विश्वास-प्रस्तुतिः - १०३
(नेपथ्ये)
गम्यताम्, गम्यताम् ।
आः कष्टम् आपतितम् ।
राग-द्वेषाभिख्यया ख्यात-पूर्वौ
मृढाव् एतौ दानवौ मोहभृत्यौ ।
निष्प्रत्यूहौ निर्जिहाते+++(←हा गतौ)+++ विरक्तिम्
बन्दीकर्तुं विष्णु-भक्त्या समेताम् ॥ १०३ ॥
English
(Behind the curtain.)
Avaunt!
Avaunt! ‘Sdeath! What
disaster hath befallen !
For:-
- These demons of dolts, Moha’s slaves, called Rāga and Dvesha (Lust and Hate). afore referred to have emerged, in order (after all) to bind irresistibly Virakti (1. Dispassion or Renunciation. ) with Vishnu-bhakti (1. Devotion or Love to Vishnu. ).
मूलम् - १०३
(नेपथ्ये)
गम्यताम्, गम्यताम् । आः कष्टमापतितम् ।
रागद्वेषाभिख्यया ख्यातपूर्वौ
मृढावेतौ दानवौ मोहभृत्यौ ।
निष्प्रत्यूहौ निर्जिहाते विरक्तिम्
बन्दीकर्तुं विष्णुभक्त्या समेताम् ॥ १०३ ॥
प्रभावली - १०३
उत्तराङ्कपात्रं सूचयितुं पीठिकामारचयति- नेपथ्ये गम्यतामित्यादि । आगच्छन्तौ रागद्वेषावालोक्य जनास्तत्रस्थान् वदन्ति - युष्माभिर् गम्यताम्, अन्यत्र पलाय्यतामिति । कष्टं कृच्छ्रं सम्प्राप्तम् । कष्टापतनं विवृणोति - रागेति । रागः द्वेषः इत्यभिख्यया नाम्ना पूर्वख्यातौ दानवौ
X३३२
असुरौ महामोहस्य भृत्यौ विष्णुभक्त्या सहितां विरक्तिम् बन्दीकर्तुं— रागेण विरक्तिः बन्दीक्रियते, द्वेषेण च विष्णुभक्तिः एवं बन्दीकर्तु निर्विघ्नं यथा तथा निर्जिहाते ; निर्गच्छतः । अतो गम्यतामिति पूर्वेण सम्बन्धः । भगवन्निति गुरोः सम्बोधनम् । अद्यान्यस्मिन् क्रियमाणै अन्यदापतितमित्याह - अधेति । वेतालशान्त्यर्थं शान्तिकर्मणि क्रियमाणे वेतालस्योदयः अभिवृद्धिर्भवति । तद्वदिह परपक्षप्रतिक्षेपे क्रियमाणे रागद्वेषोपद्रवः संवृत्त इत्यर्थः । तत्; तस्मात् ।
साधयन्तु गच्छन्तु, समीहितकार्यसमर्थनाय । निर्मूलनाय; समूलोच्छेदनाय प्रयत्नं कुर्मह इति परितोऽपसृत्य निष्क्रान्ताः सर्वे ॥ १०३ ॥
प्रभाविलासः - १०३
पात्रप्रवेशं सूचयति - आः कष्टमित्यादिना । रागद्वेषेति । ख्यात-
पूर्वी; ’ रागप्रमोहमुखम् ’ इत्यत्रेति भावः ॥ १०३ ॥
विश्वास-प्रस्तुतिः - १०४
(सर्वे ससम्भ्रमम् आकर्णयन्ति)
राजा - भगवन्,
अद्य खलु शान्ति-कर्मणि वेतालोदयः संवृत्तः ।
तत् साधयन्तु भवन्तः
समीहित-समर्थनाय ।
वयम् अपि वैरि-बल-निर्मूलनाय सम्प्रयतामहे ।
(इति परिक्रम्य निष्क्रान्ताः सर्वे )
English
(Alarmed, all listen.)
King. -Holy sire! In our attempt to suppress (ghosts), those very ghosts start up; [[167]]
Endeavour for what best may be done for success.
We shall also now strive to totally uproot our foes’ might.
(Thus exeunt all.)
मूलम् - १०४
(सर्वे ससम्भ्रममाकर्णयन्ति)
राजा - भगवन्, अद्य खलु शान्तिकर्मणि वेतालोदयः संवृत्तः । तत्साधयन्तु भवन्तः समीहितसमर्थनाय । वयमपि वैरिबलनिर्मूलनाय सम्प्रयतामहे ।
(इति परिक्रम्य निष्क्रान्ताः सर्वे )
प्रभावली - १०४
इति श्रीनृसिंहराजविरचितायां सङ्कल्पसूर्योदयव्याख्यायां प्रभावल्यां प्रतिमतभङ्गो नाम द्वितीयोऽङ्कः ॥ १०४ ॥
प्रभाविलासः - १०४
अत्र सम्प्रयतामह इति विरक्तिविष्णुभक्त्यादिसहायगवेषणयत्नवर्ण-
X३३३
नात् वर्णसंहाराख्यं प्रतिमुखसन्धेरङ्गमुक्तम्, “ सहायानुवृत्तिवर्णनेन कथाया वर्णनं वर्णसंहृतिः " इति लक्षणात् ।
इति1 श्रीमहोबलाचार्यकृते सङ्कल्पसूर्योदयव्याख्याने प्रभाविलासाख्याने प्रतिमतभङ्गो नाम द्वितीयोऽङ्कः । ॥ १०४ ॥
विश्वास-प्रस्तुतिः
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमट्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये प्रतिमतभङ्गो2 नाम द्वितीयोऽङ्कः । ॥ १०४ ॥
English
FiniAct II, termed Parapaksha-Pratikshēpa (Refutation of opponents.) AUM. ÔM-A-U-M) SANKALPA-SURYODAYA
मूलम्
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमट्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये प्रतिमतभङ्गो2 नाम द्वितीयोऽङ्कः । ॥ १०४ ॥