१३ भास्कर--यादव-प्रकाशौ

विश्वास-प्रस्तुतिः

शिष्यः – भगवन्, पक्षान्तरम् अपि प्रतिक्षिपामि ।

यदि भास्कर–यादव-प्र-
काशौ निगमान्त-स्थिति-निर्णय-प्रवीणौ ।
अपरैः किम् इवापराद्धम्
आर्यैर् अ-यथा-भाषण–चातुरी-धुरीणैः ॥ ९३ ॥

अत एव निर्गुण-ब्रह्म-वादिनां प्रच्छन्न-बौद्ध-प्रसिद्धिवद्
अनयोर् अपि (कस्यापि वस्तुनः एकस्यानङ्गीकारात्) जैन-गन्धि-वेदान्तिनाव् इति नामधेयम् अनुशोश्रूयामहे

English

Pupil. Holy sire! (Then) I shall rebut the other variants (of this Advaitic doctrine.)

1. If Bhaskara and Yadava-prakasa could be adepts in determining the real position of the Vedanta, what affront is imputable to the other protagonists (Buddha, Jinā, etc,) experts in expounding self-contradictions?

It is for this reason then we hear that in the manner the Absolute Brahmanupholders (Sankara etc., uphoiders of Brahman divorced of every atribute -or the subjective Idealists) are held to be pseudo-Bauddhas, these (Bhaskara and Yadavaj also are held to be Jaina’-smacking Vedantins. (कस्यापि वस्तुनः एकस्यानङ्गीकारात् जैनगन्धित्वं )

मूलम्

शिष्यः – भगवन्, पक्षान्तरमपि प्रतिक्षिपामि ।

यदि भास्कर यादवप्रकाशौ

निगमान्तस्थितिनिर्णयप्रवीणौ1

अपरैः किमिवापराद्धमार्यै-

रयथाभाषणचातुरीधुरीणैः ॥ ९३ ॥

अत एव निर्गुणब्रह्मवादिनां प्रच्छन्नबौद्धप्रसिद्धिवदनयोरपि जैनगन्धिवेदान्तिनाविति नामधेयमनुशोश्रूयामहे ।

प्रभावली

पक्षान्तरमपि भास्करादिपक्षमपीत्यर्थः । प्रतिक्षिपति यदीति । निगमान्तस्थितेः वेदान्तार्थस्य निर्णये समर्थों यदि । अपरैः; जिनादिभिः । आर्यैः; तन्मतस्थानां पूज्यैः । अयथाभाषणम् ; स्यादस्ति स्यान्नास्तीति परस्परव्याघातभाषणम् ; तन्त्र चतुरैरित्यर्थः । किमपराद्धम् ; को वापराधः कृतः । ते वा वेदान्तार्थ-
निर्णायका भवन्तु । वेदान्तार्थविरुद्धप्रलापिनस्त इति चेत्, तदत्रापि समानमिति भावः ॥ ९३ ॥

X३२३

प्रभाविलासः

यदीति । भास्करयादवप्रकाशौ निगमान्तस्थितिनिर्णयप्रवीणौ यदि वेदान्तस्थितिनिश्चयनिपुणौ यदि । अयथाभाषणचातुरीधुरीणैः; स्यादस्ति, स्यान्नास्ति इत्ययथाभाषणचातुरीधुरीणैः । अपरैरार्यैः बालैः । किमिवापराद्धम् ; यथा वाह्या वेदान्त-
निर्णयाय न प्रवीणाः, तथा तावपि न वेदान्तनिर्णयप्रवीणावित्यर्थः ॥ ९३ ॥


  1. परमार्थस्थिति—घ ↩︎