१४ सिद्धान्तः

विश्वास-प्रस्तुतिः - ९४

इदं किल निखिलोपनिषद्-एक-रहस्यम् -

मिथो भेदं तत्त्वेष्व् अभिलपति भेद-श्रुतिर्,

अतो विशिष्टैक्याद् ऐक्य-श्रुतिर् अपि च सार्था भगवती ।+++(5)+++

इमाव् अर्थौ गोप्तुं
निखिल-जगद्-अन्तर्यमयिता
निरीशो लक्ष्मीशः श्रुतिभिर् अपराभिः प्रणिदधे ॥ ९४ ॥

English

[[162]]

But this is the quintessence of all the Upanishads, (thus) :

1. The Bheda’-texts (Bheda Duality Dvaita: प्रेरितारं च मत्वा &c. ) proclaim relative differences amongst the Verities, and the holy Aikya-texts (Aikya-Monistic = Advaita सर्वं खल्विदं ब्रह्म ) are significant by their relative Unity. And to support both these senses, other scriptural texts (यः पृथिव्यां तिष्ठन् (Ghataka Sruti)Reconciling or harmonising texts. ) declare the Verity (to be) the Cosmos- Immanent Over-Lord-the Lakshmi-Lord.

(1. Verities or Categories are (a) Matter-non-soul. (b) Soul, and (c) God, all the three existing as a Unity-inDifference, ie., iu Visishtadvaitic Unison, or in indiscerptible relation together. )

मूलम् - ९४

अत एव निर्गुणब्रह्मवादिनां प्रच्छन्नबौद्धप्रसिद्धिवदनयोरपि जैनगन्धिवेदान्तिनाविति नामधेयमनुशोश्रूयामहे । इदं किल निखिलोपनिषदेकरहस्यम्-1
मिथो भेदं तत्त्वेष्वभिलपति भेदश्रुतिरतो2

विशिष्टैक्यादैक्यश्रुतिरपि च सार्था भगवती ।

इमावर्थौ गोप्तुं निखिलजगदन्तर्यमयिता

निरीशो लक्ष्मीशः श्रुतिभिरपराभिः3 प्रणिदधे ॥ ९४ ॥

प्रभावली - ९४

एवं जैनैः समानयोगक्षेमत्वात् जैनगन्धिवेदान्तिनाविति नाम जगति प्रसिद्धमित्याह- अत एवेति । तत्र दृष्टान्तमाह-निर्गुणब्रह्मवादिनाम् ; शङ्करस्य । एकस्मिन् बहुवचनम् । प्रच्छन्नबौद्ध इति यथा प्रसिद्धं जगति नाम, तद्वदनयोः भास्करयादवयोरपि जैनगन्धिवेदान्तिनाविति नाम निन्यमनुशृणुम इत्यर्थः । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते " इति पाद्मे पुराणे । एवं जैनगन्धिवेदान्तिनाविति पूर्वाचार्यग्रन्थेषु । एकस्य वस्तुन ऐकरूप्यानङ्गीकारात् जैनग- न्धित्वमिति भावः । शङ्करादिभिरुक्तार्थस्य वेदान्तार्थत्वव्यावृत्तये सकलवेदान्तसारार्थं सङ्गृह्य दर्शयति- इदं किलेति । यद्वा भवन्मते मिथो विरुद्धार्थयोर्भेदा-

X३२४
भेदश्रुत्योः कथं निर्वाह इत्याकाङ्क्षायामस्मन्मतरहस्यं श्रूयतामित्याह - इदमिति । एकं रहस्यम्; ऐककण्ठ्यरूपम् । रहस्यार्थमेव दर्शयति– मिथ इति । असौ भेदश्रुतिः ; मायिभिः निरस्यमाना भेदश्रुतिः “द्वा सुपर्णा” इत्यादिः । तत्त्वेषु ; चिदचिदीश्वरेषु । मिथः स्वरूपभेदं वदति । ऐक्यश्रुतिः, “सर्व खल्विदम्

। ब्रह्म इत्यादिका । विशिष्टैक्यात्; चिदचिद्विशिष्टब्रह्मणः एकत्वेनैक्यप्रतिपाद-
नात् । साथ; सप्रयोजना । भगवती ; पूज्या ; विशिष्टाद्वैतप्रतिपादनात् विशिष्टाद्वैतज्ञानस्य उपासनादाववश्यम्भावात् । इमावर्थौ; भेदं चाभेदं च । गोप्तुम्; मुख्यार्थतया रक्षितुम् । निखिलजगतामन्तर्यामी सर्वशरीरी निरीशः नियन्त्रन्तररहितः लक्ष्मीपतिः अपराभिः श्रुतिभिः ; “यः पृथिव्यां तिष्ठान् " " य आत्मनि तिष्ठन् " " सर्वभूतान्तरात्मा” इत्यादिकाभिः । प्रणिदधे ; अभिहितोऽभूत् । तस्मादस्मन्मते सर्वश्रुतीनामविरोधो मुख्यार्थत्वं चेति भावः ॥ ९४ ॥

प्रभाविलासः - ९४

जैनगन्धिवेदान्तिनाविति; एकस्य वस्तुनः ऐकरूप्याकथनात् तथात्वम् । सूत्रकृतापि तन्मतं प्रतिक्षिप्तम् - " नैकस्मिन्नसम्भवात् " इति । स्वमते भेदाभेदश्रुतिनिष्कर्षणं दर्शयन् तासां श्रुतीनामर्थं दर्शयति– मिथ4
इति । भेदश्रुतिः ; " द्वासुपर्णा सयुजा सखायौ ” इत्यादिभेदप्रतिपादिका श्रुतिः । तत्त्वेषु चिदचिदीश्वरतत्त्वेषु । मिथः ; परस्परम् । भेदमभिलपति ; कथयति । यदि भेद एव तत्त्वं, तर्हि अभेदश्रुतेः का गतिरित्याशङ्क्याह — अत इति । यतो भेदश्रुतिस्तत्त्वेषु परस्परभेद प्रतिपादनमात्रपरा, अतो हेतोर्भगवती ऐक्यश्रुतिः ; " सर्वं खल्विदं ब्रह्म " इत्याद्यभेद- प्रतिपादिका श्रुतिरपि विशिष्टैक्यात् चिदचिद्विशिष्टस्य ब्रह्मण एकत्वात् साथ अर्थवती, न तु विहितभेदनिषेधपरत्वादित्यर्थः । एवं भेदाभेद-

X३२५

श्रुत्योर्विषयं विविच्य घटकश्रुतीनामपि विषयं विविनक्ति - इमाविति । यमयिता; निखिलजगदन्तर्यामितया समस्तं जगदन्तः प्रविश्य नियन्ता । निरीशः ; स्वस्थ नियन्त्रन्तर र हितः । लक्ष्मीशः श्रियः पतिः । अपराभिः श्रुतिभिः ; " यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति, य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति " "

एष सर्वभूतान्तरात्मा” " अपहतपाप्मा दिव्यो देव एको नारायणः " इत्यादिभिश्चिद- चितोर्ब्रह्मणश्च शरीरात्मभावप्रतिपादिकाभिः श्रुतिभिः । इमौ ; भेदविशिष्टैक्य- रूपावर्थौ । गोप्तुम् ; घटक श्रुत्युक्तशरीरशरीरिभावमन्तरेण तयोर्मुख्यार्थत्वाघटनात् रक्षितुमित्यर्थः । प्रणिदधे; अभिहितः । एवं सति भेदाभेदश्रुत्योर्मुख्यार्थापरित्यागः शारीरकसूत्रस्वारस्यं चेत्यभिप्रायः । इतरेषु व्याख्यातृषु सूत्रास्वारस्यं तत्र तत्र भाष्ये द्रष्टव्यम् । शरीरलक्षणं च कणादादिभिरभिहितं त्रय्यन्तस्थापितशरीराविषयं मन्वानेन भगवता भाष्यकारेण " यस्य चेतनस्य यत् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यं शैषतैकस्वरूपं तत् तस्य शरीरम् " इति वदताभ्यधायि ॥ ९४ ॥


  1. ऐकरस्यम्—–क ख ↩︎

  2. असौ—क ख ङ ↩︎

  3. रमूभिः?“—च ↩︎

  4. मिथ इति । भेदश्रुतिः ; “भोक्ता भोग्यं प्रेरितारं च मत्वा पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति " " पतिं विश्वस्यात्मेश्वरम्” इत्यादिका | ऐक्यश्रुतिः ; " सर्व खल्विदं ब्रह्म" " तत्त्वमसि " इत्यादिका । तस्या अर्थमाह- विशिष्ठैक्यादिति । अपराभिः ; यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" इत्यादिभिः । गोष्तुम् ;मुख्यार्थापरित्यागेन घटयितुम् । निष्पन्नमर्थमाह – जगदन्तर्यमथितेति । " नेह नानास्ति " इति श्रुतिमर्थतो विशदयति– निरीश इति । “न तत्समश्चाभ्यधिकश्च दृश्यते " इति श्रुत्यन्तरानुगुण्येनेश्वरान्तरभेदनिषेधपरा सेति भावः । देवताविशेष निर्णयार्थमाह- लक्ष्नीश इति । – A. ↩︎