०५ जय-घोषः

विश्वास-प्रस्तुतिः - ९५

राजा - ब्रह्मन्,

+++(भाट्टनिभास् तत्त्वभ्रष्टाः, शाङ्करा वृत्तभ्रष्टाः, चार्वाकनिभा उभयभ्रष्टा इति परिगणय्य)+++

तत्त्व-वृत्तोभय-भ्रष्ट-+++(←त्रिविध)+++
पाषण्डि-गण-सङ्कुलः।
कृती भवति +++(“कलि”)+++कालोऽयं
कृतिना सम्प्रति त्वया ॥ ९५ ॥+++(5)+++

English

King.-0, Brahmana best!

1. Wise thou art, that by thee, this (Kali-)age, vitiated as it is by the (threefold) [[163]] heretics,

  • Tatva-lost, (Those who have missed the true perception of Verity (Reality) Bhatta etc. )
  • Vritta’-lost, (2. Those who have missed the true virtuous practice or conduct (Achara) Sankara, etc. ) and
  • both-lost", (Both (1) and (2) absent z., neither perceivers of truth nor knowers of good conduct - Charvaka. etc. )

hath into Krita-age been transmuted.

मूलम् - ९५

राजा - ब्रह्मन्,

तत्त्ववृत्तोभयभ्रष्टपाषण्डि गणसङ्कुलः1

कृती भवति कालोऽयं कृतिना सम्प्रति त्वया ॥ ९५ ॥

प्रभावली - ९५

X३२६
राजा शिष्यं प्रशंसति ब्रह्मन्निति । तत्त्वेति । तत्त्वभ्रष्टः, वृत्तभ्रष्टः, उभयभ्रष्टः । तत्त्वं ज्ञानम् । वृत्तमाचारः । तत्त्वज्ञानाद्भष्टाः भाट्टप्राभाकराः । वृत्तभ्रष्टाः शङ्करादयः । उभयभ्रष्टाः चार्वाकबौद्धादयः ।

" तत्त्वपाषण्डिनः केचिद्वृत्तपाषण्डिनः परे ।

अपरे तत्त्ववृत्ताभ्यां ज्ञेयाः पाषण्डिनः कलौ ॥

इत्युक्तेः । एवं त्रिविधपाषण्डिगणसङ्कुलः अयं कालः कलियुगाख्यः सम्प्रति कृतिना कुशलेन विदुषा च त्वया कृतकृत्यो भवति ; कृतयुगीभवति च ॥ ९५ ॥

प्रभाविलासः - ९५

तच्चेति । तत्त्वभ्रष्टाः शैवादयः । वृत्तभ्रष्टाः विशिष्टाद्वैतैकदेशिनो दर्शनाभिनिवेशेन त्यक्तवैदिकाचाराः । केचिदुभय भ्रष्टाः कुदृष्टिप्रभृतयः ; ते हि प्रायेणावैदिककर्माभिनिवेशवन्तः । अत्र राजवाक्येनानुवर्तन- प्रतीतेर्दाक्षिण्यं नाम नाट्यालङ्कारः, " दाक्षिण्यं लक्ष्णया वाचा परचित्तानु वर्तनम् " इति लक्षणात् ॥ ९५ ॥

विश्वास-प्रस्तुतिः - ९६

शिष्यः- महाराज, सर्वम् एतद् भगवतः +++(आचार्यस्य)+++ प्रसादेन ।
अद्य हि-

कणाद-परिपाटिभिः कपिल-कल्पना-नाटकैः
कुमारिल-कु-भाषितैर् गुरु-निबन्धन-ग्रन्थिभिः ।
तथागत-कथा-शतैस् तद्-अनुसारि-जल्पैर् अपि
प्रतारितम् इदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥ ९६ ॥

English

Pupil. Great king! All that, by the grace of this Acharya. and

  1. What by Kānāda-methods, Kapila-designed drama, what by Kumārila’s jargons and Guru-tied knots, what (again) by Tathagata-rigmaroles and others’ ravings, was the world imposed upon, hath all now, by Yatindra’s deliverances, been restored to sense.
मूलम् - ९६

शिष्यः- महाराज, सर्वमेतद्भगवतः प्रसादेन2 । अद्य हि-

कणादपरिपाटिभिः कपिलकल्पनानाटकैः

कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ।
तथागत कथाशतैस्तद्नुसारिजल्पैरपि

प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ९६ ॥

प्रभावली - ९६

भगवतः प्रभावेणेति । भगवच्छन्दः विवेकपरः ; गुरुपरो वा । उक्तमेव दर्शयति-अद्य हीति । कणादेति । कणादस्य परिपाटयः वैशेषिक-
ग्रन्थाः । कपिलस्य कल्पना साङ्ख्यशास्त्राणि । तान्येव नाटकानि, अनृजुत्वात् । कुमारिलस्य भट्टस्य सुभाषितानि सुभाषितसदृशैः ग्रन्थैः । गुरोः प्राभाकरस्य निबन्धनान्येव ग्रन्थयः ; पीडावहत्वात् । तथागतस्य सुगतस्य कथा कथावदनृजुभिः शतैः ग्रन्थशतैः । तदनुसारिणः शङ्करादयः, तेषां प्रलापैः । इदमनुक्तानामप्युपलक्षणम् । वञ्चितं जगत् यतीन्द्रोक्तिभिः श्रीभाष्यादिभिः प्रगुणितं प्रकृष्टज्ञानादिगुणयुक्तं कृतम् ; स्वस्वरूपेऽवस्थापितमिति यावत् ॥ ९६ ॥

प्रभाविलासः - ९६

X३२७

कणादेति । कणादस्य परिपाटिभिः रीतिभिः । प्रगुणितम् ;

निष्कण्टकीकृतमित्यर्थः ॥ ९६ ॥

विश्वास-प्रस्तुतिः - ९७

किञ्च,

मुकुन्दाङ्घ्रि-श्रद्धा–कुमुद-वन–चन्द्रातप-निभा
मुमुक्षाम् अक्षोभ्यां ददति मुनि-वृन्दारक+++(=देव)+++-गिरः । स्व-सिद्धान्त-ध्वान्त-स्थिर–कुतुक-दुर्वादि-परिषद्–
दिवा-भीत+++(=उलूक)+++–प्रेक्षा–दिन-कर–समुत्थान-परुषाः ॥ ९७ ॥

English

Further :-

  1. The verdicts of the Muni-lord (= Rāmānuja) which act as the moon-light [[164]] to the (blue) lotus’-garden of Vaikunthalove, provoke (in all) yearning for deathless deliverance. They are like the sun risen, piercing into the eyes of those owls, viz., the synod that revels in the night of its own school.

(The blue lotus blossoms at the appearance of the Moon, like the red lotus, at that of the Sun. )

मूलम् - ९७

किञ्च,

मुकुन्दाङ्घ्रिश्रद्धाकुमुदवनचन्द्रातपनिभा

मुमुक्षामक्षोभ्यां ददति मुनिवृन्दारकगिरः ।

स्वसिद्धान्तध्वान्तस्थिर कुतुकदुर्वादिपरिषद्-

दिवाभीतप्रेक्षादिनकरसमुत्थानपरुषाः ॥ ९७ ॥

प्रभावली - ९७

यतीन्द्रसूक्तीरभिष्टौति – मुकुन्देति । मुकुन्दाङ्घ्रिविषयिणी या श्रद्धा आदरातिशयः सैव कुमुदवनं तस्य चन्द्रातपसदृशाः । स्वसिद्धान्तेति ; स्वसिद्धान्त एव ध्वान्तं तत्र स्थिरं कुतुकं येषां तेषां दुर्वादिनां परिषदेव

X३२८
दिवाभीतः उलूकः, तस्य प्रेक्षायाः दिनकरस्य सूर्यस्य समुत्थानवत् उदयवत् निष्ठुराः । मुनिवृन्दारकस्य ; मुनीन्द्रस्य श्रीमाष्यकारस्य । गिरः शृण्वत्ताम् जनानाम् अक्षोभ्यां परैरविचाल्यां मोक्षेच्छां ददति ॥ ९७ ॥

प्रभाविलासः - ९७

मुकुन्देति। मुनिबृन्दारकः ; मुनिदेवः । स्वसिद्धान्त एव ध्वान्तः,
तत्र स्थिरकुतुकानां दुर्वादिनां परिषदेव दिवाभीता उल्लूकाः, तेषां प्रेक्षाया दृष्टेः दिनकरसमुत्थानवत् सूर्योदयवत् परुपाः कठिनाः ॥ ९७ ॥

विश्वास-प्रस्तुतिः - ९८

सेनापतिः—- देव,

वशं-वद+++(=स्वाधीन)+++–वचो-वृत्तिर्
वादाहव–महा-रथः ।
परिभूत-विपक्षो ऽसौ
पारितोषिकम् अर्हति ॥ ९८ ॥

English

Senapati. My lord!

  1. Master of speech, veteran of worddebate, victor over factions, this (Arya) meriteth honors.
मूलम् - ९८

सेनापतिः—- देव,

वशंवदवचोवृत्तिर्वादाहव महारथः ।

परिभूतविपक्षोऽसौ पारितोषिकमर्हति ॥ ९८ ॥

प्रभावली - ९८

देवेति विवेकसम्बोधनम् । दुर्वादिविजयादयं पारितोषिकार्ह इत्याह- वशंवदेति । वचोवृत्तिः ; वाग्व्यवहारः; सा वशंवदा स्वाधीना यस्य सः । वादाख्ये आहवे महारथः । परिभूताः पराजिताः विपक्षा येन सः । परितोषेण देयं वस्तु पारितोषिकम् ॥ ९८ ॥

प्रभाविलासः - ९८

वशंवदेति । स्वदर्शनतदनुबन्धिरक्षणं कुर्वन् परपक्षमजयदिति महा-

रथत्वरूपणम्,

" आत्मानं सरथिं चाश्वान् रक्षन् युध्येत यो नरः ।

स महारथसञ्ज्ञः स्यादित्याहुनतिकोविदाः ॥

६ •

,

इत्युक्तत्वात् । अत्रोपन्यासो नाम प्रतिमुखसन्धेरङ्गमुक्तम्, पारितोषिकदाने वशंवदेत्यादिनोपपत्तिकथनात् । तदुक्तम् - उपपत्तियुतं वाक्यमुपन्यासं प्रचक्षते " इति ॥ ९८ ॥

विश्वास-प्रस्तुतिः - ९९

शिष्यः - सेनापते,

दयया देशिकेन्द्रस्य
दृष्ट्या चास्य महीपतेः ।
परितोषेण चैवं ते
प्राप्तो ऽहं पारितोषिकम् ॥ ९९ ॥

English

Pupil.-General !

  1. By this Acharya’s grace, by this king’s favor and by thy appreciation too, have I already been honored.
मूलम् - ९९

शिष्यः सेनापते,

दयया देशिकेन्द्रस्य दृष्ट्या चास्य महीपतेः ।

परितोषेण चैवं ते प्राप्तोऽहं पारितोषिकम् ॥ ९९ ॥

प्रभावली - ९९

X३२९
एवम्भूतेन ते परितोषेण चाहं पारितोषिकं प्राप्तवानेव । नेतोऽधिकं वाञ्छामीति भावः ॥ ९९ ॥

प्रभाविलासः - ९९

TODO?? There is no commentary of प्रभाविलास for sloka 99. ॥ ९९ ॥

विश्वास-प्रस्तुतिः - १००

राजा — भगवन्, प्रियहितम् एवासौ वदति ।

सेनापतिः- ततश्च,

सभाजयितुम् इच्छामि
प्रत्यक्षित-सभा-जयम् । एतं भगवतश् छात्रम्
एक-भक्त्या परिष्कृतम् ॥ १०० ॥

English

King.–Holy sire! Fair and sweet speaketh he.

Senapati. But then.

1. Him, the victor in this assembly proved, this holy Guru’s disciple, dight with his (Guru’s) love, I should like to honor.

मूलम् - १००

राजा — भगवन्, प्रियहितमेवासौ वदति ।

सेनापतिः- ततश्च,

सभाजयितुमिच्छामि प्रत्यक्षितसभाजयम् ।

एतं भगवतश्छात्रमेकभक्त्या परिष्कृतम् ॥ १०० ॥

प्रभावली - १००

प्रियं च तत् हितं च तदेव । असौ; सेनापतिः । सभाजयितुम् ; पूजयितुम् । सभाजयः ; सभास्थप्रतिवादिजयः । सर्वैः प्रत्यक्षितः सभाजयो यस्य तम् । भगवतः ; भवत इति शेषः । एकभक्तया ; एका मुख्या भक्तिः, तया; अलङ्कृतम् ॥ १०० ॥

प्रभाविलासः - १००

सभाजयितुमिति । सभाजयितुम् पूजयितुम् ॥ १०० ॥

विश्वास-प्रस्तुतिः - १०१

शिष्यः - महाराज, भगवन्त एव सम्भावनाम् अर्हन्ति ।

गुरुः – त्वम् अपि मन्-नियोगेन ।

राजा -भगवन्,

त्रय्य्-अन्त-स्थापको ऽयं, दृढतरम् अमुना तत्त्व-दृष्टिश्च दिष्टा
दिष्ट्या चादिष्टमेतद् दिशि दिशि लडहो डिण्डिमस्ताडनीयः ।
शुष्कोपन्यास शिक्षापटिमकटुरटद्वैरिविद्वत्करोटी-

कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे विभर्तु ॥ १०१ ॥

मूलम् - १०१

शिष्यः - महाराज, भगवन्त एव सम्भावनामर्हन्ति ।

गुरुः – त्वमपि मन्नियोगेन ।

राजा -भगवन्,

त्रय्यन्तस्थापकोऽयं दृढतरममुना तत्वदृष्टिश्च दिष्टा

दिष्ट्या चादिष्टमेतद्दिशि दिशि लडहो+++(=बन्धुरो)+++ डिण्डिमस् ताडनीयः
शुष्कोपन्यास-शिक्षा-पटिम–कटु-रटद्-वैरि-विद्वत्-करोटी+++(=कपाल)+++–
कुट्टाक+++(=कर्तन)+++-क्रीडम् अष्टा-पद+++(=स्वर्ण)+++-कटकम् असौ वामपादे बिभर्तु ॥ १०१ ॥

English

[[165]]

Pupil.–Great king! This holy sire deserveth it.
Guru.–Thou too, (pupil !) by my mandate.
King.-Holy sire!

1. He (thy disciple) hath stoutly defended Vedanta. He hath also spread the knowledge of Truth. Gladly, I bid diminutive Dindimas (1. A species of kettle-drum) to be drummed in all directions. May he wear this gold bangle round his left foot, to serve as the toyish skull-splitter of those noisy wiseacre foes, firm in the faded farrago of their teachings.

प्रभावली - १०१

मन्नियोगेन ; मच्छासनेन । त्रय्यन्तेति । अयम्; भगवतः शिष्यः

X३३०
त्रय्यन्तसिद्धान्तस्थापकः । दृढतरं स्थापक इति वा सम्बन्धः । अमुना तत्त्व- ज्ञानं दृढतरं दत्तम् । एतज्जयसूचनाय लडहो डिण्डिमः चारुर्वाद्यविशेषः दिशि दिशि ताडनीय इत्येतत् आदिष्टम् । शुष्केति । शुष्कोपन्यासः ; वितण्डा अप्रामाणिकप्रलापः, तच्छिक्षाया पटिमा पटुत्वं तेन क्रूरं यथा तथा नदन्तः शब्दयन्तः, ये वरिविद्वांसः प्रतिवादिनः तेषा करोटीषु शिरोऽस्थिषु कुट्टनं करोतीति कुट्टाका क्रीडा यस्य तत् ।

अष्टापदकटकं स्वर्णमञ्जीरं मया दत्तं वामे पादे धारयतु ॥ १०१ ॥

प्रभाविलासः - १०१

त्रय्यन्तेति । दिष्टा ; निरूपिता । शुष्कोपन्यासस्य शिक्षाया अभ्यासस्य पटिम्ना दार्ढ्येन कटु कठिनं यथा तथा रटतां प्रलपतां वादिविदुषां करोटीषु शिरोऽस्थिषु कुट्टाकं कुट्टनं, तदेव क्रीडा यस्य तत् । वाम- पादे ; ‘पदमदक्षिणं लक्ष्यताम्’ इत्युक्तलक्षणवामपादे इत्यर्थः ॥ १०१ ॥

विश्वास-प्रस्तुतिः - १०२

(इति कटकं ददाति)

शिष्यः – (गुरुमवलोकयति)

गुरुः - भद्र, अस्त्व् एवम्, अ-लङ्घनीया खलु राजाज्ञा ।

शिष्यः - यद् आज्ञापयति भगवान् ।
( इति कटकम् आधत्ते)

गुरुः - आयुष्मन्, अवधार्यताम् एतद् अद्य प्रभृति ते कर्तव्यम् -

सत्-कार–कीर्ति–धन-लब्धिषु निर्व्यपेक्षः
प्रश्नोचितेषु +++(=शिष्येषु)+++ परया कृपया प्रसीदन्
सत्-तर्क-तन्त्र-परिकर्मितम् आशरीराच्
छारीरक-प्रवचन-व्रतम् आद्रियेथाः ॥ १०२ ॥

शिष्यः - यद् आदिशति भगवान् ।

English

(Thus saying presents the bangle.)
Pupil. - (Turns to the Guru-for permission-)
Guru. -So be it. Irrefragable forsooth is the King’s flat.
Pupil. With thy permission, holy sire!
(So saying accepts the bangle.)
Guru.-Long-lived! Attend to this, what hence forward thou shalt do:-

[[166]]

Coveting no honor, fame or wealth,
gracious unto (thy) disciples,
eager to learn, be engaged, as long as thy body lasteth,
in the promulgation of the Sārīraka Science (1 The Brahma-Sutras and their right Commen-taries based on the Upanishads), supported by sound logic.

Pupil.-Aye, as the holy sire directeth.

मूलम् - १०२

(इति कटकं ददाति)

शिष्यः – (गुरुमवलोकयति)

गुरुः - भद्र, अस्त्वेवमलङ्घनीया खलु राजाज्ञा ।

शिष्यः - यदाज्ञापयति भगवान् । ( इति कटकमाधत्ते)

गुरुः - आयुष्मन्, अवधार्यतामेतदद्य प्रभृति ते कर्तव्यम् -
सत्कारकीर्तिधनलब्धिषु निर्व्यपेक्षः

प्रश्नोचितेषु परया कृपया प्रसीदन् ।

सत्तर्कतन्त्र परिकर्मितमाशरीरा-

च्छारीरक प्रवचनव्रतमाद्रियेथाः ॥ १०२ ॥

शिष्यः - यद् आदिशति भगवान् ।

प्रभावली - १०२

अस्त्वेवम्; तथास्तु धारयेत्यर्थः । आधत्ते धारयति । इतः परं

कर्तव्यं शिष्यस्याज्ञापयति- अवधार्यतामिति । कर्तव्यं सङ्गृह्य उपदिशति—

X३३१
सत्कारेति । सत्कारः; पूजा । कीर्तिः ; ख्यातिः । धनस्य लब्धिः ; लाभः । ख्यातिलाभ पूजास्वित्यर्थः । निर्व्यपेक्षः ; अपेक्षारहितः । प्रश्नोचितेषु ; उचित- प्रश्नेषु शिष्येष्वित्यर्थः । सत्तर्कः ; प्रमाणानुग्राहकस्तर्कः । सतर्करूपं यत् तन्त्रं ब्रह्ममीमांसा तेमालङ्कृतम् । शारीरकस्य वेदान्तशास्त्रस्य प्रवचनं व्याख्यानं, सत्र व्रतं नियमम् । आशरीरम् ; एतद्देहावसानावधि । आद्रियेथाः ; आदरेण कुर्वित्यर्थः ॥ १०२ ॥

यदादिशतीत्यङ्गीकृतवान् ।

प्रभाविलासः - १०२

सत्कारेति । धनलब्धिः ; धनलाभः ॥ १०२ ॥


  1. पाषण्ड——क ख ↩︎

  2. प्रभावेण—ग ↩︎