग सम्भमसङ्क्खुहिअ - विकटतरभङ्गसम्भ्रमसङ्क्षुमित । गङ्गाअडवेवन्त- विमडम्मरभङ्गसम्भमसङ्क्खुहिअ-विकटतरभङ्गसम्भ्रमसङ्क्षुभित । गङ्गातटवेपमान । संहणणोव्व - संहनन इव । साहिमण्डलो - शाखिमण्डलः । वेपमानं कम्पमानम् । संहननं गात्रम् । राहवसरणिअरक्खोहिअ - राघवशरनिकरक्षोभित । अणाअरमज्झठिओव्व- रत्नाकरमध्यस्थित इव । मञ्चसङ्घाओ - मत्स्यसङ्घातः । सद्धसगहिओ होइ-साध्वसगृहीतो भवति । एभिर्दृष्टान्तवचनैः परकालसहस्रगाधाप्रबन्धान्तिमदशकप्रतिपादिता अवस्था उक्ता इति विवेकः । पाण्डित्येत्यादि । " पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इत्युपनिषदर्थमनुतिष्ठसि । कथं मोक्ष्यमाणस्य पुंसः प्रामादिकाकृत्यकरणादिसम्भव निमित्तभयं भवतीति जानत्यप्यजानतीव भाषस इत्यर्थः । अभिप्रेतमर्थमाह– वर्णितेति । वर्णित गुणप्रकर्षाः ; अवहितपुरुषविषये वर्णिता गुणप्रकर्षा येषां ते । गुणो
X३६९
मुक्तिहेतुत्वम् तस्य प्रकर्षः प्रशस्तत्वम् । " स्वे स्वे कर्मण्यभिरतः संसिद्धिं
लभते नरः " इत्यादिवचनेन प्रशंसितगुणोत्कर्षाः । वर्णः ब्राह्मणत्वादिः, आश्रमः ब्रह्मचर्यादिः, तयोर्नियमाः धर्माः, देशः श्रीरङ्गादिः, काल उत्तरायणादिः, मुखशब्देन देहादिकं विवक्षितम् । उक्ता एते अनवहितमानसानाम् ; अनवधान- युक्तमनसां प्रमादवता, कर्मसु भगवदाराधनत्वबुद्धिविधुराणाम् । भयस्योत्पत्तिस्थानं भयजनकं भवति । भयं प्रमादप्रयुक्तं भागवतापचारादिप्रयुक्तं चेति भावः ॥ २७॥
प्रभाविलासः - २७
सारमेयः; श्वा । सारङ्गः ; हरिणः । पोतः ; यानपात्रम् ।
सांयात्रिकसार्थः ; पोतवणिक्समूहः । संहननम् ; गात्रम् । शाखिमण्डलः; वृक्षसमूहः । पाण्डित्यमिति ; " तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति श्रुतिरभिप्रेता । वर्णितेति ।
" तेषां पूर्वः पूर्वो जन्मतः श्रेयान् ’ विद्धयो दिवे दिवे नमस्कुर्यात् " इत्यादिना गुणप्रकर्षो वर्णस्य वर्णितः । " काषायदण्डमात्रेण यतिः पूज्यो न संशयः "
सर्वाश्रमनमस्कृतम् " इत्यादिनाश्रमस्य । " तस्माद्वाजपेययाजी न कश्चन प्रत्यवरोहति " इत्यादिना नियमस्य । " सितासिते सरिते यत्र सङ्गथे तत्राप्लुतासो दिवमुत्पतन्ति " इत्यादिना देशस्य । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्" इत्यादिना कालस्य । आदिपदेन कृष्ण- केशत्वाद्यवान्तरावस्थाविशेषाः । अनवधाने गुणप्रकर्ष एव दोषप्रकर्षहेतुतया भयनिमित्तं भवतीत्यर्थः सुरा पेया न च द्विजैः " " कदापि युवतिं भिक्षुर्न स्पृशेद्दारवीमपि " तस्मादाहिताभिर्नानृतं वदेत् " " एकादश्यां
न भुञ्जीत " इति शास्त्रात् ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
अन्येषु विशेषमवबोधयामि-74
भयाभयस्थानविशेषवेदिनः प्रमादमुक्तस्य परीक्ष्यकारिणः ।
परानुभूतिप्रतिबन्धशङ्कया भयानुबन्धोऽप्यभयाय कल्पते ॥ २८ ॥
मूलम् - २८
अन्येषु विशेषमवबोधयामि-74
भयाभयस्थानविशेषवेदिनः प्रमादमुक्तस्य परीक्ष्यकारिणः ।
परानुभूतिप्रतिबन्धशङ्कया भयानुबन्धोऽप्यभयाय कल्पते ॥ २८ ॥
प्रभावली - २८
उक्तमेवार्थं व्यतिरेकमुखेनापि द्रढयति—अन्येष्विति । विशेषं दर्शयति– भयाभयेति । भयस्थानं काम्यं कर्म । अभयस्थान नित्यकर्मादि । तयोर्विशेषं
X३७०
जानतः । परानुभूतिप्रतिबन्धशङ्कया परीक्ष्यकारिणः ; आलोच्य नित्यनैमित्तिकमात्रानुष्ठायिनः कर्मसु भगवदाराधनत्वबुद्धिमतः । तस्य भयानुबन्धोऽपि प्रमाद्यतो भयहेतुरपि अप्रमाद्यतोऽस्य मोक्षाय कल्पते ॥ २८ ॥
प्रभाविलासः - २८
एवमनवहितानामभयनिमित्तानामपि भयनिमित्तत्वमुक्त्वा सावधानानां भयनिमित्तमप्यभयाय भवतीत्याह - भयाभयेति । परानुभूतिः ;
.
परब्रह्मानुभवः । तत्र प्रतिबन्धो भवतीति शङ्कया ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
आ मोक्षाच्च न खलु विदुषोऽपि निरनुबन्धा भीतिरिति
नभः प्रसून सौरभास्वादः । यतः75
दिग्देशकालकरणाकरणादिरूपे
देहादिके च76 हितसाधनभावयोग्ये ।
दुष्कर्मपङ्क्ति77 मनुचिन्तयतो विचित्रां
किं तद्यदस्य पुरुषस्य न भीतिहेतुः ॥ २९ ॥
मूलम् - २९
आ मोक्षाच्च न खलु विदुषोऽपि निरनुबन्धा भीतिरिति
नभः प्रसून सौरभास्वादः । यतः75
दिग्देशकालकरणाकरणादिरूपे
देहादिके च76 हितसाधनभावयोग्ये ।
दुष्कर्मपङ्क्ति77 मनुचिन्तयतो विचित्रां
किं तद्यदस्य पुरुषस्य न भीतिहेतुः ॥ २९ ॥
प्रभावली - २९
उक्तमेवार्थं शङ्कामुखेनाक्षिप्य समाधत्ते - आ मोक्षादिति । विदुषोऽपि निरनुबन्धा भीतिः ; निष्कारणा भीतिः । कारणाभावात् भीतिहेतुः प्रमादो न भवतीति योऽयमर्थः, सः नभः प्रसून सौरभास्वादः ; खपुष्पसौरभाघ्राणवदत्यन्तासङ्गतः, दुष्कर्मणोऽपि विद्यमानत्वादिति भावः । तदेव दर्शयति - दिगिति । विचित्रां दुष्कर्मपङ्क्तिमनुचिन्तयतोऽस्य पुरुषस्य नित्यकर्मकरणतया काम्यकर्माकरणतया च हितसाधनभावयोग्ये हितस्य मोक्षस्य साधनतायोग्ये; अवहितानां मोक्षसाधनभूतेऽपीत्यर्थः । दिग्देशकाले देहादिके च; आदिशब्देन
X३७१
गत्यादिर्गृह्यते ; “ शरीरे च गतौ चापि ” इत्युक्तेः । अस्य पुरुषस्य भीतिहेतुर्यन्न भवति, तत्किम् ; न किमपीत्यर्थः । विचित्रदुष्कर्मवशात् किमत्र विनिपात- हेतुर्भवेदिति प्रमादात् भीतिश्च यावच्छरीरं सम्भवत्येवेत्यर्थः ॥ २९ ॥
प्रभाविलासः - २९
“कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चापि वर्तते मे महद्भयम् " ॥
इत्यादि प्रमाणमभिप्रयन्नाह– दिगिति । करणाकरणपदेन विहितकरणाविहिताकरणे । आदिपदेन गतिरुक्ता । अनेन कुदृष्टिकल्पितजीवन्मुक्तिर्निरस्ता ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
सुमतिः – णाह, एव्वं किल सव्वं वि जइ भअट्ठाणं, ता कहं णिग्भअणिप्पाअणिज्जं पणिहाणं सम्पज्जइ ?
( नाथ, एवं किल सर्वमपि यदि भयस्थानं, तत्कथं निर्भय- निष्पादनीयं प्रणिधानं सम्पद्यते 2)
विवेकः- -भद्रे, सम्यगनुयुक्तं भवत्या । अस्ति खलु78 सूक्ष्मं किञ्चित् । तदपि प्रतिपन्नमेव79 ’ त्वां प्रतिबोधयामि80 । प्रति- सङ्घीयतामिदं तावत् ।
सुमतिः- आणवेदु अय्यउत्तो ।
(आज्ञापयतु आर्यपुत्रः )
विवेकः-
प्रवृद्धमतिकश्मलप्रलयपावकप्रक्रियां
विमुच्य भगवत्कृपां वृजिन सिन्धुकुक्षिम्भरीम् ।
कदध्वपरिवृत्तिभिर्यदिह कर्म निर्मीयते
तदस्तु लवणाकरे लवणसेतुराधित्सितः ॥ ३० ॥
मूलम् - ३०
सुमतिः – णाह, एव्वं किल सव्वं वि जइ भअट्ठाणं, ता कहं णिग्भअणिप्पाअणिज्जं पणिहाणं सम्पज्जइ ?
( नाथ, एवं किल सर्वमपि यदि भयस्थानं, तत्कथं निर्भय- निष्पादनीयं प्रणिधानं सम्पद्यते 2)
विवेकः- -भद्रे, सम्यगनुयुक्तं भवत्या । अस्ति खलु78 सूक्ष्मं किञ्चित् । तदपि प्रतिपन्नमेव79 ’ त्वां प्रतिबोधयामि80 । प्रति- सङ्घीयतामिदं तावत् ।
सुमतिः- आणवेदु अय्यउत्तो ।
(आज्ञापयतु आर्यपुत्रः )
विवेकः-
प्रवृद्धमतिकश्मलप्रलयपावकप्रक्रियां
विमुच्य भगवत्कृपां वृजिन सिन्धुकुक्षिम्भरीम् ।
कदध्वपरिवृत्तिभिर्यदिह कर्म निर्मीयते
तदस्तु लवणाकरे लवणसेतुराधित्सितः ॥ ३० ॥
प्रभावली - ३०
एव्वं किल एवं किल । सव्वं - सर्वम् । वि-अपि । जइ - यदि । भट्ठाणं- भयस्थानम् । ता- तत् । कहं कथम् । णिब्भअणिप्पाअ णिज्जं निर्भयनिष्पाद- नीयम् । पणिहाणं - प्रणिधानम् । सम्पज्जइ-सम्पद्यते । अनुयुक्तम् ; पृष्टम् । प्रतिप- नमेव ; युक्तमेव । प्रतिसधीयताम् ; श्रूयताम् । आणवेदु अज्ञापयतु । अय्य- उत्तो- आर्यपुत्रः । स्वर्गार्थ विद्यार्थी चेति कर्मणामनुष्ठानं द्विविधम् । तत्र स्वर्गार्थकर्मानुष्ठानस्य क्षयिफलत्वेन तदनुष्ठातुर्भयसद्भावात् प्रणिधानं न सम्पद्यत इति त्वदुक्तमभ्युपगम्यत इत्येतद्वक्तुमिमर्थं तावदवधेहीत्याह - प्रतिसङ्घीयता -
X३७२
मिति । प्रवृद्धेति । प्रवृद्धं यन्मतिकश्मलं मोहः संसारः, तस्य कालाग्निकल्पा पापसिन्धोः कुक्षिम्भरीं भगवत्कृपां विमुच्य अनवलम्ब्य कदध्वपरिवृत्तिभिः, कदध्वा निरीश्वरमीमांसकमतम्, तत्र परिवृत्तिः परिशीलनं येषा तैः । स्वर्गाद्यर्थ यत्कर्मानुष्ठीयते तत्कर्म सागराहितलवणसेतुवत् स्वयमेव नश्यतीति भावः । लवणसेतुरस्तु; सम्भावनाया लोट् ॥ ३० ॥
प्रभाविलासः - ३०
आब्रह्मप्राप्ति भयानुवृत्तावपि समाधिनिष्पत्तेरप्रत्यूहत्वं भगवत्कृपयैव
सेत्स्यतीति वदन् प्रथमं तामन्तरेणासिद्धिमाह - प्रवृद्धेति । मतिकश्मलम् ; मतिमोहः । कदध्वपरिवृत्तिभिः ; अमार्गव्यापारैः; सूक्ष्मोपायानभिज्ञैः । लवणाकर इति । लवणाकरे लवणसेतुवदकिञ्चित्कर इति भावः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
किञ्च यः पुनरनन्यभावेन भगवदनुकम्पामवलम्बते तस्य तु तत्तादृशीं सिद्धिमवधारय81 ।
विविक्तनिखिलस्थितिर्विषयवृत्तिनिर्वेदवान्
विरक्तिपरिरम्भणग्लपितसर्वदुर्वासनः ।
निवृत्तिपथजाङ्घिको निभृतचित्तवृत्तिः परं82
प्रपद्य मुरभित्पदं भयमतीत्य संसिध्यति ॥ ३१ ॥
मूलम् - ३१
किञ्च यः पुनरनन्यभावेन भगवदनुकम्पामवलम्बते तस्य तु तत्तादृशीं सिद्धिमवधारय81 ।
विविक्तनिखिलस्थितिर्विषयवृत्तिनिर्वेदवान्
विरक्तिपरिरम्भणग्लपितसर्वदुर्वासनः ।
निवृत्तिपथजाङ्घिको निभृतचित्तवृत्तिः परं82
प्रपद्य मुरभित्पदं भयमतीत्य संसिध्यति ॥ ३१ ॥
प्रभावली - ३१
विद्यार्थी कर्मानुष्ठातुरङ्गाना प्रधानफलेनैव फलवस्वनियमात् भगवत्प्रसाद- हेतुत्वेनाभयहेतुत्वे निर्भयनिष्पादनीयं प्रणिधानं सम्पद्यत इत्याह– किञ्चेति । यः पुन- रित्यादि । अनन्यभावेन; इदमेव प्रधानं साधनं नान्यदिति भावेन । तत्तादृशीं सिद्धिम् प्रणिधानरूपां निश्चिनु । विद्यार्थ कर्मानुष्ठातुः समाधिसिद्धिहेतु- भूतविविक्तदेशसेवित्वादिसम्भवात् समाधिसिद्धिरुपपद्यत इत्याह - विविक्तेति ।
X३७३
विविक्ता निखिला स्थितिर्यस्य । शब्दादिविषयवृत्तौ निर्वेदवान् । वैराग्यक्षपि- तैहिकामुष्मिक भोगवासनः । निवृत्तिपथजाङ्घ्रिकः प्राप्यविषयत्वरावान् मुमुक्षुः । निभृतचित्तवृत्तिः; एकाग्रचित्तः । परम्; प्रशस्तम् । अनेन भक्तयादेर्मुख्योपायत्वं निवर्तयति । मुरभित्पदं प्रपद्य; श्रीपतिपदद्वन्द्वमुपायं बुद्ध्वेत्यर्थः । भयमतीत्य ; पुनरावृत्तिभयरहितो भूत्वा । संसिध्यति ; समाधिस्थितो भवतीत्यर्थः ॥ ३१ ॥
प्रभाविलासः - ३१
विविक्तेति । विविक्ताः पवित्राः निखिलाः स्थितयो यस्य सः ।
विविक्तौ पूतविजनौ" इत्यमरः । अत्र विरक्तिपरिरम्भणेति शृङ्गार- रसो व्यज्यत इति पदव्ययम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
सुमतिः - जुत्तम् एदम् । तह वि पञ्चक्खि अपरमत्थं तुमम् एव्व पडिपुच्छम्मि णिम्मलगुरुस आसणिद्धारिअणिअमन्तहिअआणं, णिट्टाविअणि83 हिलप डिपक्खाणं, णिस्सेसपसमिअणिज्जरघरवासरसवा-84 सणाणं, अणालक्खि अदोसगन्ध मङ्गलेक्कताणमहुमहणचलणसेवामहा-
णन्द लाहलम्बडाणं,8586 ’ अप्पमादपरिगहिअणिवृत्तिधम्माणं, असम्भाविअ- पच्चूहाणं वि महापुरिसाणं केण उण विणिवाएण मोक्खोवाओ सिग्धं ण सम्पज्जइ ?
(युक्तमेतत् । तथापि प्रत्यक्षितपरमार्थं त्वामेव परि- पृच्छामि –– निर्मलगुरुमकाशनिर्धारित निगमान्तहृदयानां, निष्टापित- निखिलप्रतिपक्षाणां निःशेषप्रशमितनिर्जरगृहवासरसवासनानाम्,
अनालक्षितदोषगन्धमङ्गलैकतानमधुमथनचरण सेवामहानन्दलाभलम्प- टानाम्, अप्रमादपरिगृहीतनिवृत्तिधर्माणाम्, असम्भावितप्रत्यूहाना- मपि महापुरुषाणां केन पुनर्विनिपातेन मोक्षोपायः शीघ्रं न सम्पद्यते ? )
विवेकः प्रिये, इदमपि ते महामतिभिरवधारणीयमति- गहनमभिदधामि87 यत्तत् सनकसनन्दनसनत्कुमारनारदशाण्डिल्य-88 प्रभृतयः परमैकान्तिनः प्रतिपादयन्ति । आकर्ण्यतामेतदवहितया भवत्या-
तिमिं किल तिमिङ्गिलो गिलति तद्गिलस्तं तथा
तमप्यथ च तद्गिलस्तदिह पश्य कर्मक्रमे ।
समस्तवृजिनोदधि्89 ग्रसन90 डम्भकुम्भोद्भवं
निवृत्तिमपि91 धर्ममत्त्यनघतत्त्वविन्निग्रहः ॥ ३२ ॥
मूलम् - ३२
सुमतिः - जुत्तम् एदम् । तह वि पञ्चक्खि अपरमत्थं तुमम् एव्व पडिपुच्छम्मि णिम्मलगुरुस आसणिद्धारिअणिअमन्तहिअआणं, णिट्टाविअणि83 हिलप डिपक्खाणं, णिस्सेसपसमिअणिज्जरघरवासरसवा-84 सणाणं, अणालक्खि अदोसगन्ध मङ्गलेक्कताणमहुमहणचलणसेवामहा-
णन्द लाहलम्बडाणं,8586 ’ अप्पमादपरिगहिअणिवृत्तिधम्माणं, असम्भाविअ- पच्चूहाणं वि महापुरिसाणं केण उण विणिवाएण मोक्खोवाओ सिग्धं ण सम्पज्जइ ?
(युक्तमेतत् । तथापि प्रत्यक्षितपरमार्थं त्वामेव परि- पृच्छामि –– निर्मलगुरुमकाशनिर्धारित निगमान्तहृदयानां, निष्टापित- निखिलप्रतिपक्षाणां निःशेषप्रशमितनिर्जरगृहवासरसवासनानाम्,
अनालक्षितदोषगन्धमङ्गलैकतानमधुमथनचरण सेवामहानन्दलाभलम्प- टानाम्, अप्रमादपरिगृहीतनिवृत्तिधर्माणाम्, असम्भावितप्रत्यूहाना- मपि महापुरुषाणां केन पुनर्विनिपातेन मोक्षोपायः शीघ्रं न सम्पद्यते ? )
विवेकः प्रिये, इदमपि ते महामतिभिरवधारणीयमति- गहनमभिदधामि87 यत्तत् सनकसनन्दनसनत्कुमारनारदशाण्डिल्य-88 प्रभृतयः परमैकान्तिनः प्रतिपादयन्ति । आकर्ण्यतामेतदवहितया भवत्या-
तिमिं किल तिमिङ्गिलो गिलति तद्गिलस्तं तथा
तमप्यथ च तद्गिलस्तदिह पश्य कर्मक्रमे ।
समस्तवृजिनोदधि्89 ग्रसन90 डम्भकुम्भोद्भवं
निवृत्तिमपि91 धर्ममत्त्यनघतत्त्वविन्निग्रहः ॥ ३२ ॥
प्रभावली - ३२
जुत्तम् एदं युक्तमेतत् । तह वि- तथापि । पञ्चक्खिअ परमत्थं - प्रत्यक्षित- परमार्थम् । तुमम् एव्व त्वामेव । पडिपुच्छम्मि परिपृच्छामि । णिम्मलगुरुस- आस – निर्मलगुरुसकाश । णिद्धारिअणिअमन्त - निर्धारितनिगमान्त । हिअ - आणं. हृदयानाम् । णिठ्ठाविअणिहिलपडिपक्खाणं– निष्ठापितनिखिलप्रतिपक्षा- णाम् । निष्ठापितो नाशं प्रापितः । " निष्ठानिष्पत्तिनाशान्ताः " इति निघण्टुः । णिस्सेसपसमिअणिज्जरघरवासरसवासणाणं - निःशेषप्रशमितनिर्जरगृहवासरस- वासनानाम् । रसो रागः । अणालक्खिअदोसगन्ध - अनालक्षितदोषगन्ध ।
X३७४
मङ्गलेक्कताण - मङ्गलैकतान । महुमहणचलण-मधुमथनचरण । सेवामहाणन्दलाहलं- बडाणं-सेवामहानन्दलाभलम्पटानाम् । अप्पमाद परिगहिअ अप्रमादपरिगृहीत । णिवृत्तिधम्माणं निवृत्तिधर्माणाम् । असम्भाविअपच्चूहाणम् असम्भावितप्रत्यूहानाम् । वि-अपि । महापुरिसाणं महापुरुषाणाम् । केण उण - केन पुनः । विणिवाएण- विनिपातेन । विनिपातो विघ्नः । मोक्खोवाओ मोक्षोपायः । सिग्धं शीघ्रम् । ण सम्पज्जइ-न सम्पद्यते । अवधारणीयम्; निश्चेतव्यम् । गहनम् ; रहस्यम् । सनकस- नन्दनसनत्कुमारनारदाः ब्रह्मपुत्राः केवलं ब्रह्मनिष्ठाः । शाण्डिल्यः श्रीपाञ्चरात्र- प्रवर्तकत्वेन प्रसिद्धः । प्रभृतिशब्देन शुकशौनकादिग्रहणम् । परमैकान्तिनः
X३७५
भगवदेकनिष्ठानामग्रेसराः । तिमिमिति । तिमिम्;
शतयोजनप्रमाणं मत्स्यविशेषम् । तिमिङ्गिलः ; तिमिं गिलति भक्षयतीति तिमिभक्षको मत्स्यविशेषः ततोऽपि महान् मत्स्यः गिलति भक्षयति । तद्गिलः ; तिमिङ्गिलगिलः कश्चित्ततोऽप्यतिप्रमाणमत्स्यविशेषः सहस्रयोजनप्रमाणः तं तिमिभक्षक मत्स्यं तथा गिलति । तमपि च ; तिमिगिलगिलमपि मत्स्यम् । अथशब्दः कार्त्स्न्यपरः । तद्गिलः ; तिमिङ्गिलगिलगिलः कश्चित्ततोऽप्यतिप्रमाणमत्स्यविशेषः गिलतीत्यत्राप्यनुषज्यते ; भक्षयति । तिमिगिलादीनां प्रबलेन हिंसनं यदुक्तं तत् इह कर्मक्रमे पुण्यपापरूपकर्मविषयेऽपि पश्य । किचित् कर्म ततोऽप्यधिकं नाश-
X३७६
यति । ततोऽप्यधिकं तच्च नाशयति । तदपि ततोऽपि प्रबलं कर्म नाशयतीति पश्य । एवं कर्मक्रमे विचार्यमाणे समस्तवृजिनानि पापान्येवोदधिः, तद्ग्रसनसम्भ्रमे कुम्भोद्भवमगस्त्यायितं निवृत्तिधर्ममपि भक्तिप्रपत्तिरूपमित्यर्थः । अनघतत्त्व विनिग्रहः ; तत्त्ववित् ब्रह्मवित्, तन्निग्रहः तद्विषयापराधः । अत्ति; भक्षयति नाशयतीत्यर्थः । अत्र प्रमाणम् -
" चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् ।
अवमानात्पतत्येव रौरवे नरके हि सः ॥ "
इत्यादि ॥ ३२ ॥
प्रभाविलासः - ३२
तिमिमिति ।
" अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः ।
तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोsप्यस्ति राघव ॥”
इति प्रसिद्धास्तिम्यादयः । एवं प्रबलेन कर्मणा दुर्बलस्य नाशः प्रकृते द्रष्टव्य इत्याह— तदिह पश्येति । " पापं प्रज्ञां नाशयति " " धर्मेण पापमपनुदति " " ज्ञानाग्निः सर्वकर्माणि " इत्यादिप्रमाणानुसारादिति भावः । परभक्तिलक्षणनिवृत्तिधर्ममाहात्म्यमाह – समस्तेति ।
" यथाग्निः सुसमिद्धार्चिः करोत्येधांसि भस्मसात् ।
तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ "
इति श्रीकृष्णोक्त्या समस्तवृजिनेत्युक्तम् । डम्भकुम्भोद्भवः; कपटागस्त्यः ।
अत्र आयुः श्रियम्" इत्यादि पूर्वोक्तं द्रष्टव्यम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
अन्यदप्येतादृशमवधारयेथाः-
प्रथितं पातकिवर्गं कृतघ्न एको हि कृत्स्नमतिशेते ।
तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥ ३३ ॥
मूलम् - ३३
अन्यदप्येतादृशमवधारयेथाः-
प्रथितं पातकिवर्गं कृतघ्न एको हि कृत्स्नमतिशेते ।
तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥ ३३ ॥
प्रभावली - ३३
सर्वपापघ्नान्निवृत्तिधर्मादपि ब्रह्मविदपराधस्य प्राबल्यं दृष्टान्तान्तरप्रदर्शने - नोपपादयति–अन्यदपीति । कृतघ्नः ; कृतमुपकारं न गणयति यः स कृतघ्नः । स एक एव अतिशेते ; अतिशयेन पापिष्ठ इत्यर्थः । तं कृतघ्नमिमं क्रियमाणघ्नः, तदानों परैरनुष्ठीयमानमुपकारं तत्कालेऽपि यो न जानाति स क्रियमाणघ्नः ।
X३७७
अतिशेते इत्यनुषज्यते । तमपि क्रियमाणघ्नमपि दुरात्मा करिष्यमाणघ्नः, अत्राप्यतिशेत इत्यनुषज्यते ॥ ३३ ॥
प्रभाविलासः - ३३
विनिपातान्तरमाह – प्रार्थितमिति । अत्र
" ब्रह्मन्ने च सुरापे च चोरे भगवते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥”
इति वचनमनुसन्धेयम् । “ यं यं स्पृशति पाणिभ्यां यं यं पश्यति चक्षुषा इति, यदपाश्रयाः शुध्यन्ति " इति च भागवतसम्बन्धवर्तमानक्षण एवोपकारलाभात् तदपचारकारी क्रियमाणघ्न इत्युक्तः । उत्पत्स्यमान-
निःश्रेयसप्रदाचार्यापचारकारी करिष्यमाणघ्न इत्युक्त इति सम्प्रदायः ॥ ३३॥
विश्वास-प्रस्तुतिः - ३४
सुमतिः – ( विचिन्त्य) इअ गाम णिस्समब्भहिअमाहप्पस्स पडिबुद्धजणणिग्गहस्स92 पहावो दम्मिओ । एदस्स93 उण94 णाह, किं णत्थि पडिहारो ?
( इति नाम निःसमाभ्यधिकमाहात्म्यस्य प्रतिबुद्धजननिग्रहस्य प्रभावो दर्शितः । एतस्य पुनर्नाथ, किं नास्ति परिहारः !
विवेकः – अस्ति तु कश्चिदेकः, यदिह पुनस्तत्प्रसादनम् ।
तथा हि– ,
तोयोज्झनेन95 परितापमुपेत्य जन्तु-
स्तोयेन जीवति पुनः क्रमयोजितेन ।
तद्वन्महस्यजनतस्तमसि96 प्रविष्ट-
स्तत्संश्रयेण भजते परमार्थदृष्टिम्97 ॥ ३४ ॥
मूलम् - ३४
सुमतिः – ( विचिन्त्य) इअ गाम णिस्समब्भहिअमाहप्पस्स पडिबुद्धजणणिग्गहस्स92 पहावो दम्मिओ । एदस्स93 उण94 णाह, किं णत्थि पडिहारो ?
( इति नाम निःसमाभ्यधिकमाहात्म्यस्य प्रतिबुद्धजननिग्रहस्य प्रभावो दर्शितः । एतस्य पुनर्नाथ, किं नास्ति परिहारः !
विवेकः – अस्ति तु कश्चिदेकः, यदिह पुनस्तत्प्रसादनम् ।
तथा हि– ,
तोयोज्झनेन95 परितापमुपेत्य जन्तु-
स्तोयेन जीवति पुनः क्रमयोजितेन ।
तद्वन्महस्यजनतस्तमसि96 प्रविष्ट-
स्तत्संश्रयेण भजते परमार्थदृष्टिम्97 ॥ ३४ ॥
प्रभावली - ३४
विचिन्त्य ; एवं च सति पुरुषस्य कथं निस्तार इति चिन्तयित्वा । इअ णाम- इति नाम । णिस्समब्भहिअ निःसमाभ्यधिक । माहप्पस्स- माहात्म्यस्य । पडिबुद्धजणणिग्गहस्स - प्रतिबुद्धजननिग्रहस्य । पहावो प्रभावः । इंसिओ - दर्शितः । एदस्स उण एतस्य पुनः । णाह किं णत्थि पडिहारो नाथ किं नास्ति परिहारः । कश्चिदित्युक्तं विशेषयति — यदिहेति । पुनस्तस्य ब्रह्मविदः प्रसादनं क्षमापणम्, क्षमस्वेति प्रार्थना । ब्रह्मविदपचारस्य तत्प्रसादन- मेव परिहार इत्येतत् दृष्टान्तेनोपपादयति– तथाहीति । जन्तुः ; मत्स्यः ।
X३७८
तोयोज्झनेन; जलपरित्यागेन परितापमुपेत्य स्थितः अनन्तरं क्रमेण योजितेन संसृष्टेन तोयेन यथा पुनर्जीवति तद्वत् महतां महात्मना त्यजनतः ; स्वापराधात् ब्रह्मवित् तं त्यजति निगृह्णाति, तस्मान्निग्रहात् तमस्यज्ञाने संसारे प्रविष्टः कश्चित् तस्यैव ब्रह्मविदः संश्रयेण प्रसादनेन परमार्थदृष्टिं सम्यग्ज्ञानं भक्तिप्रपत्तिरूपं भजते प्राप्नोति । अन्यथा उपायरूपं ज्ञानं नश्यतीति भावः ॥ ३४ ॥
प्रभाविलासः - ३४
किं णत्थि पडिहारो इति । अत्र पश्चात्तापो नाम नाट्यालङ्कारः, पश्चात्तापोऽनुतापस्तु कृत्वा कार्यान्तरं यथा" इति लक्षणात् । तोयोज्झनेनेति । यावत्प्रसादं क्षमयितव्यमिति वक्तुं क्रमयोजितेनेत्युक्तम् । अत्र
“प्रमादाद्बुद्धितो वापि यदागः क्रियते सताम् ।
अनुतप्तस्तु तामेव क्षमयेन्नान्यथा शमः ॥”
“कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ।
अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनात् ॥ "
इत्यादिकमनुसन्धेयम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
अपि च—
बहुजन्मसुकृतसिद्धं ब्रह्मविदपचारदूरगं पुरुषम् ।
अभिसरति नित्यरक्ता98 सत्वरमपवर्गसाधनी विद्या ॥ ३५ ॥
मूलम् - ३५
अपि च—
बहुजन्मसुकृतसिद्धं ब्रह्मविदपचारदूरगं पुरुषम् ।
अभिसरति नित्यरक्ता98 सत्वरमपवर्गसाधनी विद्या ॥ ३५ ॥
प्रभावली - ३५
एवं तर्हि तस्याप्यपवर्गसाधनसमाधिः किं न सिध्यतीति शङ्कायां सिध्यत्येवेत्याह-अपिचेति । बहुजन्मस्वार्जितेन सुकृतेन सिद्धं सिद्धोपाया नुष्ठान ब्रह्मविदपचारात् दूरगं ब्रह्मविदपचारं परिहृत्य वर्तमानमधिकारिणम् । नित्यमुक्ता ; नित्यमनुसंहिता । अन्यत्राभिसारिकापक्षे नित्यमुक्ता अयन्त्रिता । यद्वा
X३७९
नित्यरक्ता ; नित्यरागवती । अपवर्गसाधनभूता विद्या समाधिरित्यर्थः । सत्व- रमभिसरति ; स्वयमेवेति शेषः । कृतब्रह्मविदपचारस्य तत्प्रसादनं निष्कृतिरिति भावः ॥ ३५ ॥
प्रभाविलासः - ३५
बहुजन्मेति । अभिसरतीत्यभिसारिकावृत्तान्तप्रतीत्या सम्भोगशृङ्गारो
व्यङ्ग्यः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
–
साच,
परभक्तिरप्रकम्प्या निवृत्तिधर्मानुबन्धिगुणबन्धैः99 ।
भवजलधिपोतपात्री जाता वृद्धिं दिने दिने भजते ॥ ३६ ॥
मूलम् - ३६
–
साच,
परभक्तिरप्रकम्प्या निवृत्तिधर्मानुबन्धिगुणबन्धैः99 ।
भवजलधिपोतपात्री जाता वृद्धिं दिने दिने भजते ॥ ३६ ॥
प्रभावली - ३६
ननु त्वया समाधेरपवर्गसाधनत्वमुच्यते । " भक्त्या त्वनन्यया शक्यः
। इत्यादिषु भक्तेरपवर्गोपायत्वं प्रतीयते । कथमिदं सङ्गच्छत इत्यत आह- सा चेति । परभक्तिः ; भगवत्साक्षात्काररूपा निरतिशयप्रीतिः । अप्रकम्प्या ; ध्रुवानुस्मृतिरूपा । निवृत्तीत्यादि । निवृत्तिधर्मः ; फलाभिसन्धिकर्तृत्वाभिमानविधुरतयानुष्ठीयमानधर्मः, तदनुबन्धिगुणाः तदविनाभूता विवेकविमोकादयः, तेषा बन्धैः सम्बन्धैः । भवजलधिपोतपात्री जाता; अपवर्गसाधनभूता सती दिने दिने वृद्धिं भजते । अयमाशयः - दर्शनसमानाकारा निरतिशयप्रीतिरूपा सप्ताङ्गानुगृहीता भक्तिशब्दवाच्या ध्रुवानुस्मृतिः अपवर्गसाधनभूता । सैव समाधिशब्देनाभिधीयत इति ॥ ३६ ॥
प्रभाविलासः - ३६
परभक्तिरिति दिने दिन इति चन्द्रौपम्यप्रतीतेः वस्तुना अलङ्कारध्वनिः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
सुमतिः - (सविमर्शम् ) णाह, जुत्तं100 एदं ; जइ दुण्णिवार-101 णिअइबलणिम्मिआ102 अपक्कणी सेसकसाअस्स103 मोक्खपक्खणिक्खेव-
जोग्गा अणिममहिमगरिमलहिमवसित्तणेसित्तणपत्तिपाअम्मप्पमुहा104 परमपुरिसत्थसिद्धि105 साहणजो अन्तराआ ण होन्ति ।
( नाथ, युक्तमेतत्; यदि दुर्निवारनियतिबलनिर्मिताः अपक्वनिःशेषकषायस्य मोक्षपक्षनिक्षेपयोग्याः अणिममहिमगरिमलघिमवशित्वेशित्वप्राप्तिप्राकाम्यप्रमुखाः परमपुरुषार्थसिद्धिसाधनयोगान्तराया न भवन्ति ।)
विवेकः- सत्यं देवि, दुर्जया एते दुरन्तवैरिणो योगान्तरायाः । तदेषां सम्भवे परिहरणादपि सम्भवस्यैव परिहरणेन निष्प्रत्यूहा भविष्यति नैःश्रेयसिकी सिद्धिः ।)
(ततः प्रविशति भूर्जपत्र भूषितोत्तमाङ्गो दूतः )
दूतः – ( साञ्जलिबन्धम् ) राजन्, अयमस्मि देवस्य महाराजस्य महामोहस्य दृष्टिपथमनुज्झन् सर्वत्राप्रतिहतगतिः संवृतिसत्यो नाम दूतः । तदभिवादयेऽहं सावरोधं भवन्तम्106 ।
विवेकः - ( आत्मगतम् ) किं निमित्तमयमुपागतः ? (प्रकाशम् ) अस्थानवृत्तिमपहायापरिमितायुर्भूयाः ।
दूतः (उत्तमाङ्गादवतारित दरविकसिताञ्जलिकोशनिहितं107 भूर्जपत्रमुपदर्शयन् ) इदं किल महाराज, चतुर्दशभुवनचक्रचक्रवर्तिनः द्वापरमन्त्रिनिर्धारितनिखिलकार्यस्य दुर्मतिमतप्रतिष्ठितस्य108 देवस्य महामोहस्य लोभनाम्ना गणकेन लिखित्वा109 त्वदर्थं प्रेषितमन्तरङ्गेण मया उपहृतमलङ्घनीयं110 शासनम् ।
विवेकः - (सानादरावहित्थम्) भद्र, अस्माकमप्यभिमतः111
खल्वसि । तदिहोपह्वरे त्वमेव वाचय ।
दूतः — यदादिशति महाराजः ।
(इति विनयनिभृतं वाचयति)
" एतत्कामादिमान्यस्य महामोहस्य शासनम् ।
संसारहासभीतानां स्वर्गिणामपि सम्मतम् ॥ ३७ ॥
मूलम् - ३७
सुमतिः - (सविमर्शम् ) णाह, जुत्तं100 एदं ; जइ दुण्णिवार-101 णिअइबलणिम्मिआ102 अपक्कणी सेसकसाअस्स103 मोक्खपक्खणिक्खेव-
जोग्गा अणिममहिमगरिमलहिमवसित्तणेसित्तणपत्तिपाअम्मप्पमुहा104 परमपुरिसत्थसिद्धि105 साहणजो अन्तराआ ण होन्ति ।
( नाथ, युक्तमेतत्; यदि दुर्निवारनियतिबलनिर्मिताः अपक्वनिःशेषकषायस्य मोक्षपक्षनिक्षेपयोग्याः अणिममहिमगरिमलघिमवशित्वेशित्वप्राप्तिप्राकाम्यप्रमुखाः परमपुरुषार्थसिद्धिसाधनयोगान्तराया न भवन्ति ।)
विवेकः- सत्यं देवि, दुर्जया एते दुरन्तवैरिणो योगान्तरायाः । तदेषां सम्भवे परिहरणादपि सम्भवस्यैव परिहरणेन निष्प्रत्यूहा भविष्यति नैःश्रेयसिकी सिद्धिः ।)
(ततः प्रविशति भूर्जपत्र भूषितोत्तमाङ्गो दूतः )
दूतः – ( साञ्जलिबन्धम् ) राजन्, अयमस्मि देवस्य महाराजस्य महामोहस्य दृष्टिपथमनुज्झन् सर्वत्राप्रतिहतगतिः संवृतिसत्यो नाम दूतः । तदभिवादयेऽहं सावरोधं भवन्तम्106 ।
विवेकः - ( आत्मगतम् ) किं निमित्तमयमुपागतः ? (प्रकाशम् ) अस्थानवृत्तिमपहायापरिमितायुर्भूयाः ।
दूतः (उत्तमाङ्गादवतारित दरविकसिताञ्जलिकोशनिहितं107 भूर्जपत्रमुपदर्शयन् ) इदं किल महाराज, चतुर्दशभुवनचक्रचक्रवर्तिनः द्वापरमन्त्रिनिर्धारितनिखिलकार्यस्य दुर्मतिमतप्रतिष्ठितस्य108 देवस्य महामोहस्य लोभनाम्ना गणकेन लिखित्वा109 त्वदर्थं प्रेषितमन्तरङ्गेण मया उपहृतमलङ्घनीयं110 शासनम् ।
विवेकः - (सानादरावहित्थम्) भद्र, अस्माकमप्यभिमतः111
खल्वसि । तदिहोपह्वरे त्वमेव वाचय ।
दूतः — यदादिशति महाराजः ।
(इति विनयनिभृतं वाचयति)
" एतत्कामादिमान्यस्य महामोहस्य शासनम् ।
संसारहासभीतानां स्वर्गिणामपि सम्मतम् ॥ ३७ ॥
प्रभावली - ३७
सविमर्शम् ; अणिमादिप्रत्यूहभिया । जइ इत्यादि । जइ यदि । दुण्णिवार- णिअइबल - दुर्निवार नियतिबल । नियतिर्विधिः । णिम्मिआ-निर्मिताः । अपक्क-
X३८०
णीसेसकसाअस्स-अपक्वनिःशेषकषायस्य । कषायाः पापानि । अपक्वानि निःशेषकषायाणि यस्य तस्य । मोक्खपक्खनिक्खेव भोग्गा-मोक्षपक्षनिक्षेपयोग्याः । अणिममहिमगरिमलहिमवमित्तणेसिनणपत्तिपाकम्मप्पमुहा अणिममहिमगरिम- लघिमवशित्वेशित्वप्राप्तिप्राकाम्यप्रमुखाः । अणिमा अणुत्वम् । महिमा महत्त्वम् । गरिमा गुरुत्वम् । लघिमा लघुत्वम् । वशित्वं वश्येन्द्रियत्वम् । ईशित्वं स्वातन्त्र्यम् । प्राप्तिः सद्य इष्टदेशप्राप्तिः । प्राकाम्यं चिन्तितमात्रे सर्वार्थसिद्धिः । परमपुरिसत्थसिद्धिसाहणजोअन्तराआ परमपुरुषार्थसिद्धिसाधनयोगान्तरायाः ।
X३८१
ण होन्ति न भवन्ति । दुरन्ता; दुर्जयाः । सम्भवस्यैव ; उत्पत्तेरेव । परिहरणं नाम तदनाकाङ्क्षणम् । नैःश्रेयसिकी; मोक्षसम्बन्धिनी । भूर्जपत्रं नाम राजशासनरूपा तालपत्रस्थानीया तरुविशेषत्वक् । तत्र मध्या वाचिकं विलिखन्ति । दूता उत्तमाङ्गे राजशासनं निक्षिप्य गच्छन्ति । महाराजेति मध्ये विवेक-
X३८२
संशयः ।
सम्बोधनम्। अनुज्झन् ; सर्वदा वर्तमानः । सर्वत्र ; आब्रह्मलोकम् । संवृतिसत्यः ; व्यावहारिकसत्यः । अपरमार्थसत्य एव योगाचारेण संवृतिसत्य इति व्यवहियते । तमेव प्रच्छन्नयोगाचाराः शङ्करमतानुसारिणः व्यावहारिकसत्य इति व्यवहरन्तीति विशेषः । तत्; तस्मात् दूतत्वात् । अभिवादये; नमस्करोमि । अस्थान- वृत्तिम् ; अपरमार्थवस्तुवृत्तिं विहाय दीर्घायुर्भवेत्यर्थः । दरविकसितम् ; अल्प- विकसितम् । द्वापरः; संशयः । स एव मन्त्री । दुर्मतेः मतमभिलषितं, तत्र प्रतिष्ठितस्य । अन्तरङ्गेण ; आप्तेन । अलङ्घनीयमिति ; भवताप्यलङ्घनीयमिति
X३८३
भावः । अभिमतः; संवृतिरूपविशेषणत्याग इति भावः । उपह्वरे; एकान्ते । विनयेन निभृतम् अनुद्धतं यथा तथा । एतदित्यादि वाचिकम् । संसारस्य हासे क्षये भीतानां देवानामापि सङ्गतम् । “संसार न्यूनताभीतास्त्रिदशाः परिपन्थिनः " इत्युक्तेः ॥ ३७ ॥
प्रभाविलासः - ३७
पाअम्पष्पमुद्दा इति । अत्र प्रमुखपदेन दूरश्रवणदर्शनादिकमुच्यते
तदुक्तमेकादशे -
" अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥
गुणेष्वसङ्गो वशिता यत्कामस्तदुपश्यति ।
अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शने ॥
मनोजवः कामरूपं परकायप्रवेशनम् ।
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ॥”
यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गतिः । त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ॥ अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः । एतास्तूद्देशतः प्रोक्ता योगधारणसिद्धयः ॥ अन्तरायान्वदन्त्येतान् युञ्जतो योगमुत्तमम् । मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥
इति । सम्भवस्यैव परिहारेणेत्यस्यायमर्थः — अणिमादिकामनया तत्तत्प्राप्तिहेतुत्वेन विहितप्रतीकमात्रोपासनाविशेषानुष्ठाने हि त उत्पद्यन्ते । तथाविधोपासना भावे नोत्पद्यन्त इति । तदुक्तं तत्रैव-
“भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः ।
अणिमानमवाप्नोति तन्मात्रोपासको मम ॥
महत्यात्मन्मयि परे तथासंस्थं मनो दधत् ।
महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥ "
इत्यादिना । अथ दूतलेख्यलक्षणे उपसन्धी दर्शयति - ततः प्रविशती -
त्यादिना । संवृतिसत्य’; व्यावहारिकसत्यः । आत्मगतमिति ; जनैरश्राव्यमाणमुच्यते । अस्थानवृत्तिम् ; अपरमार्थवस्तुवृत्तिम् । द्वापरः;
" सन्देहद्वापरावपि " इति निघण्टुः । एतदिति । संसारहास भीतानामिति ;
अनेन
" वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।
संसारन्यूनता भीतास्त्रिदशाः परिपन्थिनः ॥
इति स्मारितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
"
विवेकः - (अपवार्य सान्तर्हासम् ) देवि, किं वयमपि शासनीया दुरात्मनो112 महामोहस्य ? परचित्तवेदनार्थमिह वाचिकं तावत् श्रोतव्यम् । भद्र, ततस्ततः ।
दूतः-
" परोपास्तिश्रद्धावधिकमतिवृत्तं यदिह ते
तदैश्वर्यप्राप्त्यै113 भवतु बहु 114 मन्येमहि तदा । "
विवेकः - ( अवज्ञां नाटयन् ) प्रिये, आकर्णितः किलायं
भिक्षुपादप्रसरणन्यायः115 । अथवा स्वाभाव्यमेव116 शवमुष्टिवत् गृहीत-
ग्राहिता महामोहस्य ।
सुमतिः - एवम् एदम् ।
( एवमेतत् )
विवेकः ततस्ततः ।
दूतः-
" अतिक्रान्तावस्मद्भ्रुकुटिनटनारम्भसमय-
प्रदीप्त क्रोधादिप्रतिभटनिरुद्धो117 न भवसि ॥ ३८ ॥
मूलम् - ३८
"
विवेकः - (अपवार्य सान्तर्हासम् ) देवि, किं वयमपि शासनीया दुरात्मनो112 महामोहस्य ? परचित्तवेदनार्थमिह वाचिकं तावत् श्रोतव्यम् । भद्र, ततस्ततः ।
दूतः-
" परोपास्तिश्रद्धावधिकमतिवृत्तं यदिह ते
तदैश्वर्यप्राप्त्यै113 भवतु बहु 114 मन्येमहि तदा । "
विवेकः - ( अवज्ञां नाटयन् ) प्रिये, आकर्णितः किलायं
भिक्षुपादप्रसरणन्यायः115 । अथवा स्वाभाव्यमेव116 शवमुष्टिवत् गृहीत-
ग्राहिता महामोहस्य ।
सुमतिः - एवम् एदम् ।
( एवमेतत् )
विवेकः ततस्ततः ।
दूतः-
" अतिक्रान्तावस्मद्भ्रुकुटिनटनारम्भसमय-
प्रदीप्त क्रोधादिप्रतिभटनिरुद्धो117 न भवसि ॥ ३८ ॥
प्रभावली - ३८
अपवार्य; वाचनिकान्निवृत्य, शासनशब्दश्रुतेः । शासनीयाः ; नियम-
X३८४
नीयाः । बहु मन्येमहि ; अनुमन्येमहीत्यर्थः । उत्तरार्धवचनात् पूर्वमेव विवेकः
X३८५
अवज्ञामनादरं नाटयन् । भिक्षुपादप्रसरण न्यायः ; किञ्चिदवकाशे दत्ते सर्वमप्या- क्रमिष्यामीत्यभिप्रायः । उत्तरार्धं पठति - अतिक्रान्तावित्यादि । अस्मदुक्त्यतिक्रमे, अस्माकं भ्रुकुटिनटनभ्रूविक्षेपः, तदारम्भसमये प्रदीप्ताः क्रुद्धाः ये क्रोधादयः त्वद्वैरिणः, तैरुपद्रुतो न भवसि ; न जीविष्यसि ॥ ३८ ॥
प्रभाविलासः - ३८
अपवार्येति । इयं हि नाटकपरिभाषा-
" अश्राव्यो नियतश्राव्यः श्राव्यो योऽर्थस्य वस्तुनः ।
अश्राव्यमन्यैरज्ञातमात्मन्येव स्थितं विदुः ॥
तमात्मगतमित्युक्त्वा काव्यबन्धे निवेशयेत् ।
अर्थस्त्वेकेन विज्ञेयो नियतश्राव्य इष्यते ॥
द्विविधः स परिज्ञेयो जनान्तश्चापवारितः ।
गुह्यो गुह्येतरश्चेति जनान्तोऽपि द्विधा मतः ॥
स्याज्जनान्तिकमित्युक्त्वा वाच्यः पूर्वस्तथापरः।
कर्ण एवमिवेत्युक्त्वा ज्ञाप्यः पश्चात्प्रसङ्गतः ॥
परैरलक्ष्यव्यापारः कथितोऽर्थोऽपवारितः ।
उक्त्वा प्रागपवायेन्ति पश्चादेव प्रयोजयेत् ॥
सर्वैराकर्णनीयोऽर्थः श्राव्य इत्यभिधीयते ।
एनं प्रकाशमित्युक्त्वा तयोरन्ते प्रयोजयेत् ॥”
इति । अतोऽपवार्येत्युक्तम् । एवं जनान्तिकम् आत्मगतं प्रकाशमित्या- दिषु यथायोगं द्रष्टव्यम् । परोपास्तीति । अतिवृत्तम् ; अतिक्रमः ।
भिक्षुन्यायः; कश्चित् भिक्षुः कस्यचित् गृहमेधिनो द्वारि वर्षासमये तिष्ठन् गृहस्थे तं गृहं प्रवेशयति पादप्रसरणमात्रस्यानुमतिं प्राप्य लब्धावकाशः क्रमेण गृहं सर्वमाक्रान्तवान् । अतिक्रान्ताविति । निरुद्धो न भवसि ; निरुद्धः सन् न भवसीत्यर्थः । प्रतिभट निरोधो नास्तीति च ध्वन्यते ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
”
विवेकः- प्रिये, स्वधर्मनिरतानस्मान् प्रति सोऽयमाशीर्वादः । अयि118 मोहदूत, किमस्ति शेषं वाचिकस्य ?
दूतः— अस्ति किञ्चिदात्मीय119 बलाध्यक्षकामक्रोधवैभवविषयम् ।
विवेकः- अस्तु ; को दोषः ? शृणुमस्तावत ।
दूतः-
" विश्वाधिको विलयमेष्यति कस्य भूम्ना
वीरः120 प्रसिद्धमहिमा विबुधेषु कामः ।
क्रोधोदितं यदनुभाववशेन शम्भोः
शृङ्गारशीतलमभून्नयनं तृतीयम् ॥ ३९ ॥
मूलम् - ३९
”
विवेकः- प्रिये, स्वधर्मनिरतानस्मान् प्रति सोऽयमाशीर्वादः । अयि118 मोहदूत, किमस्ति शेषं वाचिकस्य ?
दूतः— अस्ति किञ्चिदात्मीय119 बलाध्यक्षकामक्रोधवैभवविषयम् ।
विवेकः- अस्तु ; को दोषः ? शृणुमस्तावत ।
दूतः-
" विश्वाधिको विलयमेष्यति कस्य भूम्ना
वीरः120 प्रसिद्धमहिमा विबुधेषु कामः ।
क्रोधोदितं यदनुभाववशेन शम्भोः
शृङ्गारशीतलमभून्नयनं तृतीयम् ॥ ३९ ॥
प्रभावली - ३९
सोऽयम् ; निरुद्धो न भवसीति यदुक्तम् । अयि ; रे इत्यर्थः । विश्वाधिक
X३८६
इति कामविषय श्लोकद्वयम् । प्रथमश्लोकेन कामस्य केनापि दुर्जयत्वमाह — विश्वाधिक इति । विश्वेभ्योऽधिकः । भूम्ना पराक्रमेण । विबुधेषु प्रसिद्धमहिमा । तदुपपादनाय रुद्रेणापि दुर्जयत्वमाह - शम्भोः कामविषयक्रोधेन प्रदीप्तं तृतीयं नयनं यस्य कामस्यानुभावो माहात्म्यं तद्वशात् शृङ्गाररसेन शीतलमभूत् ; शम्भुः देव्यामासक्तो बभूव । कामेन जितो बभूवेति यावत् ॥ ३९ ॥
प्रभाविलासः - ३९
ध्वन्यर्थमेवानुमोदयन्नाह - स्वधर्मेति । विश्वाधिक इति । कस्य भूम्ना विलयमेष्यति न कस्यापीत्यर्थः । कस्य भूम्ना दैववलेन विलयमेष्यतीति ध्वनिः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
अपि च-
कामोsसौ समवर्तताग्र इति हि121 ब्रूते समीची श्रुतिः
कामादेव जगज्जनिस्थितिलयैराद्यः पुमान्क्रीडति ।
निष्कामोऽपि सकाम एव लभते निःश्रेयसं दुर्लभं
कामः कस्य वशे क एष भुवने कामस्य न स्याद्वशे ॥ ४०॥
मूलम् - ४०
अपि च-
कामोsसौ समवर्तताग्र इति हि121 ब्रूते समीची श्रुतिः
कामादेव जगज्जनिस्थितिलयैराद्यः पुमान्क्रीडति ।
निष्कामोऽपि सकाम एव लभते निःश्रेयसं दुर्लभं
कामः कस्य वशे क एष भुवने कामस्य न स्याद्वशे ॥ ४०॥
प्रभावली - ४०
अथ तस्य कामस्य दुर्जयो नास्तीत्याह - कामोऽसाविति । “काम-
X३८७
स्तदग्रे समवर्तताधि” इति श्रुतिस्तस्य पुरातनत्वं ब्रूते । कामाद्धेतोः आद्यः पुमान् जगज्जनिस्थितिलयैः क्रीडति । " सोऽकामयत बहु स्याम्" इति श्रुतिः ।
"
कामाच्च नानुमानापेक्षा " इति ब्रह्मसूत्रम् । अनेन भगवानपि कामजित इति सूच्यते । निष्कामो मुमुक्षुरपि अन्ततः सकामः प्राप्यविषयकामविशिष्टः सन्नेव दुर्लभं निःश्रेयसं लभते । प्राप्याकाङ्क्षाभावे तदपि दुर्लभमिति दुर्लभशब्दाभि- प्रायः । अतः कामः कस्य पुंसो वशे स्थितः ; न कस्यापीत्यर्थः । कामस्य वशे यो न स्यात् स भुवने क एषः ; कोऽपि नास्तीत्यर्थः ॥ ४० ॥
प्रभाविलासः - ४०
काम इति । " कामस्तदग्रे समवर्तताधि " इति श्रुतिः । कामा-
देवेति ।
" सोऽकामयत बहु स्यां प्रजायेयेति " इति श्रुतेः । सकामः ; मोक्षकामः ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
सुमतिः - महाराअ, किं तुम्हेहिं वि दुज्जओ मअर-
लञ्छणो ?
( महाराज, किं युष्माभिरपि दुर्जयो मकरलाञ्छनः ?)
विवेकः देवि, मिथ्यादृष्टिप्रियस्य महामोहस्य प्रलपिते
किं प्रत्युच्यते ? अवशिष्टमपि निशामयामः ।
दूतः-
“यदि कुप्यति कोपाय न कोपमतिवर्तते ।
अकोपविषयं कोपं कथं कश्चिद्विजेष्यते ॥ ४१ ॥
मूलम् - ४१
सुमतिः - महाराअ, किं तुम्हेहिं वि दुज्जओ मअर-
लञ्छणो ?
( महाराज, किं युष्माभिरपि दुर्जयो मकरलाञ्छनः ?)
विवेकः देवि, मिथ्यादृष्टिप्रियस्य महामोहस्य प्रलपिते
किं प्रत्युच्यते ? अवशिष्टमपि निशामयामः ।
दूतः-
“यदि कुप्यति कोपाय न कोपमतिवर्तते ।
अकोपविषयं कोपं कथं कश्चिद्विजेष्यते ॥ ४१ ॥
प्रभावली - ४१
महाराअ इत्यादि । महाराअ - महाराज । किं तुम्हेहिं वि-कि युष्मा- भिरपि । दुज्जओ- दुर्जयः । मअरलञ्छणो मकरलाञ्छनः । मिथ्यादृष्टिप्रियस्येति
X३८८
हेतुगर्भम् । तत्प्रियत्वान्मिथ्यैव वदति । तत्प्रलपिते प्रत्युत्तरमपि किमुच्यते ? न किमपीत्यर्थः । यदीति । अयं कोपमहिमविषयश्लोकः । कोपं प्रति यदि कश्चित् कुप्यति, तदा न कोपमतिक्रान्तः, निष्क्रोधो न भवति । यदि कोपः कस्यचित् कोपविषयो न स्यात्, तदा को वा कोपं विजयेत ॥ ४१ ॥
प्रभाविलासः - ४१
कोपस्य दुर्जयत्वं विकल्पमुखेनाह – यदीति ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
122 तदिदमुभयतः पाशा रज्जुः । "
सुमतिः - णाह, णं कामादो वि कोवो दुज्जओ, जेण कामज123 अम्मि वि सअं कालणं होइ ।
( नाथ, ननु कामतोऽपि कोपो दुर्जयः, येन कामजयेऽपि स्वयं कारणं भवति ।)
1
विवेकः – प्रिये,124 स्थानक्रोधो न खलु दोषाय । योऽसौ कामादिनिरसनार्थतया परमार्थवेदिभिः प्रशस्यते । (दूतमवलोक्य) दूत, श्रुतमिह श्रोतव्यम् । ब्रूहि मद्वचनाद्युष्मत्स्वामिनम् —-
अप्राणितमहामोहमनङ्गीकृतमन्मथम् ।
विधूतप्रतिघं लोको विवेकं बहु मंस्यते ॥ ४२ ॥
मूलम् - ४२
122 तदिदमुभयतः पाशा रज्जुः । "
सुमतिः - णाह, णं कामादो वि कोवो दुज्जओ, जेण कामज123 अम्मि वि सअं कालणं होइ ।
( नाथ, ननु कामतोऽपि कोपो दुर्जयः, येन कामजयेऽपि स्वयं कारणं भवति ।)
1
विवेकः – प्रिये,124 स्थानक्रोधो न खलु दोषाय । योऽसौ कामादिनिरसनार्थतया परमार्थवेदिभिः प्रशस्यते । (दूतमवलोक्य) दूत, श्रुतमिह श्रोतव्यम् । ब्रूहि मद्वचनाद्युष्मत्स्वामिनम् —-
अप्राणितमहामोहमनङ्गीकृतमन्मथम् ।
विधूतप्रतिघं लोको विवेकं बहु मंस्यते ॥ ४२ ॥
प्रभावली - ४२
तस्मादयं कोपः पुरुषस्य उभयतः पाशा रज्जुः । यदा गोः कण्ठरज्जुः उभयतः पाशबद्धा भवति, तदा गौरुभयतोऽप्यतिपतितुं न शक्नोति । तथात्र पुरुषोऽपीति भावः । णं ननु । कामादो वि-कामादपि । कोवो कोपः । दुज्जओ- दुर्जयः । जेण येन । कामविअ अम्मिवि कामविजयेऽपि । सअं स्वयम् । कालणं- कारणम् । होइ भवति । स्थानक्रोधः ; युक्तस्थले क्रियमाणः कोपः । अप्राणितेति निहतमहामोहम् । अनङ्गीकृतः अस्वीकृतः, अङ्गरहितीकृतः हत इति
X३८९
चार्थः, मन्मथो येन तम् । विधूतः प्रतिक्षिप्तः प्रतिघः कोधः येन तं विवेकम् अयं लोको बहु मंस्यते बहुमानविषयं करिष्यति । मोहादीन् सर्वान् शीघ्रं हनिष्यामीत्यर्थः ॥ ४२ ॥
प्रभाविलासः - ४२
अप्राणितेति । अप्राणितःः प्राणैर्वियोजित इत्यर्थः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
दूतः - महाराज, साधयाम्यहम् । ( इति द्वित्रपदान्यति-
क्रम्य स्वगतम्)
सुप्तप्रबोधनसमुत्सुकया सुमत्या
पत्न्या सहाचरितविश्वहितं125 विवेकम् ।
जेतुं क एव जगति प्रभवेत्तथापि
स्वामी नियोजयति मोह इह स्वयं नः ॥ ४३ ॥
मूलम् - ४३
दूतः - महाराज, साधयाम्यहम् । ( इति द्वित्रपदान्यति-
क्रम्य स्वगतम्)
सुप्तप्रबोधनसमुत्सुकया सुमत्या
पत्न्या सहाचरितविश्वहितं125 विवेकम् ।
जेतुं क एव जगति प्रभवेत्तथापि
स्वामी नियोजयति मोह इह स्वयं नः ॥ ४३ ॥
प्रभावली - ४३
साधयामि ; गच्छामि । सुप्तेति । अनादिमायया सुप्तस्य जीवस्य प्रबोधने तात्पर्यवत्या सुमत्या सहाचरितं विश्वेभ्यो हितं येन तं विवेकं को वा जेतुं प्रभवति ॥ ४३ ॥
प्रभाविलासः - ४३
सुप्तेति । सुप्तस्य अनादिमायया सुप्तस्य प्रबोधने समुत्सुकया । स्वामी नियोजयति ; अतो नः प्रतिवक्तव्यं नास्तीति शेषः ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
(प्रकाशम्) महाराज, " त्यजेदेकं कुलस्यार्थे " इति नीतिं
नातिवर्तेथाः ।
(इति निष्क्रान्तः)
सुमतिः- अय्यउत्त, जइ मुत्तिसाहणसज्जो पुरिसो मोह- प्पजुत्तेर्हि कामकोहलोहमअमच्चल प्पहुदीहिम् अहिहु अइ,126 एआवन्तो तुम्हपरिस्समो विहलो होइ ।
( आर्यपुत्र, यदि मुक्तिसाधनसज्जः पुरुषो मोहप्रयुक्तैः काम- क्रोधलोभमदमत्सरप्रभृतिभिरभिभूयते एतावान् युष्मत्परिश्रमो विफलो भवति ।)
विवेकः देवि, मैवं मन्वीथाः । आशंसेथाः पुनः
शोभनमेव ।
त्रय्यन्तैरवधारिते भगवति क्षिप्ते विरोधभ्रमे
साङ्गोपायविभागसम्भृतमतिः सम्प्रत्यसौ साधकः ।
कामक्रोधनिशातकण्टकमिलत्कालुष्यपङ्कच्छटा-
निर्मुक्तेन सुशीतलेन सुपथा127 निःश्रेयसं प्राप्स्यति ॥ ४४ ॥
मूलम् - ४४
(प्रकाशम्) महाराज, " त्यजेदेकं कुलस्यार्थे " इति नीतिं
नातिवर्तेथाः ।
(इति निष्क्रान्तः)
सुमतिः- अय्यउत्त, जइ मुत्तिसाहणसज्जो पुरिसो मोह- प्पजुत्तेर्हि कामकोहलोहमअमच्चल प्पहुदीहिम् अहिहु अइ,126 एआवन्तो तुम्हपरिस्समो विहलो होइ ।
( आर्यपुत्र, यदि मुक्तिसाधनसज्जः पुरुषो मोहप्रयुक्तैः काम- क्रोधलोभमदमत्सरप्रभृतिभिरभिभूयते एतावान् युष्मत्परिश्रमो विफलो भवति ।)
विवेकः देवि, मैवं मन्वीथाः । आशंसेथाः पुनः
शोभनमेव ।
त्रय्यन्तैरवधारिते भगवति क्षिप्ते विरोधभ्रमे
साङ्गोपायविभागसम्भृतमतिः सम्प्रत्यसौ साधकः ।
कामक्रोधनिशातकण्टकमिलत्कालुष्यपङ्कच्छटा-
निर्मुक्तेन सुशीतलेन सुपथा127 निःश्रेयसं प्राप्स्यति ॥ ४४ ॥
प्रभावली - ४४
त्यजेदेकमिति । एकस्मिन् पुरुषे बन्धादविमोचिते कुलद्वयमपि जीवति ; मोचिते कुलद्वयमपि नश्यति । अतः पुरुषमोचने यत्नो न कार्य इति भावः । जई - यदि । मुत्तिसाहणसज्जो - मुक्तिसाधनसज्जः । पुरिसो- पुरुषः । मोहप्पजुत्तेहिं-
X३९०
मोहप्रयुक्तैः । कामको हलोहमद मच्चरप्पहुदीहि कामक्रोध लोभमदमत्सरप्रभृतिभिः । अहिहूअइ-अभिभूयते । एआवतो - एतावान् । तुम्ह परिस्समो - युष्मत्परिश्रमः । विहलो - विफलः । होइ - भवति । आशंसेथाः ; प्रार्थयेथाः । पुनरिति वाक्यालङ्कारे । शोभनप्राप्तौ हेतुमाह -त्रय्यन्तैरिति । अवधारिते; सर्वकारणत्वेन निश्चिते । अनेन शारीरकस्य समन्वयाध्यायार्थ उक्तः । प्रधानादेर्जगत्कारणत्वेन ब्रह्मकारणत्वं विरुद्धमिति योऽयं विरोधभ्रमः ; तस्य भ्रमत्वं बाध्यत्वात् ; तस्मिन्
X३९१
क्षिप्ते; साङ्ख्यादिमतनिराकरणेनेति शेषः । अनेनाविरोधलक्षणार्थः सूचितः । एतद्विशेषणद्वयेनातीताङ्कद्वयप्रतिपादितार्थ उक्तः । सम्प्रति ; तृतीयलक्षणे तृतीयाङ्के च । साङ्गस्योपायस्य भक्तिरूपस्य विभागेन विभज्य कथनेन सम्भृता परिपूर्णा मतिर्यस्य सः । साधकः ; अधिकारी । कामक्रोधावेव निशातकण्टकौ, ताभ्यां संसृज्यमानं यत्कालुष्यं मतिभ्रमः, तदेव पङ्कसमूहः तेन निर्मुक्तेन सुष्ठु शीतलेन निरतिशयप्रीतिरूपेण सुपथा पूर्वोक्तोपायेन मोक्षं प्राप्स्यति ॥ ४४ ॥
प्रभाविलासः - ४४
त्यजेदिति । अनेन,
" त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेत् ॥”
इति स्मारितम् । उक्तरीत्या महामोहत्यागो युक्त इति ध्वन्यते । त्रय्यन्तैरिति । अवधारिते; निश्चिते । अनेन समन्वयलक्षणार्थ उक्तः । विरोधभ्रमे; जगज्जन्मादिकं ब्रह्मणि विरुध्यते, प्रयोजनाद्यभावादिति भ्रमे ।
क्षिप्ते सति । एवमविरोधलक्षणार्थ उक्तः । साङ्गोपायः ; यज्ञाद्यङ्गकमुपासनम्, ब्राह्मणा विविदषन्ति यज्ञेन दानेन तपसानाशकेन " इति श्रुतेः । एवं साधनलक्षणार्थ उक्तः । कामक्रोधावेव निशातकण्टकौ, ताभ्यां मिलत् मिश्रीभवत् कालुष्यमेव पङ्कं तस्य छटया निर्मुक्तेन सुपथा अचिरादिकेन । एवं फललक्षणार्थ उक्तः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
(नेपथ्ये)
दिव्यवैतालिकौ - विजयतां देवः ।
प्रथमः-
रम्या यामवतीपदार्पणपटी रागाब्धिवेलोद्गति-128
श्वेतोजन्मकदम्बधूलिविततिः शृङ्गारचूडाजपा ।
सम्मोहद्विपशोणबिन्दुपटली सन्ध्या जरीजृम्भ्यते129
प्रत्यग्दिग्वनितापयोधरतटीकाश्मीरपङ्कद्युतिः ॥ ४५ ॥
मूलम् - ४५
(नेपथ्ये)
दिव्यवैतालिकौ - विजयतां देवः ।
प्रथमः-
रम्या यामवतीपदार्पणपटी रागाब्धिवेलोद्गति-128
श्वेतोजन्मकदम्बधूलिविततिः शृङ्गारचूडाजपा ।
सम्मोहद्विपशोणबिन्दुपटली सन्ध्या जरीजृम्भ्यते129
प्रत्यग्दिग्वनितापयोधरतटीकाश्मीरपङ्कद्युतिः ॥ ४५ ॥
प्रभावली - ४५
अथ विवेकस्य सपत्नीकस्य स्वस्वकार्यनिर्वहणकालसूचनाय कामादिपर- पक्षसौप्तिकसन्नाहयोग्यं सायंसन्ध्याकालं दिव्यवैतालिकौ वर्णयतः - नेपथ्य
द्वितीयः–
X३९२
इत्यादि । परोक्षत एवोभौ राज्ञो मङ्गलमाशासाते - विजयतामिति । मोहादीनिति शेषः । तत्र प्रथमः सन्ध्यां वर्णयति रम्येति । सायं सध्या रम्या यामवती
- । रात्रिः, तस्याः पदार्पणपटी । पदार्पणपटी अलक्तकरसाङ्कैः रक्ता भवति । अथवा रागाब्धेः वेलोद्गतिः विकृत्युद्गतिः । यद्वा चेतोजन्मा, कामः स एव कदम्बः, तस्य पुष्पधूलिविततिः । अथवा शृङ्गाररसस्य चूडायां बद्धा जपा जपाकुसुमस्रक् । सम्मोहः महामोहः, स एव द्विपः, तस्य शोणबिन्दूनां शोणवर्णगण्डस्थलगतरक्तबिन्दूनां पटली समूहः । प्रत्यगित्यादि । प्रत्यक् पश्चि- मदिक्, सैव वनिता, तस्याः पयोधरतट्योः, काश्मीरं कुङ्कुमं, तस्य पङ्कस्तस्य द्युतिः । एवमुत्प्रेक्षिता सन्ध्या जरीजृम्भ्यते विष्वक् प्रसर[?]ति ॥ ४५ ॥
प्रभाविलासः - ४५
रम्येति । यामवती; रात्रिः नायिका लक्ष्यते ; तस्याः
तस्य
पदार्पणपटी ; चरणन्यासमार्गे प्रस्तारितः पटः । रागः ; अभिलाषः, स एव रागः रक्तिमा, स एवाब्धिः, तस्य वेलोद्गतिः वेलातिक्रमः, तत्तुल्ये - त्यर्थः । चेतोजन्मा; मन्मथः, स एव कदम्बः वृक्षविशेषः,
। धूलिविततिः परागसमूहः । यद्वा चेतोजन्मनः कदम्बधूलिः अङ्गरागरजः काश्मीररजः । शृङ्गारः; शृङ्गाररसः ; नायको लक्ष्यते । सम्मोह एव द्विपः, तस्य शोणबिन्दवः पद्मकानि तेषां पटली । अत्र सन्ध्यानिरूपणे- नास्तङ्गतवाक्यवदने कव्यङ्ग्यध्वनिभेदः; शृङ्गाररसश्च ध्वन्यत इति संसृष्टिः । शय्या च स्फुरति - " या पदानां परान्योन्यमैत्री शय्येति कथ्यते " इति
लक्षणात् ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
दिनाधिपविनाकृतिव्यसनखिन्नसन्ध्यावधू-
विधुतकबरीभरप्रसरकौतुकापादकम् ।
विशृङ्खलकलिन्दजाजलतरङ्गभङ्गावली-
मलीमसमिदं तमो जगदशेषमाचूषति ॥ ४६ ॥
मूलम् - ४६
दिनाधिपविनाकृतिव्यसनखिन्नसन्ध्यावधू-
विधुतकबरीभरप्रसरकौतुकापादकम् ।
विशृङ्खलकलिन्दजाजलतरङ्गभङ्गावली-
मलीमसमिदं तमो जगदशेषमाचूषति ॥ ४६ ॥
प्रभावली - ४६
;
द्वितीयस्तमः प्रसरणं वर्णयति - दिनाधिपेति । दिनाधिपः सूर्यः, तस्य विनाकृत्या वियोगेन यद्व्यसनं तेन खिन्ना या सन्ध्यैव वधूः, तया विधूतः कबरीभरः केशपाशभारः, तस्य कौतुक तदेवेदमित्युत्प्रेक्षाजनकम् । कलिन्द- जायाः कालिन्द्याः विशृङ्खला अनर्गला जलतरङ्गभङ्गावली, भङ्गास्तनुवीचयः, तत्पङ्क्तिरिव मलीमसम् इदं तमः अशेषं जगदाचूषति सशब्दं पिबति, आवृणोतीत्यर्थः ॥ ४६ ॥
प्रभाविलासः - ४६
–
दिनाधिपेति । दिनाधिपस्य सूर्यस्य विनाकृतिः विदेशगमनं,
तया जातं व्यसनं, तेन खिन्नायाः सन्ध्यावध्वाः विधूतस्य कबरीभरप्रसरस्य कौतुकमापादयतीति तथोक्तम् । विशृङ्खलायाः अप्रतिबन्धायाः कलिन्द- जायाः यमुनायाः जलतरङ्गाणां भङ्गावलीवत् शकलसमूहवत् मलीमसं नीलम् । आचूषति; अन्तः करोति । अत्र पूर्वार्धेन विप्रलम्भशृङ्गारः । आचूषती- त्यचेतनस्य तमसश्श्रूषणासम्भवात् सामान्य विशेष सम्बन्धात् निखिलव्यापनं लक्ष्यते । अतिगाढत्वं व्यङ्ग्यम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
विवेकः - ( कर्णं दत्वा ) देवि, दिवाभीतप्रायस्यास्मत्प्रतिपक्षस्य सौप्तिकसन्नाहसमयं130 सूचयतः प्रायेण131 स्वतो वियातवादिनौ वैतालिकौ । सम्पश्यतां भवती–
प्रकाशः सङ्कोचं भजति जगतः सीदति रवौ
तमिस्राविष्फूर्तिः स्थगयति मुखं शक्रहरितः ।
अवस्कन्दन्विश्वं सुमुखि मधुना साकमधुना
विधत्ते दुर्दान्तो विविधमपनीतं132 रतिपतिः ॥ ४७ ॥
मूलम् - ४७
विवेकः - ( कर्णं दत्वा ) देवि, दिवाभीतप्रायस्यास्मत्प्रतिपक्षस्य सौप्तिकसन्नाहसमयं130 सूचयतः प्रायेण131 स्वतो वियातवादिनौ वैतालिकौ । सम्पश्यतां भवती–
प्रकाशः सङ्कोचं भजति जगतः सीदति रवौ
तमिस्राविष्फूर्तिः स्थगयति मुखं शक्रहरितः ।
अवस्कन्दन्विश्वं सुमुखि मधुना साकमधुना
विधत्ते दुर्दान्तो विविधमपनीतं132 रतिपतिः ॥ ४७ ॥
प्रभावली - ४७
दिवाभीताः ; उलूकाः, तत्सदृशस्यास्मत्प्रतिपक्षस्य कामादेः सौप्तिक - सन्नाहसमयं पुरुषविषये सुप्तप्रहारोद्योगकाल सूचयतः, तमोवर्णनेनेति शेषः ।
X३९४
प्रायेण; भूयसा । स्वतो धृष्टवादिनौ वैतालिकौ मङ्गलपाठकौ । सम्पश्यताम् ; सम्यक्पश्येत्यर्थः । विवेकः स्वयमपि सध्यां वर्णयति – प्रकाश इति । खौ महाराज इव सीदति कृशता गच्छति सति जगतो जनस्य च प्रकाशः आलोको ज्ञानं च सङ्कोचं भजति । तमिस्रायाः ; तमः समूहस्य । विष्फूर्तिः ; समृद्धिः । शक्रहरितः ; पूर्वाया दिशः । मुखम् ; पुरोभागम् । स्थगयति ; व्याप्नोति । हे सुमुखि, दुर्दान्तो दुर्विनीतो रतिपतिश्च विश्वमवस्कन्दन्; विश्वं परिभवितुम्; लक्षण हेत्वोरिति शता । अधुना मधुमासेन साकं विविधं यथा तथा अपनीतम् अपन्यायः अवाच्यं कर्म विधत्ते । यथा राजनि सीदति तस्करोsपनीति विधत्ते तद्वदिति ॥ ४७ ॥
प्रभाविलासः - ४७
सौप्तिकम् ; सुप्तेषु पीडाकर्म । वियातवादिनौ घृष्टौ । प्रकाश
इति । रवौ; सूर्ये । सीदति अस्तं गते सतीत्यर्थः । जगतः प्रकाशः सङ्कोचं भजति । व्यस्तगमनतारतम्येन प्रकाशसङ्कोचतारतम्यमिति भावः । शक्रहरितः ; इन्द्रहरितः । मुखं स्थगयतीति तस्मिन्काले प्राग्देशे तमसोऽतिगाढत्वमुक्तम् । अवस्कन्दन्; पीडयन् । दुर्दान्तः; मूर्खः । अपनीतम् ; अतिक्रमम् । अत्रापनीतमिति तमिस्रेति च कृष्णपक्षरात्रिषु पारदार्यभूयस्त्वं सम्भोगशृङ्गारश्च व्यज्यत इत्युभयोः सङ्करः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
X३९३
अश्रान्तसन्ततिभिराभरणप्रकाशै-
आम्रेडयन्त्य इव मङ्गलदीपभासः ।
अन्तःपुरं तिलकयन्ति समं समन्ता-
दारात्रिकं मृगदृशो नियमं विधातुम् ॥ ४८ ॥
मूलम् - ४८
X३९३
अश्रान्तसन्ततिभिराभरणप्रकाशै-
आम्रेडयन्त्य इव मङ्गलदीपभासः ।
अन्तःपुरं तिलकयन्ति समं समन्ता-
दारात्रिकं मृगदृशो नियमं विधातुम् ॥ ४८ ॥
प्रभावली - ४८
पुनरपि स्वान्तःपुरे आरात्रिक कर्म विधातुं युवतीना सम्भ्रमं वर्णयति - अपिचेत्यादि । अविच्छिन्नसन्ततिभिः मङ्गलार्थे ये दीपाः, तेषां भासः कान्तीः
X३९५
आम्रेडयन्त्यः अधिकं कुर्वत्य इव स्थिताः मृगदृशः स्त्रियः आरात्रिकं नीराजनसम्बन्धिनं नियमं विधातुमन्तःपुरं तिलकयन्ति अलङ्कुर्वन्ति । इतस्ततः सञ्चरन्तीत्यर्थः ॥ ४८ ॥
प्रभाविलासः - ४८
XYZ
अश्रान्तेति । अश्रान्तसन्ततिभिः ; अविच्छिन्नसन्तानैः । आभरण- प्रकाशैः मृगदृशः मङ्गलदीपभासः मङ्गलदीपप्रकाशान् आम्रोडयन्त्यः
द्विगुणयन्त्यः सत्यः आरात्रिकं नियमं विधातुं समं समकालं समन्तादन्तःपुरं तिलकयन्तीति सम्बन्धः । अत्र स्फुरद्रसत्वात् द्राक्षापाकः, " द्राक्षा- पाकस्तु कथितो बहिरन्तःस्फुरद्रसः " इति लक्षणात् ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
तदहमिह सान्ध्यं नियममनुपाल्य परब्रह्मप्रवणमानसं पुरुषमभिरक्षामि । भवत्यपि क्षान्तिशान्त्यादिपरिजनसेविता मङ्गलाचरणसौधमधिरुह्य मत्प्रत्यागमनप्रतीक्षा वर्तेथाः ।
(इति सुमत्या सह निष्क्रान्तः) ॥४९॥
मूलम् - ४९
तदहमिह सान्ध्यं नियममनुपाल्य परब्रह्मप्रवणमानसं पुरुषमभिरक्षामि । भवत्यपि क्षान्तिशान्त्यादिपरिजनसेविता मङ्गलाचरणसौधमधिरुह्य मत्प्रत्यागमनप्रतीक्षा वर्तेथाः ।
(इति सुमत्या सह निष्क्रान्तः) ॥४९॥
प्रभावली - ४९
सान्ध्यम्; सन्ध्यासम्बन्धिनं नियमम् । परब्रह्मणि प्रवणमासक्तम् । मङ्गलाचरणमेव सौधं हर्म्यम् । मदागमनं प्रतीक्षमाणा वर्तस्व ॥
इति श्रीनृसिंहराजविरचितायां सङ्कल्पसूर्योदयव्याख्याया प्रभावल्यां मुक्त्युपायारम्भो नाम तृतीयोऽङ्कः ।
इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये मुक्त्युपायारम्भो नाम तृतीयोऽङ्कः
-
तत्त्वविरुद्ध क ↩︎
-
अस्मि omitted घ. ड. च. ↩︎
-
अद्य तावत्-क. ग. घ. ↩︎
-
मुखात्-क. छ ↩︎
-
यद्यपि त्रय्यन्तवादिना त्रयीपूर्वभागमात्रवर्तिनोऽपि निरस्ता एव । तथापि - क. ↩︎ ↩︎
-
‘खलु omitted, ख. ग. ↩︎
-
संरम्भः- क, ↩︎
-
स्वस्यैवाप्तिः–ङ, च, ↩︎
-
परमार्थोपदेशिभिः ग. घ ↩︎
-
सावधान मतिभिः च ; सावधाननिरूपित. क. ↩︎
-
दवदह्यमान -च. ↩︎
-
निबध्येत - ख. ड. छ. ↩︎
-
तिलकभूताः - क. ग. घ. छ. ↩︎
-
युग्मलेन - क. मण्डलेन ख. ↩︎
-
ततः- ग, ड, छ ↩︎
-
तावदिदमनङ्गविजयपताकानामङ्गनानामभिनवयौवनविजृम्भणम् – क. ↩︎ ↩︎
-
पुमर्थान् भ्रूपताका यथार्थान् क ↩︎
-
गोणिकापुत्रयोर्मतमिति मुद्रिते रतिरहस्ये पाठः ↩︎
-
शेमुषीम् – ड. छ. शेमुषीमिति पाठे प्रशमिता या वासना, विरक्तिरित्यर्थः, सा परे निरवधिं तृष्णां परभक्तिरूपां शेमुर्षी पुष्णातीत्यर्थः । अत्र पाठे “ शेमुषी भक्तिरूपा " इति पूर्वाचार्यसूतिसंवादोऽपि विवक्षितः कविनेति स्वारस्यमवधेयम् । ↩︎ ↩︎
-
‘वैराग्यमिदानीमुपधानीभवतिक, परमवैराग्यम् — ख, ग, (अत्रेदमवधेयम् ; विष यवैराग्यं द्विधा — विषयदोषदर्शनजं परब्रह्म दिदृक्षात्वराजं चेति । अत एव स्मर्यते- परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि " इति । परमात्मराग, अपरमात्मविरागं जनय तीति तदाशयः । तत्र पूर्वं कैवल्ये, उत्तरं तु मोक्षे प्रकृष्टोपकारकं भवतीति ।) ↩︎ ↩︎
-
किम्पचानेत्यत्र किं पूर्वात् पचेः औणादिकः आनच् । अतो न मुक् इति बोध्यम् । ↩︎ ↩︎
-
सक्ता -ङ. च. छ; नित्यमुक्ता इत्यपि पाठः प्रभावल्यामादृतः ↩︎ ↩︎
-
तदियं -च. छ. उभयत. स्पाशा रज्जुरित्यपि क्वचित् साम्प्रदायिकः पाठः । तदा स्पाशः ग्रन्थिः । उभयपार्श्वयोरपि ग्रन्थियुक्ता रज्जुरिति तदर्थः । ↩︎ ↩︎
-
All the MSS. except ख read जरीजृम्भते while ख, जरीजृभ्यते. But both the readings are incorrect. The correct reading should be जरीजृम्भ्यते. ↩︎ ↩︎